०३ स्नानविधिप्रारम्भः

अथ स्नानविधिं वक्ष्ये परमेशप्रकाशितम् ।
सर्वदोषहरं पुण्यं मनःप्रीतिकरं परम् ॥ ५।१ ॥
चारुणञ्च तथाग्नेयं मान्त्रम्मानसमेव च ।
वायव्यञ्च महेन्द्राख्यं स्नानं षड्विधमीरितम् ॥ ५।२ ॥
ब्राह्मे मुहूर्ते चोत्थाय हृत्पङ्कजगतं शिवम् ।
निष्कम्पं दीपिकाकारं प्रणवात्मकमव्ययम् ॥ ५।३ ॥
ध्यायन् प्रभाते विमले दण्डपाणिः सहायवान् ।
गत्वा निकेतनाद्बाह्ये विजनं सजलाशयम् ॥ ५।४ ॥
स्नानम्मावश्यकं तत्र कुर्याद्वै साधकोत्तमः ।
मूत्रकण्टककीटास्थिविष्ठादिप्रावृतं त्यजेत् ॥ ५।५ ॥
मार्गशष्प नदीगर्त तोय गोमय भस्मसु ।
श्मशानाराम गोष्ठैकद्रुमशृङ्गाटकादिषु ॥ ५।६ ॥
आवश्यकं न कर्तव्यं स्त्रीगोविप्रार्कलिङ्गिनाम् ।
चन्द्रस्य सम्मुखो भूत्वा भूतानां विकृतेस्तथा ॥ ५।७ ॥
दिबा वा सन्ध्ययोः सौम्यवक्त्रः कर्णस्थसूत्रकः ।
शिरोवकुण्ठनं कृत्वा त्यजेत्तदुभयन्नरः ॥ ५।८ ॥
रात्रौ दक्षिणवक्त्रस्तु तृणाद्यन्तरिते भुवि ।
मौनी गुल्मादिसञ्च्छन्नो नासाग्राहितलोचनः ॥ ५।९ ॥
विष्ठावियत्प्रजननदिक्षु दृष्टिं न च क्षिपेत् ।
नासापीडनानिष्ठीवह्रस्वोद्नारादिकं त्यजेत् ॥ ५।१० ॥
तृणलोष्ठादिमृत्खण्डैर्मलङ्गुदगतं हरेत् ।
काष्ठगोमयपाषाणकास्थ्यादि परिवर्जयेत् ॥ ५।११ ॥
सवासा वामहस्तेन सङ्गृह्य जननन्नरः ।
शुद्धामशर्करां मृद्वीं मृदं शौचार्थमाहरेत् ॥ ५।१२ ॥
वृक्षाम्बुसेतुवल्मीकग्राममध्योत्करस्थिताम् ।
मृदमन्यावशिष्टाञ्च शौचार्थं परिवर्जयेत् ॥ ५।१३ ॥
प्रक्षालिताम्बुतीरे तु विन्यसेत्स्वत्य दक्षिणे ।
शौचं समाचरेदेकमृदा जननशोधनम् ॥ ५।१४ ॥
तथैव वामहस्तन्तु सप्तभिर्गुदशोधनम् ।
दशभिर्वामहस्तन्तु सप्तभिश्चोभयङ्करम् ॥ ५।१५ ॥
पादौ पाणीच संशोद्ध्य मृदा चैव सकृत्सकृत् ।
आमलीफलमात्रन्तु मृत्पिण्डं योजयेत्सकृत् ॥ ५।१६ ॥
सोपवीतः समुत्थाय तटेऽन्यत्राचमेद् बुधः ।
गृहे मैत्रपदे वापि कृत्वा चावश्यकक्रियाम् ॥ ५।१७ ॥
शौचं समाचरेत् स्नानं मन्दिरे प्राग्विधानतः ।
सङ्ग्राह्य दन्तकाष्ठन्तु हरेद्दन्तगतं मलम् ॥ ५।१८ ॥
वस्वर्काङ्गुलमानन्तु काष्ठं नैष्ठिकभोगिनोः ।
सार्द्रं त्वगन्वितमृजुं समच्छेदमृजूद्वहम् ॥ ५।१९ ॥
कनिष्ठाङ्गुलिनाहं तु कर्तव्यमुभयं नृणाम् ।
करञ्जञ्चिरिबिल्वञ्च खदिरञ्चार्जुनन्तथा ॥ ५।२० ॥

(पृ० २०)

अपामार्गञ्च मुक्त्यर्थं जम्ब्वाम्रककुभादिकम् ।
भुक्तये धवधात्री च माकुलीनिम्बसम्भवम् ॥ ५।२१ ॥
