०४ अर्चनविधिपटलः

अथार्चनविधिं वक्ष्ये भुक्तिमुक्तिफलप्रदम् ।
परार्थं स्वार्थमित्येव द्विविधं तत्प्रकीर्तितम् ॥ ६।१ ॥
दीक्षान्ते गुरुणा दते लिङ्गे वा स्थण्डिलादिके ।
यजनं स्वार्थमाख्यातं स्वस्येष्टफलदं यतः ॥ ६।२ ॥
ग्रामखेटपुरादौ वा नद्यां पर्वत एव वा ।
अष्टषष्टिमहाक्षेत्रेष्वन्यत्र च मनोरमे ॥ ६।३ ॥
स्वयम्भुदैवबाणार्षलिङ्गयुक्ते शिवालये ।
मनुजैः स्थापिते लिङ्गे परार्थयजनं स्मृतम् ॥ ६।४ ॥
नृपतेरायुरारोग्यजयसम्पद्विवृद्वये ।
ग्रामादीनां विवृद्ध्यर्थं परार्थेज्या प्रयुज्यताम् ॥ ६।५ ॥
परार्थयजनं कार्यं शिवविप्रैस्तु नित्यशः ।
धार्मिकः कुरुते नित्यमादिशैवो द्विजोत्तमः ॥ ६।६ ॥
अन्ये तु स्वार्थकादन्यं कुर्युश्चेत्कर्तृनाशनम् ।
शिवसृष्टि विना ये तु जायन्ते ब्रह्मणो मुखात् ॥ ६।७ ॥
ते सामान्या न तेषां तु परार्थेज्याधिकारिता ।
यदि मोहेन कुर्वीरन् राज्ञो राष्ट्रस्य नाशनम् ॥ ६।८ ॥
भृत्यर्थं ये शिवं विप्राः सामान्यास्त्वर्वयन्ति चेत् ।
षण्मासात्पतनं यान्ति तस्मात्तान्परिवर्जयेत् ॥ ६।९ ॥
शिवदीक्षाभिषिक्तस्य शिवविप्रस्य धीमतः ।
शिवाज्ञावशतस्तस्य परार्थेज्या न दोषभाक् ॥ ६।१० ॥
अग्निहोत्राश्च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गार्चनस्यैते कोट्यंशेनापि नो समाः ॥ ६।११ ॥
जातेनात्मदुहा येन नार्चितो भगवाञ्च्छिवः ।
सुचिरं सञ्चरत्यस्मिन्संसारे दुःखसागरे ॥ ६।१२ ॥
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा ।
न त्वनभ्यर्च्य भुञ्जीयाद्भगवन्तं त्रिलोचनम् ॥ ६।१३ ॥
इति ज्ञात्वा प्रयत्नेन पूजनीयः सदाशिवः ।
आजानु पादौ प्रक्षाल्य हस्तावामणिबन्धनात् ॥ ६।१४ ॥
कार्यं त्रिविधविघ्नानां प्रासादादपसारणम् ।
दिव्या नभोगताश्चैव भूगतास्त्रिविधाः स्मृताः ॥ ६।१५ ॥
तत्त्वदृष्ट्या तु दिव्यांश्च पुष्पक्षेपान् नभोगतान् ।
पार्ष्णिघातत्रयाद्भोमान् प्रासादादपसारयेत् ॥ ६।१६ ॥
श्रेष्ठं पश्चान्मुखं लिङ्गमभावात् प्राङ्मुखं स्मृतम् ।
याम्यकौबेरवक्त्रन्तु न सिद्धाविष्यते बुधैः ॥ ६।१७ ॥
अथवा शान्तिकर्मादौ सौम्याभिमुखमिष्यते ।
एकद्वारविमानेष्यं नियमो निष्कलस्य तु ॥ ६।१८ ॥

(पृ० २६)

चतुर्द्वारे च मेर्वादौ लिङ्गे च चतुरानने ।
चतुर्द्वारं प्रकर्तव्यं तत्रायं नियमो न हि ॥ ६।१९ ॥
यस्यां दिशि भवेद् द्वारं तां प्राचीं परिकल्पयेत् ।
लिङ्गस्याभिमुखं यत्तु द्वारं तत्पूर्वमिष्यते ॥ ६।२० ॥
तत्र तत्पुरुषं वक्त्रमूर्ध्वञ्चाभिमुखं भवेत् ।
बलिपीठं वृषं शूलं तद्वक्त्राभिमुखं भवेत् ॥ ६।२१ ॥
गणपं भारतीमूर्ध्वे सव्ये गङ्गाञ्च नन्दिनम् ।
यमुनाञ्च महाकालं वामशाखागतौ यजेत् ॥ ६।२२ ॥
नन्दिकालौ तथा भृङ्गि विघ्नेशौ वृषषण्मुखौ ।
देवी चण्डौ द्विपार्श्वस्थौ द्वाराणां चतुरानने ॥ ६।२३ ॥
एते पूज्या नमोन्तैश्च हृदयाद्यैर्यथाक्रमम् ।
रूपसंस्थानभावैस्तु गन्धपुष्पादिभिः क्रमात् ॥ ६।२४ ॥
सामान्यार्ध्यं ततो दत्वा सव्यशाखां समाश्रितः ।
प्रविशेद्दक्षपादेन प्रासादाभ्यन्तरं गुरुः ॥ ६।२५ ॥
निवारणार्थं विघ्नानां न्यस्य खङ्गमुदुम्बरे ।
सम्पूज्यात्मभुवं वास्तोष्पते ब्रह्मण इत्यपि ॥ ६।२६ ॥
लिङ्गं प्रदक्षिणीकृत्य भक्त्या स्तुत्वा महेश्वरम् ।
गन्धपुष्पादिकं सर्वमानीतं परिचारकैः ॥ ६।२७ ॥
संवीक्ष्य द्रव्यसङ्घातं स्थापयेत् कलशान्सुधीः ।
वीक्षितांस्तत्त्वदृष्ट्या चाभ्युक्षितानस्त्रमन्त्रतः ॥ ६।२८ ॥
ताडितान् प्रोक्षितांश्चैव गृहीत्वा निः सरेद्बहिः ।
कलशान्सुशिरोनाहान् सुस्थिरान् छिद्रवर्जितान् ॥ ६।२९ ॥
भवन्तं पूजयामीति प्रार्थयेत यथा तथा ।
शिवतीर्थमनुप्राप्य षडङ्गेनाभिमन्त्रयेत् ॥ ६।३० ॥
कलशांस्तोयवस्त्रांश्च क्षालयित्वास्त्रमन्त्रतः ।
पूरयेद् रुद्रगायत्र्या हृदा तोयैः पटस्रुतैः ॥ ६।३१ ॥
सम्पूर्णकलशान् पश्चात्तद्वस्त्रेण प्रमार्जितान् ।
द्वौ द्वौ योक्तृनियुक्तांस्तानेकैकेन तु पाणिना ॥ ६।३२ ॥
गृहीत्वा प्रापयेद् गर्भगृहाग्रे वाऽथ मण्डपे ।
न स्पृशेदूरुपार्श्वस्थद्वारशाखादिकं यथा ॥ ६।३३ ॥
च्योतते न जलं भूमौ तथा कुर्याद्विचक्षणः ।
प्रलिप्तभूमावास्तीर्य कुशपुष्पादिकं हृदा ॥ ६।३४ ॥
स्थापयेत्कलशान् तत्र वर्धन्या वसुसङ्ख्यया ।
क्ष्मालोकपदपञ्चाशत्पञ्चपञ्चघटांस्तु वा ॥ ६।३५ ॥
विकारसङ्ख्यया वाऽथ तेषां द्विगुणसङ्ख्यया ।
स्नपनोक्त्याऽथ संस्थाप्य कुर्यान्नित्याभिषेचनम् ॥ ६।३६ ॥
आत्मशुद्धिक्रिया पूर्वा स्थानशुद्धिर्द्वितीयिका ।
तृतीया द्रव्यशुद्धिः स्याच्चतुर्थं मन्त्रशोधनम् ॥ ६।३७ ॥
पञ्चमी लिङ्गशुद्धिश्च कथ्यन्ते पञ्चशुद्धयः ।
मार्जिते चोपलिप्ते च धामन्यन्यत्र वा बुधः ॥ ६।३८ ॥
कुशकॢप्तासने बृस्यामथ कृष्णमृगाजिने ।
यथेष्टमासनं बध्वा ऋजुकायोत्तराननः ॥ ६।३९ ॥
चन्दनालिप्तहस्तौ तौ शोधयेदस्त्रमन्त्रतः ।
परस्परौ च संस्पृश्य तलकौ हस्तपृष्ठकौ ॥ ६।४० ॥
अमृतीकृत्य मूलेन वौषडन्तेन मन्त्रतः ।
विद्याशरीरतां ध्यात्वा तयोः शक्त्यन्तमुत्तमम् ॥ ६।४१ ॥
मूलेन शिवमावाह्य ब्रह्माण्यङ्गानि विन्यसेत् ।
गृहस्थः सृष्टिमार्गेण करन्यासं तु कारयेत् ॥ ६।४२ ॥
वानप्रस्थयतीनां च संहारन्यासमुच्यते ।
अङ्गुष्ठादिकनिष्ठान्तमीशात्सद्यावसानकम् ॥ ६।४३ ॥
सृष्टिन्यासः समाख्यातः सद्यादीशावसानकम् ।
कनिष्ठाद्यङ्गुष्ठान्तं च संहारन्यासमुच्यते ॥ ६।४४ ॥
जगतः सृष्टिसंहारक्रम एवात्र च क्रमः ।
नेत्रं हस्ततले न्यस्य पश्चादङ्गानि विन्यसेत् ॥ ६।४५ ॥
अङ्गुष्ठादिकनिष्ठान्तं कनिष्ठाद्यङ्गुष्ठकावधि ।
तर्जन्याङ्गुष्ठके न्यासः सर्वास्वङ्गुष्ठतो भवेत् ॥ ६।४६ ॥

(पृ० २७)

तर्जन्यन्तं न्यसेद्धीमान् तर्जन्या मस्तकं न्यसेत् ।
यद्वास्त्रवर्मचूडाकहृदोऽङ्गुष्ठादितो न्यसेत् ॥ ६।४७ ॥
सृष्टौ प्रतीपको न्यासः संहारो मोक्षकाङ्क्षिणाम् ।
मूर्धादिः सृष्टिरित्युक्ता पादादिः संहृतिर्भवेत् ॥ ६।४८ ॥
विद्येश्वराणां बीजानि चाङ्गुष्ठादि पुनर्न्यसेत् ।
अमृतीकृत्य भावेन कवचेनावकुण्ठयेत् ॥ ६।४९ ॥
एवं शिवीकृतौ हस्तौ समर्थौ सर्वकर्मसु ।
सकलीकरणे सन्ध्याकाले चाचमने तथा ॥ ६।५० ॥
करन्यासो विधातव्यस्तद्विशेषविधावपि ।
संहारमुद्रया देहव्याप्तं चित्तं निरुध्य च ॥ ६।५१ ॥
हृत्पद्मगह्वराधारे शिवे वा व्योम्नि निर्मले ।
हृत्कण्ठतालुभ्रूशङ्खरोधिन्यो ब्रह्मरन्ध्रकम् ॥ ६।५२ ॥
कुटिला व्यापिनी तन्वी समना उन्मना तथा ।
तासामुपरि या शक्तिस्तस्यां वा योजयेन्नरः ॥ ६।५३ ॥
कृत्वाभिध्यानमादौ तु दहेद्देहमनन्तरम् ।
योजनं देशिकैः कार्यं रक्षार्थं भोग्यकर्मणाम् ॥ ६।५४ ॥
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते क्षणात् ।
मुक्तौ कर्मणि देवाज्ञावशतो नास्ति तल्लयः ॥ ६।५५ ॥
तिरोभावकरी शक्तिः शिवस्य परमेष्ठिनः ।
संसिद्धा जगतः सृष्टिलयभोगादिहेतुका ॥ ६।५६ ॥
यथा मलसमोपेतं कनकं वह्निशोधितम् ।
प्रध्वस्ताशेषदोषोऽयं निर्मलश्चावशिष्यते ॥ ६।५७ ॥
धारणाभिस्तथा ध्वस्तपापौघो निर्मलः पुमान् ।
अधिकारवशाद् भूयो देहित्वं प्रतिपद्यते ॥ ६।५८ ॥
दीक्षितो यः पुमान् साक्षाज्जीवन्मुक्तः स उच्यते ।
कृत्वैवं योजनं पश्चात् ततस्तत्वानि भावयेत् ॥ ६।५९ ॥
त्रितत्त्वं पञ्चतत्त्वं वा नवतत्त्वमथापि वा ।
पञ्चविंशति षट्त्रिंशदेकं वाऽध्यात्मिकं तु वा ॥ ६।६० ॥
दीक्षायामुदितं यत्तु तद्वदत्रापि कारयेत् ।
पञ्चतत्त्वक्रमाद्वक्ष्ये शोधनं देहशुद्धये ॥ ६।६१ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ।
एताः कलास्ताभिरेव व्याप्तं सर्वमिदं जगत् ॥ ६।६२ ॥
मन्त्राः पदानि वर्णैश्च व्याप्तानीह समन्ततः ।
वर्णास्तु भुवनैर्व्याप्तास्तत्त्वैर्व्याप्तानि तानि तु ॥ ६।६३ ॥
कलाभिस्तानि तत्त्वानि व्याप्तनीह कलाः क्रमात् ।
शोधनीया विभाव्यैवं पञ्चपञ्चाध्वगर्भिताः ॥ ६।६४ ॥
वर्णचिह्नाकृतिगुणैः मन्त्रमन्त्रेशपूर्वकैः ।
यद्ध्यानं प्रतिपर्वं तु प्राणायामसमन्वितम् ॥ ६।६५ ॥
तदत्र धारणा प्रोक्ता विषनिर्हरणादिवत् ।
पार्थिवं चतुरश्रं तु हेमाभं वज्रलाञ्छितम् ॥ ६।६६ ॥
लबीजं ब्रह्मदैवत्यमजातहृदयात्मकम् ।
निवृत्त्याख्यकलोपेतं ह्णामित्युद्धातपञ्चकम् ॥ ६।६७ ॥
आप्यम् इन्दुसिताब्जाङ्कं विष्णुदैवं वबीजकम् ।
वामशीर्षसमायुक्तं प्रतिष्ठाकलयान्वितम् ॥ ६।६८ ॥
युक्तं चतुर्भिरुद्धातैर्ह्वीमित्युच्चारपूर्वकम् ।
अग्निस्त्र्यश्रं सप्तशिखं रक्ताभं रुद्रदैवतम् ॥ ६।६९ ॥
रार्णाघोरशिखायुक्तं विद्याख्यकलयान्वितम् ।
युक्तं तत्त्रिम्भिरुद्घातैर्ह्रूमित्युच्चारसंयुतम् ॥ ६।७० ॥
वायव्यं रसकोणं तु बिन्दुषट्कमथाऽसितम् ।
ईशाधिपत्यं यार्णं तत्पुरुषकवचैर्युतम् ॥ ६।७१ ॥
शान्त्या युक्तं द्विरुद्धातैर्ह्यैमित्युच्चारपूर्वकम् ।
आकाशं वर्तुलं त्यक्तलाञ्च्छनं धूम्रवर्णकम् ॥ ६।७२ ॥
सदेशाधिष्ठितं हार्णमीशास्त्रातीतसंयुतम् ।
एकोद्घातेन हौमुक्त्वा यथास्थानं प्रयोजयेत् ॥ ६।७३ ॥
पार्थिवं हृदयस्थानमाप्यं कण्ठगतं भवेत् ।
वाह्नेयं तालुमूले तु भ्रूमध्ये वायुसम्भवम् ॥ ६।७४ ॥

