०७ कुण्डलक्षणविधिः

(पृ० ५२)

अथाग्निकार्यसिद्ध्यर्थं कुडलक्षणमुच्यते ।
कुण्डं वा स्थण्डिलं वाऽपि वह्नेरायतनं द्विधा ॥ ९।१ ॥
सूत्रं पूर्वापरं पूर्वं न्यसेद्दिक्साधनक्रमात् ।
तेनैव साधयेत् सूत्रं दक्षिणोत्तरगं क्रमात् ॥ ९।२ ॥
ततः क्षेत्रार्धमानानां दिक्सूत्राद्विदिशां ग्रहः ।
चतुरश्रं भवेत् कुण्डं वृत्तं वा हस्तनिर्मितम् ॥ ९।३ ॥
नित्यनैमित्तिके चैव काम्ये कल्पप्रचोदितम् ।
इष्टकाभिः सुपक्वाभिरपक्वाभिरसम्भवे ॥ ९।४ ॥
कुर्यात् कुण्डं तु शास्त्रोक्तं मन्त्रहोमानुरूपतः ।
मन्त्राणां वारुणानां च कुम्भाकारं विधीयते ॥ ९।५ ॥
वायव्यानां पताकेव माहेन्द्रणां तु वज्रकम् ।
सप्तजिह्वाकृति प्रोक्तमाग्नेयानां गुरूत्तमैः ॥ ९।६ ॥
मध्यमोत्तमवीर्याणां चतुरश्रं फलप्रदम् ।
त्रिकोणमल्पवीर्याणां स्त्रीरूपाणां भगाकृतिः ॥ ९।७ ॥
अर्धचन्द्रं तु रौद्राणां सौम्यानां वृत्तमेव हि ।
पञ्चकोणं तु मूर्तीनां किन्नराणां तथैव च ॥ ९।८ ॥
विद्याविद्येश्वराणां तु पद्माकारमिहोच्यते ।
ऐन्द्र्यां स्तम्भे चतुष्कोणमग्नौ तापे भगाकृतिः ॥ ९।९ ॥
चन्द्रार्धं मारणे यम्ये निरृतौ द्व्यष्टकोणकम् ।
वारुण्यां शान्तिके वृत्तं षडश्रोच्चाटनेऽनले ॥ ९।१० ॥
उदीच्यां पौष्टिके पद्मं रौद्र्यामष्टाश्रमुक्तिदम् ।
शतार्धशतहामे तु विस्तारं द्विगुणं क्रमात् ॥ ९।११ ॥
सहस्रायुतहोमे तु हस्तं हस्तद्वयं क्रमात् ।
भवेल्लक्षयुते होमे चतुर्हस्तं च षट्करम् ॥ ९।१२ ॥
कोटिहोमेऽष्टहस्तं स्यात् तस्मादूर्ध्वमधो न हि ।
हस्तमात्रं भवेत्कुण्डं लिङ्गे कन्यसके न्यसेत् ॥ ९।१३ ॥
द्व्यङ्गुलार्धं तयोर्वृद्धिः प्रान्ते द्वित्र्यंशतः क्रमात् ।
पञ्चमांशं पुरो न्यस्त्वा कोणवेदांशमानतः ॥ ९।१४ ॥
भ्रमादश्वत्थपत्राभं कुण्डमाग्नेयमुच्यते ।
चतुरश्रे गृहे भक्तें त्यक्त्वाऽद्यन्ते तदंशके ॥ ९।१५ ॥
मध्यसप्तांशमानेन कुण्डं खण्डेन्दुवद्भ्रमात् ।
इष्टदिक्षु न्यसेत्पश्चादुत्तरे सूत्रपातनम् ॥ ९।१६ ॥
त्रिभागवृद्धितो मत्स्यैस्त्रिभिर्नैशाचरं भवेत् ।
कण्ठार्धाष्टांशसन्त्यागात् वृत्तकुण्डमिहोदितम् ॥ ९।१७ ॥
षड्भागवृद्धितोमत्स्यैश्चतुर्भिः स्यात् षडश्रकम् ।
चतुरश्रेऽष्टभागे तु कर्णिका स्याद्द्विभागतः ॥ ९।१८ ॥
तद्बहिस्त्वेकभागेन केसराणि प्रकल्पयेत् ।
तृतीये दलमध्यानि तुरीये दलकोटयः ॥ ९।१९ ॥
भ्रमणात्पद्मकुण्डं स्याद्दलाग्रं दर्शयेद्बहिः ।
वृत्तकुण्डसमं चान्यदथवान्यप्रकारतः ॥ ९।२० ॥
वृत्तकुण्डं पुरा कृत्वा चतुर्धा मेखलां भजेत् ।
उत्सेधं च तथा कृत्वा कर्णिका सार्धतो भवेत् ॥ ९।२१ ॥
अवशिष्टं दलं वेददलमष्टदलं तु वा ।
क्षेत्रार्धदशमं भागं चतुदिक्षु तदुत्तरे ॥ ९।२२ ॥
विन्यसेत्तत्प्रमाणेन तुर्याश्रमपरं नयेत् ।
तस्य कर्णप्रमाणेन तद्भुजांश्चापि लाञ्छयेत् ॥ ९।२३ ॥
तत्राष्टसूत्रसंयोगादष्टाश्रं कुण्डमुच्यते ।
विस्तारसदृशः खातो मेखलाशेष एव वा ॥ ९।२४ ॥

