(पृ० ५४)
अतः परं प्रवक्ष्यामि वह्निकार्यविधिक्रमम् ।
वैदिकं मिश्रकं शैवमग्निकार्यं त्रिधा स्मृतम् ॥ १०।१ ॥
केवलैर्वैदिकैर्मन्त्रैर्विहितो वैदिको भवेत् ।
मन्त्रैश्च वैदिकैः शैवैर्विहितो मिश्र उच्यते ॥ १०।२ ॥
केवलैः शिवमन्त्रैस्तु विहितः शैव उच्यते ।
उत्पादने क्रमस्त्वेवं विहितः शिवशासने ॥ १०।३ ॥
त्रिभिः परिधिभिश्चोर्ध्वसमिद्भ्यां संयुतस्तु यः ।
वैदिकाग्निः समुद्दिष्टो मिश्राग्निस्तूभयात्मकः ॥ १०।४ ॥
चतुष्परिधिभिः शैवः शास्त्रेऽस्मिन् सम्प्रकीर्तितः ।
प्रणीता ब्रह्मकूर्चेन संयुक्तो वैदिकः स्मृतः ॥ १०।५ ॥
तथैव मिश्रवह्निस्तु शैवाग्निस्तद्युतो हि वा ।
मिश्रवैदिकयोरग्न्योः स्वरूपं शृणुत द्विजाः ॥ १०।६ ॥
एकविग्रहसंयुक्तो द्विवक्त्रश्च द्विनासिकः ।
षडक्षो मेखलायुक्तः पादत्रयसमान्वितः ॥ १०।७ ॥
चतुः शृङ्गसमायुक्तो द्विशिरा जटिलो मतः ।
उपवीती च मौञ्जीवान् सप्तहस्तसमायुतः ॥ १०।८ ॥
सप्तजिह्वासमायुक्तो वृषवाहनसंयुतः ।
हिरण्या कनका रक्ता कृष्णा जिह्वा च दक्षिणे ॥ १०।९ ॥
सुप्रभा चातिरक्ता च बहुरूपा च वामके ।
एवं जिह्वाः समुद्दिष्टा मिश्राग्नौवैदिकानले ॥ १०।१० ॥
हिरण्या वारुणी जिह्वा कनका मध्यमे स्थिता ।
रक्ता चोत्तरजिह्वा स्यात् कृष्णा याम्यां दिशि स्थिता ॥ १०।११ ॥
सुप्रभा पूर्वजिह्वास्यादतिरिक्ताग्निदिक्स्थिता ।
बहुरूपैशजिह्वा स्याज्जिह्वास्थानं प्रकीर्तितम् ॥ १०।१२ ॥
शैवाग्निः कथ्यते विप्राः शृणुताथ समाहिताः ।
पञ्चवक्त्रयुतं रकं सप्तजिह्वाविराजितम् ॥ १०।१३ ॥
दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् ।
रक्तवस्त्रपरीधानं पङ्कजोपरि संस्थितम् ॥ १०।१४ ॥
बद्धपद्मासनासीनं दशायुधसमन्वितम् ।
कनका बहुरूपा चाप्यतिरक्ता ततः परम् ॥ १०।१५ ॥
सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी ।
ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादितः स्थिताः ॥ १०।१६ ॥
शैवाग्निध्यानमुद्दिष्टं त्रिविधोऽग्निः प्रकीर्तितः ।
वैदिकोऽपि त्रिधा गार्हपत्यः स्याद्दक्षिणोऽनलः ॥ १०।१७ ॥
ततस्त्वाहवनीयस्तु तेषामत्र प्रयोजनम् ।
कारयेद्देशिको धीमान् शैवमिश्रानलोद्भवे ॥ १०।१८ ॥