(पृ० २८)

ब्रह्मग्रन्थियुतं व्योमस्थानं यद्वान्यथा मतम् ।
आजानु पृथिवी ज्ञेया नाभेराप्यं निगद्यते ॥ ६।७५ ॥
अनलं कण्ठदेशात्तु वायुरामुखमण्डलात् ।
तदूर्ध्वं गगनस्थानं धारणार्थं प्रकीर्तितम् ॥ ६।७६ ॥
प्राणायामं समासेन कथयामि विशेषतः ।
रेचकं पूरकं चैव कुम्भकं च त्रिधाऽभ्यसेत् ॥ ६।७७ ॥
अकारोकारमकारास्त्वक्षराः परिकीर्तिताः ।
ब्रह्मविष्णुहरास्तेषामधिदेवाः प्रकीर्तिताः ॥ ६।७८ ॥
आत्मविद्याशिवाख्यानि तत्त्वानि स्युर्यथाक्रमम् ।
मात्राद्वादशभिर्हीनो द्विगुणैर्मध्यमो मतः ॥ ६।७९ ॥
त्रिगुणैरुत्तमः कालः प्रत्येकं रेचकादिषु ।
रेचयेद्देहगं वायुमशुद्धं व्योमसंस्थितम् ॥ ६।८० ॥
शुद्धं वायुं पूरकेण समाहृत्य शनैः शनैः ।
सम्पूर्णकुम्भवत्तिष्ठेद्रेवयेत्तदनन्तरम् ॥ ६।८१ ॥
घण्टिकां तालुवा बध्वा फट्कारोच्चारयोगतः ।
पाशुपतेन शस्त्रेण रेवयेद्बन्धमोचनात् ॥ ६।८२ ॥
ततो ग्रन्थिविभेदोपि भावनीयस्तदा तदा ।
स्थानात्स्थानान्तरप्राप्तिर्जीवस्यास्य तदुत्क्रमात् ॥ ६।८३ ॥
सूक्ष्मप्राणायामं कृत्वा देहवक्रवदाचरेत् ।
शिवेन सहितं चान्तं चोद्घातग्रन्थिभेदतः ॥ ६।८४ ॥
ऊर्ध्वमूलमधःशाखं कल्प्य संसारपादपम् ।
पूरकार्द्धेन पार्थिव्या हेयोपादेयवित्सुधीः ॥ ६।८५ ॥
आप्यायितं तद्वारुण्या पूरकापरभागतः ।
पत्रपुष्पफलोपेतं स्निग्धं वैराग्यशस्त्रतः ॥ ६।८६ ॥
छेदयित्वा तदाग्नेय्या कुम्भकेन विशोष्य च ।
ज्ञानानलेन निर्दग्धं पादाङ्गुष्ठादिकान्तकम् ॥ ६।८७ ॥
रेचकेनाथ वायव्या भस्मीभूतं दिशो दश ।
प्रलीनमन्त्यया शुद्धं निर्मलं व्योम भावयेत् ॥ ६।८८ ॥
महामायाञ्च विक्षोभ्य शाक्तं देहं प्रकल्पयेत् ।
आप्लाव्य चामृतेनैव विद्याङ्गं विन्यसेत्ततः ॥ ६।८९ ॥
इच्छाज्ञानक्रियाशक्तिलोचनं मातृकात्मकम् ।
आवाह्य तत्र चात्मानं मुद्रया पुष्पमन्त्रयुक् ॥ ६।९० ॥
ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ॥ ६।९१ ॥
सद्योजातं न्यसेत्पादे तत्तन्मुद्रासमन्वितम् ।
मूर्धादिपादपर्यन्तं मालाब्रह्माणि विन्यसेत् ॥ ६।९२ ॥
ऊर्ध्वेन्द्रयाम्यसौम्याप्यवक्त्रेष्वीशादितो न्यसेत् ।
बीजब्रह्माणि वा विद्वानष्टत्रिंशत्कलां न्यसेत् ॥ ६।९३ ॥
ईशानः सर्वविद्यानां नमोन्तं चोर्ध्वमूर्धनि ।
ईश्वरः सर्वभूतानां नमोन्तं पूर्वमूर्धनि ॥ ६।९४ ॥
ब्रह्मणोधिपतिर्ब्रह्म नमोन्तं याम्यमूर्धनि ।
शिवो मेऽस्तु नमोऽन्तं च तथा कौबेरमूर्धनि ॥ ६।९५ ॥
सदाशिव्ॐ नमोन्तञ्च विन्यसेदाप्यमूर्धनि ।
ईशानस्य कलाः पञ्च प्रणवादि प्रकल्पयेत् ॥ ६।९६ ॥
शशिनी चाङ्गदा इष्टा मरीचिर्ज्वालिनी तथा ।
नामैशानकलानां स्यात्तन्नाम्ना केवलं तु वा ॥ ६।९७ ॥
प्रणवेनोर्ध्ववक्त्रे तु कलामादौ तु विन्यसेत् ।
तत्पुरुषाय विद्महे नत्यन्तं पूर्ववक्त्रके ॥ ६।९८ ॥
महादेवाय धीमहि नत्यन्तं दक्षिणानने ।
तन्नो रुद्र नमोन्तं च कल्पयेदुत्तरानने ॥ ६।९९ ॥
प्रचोदयान्नमोन्तं च कल्प्यं पश्चिमवक्त्रके ।
कलाश्चतस्रो वक्त्रे स्युर्मूर्ध्न्यव्यक्तकला भवेत् ॥ ६।१०० ॥
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः कलाः ।
अघोरेभ्योपि नत्यन्तं तमां हृदयगोचरे ॥ ६।१०१ ॥
नत्यन्तमथ घोरेभ्यो मोहां कण्ठे तु विन्यसेत् ।
रक्षां घोरनमोन्तं च दक्षिणांसे तु विन्यसेत् ॥ ६।१०२ ॥

(पृ० २९)

निष्ठां घोरतरेभ्यश्च नमो वामांसके न्यसेत् ।
मृत्युं च सर्वतः सर्वनमो नाभौ तु विन्यसेत् ॥ ६।१०३ ॥
शर्वेभ्यो नम इत्युक्त्वा मायां च जठरे न्यसेत् ।
नमस्ते रुद्रनत्यन्तमभयां पृष्ठके न्यसेत् ॥ ६।१०४ ॥
जरामुरसि रूपेभ्यो नमः प्रणवपूर्वकम् ।
बहुरूपकलाश्चाष्टौ विद्यादेहे प्रकल्पयेत् ॥ ६।१०५ ॥
वामदेवाय नत्यन्तं रजां गुह्ये तु विन्यसेत् ।
रक्षां ज्येष्ठाय नत्यन्तं लिङ्गे प्रणवकं न्यसेत् ॥ ६।१०६ ॥
रतिं रुद्राय नत्यन्तं दक्षिणोरुगतं न्यसेत् ।
पाल्यां कालाय नत्यन्तं वामोरुगतमावहेत् ॥ ६।१०७ ॥
कामां कलनमोन्ताञ्च दक्षजानुनि विन्यसेत् ।
विकरणाय नमोन्तं च संयमीं वामजानुनि ॥ ६।१०८ ॥
क्रियां बलनमोन्तं च जङ्घायां दक्षिणे न्यसेत् ।
बुद्धिं विकरणायेति नमोन्तं वामजङ्घिके ॥ ६।१०९ ॥
कार्यां बलनमोन्तं च दक्षिणस्फिचि विन्यसेत् ।
धात्रीं प्रमथनायेति नमोन्तं वामतस्स्फिचि ॥ ६।११० ॥
नमोन्तं ब्राह्मणीं कट्यां न्यसेद्ॐकारपूर्वकम् ।
सर्वभूतदमनाय पदमेकं प्रकल्पयेत् ॥ ६।१११ ॥
नत्यन्तं मन इत्येवं मोहिनीं दक्षपार्श्वके ।
उन्मनायेति नत्यन्तं भवां पार्श्वे तु वामके ॥ ६।११२ ॥
त्रयोदश कलाश्चैवं वामदेवस्य कीर्तिताः ।
सद्योजातं प्रपद्यामि सिद्धि दक्षिणपादके ॥ ६।११३ ॥
सद्योजाताय वै नमो ऋद्धिं वामाङ्घ्रिके न्यसेत् ।
द्युतिं भवे नमोन्तं च न्यसेद्दक्षिणबाहुके ॥ ६।११४ ॥
अभवे नम इत्युक्त्वा लक्ष्मीं वामकरे न्यसेत् ।
न्यसेन्नातिभवे मेधां नत्यन्तं नासिकाग्रतः ॥ ६।११५ ॥
भवस्व मां नमोन्तं च कान्तिं शिरसि विन्यसेत् ।
स्वधां भवनमोन्तं च न्यसेद्दक्षिणबाहुके ॥ ६।११६ ॥
उद्भवाय नमोन्तं च धृतिं बाहौ तु वामके ।
सद्योजातकलाश्चाष्टौ न्यसेत्सर्वाः स्वमुद्रया ॥ ६।११७ ॥
अष्टत्रिंशत्कलान्यासाद् विद्यादेहं विधाय च ।
मूलमन्त्रं समावाह्य पश्चादङ्गानि विन्यसेत् ॥ ६।११८ ॥
हृदयं हृदये न्यस्य शिरः शिरसि विन्यसेत् ।
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ॥ ६।११९ ॥
हस्तयोर्हेतिविन्यस्य लिपिन्यासमथाचरेत् ।
दीपकं वाग्भवं बिन्दुं श्रीकण्ठाय पदं ततः ॥ ६।१२० ॥
पूर्णोदर्यै नमश्चेति न्यसेत्केशान्तदेशगम् ।
न्यसेत् ॐ आम् अनन्ताय विरजायै नतिः पुनः ॥ ६।१२१ ॥
न्यसेल्ललाटे दीपाद्यमिं सूक्ष्माय पदं ततः ।
शाल्मल्यै नम इत्येवं न्यसेद्दक्षिणचक्षुषि ॥ ६।१२२ ॥
ॐ ईं त्रिमूर्तये चेति लोलाक्ष्यै नम इत्यपि ।
न्यसेद्वामाक्षिमध्ये तु ओमुङ्कारमनन्तरम् ॥ ६।१२३ ॥
ततोऽमरेश्वरायेति वर्तुलाक्ष्यै नमः पुनः ।
दक्षश्रोत्रे न्यसेदेतदोमूङ्कारमनन्तरम् ॥ ६।१२४ ॥
अर्घीशाय ततो दीर्घघोणायै नम इत्यपि ।
वामकर्णे न्यसेदेतदोमृङ्कारं तु विन्यसेत् ॥ ६।१२५ ॥
यद्भारभूतये चेति दीर्घमुख्यै नमः पुनः ।
दक्षनासापुटे न्यसेत् ओमॄङ्कारमनन्तरम् ॥ ६।१२६ ॥
पदं यन्निधनेशाय गोमुख्यै नम इत्यपि ।
वामनासापुटे न्यस्येत् ॐ ऌ।कारमनन्तरम् ॥ ६।१२७ ॥
स्थाणवे दीर्घजिह्वायै नमो गण्डे तु दक्षिणे ।
ॐ ॡङ्कारपदं पूर्वं हरायेति पदं पुनः ॥ ६।१२८ ॥
कुण्डोदर्यै नमश्चेति वामगण्डे तु विन्यसेत् ।
ओमेङ्कारपदं पूर्वं चण्डीशाय पदं पुनः ॥ ६।१२९ ॥
ऊर्ध्वकेश्यै नमश्चेति विन्यसेदुत्तरोष्टके ।
ओमैङ्कारमथोद्धृत्य भौतिकाय पदं पुनः ॥ ६।१३० ॥

(पृ० ३०)