शिग्रुश्लेष्मातकैरण्डपिशाचतरुसम्भवम् ।
वर्जयेद्दन्तकाष्ठं तदन्यल्लोहविनिर्मितम् ॥ ५।२२ ॥
नद्यः समुद्रगाश्चैव तटाकाश्च नदास्तथा ।
पल्वलाः प्लवनाश्चैव सङ्गमाः पुण्यतीर्थकाः ॥ ५।२३ ॥
श्रेष्ठास्तु दीक्षितस्येह पुष्करिण्यान्तु मध्यमम् ।
अधमा दीर्धिकाद्यासु कूपे चैवाधमाधमम् ॥ ५।२४ ॥
विशुद्धमृत्स्नया कुर्याद्वारुणं तु चतुर्विधम् ।
वस्वङूगुलप्रमाणन्तु खात्वोद्धृत्यास्त्रमुच्चरन् ॥ ५।२५ ॥
हृदयेन मृदं ग्राह्य तेन खातं प्रपूरयेत् ।
निधाय जलतीरे तु संसिच्य शिरसैव तु ॥ ५।२६ ॥
तृणादीन् शिखया शोध्य कवचेन त्रिधा भजेत् ।
नाभेरधस्ताद्भागेन चान्येनास्त्रं समुच्चरन् ॥ ५।२७ ॥
सप्तधा परतः सर्वाण्यङ्गानि क्षालयेद्बुधः ।
हस्ताभ्यामास्यदृङ्नासाश्रोत्रादीनि पिधाय च ॥ ५।२८ ॥
प्राणानायम्य हृद्यस्त्रन्निमज्यार्कद्युतिं स्मरेत् ।
जले स्नात्वैवमुत्तीर्य दीक्षायुक्तस्त्रिवर्णकः ॥ ५।२९ ॥
अविरक्तः पुरा ब्राह्मीं सन्ध्यां वन्देत साधकः ।
भजेत्तदन्ते शैवीन्तु सङ्क्षेपविधिमाश्रितः ॥ ५।३० ॥
सर्वकामप्रसिद्ध्यर्थं मेलामन्त्रं जपेद् बुधः ।
इतरस्तु विरागात्मा लौकिकार्थपराङ्मुखः ॥ ५।३१ ॥
कुर्याद् ब्राह्मीं नवा कुर्याच्छैवीमेव नियोगतः ।
दीक्षितो गणजातिश्चेदस्त्रसन्ध्यामुपासयेत् ॥ ५।३२ ॥
अवशिष्टमृदो भागं सङ्ग्राह्य जलमध्यतः ।
स्थित्वा वामकरे कर्यात् त्रिभागमुदगाननः ॥ ५।३३ ॥
चतुरङ्गैः सकृद्दक्षं सप्तधा हेतिनेन्द्रगम् ।
मूलेन दशधेन्दुस्थं भागमेवन्तु मन्त्रयेत् ॥ ५।३४ ॥
दिक्ष्वस्त्रजप्तं प्रक्षिप्य मूलजप्तं जले न्यसेत् ।
कल्पयेच्छिवतीर्थन्तु बाहुभ्रमणमात्रतः ॥ ५।३५ ॥
लिप्त्वाङ्गजप्तभागेन सर्वाण्यङ्गानि मस्तकात् ।
निमज्य पिहितद्वारो ध्यायेच्छिवमनामयम् ॥ ५।३६ ॥
सूर्यसोमात्मकौ हस्तौ संयोज्य घटमुद्रया ।
मूलमन्त्रादिकैर्मन्त्रैः सेकः कार्यः सकृत्सकृत् ॥ ५।३७ ॥
सुगन्धामलकाद्यैस्तु स्नायाद्राजोपचारतः ।
राजवद्धेमपीठादिसुस्थितो हेमकुम्भकैः ॥ ५।३८ ॥
स्नात्वा निमज्जनार्थन्तु कुर्याच्छब्दैः सुमङ्गलैः ।
तीर्थे विन्यस्तमन्त्रांस्तु संहृत्य स्वहृदि न्यसेत् ॥ ५।३९ ॥
अथवा स्वगृहे शुद्धवारिणा शीतलेन वा ।
तप्तेन लिप्तभूमिस्थपीठस्थः स्नानमाचरेत् ॥ ५।४० ॥
नवाष्टपञ्चभिः कुम्भैः शिवमन्त्रप्रकल्पितैः ।
वाससा परिशुद्धेन धवलेन शरीरगम् ॥ ५।४१ ॥
उद्वर्त्यापनयेत्सम्यक् स्नानवारि शनैः शनैः ।
भुक्तिमुक्तिदमाग्नेयं कार्यं शुद्धेन भस्मना ॥ ५।४२ ॥
