अथातः सम्प्रवक्ष्यामि नैवेद्यविधिमुत्तमम् ।
भक्त्या वित्तानुसारेण नैवेद्यं तु प्रकल्पयेत् ॥ ८।१ ॥
पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् ।
अनिवेद्यं न भुञ्जीत भगवन्तं सदाशिवम् ॥ ८।२ ॥
अपूपकाद्यं यद्द्रव्यं भोज्यं दत्वा शिवस्य तु ।
वर्धते तस्य तद्धान्यं फलपुष्पादयस्तथा ॥ ८।३ ॥
अदत्वा तु हरस्याथ भुक्तं तत्क्षीयते धनम् ।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ८।४ ॥
यथाशक्ति प्रकर्तव्यं भक्तिरेवात्र कारणम् ।
दत्वा शिवस्य नैवेद्यं कल्याणं कारयेद्बुधः ॥ ८।५ ॥
अदत्वा तु कृतं यत्तु कल्याणमशुभाय वै ।
कल्याणं देवकल्याणे कृतं चापि विनश्यति ॥ ८।६ ॥
तस्मान्महोत्सवे सूत्रारोपणे स्थापनादिके ।
कल्याणं वर्जयेद्धीमान् चूडोद्वाहादिकं स्वकम् ॥ ८।७ ॥
शालीनां तण्डुलं श्रेष्ठं यववेण्वादिमध्यमम् ।
ब्रीहिणामवशिष्टानां तण्डुलन्त्वधमं भवेत् ॥ ८।८ ॥
सिततण्डुलका ये च ते सर्वे शालयः स्मृताः ।
इतरे ब्रीहयः प्रोक्ताः फलं तेषां पृथक् पृथक् ॥ ८।९ ॥
हेमशाली महाशाली रत्नशाली तथैव च ।
सितशाल्यतिरक्ता च सौगन्धिश्चोत्तमा मता ॥ ८।१० ॥
(पृ० ४९)
वैणवश्च तथा शेषशालयश्चैव माधुरी ।
कुस्तुम्बरश्च नीवारो मध्यमाश्चेति कीर्तिताः ॥ ८।११ ॥
बिडालव्रीहि सामान्यम् ईषत्कृष्णकषाष्टयः ।
तथा वै सूकरीव्रीहिर्ह्रस्ववक्त्री च कन्यसा ॥ ८।१२ ॥
एतेषां तण्डुला श्रेष्ठा नैवेद्याय प्रभोर्मताः ।
यावन्तस्तण्डुलास्तत्र नैवेद्यपरिकल्पने ॥ ८।१३ ॥
तावद्वर्षसहस्राणि शिवलोके महीयते ।
विशोप्य सूर्यकिरणैर्व्रीह्यादींश्छुद्धभूतले ॥ ८।१४ ॥
सम्प्रोक्ष्योलूखले व्रीहीन्निक्षिपेदस्त्रमन्त्रतः ।
मुसलं हृदयेनैव हन्यात्सङ्गृह्य साधकः ॥ ८।१५ ॥
त्रिधा च कुट्टनं कुर्यात्पञ्चधा नवधाऽथवा ।
चातुर्वर्णोद्भवस्त्रीभिः पुरुषैर्वाऽथ घातयेत् ॥ ८।१६ ॥
शूर्पादिकरणैस्तेषां तुषकम्ब्वादि वर्जयेत् ।
द्विशतैः पञ्चविंशत्या व्रीहिभिः पूरितं तु यत् ॥ ८।१७ ॥
शुक्तिमात्रमिति ज्ञेयं मानं तेनैव कल्पयेत् ।
शुक्तिस्तलं प्रकूर्चञ्च प्रसृतिः कुडुपं तथा ॥ ८।१८ ॥
तथा स्यादञ्जलिः प्रस्थः पात्रं चाढकशैवकौ ।
द्रोणं खारी क्रमात्प्रोक्तं मानमेवं प्रकीर्तितम् ॥ ८।१९ ॥
द्विगुञ्जं माषकं विद्याद्धरणं माषविंशतिः ।
धरणाष्टौ पलञ्चैव पलं मुष्टिरिहोच्यते ॥ ८।२० ॥
तच्चतुर्गुणितं प्रस्थं भवेत्पात्रादि पूर्ववत् ।
भारं खारित्रयं प्रोक्तं मानमेवं प्रकीर्तितम् ॥ ८।२१ ॥
नित्यं नैमित्तिकं काम्यं नैवेद्यं त्रिविधं भवेत् ।
