(पृ० ४५)
अर्चनाङ्गविधिं वक्ष्ये सन्ध्यालक्षणपूर्वकम् ।
भास्करोदयमारभ्य यावद्वै भास्करोदयः ॥ ७।१ ॥
सप्तार्धघटिकामानो यामोऽयं सन्धिरुच्यते ।
षष्ट्युच्छवासो भवेत्प्राणः षट्प्राणो घटिका भवेत् ॥ ७।२ ॥
घटिकाषष्ट्यहोरात्रमष्टसन्ध्यं तदुच्यते ।
अष्टसन्ध्यासु या पूजा सा भवेदुत्तमोत्तमा ॥ ७।३ ॥
सप्तषड्भूतवेदाग्नियुग्मेन्दुप्रहरेषु च ।
यामार्धकालसंवृत्ता पूजा नवविधा भवेत् ॥ ७।४ ॥
पूजारम्भात्तु नृत्तान्तं कुर्यात्सन्ध्यावसानकम् ।
सन्ध्यातिक्रमणाद्दोषो न्यूनायां तु न दोषभाक् ॥ ७।५ ॥
गुरुपचारपूजायां विधिरेषः प्रकीर्तितः ।
घटिकाद्वितयं स्नाने घटिकैकार्चने भवेत् ॥ ७।६ ॥
घटिकार्धं निवेद्यार्थं बलिदानं तु तत्समम् ।
नित्याग्निकार्यमर्धं च नित्योत्सवे द्विनाडिका ॥ ७।७ ॥
घटिकैका तु नृत्तार्थं काल एषः प्रकीर्तितः ।
एवं कालविधिः प्रोक्तो महासन्ध्यात्रयस्य च ॥ ७।८ ॥
लघूपचारे सन्ध्यायां हीनं चेत्तु न दूषकम् ।
यथासम्भवकाले तु यथासम्भवनाडिका ॥ ७।९ ॥
आत्मार्थयजनं कुर्याद्यथाशक्त्यनुरोधतः ।
अरुणोदयवेलायां प्रागेव प्रहरार्धतः ॥ ७।१० ॥
कुर्यात्पञ्चमहाशब्दं सर्वप्राणितमोपहम् ।
तत्काले पूजयेद्देवं सर्वकामार्थसिद्धये ॥ ७।११ ॥
सायङ्कालेऽर्चनान्ते स्याद्यजनं चार्धयामके ।
भूरिभिर्गन्धकुसुमैर्गन्धैः परिमलैरपि ॥ ७।१२ ॥
धूपैरामोदबहुलैर्नैवेद्यैर्लौकिकादिभिः ।
खट्वारूढामुमां देवीमलङ्कृत्य विशेषतः ॥ ७।१३ ॥
नृत्तैर्गेयैश्च विविधैर्देवपार्श्वं प्रवेशयेत् ।
पुत्रपौत्रविवृद्ध्यर्थं पूजयेच्छङ्करं ततः ॥ ७।१४ ॥
वौषडन्तैश्च मध्याह्ने सन्ध्यन्ते शिवमर्चयेत् ।
नृपतेरायुरारोग्यसिद्धये विजयाय च ॥ ७।१५ ॥
एवं प्रतिदिनं पूजा कर्तव्या विभवे सति ।
पूजकः सन्धिपूर्वे तु कुर्यात्स्नानादिकं विधिम् ॥ ७।१६ ॥
स्नानान्ते शुद्धवस्त्राद्यैः पर्यष्टिपरिचारकैः ।
यजनार्थं तु सम्भाराः सम्भ्रियन्तां जलादयः ॥ ७।१७ ॥
गङ्गादिसिन्धुसम्भूतं पुष्करिण्यादिसम्भवम् ।
सुस्वादु वासितं पुष्पैः नवमृत्कुम्भपूरितम् ॥ ७।१८ ॥
शुद्धवस्त्रस्रुतं शुद्धमेलाद्यामोदसंयुतम् ।
एलोशीरफलत्रयेण सहिताः कर्पूरसत्कुङ्कुमैः
श्रीखण्डागरुपत्रकैश्च कुसुमैरामोदिभिः संयुताः ॥ ७।१९ ॥
आपो मज्जनकर्मणि प्रणिहिताः शम्भोर्यथालाभतः
प्रोक्तद्रव्यगणेषु लब्धमिह यत्तद्ग्राह्यमाढ्येतरैः ॥ ७।२० ॥
कल्पयेदभिषेकार्थं वारि संसारवारि यत् ।
भारादिनवभारान्तं नवलिङ्गेऽधमाधमे ॥ ७।२१ ॥
एकभारविवृद्ध्या तु भेदोऽत्र नवसङ्ख्यया ।
अष्टद्रोणैरथाद्भिर्वा द्विगुणैस्त्रिगुणैस्तु वा ॥ ७।२२ ॥