स्नानं चतुर्विधं भस्म भवेत्कल्पादिभेदतः ।
कल्पञ्चैवानुकल्पञ्च उपकल्पमकल्पकम् ॥ ५।४३ ॥
तेष्वाद्यं तत उत्कृष्टतममन्यदभावतः ।
रोगादिरहिता या गौः कृष्णा वा कपिलाथवा ॥ ५।४४ ॥
तस्या गोमयमादाय खस्थं पद्मदलादिना ।
सद्येन गोमयं ग्राह्यं पिण्डं वामेन कारयेत् ॥ ५।४५ ॥
विमले शोषयित्वा तु दहेद्घोराच्छिवाग्निना ।
शुष्कं वनगतं यत्तु गोमयञ्चूर्णितं तथा ॥ ५।४६ ॥
निर्दग्धमनुकल्पाख्यमापगादिगतं तु यत् ।
वस्त्रेणान्तरितं भस्म गोमूत्रैर्बद्धपिण्डकम् ॥ ५।४७ ॥
दग्धं प्रागुक्तविधिना भवेद्भस्मोपकल्पकम् ।
अन्यैरापादितं भस्म अकल्पकमिति स्मृतम् ॥ ५।४८ ॥

(पृ० २१)

जात्यादिदोषनिर्मुक्तं रोगादिरहितञ्च यत् ।
तेन स्नानं प्रशस्तं स्यान्नान्येन मुनिसत्तमाः ॥ ५।४९ ॥
एष्वेकतममादाय पात्रेषु कलशादिषु ।
त्रिसन्ध्यमाचरेत्स्नानं यथासम्भवतोऽथवा ॥ ५।५० ॥
सन्ध्यायाः पूर्वतो ब्राह्मं कृत्वाऽऽकारं शिवद्विजः ।
सन्ध्यां समाचरेत्पूर्वं शैवीं वाऽवश्यकन्तथा ॥ ५।५१ ॥
जलस्नानं पुरा कृत्वा प्रातराग्नेयमभ्यसेत् ।
सन्ध्यान्तरे तथाग्नेयं केवलं वा सवारुणम् ॥ ५।५२ ॥
शक्तानां विधिरेवं स्यादशक्तानां यथेच्छया ।
आग्नेयं वारुणस्नानादसङ्ख्येयफलावहम् ॥ ५।५३ ॥
तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमभ्यसेत् ।
शोधयेदनपेक्षस्तु शुद्ध्यै शोद्ध्यस्य वस्तुनः ॥ ५।५४ ॥
यथा गङ्गाजलं शुद्धं तथा भस्मापि पावनम् ।
भासयत्येव यद्भस्म शुभं भासयते च यत् ॥ ५।५५ ॥
भक्षणात्सर्वपापानां भस्मेति परिगीयते ।
श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा ॥ ५।५६ ॥
लोकवश्यकरं पुण्यं भस्मस्नानं दिने दिने ।
ज्वरापस्मारपैशाचब्रह्मराक्षसपिडिताः ॥ ५।५७ ॥
भस्मलेपनमात्रेण स्वस्था मर्त्या भवन्ति च ।
मद्यं पीत्वा गुरुदारांश्च गत्वा
स्तेयं कृत्वा ब्रह्महत्याञ्च कृत्वा ।
भस्मच्छन्नो भस्मशय्याशयानो
रुद्राध्यायी मुच्यते सर्वपापैः ॥ ५।५८ ॥
भस्मस्नानं जलस्नानात्कोटिपुण्यगुणं भवेत् ।
यतिरुद्धूलनेनैव स्नायान्नित्यमुदङ्मुखः ॥ ५।५९ ॥
गृही यथाङ्गमालभ्य तिलकैर्वा त्रिपुण्ड्रकैः ।
सङ्गृह्य मुष्टिमात्रं तु दक्षहस्तेन भस्मनः ॥ ५।६० ॥
धारणाध्यानयोगेन विशोद्ध्य परमीकृतम् ।
विधाय शोधयेन्मूलब्रह्माङ्गमनुभिस्तथा ॥ ५।६१ ॥
अग्निरित्यादिना भस्म स्थाप्य वामकरे तु तत् ।
अस्त्रेण दक्षहस्तेन मलस्नानन्तु मस्तकात् ॥ ५।६२ ॥