पदं विकृतिमुख्यै स्यात् नत्यन्तमधरोष्टके ।
ओम्ॐकारमथोद्धृत्य सद्योजाताय यत्पदम् ॥ ६।१३१ ॥
ज्वालामुख्यै नमश्चेति विन्यसेदूर्ध्वदन्तके ।
ओमौमनुग्रहेशाय उल्कामुख्यै नमः पुअनः ॥ ६।१३२ ॥
न्यसेदधोगते दन्तपङ्क्तिके साधकोत्तमः ।
ओमङ्कारं समुद्धृत्य क्रूराय च पदं पुनः ॥ ६।१३३ ॥
श्रीमुख्यै नम इत्येतन्मूर्ध्नि विन्यस्य भावयेत् ।
ओमःकारं समुद्धृत्य महासेनाय यत्पदम् ॥ ६।१३४ ॥
विद्यायै नम इत्येवमास्ये न्यस्येत्स्वरास्त्विमे ।
ॐकङ्कारं समुद्धृत्य क्रोधीशाय पदं पुनः ॥ ६।१३५ ॥
महाकाल्यै नमश्चेति न्यसेद्दक्षिणबाहुके ।
ॐ खङ्कारं समुद्धृस्य चण्डेशाय पदं पुनः ॥ ६।१३६ ॥
सरस्वत्यै नमश्चेति न्यसेद्दक्षिणकूर्परे ।
ॐ गङ्कारं समुद्धृत्य पदं पञ्चान्तकाय च ॥ ६।१३७ ॥
यत्सर्वसिद्धिगौर्यै स्यान्नमस्कारमनन्तरम् ।
दक्षिणे मणिबन्धे स्याद्ॐ घङ्कारमनन्तरम् ॥ ६।१३८ ॥
पदं शिवोत्तमायेति समुद्धृत्य यथाविधि ।
नतिस्त्रैलोक्यवन्द्यायै दक्षपाणितले न्यसेत् ॥ ६।१३९ ॥
ॐ ङङ्कारं समुद्धृत्य चैकरुद्राय यत्पदम् ।
मन्त्रशक्त्यै नमश्चेति न्यसेद्दक्षकराग्रतः ॥ ६।१४० ॥
ॐ चङ्कारं समुद्धृत्य कूर्मायेति पदं पुनः ।
आत्मशक्त्यै नमश्चेति वामबाहौ तु विन्यसेत् ॥ ६।१४१ ॥
ॐ छङ्कारं समुद्धृत्य एकनेत्राय यत्पदम् ।
भूतमात्रे नमश्चेति विन्यसेद्वामकूर्परे ॥ ६।१४२ ॥
ॐ जं चतुर्मुखायेति लम्बोदर्यै नमोन्तकम् ।
वामे तु मणिबन्धे स्याद्ॐ झङ्कारमनन्तरम् ॥ ६।१४३ ॥
अजेशाय पदं पश्चाद्द्राविण्यै नम इत्यपि ।
वामपाणितले न्यस्येद्ॐ ञङ्कारमनन्तरम् ॥ ६।१४४ ॥
चन्द्राय च नगर्यै स्यान्नतिर्वामकराग्रतः ।
ॐ टङ्कारं समुद्धृत्य सोमेशाय पदं पुनः ॥ ६।१४५ ॥
खेचर्यै नम इत्येतन्न्यसेद्दक्षोरुमूलके ।
ॐ ठङ्कारं समुद्धृत्य पदं लाङ्गलिने नमः ॥ ६।१४६ ॥
मञ्जर्यै नम इत्येतद्विन्यसेद्दक्षजानुनि ।
ॐ डङ्कारं समुद्धृत्य दारुकाय पदं पुनः ॥ ६।१४७ ॥
रूपिण्यै नम इत्येवं दक्षजङ्घाग्रके न्यसेत् ।
ॐ ढङ्कारपदं यत्तदर्धनारीश्वराय च ॥ ६।१४८ ॥
वीरायै च नश्चेति दक्षपादतले न्यसेत् ।
ॐ णङ्कारं समुद्धृत्य उमाकान्ताय यत्पदम् ॥ ६।१४९ ॥
खादिर्यै नम इत्येवं दक्षपादतलाग्रके ।
ॐ तङ्कारं समुद्धृत्य षडीशायेति यत्पदम् ॥ ६।१५० ॥
पूतनायै नमश्चेति न्यसेद्वामोरुमूलके ।
ॐ थङ्कारं समुद्धृत्य डिण्डिने यत्पदं पुनः ॥ ६।१५१ ॥
भद्रकाल्यै नमश्चेति विन्यसेद्वामजानुनि ।
ॐ दङ्कारं समुद्धृत्य अत्रये यत्पदं पुनः ॥ ६।१५२ ॥
गोमत्यै नम इत्येतद्वामजङ्घाग्रके न्यसेत् ।
ॐ धङ्कारं समुद्धृत्य चेशानाय पदं पुनः ॥ ६।१५३ ॥
शङ्खिन्यै नम इत्येतद्वामपादतले न्यसेत् ।
ॐ नङ्कारं समुद्धृत्य मेषाय पदमुद्धरेत् ॥ ६।१५४ ॥
गर्जिन्यै नम इत्येतद्वामपादतलाग्रके ।
ॐ पंलोहितायेति कालारात्र्यै नमः पदम् ॥ ६।१५५ ॥
दक्षपार्श्वे न्यसेद्ॐ फं शिखिन्यै नम इत्यपि ।
कुब्जिन्यै नम इत्येवं वामपार्श्वे तु विन्यसेत् ॥ ६।१५६ ॥
ॐ बङ्कारं समुद्धृत्य छगलण्डाय यत्पदम् ।
कामिन्यै नम इत्येवं पृष्ठभागे तु विन्यसेत् ॥ ६।१५७ ॥
ॐ भङ्कारं समुद्धृत्य द्विरण्डायेति यत्पदम् ।
वज्रायै नम इत्येवं नाभिदेशे तु विन्यसेत् ॥ ६।१५८ ॥

(पृ० ३१)

ॐ मं महाकालायेति जयायै नम इत्यपि ।
हृद्देशे विन्यसेद्ॐ यं पदं यत्तत्त्वगात्मने ॥ ६।१५९ ॥
पालिने सुमुखेश्वर्यै नमश्चेति त्वचि न्यसेत् ।
ॐ रं रक्तात्मने चेति भुजङ्गायेति यत्पदम् ॥ ६।१६० ॥
रेवत्यै नम इत्येतत् पदं रुधिरगोचरे ।
ॐ लं वसात्मने चेति पदं यत्तु पिनाकिने ॥ ६।१६१ ॥
माधव्यै नम इत्येतत् पदं मांसगतं न्यसेत् ।
ॐ वं मेदोमयायेति खङ्गीशाय पदं पुनः ॥ ६।१६२ ॥
वारुण्यै नम इत्येतत्पदं मेदसि विन्यसेत् ।
ॐ शम् अस्थ्यात्मने चेति बेकायेति समुद्धरेत् ॥ ६।१६३ ॥
वायव्यै नम इत्येतत्पदमस्थिनि विन्यसेत् ।
ॐ षं मज्जात्मने चेति श्वेताय पदमुद्धरेत् ॥ ६।१६४ ॥
पदं रक्षोपधारिण्यै नमो मज्जगतं न्यसेत् ।
ॐ सं शुक्लात्मने चेति भृगवे पदमुद्धरेत् ॥ ६।१६५ ॥
सहजायै नमश्चेति पदं रेतसि विन्यसेत् ।
ॐ हं प्राणात्मने चेति लकुलीशाय यत्पदम् ॥ ६।१६६ ॥
पदं लक्ष्यै नमश्चेति मन्त्रमेतद्धृदि न्यसेत् ।
ॐ लं लिङ्गात्मने चेति तमोरूपाय यत्पदम् ॥ ६।१६७ ॥
व्यापिन्यै नम इत्येतल्लिङ्गमूले तु विन्यसेत् ।
ॐ क्षं क्रोधात्मने चेति वर्तकायेति यत्पदम् ॥ ६।१६८ ॥
मायायै नम इत्येतत्पदं लिङ्गाग्रके न्यसेत् ।
हृदादिस्थानगैर्वर्णैर्मातृकाङ्गानि कल्पयेत् ॥ ६।१६९ ॥
दीपलेखां हसौ पूर्वं भान्तकेशान्तिमं तथा ।
कुचं चक्षुर्द्वयं कूटं हृदाद्यैर्जातिभिर्युतम् ॥ ६।१७० ॥
षडङ्गमेतत्कथितं मातृकायास्तपोधनाः ।
आद्यं मध्यनियोज्यमाद्यमथवा मध्येगतं योजये
ल्लोपं कीलमिति स्मृतं विचरतो यत् स्वस्य रूपं लिखेत् ।
मन्त्रस्योच्चरणेऽखिलस्य च लिपौ संयोगतो युक्तितः
कीलं मन्त्रसुसिद्धये जपतु तत् संयोज्य संलोप्य च ॥ ६।१७१ ॥
एतत्कीलप्रयोगेण ज्ञात्वा सर्वं समाचरेत् ।
हृच्छिरश्चूलिकावर्मनेत्रास्त्राणि यथाक्रमम् ॥ ६।१७२ ॥
नमः स्वाहा वषट् हुं च वौषट् फट् चेति जातयः ।
एवं कृत्वा लिपिन्यासं तत्त्वानां नवकं न्यसेत् ॥ ६।१७३ ॥
चन्द्रबिम्बे च नादे च भ्रूमध्ये तालुरन्ध्रके ।
कण्ठहृन्नाभिदेशेषु शाश्वतस्थान एव च ॥ ६।१७४ ॥
मूलस्थाने यथान्यायं न्यसेत्कण्ठोक्तमन्त्रकम् ।
त्र्यक्षरं मेलनायुक्तं नाभौ हृदि ललाटके ॥ ६।१७५ ॥
व्योमव्यापि न्यसेत्पश्चात् मूर्धाद्यङ्गुष्ठसीमकम् ।
एवं मन्त्रत्वमापन्नो दिव्यदेहे यथाक्रमात् ॥ ६।१७६ ॥
पूजाहोमसमाधीनां स्थानानि परिकल्पयेत् ।
हृदयेऽर्चाविधानं तु नाभौ होमं प्रकल्पयेत् ॥ ६।१७७ ॥
ललाटे चेश्वरं ध्यायेद्वरदं सर्वतोमुखम् ।
हृदये कल्पयेद्धाम ईश्वरावाहनक्रमे ॥ ६।१७८ ॥
आसनं कल्पयेदत्र वक्ष्यमाणविधानतः ।
आवाह्य देवं गन्धाद्यैर्मानसैः शिवमर्चयेत् ॥ ६।१७९ ॥
नाभिकुण्डे स्वभावोत्थे तर्पयेत्परमामृतैः ।
उद्दीप्य च निजं वह्निं संरुद्धापानवृत्तितः ॥ ६।१८० ॥
स्थाणुस्थाने स्मरेल्लिङ्गं स्फटिकाभं महोज्ज्वलम् ।
तन्मध्यगं शिवं ध्यात्वा तदेकीभावमाश्रितः ॥ ६।१८१ ॥
इडयापूर्य पूजा स्याद्धुनेत्पिङ्गलयाऽमृतम् ।
आधारे प्राणमावेश्य बध्वा ग्रन्थि समूलकम् ॥ ६।१८२ ॥
देवनाड्या समापूर्य कोदण्डे ध्यानमभ्यसेत् ।
यद्वा विस्तरतः कुर्यान्मानसं यागमादरात् ॥ ६।१८३ ॥
शिवाद्यवनिपर्यन्तं तत्त्वप्राणार्थकं स्वकम् ।
देवं विचिन्त्य तत्रस्थं त्रिपक्षमुपकल्पयेत् ॥ ६।१८४ ॥
आसनं मूर्तिपक्षं च शम्भुपक्षं तथैव च ।
त्रिपक्षक्षयगम्? ध्यायेत्तत्त्वग्रामं चतुर्विधम् ॥ ६।१८५ ॥

(पृ० ३२)

अस्मिन्देहे प्रवितते कल्प्य शक्त्याख्यमासनम् ।
मूर्तिविद्यातनुं कल्प्य समावाह्य शिवं ततः ॥ ६।१८६ ॥
कर्णिकायां यजेद्देवं ब्रह्माङ्गैश्च समावृतम् ।
गणेशैर्लोकपालैश्च हेतिभिर्वज्रपूर्वकैः ॥ ६।१८७ ॥
त्रिभिरावरणैर्वापि एकेनावरणेन वा ।
सप्तविंशत्यावरणैर्यथाशक्ति समर्चयेत् ॥ ६।१८८ ॥
मनसा कल्पितैर्द्रव्यैर्मनःकॢप्ते तु मन्दिरे ।
मनसा भावयन्नित्यं पूजयेत्परमेश्वरम् ॥ ६।१८९ ॥
ध्यायन् गरुडतां यद्वद् गुरुर्निर्विषताफलम् ।
प्राप्नोति तद्वदत्रापि फलमिष्टमवाप्नुयात् ॥ ६।१९० ॥
प्राणवृत्तिनिरोधेन यजनं कुरुते यथा ।
प्राधर्मिकानां सर्वेषां प्रत्यावृत्ति विरेचयेत् ॥ ६।१९१ ॥
शक्तिभिः पञ्चब्रह्माणि शिवाङ्गं मूर्तिमेव च ।
महेशं सदाशिवं चैव शिवमिष्ट्वा तु रेचयेत् ॥ ६।१९२ ॥
विद्येश्वरावृतौ चैव गणेशावरणे तथा ।
लोकपालास्त्रयोश्चैव रुद्रादीनामथावृतौ ॥ ६।१९३ ॥
रेचयित्वा तु भूयोऽपि यजेदावरणं प्रति ।
चन्द्रार्कोदयतः पूजा वृथा क्लेशो भविष्यति ॥ ६।१९४ ॥
चन्द्रार्कनाशने पूजा साधयेदीप्सितं फलम् ।
सुषुम्नामध्यगे प्राणे पूजयेत्सर्वदेवताः ॥ ६।१९५ ॥
यद्वा षड्गुणदेहाय शक्तिदेहोऽथ साधकः ।
पार्थिवाद्यष्टपूजाख्यतत्त्वजातं समर्पयेत् ॥ ६।१९६ ॥
पार्थिवं सकलं गन्धो भवत्यापोऽभिषेचनम् ।
ता एव पाननैवेद्यं तैजसं दी?पमालिका ॥ ६।१९७ ॥
वायव्यं तालवृन्ताद्यं गानाद्यं व्योमसम्भवम् ।
एवञ्चेतरतत्त्वानि यथायोग्यं निवेद्य च ॥ ६।१९८ ॥
शिवेनैवोक्तवद्व्यात्वा निर्द्वन्द्वोऽमृतमश्नुते ।
कृत्वैवमात्मशुद्धिं तु स्थानशुद्धिमथाचरेत् ॥ ६।१९९ ॥
तालमुद्रात्रयं कृत्वा प्राकारं हेतिना स्मरेत् ।
तद्बहिःपरिघां ध्यात्वा कवचेनैव मन्त्रतः ॥ ६।२०० ॥
अस्त्रजालं तु तद्बाह्ये न्यसेद्विघ्नापनुत्तये ।
दिव्यं धाम विचिन्त्याऽथ द्रव्यशुद्धिं प्रकल्पयेत् ॥ ६।२०१ ॥
ततः सम्पूर्य गन्धाम्बु वर्धन्यामस्त्रमन्त्रतः ।
प्रोक्षयेत्तेन तोयेन शुद्ध्यर्थं हेतिमन्त्रतः ॥ ६।२०२ ॥
अर्घ्यपात्रञ्च शङ्खं च पा?द्याचमनपात्रकम् ।
यदन्यदुपयोग्यं तु हेतिना क्षालयेत्ततः ॥ ६।२०३ ॥
हृदयेन निरीक्ष्याथ कवचेनावकुण्ठयेत् ।
सौवर्णं राजतं ताम्रं केलिहारञ्च शङ्खजम् ॥ ६।२०४ ॥
पलाशपद्मपत्रोत्थं दारवं मृत्तिकामयम् ।
अन्यद्वा यन्त्रिकादिस्थं पात्रमुक्तं शिवार्चने ॥ ६।२०५ ॥
ततः सम्पूर्य गन्धाम्बु वर्धन्यामस्त्रमन्त्रतः ।
घन्धपुष्पादिकं सर्वमानीतं परिचारकैः ॥ ६।२०६ ॥
पुण्याहं वाचयित्वाथ प्रोक्षयेद् धृदयेन तु ।
प्रक्षाल्य पाद्यपात्रं तु गन्धतोयेन पूरयेत् ॥ ६।२०७ ॥
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।
तद्वदाचमनीयार्थं तत्पात्रं परिकल्पयेत् ॥ ६।२०८ ॥
पलत्रयं च कर्पूरं त्रुटीपत्रं च कुष्ठकम् ।
आचमीये प्रयोक्तव्यं हृदयेन तु मन्त्रतः ॥ ६।२०९ ॥
अर्घ्यपात्रे न्यसेत्पश्चादपरं गन्धतोयकम् ।
आपः क्षीरकुशाग्राणि तण्डुलाः सुमनास्तिलाः ॥ ६।२१० ॥
अर्घ्योऽष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैः सह ।
कल्पयित्वा विशेषार्घ्यं तत्र मन्त्रगणान्न्यसेत् ॥ ६।२११ ॥
सुधया परमीकृत्य वर्मणाच्छाद्य पूजयेत् ।
तत्तोयैः कवचेनैव सकुशं प्रोक्षयेत्तथा ॥ ६।२१२ ॥
गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं निवेद्यकम् ।
दधिक्षीरघृतादींश्च प्रोक्षयेद्धृदयेन तु ॥ ६।२१३ ॥