अनुकल्पं समानीय शैवं सम्पादयेद् गुरुः ।
मिश्रं वा साधयेत्तत्र नियमोऽपि विधीयते ॥ १०।१९ ॥
गार्हपत्यो गृहस्थानां पितॄणां दक्षिणानलः ।
दैवस्त्वाहवनीयस्तु चान्येषामपि शंसितः ॥ १०।२० ॥
बालो युवा च वृद्धश्च क्रमेण परिकीर्तितः ।
प्रतिष्ठार्थं शिवाग्नेस्तु सम्पदर्थं समाहरेत् ॥ १०।२१ ॥
बालाग्निमुत्सवार्थं तु यौवनं परिकल्पयेत् ।
नित्याग्नौ योजयेद् वृद्धमन्यत्रापि च योजयेत् ॥ १०।२२ ॥
अनुकल्पशिवाग्नेस्तु चोत्पादार्थं क्रमो मतः ।
शिवाग्न्युत्पादहोमस्तु श्रेष्ठः सम्परिकीर्तितः ॥ १०।२३ ॥
मिश्राग्न्युत्पादहोमस्तु मध्यमः परिकीर्तितः ।
वैदिके केवलाग्नौ वा शिवमन्त्रान्न योजयेत् ॥ १०।२४ ॥
(पृ० ५५)
शिवाग्नौ वैदिका मन्त्राश्चान्ये वा सम्प्रकीर्तिताः ।
तथैव मिश्रवह्निस्तु वैदिकाग्निस्तु कथ्यते ॥ १०।२५ ॥
ब्रह्मा विष्णुश्च लोकेशा देवाश्चान्ये च ये स्थिताः ।
व्यासो बोधायनश्चापस्तम्बश्चैवाश्वलायनः ॥ १०।२६ ॥
सत्याषाढश्च ये चान्ये मत्तो वेदास्तु सार्थकान् ।
शास्त्राण्यन्यानि श्रोतारः पुराणं च स्मृति तथा ॥ १०।२७ ॥
सूत्रैस्तु निमार्थं तु व्याससङ्क्षेपकारिणः ।
तन्मत?न कृतो योऽग्निः वैदिकः परिपठ्यते ॥ १०।२८ ॥
अदीक्षिताश्च विप्राद्या वैदिकाग्नौ तु केवलम् ।
अधिकारिण इत्युक्ता दीक्षिताः सर्वयोग्यकाः ॥ १०।२९ ॥
उभयाश्रयि?णो ये तु कृत्वादौ वैदिकं पृथक् ।
कुण्डसंस्कारपूर्वं तु शैवाग्निं साधयेत्ततः ॥ १०।३० ॥
मिश्राग्निरेवमुद्दिष्टरतूभयाश्रमयोग्यकः ।
अथवा वैदिके होमे विर्वृत्ते तदनन्तरम् ॥ १०।३१ ॥
शैवोक्तकुण्डसंस्कारान् कृत्वा चाग्निं च तत्पुरा ।
नाभिस्थेऽग्नावपानेन विश्राम्योदानवृत्तिना ॥ १०।३२ ॥
तर्द्बजेन क्रमात् सद्यवामाघोरनरेश्वरान् ।
नित्याग्नि वेशयेद् भूयः शिवाग्निमपि कुण्डके ॥ १०।३३ ॥
एवं मिश्रं तु सम्पाद्य जुहुयात्सर्वमन्त्रकैः ।
विहितेऽन्त्येष्टिकर्मादौ उभयोः सङ्करार्थकम् ॥ १०।३४ ॥
आदौ वा कुण्डसंस्कारं कुर्याद्वैदिकशैवकम् ।
वैदिकाग्न्यवसाने तु शैवं सम्पाद्य वानलम् ॥ १०।३५ ॥
कृत्वा शिवाग्निमन्यत्र तेन संयोजनं नयेत् ।
एवमन्त्येष्टिकर्मादौ साङ्कर्यं सम्मतं त्विह ॥ १०।३६ ॥
अथोऽन्यत्र पृथक् कार्यः श्रद्धावित्तानुसारतः ।