कृत्वा पुनर्विधिस्नानं साभिषेकं समाचरेत् ।
ईशानेन कमुद्धूल्य मुखं तत्पुरुषेण तु ॥ ५।६३ ॥
हृदयं घोरमन्त्रेण गुह्यं वामेन मन्त्रतः ।
सद्योजातेन सर्वाङ्गं षडङ्गैर्हृदयादिकम् ॥ ५।६४ ॥
सव्यापसव्यहस्ताभ्यां शनैरुद्धूलयेत्तनुम् ।
नच गुर्वग्निदेवानां सन्निधौ मार्ग एव च ॥ ५।६५ ॥
अशुद्धभूतले चैव भस्मस्नानं नयेत्सुधीः ।
क्वचित् शस्तं हि देवस्य सन्निधावग्निसन्निधौ ॥ ५।६६ ॥
उद्धूलनविधिः प्रोक्तो विप्रस्य शिवशासने ।
उद्धूलनेप्यशक्तश्चेत् त्रिपुण्ड्रं वापि कारयेत् ॥ ५।६७ ॥
त्रिपुण्ड्रं विधिवत्कुर्याद्विप्राद्यगृहमेधिनः ।
नृपविट्शूद्रजातीनां पट्टपुण्ड्रं ललाटके ॥ ५।६८ ॥
पञ्चकाष्टद्विरष्टाष्टसन्धिषु प्रविधीयते ।
मूर्धा ललाटकर्णौ च चक्षुषी घ्राणकौ तथा ॥ ५।६९ ॥
आस्यं ग्रीवा तु चांसौ च बाहू कूर्परकौ तथा ।
मणिबन्धौ च हृन्नाभिमेढ्रं पायुस्तथैव च ॥ ५।७० ॥
ऊरू च जानुनी चैव जङ्घे स्फिचौ तथैव च ।
प्रियञ्चैवाष्टमूर्तीनां विद्येशानां तथैव च ॥ ५।७१ ॥
दिक्पालानां वसूनाञ्च मूर्द्धादि परिकल्पयेत् ।
ललाटं कर्णौ चांसौ च बाहू च मणिकूर्परौ ॥ ५।७२ ॥
हृदयं जठरञ्चैव नाभिः पार्श्वौ तथैव च ।
पृष्ठं क इति विज्ञेयाः सन्धयः षोडश क्रमात् ॥ ५।७३ ॥
शिववह्न्यादिमूर्तीनां वामादीनां तथैव च ।
अश्विन्योस्तु प्रियं ज्ञेयं मूर्द्धादिपरिकल्पनम् ॥ ५।७४ ॥

(पृ० २२)

शिरो ललाटं कर्णौ च बाहू च हृदयन्तथा ।
नाभिः पृष्ठ इति ज्ञेयास्त्वष्टौ वै सन्धयः क्रमात् ॥ ५।७५ ॥
क्रमेण ब्रह्मणश्चैव मृषीणां तु प्रियं भवेत् ।
ललाटबाहुहृन्नाभि पञ्च सन्धिषु वा भवेत् ॥ ५।७६ ॥
शिवेश रुद्र कृष्णात्म भुवाञ्च प्रीतिसिद्धये ।
मध्यतर्जन्यनामाभिस्त्रिपुण्ड्रं विधिवन्नयेत् ॥ ५।७७ ॥
षडङ्गुल प्रमाणेन विप्राणान्तु त्रिपुण्ड्रकम् ।
नृपाणां चतुरङ्गुल्यं वैश्यानां द्व्यङ्गुलं भवेत् ॥ ५।७८ ॥
शूद्राणामपि सर्वेषाम् एकाङ्गुल्यं त्रिपुण्ड्रकम् ।
स्त्रीणां तथैव कुर्वीत अन्यजातिस्तु वर्जयेत् ॥ ५।७९ ॥
स्त्रीणान्तु तिलकं वापि पट्टाकारमथापि वा ।
अथ दीपसमाकारमर्द्धचन्द्रं ललामकम् ॥ ५।८० ॥
पुंस्त्रीनपुंसकादीनां सर्वेषां प्रविधीयते ।
पेषितं चन्दनेनैव वारिणा संयुतं तु वा ॥ ५।८१ ॥
केवलं वा विधातव्यं भस्मस्नानं दिनेदिने ।
प्रातर्मध्याह्नसायाह्नमध्यरात्रेषु सर्वदा ॥ ५।८२ ॥
त्रिकालं वा द्विकालं वा चैककालमथापि वा ।
भस्मस्नानं यथायोग्यं यः कुर्यात्सकृदेव वा ॥ ५।८३ ॥
