॥ तन्त्रावतारपटलः ॥
कैलासदक्षिणे शृङ्गे नानाश्चर्यसमन्विते ।
प्रवृद्धवटवृक्षोत्थच्छायाच्छन्नेऽतिविस्तृते ॥ ३।१ ॥
व्याघ्रचर्मपरीधाने पीठे रत्नोपशोभिते ।
देवदानवगन्धर्वसिद्धविद्याधरादिभिः ॥ ३।२ ॥
सेव्यमानं महादेवं श्रीकण्ठं विश्वनायकम् ।
कौशिकः काश्यपोऽगस्त्यो गौतमो नारदस्तथा ॥ ३।३ ॥
सनत्कुमारः सनकः सनातनसनन्दनौ ।
भृगुश्चात्रिभरद्वाजवसिष्ठाद्या महर्षयः ॥ ३।४ ॥
जिज्ञासवः परं ज्ञानं शिवशक्त्युन्मुखीकृताः ।
प्रणम्य चरणौ तस्य प्राहुरीशमुमापतिम् ॥ ३।५ ॥
ऋषयः-
भगवन् देवदेवेश पशुपाशविमोचक ।
सृष्टिस्थितितिरोभावलयानुग्रहकारक ॥ ३।६ ॥
वियदादिमहामायावृत्तेः साक्षात्प्रवर्तक ।
सहजानन्दसन्दोहस्वसंविल्लक्षणात्मक ॥ ३।७ ॥
परसंवित्स्वरूपिण्या शक्त्या परमया युत ।
दिग्देशकालनिर्मुक्त जगदाह्लादकारण ॥ ३।८ ॥
वयं नियुक्ता देवेश त्वयेज्यायां शिवस्य तु ।
तदर्थं सारभूतं तु शास्त्रं शिवमुखोद्भवम् ॥ ३।९ ॥
वक्तुमर्हसि देवेश भक्तानामनुकम्पया ।
इत्येवम् ऋषिभिः पृष्टो भगवान् वृषभध्वजः ॥ ३।१० ॥
प्राह गम्भीरया वाचा स्फुरच्चन्द्रार्धशेखरः ।
साधु पृष्टं हि युष्माभिश्शृणुध्वं संशितव्रताः ॥ ३।११ ॥
कामिकाख्यान्महातन्त्रादुद्धृतं शास्त्रमुत्तमम् ।
अवतीर्णमिदं मेरौ प्रणवाद्यवतारकैः ॥ ३।१२ ॥
क्रियाचर्यासमोपेतं योगज्ञानान्वितं परम् ।
इत्येवमुक्ता ऋषयः प्रणेमुर्दण्डवत्क्षितौ ॥ ३।१३ ॥
तेषामाज्ञां शिवो दत्वा प्राह तन्त्रमनुत्तमम् ।
आदावभूद् द्विधा ज्ञानमधिकारिविभेदतः ॥ ३।१४ ॥
परापरेण भेदेन पतिपश्वर्थदर्शकम् ।
शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् ॥ ३।१५ ॥
वेदाद्यपरं ज्ञानं पशुपाशार्थदर्शकम् ।
यथा विलक्षणं चक्षुः क्षपायां नृबिडालयोः ॥ ३।१६ ॥
तथा विलक्षणं ज्ञानमेवमेतत्परापरम् ।
लौकिकं वैदिकं चैव तथाध्यात्मिकमेव च ॥ ३।१७ ॥
अतिमार्गं व मन्त्राख्यं तन्त्रमेतदनेकधा ।
सद्योवाममहाघोरपुरुषेशानमूर्तयः ॥ ३।१८ ॥
प्रत्येकं पञ्चवक्त्रास्त्युस्तैरुक्तं लौकिकादिकम् ।
पञ्चविंशतिभेदेन स्रोतोभेदः प्रकीर्तितः ॥ ३।१९ ॥