(पृ० ३३)

पूजार्थं कल्पितं द्रव्यं प्रत्येकमभिमन्त्रयेत् ।
प?लोशीरपलत्रयेण सहिताः कर्पूरसत्कुङ्कुमैः
श्रीखण्डागरुपत्रकैश्च कुसुमैरामोदिभिः संयुताः ॥ ६।२१४ ॥
आपो मज्जनकर्मणे प्रणिहिताः शम्भोर्यथालाभतः
प्रोक्तद्रव्यगणेषु लब्धमिह यत्तद्ग्राह्यमाढ्येतरैः ॥ ६।२१५ ॥
अर्घ्याम्भसो जललवं सपुष्।पं हृदयेन तु ।
स्नानकुम्भेषु सर्वेषु निक्षिपेत्त द्विशुद्धये ॥ ६।२१६ ॥
हृदयेन पवित्रैर्वा यद्वाङ्गैस्तत्स्वभावकैः ।
गन्धं वस्त्रं भूषणञ्च नैवेद्यं कुसुमं तथा ॥ ६।२१७ ॥
सद्यवाममहाघोरन?रेशैरभिमन्त्रयेत् ।
अवशिष्टं तु गायत्र्या मन्त्रयेद् द्रव्यशुद्धये ॥ ६।२१८ ॥
पयेदधिघृतक्षौद्रशर्करा गन्धवारि च ।
पवित्रैर्हृदयाद्यैर्वा स्नानार्थमभिमन्त्रयेत् ॥ ६।२१९ ॥
विशुद्धमन्त्रद्रव्याणि इष्ट्वा गन्धादिभिः क्रमात् ।
मुद्रया चामृतीकृत्य भावयेदमृताख्यया ॥ ६।२२० ॥
आत्मानमर्चयेद् द्रव्यैरेवम्भूतैर्यथाक्रमम् ।
तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ॥ ६।२२१ ॥
सङ्ग्राह्य वाञ्छितं मौनं ततो मन्त्रान् विशोधयेत् ।
मालाद्यैश्वर्यजालानि मन्त्राणां कीर्तितानि वै ॥ ६।२२२ ॥
तेषां प्रबोधिनीशक्तिः शिवाज्ञा ॐ नमः स्मृताः ।
ॐकार दिनमोन्ताश्च पठेन्मन्त्रानशेषतः ॥ ६।२२३ ॥
बद्धपुष्पाञ्जलिर्भूत्वा शिवसद्भावभावितः ।
त्रिमात्रादक्रमेणैव यावन्नादान्तमं व्रजेत् ॥ ६।२२४ ॥
मन्त्रसुद्धिर्भवेदेवं शुद्धतत्त्वसमाश्रयात् ।
योजये पञ्चगव्यं तु तद्विधानमिहोच्यते ॥ ६।२२५ ॥
मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते ।
पञ्चतत्त्वकृतन्यासे पञ्चपात्राणि विन्यसेत् ॥ ६।२२६ ॥
शिवे सादाख्यवद्यायां काले पुंसि च देशिकः ।
सुप्रतिष्ठं सुशान्तं च तेजोवदमृतात्मकम् ॥ ६।२२७ ॥
रत्नोदकं च सङ्कल्प्य क्षीरं दधि घृतं न्यसेत् ।
गोमयञ्चैव गोमूत्रम् ईशानाद्यैस्तु मन्त्रितम् ॥ ६।२२८ ॥
एकद्वित्रिचतुःपञ्चवारैः षोढा कुशोदकम् ।
अमृतीकृत्य सपूज्य शिवेनैकत्वमादिशेत् ॥ ६।२२९ ॥
पयोदधिघृतक्षौद्रशर्करा गन्धवारि च ।
पवित्रैर्हृदयाद्यैर्वा स्नानार्थमभिमन्त्रयेत् ॥ ६।२३० ॥
नित्ये नैमित्तिके वापि काम्ये वा कारयेत्प्रभोः ।
स्नपनं तु यथान्यायं तच्चानेकविधं भवेत् ॥ ६।२३१ ॥
अस्त्रेण शोधयेद् भूमिं वामदेवेन लेपयेत् ।
सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ॥ ६।२३२ ॥
त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ।
चतुर्दलं यदा पञ्चकलशस्थापनं दिशि ॥ ६।२३३ ॥
विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।
पञ्चविंशतिसङ्ख्यातं तत्समन्तात् समावृतम् ॥ ६।२३४ ॥
एकोनपञ्चाशत् ख्यातमष्टोत्तरशतं द्विजाः ।
पञ्चविंशतिसख्यातान् कलशान् मध्यमस्थितान् ॥ ६।२३५ ॥
परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गतः ।
अष्टद्वारसमायुक्तं बहिरावरणद्वयम् ॥ ६।२३६ ॥
मध्यमे तिथिसङ्ख्याः स्युर्नवकोणे व्यवस्थिताः ।
मध्यमे तिथिम?ख्यातं मध्यमत्रितयं त्यजेत् ॥ ६।२३७ ॥
अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् ।
सूत्रद्वयं न्यसेत्?पूर्वापरगं याम्यसौम्यकम् ॥ ६।२३८ ॥
सार्धहस्तान्तरं हस्तमानान्तरमथापि वा ।
स्याच्चतुर्दश सङ्ख्या?ता वृतिर्बाह्ये भ्रमेण च ॥ ६।२३९ ॥
अन्तमार्गं समाबाह्य विधिः शास्त्रे समीरिता ।
मध्यव्यूहस्य परितश्चतुष्कुण्डं तु वाऽष्टकम् ॥ ६।२४० ॥
चत्वारिंशद्व्यूहकस्य पृथक् स्यात्पञ्चविंशतिः ।
अष्टोत्तरसहस्रात्तु त्यजेद्बाह्यावृति गुरुः ॥ ६।२४१ ॥

(पृ० ३४)

तत्राग्नेयादिकोणस्थचतुर्व्यूहं समाचरेत् ।
अन्यत्सर्वं समानं स्यादष्टपञ्चशतं भवेत् ॥ ६।२४२ ॥
अष्टसङ्ख्यासमायुक्ते द्विशते मध्यमेष्टकम् ।
बाह्ये षोडशसङ्ख्यातान् गृह्णीयाद्दिग्विदिग्गतम् ॥ ६।२४३ ॥
अष्टव्यूहं तथा त्वेतदुक्तसङ्ख्यान्वितं भवेत् ।
स्थण्डिलं पुरुषेण स्याचतुःप्रस्थमितं परम् ॥ ६।२४४ ॥
आरभ्य द्विगुणं चैकवृद्ध्या दशगुणावधि ।
मानं च शिवकुम्भे स्यात्तदर्धं करके मतम् ॥ ६।२४५ ॥
चतुस्त्रिद्व्येकसङ्ख्याताः प्रस्थमानप्रपूरिते ।
कलशे वेष्टनं द्वित्रिव्योमसूत्रैः क्रमेण तु ॥ ६।२४६ ॥
वरालत्रुटिकर्पूरन्यग्रोधोशीरजातयः ।
एभिर्युक्तं शिवाम्भः स्याच्छिवमन्त्राभिमन्त्रितम् ॥ ६।२४७ ॥
तेनैव पूरयेत्कुम्भं वर्धनीकलशानपि ।
षट्त्रिंशत्तत्त्वपर्यन्तान् कुशान् त्र्यादीनथ न्यसेत् ॥ ६।२४८ ॥
कूर्चानैशेन मन्त्रेण द्रव्यमूलेन विन्यसेत् ।
वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ॥ ६।२४९ ॥
नवपञ्चात्मकं रत्नं शिवे शक्तौ च विन्यसेत् ।
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं चतुर्दिशि ॥ ६।२५० ॥
कुशोदकं ततः क्षीरं दधिकोणे घृतं भवेत् ।
द्वितीयस्नपनं प्रोक्तं तृतीयं च निगद्यते ॥ ६।२५१ ॥
मधुलाजं सक्तुचूर्णं लाजचूर्णं हरिद्रका ।
भूतीक्षुसारकदलीतिलसर्षपपानसाः ॥ ६।२५२ ॥
नारिकेलञ्च नारङ्गद्वयं स्यान्मातुलुङ्गकम् ।
पञ्चविंशतिमध्ये तु सन्त्यजेदन्तरावृतम् ॥ ६।२५३ ॥
एवं कृते भवेदत्र कलशानां तु षोडश ।
चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ॥ ६।२५४ ॥
अन्तराले तु मध्वादिवसुसङ्ख्याकमीरितम् ।
प्रागुक्तत्रितयञ्चैतद्विशेषान्नित्यकर्मणि ॥ ६।२५५ ॥
पञ्चविंशतिसङ्ख्यातमपि नित्ये प्रशंसितम् ।
उत्तमोत्तमपूजायामष्टोत्तरशतावधि ॥ ६।२५६ ॥
नैमित्तिकं तदूर्ध्वस्थपूर्वोक्तमपि शंशितम् ।
द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ॥ ६।२५७ ॥
पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा ।
दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ॥ ६।२५८ ॥
आसनं सम्प्रकल्प्यास्मिन् कुम्भे मूर्तिमनुस्मरेत् ।
ब्रह्मभिः सकलीकृत्य तत्कलास्तत्र विन्यसेत् ॥ ६।२५९ ॥
न्यस्तविद्यातनुं तत्तद्रूपं ध्यात्वा शिवं न्यसेत् ।
स्थापनादि च पाद्यादि कृत्वा दत्वा हृदा गुरुः ॥ ६।२६० ॥
गन्धं पुष्पं च धूपं च दीपमर्घ्यं विधाय च ।
पदर्श्य लिङ्गमुद्रां तु कवचेनावकुण्ठयेत् ॥ ६।२६१ ॥
इष्ट्वा गौरीं च वर्धन्यां योनिमुद्रां प्रदर्श्य च ।
पञ्चकॢप्तौ तु ब्रह्माणि हित्वेशानं द्विजोत्तमाः ॥ ६।२६२ ॥
विद्येशा नवकॢप्तौ स्युर्बाह्ये मूर्तीश्वरा दिशि ।
अन्तरे वामदेवाद्याः पञ्चविंशतिसङ्ख्यके ॥ ६।२६३ ॥
अष्टौ गणेश्वरा बाह्ये चाङ्गुष्ठप्रमुखास्तथा ।
क्रोधाद्या वसुसङ्ख्याताः शतरुद्रादिकास्तु वा ॥ ६।२६४ ॥
एकोनेन तु पञ्चाशत्स्नपने देवता मतः ।
मध्ये विद्येश्वराः पूज्याः शतरुद्रा बहिर्मताः ॥ ६।२६५ ॥
[अष्टोत्तरशताख्ये च स्नपने देवता मताः ।]
विद्येशा मध्यमे देवास्त्वन्यत्र शिव एव हि ॥
स च नाम्नां सहस्रैस्तु पठ्यते तद्विशेषतः ॥२६६ ॥
[अष्टोत्तरसहस्राख्यस्नपने देवता मताः ॥]
कूटाक्षरादिसंयुक्तं चतुर्थ्यन्तसमन्वितम् ।
स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ॥ ६।२६७ ॥
पठित्वा पूजयेदीशं शिवनामाथ केवलम् ।
लिङ्गशुद्धिक्रमात्प्राप्ता यथावदभिधीयते ॥ ६।२६८ ॥

(पृ० ३५)