अष्टाङ्गेषु चतुर्वह्निकरेन्दुद्रोणनिर्मितम् ॥ ८।२२ ॥
शिवाढकप्रमाणं तु नित्ये तु नवधा हविः ।
तण्डुलैराढकाद्धीनैर्नैवेद्यं न प्रकल्पयेत् ॥ ८।२३ ॥
चरुः प्रस्थद्वयं प्रोक्तं हविराढकमुच्यते ।
प्रस्थं कुडुपसयुक्तं पैशाचाशनमुच्यते ॥ ८।२४ ॥
सकलानां तु नैवेद्यं भवेत्प्रस्थद्वयाधिकम् ।
आढकद्वयमारभ्य तद्वृद्ध्या नवसङ्ख्यया ॥ ८।२५ ॥
नैमित्तिकं हविर्मानं लिङ्गेषु त्रिविधेषु च ।
यावत् प्रार्थितमानं तु तावत्काम्यहविर्भवेत् ॥ ८।२६ ॥
स्थाली प्रतिदिनं शुद्धा पक्षमासावसानिका ।
श्रेष्ठमध्याधमास्तद्वद्विधिनाऽद्य विधीयते ॥ ८।२७ ॥
सुवर्णतारताम्रादि पात्रं शुद्धलयान्विकम् ।
नवमृद्भाण्डकं वाऽपि प्रतिसन्ध्यं प्रकल्पयेत् ॥ ८।२८ ॥
प्रागुक्तविधिना पूर्वं स्नात्वाऽथ परिचारकाः ।
शुक्लवस्त्रधराश्चैव शुक्लयज्ञोपवीतिनः ॥ ८।२९ ॥
पवित्रपाणयः कुर्युश्चरुपाकं यथा तथा ।
वस्त्रपूतैश्च तोयैश्च जलद्रोणीं प्रपूरयेत् ॥ ८।३० ॥
पात्रशुद्धिं ततः कृत्वा क्षालयेत्तण्डुलान् हृदा ।
जलेनैव तु षट्कृत्वः निष्पीड्य च मुहुर्मु?हुः ॥ ८।३१ ॥
षडङ्गैः क्षालनं कृत्वा सद्येन प्रक्षिपेज्जले ।
ज्ञात्वा तु युक्तितः सम्यक् अध्यर्धं जलमेव वा ॥ ८।३२ ॥
स्थालीं मध्यमयीं ध्यात्वा दर्भान् कण्ठे तु बन्धयेत् ।
पलिप्ते गोमयाद्यैस्तु प्रोक्षितेऽत्र महानसे ॥ ८।३३ ॥
धर्माधर्मभुजां चुल्लीं तण्डुलेनार्चयेद्धृदा ।
उद्धृत्य वामदेवेन रोपयेद्धृदयेन तु ॥ ८।३४ ॥
विन्यस्याग्निमघोरेण अस्त्रेणाग्निं प्रदीपयेत् ।
पिपीलिकादिसञ्जुष्टः कोटरक्रिमिसं?युतैः ॥ ८।३५ ॥
विस्फुलिङ्गयुतैश्चापि काष्ठैरग्निं न दीपयेत् ।
धूमगन्धमतिक्लिन्नमतिपक्वञ्च शीतलम् ॥ ८।३६ ॥
केशकीटाप बद्धं च त्यजेत् पर्युषितं तथा ।
एवमुक्तं तु शुद्धान्नं पायसं त्वधुनोच्यते ॥ ८।३७ ॥
तण्डुलाद्द्विगुणं क्षीरं मुद्गं स्यात्तण्डुलार्धकम् ।
अलामेऽर्धं तदर्धं वा शेषं तोयैः प्रपूरयेत् ॥ ८।३८ ॥
(पृ० ५०)
पाचितं पायसं प्रोक्तं गुलान्नमधुनोच्यते ।
पायसं पूर्ववत् कृत्वा चतुर्भागं गुलं क्षिपेत् ॥ ८।३९ ॥
गुलार्धं प्रक्षिपेदाज्यं तस्यार्धं वा तदर्धकम् ।
कदलीफलसंयुक्तं गुलान्नमिति कीर्तितम् ॥ ८।४० ॥
तण्डुलार्धं तिलं ज्ञेयं कृसरान्नं प्रशस्यते ।
अलाभेऽर्धं तदर्धं वा मुद्गान्नमधुनोच्यते ॥ ८।४१ ॥
तण्डुलार्धं तदर्धं वा मुद्गं मुद्गान्नमुच्यते ।
एतेषामपि सर्वेषां यथालाभमथापि वा ॥ ८।४२ ॥
मरीचं रजनीयुक्तं जीरकं सर्षपं तथा ।
आलोड्य पाचितं ह्येतत् हरिद्रान्नं प्रकीर्तितम् ॥ ८।४३ ॥