एष्वेवान्तर्गतं वक्तुं वाङ्मयं वस्तुवाचकम् ।
तेष्वेव मन्त्रतन्त्राख्यं सदाशिवमुखोद्गतम् ॥ ३।२० ॥
(पृ० ४)
सिद्धान्तं गारुडं वामं भूततन्त्रं च भैरवम् ।
ऊर्ध्वपूर्वकुबेरास्ययाम्यवक्त्राद्यथाक्रमम् ॥ ३।२१ ॥
ईशानवक्त्रादूर्ध्वस्थाज्ज्ञानं यत्कामिकादिकम् ।
दशाष्टादशभेदेन शिवरुद्रावतारकैः ॥ ३।२२ ॥
षट्षष्टिभिः क्रमेणैव कथितं तु शिवाज्ञया ।
तदेव युगभेदेन सद्योजातादिमूर्तिभिः ॥ ३।२३ ॥
प्रकाशितं चतुर्भेदं मूर्तिसङ्ख्यावशेन तु ।
सङ्ख्यया गारुडं तद्वत् पूर्ववक्त्राद्विनिर्गतम् ॥ ३।२४ ॥
सावित्र्याद्यं च सिद्ध्यर्थमुक्तं तदवतारकैः ।
नयसूत्रादिभेदेन वामं वामाद्विनिर्गतम् ॥ ३।२५ ॥
चतुर्विंशतिसङ्ख्याकमवतीर्णं शिवाज्ञया ।
कौलादिविंशत्सङ्ख्यातं भूततन्त्रं तु सद्यतः ॥ ३।२६ ॥
द्विविधं तन्त्रमुद्भूतं भैरवं दक्षिणास्यतः ।
असिताङ्गादिभिर्भूमौ कथितं तदनेकधा ॥ ३।२७ ॥
प्रत्येकं तन्त्रभेदोक्तौ जायते ग्रन्थविस्तरः ।
अथ सिद्धान्ततन्त्राणामवतारो निगद्यते ॥ ३।२८ ॥
तनोति विपुलानर्थांस्तत्त्वमन्त्रसमाश्रितान् ।
त्राणं च कुरुते यस्मात्तन्त्रमित्यभिधीयते ॥ ३।२९ ॥
कामिकं प्रणवाख्यस्य परार्धग्रन्थसङ्ख्यया ।
प्रणवात् त्रिकलः प्राप्तः त्रिकलाच्च ततो हरः ॥ ३।३० ॥
त्रयश्चैवोपभेदाः स्युर्वक्त्रारं भैरवोत्तरम् ।
नारसिंहं च विप्रेन्द्राः कथ्यते कामिकत्रयम् ॥ ३।३१ ॥
योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसङ्ख्यया ।
सुधाख्याद्भस्म सम्प्राप्तस्ततः प्राप्तो विभुः क्रमात् ॥ ३।३२ ॥
वीणाशिखोत्तरं तारं सन्तं सन्ततिरेव च ।
आत्मयोगं च पञ्चैते योगतन्त्रस्य भेदकाः ॥ ३।३३ ॥
चिन्त्यं सुदीप्तसञ्ज्ञस्य प्रोक्तं शतसहस्रकैः ।
दीप्ताच्च गोपतिः प्राप्तस्ततः प्राप्ता तु चाम्बिका ॥ ३।३४ ॥
सुचिन्त्यं सुभगं वामं पापनाशं परोद्भवम् ।
अमृतं चिन्त्यन्तन्त्रस्य षड्विधं तु प्रकीर्तितम् ॥ ३।३५ ॥
कारणं कारणाख्यस्य कोटिग्रन्थेन चोदितम् ।
कारणाच्छर्वरुद्रस्तु शर्वात्प्राप्तः प्रजापतिः ॥ ३।३६ ॥
कारणं पावनं दोर्गं ? माहेन्द्रं भीममेव च ।
ततस्तु मारणं द्वेष्टं सप्तधा कारणं तथा ॥ ३।३७ ॥