लिङ्गं त्रिविधमाख्यातं व्यक्ताव्यक्तोभयात्मकम् ।
स्वयम्भूदेवबाणार्षपौरुषाद्यमनेकधा ॥ ६।२६९ ॥
स्थिरलिङ्गं चरं वापि त्रिविधं मण्डलं तथा ।
पटं वा भित्तिचित्रं वा पीठं वा मन्त्रसंस्कृतम् ॥ ६।२७० ॥
वह्न्यम्बुगुरुवृक्षाद्यं विद्यापीठमथापि वा ।
विशेषतः स्वयंसिद्धं पाषाणं रत्नमेव वा ॥ ६।२७१ ॥
अन्यद्वा लिङ्गकल्पोक्तं सैकताद्यं विशेषतः ।
एतत्सर्वं शिवेज्यार्थं यथायोगं प्रकल्पयेत् ॥ ६।२७२ ॥
सामान्यार्घ्यञ्च सङ्ग्राह्य द्वाराग्रे वृषभं यजेत् ।
लोहजं संयजेद्द्वारे परिवारे तु शैलजम् ॥ ६।२७३ ॥
सप्तवर्गाच्चतुर्थं तु सप्तस्वरविभूषितम् ।
बिन्दुनादसमायुक्तमादो प्रणवपूर्वकम् ॥ ६।२७४ ॥
वृषभाय नमश्चान्ते तस्मिन्ब्रह्माङ्गकल्पना ।
द्वारमस्त्रेण सम्प्रोक्ष्य द्वारपानर्चयेत् क्रमात् ॥ ६।२७५ ॥
गणपं भारतीमूर्ध्वे नन्दिनं जाह्नवीयुतम् ।
महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् ॥ ६।२७६ ॥
विमलञ्च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ।
एते पूज्या नमोन्तैश्च हृदयाद्यैर्यथाक्रमम् ॥ ६।२७७ ॥
रूपसंस्थानभावैस्तु गन्धपुष्पादिभिः क्रमात् ।
कार्यं त्रिविधविघ्नानां न्यस्य खङ्गमुदुम्बरे ॥ ६।२७८ ॥
द्वारपूजावसाने तु स्नानान्ते च निवेद्यके ।
सन्ध्यावसाने निक्षेप्यं प्रच्छन्नपटमुत्तमम् ॥ ६।२७९ ॥
सम्पूज्यात्मभुवं वास्तोष्पते ब्रह्मण इत्यपि ।
लिङ्गमध्यगतां पूजां पूर्वकाले प्रकल्पिताम् ॥ ६।२८० ॥
गायत्र्या पूजयित्वा तु सामान्यार्घ्यं तु दापयेत् ।
उच्चार्य पञ्चब्रह्माणि पूजां लिङ्गाद्विसृज्य च ॥ ६।२८१ ॥
हृन्मन्त्रेणेशदिग्भागे पीठिकादौ यथाविधि ।
चण्डेशायेति निक्षिप्य पिण्डिकामस्त्रयोगतः ॥ ६।२८२ ॥
विशोध्य दक्षहस्तेन शिवलिङ्गं तु शोधयेत् ।
अस्त्राम्बुनैव संशोध्य शिवलिङ्गं सवेदिकम् ॥ ६।२८३ ॥
सामान्यार्घ्यजलैः पश्चादभिषेचनमाचरेत् ।
आवाहनासनं पद्ममनन्तं स्नानकर्मणि ॥ ६।२८४ ॥
विमलञ्चार्चने विद्यान्नैवेद्ये योगमासनम् ।
वस्त्रादीन्यन्यकर्माणि सिंहासने प्रकल्पयेत् ॥ ६।२८५ ॥
इत्यात्मस्थानद्रव्यार्णलिङ्गशुद्धौ कृते सति ।
अर्चनं शैविकं कार्यमन्यथा न विधीयते ॥ ६।२८६ ॥
गणेशं पीठवायव्यां गन्धपुष्पादिभिर्यजेत् ।
ऐशान्यां गुरुपङ्क्तीश्च पूजयेद्धृदयेन तु ॥ ६।२८७ ॥
आसनासनिसद्भावं ज्ञात्वा यजनमारभेत् ।
आसनं द्विविधं प्रोक्तं देहजीवविभेदतः ॥ ६।२८८ ॥
शुद्धविद्यान्ततोऽनन्ताद्यासनं परिकीर्तितम् ।
महामायावसानं तु दिव्यदेहं विचिन्तयेत् ॥ ६।२८९ ॥
जीवोऽस्मिन् शिव एव स्यादेवं त्रिविधकल्पनात् ।
यल्लघु व्यापकं तद्धि व्याप्तं हि तदधिष्ठितम् ॥ ६।२९० ॥
तृणवद्वायुना दृश्यं धार्यते जायते यया ।
साऽधारशक्तिर्न्यस्तव्या पूर्वं कूर्मशिलासने ॥ ६।२९१ ॥
चन्द्रांशुनिर्मला सौम्या चतुर्वक्त्रा चतुर्भुजा ।
दुग्धाब्धिसदृशाकारा कल्पिता हृदयार्णगा ॥ ६।२९२ ॥
अनन्तं नीलसङ्काशम् अनेकफणमण्डितम् ।
हृदयेऽञ्जलिसंयुक्तमेकवक्त्रं चतुर्भुजम् ॥ ६।२९३ ॥
क्षीराब्धितः समुत्पन्नसरोरुहसमाकृतिम् ।
तत्राधारे हृदा मन्त्री विन्यसेदासनात्मकम् ॥ ६।२९४ ॥
तद्वीर्यभूता धर्माद्याः चतुष्कोणस्थपादुकाः ।
सिंहाकारसितार्कांशुपीतकृष्णनिभाः शुभाः ॥ ६।२९५ ॥
अन्योन्यवीक्षणैः सिंहैरनेकैः परिवारिताः ।
अधर्माज्ञानावैराग्यानैश्वर्याख्यानि तानि तु ॥ ६।२९६ ॥

(पृ० ३६)

चित्रवर्णस्वरूपाणि दिक्षु गात्राणि कल्पयेत् ।
अधश्छदनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ॥ ६।२९७ ॥
बन्धमोचनहेत्वादि शक्तिद्वयमयं द्वयम् ।
नैरृत्यादीशदिग्भागे मेखलाधोर्ध्वसङ्गतम् ॥ ६।२९८ ॥
पद्ममष्टदलोपेतं सिद्ध्यष्टकसमन्वितम् ।
शक्तिकेसरसम्भिन्नं कर्णिकाशक्तिसंयुतम् ॥ ६।२९९ ॥
बिल्वपत्रैः हृदा कल्प्यं लिङ्गमूले विशेषतः ।
वामा ज्येष्ठा च रौद्री च काली चैव ततः परम् ॥ ६।३०० ॥
कलविकरणी देवी बलविकरणी तथा ।
बलप्रमथिनी चैव सर्वभूतदमन्यपि ॥ ६।३०१ ॥
पूर्वादीशानपर्यन्तं केसरेषु दलेषु च ।
मनोन्मनीं कर्णिकायां विन्यसेद्धृदयेन तु ॥ ६।३०२ ॥
वामाद्याः शक्तयो रक्ताः श्वेताभा स्यान्मनोन्मनी ।
मण्डलत्रयमर्केन्दुवह्न्याख्यं स्वस्वरूपतः ॥ ६।३०३ ॥
दलान्तं केसरान्तं च कर्णिकान्तं प्रकल्पयेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च मण्डलत्रयदेवताः ॥ ६।३०४ ॥
ब्रह्माणं सचतुर्वक्त्रं चतुर्बाहुविभूषितम् ।
कमण्डलुधरं रक्तं दण्डहस्तं प्रजापतिम् ॥ ६।३०५ ॥
अक्षमालाधरं दिव्यं पद्महस्तं सुलोचनम् ।
ध्यात्वा पत्रेषु विन्यस्य सर्वकिल्विषनाशनम् ॥ ६।३०६ ॥
अतसीपुष्पसङ्काशं शङ्खचक्रगदाधरम् ।
पीताम्बरधरं दिव्यं वनमालाविभूषितम् ॥ ६।३०७ ॥
स्फुरन्मकुटमाणिक्यकिङ्किणीजालमण्डितम् ।
ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेत् ॥ ६।३०८ ॥
शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनम् ।
सिंहचर्मपरीधानं शशाङ्ककृतशेखरम् ॥ ६।३०९ ॥
नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा विशेषतः ।
कर्णिकायां निवेश्यैनं महापातकनाशम् ॥ ६।३१० ॥
तत्रैवात्मत्रयं न्यस्य गुणत्रयमतः परम् ।
वह्नित्रयं च तत्रैव विन्यसेत् प्रविभागशः ॥ ६।३११ ॥
एवं पृथ्व्यादितत्त्वानां शुद्धविद्यावसानकम् ।
व्यप्ति? सञ्चिन्त्य तन्मध्ये शक्तिं भूयोऽपि विन्यसेत् ॥ ६।३१२ ॥
एवं शक्त्यादिशक्त्यन्तमासनं परमेष्ठिनः ।
अनन्तः कर्तृरूपेण पीठात्मा त्वत्र तिष्ठति ॥ ६।३१३ ॥
एवं सङ्क्षेपतो विप्राः पीठकॢप्तिरिहोच्यते ।
धर्मो ज्ञानं च वैराग्यं त्वैश्वर्यं च चतुष्टयम् ॥ ६।३१४ ॥
अनन्तः शक्तिरित्येवं षडङ्गान्यासनस्य तु ।
षडध्वमासनं शम्भोः पूजा स्याद्धृदयेन तु ॥ ६।३१५ ॥
अथवाऽन्यप्रकारेण कथ्यते पीठकल्पना ।
सर्वाध्वनिर्मितं पीठं चतुर्युगमहाङ्घ्रि?कम् ॥ ६।३१६ ॥
पृथ्वीकन्दं तथा कालान्तस्थतत्त्वोर्ध्वनालकम् ।
पञ्चाशद्भावसम्भिन्नकण्टकैरुपशोभितम् ॥ ६।३१७ ॥
मायातत्त्वं बृहद्ग्रन्थि शुद्धविद्योरुपङ्कजम् ।
विद्येश्वरदलं शक्तिकेसरैरुपशोभितम् ॥ ६।३१८ ॥
शिवशक्तिद्वयारब्धकर्णिकाबीजराजितम् ।
पीठमेवंविधं ध्यायेन्मातृकाक्षरसम्भवम् ॥ ६।३१९ ॥
नपुंसकाक्षरैरेव धर्मादीन् परिकल्पयेत् ।
अनन्तं सृष्टि?पूर्वेण तत्पूर्वेण महाम्बुजम् ॥ ६।३२० ॥
कर्णिकान्तं स्वरान्तेन कल्पयेकपवितमः ।
ॐकाराद्या अकारान्तास्त्यक्तषण्डनवस्वराः ॥ ६।३२१ ॥
वामाज्येष्ठादिशक्तीनां क्रमादुत्क्रमतो नव ।
केसराणि चतुर्विंशत्कादिभान्तर्गतानि च ॥ ६।३२२ ॥
मकारादिहकारान्तैर्नवबीजानि कल्पयेत् ।
मण्डलत्रयमत्रैव पूर्वक्?परिकल्पयेत् ॥ ६।३२३ ॥
मातृकासम्भवं पीठमेवमापाद्य पूजयेत् ।
मण्डलत्रितयेभ्युत्थामनलस्तम्भसन्निभाम् ॥ ६।३२४ ॥

(पृ० ३७)

मूर्तिमीश्वरतत्वान्तां लिङ्गनाहे तु विन्यसेम् ।
हृत्सम्पुटमजातं वै मूर्तिमन्त्रमुदाहृतम् ॥ ६।३२५ ॥
तथैव मूल एवायं सादाख्यं मन्त्रमुच्यते ।
विन्यसेन्मूर्ध्नि मधे तु विद्यादेहं सदाशिवम् ॥ ६।३२६ ॥
आरोहे शिवलिङ्गस्य शुद्धस्थानमयं प्रभुम् ।
अष्टत्रिंशत्कलोपेतं ब्रह्माङ्गकृतविग्रहम् ॥ ६।३२७ ॥
सदाशिवस्य रूपं तु ध्यानार्थमिह कथ्यते ।
ध्यानं वै सर्वसिद्ध्यर्थं पटादौ वाऽपि निर्मितम् ॥ ६।३२८ ॥
पञ्चास्यं दशदोर्दण्डं स्फटिकाभं त्रिलोचनम् ।
शान्तं चन्द्रकलाचूडं सर्पसन्नद्धसज्जटम् ॥ ६।३२९ ॥
मन्त्रसिंहासनासीनं श्वेतपद्मोपरि स्थितम् ।
कुण्डलैः कर्णिकैर्हारैः कटिसूत्रोदरबन्धनैः ॥ ६।३३० ॥
केयूरैः कटकैश्चैव छन्नवी?रैश्च संयुतम् ।
षोडशाब्दयु?तं कान्तं सुप्रसन्नं स्मिताननम् ॥ ६।३३१ ॥
शूलं परशुखङ्गं च वज्रं वह्निं च दक्षिणे ।
अभयं पाशमन्यच्च घण्टां नागाङ्कुशौ तथा ॥ ६।३३२ ॥
वामहस्तगतं ध्यायेदन्यथा च निगद्यते ।
प्रसादाभयखट्वाङ्गशक्तिशूलास्तु सव्यतः ॥ ६।३३३ ॥
वामे डमरुसर्पाक्षमालेन्दीवरपूरकैः ।
इच्छाज्ञानक्रियाशक्तित्रयनेत्रयुतं स्मरेत् ॥ ६।३३४ ॥
चन्द्रः सर्यज्ञतारूपः दशहस्ता दिशो दश ।
त्रिशूलं त्रिगुणं प्रोक्तं सत्ता परशुरुच्यते ॥ ६।३३५ ॥
खड्गमीशप्रतापः स्याद्वज्रं दुर्भेद्यता भवेत् ।
बहिः संहारिणी शक्तिः पाशानां भस्मसात्करी ॥ ६।३३६ ॥
प्रकाशिका पदार्थानां महामायोर्ध्ववर्तिनाम् ।
नागोपधृष्टता शक्तिः सर्वेषां च विधायिका ॥ ६।३३७ ॥
पाशं पाशत्रयं विद्यान्मायाकर्ममलात्मकम् ।
घण्टा नादात्मकं रूपं मन्त्रविग्रहबोधकम् ॥ ६।३३८ ॥
अभयं सर्वलोकानां शक्तिर्वै परिपालिनी ।
यद्भोग्ये ह्यात्मनः प्राप्तिस्त्वत्रैव नियमोऽङ्कुशम् ॥ ६।३३९ ॥
एवम्भूतस्वरूपाणि स्मर्यन्ते चायुधानि वै ।
ईशः स्फटिकवन्मध्ये पूर्वे कुङ्कुमवन्नरः ॥ ६।३४० ॥
दक्षिणेऽञ्जनवद्घोरः सौम्ये वामः कुसुम्भवत् ।
चन्द्रांशुनिर्मलं सद्यं वक्त्रं पश्चिमदिग्गतम् ॥ ६।३४१ ॥
सिंहनादमुखं पूर्वे ललाटे नयनं शुभम् ।
भ्रूहीनं तुङ्गनासं च सुकपोलस्मिताधरम् ॥ ६।३४२ ॥
दक्षिणं भीषणाकारं दंष्ट्रादन्तुरकर्कशम् ।
विवृतास्यं महाघ्राणं वृत्ताक्षं लेलिहानकम् ॥ ६।३४३ ॥
नागाभरणसंयुक्तं कपालकृतशेखरम् ।
ज्वालाकृ?तिजटाव्यालभोगिबद्धोर्ध्वचूडकम् ॥ ६।३४४ ॥
पीतमाप्यं प्रसन्नं च सुनासं सुललाटकम् ।
त्र्यक्षं मकुटयुक्तं च कुण्डलालङ्कृतं शुभम् ॥ ६।३४५ ॥
भृङ्गाकारकचव्रातं काञ्चनाभरणान्वितम् ।
ललाटतिलकोपेतं दर्पणासक्ततेजसम् ॥ ६।३४६ ॥
अलकावतंससंयुक्तं सौम्यं कान्तवपुर्युतम् ।
तत्रैशानःस्थितोत्तानो मूर्धस्थस्त्वतिभीषणः ॥ ६।३४७ ॥
कुण्डलालङ्कृतस्त्र्यक्षो मौलीन्दुतरुणः स्मृतः ।
एवं वक्त्राणि सम्भाव्य रूपं सादाशिवं यजेत् ॥ ६।३४८ ॥
यथा देहे तथा देवे मन्त्रन्यासं प्रकल्पयेत् ।
एवं शाक्तं वपुः कल्प्य तस्मिन् परमकारणम् ॥ ६।३४९ ॥
शिवं वै शाश्वतं सत्यं ज्ञानानन्दसुखात्मकम् ।
व्यापकं सर्वतत्त्वानामप्रमेयमनूपमम् ॥ ६।३५० ॥
वाच्यवाचकरहितं वाङ्मनोऽतीतगोचरम् ।
व्यक्तं कुर्याद्विशेषेण निष्कलं सकलात्मनि ॥ ६।३५१ ॥
इत्यावाहनपूर्वैस्तु मूलमन्त्रैर्नियन्त्रणात् ।
यथा काष्ठम?तो वह्निर्व्य?ज्यते मथनादिभिः ॥ ६।३५२ ॥
तथा मन्त्रप्रभावेन भक्त्याऽभिव्यज्यते शिवः ।