शैवाग्नि सम्प्रवक्ष्यामि कुण्डलक्षणपूर्वकम् ॥ १०।३७ ॥
तथा कुण्डं चतुष्कोणं वृत्ताभं वाथ वारिजम् ।
सर्वकामप्रदं नित्ये हस्तमात्रविनिर्मितम् ॥ १०।३८ ॥
चतुस्त्रिद्व्यङ्गुलास्तिस्रो मैखलैका षडङ्गुला ।
गजोष्ठसदृशा योनिर्मध्ये स्याद् द्वादशाङ्गुला ॥ १०।३९ ॥
कण्ठोङ्गुष्ठप्रमाणेन गर्भश्वभ्रोपरि स्थितः ।
स्थपिडले तदभावे वा संस्कृतेऽग्नि निवेशयेत् ॥ १०।४० ॥
असंस्कृते तु वै कुण्डे शिवाग्निर्नैव सिद्ध्यति ।
अनिष्?पन्ने शिवाग्नौ तु हुतं भवति निष्फलम् ॥ १०।४१ ॥
वीक्षणं शिवमन्त्रेण प्रोक्षणं चास्त्रमन्त्रतः ।
वर्मणाभ्युक्षणं कार्यं ताडनं चास्त्रमन्त्रतः ॥ १०।४२ ॥
उल्लेखनावकिरणपूरणं सेचनं तथा ।
कुट्टनं च ततः कुर्यात्सम्मार्जनमतः परम् ॥ १०।४३ ॥
उपलेपः कुण्डकॢप्तिः कुण्डस्य परिधानकम् ।
कुण्डार्चनं च परिधिविष्टरन्यास एव च ॥ १०।४४ ॥
रेखाचतुष्टयं वज्रकॢप्तिः शृङ्गाटकल्पना ।
एतत्सर्वं तु मतिमान् अस्त्रमन्त्रेण कारयेत् ॥ १०।४५ ॥
आसनं तत्र सङ्कल्प्य देवीं वागीश्वरीं न्यसेत् ।
तद्वद्वागीश्वरं चापि यद्वाकाशतनुं शिवम् ॥ १०।४६ ॥
ध्यात्वा रिरंसुभैसान्यां सङ्गमय्य यथाविधि ।
कल्पं मन्थानुसम्पातं समिधश्चैतयोस्ततः ॥ १०।४७ ॥
शुद्धात्मतत्ववद्वह्निमरणेर्जनितं क्षिपेत् ।
सूर्यकान्तात् द्विजावासात्प्रसूतमथवाऽनलम् ॥ १०।४८ ॥
अनुकल्पविधानेन मन्त्रपूतं नियोजयेत् ।
अयस्कान्तादितोऽकल्पमथवानीय कल्पवित् ॥ १०।४९ ॥
ताम्रपात्रे शरावे वा वीक्षणाद्यैर्विशोधयेत् ।
क्रव्यादांशं परित्यज्य प्रोक्षयेदस्त्रवारिणा ॥ १०।५० ॥
कवचेनावकुण्ठ्याथ ऐमुनायेति विन्यसेत् ।
वह्निबीजं षडङ्गैश्च वह्नेः संयोजनं नयेत् ॥ १०।५१ ॥
मूलेन वौषडन्तेन धेनुमुद्रायुतेन च ।
अमृतीकृत्य सम्पूज्य कुण्डस्यैव प्रदक्षिणम् ॥ १०।५२ ॥
(पृ० ५६)
त्रिधा कृत्वाऽथ जानुभ्यां विन्यसेदवनीं गतः ।
वागीशीगर्भनाड्यां तु स्वात्मनः सम्मुखं यथा ॥ १०।५३ ॥
मूलमन्त्रेण निक्षिप्य स्वात्मानं शिववत्स्मरेत् ।
तोयबिन्दुं ततो दत्वा छादयेत्तु सदिन्धनैः ॥ १०।५४ ॥
दर्भकङ्कणमस्त्रेण जप्तं गर्भस्य रक्षणे ।
देवीहस्ते हृदा बध्वा गर्भाधाननिमित्तकम् ॥ १०।५५ ॥