स्वायम्भुबाणलि"ग्नादौ प्रोक्तेषूक्तं हि वाञ्च्छितम् ।
स्नानोदकप्रमाणं स्यादात्मार्थे हि यथेच्छया ॥ ७।२३ ॥
पञ्चामृतं पञ्चगव्यं कुशाम्बु कलशोदकम् ।
स्नपनार्थाय कथितप्रमाणेन प्रकल्पयेत् ॥ ७।२४ ॥
(पृ० ४६)
सौवर्णमूर्णसूत्रोत्थं कार्पासोऽथ दुकूलकम् ।
देवालङ्कारयोग्येन प्रमाणेन समन्वितम् ॥ ७।२५ ॥
देवांशु उत्तमं प्रोक्तं मध्यमं क्षौममुच्यते ।
कार्पासतन्तुजं वस्त्रमधमं परिकीर्तितम् ॥ ७।२६ ॥
अर्कहस्तायतं वाऽथ विस्तारं स्याद्द्विहस्तकम् ।
मनोरमं तु सुश्लक्ष्णं विशिष्टं वस्त्रमुच्यते ॥ ७।२७ ॥
विस्ताराष्टगुणायामं सदशं तु सलक्षणम् ।
आखुदष्टाग्निदग्धं च केशविद्धं च वर्जयेत् ॥ ७।२८ ॥
वस्त्रमेवंविधं तच्च गृह्णीयादुपयोगि यत् ।
कुङ्कुमं चन्दनं दूर्वा सिधार्थोशीरकं तथा ॥ ७।२९ ॥
तिलेनैव समायुक्तं पाद्यं यद्वोत्तमं भवेत् ।
सिद्धार्थोशीरकं दूर्वायुक्तं मध्यममुच्यते ॥ ७।३० ॥
उशीरं चन्दनोपेतमधमं पाद्यमुच्यते ।
एलालवङ्गकर्पूरवरालफलसंयुतम् ॥ ७।३१ ॥
आप आचमनीयार्थमुशीरमयचन्दनैः ।
पलत्रयं च कर्पूरं त्रुटी पत्रं द्विजोत्तमाः ॥ ७।३२ ॥
आचामे तु प्रयोक्तव्यमेलोशीरयुतं तु वा ।
आपः क्षीरकुशाग्राणि यवसिद्धार्थतण्डुलैः ॥ ७।३३ ॥
तलैर्ब्रीहिसमायुक्तमर्घ्यमष्टाङ्गमुच्यते ।
आपः क्षीरकुशाग्राणि तण्डुलाः सुमनस्तिलाः ॥ ७।३४ ॥
अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैः सह ।
तण्डुलब्रीहिसिधार्थतिलोदकमथापि वा ॥ ७।३५ ॥
अर्घ्यं पुष्पजलोपेतमथवा समुदाहृतम् ।
चन्दनं चागरुञ्चैव कुङ्कुमं गन्ध उच्यते ॥ ७।३६ ॥
एकं द्वयं त्रयं वापि कर्पूरेण चतुष्टयम् ।
काश्मीरगन्धकर्पूरचन्दनैर्वा प्रकल्पयेत् ॥ ७।३७ ॥
प्रत्येकं निष्कमात्रं वा तदर्धं वा तदर्धकम् ।
उत्तमोत्तमलिङ्गादावापलादि पलावधि ॥ ७।३८ ॥
अतीव बलहीनानां यथालाभं प्रमाणतः ।
एवं पाद्यादिवस्तूनां प्रमाणं परिकीर्तितम् ॥ ७।३९ ॥
पुष्पाणां लक्षणं वक्ष्ये समासान्मुनिपुङ्गवाः ।
श्वेतपद्मं च पुन्नागं शङ्खपुष्पं च मल्लिका ॥ ७।४० ॥
नन्द्यावर्तं श्रियावर्तं मन्दारं बहुकर्णिका ।
द्विकर्णि कुरवं जाती लक्ष्मीश्च वकुलं तथा ॥ ७।४१ ॥
श्वेतार्कं मालतीद्रोणमतसीश्वेतलोध्रकम् ।
विषकासीसकुसुमं भद्रा च महती च सा ॥ ७।४२ ॥
व्याघ्री चम्पकपुष्पं च करवीरमशोकजम् ।
हालिका शतपत्रं च उन्मन्त्तं कुशपुष्पकम् ॥ ७।४३ ॥
एतानि श्वेतपुष्पाणि मुख्यामुख्यत्वभाञ्जि हि ।
रक्तपद्मं पलाशं च रक्तोत्पलं च पाटली ॥ ७।४४ ॥
मौसली चैव धुत्तूरं बृहती करवीरजम् ।
व्याघ्री च रक्तमन्दारः पट्टिका वैजिका तथा ॥ ७।४५ ॥