(पृ० ३८)

कृत्वा हृद्गतमञ्जलिं सङ्कुसुमं प्रासादमन्त्रं पठन्
भक्त्या निष्कलगोचरं समरसीभावं गतः साधकः ।
ध्यायेदुत्क्रमतः स्वशक्तिभवने नादे तथा बिन्दुके
निष्क्रान्तं क्रमतः स्वशक्तिकिरणैः स्यादेवमावाहनम् ॥ ६।३५३ ॥

ऋषयय ऊचु :-

सर्वगस्य शिवस्येह कथमावाहनं प्रभो ।  

यद्यावाहनमिष्टं स्यात्सर्वगत्वं विहन्यते ॥ ६।३५४ ॥

ईश्वर उवाच :-

आमूलाग्रस्थितस्याग्नेरभिव्यक्तिर्यथा तरौ ।
तद्वदेकत्र चिद्व्यक्तिर्व्यापकस्य न बाध्यते ॥ ६।३५५ ॥
यथात्मनस्तनुद्वारा स्यातामिह गमागमौ ।
तद्वन्मन्त्रतनुद्वारा शिवस्येष्टौ गमागमौ ॥ ६।३५६ ॥
अचिन्त्यशक्तियुक्तत्वाद्व्यापकोऽव्यापकश्च सः ।
सतनुस्तनुहीनो वा सर्वकृत्सर्वगः शिवः ॥ ६।३५७ ॥
एवं बिन्दुगतं त्वीशं हस्तपुष्पगतं स्मरेत् ।
तच्च प्राणपथा कार्यं नाड्या ज्योतिः स्वरूपया ॥ ६।३५८ ॥
तस्मादादाय लिङ्गस्थं स्थापिन्या विन्यसेत्तनौ ।
येन सामर्थ्यतः शम्भोः स्वस्य स्वस्वामिता भवेत् ॥ ६।३५९ ॥
तच्छक्तिप्रकटीभावः सन्निधानं स्वमुद्रया ।
सन्निधेरपरित्यागे योऽर्चाकालावसानकः ॥ ६।३६० ॥
सन्निरोधो निरोधिन्या विभोरपि विभाव्यते ।
लोके सुखात्मकं वस्तु गोपनीयं यथा तथा ॥ ६।३६१ ॥
तस्यावकुण्ठनं कार्यमवकुण्ठनमुद्रया ।
यथानलतरण्याद्याः समर्थाः स्वस्वदीप्तिभिः ॥ ६।३६२ ॥
तद्वदङ्गैः स्वभावोत्थैरधृष्योऽखिलकृच्छिवः ।
अस्तित्वं हृदयं तस्य शिरश्चोर्ध्वं शिखास्थितिः ॥ ६।३६३ ॥
शिखा स्वतन्त्रता तस्य कवचं गोप्तृता भवेत् ।
निरस्यति यया शक्त्या भवमस्त्रं तदस्य हि ॥ ६।३६४ ॥
नेत्रं सर्वज्ञताशक्तिः समस्तार्थप्रकाशिका ।
एवं षाङ्गुण्यमत्रोक्तं जगत्कर्तुः शिवस्य तु ॥ ६।३६५ ॥
एतानि हृदयादीनि षडङ्गानि स्वमन्त्रतः ।
हृच्छिरश्चूलिकागात्रनेत्रहस्तेषु विन्यसेत् ॥ ६।३६६ ॥
अङ्गाङ्गिनोरभिन्नत्वप्रतिपत्तिर्विभिन्नयोः ।
अमृतीकरणं प्रोक्तं प्रभोरमृतमुद्रया ॥ ६।३६७ ॥
प्ररोचनं भवेत्तस्य रुचिराङ्गप्रवर्धनम् ।
तन्महामुद्रया कुर्यान्मोदनद्रावणार्थया ॥ ६।३६८ ॥
षडध्वविग्रहं देवं सम्मुखं शक्तिसंयुतम् ।
परमानन्दसन्दोहधवलीकृतदिङ्मुखम् ॥ ६।३६९ ॥
ध्यात्वा पाद्यं पदे दद्यान्मुखेष्वाचमनं ततः ।
अर्घ्यं मूर्धसु दातव्यं दूर्वापुष्पाक्षतं तथा ॥ ६।३७० ॥
नत्यन्तेन हृदा पाद्यमाचामं स्यात् स्वधान्ततः ।
स्वाहान्तेन हृदा चार्घ्यं दूर्वाद्यं वौषडन्ततः ॥ ६।३७१ ॥
कृत्वैवं दशसंस्कारानुपचारैश्च पूजयेत् ।
पूजोपचारैर्विभवानुसारैः
स्नानादिभिः स्वल्पतरैर्महद्भिः ।
विधीयते नित्यविधौ समस्तैः
स्रगा?दिभिः काम्यविधाववश्यम् ॥ ६।३७२ ॥
स्नानं वस्त्रविलेपनञ्च कुसुमं धूपोऽथ दीपो हवि-
स्ताम्बूलं मुखवासगन्धसहितं गीतं च नृत्तं महत् ।
होमो भूतबलिप्रदानसहितो नित्योत्सवो वा बलिः
सङ्गीतञ्च समस्तमेतदुदितं शम्भोर्विभूतौ सति ॥ ६।३७३ ॥
गन्धं पुष्पञ्च धूपञ्च दीपं नैवेद्यमेव च ।
पञ्चोपचारा एते स्युर्दीपान्तं वाऽपि सम्मतम् ॥ ६।३७४ ॥
स्नानयोग्याः स्नापनी?याश्चित्राद्यास्तद्विवर्जिताः ।
कृपाणदर्पणादौ? वा मणौ वा प्रतिबिम्बिते ॥ ६।३७५ ॥
दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तं तु पूजनम् ।
बल्यन्तं शान्तिकं प्रोक्तं पूजा हि त्रिविधोच्यते ॥ ६।३७६ ॥

(पृ० ३९)

सायं प्रातत्?तथाभ्यर्च्य मध्याह्ने तु निवेदनम् ।
प्रस्थद्वयं तु तत्काले पावयित्वा निवेदयेत् ॥ ६।३७७ ॥
एको दीपो द्विकालेऽपि रात्रौ दीपद्वयं त्विह ।
एवमुक्तप्रकारेण अधमाधममाचरेत् ॥ ६।३७८ ॥
प्रातः काले च मध्याह्ने द्विःप्रस्थं तण्डुलं हविः ।
सायं प्रातः समभ्यर्च्य दीपाश्चत्वार एव हि ॥ ६।३७९ ॥
प्रस्थद्वयं त्रिकाले तु प्रत्येकमथ निर्दिशेत् ।
दीपाश्चत्वार एव स्युः साये तु द्विगुणास्ततः ॥ ६।३८० ॥
अधमत्रितये धीमान् वाद्यध्वनिसमन्वितम् ।
मध्यमस्याधमञ्चैव मध्याह्ने चाढकं हविः ॥ ६।३८१ ॥
प्रातः साये च द्विःप्रस्थं दीपैर्द्वादशभिर्युतम् ।
त्रिकालं पुष्प लङ्गेन बलिदानं नयेद् द्विजः ॥ ६।३८२ ॥
मध्यमान्मध्यमं चैव त्रिकाले चाढकं हविः ।
अर्धयामे तदर्धं च चतुर्विंशतिदीपकम् ॥ ६।३८३ ॥
त्रिकालं बलिसंयुक्तं पुष्पेणार्घ्यं बलिक्रमात् ।
वाद्यध्वनिसमायुक्तं शङ्खकाहलसंयुतम् ॥ ६।३८४ ॥
मध्याह्ने नित्यहोमं च शिवमन्त्रेण संयुतम् ।
मध्यमस्योत्तमे चैव त्रिकालेष्वाढकद्वयम् ॥ ६।३८५ ॥
आढकञ्चार्धयामे तु दीपसप्ततिसंयुतम् ।
त्रिकालं बलिदानं स्यात्त्रिकालं होममाचरेत् ॥ ६।३८६ ॥
सर्ववाद्यसमायुक्तं षट्काले च सुधोषयेत् ।
षड्विधं यत्र कुर्वीत कालसङ्ख्या न विद्यते ॥ ६।३८७ ॥
उत्तमस्याधमं यत्र द्रोणेनैव त्रिसन्धिषु ।
द्रोणार्धमर्घयामे तु दीपास्त्वष्टशतं भवेत् ॥ ६।३८८ ॥
त्रिकालं बलिदानं स्यात् त्रिकालं होममाचरेत् ।
वाद्यकानां चतुर्विंशत्सर्ववाद्यसमन्वितम् ॥ ६।३८९ ॥
गणिकास्तु चतुस्त्रिंशत् चतुर्विंशति वा दश ।
रूपायौवनसम्पन्नारित्रकालं नृत्तमाचरेत् ॥ ६।३९० ॥
पञ्चाचार्यसमायुक्तं कालं यामसमन्वितम् ।
उत्तमं मध्यमं यत्र त्रिकालेषु चतुर्हविः ॥ ६।३९१ ॥
पायसादीनि विधिना प्रत्येकं द्रोणतण्डुलैः ।
द्रोणं शुद्वोदनं कुर्यात् पाचयित्वा पृथक् पृथक् ॥ ६।३९२ ॥
द्रोणं तु चार्धयामे तु दीपाश्चैव शतद्वयम् ।
त्रिकालं बलिहोमं च शीतारिदीपमुच्यते ॥ ६।३९३ ॥
वाद्यकानां चतुस्त्रिंशत् पञ्चाशद्गणिकान्वितम् ।
कालं यामद्वयं प्रोक्तं नृत्तं कुर्यात्त्रिसन्धिषु ॥ ६।३९४ ॥
उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते ।
पायस्या?दीनिपिक्वानि पञ्चद्रोणेन वै पृथक् ॥ ६।३९५ ॥
तदर्धमर्धरात्रेस्तु? दीपाः पञ्चशतं भवेत् ।
त्रिकालं बलिहोमं च पञ्चाशद्वाद्यसंयुतम् ॥ ६।३९६ ॥
षोडशद्विशतैश्चैव गणिकाभिः समन्वितम् ।
नृतं कुर्यात्त्रिसन्ध्यायां कालो यामयुतो भवेत् ॥ ६।३९७ ॥
पञ्चवर्णहवीष्यत्र पायासादीनि च क्रमात् ।
द्रोणतण्डुलसिद्धानि तदर्धेन तदर्धतः ॥ ६।३९८ ॥
एषामेकद्वयं वाऽपि त्रयं वा सर्वमेव वा ।
हर्विदद्याद्विशेषेण एककालेऽथवा पुनः ॥ ६।३९९ ॥
शुद्धान्नं द्विगुणं प्रोक्तमेतत्सामान्यमीरितम् ।
एवं नवविधे प्रोक्तं प्रत्येकं तु विधीयते ॥ ६।४०० ॥
स्नातोदभाण्डंसम्पूज्य स्नानाम्भोगन्धवासितम् ।
संहितामन्त्रसं?जतं सपुष्पं धूपितं शुभम् ॥ ६।४०१ ॥
तैलेन हस्तयन्त्राद्यैः साधितेन नवेन च ।
पक्वेन? वासितेनाऽथ शुद्धगव्येन सर्पिषा ॥ ६।४०२ ॥
सपीठं लिङ्गमभ्यज्य धूपयेत्तदनन्तरम् ।
शुभेन शालिपिष्टेन हरिद्रासंयुतेन च ॥ ६।४०३ ॥
उद्वर्त्य माषचूर्णेन निमज्जन?मथाचरेत् ॥
सुगन्धामलकाद्यैस्तु स्नानं तत्र विधीयते ॥ ६।४०४ ॥