सद्योजातं समावाह्य हृदयेनाहुतित्रयम् ।
तिलैर्दत्वा पुंसवननिमित्तं वाममर्चयेत् ॥ १०।५६ ॥
शिरसैवाहुतिं तद्वत्सीमन्तोन्नयने पुनः ।
अघोरेण समभ्यर्च्य शिखयैवाहुतित्रयम् ॥ १०।५७ ॥
दत्वा दर्भेण शिखया वक्त्राङ्गानां च कल्पनम् ।
निष्कृतिं च तदा कृत्वा जातकर्म ततो नयेत् ॥ १०।५८ ॥
पुरुषेणार्चनं कृत्वा कवचेनाहुतित्रयम् ।
तिलेनैव तदा कुर्यात्सूतकस्य निवृत्तये ॥ १०।५९ ॥
कुण्डमर्घ्याम्भसा प्रोक्ष्य प्रागग्रानुदगग्रकान् ।
दर्भानास्तीर्य कुण्डस्य समन्तादस्त्रमन्त्रतः ॥ १०।६० ॥
रक्षार्थं शिववह्नेस्तु वक्त्राण्युद्घाटयेत्तदा ।
आहुतित्रितयेनाथ वक्त्राणां पुष्टयेपि वा ॥ १०।६१ ॥
लालापनोदनार्थं च सदिध्मान् पञ्च होमयेत् ।
चतुर्विंशतिसङ्ख्याकान् षोडशाङ्गुलदैर्घ्यकान् ॥ १०।६२ ॥
ईशानं नामकरणे त्वावाह्यास्त्रेण होमयेत् ।
शिवाग्निस्त्वमिति ब्रूयात् मूलमन्त्रपुरः सरम् ॥ १०।६३ ॥
पित्रोर्विसर्जनं कुर्यान्मेखलासु च पूजयेत् ।
इन्द्रादीन् लोकपालांश्च पूजयेत्परिधिष्वपि ॥ १०।६४ ॥
विष्टरे च क्रमेणैव ब्रह्माणं रुद्रमेव च ।
विष्णुमीश्वरमभ्यर्च्य प्रागादिचतसृष्वपि ॥ १०।६५ ॥
गृहीत्वा स्रुक्स्रुवास्त्रेण ह्यभ्युक्ष्य कवचेन तु ।
अवकुण्ठ्य प्रताप्याग्नौ वा भ्राम्य च तदग्रतः ॥ १०।६६ ॥
दर्भाग्रेणैव संस्पृश्य भ्राम्य मध्यं तु मध्यतः ।
पुनराभ्राम्य मूलेन मूलं संस्पृश्य तद्द्वयोः ॥ १०।६७ ॥
तद्वक्त्रपञ्चकं न्यस्य स्रुचि शक्तिं च विन्यसेत् ।
स्रुवे शम्भुं समभ्यर्च्य स्वात्मनो दक्षिणे न्यसेत् ॥ १०।६८ ॥
दर्भाणामुपरिष्टात्तु पूजयेद्धृदयेन तु ।
आज्यमस्त्रेण सम्प्रोक्ष्य कवचेनावकुण्ठ्य च ॥ १०।६९ ॥
प्रताप्याग्नौ शिवास्त्रेणोद्वास्य तत्कवचेन तु ।
कुण्डस्यैवोपरिष्टात्तु त्रिः प्रदक्षिणमानयेत् ॥ १०।७० ॥
योन्यां संस्थाप्य सङ्ग्राह्य दर्भाग्रद्वयनिर्मितम् ।
प्रादेशिकपवित्रञ्चाङ्गुष्ठानामिकमध्यमम् ॥ १०।७१ ॥
त्रिराज्योत्प्लवनं कृत्वा कवचेनाग्निसम्मुखम् ।
तद्वत्सम्प्लवनं कृत्वा हृदयेनात्मसम्मुखम् ॥ १०।७२ ॥
वह्नौ पवित्रं निक्षिप्य अस्त्रेणोद्योत्य तद्घृतम् ।
निरीक्ष्याज्यं ततो धीमान्नीराजनमथाचरेत् ॥ १०।७३ ॥