हविषां लक्षणं प्रोक्तं प्रवक्ष्याम्युपदंशकान् ।
मुद्गमाषकुलुत्थांश्च शिम्बा निष्पावमेव च ॥ ८।४४ ॥
राजमाषाढकीं चैव वितुषं सतुषं तथा ।
कुश्माण्डं पनसालाबु कालिङ्गं बृहतीद्वयम् ॥ ८।४५ ॥
त्रपुषं कर्करीं चैव सतुषं वितुषं तथा ।
कदली कारवी व्याघ्री आम्रमुर्वारुकं तथा ॥ ८।४६ ॥
वल्लीमूलं तथा कन्दं मूलमन्यत्र संयुतम् ।
एकैकमुपदंशानां प्रस्थस्यैकपलं भवेत् ॥ ८।४७ ॥
प्रत्यग्राणि पवित्राणि सर्वदोषोज्झितानि हि ।
घृष्टं घृतेन संयुक्तं नालिकेरफलादिभिः ॥ ८।४८ ॥
मरीचजीरकाद्यैस्तु संस्कृतं तत्प्रशस्यते ।
लवणाज्ययुतानि स्युरुपदंशानि तानि हि ॥ ८।४९ ॥
आम्लसंस्कारयुक्तानि मरीचादियुतानि च ।
विंशत्पलं स्याल्लवणं प्रस्थं प्रस्थं समीरितम् ॥ ८।५० ॥
त्रिचतुर्थांशमानेन मरीचः परिकीर्तितः ।
सर्पिषो द्विगुणं मानं मरीचात्तु प्रशस्यते ॥ ८।५१ ॥
कलांशो मुद्गभिन्नस्तु तदर्धं वा तु तण्डुलान् ।
मुद्गभिन्नं समं प्रोक्तमधिकं गुणमेव वा ॥ ८।५२ ॥
कल्कसंस्कारयुक्तानि मरीचादियुतानि च ।
सिद्धार्थकल्कयुक्तानि रसवन्ति च पाचयेत् ॥ ८।५३ ॥
तान्येवापूपखण्डैश्च संस्कृतानि च कानिचित् ।
कुलुत्थधान्यचूर्णं च मरीचं पेषितं क्रमात् ॥ ८।५४ ॥
निक्षिप्य मथिते श्लक्ष्णं पाचयेन्मृदुवह्निना ।
गुलेन सह संयोज्य रसवन्ति फलानि च ॥ ८।५५ ॥
एवं तु पाचयेत् सूपमन्यदेवंविधं तु यत् ।
विविधानि च पूपानि योग्यद्रव्यैः कृतानि च ॥ ८।५६ ॥
शङ्खध्वनिसमायुक्तं छत्रदीपादिसंयुतम् ।
नैवेद्यमुपदंशाद्यं सुसिद्धमवतारयेत् ॥ ८।५७ ॥
प्रलिप्ते भूतले शुद्धे पञ्चचूर्णैरलङ्कृते ।
तप्ताभिघारमाज्येन पवित्रैः परिकल्पयेत् ॥ ८।५८ ॥
शीताभिधारमङ्गैस्तु घृतेनैवाहुतित्रयम् ।
पात्राणि शोधयेत्तोयैर्स्त्रिपुण्ड्रं परिकल्पयेत् ॥ ८।५९ ॥
त्रिपाद्युपरि विन्यस्य शुद्धवस्त्रावृतानि च ।
शङ्खध्वनिसमायुक्तं छत्रदीपादिसंयुतम् ॥ ८।६० ॥
निरुद्धावृतकक्ष्यास्थजने मार्गेऽम्भसा क्षिपेत् ।
पात्रण्युद्धृत्य सर्वाणि विन्यसेन्मुखमण्डपे ॥ ८।६१ ॥
पानीयमप्यनेनैव स्थानात् सङ्ग्राहयेत् क्रमात् ।
करणाध्यायसंसिद्धलक्षणैर्लक्षितेषु च ॥ ८।६२ ॥
स्थलिकादिषु वा शुद्धकदलीपत्रकादिषु ।
न्यस्तेषु शुद्धवस्त्रोर्ध्वे दर्व्या लक्षणयुक्तया ॥ ८।६३ ॥
न्यसेत् सम्पूर्णचन्द्राभमोमिति त्र्यक्षरं जपेत् ।
उपदंशानि सर्वाणि नैवेद्योपरि विन्यसेत् ॥ ८।६४ ॥
प्रत्यग्रगोघृतं खण्डशर्करारसवत्फलम् ।
बालचूतफलञ्चापि दध्यादिकमनिन्दितम् ॥ ८।६५ ॥
शिवाग्रे मण्डपे शुद्धे शुभ्रवस्त्रादिविस्तृते ।
त्रिपाद्युपरि विन्यस्य स्थलिकादिगतं हविः ॥ ८।६६ ॥