(पृ० ४०)

वर्णभूतशरावैस्तु वज्राद्यैर्गोमयोद्भवैः ।
पौष्टिकैर्वा सुरचितै राजिकालवणेन तु ॥ ६।४०५ ॥
कोष्णाम्बुभिर्गन्धतोयैः कषायैरभिषेचयेत् ।
पयोदधिघृतक्षौद्रशर्कराद्यैः स्वशक्तितः ॥ ६।४०६ ॥
कुडुपाद्याढकान्तैश्च कुडुपाद्वर्धितैरपि ।
खण्डाभावादिक्षुसारो मध्वभावे घृतं भवेत् ॥ ६।४०७ ॥
जलधूपान्तरैः कार्योऽभिषेको विभवे सति ।
नालिकेरफलाम्भोभिरन्यैर्वा रसवद्रसैः ॥ ६।४०८ ॥
पुष्पाद्यैर्हेमतोयैश्च रत्नोदैर्गन्धतोयकैः ।
अभिषेकं ततः कुर्यान्न कुर्याच्छून्यमस्तकम् ॥ ६।४०९ ॥
तर्जन्यङ्गुष्ठयोगेन पुष्पाण्यादाय हेतिना ।
तेन मूर्ध्निगतं पुष्पं त्यक्त्वाऽन्यत् तत्र योजयेत् ॥ ६।४१० ॥
अष्टपुष्पं त्रिगन्धं च सप्तवारि नियोजयेत् ।
आवाहनार्घ्यपाद्येषु स्नाने धूपविलेपने ॥ ६।४११ ॥
नैवेद्ये च विसर्गे च पुष्पमष्टसु योजयेत् ।
अर्घ्ये विलेपने स्नाने त्रिषु गन्धं प्रकल्पयेत् ॥ ६।४१२ ॥
पुष्पदानार्घ्यपाद्येषु स्नाने चाचमनं तथा ।
क्षालने प्रोक्षणे चैव वारि सप्तसु योजयेत् ॥ ६।४१३ ॥
धूपं सर्वत्र दातव्यं शेषं ज्ञात्वा प्रयोजयेत् ।
द्वारपूजावसाने तु स्नानान्ते च निवेद्यके ॥ ६।४१४ ॥
सन्ध्यावसाने निक्षिप्य प्रच्छन्नपटमुत्तमम् ।
स्थापितैः कलशैः पश्चादभिषेकं समाचरेत् ॥ ६।४१५ ॥
वामहस्ततले कृत्वा गडडुकं लिङ्गमस्तकात् ।
कुसुमं पूर्वविन्यस्तं तदस्त्रेणापनीय च ॥ ६।४१६ ॥
धौतपाणिः समन्त्रेण शङ्खमुद्रापरिप्लुतैः ।
जलैरनुच्चलद्भिश्च स्नापयेदीशमस्तके ॥ ६।४१७ ॥
नोपरि भ्रामयेद्धस्तं न मुद्रां बन्धयेदधः ।
अद्भिरुच्चलिताभिस्तु तद्द्रव्याणि न सेवयेत् ॥ ६।४१८ ॥
जयशब्दसमोपेतं शिवकुम्भञ्च वर्धनीम् ।
उद्धृत्य नीत्वा देवाग्ने यन्त्रिकोपरि विन्यसेत् ॥ ६।४१९ ॥
दत्वा घटस्थदेवाय देव्यै पाद्यादिकं त्रयम् ।
गन्धं पुष्पं च धूपं च दीपमर्घ्यं विधाय च ॥ ६।४२० ॥
अपनीय पिधानं तद्दक्षहस्तेन देशिकः ।
कूर्वं सपुष्पं तोयाभ्यां शिवमन्त्रमनुस्मरन् ॥ ६।४२१ ॥
सङ्गृह्य तत्त्वचित्तस्तु लिङ्गमूर्ध्नि मनुं न्यसेत् ।
देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ॥ ६।४२२ ॥
शिवमन्त्रं स्मरन् कुम्भतोयेन स्नापयेच्छिवम् ।
पिण्डिकारूपिणीं देवीं स्नापयेत्तदनन्तरम् ॥ ६।४२३ ॥
सुगन्धामलकाद्यैस्तु स्नानं तत्र विधीयते ।
गन्धाम्बुनाऽभिषेकं तु कृत्वा लिङ्गं सपीठकम् ॥ ६।४२४ ॥
वक्त्रेष्वाचमनं दत्वा मार्जयेच्छुद्धवाससा ।
गन्धद्रव्यैः समालिप्य शिवलिङ्गं सवेदिकम् ॥ ६।४२५ ॥
वस्त्रैर्नानाविधैर्द्रव्यैर्देवमाच्छाद्य निर्मलैः ।
दत्वाष्टपुष्पं देवाय दद्यान्मन्त्रहविस्ततः ॥ ६।४२६ ॥
मुद्गान्नं वाऽथ शुद्धान्नमुपदंशादिसंयुतम् ।
शुद्धाभिः पुष्पमालाभिः पत्रच्छेदैरथार्चयेत् ॥ ६।४२७ ॥
हेमपट्टैश्च मकुटैः पर्णैर्हेमविनिर्मितैः ।
हेमदूर्वाङ्कुरैर्हेमलक्ष्मीपुष्पैरनेकशः ॥ ६।४२८ ॥
भूषयेच्चन्द्रखण्डेन हेमपुष्पैरनेकशः ।
त्रिसरेणोत्तरीयेण कटिसूत्रेण साधकः ॥ ६।४२९ ॥
हैमेन कृत्तिवासेन हैमक?त्रेण चैव हि ।
अन्यैर्मकुटपुष्पाद्यैर्गोलकैर्हेमनिर्मितैः ॥ ६।४३० ॥
भूषयेच्च यथान्यायं रत्नैर्नानाविधैरपि ।
माणिक्यमर्कवारे स्याच्चन्द्रवारे तु मौक्तिकम् ॥ ६।४३१ ॥
कुजवारे प्रवालं स्याद् बुधे मरकतं भवेत् ।
गुरौ तु पुष्परागं स्याच्छुके वज्रमिति स्मृतम् ॥ ६।४३२ ॥]

(पृ० ४१)

इन्द्रनीलं च सौरे स्यात्सर्वाण्येतानि यानि च ।
सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ॥ ६।४३३ ॥
दत्वाऽजातेन पाद्यं तु पादयोस्तन्मुखेषु च ।
आचामान्ते च मूर्धादौ शिरस्यर्घ्यं प्रदापयेत् ॥ ६।४३४ ॥
पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ।
उपस्नानसमायुक्तं धूपं वा विनिवेदयेत् ॥ ६।४३५ ॥
अवश्यमावृतान्ते स्यादुपस्नानं सधूपकम् ।
गापयेन्मन्त्रगानं वा वीणानादमथापि वा ॥ ६।४३६ ॥
वेदाध्ययनमन्यच्च शास्त्रपाठादिकञ्च यत् ।
तदूर्ध्वं गौडभाषाद्यैर्गानं धूपान्तमाचरेत् ॥ ६।४३७ ॥
ऊर्ध्वं द्राविडभाषाङ्गं गानं नृत्तयुतं तु वा ।
संस्कृतादनपभ्रंशं नानास्वरसमन्वितम् ॥ ६।४३८ ॥
यदष्टादशभाषोत्थं गानं वा परिकल्पयेत् ।
नानादेशप्रसूतं च नर्तनं परिकल्प्य च ॥ ६।४३९ ॥
पुष्पप्रतिसराद्यैश्च समन्ताल्लम्बयेदधः ।
निर्धूमज्वलदङ्गारपूर्णपात्रोदरे भृशम् ॥ ६।४४० ॥
दह्यमानेन धूपेन धूपयेत्तदनन्तरम् ।
सुरूपां धीरनिर्घोषां घण्टां वामेन पाणिना ॥ ६।४४१ ॥
वादयन् सर्वदा धूपमुत्क्षिपेदस्त्रचोदितम् ।
कपिलाघृतसम्पूर्णैः कर्पूरागरुवर्तिभिः ॥ ६।४४२ ॥
अनिर्वाणप्रदीपैश्च चक्रतोरणदीपकैः ।
त्रिशूलदीपिकाभिश्च दीपमालाभिरेव च ॥ ६।४४३ ॥
अन्यैर्नानाविधैर्दीपैर्ज्वालयेत्तु समन्ततः ।
गोदानं तिलदानं च स्वर्णदानं तथैव च ॥ ६।४४४ ॥
गवां तृणादिदानं च कुर्याल्लोकोपचारतः ।
प्रभूतैः स्नेहसम्पूर्णैर्ज्वलद्भिर्दीपकैः स्थिरैः ॥ ६।४४५ ॥
कुर्यादारात्रिकं पश्चात्सद्वर्त्या प्रतिबोधितैः ।
यथाङ्गं भमस्नाऽऽलभ्य तिलकैर्वा त्रिपुण्ड्रकैः ॥ ६।४४६ ॥
धूपै दीपेऽथ नैवेद्यं बलावभ्यन्तरेऽपि च ।
सकृदावमनं दत्वा कर्तव्यं कर्म चोत्तरम् ॥ ६।४४७ ॥
प्रणम्याध्येष्य लब्धाज्ञो बहिरावरणं यजेत् ।
ईशानं कर्णिकायां तु पूजयेत्?कुसुमादिभिः ॥ ६।४४८ ॥
पुरुषं पूर्वपत्रे तु अघोरं दक्षिणे यजेत् ।
वाममुत्तरपत्रे तु सद्यं पश्चिमपत्रतः ॥ ६।४४९ ॥
विन्यसेत्पञ्चपत्राणि पञ्चवक्त्रयुतानि च ।
बाहुभिर्दशभिश्चैव शशाङ्कमकुटैः सह ॥ ६।४५० ॥
ध्यातव्यानि स्वरूपाणि वरायुधधराणि च ।
अग्नीशरक्षोवायव्यचतुर्दिक्षु गतं यजेत् ॥ ६।४५१ ॥
वृच्छिरश्चूलिकावर्म नेत्रमस्त्रं यथाक्रमम् ।
हृदयं चन्द्रवर्णाभं शिरो गोरोचनप्रभम् ॥ ६।४५२ ॥
तटिज्ज्वलनसङ्काशां शिखां सम्यग्विचिन्तयेत् ।
आधूम्रं कवचं न्यस्येदस्त्रं कपिलवर्णकम् ॥ ६।४५३ ॥
ज्योतीरूपप्रकाशं च नेत्रं मध्यगतं स्मरेत् ।
पञ्चवक्त्रयुताः सर्वे दशबाह्विन्दुभूषिताः ॥ ६।४५४ ॥
नानाभरणसंयुक्ताः नानास्रग्गन्धभूषिताः ।
द्विरष्टवत्सराकाराः सुरूपाः स्थिरयौवनाः ॥ ६।४५५ ॥
प्रसन्नवदनाः सौम्यास्त्रिणेत्राः स्वस्तिकासनाः ।
मूर्धादिभ्यो हृदादिभ्यस्त्वानेतव्याः प्रभोरिमे ॥ ६।४५६ ॥
ईशानं नेत्रमैशान्यामथवा साधको यजेत् ।
गर्भावरणमेवं तु पूजयेदभितो हरम् ॥ ६।४५७ ॥
स्थानेऽस्मिन्नथवा पूज्या वामाद्याः शक्तयो नव ।
अङ्कारूढा प्रभोः पूज्या आदिशक्तिर्मनोन्मनी ॥ ६।४५८ ॥
आवाहनादिनैतानि स्वमन्त्रैः क्रमशोऽर्चयेत् ।
नावकुण्ठनमेतेषाममृतीकरणं विना ॥ ६।४५९ ॥
संस्काराष्टकमेवैतत्प्रत्येकं विहितं बुधैः ।
स्नपनं दीपकॢप्तिश्च न पृथक् चाङ्गभावतः ॥ ६।४६० ॥

(पृ० ४२)