(पृ० ५३)

कण्ठोऽङ्गुष्ठमितो हस्तो यववृद्ध्या द्विहस्ततः ।
कण्ठमानमिदं प्रोक्तं मेखलां शृणुत द्विजाः ॥ ९।२५ ॥
मुष्टिमात्रस्य कुण्डस्य मेखला ह्यङ्गुलद्वया ।
मेखलाद्वितयं कार्यमङ्गुलार्धाङ्गुलक्रमात् ॥ ९।२६ ॥
रत्निमात्रस्य कुण्डस्य नेमिः स्यादङ्गुलैस्त्रिभिः ।
अन्यनेमिद्वयं तस्य तृतीयार्धाङ्गुला मता ॥ ९।२७ ॥
हस्तमात्रस्य कुण्डस्य नेमिः स्याच्चतुरङ्गुला ।
कर्तव्या मेखला चान्या त्रिद्व्यङ्गुलक्रमात्तथा ॥ ९।२८ ॥
कुण्डस्य द्विकरस्य स्यात्पूर्वनेमिः षडङ्गुला ।
अन्याङ्गुलचतुष्का स्यात्तृतीया त्वङ्गुलैस्त्रिभिः ॥ ९।२९ ॥
चतुर्हस्तस्य कुण्डस्य नेमिः पूर्वाङ्गुलाष्टका ।
षड्भिरन्याङ्गुलैः कार्या चतुर्भिरपराङ्गुलैः ॥ ९।३० ॥
कर्तव्या मेखला पूर्वा षड्ढस्तस्य दशाङ्गुलैः ।
अङ्गुलैरष्टभिश्चान्या तृतीया षड्भिरङ्गुलैः ॥ ९।३१ ॥
अष्टहस्तस्य या पूर्वा मेखला द्वादशाङ्गुला ।
दशाङ्गुला द्वितीया तु तृतीयाष्टाङ्गुला मता ॥ ९।३२ ॥
कुण्डस्य यादृशं रूपं मेखलानां तु तादृशम् ।
अथवान्यप्रकारेण मेखलामानमुच्यते ॥ ९।३३ ॥
चतुर्विंशतिभागं तु विभजेत्कुण्डमानकम् ।
तदेकभागमात्रं स्यात्तेन द्वित्रिचतुर्गुणैः ॥ ९।३४ ॥
विस्तारोत्सेधमानाभ्यां भवन्तीह च मेखलाः ।
षडङ्गुलविशालोच्चा मेखलैका भवेद्यदि ॥ ९।३५ ॥
कुण्डबिम्बार्धमानेन नाभिस्त्र्यंशेन वा मता ।
मेखलामध्यगा योनिर्द्व्यङ्गुलोच्छ्रायसंयुता ॥ ९।३६ ॥
मुष्टिरत्न्येकहस्तेषु योनिमानमुदीरितम् ।
द्विहस्तादिषु कुण्डेषु विस्तारे द्व्यङ्गुलाधिका ॥ ९।३७ ॥
अग्न्यङ्गुलाधिका दैर्घ्यादुत्सेधः स्वभुजात्ततः ।
सा योनिः सर्वकुण्डानां स्वार्धमानेन निर्मिता ॥ ९।३८ ॥
अश्वत्थपत्रवद्वाथ गजोष्ठसदृशाऽथवा ।
प्रणालेन समायुक्ता कुण्डमानयुतेन तु ॥ ९।३९ ॥
योनेरारभ्य नाभ्यन्तं गोनन्देन सुशोभिना ।
नाभिः स्यात्कुण्डमध्ये तु स्वार्धमानेन निर्मिता ॥ ९।४० ॥
तच्चतुर्थांशकोत्तुङ्गपद्माकारा यथा भवेत् ।
एकाशीतिपदा वेदी मण्डपेन बहिर्भवेत् ॥ ९।४१ ॥
तद्बाह्ये त्रिषु भागेषु मध्ये कुण्डानि कल्पयेत् ।
चतुर्धा वेदिकां कृत्वा वेदिका कुण्डमध्यमे ॥ ९।४२ ॥
यथैकांशं भवेत्कुण्डजालं वा परिकल्पयेत् ।
प्रधानवायुसोमेशकुण्डेषु प्राङ्मुखो यथा ॥ ९।४३ ॥
पूर्वमुत्तरवक्त्रं स्याच्छेवं प्रागुत्तरामुखम् ।

॥ इति कामिकाख्ये महातन्त्रे कुण्डलक्षणविधिः सप्तमः पटलः ॥