सर्वपापविनिर्मुक्तः साधयेदीप्सितं फलम् ।
ताम्राब्जनालिकेराश्मवैणवालाबुचर्ममिः ॥ ५।८४ ॥
स्वहस्तेनाचमेत्तैस्तु न तेनाप्रयतो भवेत् ।
स्वप्रमाणजलैर्युक्तं प्रस्थयुग्मापि सङ्ग्रहेत् ॥ ५।८५ ॥
तालमुद्रां ततः कृत्वा कौपीनं परिवर्तयेत् ।
वस्त्रं वातिसितं पीतं कषायं चोपवीतकम् ॥ ५।८६ ॥
एकद्विहस्तविस्तारं दीर्घं कौपीनमुच्यते ।
त्रिगुणं कटिसूत्रं स्यात् द्विश्च ग्रन्थिनियन्त्रितम् ॥ ५।८७ ॥
कार्पासनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।
सूत्रमेकन्तु शूद्राणां द्विसरं भवेत् ॥ ५।८८ ॥
त्रिसरं क्षत्रियाणान्तु विप्राणां सप्तसङ्ख्यकम् ।
यद्वा पञ्चसरं तेषां नवसूत्रमथापि वा ॥ ५।८९ ॥
सोत्तरीयन्तु विप्राणां शूद्राणां केवलं तु तत् ।
क्षत्रविट्छूद्रजातीनां यदुक्तं चोपवीतकम् ॥ ५।९० ॥
पूजादिमन्त्रकाले तु धार्यन्नो धार्यमेव वा ।
अनुलोमादिवर्णानां युक्तायुक्तं विचार्य च ॥ ५।९१ ॥
जातिभेदोक्तविधिना न धार्यं धार्यमेव च ।
चतुरङ्गुलमानेन त्रिगुणीकृतसूत्रकम् ॥ ५।९२ ॥
वस्वर्कसङ्ख्यया तेन सूत्रं तु त्रिगुणीकृतम् ।
वर्तयेत्प्राङ्मुखो भूत्वा तोयसिक्तं समं शुभम् ॥ ५।९३ ॥
ततस्तत् त्रिगुणीकृत्य समं संवर्तिताग्रकम् ।
वामेतरकरादूर्ध्वं भूगतौ परिवर्जयेत् ॥ ५।९४ ॥
निधाय तद्द्रुमादौ तु यथाग्रौ भूमिमागतौ ।
तद्भ्रमान्मुनितृप्तिः स्यात्तृणं दत्वाऽथ शोधनम् ॥ ५।९५ ॥
तत्सर्वं हृदयेनैव मन्त्रेण हृदि कल्पयेत् ।
आयुष्कामी त्वनेकञ्च द्वन्द्वसूत्रञ्च धारयेत् ॥ ५।९६ ॥
इतरार्थी त्वयुग्मञ्च स्वल्पसूत्रन्तु धारयेत् ।
पश्चादादाय सूत्रं तद् द्विगुणं कण्ठसङ्गतम् ॥ ५।९७ ॥
आत्मस्तनान्तमानीय तेनैव त्रिगुणीकृतम् ।
ग्रन्थौ त्रिवेष्टनं कृत्वा सूत्रमेवं विधीयते ॥ ५।९८ ॥
यवाद्यवार्द्धमानं स्यादुत्तरीयस्य विस्मृतम् ।
तन्मानमुपवीतस्य सममेव विधीयते ॥ ५।९९ ॥
पुरुषाघोरवामाजमन्त्रा विप्रादितः क्रमात् ।
स्वस्वजात्युक्तमन्त्रेण धार्यं तदुपवीतकम् ॥ ५।१०० ॥
वारुणं वा गृहस्थानां यतीनां भस्मना कृतम् ।
स्नानान्तरं तयोरेव नैमित्तिकमुदाहृतम् ॥ ५।१०१ ॥
ऐन्द्रञ्चातपवृष्ट्या स्यात्प्राङ्मुखेनोर्ध्वपाणिना ।
स्मरता मूर्धजं मन्त्रं गच्छता पदसप्तकम् ॥ ५।१०२ ॥

(पृ० २३)

कुर्यात् गोकुलसञ्चारधूलिमिर्वायुसम्भवैः ।
पुरुषेणैव मन्त्रेण स्नानानामुत्तमोत्तमम् ॥ ५।१०३ ॥
सद्यादि मन्त्रजप्तेन तोयेन परिमार्जनम् ।
