द्राविडशैवगाथासु शैवोत्तमा इति चिदम्बरदीक्षिताः कीर्तिताः। किन्तु, ते न शैवागमानुसारिणः, न शैवागमाध्येतार इति च श्रूयते। अपीदं सत्यम्? एवं तर्हि शिवालयनिर्वाहे किं शास्त्रं तत्सहाय्यम्?
चिदम्बरनटेशार्चका दीक्षिताः शैवोत्तमा एव । नात्र शङ्कावकाशः ।
ते परं न शैवागमरीत्या नटेशपूजामनुतिष्ठन्ति ।
शैवसम्प्रदायः बहु विस्तीर्णः, अतिगाढश्च ।
तस्मिन् बहुभेदाः सन्ति ।
तेषु शैवसिद्धान्तसम्प्रदायः अन्यतमः
बहोः कालात् समग्रभारतदेशे
अन्यत्र देशेष्वपि सुदृढं प्रचलितः दृश्यते ।
इदानीं प्रायेण बहुषु शिवालयेषु द्राविडदेशे
“भूयसा व्यपदेशः” इति रीत्या
शैवसिद्धान्तागमपद्धतिर् एव अनुष्ठीयमाणः दृश्यते ।
परं तु शैवसिद्धान्तागमेतरक्रमोऽपि
तत्र तत्र प्रान्तेऽस्मिन् अनुवर्तमानो दरीदृश्यते ।
तादृशशैव-पुण्य-क्षेत्रेष्व् अन्यतमं
शैवसम्प्रदायस्य अतिमुख्यमूलस्थानभूतं चिदम्बरक्षेत्रम् ।
तिरुज्ञानसम्बन्धर् तिरुनावुक्करशर् इत्यादि
षष्ठ-सप्तम-शताब्दि-भव-नायन्मार्-इति-प्रख्यात-शिव-भक्त-शिरोमणिभिः
चिदम्बरनटेशार्चकाः सर्वे साङ्ग-वेदान् अधीत्य
पशुबन्ध–सोम-यागादि-श्रौत-यागानुष्ठातारः
सभापतिम् आनन्द-ताण्डव-नटेश्वरं प्रतिदिनं पूजयन्ति
इति बहुशः उल्लिख्यते
उच्चैः कीर्त्यते च तेवारम् (Tēvāram) इति सुप्रख्यात-द्राविड-भक्तिगीतासु ।
अत्र आलये प्रायेण वैदिक-क्रम एव अनुष्ठीयते
न शैवसिद्धान्तागम-पद्धतिः ॥
अतश्च ते न शैव-सिद्धान्तागमेषु दीक्षिताः ।
अतो हेतोः इमे दीक्षिताः शैवागमं नाधियन्ति ।
तथापि ते परमशाम्भवाः शैव-शिखामणयश् च।