सम्प्रोक्ष्य हृदयेनैव शोधयित्वा तु हेतिना ।
अमृतीकृत्य गोस्तन्या नैवेद्ये कुसुमं न्यसेत् ॥ ८।६७ ॥
निवेद्य दक्षिणे हस्ते दद्यात् पानीयमुत्तमम् ।
अन्तरावृतिसंस्थानां देवानां तु पृथक् पृथक् ॥ ८।६८ ॥
कृत्वा हविश्चतुर्थांशमूर्ध्वांशं तु शिवाय च ।
तदधस्त्वग्निकार्यार्थमधस्ताद्बलिकर्मणे ॥ ८।६९ ॥
यदंशं पात्रसंश्लिष्टं पूजकाय प्रदापयेत् ।
अग्निकार्यावशिष्टं च बलिशिष्टं च यद्धविः ॥ ८।७० ॥
तत्सर्वं पूजकायैव प्रोक्तमत्र यथाऽधुना ।
नैवेद्यं तु प्रदातव्यं मनसा तदसम्भवे ॥ ८।७१ ॥
बाह्यावरणदेवानां नैवेद्यं स्यात् पृथक् पृथक् ।
अभावे वलिदानं स्याद्द्वाराध्यक्षपुरः सरम् ॥ ८।७२ ॥
तद्बाह्ये भूतपीठेषु दिग्विदिक्स्थापितेषु च ।
रुद्रेभ्यः पूर्वतो दद्यान्मातृभ्यो दक्षिणे तथा ॥ ८।७३ ॥
गणेभ्यः पश्चिमे भागे यक्षेभ्यश्चोत्तरे बलिम् ।
ग्रहेभ्यश्च तथैशान्यामसुरेभ्योऽग्निगोचरे ॥ ८।७४ ॥
पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुगोचरे ।
नक्षत्रराशिवर्गेभ्यस्तथा विश्वगणाय च ॥ ८।७५ ॥
ऐशान्यां बलिदानं स्यात् तत्रैव क्षेत्रपालिने ।
वायुवारुणदिग्भागे क्षेत्रपालबलिं क्षिपेत् ॥ ८।७६ ॥
एतेष्वष्टसु पीठेषु दिक्पालानां बलिं तु वा ।
प्रथमं द्वारपालानां भूतानां स्याद् द्वितीयकम् ॥ ८।७७ ॥
वृषादिबलिपीठान्तं दद्यादावरणक्रमात् ।
अष्ट द्विषट् द्विरष्टौ हि द्वात्रिंशत्परिचारकाः ॥ ८।७८ ॥
अन्तर्हारादिशालस्था दद्यात् तेषां पृथक् पृथक् ।
गणेशं तत्र सम्पूज्य सोपचारं विशेषतः ॥ ८।७९ ॥
सम्भवे सति सर्वेषाम् उपचारार्चनं भवेत् ।
ततः पूर्वस्थिते पीठे बलिं दद्याद्विशेषतः ॥ ८।८० ॥
यक्षराक्षसपैशाचभूतगन्धर्वकिन्नराः ।
पितृदानवनागाश्च ब्रह्माद्यैशानमन्तकम् ॥ ८।८१ ॥
प्रणवादिचतुर्थ्यन्तं स्वनामपदमध्यगम् ।
स्वाहान्तं बलिनिर्देशं सर्वेभ्य इति योजयेत् ॥ ८।८२ ॥
बलिदानसमायुक्तं दद्याद्भूतबलिं ततः ।
सर्वदिग्द्वारसम्पन्ने त्रिद्व्येकाशावकाशके ॥ ८।८३ ॥
इन्द्रादीशानपर्यन्तं बलिं दद्यात् स्वकर्मसु ।
ततो गर्भगृहं गत्वा दद्यादाचमनीयकम् ॥ ८।८४ ॥
निर्माल्यं तु समानीय चण्डेशाय निवेदयेत् ।
येन निर्मलतां याति निर्माल्यमिति कीर्त्यते ॥ ८।८५ ॥
चण्डस्याचमनं दद्यान्निर्माल्यं तु विसर्जयेत् ।
अगाधेऽम्भसि वाऽग्नौ वा गवां वाऽपि निवेदयेत् ॥ ८।८६ ॥
कायस्य मलबन्धत्वान्निर्माल्यं तु न भोजयेत् ।
अग्निकार्यं ततः कुर्यात्कुण्डसंस्कारपूर्वकम् ॥ ८।८७ ॥
॥ इति कामिकाख्ये महातन्त्रे नैवेद्यविधिः षष्ठः पटलः ॥