उल्कामग्नौ विनिक्षिप्य प्रोक्ष्याङ्गैरभिमन्त्रयेत् ।
अमृतीकृत्य मूलेन धेनुमुद्रायुतेन च ॥ १०।७४ ॥
सम्पूज्य मूलमन्त्रेण दर्भं प्रादेशनिर्मितम् ।
ॐकारेणात्र विन्यस्य नाडीनां कल्पयेत्त्रयम् ॥ १०।७५ ॥
मध्यादाज्यं समानीय स्वाहाप्रणवसंयुतम् ।
अग्नये वामतः सोमायेति मन्त्रेण होमयेत् ॥ १०।७६ ॥
अग्नीषोमसमायुक्तं मध्ये होमं समाचरेत् ।
चतुर्थीमग्नये स्विष्टकृते स्वाहाऽहुतिञ्चरेत् ॥ १०।७७ ॥
तत्सर्पिषो लवक्षेपात्सर्पिषोऽन्यानि शोधयेत् ।
अयं विभागः शुक्ले स्यात्कृष्णे सूर्याहुतिं चरेत् ॥ १०।७८ ॥
आज्याहुतित्रयेणाग्नेः कुर्याद्वक्त्राभिधारणम् ।
स्वैः स्वैर्मन्त्रैः समोपेतं सद्यं वामेन योजयेत् ॥ १०।७९ ॥
वामं घोरेण संयोज्यं तं च तत्पुरुषेण तु ।
तं चेशाने तु संयोज्यं तं शिवेनैव योजयेत् ॥ १०।८० ॥
(पृ० ५७)
कृत्वैवं वक्त्रसन्धानमेकीकरणमेव च ।
स्वस्वमन्त्रसमोपेतं सद्योजातादितो नयेत् ॥ १०।८१ ॥
यथाभिलषितं वक्त्र कुण्डमानं प्रकल्पयेत् ।
अन्नप्राशनचूडादिसंस्काराणां प्रसिद्धये ॥ १०।८२ ॥
जिह्वायां मध्यमस्थायां पूर्णाहुतिमथाचरेत् ।
वौषडन्तेन मूलेन स्रुक्स्रुवाभ्यां विशेषतः ॥ १०।८३ ॥
चर्वर्थं धूपदीपार्थमोदनार्थं च कुण्डतः ।
ग्राहयेत्तु पृथग्भागं वह्निमुद्धृत्य यत्नतः ॥ १०।८४ ॥
प्राच्यां चरुपुरोडशाः पञ्चसंस्कारसंस्कृते ।
अनाहुते शिवे वह्नौ होमस्त्वावाहिते शिवे ॥ १०।८५ ॥
अग्ने त्वमैश्वरं तेजः पावनं परमं यतः ।
तस्मात् त्वदीयहृत्पद्मे स्थाप्य सन्तर्पयाम्यहम् ॥ १०।८६ ॥
प्रार्थयित्वेत्यतस्तस्य योगपीठं हृदम्बुजे ।
विन्यस्य कल्पयेन्मूर्तिं भास्वरां सुवरां पराम् ॥ १०।८७ ॥
आवाहनादिभिस्तस्यां सन्निधीकृत्य कारणम् ।
पूजयित्वा बहिस्तस्या भोगाङ्गानि प्रकल्पयेत् ॥ १०।८८ ॥
आश्रयोपायतो ध्यात्वा भास्वराणि पृथक् पृथक् ।
प्ररोच्य परमीकृत्य शिववक्त्राग्निवक्त्रयोः ॥ १०।८९ ॥
कृत्वा सन्धानमग्नेस्तु ज्योतिर्नासाविनिर्गतम् ।
यागस्थाने शिवेनैकीभूतं सम्यग्विचिन्तयेत् ॥ १०।९० ॥
नाडीसन्धानकं कृत्वा प्रार्थ्याज्ञां तर्पयेच्छिवम् ।
शिवाद्दशांशतोऽङ्गानि तर्पयेत्तु द्विजोत्तमाः ॥ १०।९१ ॥
शतमर्धं तदर्धं वा विंशतिर्वा दशाथवा ।
