०९ कालविधिः

(पृ० ५९)

अथ कालं प्रवक्ष्यामि सर्वेषां तु सुखावहम् ।
माघमासं विना शस्तं भानोरयनमुत्तरम् ॥ ११।१ ॥
दक्षिणे त्वरिते मासौ कार्तिकाश्वयुजावपि ।
श्रावणश्च विधीयन्ते तदन्ये निन्दिता मताः ॥ ११।२ ॥
शुक्लपक्षः शुभोऽन्यश्च सप्तम्यन्तोऽसितो मतः ।
शुक्ले वाद्यतृतीयांशं कृष्णे चान्त्यं तु वा त्यजेत् ॥ ११।३ ॥
मध्यमौ मध्यगौ भागौ श्रेष्ठावन्यौ प्रकीर्तितौ ।
नवमीं पञ्चदश्यौ च हित्वा युग्मेतरं तिथिम् ॥ ११।४ ॥
आद्यामपि च युग्मासु द्वितीयां दशमीं तथा ।
कृष्णे षष्टिं च याः शिष्टास्ताः सर्वानिन्दितास्त्विह ॥ ११।५ ॥
रोहिणी चोत्तरास्तिस्रो हस्तं स्वाती पूनर्वसू ।
अनूराधाश्वयुक् सौम्यं वैष्णवं वारुणं मघा ॥ ११।६ ॥
चित्राश्रविष्ठापौष्णाश्च मनुजेषु प्रशंशिताः ।
पूज्याः शतभिषक् चैव विशाखा पूर्वजैः सह ॥ ११।७ ॥
देवेषु कथितं रौद्रं सर्वमेतच्छिवे मतम् ।
मानुषे पौष्यपौष्णाश्च तदन्ये निन्दितास्त्विह ॥ ११।८ ॥
वारौ कुजार्कौ हित्वा च देववारः प्रशंसितः ।
मनुष्यैरपि वारं च वर्जयेत्तु सितापरम् ॥ ११।९ ॥
झषलक्षगते भानौ वेश्मारम्भं विवर्जयेत् ।
शुभकर्म न कर्तव्यं जीवे चास्तं गते बुधैः ॥ ११।१० ॥
शुक्रस्यास्तमये वाऽपि प्रतिष्ठाद्यं न कारयेत् ।
दिवा गर्भप्रतिष्ठा च शर्वर्यां वास्तुकर्म च ॥ ११।११ ॥
सर्वदोषकरं प्रोक्तं रात्रावावेशनं भवेत् ।
रात्रौ वास्तुबलिं ग्रामे नाग्नौ कुर्यात्कथञ्चन ॥ ११।१२ ॥
उत्तमः स्थिरराशिः स्यान्मध्यमस्तूभयात्मकः ।
विवर्ज्यश्चरराशिस्तु सजीवश्चेच्छुभप्रदः ॥ ११।१३ ॥
गुरुभार्गवचान्द्रीणामुदयः सम्प्रशस्यते ।
गुरूदयस्तु विप्राणां भूपतीनां भृगूदयः ॥ ११।१४ ॥
विशां बुधोदयः श्रेष्ठः शूद्रे चैवं विधीयते ।
त्रिषडेकादशस्थाने पापास्तु निशि शोभनाः ॥ ११।१५ ॥
व्ययं हित्वा शुभाः सर्वे सर्वत्र शुभदा मताः ।
चतुरश्रे शुभाः पापा वर्जनीया विशेषतः ॥ ११।१६ ॥
उभयस्थं हिमांशु च षट्सप्तमगतं शुभम् ।
वर्जयेद्देशिको धीमान् पञ्चगोचरसंस्थितः ॥ ११।१७ ॥
कण्टकं ब्रह्मदण्डं च स्थूणमुक्तं ग्रहेण च ।
युक्तं च काङ्क्षितञ्चोडुं सन्त्यजेद्देशिकोत्तमः ॥ ११।१८ ॥
वेधितर्क्षं व्यतीपातं वज्रं शूलं तथैव च ।
विष्कम्भं परिघं चैव गण्डं वैधृतिहर्षणे ॥ ११।१९ ॥
तथाऽतिगण्डमन्दर्क्षं षडशीतिमुखं तथा ।
मासशून्यं ग्रहैर्भिन्नं दग्धवारं तथैव च ॥ ११।२० ॥
ग्रहदोषसमाविष्टज्वालानक्षत्रकादि यत् ।
तिथिनक्षत्रमासाब्दायनान्तं च वर्जयेत् ॥ ११।२१ ॥
अधिमासं त्यजेद्धीमान् देशिकस्तु विशेषतः ।
यजमानानुकूलर्क्षे स्वल्पदोषे गुणाधिके ॥ ११।२२ ॥
पूर्वाह्णे वाथ मध्याह्ने लग्ने ग्रहवलान्विते ।
कारयेद्वास्तुकर्मैतत्सर्वसम्पत्समृद्धये ॥ ११।२३ ॥

॥ इति कामिकाख्ये महातन्त्रे कालविधिः नवमः पटलः ॥