मान्त्रं तद्वारुणस्नानविधावपि विधीयते ॥ ५।१०४ ॥
प्रणवस्मरणोपेतं प्राणायामेन मानसम् ।
सर्वस्नानेषु कर्तव्यं केवलं वा विधीयते ॥ ५।१०५ ॥
यावच्छरीरसंशुद्धिस्तावच्छुद्धिर्न पश्यताम् ।
भावशुद्ध्या विशुद्धो यः स शुद्धो नेतरः सदा ॥ ५।१०६ ॥
खरवायसगृध्रान्त्यजनश्वग्रामसूकरैः ।
कुक्कुटप्रेतभूसङ्गशावसूतकपातकैः ॥ ५।१०७ ॥
शाक्यनिर्गन्ध निर्माल्य भोजकैरन्यलिङ्गिभिः ।
अन्यैश्च निन्दितैः स्पृष्टो यदि स्नानं समाचरेत् ॥ ५।१०८ ॥
भागद्वयेप्युपगते नाभितोयोर्ध्वसङ्गते ।
प्रक्षालनादधः स्नानाद्विशुद्धिः स्यात्करादृते ॥ ५।१०९ ॥
छर्दितेऽभ्युदिते सूर्ये श्मश्रुकर्मणि मैथुने ।
दुःस्वप्ने दुर्जनस्पर्शे स्नानं षट्सु विधीयते ॥ ५।११० ॥
आजानु पादौ प्रक्षाल्य हस्तावामणिबन्धनात् ।
कुक्कटासनसंस्थस्तु जानुमध्यगपाणियुक् ॥ ५।१११ ॥
सम्यग् बद्धशिखो भूत्वा प्राङ्मुखो वाप्युदङ्मुखः ।
हस्तं गोकर्णवत्कृत्वा माषमग्नजलं पिबेत् ॥ ५।११२ ॥
अप्राणियुगफेनञ्च बुद्बुदादिविवर्जितम् ।
ब्रह्मतीर्थेन मूलेन त्रिः पीत्वा द्विः प्रमार्जयेत् ॥ ५।११३ ॥
ओष्ठाङ्गुष्ठमूलेनानामिकाङ्गुष्ठयोगतः ।
चक्षुर्नासाश्रुती बाहू वक्षो नाभिं शिरः स्पृशेत् ॥ ५।११४ ॥
समन्त्राचमनं पश्चादात्मविद्या शिवाणुभिः ।
स्वधान्तैः सलिलं पीत्वा हेतिनोष्ठौ प्रमार्जयेत् ॥ ५।११५ ॥
हृन्मन्त्रेणाक्षि संस्पृशन् कुर्यात् सव्यापसव्यतः ।
अथवान्यप्रकारेण कुर्यादाचमनं बुधः ॥ ५।११६ ॥
माषमग्नजलं ग्राह्यं निर्दोषं त्रिः पिबेत्पुनः ।
आस्यं द्विः प्रमृजेदस्त्रात्सकृन्मृज्य मुखं शनैः ॥ ५।११७ ॥
पादावभ्युक्ष्य मूर्धानमङूगुष्ठानामिकेन तु ।
सव्यात्तु चक्षुषी स्पृष्ट्वा तर्जन्याङूगुठकेन तु ॥ ५।११८ ॥
नासाद्वारावुभौ स्पृष्ट्वा कनिष्ठाङ्गुष्ठयोगतः ।
श्रोत्रे स्पृष्ट्वा जलोपेताङ्गुष्ठेन तु बाहुकौ ॥ ५।११९ ॥
नाभिमङ्गुष्ठकेनैव सर्वाङ्गुल्यग्रसन्धितः ।
हृत्प्रदेशे तु संस्पृश्य सर्वाङ्गुल्या स्वमूर्द्धनि ॥ ५।१२० ॥
ऋग्यजुः सामवेदानां त्रिः पानात्तृप्तिरिष्यते ।
ओष्ठद्विमार्जनात्तत्र तथाथर्वेतिहासयोः ॥ ५।१२१ ॥
आस्यसम्मार्जनादत्र गणेशस्य प्रियं भवेत् ।
हृच्छिरोभ्युक्षणेनैव ऋषीणान्तु प्रियं भवेत् ॥ ५।१२२ ॥
श्रोत्रयोः स्पर्शनेनैव प्रियं स्यात्सोमसूर्ययोः ।
नासिकास्पर्शनेनैव अश्विन्योस्तु प्रियं भवेत् ॥ ५।१२३ ॥
श्रोत्रसंस्पर्शनेनैव दिशां प्रीतिस्तथा भवेत् ।