आत्मार्थे वा परार्थे वा प्रत्यहं होममाचरेत् ॥ १०।९२ ॥
एककालं द्विकालं वा त्रिकालं होममाचरेत् ।
आज्याभावात्तिलैर्होमः कर्तव्यः कृष्णवर्चसैः ॥ १०।९३ ॥
व्रीहिभिर्वा समिद्भिर्वा दध्ना वापि यवैस्तथा ।
त्रिफलैर्बिल्वपत्रैर्वा पुष्पैर्वा याज्ञिकैः शुभैः ॥ १०।९४ ॥
अन्यैर्होमो विधातव्यः श्रद्धावित्तानुसारतः ।
मृगीं वाराहमुद्रां वा शङ्खिनीं वा विधाय च ॥ १०।९५ ॥
जुहुयाद्वा पृथग्द्रव्यं मात्राख्याभिर्यथा तथा ।
सुस्नेहमधुदुग्धानामाहुतिः स्यात्स्रवात्मिका ॥ १०।९६ ॥
निकुञ्जेनाहुतिर्दध्ना भक्ष्यपायसयोः पलात् ।
पर्यायात्सर्वभक्ष्याणि पञ्चाग्राङ्गुलिभिस्तिलान् ॥ १०।९७ ॥
मुष्टिभिर्होमयेल्लाजान् स्वरूपेण फलानि तु ।
हस्तपिण्डमितं शाकं स्वाष्टांशं कन्दजातयः ॥ १०।९८ ॥
तिक्तपिण्याकजातीनामभिचारविधिं विना ।
त्रिखण्डानि तु मूलानि द्व्यङ्गुला वल्लिजातयः ॥ १०।९९ ॥
लाजावमिश्रितं धान्यं सर्वान्नं ग्राससम्मितम् ।
हविष्यान्नं ततश्चान्ते ताम्बूलं विनिवेदयेत् ॥ १०।१०० ॥
प्रदक्षिणं नमस्कृत्वा स्तुत्वा वा भक्तितस्ततः ।
पूजयित्वार्पयित्वा च प्ररोच्य च विसर्जयेत् ॥ १०।१०१ ॥
शिवं व्याहृतिभिः पश्चात्सन्तर्प्य शिवपावकम् ।
रोधयित्वा तु तत्रैव रक्षयेत्प्रतिवासरम् ॥ १०।१०२ ॥
कुण्डे तु भावयेदग्निं त्रिविधं विधिना त्रिधा ।
सम्पूज्य तत्र देवेशमविसृज्याङ्गमालभेत् ॥ १०।१०३ ॥
चण्डभस्म भवेत्पश्चाद्यदा देवो विसर्जितः ।
यद्वा विसर्जयेत्कुण्डे वह्निमन्यत्र रक्षयेत् ॥ १०।१०४ ॥
रक्षितेऽग्नौ तु निर्वाणे जपेद्घोरमुपोषितः ।
जपेद्वा जुहुयाद्वाथ बहुरूपं प्रशान्तये ॥ १०।१०५ ॥
तत्रैवान्तर्बलिं दद्यात्कृत्वा मण्डलकं भुवि ।
संस्कृते फलके वाथ गन्धपुष्पादिसंस्कृते ॥ १०।१०६ ॥
रुद्रेभ्यः पूर्वतो दद्यान्मातृभ्यो दक्षिणे तथा ।
गणेभ्यः पश्चिमे भागे यक्षेभ्यश्चोत्तरे बलिम् ॥ १०।१०७ ॥
ग्रहेभ्यश्च तथैशान्यामसुरेभ्योऽग्निगोचरे ।
पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुगोचरे ॥ १०।१०८ ॥
(पृ० ५८)
नक्षत्रराशिवर्गेभ्यस्तथा विश्वगणाय च ।
मण्डलाभ्यन्तरे देया बलिस्तेभ्यः प्रकामतः ॥ १०।१०९ ॥
वायुवारुणदिग्भागे क्षेत्रपालबलिं क्षिपेत् ।