अजितं सुशिवाख्यस्य नियुतग्रन्थसङ्ख्यया ।
सुशिवाख्याच्छिवः प्राप्तस्तच्छिवादच्युतस्ततः ॥ ३।३८ ॥
प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता ।
चतुर्भेदमिदं तन्त्रं चास्मिन् तन्त्रे प्रकीर्तितम् ॥ ३।३९ ॥
दीप्तमीशस्य विख्यातं नियुतग्रन्थसङ्ख्यया ।
ईशानमूर्तिः सम्प्राप्तस्ततः प्राप्तो हुताशनः ॥ ३।४० ॥
अमेयं शब्दामाच्छाद्यमसङ्ख्यममितौजसम् ।
आनन्दं माधयोद्भूतमद्भूतं चाक्षतं तथा ॥ ३।४१ ॥
दीप्तं तु नवधा प्रोक्तं सूक्ष्मतन्त्रं निबोधत ।
सूक्ष्मं सूक्ष्मस्य सम्प्रोक्तं तदूग्रन्थं पद्मसङ्ख्यया ॥ ३।४२ ॥
सूक्ष्माद्वैश्रवणः प्राप्तस्तस्मात्प्राप्तः प्रभञ्जनः ।
तत्सूक्ष्ममेकभेदं स्यात्सूक्ष्ममित्यभिधीयते ॥ ३।४३ ॥
सहस्रं कालसञ्ज्ञस्य? प्रोक्तं वै शङ्खसङ्ख्यया ।
कालाद्भीमस्ततः प्राप्तो भीमाद्धर्मो यथा तथा ॥ ३।४४ ॥
अतीतं मङ्गलं शुद्धमप्रमेयं तु जातिभाक् ।
प्रबुद्धं विबुधं हस्तमलङ्कारं सुबोधकम् ॥ ३।४५ ॥
एते सहस्रतन्त्रस्य दशसङ्ख्याः प्रकीर्तिताः ।
अंशुमानम्बुसञ्ज्ञस्य पञ्चलक्षेण कीर्तितः ॥ ३।४६ ॥
अग्रश्चैवाम्बुसञ्ज्ञाच्च अग्रात्प्राप्तस्ततो रविः ।
विद्यापुराणतन्त्रं च वासवं नीललोहितम् ॥ ३।४७ ॥
प्रकारणं भूततन्त्रमात्मालङ्कारमेव च ।
काश्यपं गौतमं चैन्द्रं ब्राह्मं वासिष्ठमेव च ॥ ३।४८ ॥
(पृ० ५)
ऐशानं नामतः प्रोक्तमंशुमान् द्वादश स्मृतः ।
सुप्रभेदं माहाशास्त्रं दशेशस्य प्रकीर्तितम् ॥ ३।४९ ॥
विघ्नेश्वरो दशेशाच्च शशी प्राप्तो गणेश्वरात् ।
त्रिकोटिसङ्ख्यया प्रोक्तो भेदश्चात्र न विद्यते ॥ ३।५० ॥
क्रियादिज्ञानपर्यन्तं तन्त्रमत्रैव दृश्यते ।
शिवभेदमिति प्रोक्तो रुद्रभेदस्तथोच्यते ॥ ३।५१ ॥
रुद्रस्यानादिसञ्ज्ञस्य विजयं तन्त्रमुत्तमम् ।
परमेशस्ततः प्राप्तस्त्रिकोटिग्रन्थसङ्ख्यया ॥ ३।५२ ॥
विजयं चोद्भवं सौम्यमघोरं मृत्युनाशनम् ।
कुबेरं च माघोरं विमलं विजयाष्टकम् ॥ ३।५३ ॥
निःश्वासं तु दशार्णस्य प्रोक्तं तत्कोटिसङ्ख्यया ।
दशार्णात् शैलजा प्राप्ता चाष्टभेदेन भेदितम् ॥ ३।५४ ॥