इन्द्रविष्ण्वनलानाञ्च बाह्वोर्नाभेर्हृदस्तथा ॥ ५।१२४ ॥
क्षुते च कफजाते च सद्य आचमनं नयेत् ।
स्पर्शयित्वा ततः श्रोत्रमङ्गुष्ठेनास्यकं मृजेत् ॥ ५।१२५ ॥
तीर्थं कनिष्ठिकामूले प्राजापत्यं प्रतिष्ठितम् ।
कराग्रे दैविकं तीर्थं तन्मूले ब्राह्ममुत्तमम् ॥ ५।१२६ ॥
पैतृकं देशिनीमूले पर्वसन्धिषु चार्षकम् ।
वामपाणितले सौम्यमाग्नेयन्दक्षिणे तले ॥ ५।१२७ ॥
सकलीकृतदेहस्तु ततः सन्ध्यामुपासयेत् ।
ब्राह्मी ब्रह्मगुणोपेतां ब्रह्मकाले विचिन्तयेत् ॥ ५।१२८ ॥
मध्याह्ने वैष्णवीं ध्यायेदशेषाच्युतलक्षणाम् ।
साये रौद्रीं तु सन्ध्यायेद् रुद्रलक्षणलक्षिताम् ॥ ५।१२९ ॥
नियामकां त्रिमूर्तीनां साक्षिणीं सर्वकर्मणाम् ।
या शक्तिः परमेशस्य सा सन्ध्येति निगद्यते ॥ ५।१३० ॥

(पृ० २४)

तद्दीप्तिमध्यगो भूत्वा प्रातः कर्माणि साधयेत् ।
मेलामन्त्रक्रमेणैव शम्भुशक्तिं पुनर्जपेत् ॥ ५।१३१ ॥
ततस्तद्वन्दनं कार्यं महास्त्रजपपूर्वकम् ।
अभ्युक्षणात्परं कर्म कर्तव्यं तदनन्तरम् ॥ ५।१३२ ॥
वामहस्ते जलं स्थाप्य स्रवच्छिरसि योजयेत् ।
मूलाङ्गब्रह्मभिर्मन्त्रैर्दक्षहस्तेन नित्यशः ॥ ५।१३३ ॥
भूयोपि दक्षहस्तस्थं शेषवारिरविद्युतिः ।
आहृत्य पूरकेणैव दक्षनासापुटेन तु ॥ ५।१३४ ॥
दक्षनासासमीपस्थं दक्षहस्तं तु सोदकम् ।
तस्मात्तोयाच्च निर्दग्धं पापं देहेऽसितप्रभम् ॥ ५।१३५ ॥
रेचकाद्दक्षनासान्तान्निर्गच्छत्परिचिन्तयेत् ।
तद्देहेदक्षहस्तस्थजलक्षेपात् शिवास्त्रतः ॥ ५।१३६ ॥
कृत्वैवं मार्जनाद्यन्तु ततस्तर्पणमारभेत् ।
देवादीनां यथायोज्यद्रव्यैर्वारिविसर्जनम् ॥ ५।१३७ ॥
हस्ताभ्यां तर्पणं प्रोक्तं त्रयाणां तर्पणं स्मृतम् ।
मन्त्राश्च देवता वाणी दिशस्तत्पतयस्तथा ॥ ५।१३८ ॥
मुनयोऽथ मनुष्याश्च सिद्धाश्चैव ग्रहास्तथा ।
भूतानि पितरश्चान्ये ज्ञातयो गुरवस्तथा ॥ ५।१३९ ॥
तर्पणीया यथान्यायं साधकैः सिद्धिकाङ्क्षिभिः ।
स्वाहया मन्त्रदेवानां सरस्वत्यास्तथैव च ॥ ५।१४० ॥
दिक्पतीनां मुनीनां तु नमोऽन्तं मनुजे वषट् ।
सिद्धानां ग्रहसङ्घानां नमोन्तं परिकल्पयेत् ॥ ५।१४१ ॥
भूतानां वौषडन्तं स्यात् पित्रादीनां स्वधान्तकम् ।
सर्वं हृदयपूर्वं स्यात् कुसुमं देवतर्पणम् ॥ ५।१४२ ॥
कुशो मुनीनां विहितः पित्रादीनां तिलं स्मृतम् ।
शेषाणामक्षतैः कुर्याद्यथायोग्योपवीतधृक् ॥ ५।१४३ ॥
असव्यं सव्यकं सव्यमुपवीतं त्रयेण तु ।
मन्त्रास्तु मूलब्रह्माङ्गहेतयो मुनिसत्तमाः ॥ ५।१४४ ॥