आत्मार्थेऽप्येवमादिष्टं गृहादौ देवसद्मनि ॥ १०।११० ॥
नन्द्यादिपरिवाराणां बलिं दद्यात्पृथक् पृथक् ।
अग्निकार्यबलिञ्चान्ते एवमेव समाचरेत् ॥ १०।१११ ॥
समाचम्य शुचिर्भूतो सकली कृतविग्रहः ।
ततो लिङ्गान्तिकं गत्वा प्रतर्प्यानन्तरक्रियाम् ॥ १०।११२ ॥
गीताद्यैरुपचारैश्च भूयः सन्तोषयेच्छिवम् ।
नित्योत्सवं ततः कुर्याच्छुद्धाख्यं नृत्तमन्तिमे ॥ १०।११३ ॥
कारयेद्देशिको धीमान् परार्थे देवसद्मनि ।
उत्सवं शुद्धनृत्तं च गृहाग्रे न समाचरेत् ॥ १०।११४ ॥
गानं च कारयेदन्ते यथा तुष्टो महेश्वरः ।
गन्धैः पुष्पैश्च सम्पूज्य दत्वार्घ्यं च पराङ्मुखम् ॥ १०।११५ ॥
दर्शयित्वा परां मुद्रामुत्थाप्याङ्गानि हेतिना ।
संहारिणं शिवं ध्यात्वा मूर्तौ मूर्त्या नियोजयेत् ॥ १०।११६ ॥
अर्चयित्वा शिवं भूय उच्चार्य हृदयानुगम् ।
प्रासादं कारणत्यागाद्यावन्निष्कलतां गतम् ॥ १०।११७ ॥
परतत्वाविभागेन भावयेदथवात्मना ।
हृत्सरोजे स्थितेनैक्यं कल्पयेन्मुद्रया तया ॥ १०।११८ ॥
एवं विसर्जयेद्देवं सापेक्षनिरपेक्षकम् ।
बिन्द्वाद्यं नादपर्यन्तमन्ते चण्डेश्वरं यजेत् ॥ १०।११९ ॥
बाणे लोहे चले सिद्धे न चण्डेशः स्वयम्भुवि ।
प्रतिमानां च सर्वासामन्ते च स्थण्डिले नहि ॥ १०।१२० ॥
प्रासादबाह्यतश्चण्डमैशान्यां दिशि मन्दिरे ।
देवाय दत्तं यद्द्रव्यं चण्डेशायेति कल्पितम् ॥ १०।१२१ ॥
चण्डभोज्यं दुराधर्षं नात्मभोगाय कल्पयेत् ।
निर्माल्यलङ्घनं दानं भक्षणं च विवर्जयेत् ॥ १०।१२२ ॥
गुरुपुस्तकनागानां वह्नेर्योगिगणस्य च ।
पार्वतीयक्षमातॄणां न निर्माल्यं शिवे यथा ॥ १०।१२३ ॥
रत्नहेमादिलिङ्गेषु चले लिङ्गे प्रतिक्षणे ।
गुरुष्वपि न निर्माल्यं व्याख्यासु प्रतिमासु च ॥ १०।१२४ ॥
स्वेष्टलिङ्गे च यद्दत्तं चरुवत्तन्न संशयः ।
नैवेद्यं भ्रातृपुत्राणां भगिनीनां च दापयेत् ॥ १०।१२५ ॥
स्नानपानीयदुग्धाद्यैर्यदि सिक्तो भवेत्तदा ।
स्नायात्प्रक्षालयेद्वाथ नाभेरूर्ध्वमधस्तथा ॥ १०।१२६ ॥
आचम्य प्रयतो भूत्वा देवदेवं प्रणम्य च ।
च्युतस्खलितशुद्व्यर्थमभ्यसेन्मन्त्रसंहिताम् ॥ १०।१२७ ॥
निर्गच्छेदालयाद्वामपादेनास्पृष्टदेहलीम् ॥
॥ इति कामाकाख्ये महातन्त्रे अग्निकार्यविधिः अष्टमः पटलः ॥