निःश्वासोत्तरनिःश्वासौ निःश्वासस्य मुखोदयम् ।
निःश्वासनयनं चैव तथा निःश्वासकारिका ॥ ३।५५ ॥
घोरसञ्ज्ञं यमाख्यं च गुह्यं चाप्येवमष्टधा ।
निधनस्य स्वयम्भूतं त्रिकोट्यर्धेन कीर्तितम् ॥ ३।५६ ॥
निधनेशात्स्वयम्भूतं श्रुतवान्नलिनोद्भवः ।
प्रजापतिमतं पद्मं स्वायम्भुवमिति त्रिधा ॥ ३।५७ ॥
आग्नेयं यच्च तद्व्योम्नो ग्रन्थसङ्ख्यायुतत्रयात् ।
आग्नेयं तन्त्रमेकं तु तस्मात्प्राप्तो हुताशनः ॥ ३।५८ ॥
तेजस्तु वीरं सम्प्राप्तो नियुतग्रन्थसङ्ख्यया ।
प्रजापतिस्ततः प्राप्तस्त्रयोदशविभेदकम् ॥ ३।५९ ॥
प्रस्तारं फुल्लमल्लञ्च (फुल्लममलं ?) प्रबोधं बोधबोधकम् ।
अमोहं मोहसमयं हाकटं शाकटाधिकम् ॥ ३।६० ॥
हलं विलेखनं भद्रं वीरं वीरे त्रयोदश ।
रौरवं ब्राह्मणेशस्य चार्बुदाष्टकसङ्ख्यया ॥ ३।६१ ॥
नन्दिकेशस्ततः प्राप्तः षड्भेदञ्च विधीयते ।
कालघ्नं च कलातीतं रौरवं रौरवोत्तरम् ॥ ३।६२ ॥
महाकालमतं चैन्द्रं रौरवं षड्विधं मतम् ।
मकुटं तु शिवाख्यस्य शतसाहस्रसङ्ख्यया ॥ ३।६३ ॥
महादेवस्ततः प्राप्तो भेदश्च द्विविधो भवेत् ।
मकुटोत्तरं च मकुटं द्विविधेन विधीयते ॥ ३।६४ ॥
सर्वात्मकस्य विमलं त्रिलक्षग्रन्थसङ्ख्यया ।
वीरभद्रस्ततः प्राप्तो भेदाः षोडशसङ्ख्यया ॥ ३।६५ ॥
अनन्तं भोगमाक्रान्तं वृषपिङ्गं वृषोदरम् ।
वृषाद्भुतं सुदन्तं च रौद्रं भद्रविधं तथा ॥ ३।६६ ॥
अरेवतमतिक्रान्तमट्टहासमलङ्कृतम् ।
अर्चितं धारणं तन्त्रं विमलं षोडशैव तु ॥ ३।६७ ॥
चन्द्रज्ञानमनन्तस्य त्रिकोटिग्रन्थसङ्ख्यया ।
बृहस्पतिस्ततः प्राप्तो भेदाश्चात्र चतुर्दश ॥ ३।६८ ॥
स्थिरं स्थाणुं महान्तं च वारुणं नन्दिकेश्वरम् ।
एकपादपुराणं च शङ्करं नीलरुद्रकम् ॥ ३।६९ ॥
शिवभद्रं कल्पभेदं श्रीमुखं शिवशासनम् ।
शिवशेखरमाख्यातं देव्या मतं तथैव च ॥ ३।७० ॥
चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधो भवेत् ।
मुखबिम्बं प्रशान्तस्य शतसाहस्रसङ्ख्यया ॥ ३।७१ ॥
दधीचिस्तु ततः प्राप्तो भेदाः पञ्चदशैव तु ।
चतुर्मुखमलायोगं संस्तोभं प्रतिबिम्बकम् ॥ ३।७२ ॥
आत्मालङ्कारवायव्ये तौटिकं तुटिनीरकम् ।