मुनिपुष्पं च तद्रक्तं रक्तान्येतानि निर्दिशेत् ।
शोनक्यं कर्णिकारं च चम्पकं हेमधुत्तुरम् ॥ ७।४६ ॥
आरग्वधं च कोरण्डं शैरीषं गिरिकर्णिकाम् ।
एतानि पीतपुष्पाणि कृष्णे नीलोत्पलं वरम् ॥ ७।४७ ॥
बिल्वपत्रं तपस्वी च महाभद्रा च धातकी ।
अपामार्गं कुशा दूर्वाः पञ्चबिल्वाः शमी तथा ॥ ७।४८ ॥
तुलसी चन्द्रपो दान्तः जम्बुको नागनन्दिका ।
एकपत्रारविन्दं च विष्णुक्रान्तिस्तथैव च ॥ ७।४९ ॥
सहकारस्तथा कृष्णतुलसी गन्धपत्रिका ।
एवमादीनि पत्राणि पुत्रवृद्धिकराणि च ॥ ७।५० ॥
उशीरह्रीबेरादिकुलानि शुभदानि हि ।
अर्कपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ॥ ७।५१ ॥
बकपुष्पसहस्रेभ्यो हेमधुत्तूरकं वरम् ।
धुत्तूरकसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥ ७।५२ ॥
(पृ० ४७)
सर्वासां पुष्पजातीनां श्रीमन्नीलोत्पलं वरम् ।[मातृकान्तरे
पाठान्तरम् -
अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ।
करवीरसहस्रेभ्यः पद्मपुष्पं विशिष्यते ॥
पद्मपुष्पसहस्रेभ्यो बिल्वपत्रं विशिष्यते ।
बिल्वपत्रसहस्रेभ्यो बकपुष्पं विशिष्यते ॥
चकपुष्पसहस्रेभ्यो धुत्तूरकं विशिष्यते ।
धुत्तूरकसहस्रेभ्यो बृहती च विशिष्यते ॥
सहस्राद् बृहतीपुष्पाद् द्रोणपुष्पं विशिष्यते ।
द्रोणपुष्पसहस्रेभ्यः अपामार्गं विशिष्यते ॥
अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ।
कुशपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥
शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्पलं वरम् ।
अन्यत्र पाठान्तरम् -
पद्मपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ॥
बकपुष्पसहस्रेभ्यो बिल्वपत्रं विशिष्यते ।
सर्वासां पुष्पजातीनां श्रीमन्नीलोत्पलं वरम् ॥]
करवीरसमा ज्ञेया जाती विजयपाटली ॥ ७।५३ ॥
श्वेतमन्दारकुसुमं शतपत्रञ्च तत्समम् ।
नागचम्पकपुन्नागा धुत्तूरकसमाः स्मृताः ॥ ७।५४ ॥
केतकी चातिमुक्तं च यूथी च नवमल्लिका ।
शिरीषसर्जबन्धूककुसुमानि विसर्जयेत् ॥ ७।५५ ॥
अङ्कोलपत्रकुसुमं त्यजेन्नृपतरूद्भवम् ।
वैभीतकानि पत्राणि कुसुमानि विवर्जयेत् ॥ ७।५६ ॥
निर्गन्धान्युग्रगन्धानि कुसुमानि विवर्जयेत् ।
गन्धवन्त्यपवित्राणि कुसुमानि विवर्जयेत् ॥ ७।५७ ॥
गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ।
कनकानि कदम्बानि रात्रौ देयानि शङ्करे ॥ ७।५८ ॥
दिवाशेषाणि पुष्पाणि दिवारात्रौ च मल्लिका ।
प्रहरार्धे स्मृता जाती करवीरमहर्निशम् ॥ ७।५९ ॥
केशकीटापविद्धानि शीर्णपर्युषितानि च ।
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥ ७।६० ॥