विद्येश्वरा द्वितीये तु अनन्ताद्या यथाक्रमम् ।
अनन्तेशश्च सूक्ष्मश्च शिवोत्तमैकनेत्रकौ ॥ ६।४६१ ॥
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः ।
एते देवाश्चतुर्वक्त्रा हरवद्दशबाहवः ॥ ६।४६२ ॥
खण्डेन्दुमौलयः सौम्याः पद्मस्था विविधायुधाः ।
खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः ॥ ६।४६३ ॥
वराभयकरोपेताः शूलपङ्कजपाणयः ।
युगान्तादित्यसङ्काशाः संसृष्टौ शिवचोदिताः ॥ ६।४६४ ॥
अनन्तः पूर्वतः पूज्यः सूक्ष्मं दक्षिणतो यजेत् ।
शिवोत्तमं तु वारुण्यामेकनेत्रं तथोत्तरे ॥ ६।४६५ ॥
एकरुद्रं तथैशान्यां त्रिमूर्तिं चाग्निगोचरे ।
श्रीकण्ठां चैव नैरृत्यां वायव्यां तु शिखण्डिनम् ॥ ६।४६६ ॥
गणेश्वरास्तृतीये तु कुबेराशादितः क्रमात् ।
सिंहारूढाम्बिका त्र्यक्षा पीताभा दर्पणोद्वहा ॥ ६।४६७ ॥
ऐशान्यां संस्थितश्चण्डः शुद्धवैडूर्यसप्रभः ।
वैयाघ्रवसनस्त्र्यक्षः शूलदण्डकुठारभृत् ॥ ६।४६८ ॥
वराभयकरश्चण्डः चन्द्रखण्डाहिभूषितः ।
नन्दिनं पूर्वदिग्भागे पद्मरागसमप्रभम् ॥ ६।४६९ ॥
त्रिणेत्रं शूलहस्तं च सौम्यं नागोपवीतिनम् ।
हरिताभं महाकालं शूलहस्तं त्रिलोचनम् ॥ ६।४७० ॥
नागोपवीतिनं रौद्रमाग्नेय्यां दिशि पूजयेत् ।
गणेशो वामनाकारो गजवक्त्रः स्वदन्तभृत् ॥ ६।४७१ ॥
मौलिकुम्भः शूर्पकर्णः त्रितालकरपल्लवः ।
सलङ्डुककुठाराक्षमालाहस्तस्त्रिलोचनः ॥ ६।४७२ ॥
बिसिनीपत्रसङ्काशः पूज्यो वै यमदिक्स्थितः ।
वृषो वृषाकृतिस्त्र्यक्षः कुन्देन्दुतुहिनद्युतिः ॥ ६।४७३ ॥
आधारभूतो धर्मात्मा पूज्यो निरृतिगोचरः ।
निर्मांसविग्रहो भृङ्गी श्वेतो वारुणदिग्गतः ॥ ६।४७४ ॥
षड्वक्त्रो बालवेषश्च द्वादशाक्षस्तथा भुजः ।
शक्तिखड्गपताकाब्जप्रासकुक्कुटदण्डभृत् ॥ ६।४७५ ॥
वराभयधनुर्बाणमहापरशुमानपि ।
चतुर्भुजो द्विबाहुर्वा भवत्येकाननः श्रियै ॥ ६।४७६ ॥
शक्तिकुक्कुटहस्तस्तु वराभयसमन्वितः ।
वायव्यां विद्रुमाभासः पूजनीयः फलार्थिभिः ॥ ६।४७७ ॥
अथवाऽन्यप्रकारेण पूजनीया गणेश्वराः ।
देवी चैव तु चण्डेशो महाकालो वृषस्तथा ॥ ६।४७८ ॥
नन्दीशश्च गणाध्यक्षो भृङ्गी च स्कन्द एव च ।
ध्यायेदेताननुद्विग्नः पद्मरागसमप्रभान् ॥ ६।४७९ ॥
लोकपालांश्चतुर्थे तु क्रमशः स्वस्वदिग्गतान् ।
द्विरदेन्द्रसमारूढं पीतवर्णं तु वज्रिणम् ॥ ६।४८० ॥
सहस्राक्षं यजेदिन्द्रं पूर्वभागे व्यवस्थितम् ।
ज्वालामालावृतं शक्तिधरमग्निमजासनम् ॥ ६।४८१ ॥
महिषस्थं यमं कृष्णं दक्षिणे दण्डपाणिनम् ।
नैरृत्यां निरृतिं नीलं गदाहस्तं नरासनम् ॥ ६।४८२ ॥
वारुणे वरुणं श्वेतं झषस्थं पाशहस्तकम् ।
शबलं ध्वजहस्तञ्च मृगस्थमनिलेऽनिलम् ॥ ६।४८३ ॥
खड्गहस्तं निधानस्थं कुबेरं पीतमुत्तरे ।
कपिलं शूलहस्तं च वृषारूढं त्रिलोचनम् ॥ ६।४८४ ॥
प्रसन्नवदनं हृष्टमीशानं शाङ्करे यजेत् ।
विष्णुं त्वधोगतं कृष्णं तार्क्ष्यस्थं चक्रपाणिनम् ॥ ६।४८५ ॥
ब्रह्माणमरुणाभं च हंसस्थं पद्महस्तकम् ।
ऊर्ध्वगं संयजेत् प्राज्ञः स्वस्वनामादिकाक्षरैः ॥ ६।४८६ ॥
पञ्चमे त्वस्त्रसङ्घातं पूजनीयं यथोदितम् ।
पूर्वभागे यजेद्वज्रं पीतवर्णं षडश्रकम् ॥ ६।४८७ ॥
अग्नौ शक्तिं सुरक्ताभां कृष्णं दण्डं तु दक्षिणे ।
निरृतौ नीलखड्गं तु श्वेतं पाशं तु वारुणे ॥ ६।४८८ ॥

(पृ० ४३)

चित्रध्वजं तु वायव्यां हेमाभामुत्तरे गदाम् ।
ऐशान्यां ज्वलितं शूलं चक्रमर्कसमप्रभम् ॥ ६।४८९ ॥
अधः स्थं संयजेदब्जं श्वेतमूर्ध्वे विचक्षणः ।
पञ्चावरणपूजैवं समासात्परिकीर्तिता ॥ ६।४९० ॥
एकावरणपूजा स्यादङ्गैर्ब्रह्मभिरेव च ।
अथवा केवलैरङ्गैः केवलैर्ब्रह्मभिस्तु वा ॥ ६।४९१ ॥
ब्रह्माङ्गैर्लोकपैरस्त्रैर्भवेदावरणत्रयम् ।
हेतिभिः सहितान् लोकपालानभ्यर्चयेत्तु वा ॥ ६।४९२ ॥
अथ ब्रह्माङ्गविद्येशमूर्त्यैकादशरुद्रकान् ।
यजेद् गदादिभिश्चैवमन्तरावरणक्रमात् ॥ ६।४९३ ॥
बाह्यावरणपूजा च परिवारविधौ विदुः ।
एवमावरणं पूज्य दद्यान्नैवेद्यमुत्तमम् ॥ ६।४९४ ॥
पञ्चवक्त्रेषु नैवेद्यमूर्ध्ववक्त्रेऽथवा पुनः ।
अङ्गानामपि सर्वेषां पृथङ्नैवेद्यमर्धतः ॥ ६।४९५ ॥
चरुपाकः प्रकर्तव्यः पृथक्पात्रेषु सम्भवे ।
पूतेष्वितरथैकस्मिन् हविष्यं मन्त्रसंस्कृतम् ॥ ६।४९६ ॥
बाह्यावरणदेवानां द्वाराध्यक्षपुरः सरम् ।
यजनं गन्धपुष्पाद्यैः प्रत्येकं प्रविधीयते ॥ ६।४९७ ॥
भूतादिभ्यो बलिं दद्यादथ मन्त्रनिवेद्यके ।
तदन्ते नित्यहोमो वा प्रविश्याभ्यन्तरं पुनः ॥ ६।४९८ ॥
तृप्तावाचमनं दद्याद्धस्तोद्वर्तनपूर्वकम् ।
मुखवासञ्च ताम्बूलं देवयोग्यं प्रदापयेत् ॥ ६।४९९ ॥
श्रीमत्पञ्चमहाशब्ददर्पणच्छत्रचामरैः ।
गेयनृत्तजपस्तोत्रैस्तदा तमभिनन्दयेत् ॥ ६।५०० ॥
हृष्टं देव्या सहासीनं सदेशं शक्तिविग्रहम् ।
ध्यात्वा तच्छिरसि न्यस्येत् पवित्रं कर्मपूरकम् ॥ ६।५०१ ॥
प्रत्यहं वाङ्मनःकायव्यापारजनितादलम् ।
पतनात्त्रायते यस्मात्तस्मादेव पवित्रकम् ॥ ६।५०२ ॥
प्रकृतौ परमीभावं सम्पूर्त्यर्थमनन्तरम् ।
परमान्तिकमुच्चार्य प्रासादं पूर्ववन्न्यसेत् ॥ ६।५०३ ॥
प्ररोचनं तु कर्तव्यं मुद्रया प्रागुपात्तया ।
प्रार्थयित्वा जपं कुर्यादक्षसूत्रेण बुद्धिमान् ॥ ६।५०४ ॥
अक्षाणामक्षकल्पानां संयमो यत्प्रसूयते ।
दृष्टादृष्टफलावाप्तेरक्षसूत्रं तदुच्यते ॥ ६।५०५ ॥
अष्टोत्तरशतेनाऽथ तदर्धेन तदर्धतः ।
जपमाला प्रकर्तव्या संस्कृता शर्वशम्बरैः ॥ ६।५०६ ॥
मध्यमानामिकाङ्गुष्ठकर्षणात् सिद्धिरुत्तमा ।
अङ्गुष्ठतर्जनीयोगान्मध्यमा सिद्धिरिष्यते ॥ ६।५०७ ॥
कनिष्ठाङ्गुष्ठसंयोगात् सिद्धिरुक्ता कनीयसी ।
मूलाद्दशांशो ब्रह्माङ्गजपः कार्योऽत्र धीमता ॥ ६।५०८ ॥
न विलम्बितमस्पष्टं न चास्वीकृतमद्रुतम् ।
असङ्ख्यातं मनोभ्रान्त्या जपं कुर्याद्विचक्षणः ॥ ६।५०९ ॥
नित्यादिकर्मभेदोक्तं जपं कृत्वा निवेदयेत् ।
साधकः साध्यसिध्यर्थं विरामायेतरो जनः ॥ ६।५१० ॥
चुलुकोदत्रयेणैव कुशपुष्पादिभिः सह ।
ॐ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ ६।५११ ॥
सिद्धिर्भवतु मे येन त्वत्प्रसादात्त्वयि स्थिते ।
यत्किञ्चित्कर्म हे देव सदा सुकृतदुष्कृतम् ॥ ६।५१२ ॥
तन्मे शिवपदस्थस्य भुङ्क्ष्व क्षपय शङ्कर ।
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥ ६।५१३ ॥
शिवो यजति सर्वत्र यःशिवः सोऽहमेव तु ।
निवेद्यैवं स्वमात्मानं जपं पूजां च भक्तितः ॥ ६।५१४ ॥
ध्यायंस्तिष्ठेच्छिवं पश्चाद्यथापूर्वमुदाहृतम् ।
स्तुत्वाऽनेकविधैः स्तोत्रैः प्रणिपत्य पुनः पुनः ॥ ६।५१५ ॥
नित्याग्निकार्यं कुर्वीत नित्याग्नो होममन्दिरे ।
पचनालयवह्न्याशाकुण्डे वह्निविधिक्रमात् ॥ ६।५१६ ॥

(पृ० ४४)

नित्योत्सवं च कुर्वीत ताण्डवं तदनन्तरम् ।
ततो लिङ्गं समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ॥ ६।५१७ ॥
दद्यात्पराङ्मुखार्घ्यं च महामुद्रां प्रदर्शयेत् ।
संहारमुद्रयास्त्रेण देवानावरणस्थितान् ॥ ६।५१८ ॥
उत्थाप्य मूर्तिमन्त्रेण योजयेन्मूर्तिसङ्गतान् ।
हृन्मन्त्रानुगतं मूलमुच्चार्य करणोज्झितम् ॥ ६।५१९ ॥
सकलोपाधिनिर्मुक्तं यथा निष्कलतां गतम् ।
शिवतत्त्वविभागेन चिन्तयेद् हृत्स्थितेन च ॥ ६।५२० ॥
निरपेक्षो विसर्गोऽयं लिङ्गे साधारणो मतः ।
परिगृहीतलिङ्गे तु सापेक्षः प्राक् प्रदर्शितः ॥ ६।५२१ ॥
चललिङ्गेऽपि सापेक्षो नापेक्षः स्थण्डिले सदा ।
सर्वत्राप्यनपेक्षस्तु प्रत्यहं तु विधीयते ॥ ६।५२२ ॥
ऐशान्यां पूजयेच्चण्डं गन्धपुष्पादिभिः क्रमात् ।
तस्मै समर्पयेत्सर्वं निर्माल्यं तत्प्रकीर्तितम् ॥ ६।५२३ ॥
लिङ्गमूर्धस्थमित्येके पिण्डिकायामथापरे ।
ऐशान्यां पीठकस्थं वा बाह्ये चण्डगृहेऽथवा ॥ ६।५२४ ॥
क्रोधांशः परमेशस्य चण्डेश इति कीर्तितः ।
नैवेद्यं गन्धपुष्पाद्यं द्रव्यं यज्जायते चिरात् ॥ ६।५२५ ॥
यन्माल्यमुपभुक्तं तन्निर्माल्यमभिधीयते ।
रजः स्थण्डिललिङ्गस्थं शिवभुक्तोज्झितं हि यत् ॥ ६।५२६ ॥
चण्डभोज्यं दुराधर्षं वर्जनीयं प्रयत्नतः ।
वितानच्छत्रमाल्यादि वस्त्रभूषणवाहनम् ॥ ६।५२७ ॥
गोभूहिप?रयवासादि देवद्रव्यं तदुच्यते ।
तस्मादन्यदपि द्रव्यं शिवाय विनिवेदितम् ॥ ६।५२८ ॥
देवस्वं चण्डभोज्यं वा नात्मभोगाय कल्पयेत् ।
वितानदामसंस्पर्शः धूपामोदो न दूष्यते ॥ ६।५२९ ॥
शिवस्य दीपजालोकप्रेक्षादिरचना तथा ।
निरपेक्षं विसृज्यैशं लिङ्गं संशोध्य पूर्ववत् ॥ ६।५३० ॥
प्रणवे योगपीठे तु मूर्ति न्यस्य तदात्मिकाम् ।
पवित्रैः सकलीकृत्य गायत्र्या पर्युपासयेत् ॥ ६।५३१ ॥
अलङ्कृत्य ततः शक्त्या भोगार्थं कुसुमादिभिः ।
वेदिकासहितं लिङ्गं क्षमस्वेति च वै वदेत् ॥ ६।५३२ ॥
प्रक्षाल्यार्ध्यादिपात्राणि विन्यसेत् फलकादिके ।
प्रासादगर्भमुन्मृज्य त्रिभिर्गोमयगोलकैः ॥ ६।५३३ ॥
चण्डभोज्यं बहिस्तस्मात् क्षिपेदुच्छिष्टभाजने ।
स्नानपानीयदुग्धाद्यैः यदि सिक्तो भवेत्तदा ॥ ६।५३४ ॥
स्नायात्प्रक्षालयेद्वाथ नामेरूर्ध्वमधस्तथा ।
आचम्य प्रयतो भूत्वा देवदेवं प्रणम्य च ॥ ६।५३५ ॥
च्युतः खलितशुध्यर्थमभ्यसेन्मन्त्रसंहिताम् ।
चललिङ्गेऽप्ययं न्यायो विहितो यज्ञमन्दिरे ॥ ६।५३६ ॥
स्थण्डिले संहरेत्पूजां त्रिभिर्गोमयगोलकैः ।
पाणिपादौ च प्रक्षाल्याप्याचम्य विधिना ततः ॥ ६।५३७ ॥
प्रणम्य दण्डवद्भूमौ क्षमस्वेति च वै वदेत् ।

॥ इति कामिकाख्ये महातन्त्रे अर्चनविधिश्चतुर्थः पटलः ॥