कलात्ययं तुलायोगं कुट्टिमं पट्टशेखरम् ॥ ३।७३ ॥
महाविद्या महासौरं बिम्बं पञ्चदशैव तु ।
प्रोद्गीतं शूलिनः प्रोक्तं लक्षत्रितयसङ्ख्यया ॥ ३।७४ ॥
कवचाख्यस्ततः प्राप्तो भेदाः षोडशसङ्ख्यया ।
कवचं चैव वाराहं पिङ्गलामतमेव च ॥ ३।७५ ॥
पाशबन्धं दण्डधरमङ्कुशं च धनुर्धरम् ।
शिवज्ञानं च विज्ञानं श्रीकालज्ञानमेव च ॥ ३।७६ ॥
(पृ० ६)
आयुर्वेदं धनुर्वेदं सर्पदंष्ट्रीविभेदनम् ।
गीतं भरतमातोद्यं प्रोद्गीतं षोडशैव तु ॥ ३।७७ ॥
ललितं चालयेशस्य प्रोक्तमष्टसहस्रकम् ।
आलयाल्लालितः (भैरवः?) प्राप्तो ललितं ललितोत्तरम् ॥ ३।७८ ॥
कौमारं चैव तद्भेदं त्रिविधं परिकीर्तितम् ।
बिन्दोः सिद्धमिदं तन्त्रं कोटिकोट्यर्धसङ्ख्यया ॥ ३।७९ ॥
बिन्दु (सञ्ज्ञात्तु?) सिद्धाख्यं प्राप्तश्चण्डेश्वरः परः ।
सारोत्तरमथान्यत्तु औशनोत्तरमेव च ॥ ३।८० ॥
शालाभेदं शशीखण्डं सिद्धं तन्त्रं चतुर्विधम् ।
सन्तानं शिवनिष्ठस्य षट् सहस्रं तु सङ्ख्यया ॥ ३।८१ ॥
असंवायस्ततः प्राप्तो भेदः सप्तविधो भवेत् ।
लिङ्गाध्यक्षं सुराध्यक्षं शङ्करं त्वमलेश्वरम् ॥ ३।८२ ॥
असङ्ख्यमनिलं द्वन्द्वं सन्तानं सप्तधेरितम् ।
सोमदेवस्य शर्वोक्तं द्विलक्षेणैव सङ्ख्यया ॥ ३।८३ ॥
नृसिंहः प्राप्तवान् सोमाद्भेदः पञ्चविधो भवेत् ।
शिवधर्मोत्तरं चैव वायुप्रोक्तं तथैवच ॥ ३।८४ ॥
दिव्यप्रोक्तमथैशानं शर्वोद्गीतं विधीयते ।
श्रीदेव्यास्तु समाख्यातं पारमेश्वरमुत्तमम् ॥ ३।८५ ॥
ग्रन्थद्वादशलक्षं तु सप्तधा प्रसृतं तु तत् ।
उशनोमुनिसम्प्राप्तः श्रीदेव्याश्च यथाक्रमात् ॥ ३।८६ ॥
मतङ्गं यक्षिणीपद्मं पारमेश्वरमेव च ।
पुष्करं सुप्रयोगं च हंसं सामान्यमेव हि ॥ ३।८७ ॥
किरणं देवविभवे कोटिपञ्चकसङ्ख्यया ।
संवर्तकस्ततः प्राप्तो भेदास्तु नवसङ्ख्यया ॥ ३।८८ ॥
गारुडं नैरृतं नीलं रूक्षं भानुकधेनुके ।
प्रबुद्धं बुद्धकालाख्ये नवधा किरणो भवेत् ॥ ३।८९ ॥
शिवस्य वातुलं प्रोक्तं ग्रन्थाः शतसहस्रकम् ।
महाकालस्ततः प्राप्तो भेदा वै द्वादशैव तु ॥ ३।९० ॥
वातुलं चोत्तरं चैव कालज्ञानं प्ररोहितम् ।
सर्वं धर्मात्मकं श्रेष्ठं नित्यं शुद्धं महाननम् ॥ ३।९१ ॥