मुकुलैर्नार्चयेद्देवमपक्वं न निवेदयेत् ।
अलामेऽपीह पुष्पाणां पत्राण्यपि निवेदयेत् ॥ ७।६१ ॥
पत्राणामप्यलाभे तु फलान्यपि निवेदयेत् ।
फलानामप्यलाभे तु तृणगुल्मौषधीरपि ॥ ७।६२ ॥
ओषधीनामलाभे तु भक्त्या भवति पूजितः ।
प्रत्येकमुक्तपुष्पाणां दशसौवर्णकं फलम् ॥ ७।६३ ॥
स्वर्णाद्दशगुणं रत्नं माणिक्यादिनवोद्भवम् ।
स्रग्ग्रन्थितेषु तेष्वेव द्विगुणं फलमश्नुते ॥ ७।६४ ॥
आत्मारामोद्भवैः पुष्पैरथवा वनसम्भवैः ।
द्रव्यक्रीतैः प्रसूनाद्यैरर्चयेदन्यथा न च ॥ ७।६५ ॥
कृष्णागरुर्भवेदेको निर्यासो द्विगुणो भवेत् ।
त्रिगुणं चन्दनं प्रोक्तमीषत्कर्पूरमिश्रितम् ॥ ७।६६ ॥
शीतारिर्नाम धूपोऽयं विख्यातो मधुसम्प्लुतः ।
एकद्वित्रिचतुष्पञ्चनखचन्दनपायसैः ॥ ७।६७ ॥
तुरुष्कसंहितञ्चैव क्रमेण परिवर्धितम् ।
शीतारिधूपमेवं स्यान्मधुना च परिप्लुतम् ॥ ७।६८ ॥
यद्वा तुरुष्ककर्पूरनागरागरुचन्दनैः ।
मुरामांसिसितामिश्रं धूपं दद्यान्मधुप्लुतम् ॥ ७।६९ ॥
उशीरचन्दनोपेतं लघुयुक्तमधुष्लुतम् ।
मध्यमं धूपमाख्यातमुशीरादि शिवप्रियम् ॥ ७।७० ॥
गुग्गुलुर्घृतसंयुक्तस्त्वधमो धूप उच्यते ।
केवलं चागरुर्वापि धूपार्थं महिषाक्षि वा ॥ ७।७१ ॥
एकादिदशपर्यन्तं दीपाः स्युरधमाधमाः ।
शतादिः स्युः सहस्रान्ता अयुतं लक्षसीमकाः ॥ ७।७२ ॥
(पृ० ४८)
प्रयुताः कोटिसङ्ख्याताश्चायुताद्यर्बुदान्तकाः ।
दीपाः स्युरेकसङ्ख्यायां रात्रौ तद्द्विगुणं भवेत् ॥ ७।७३ ॥
अनिर्वाणप्रदीपाः स्युस्तदर्धाः स्युस्तदर्धकाः ।
एवं सङ्ख्या प्रदीपादौ सङ्ख्यैषा परिकीर्तिता ॥ ७।७४ ॥
कपिलागोघृतेनाऽथ दीपः सात्त्विक उच्यते ।
राजसं तिलतैलेन मिश्रमाजेन सर्पिषा ॥ ७।७५ ॥
एकद्वित्र्यङ्गुला ज्वालाः श्रेष्ठमध्याधमाः स्मृताः ।
तामसस्तु भवेद्दीपो माहिषेण तु सर्पिषा ॥ ७।७६ ॥
वृक्षबीजोद्भवैः स्नेहैर्दीपः पैशाच उच्यते ।
तामसश्चापि पैशाचो दीपो योग्येतरः स्मृतः ॥ ७।७७ ॥
हविष्यविधिसंसिद्धनैवेद्यं बहुधा स्मृतम् ।
होमस्तद्विधिसंसिद्धद्रव्यैर्भूतबलिस्तथा ॥ ७।७८ ॥
नित्योत्सवं तथा नित्यविधिना सम्प्रकल्पयेत् ।
ताण्डवं ताण्डवाध्याये नृत्तगेयादिलक्षणैः ॥ ७।७९ ॥
वक्ष्यामि तत्प्रभेदं तु तदा त्वेवावधार्यते ।
इत्थम्भूतार्चनाङ्गैः शिवयजनविधिं देहभृद्यः करोति
श्रद्धायुक्तस्त्रिलोक्यां सुरवरमहितः स्वामितो द्योतिताशः ।
यास्यत्यन्ते यथावच्छिवपुरमखिलोत्पत्तिसंसारहेतु-
ज्ञानानन्दस्वभावो दृढतरमलमायादिबन्धैर्विमुक्तः ॥ ७।८०
॥
॥ इति कामिकाख्ये महातन्त्रे क्रियापादे अर्चनाङ्गविधिः
पञ्चमः पटलः ॥