शिवेशविष्णुरुद्राब्जभुवो देवाः प्रकीर्तिताः ।
वाग्वादिनी भवेद्वाणी दिशश्चेन्द्रादयः स्मृताः ॥ ५।१४५ ॥
इन्द्रादयस्तत्पतयो ब्रह्मानन्तावसानकाः ।
अत्रिश्च विश्वामित्रश्च पुलस्त्यः पुलहः क्रतुः ॥ ५।१४६ ॥
वसिष्ठश्च मरीचिश्च मुनयः परिकीर्तिताः ।
ततो मनुष्याः सनकः सनन्दनसनातनौ ॥ ५।१४७ ॥
सनत्कुमारः कपिलो भृगुः पञ्चशिखस्तथा ।
शिवो रुद्रो भवानी च ब्रह्मविष्ण्वग्निवायवः ॥ ५।१४८ ॥
धर्मः सूर्यश्चन्द्रमाश्च सिधाश्चैते प्रकीर्तिताः ।
आदित्यसोमावङ्गारबुधौ चैव बृहस्पतिः ॥ ५।१४९ ॥
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ।
भूतान्यसङ्ख्यसङ्ख्यानि भूतेभ्य इति योजयेत् ॥ ५।१५० ॥
सोमश्च पितृमांश्चैव अङ्गिरा अर्यमा तथा ।
अग्निश्च कव्यवाहाद्याः पितरः परिकीर्तिताः ॥ ५।१५१ ॥
पितृपत्न्यादिकं सर्वं क्रमाद्बुध्वा समाचरेत् ।
आचम्य दद्यात्सूर्यार्ध्यं त्र्यक्षरेण तु मन्त्रतः ॥ ५।१५२ ॥
तद्विधिः सूर्यपूजायां विस्तरेण विधास्यते ।
ध्यात्वा सूर्यं यथान्यायमुपस्थानं षडङ्गतः ॥ ५।१५३ ॥
मेलामन्त्रं ततो जप्त्वा शिवशक्तिविभागतः ।
प्रातः स्थित्वा तु सायाह्ने समासीनो मुनीश्वराः ॥ ५।१५४ ॥
आसीनो वा स्थितो वापि मध्याह्ने विधिमाचरेत् ।
उपस्थानं ततो जप्त्वा व्योमव्यापिनमेव च ॥ ५।१५५ ॥
उदुत्यं चित्रमन्त्रञ्च हंसः शुविषदो जपेत् ।
प्रदक्षिणं ततः कृत्वा कुर्याद्दण्डनमस्कृतिम् ॥ ५।१५६ ॥
सन्ध्यां नित्यमुपासीत लोपे चोपवसेद्दिनम् ।
अरोगी रोगयुक्तश्चेत् सद्योजातं शतं जपेत् ॥ ५।१५७ ॥
क्षालितं स्नानवस्त्राद्यं दण्डे संवेष्ट्य यत्नतः ।
गणेशरुद्रवागीशान् पूजयेत् हृदयेन तु ॥ ५।१५८ ॥

(पृ० २५)

विघ्नान्विरेच्य मार्गस्थानस्त्ररक्षितविग्रहः ।
व्रजेद्देवकुलं वापि गृहमात्मीयमुत्तमम् ॥ ५।१५९ ॥
ततः शुद्धिक्रमात् क्ष्मादीन्यधस्तत्त्वानि कल्पयेत् ।
विद्यातत्वात्मकं गेहं सिद्धिमुक्तिफलप्रदम् ॥ ५।१६० ॥
तन्त्रमन्त्रान् समाधाय नागदन्तान्तिके शुभे ।
प्रक्षाल्य पादौ हस्तौ च तथाऽऽचम्य यथाविधि ॥ ५।१६१ ॥
मन्त्रसन्नद्धदेहस्तु सामान्यार्ध्यकरः शुचिः ।
त्यजञ्च्छेषाध्वनो भागं प्रासादं प्रविशेद् बुधः ॥ ५।१६२ ॥
सर्वमन्त्रकलाधारं सर्वशक्तिप्रवर्तकम् ।
एवं सङ्क्षेपतः प्रोक्तं स्नानाद्यं मुनिसत्तमाः ॥ ५।१६३ ॥
अनुक्तमन्यतन्त्रेभ्यः समाहृत्याचरेद् बुधः ।

इति कामिकाख्ये महातन्त्रे स्नानविधिस्तृतीयपटलः ॥