विश्वं विश्वात्मकं चैव वातुले द्वादश स्मृताः ।
अष्टाविंशतितन्त्राणां मूलभेदाः प्रकीर्तिताः ॥ ३।९२ ॥
कामिकं पादयुग्मं स्याद्योगजं गुल्फमेव च ।
चिन्त्यं पादाङ्गुलिः प्रोक्तः कारणं जङ्घिका भवेत् ॥ ३।९३ ॥
अजितं जानुदेशं स्याद्दीप्तमूरुप्रदेशकम् ।
सूक्ष्मन्तु गुह्यमेवं स्यात्सहस्रं कटिदेशकम् ॥ ३।९४ ॥
अंशुमान् स्यात् पृष्ठतलं सुप्रभेदं तु नाभिकम् ।
विजयं कुक्षिदेशं स्यान्निःश्वासं हृदयं भवेत् ॥ ३।९५ ॥
स्वायम्भुवं स्तनौ द्वौ तु अनलं नेत्रमेव च ।
वीरं कण्ठप्रदेशस्तु रौरवं श्रोत्रमेव च ॥ ३।९६ ॥
मकुटं माकुटं तन्त्रमङ्गप्रत्यङ्गमेव च ।
बाहू तु विमलं प्रोक्तं चन्द्रज्ञानमुरःस्थलम् ॥ ३।९७ ॥
बिम्बतन्त्रं सुवदनं प्रोद्गीतं रसना भवेत् ।
ललितं स्यात्कपोलं तु सिद्धं चैव ललाटकम् ॥ ३।९८ ॥
सन्तानं कुण्डलं विद्याच्छर्वोक्तमुपवीतकम् ।
पारमेशेन हारं तु किरणं रत्नभूषणम् ॥ ३।९९ ॥
वातुलं वसनं प्रोक्तं शिवधर्म त्रिपुण्ड्रके ।
कल्पञ्चैव तु संयोगे शिवधर्मानुलेपने ॥ ३।१०० ॥
बिम्बं पुष्पे च माल्ये च सिद्धान्तेन निवेदितम् ।
तन्त्रात्मकशरीरेण मन्त्रमूर्तिमयेन तु ॥ ३।१०१ ॥
एतेषामुपभेदैश्च सादाख्यं मूर्तिमत् स्थितम् ।
शिवरुद्रात्मकं तन्त्रमष्टाविंशतिसङ्ख्यकम् ॥ ३।१०२ ॥
चिन्तामणिरिव भ्राजि चैकधा बहुधा दिशेत् ।
यद्यप्येको भवेद्वक्ता श्रोतृभेदादनेकधा ॥ ३।१०३ ॥
कर्षणादिप्रतिष्ठान्तं मूलेनैव समाचरेत् ।
कृतञ्चेदुपभेदेन कर्ता भर्ता विनश्यति ॥ ३।१०४ ॥
(पृ० ७)
केवलं यजनं प्रोक्तमुपभेदैर्विशेषतः ।
प्रतिष्ठाद्यं तु मूलैश्चेत् अष्टाविंशतिभिर्वरम् ॥ ३।१०५ ॥
येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम् ।
तेन सर्वं प्रकर्तव्यं न कुर्यादन्यतन्त्रतः ॥ ३।१०६ ॥
कारयेदन्यतन्त्रेण नोक्तं चेत्तु विशेषतः ।
उक्तानि प्रतिषिद्धानि पुनः सम्भाषितानि च ॥ ३।१०७ ॥
सापेक्षनिरपेक्षाणि शिववाक्यान्यनेकधा ।
चतुष्पादयुतान्येव भुक्तिमुक्त्यर्थसाधनम् ॥ ३।१०८ ॥
एतान्येवाथ श्रुत्वा तु देवैर्मुनिवरादिभिः ।
सङ्क्षेपतोऽपि कथितं सर्वेषामनुकम्पया ॥ ३।१०९ ॥
