स्रोतः - दिव्यसानुपाण्डेयः अत्र ।
वल्मीकलिङ्गपूजाया विधिं पुराणकीर्त्तितम्।
वदामि त्वां महाभाग पूर्वाचार्यैर्यथाश्रुतम्॥
विश्वमूर्त्तिं महामूर्त्तिमष्टमूर्त्तिमुमापतिम्॥
भवानीवल्लभं शर्व्वं पिनाकपाणिं महेश्वरम्।
पञ्चभूतेश्वरं रुद्द्रं नटराजं सभापतिम्॥
वल्मीकनिर्मितं लिङ्गं पूजयामास माधवः।
सत्ये त्रेतायुगे रामो द्वापरे गोपनन्दनः॥
देव्या गुहेन कृष्णेन गणाधिपतिनार्चितः।
नन्दिना भृङ्गिनार्षेण भद्द्रेण विधिना सुरैः॥
राक्षसैरसुरैर्दैत्यैर्दानवैर्मानवैर्ग्रहैः।
यक्षगन्धर्वनागैश्च किन्नरैर्मुनिभिर्बुधैः॥
स्थावरैर्जङ्गमैर्लोकैर्यथान्यायं यथाविधि॥
स्वसूत्रोक्तविधानेन पुराणोक्तेन वा पुनः।
पूर्वजन्मार्जितैः पुण्यैः वल्मीकायतनश् शिवः॥
स्नात्वोपस्थाय सन्ध्यां च स्वसूत्रोक्तविधानतः।
पुराणेन विधिना यायाद् वल्मीकसङ्ग्रहाय च॥
सङ्गृह्य वल्मीकमृदां पवित्राम्
अश्वत्थमूलस्थमृदां तथा वा।
सम्पूज्य देवीं धरणीस्वरूपां
कृष्णोद्धृतां तां हरिवल्लभां च॥
जलेन वल्मीकमृदा हरस्य
लिङ्गस्य कुर्याद्ग्रथनं यथोक्तम्।
वज्रेण साकं शिरसि स्थितं वा
बिल्वस्य पीठेषु वितस्तिमात्रम्॥
ततः प्रतिष्ठां विनियोगपूर्वकं
न्यासादिकं ध्यानमनङ्गवैरिणः।
आहूय मन्त्रैः परिकल्प्य चासनं
पाद्यार्घ्यपञ्चामृतगन्धवारिभिः॥
पञ्चोपचारैर्विविधैर्यथाविधि।
बिल्वस्य पत्रैश् शमिपल्लवादिभिः।
पुष्पैश्च धूपैर्मधुपर्कपूर्वकं
निवेद्य नैवेद्यमजाय शम्भवे॥
रुद्राभिषेकं श्रुतिरुद्रमन्त्रैः
पुराणमन्त्रैरथवा विधाय।
स्ववेदशाखाविहितैश्शिवाय
अन्यैश्शिवायेति नमश्शिवाय॥
आरार्त्तिक्यं ततःकुर्यान्मन्त्रपुष्पाञ्जलिं तथा।
अर्चनं चाष्टमूर्त्तीनां गणेशस्य गुहस्य च॥
कीर्त्तिमुखस्य सर्पस्य भद्रस्य धनदस्य च।
मन्त्रपुष्पाञ्जलिं कृत्वा प्रदक्षिणां ततः परम्॥
विसर्जनं च देवानां पुनरागमनाय च।
समर्पणं च पूजायाः कुर्याद्देवाय शम्भवे॥
सम्पूज्य वल्मीककलेवरं जन
आर्षेण मन्त्रेण पुराणवन्दितम्।
अक्षय्यपुण्यं गिरिजापतेः कृपां
प्राप्नोति नित्यं स तदीयसन्निधिः॥