एषामध्ययनं कार्यं शिवविप्रैर्गुरुक्रमात् ।
अव्यापनं च कर्तव्यं न कार्यमितरैर्नरैः ॥ ३।११० ॥
दीक्षाविहीनविप्राद्यास्त्रिवर्णाश्शूद्रजातयः ।
सवर्णाद्यनुलोमाश्च शिल्पिनः कारुकादयः ॥ ३।१११ ॥
पठन्ति शिवशास्त्रञ्चेत्तत्पापान्नृपराष्ट्रयोः ।
अचिरेण विनाशः स्यात्तस्माद्राजा निवारयेत् ॥ ३।११२ ॥
शिवसिद्धान्ततन्त्रेण प्रारब्धं कर्षणादिकम् ।
न कुर्यादन्यशास्त्रेण कुर्याच्चेत्तन्त्रसङ्करः ॥ ३।११३ ॥
तन्त्रसङ्करदोषेण राजा राष्ट्रं च नश्यति ।
गारुडं भूततन्त्रं च भैरवं वामतन्त्रकम् ॥ ३।११४ ॥
कापालं पाञ्चरात्रं च लाकुलं कुलशास्त्रकम् ।
तन्त्रं पाशुपतं चान्यत् पुराणं धर्मशास्त्रकम् ॥ ३।११५ ॥
इतिहासं षड्ङ्गं च ऋग्यजुः सामसञ्ज्ञकम् ।
अथर्वणं तथा बौद्धमार्हतं मतमेव च ॥ ३।११६ ॥
ऊर्ध्वस्रोतोऽक्षपाच्छास्त्रादपरं तदनुक्रमात् ।
कामिकादि शिवज्ञानं मूर्धा भगवतः सदा ॥ ३।११७ ॥
इतराणि महेशस्य हृत्कण्ठाद्यङ्गकानि वै ।
पूर्वपक्षतया तानि कथितानीह शम्भुना ॥ ३।११८ ॥
हेयोपादेयवस्तूनां निर्णये परमार्थतः ।
तत्सर्वमधरीकृत्य शैवसिद्धान्त ईरितः ॥ ३।११९ ॥
सिद्धान्तशास्त्रनिष्ठैश्च शिवविप्रैर्यथाक्रमम् ।
शास्त्रान्तरैस्तु संस्थाप्य लिङ्गं तदुभयार्थकम् ॥ ३।१२० ॥
पूजनीयं नृपग्रामयजमानाभिवृद्धये ।
शैवः सर्वाधिकारी स्यात्स्वकीये च परत्र च ॥ ३।१२१ ॥
शैवाः सर्वेषु कुर्वन्ति ये गृहस्था द्विजोत्तमाः ।
यामले मातृतन्त्रे च कापाले पाञ्चरात्रके ॥ ३।१२२ ॥
बौद्धे चार्हमते चैव लाकुले वैदिकेऽपि च ।
अन्येष्वपि च मार्गेषु तत्तच्छास्त्रैः स्वशास्त्रतः ॥ ३।१२३ ॥
शैवाः कुर्वन्ति दीक्षाद्यं तल्लिङ्गस्थापनादिकम् ।
मुख्यत्वादिह शैवस्य मुखमाहात्म्यतोऽपि च ॥ ३।१२४ ॥
अधिकारोऽस्ति सर्वत्र नान्येषां शिवदर्शने ।
तस्मात्परार्थमात्मार्थं स्थापनं यजनं तथा ॥ ३।१२५ ॥
शिवविप्रेण कर्तव्यमन्येषां स्वार्थमेव हि ।
परार्थमपि कुर्याच्चेल्लोपेन नृपतेस्तथा ॥ ३।१२६ ॥
तद्राष्ट्रस्य च नाशः स्यादचिरेण न संशयः ।
॥ इति कामिकाख्ये महातन्त्रे क्रियापादे तन्त्रावतारपटलः प्रथमः ॥