ब्राह्म्यादिमन्त्रपुरश्चरणपूर्वकयन्त्रस्तवकवचादिपुरश्चरणभेदनिरूपणम् ॥
अथ ब्रह्माण्यादिमन्त्रास्तत्पुरश्चरणविशेषाश्च निरूप्यन्ते ।
(मेरुतन्त्रे)
मुनय ऊचुः ।
देवदेव महादेव भक्तानुग्रहकारक ।
ब्राह्म्याद्यष्टौ भास्करस्य रथे तिष्ठन्ति शक्तयः ॥ १२-१ ॥
रणे मृतानां योगेन मृतानां सहगामिनाम् ।
स्वर्गं याश्च प्रयच्छन्ति तन्मनून् ब्रूहि शङ्कर ॥ १२-२ ॥
शिव उवाच
ब्रह्मशक्तिस्तु शक्तीनां नायिका परिकीर्तिता ।
योगिनां मुक्तिदत्री सा भोगिनां भोगदा मता ॥ १२-३ ॥
ब्रामित्येकाक्षरं बीजं मुनिर्वास्पतिर्मतः ।
गायत्री छन्द उद्दिष्टं बः शक्तिः कीलकं वचः ॥ १२-४ ॥
अथ ध्यानम्
ध्यायेद्ब्राह्मीं पलास्थां हंसारूढां चतुर्भुजाम् ।
अक्षमालावराभीतिकमण्डलुकरारुणाम् ॥ १२-५ ॥
बीजेनैव षडङ्गानि � � � � � � � �इति ।
अस्य पुरश्चरणं तत्रैव ।
लक्षमेकं जपेन्मन्त्रं पलाशसमिधैर्हुनेत् ।
तत्पुष्पयुक्तसलिलैस्तर्पयेन्मार्जयेत् कुशैः ॥ १२-६ ॥
अथ माहेश्वरीमन्त्रः ।
अथातः सम्प्रवक्ष्यामि सम्यङ्माहेश्वरीविधिम् ।
प्। ११३१) ॐ ह्री। नमो भगवति माहेश्वर्यै हि संवदेत् ॥ १२-७ ॥
परमे पदमुच्चार्येश्वर्यै स्वाहान्तको मनुः ।
तारादिरेकविंशार्णोऽश्वारुढा तत्परं मतम् ॥ १२-८ ॥
ध्यानम् ।
वृषारूढां भालचन्द्रां त्रिनेत्रां शशिसन्निभाम् ।
दधतीं शूलडमरुमहाहिवलयां भजे ॥ १२-९ ॥
अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं विल्वपत्रैर्घृतप्लुतैः ।
जुहुयात् तद्दशांशेन महदैश्वर्यवान् भवेत् ॥ १२-१० ॥
अथ कौमारीमन्त्रः ।
अथातः सम्प्रवक्ष्यामि कौमार्या विधिमुत्तमम् ।
क्रौ। कौमार्यै नम इति षडर्णो मन्त्र ईरितः ॥ १२-११ ॥
मुनिर्ब्रह्मा च गायत्री छन्दः कौमारिका भवेत् ।
देवता कौमिदं बीजं कौमार्यै शक्तिरुच्यते ॥ १२-१२ ॥
मन्त्रवर्णैः षडङ्गानि हृदि ध्यायेच्च देवताम् ।
ध्यानं यथा ।
शक्त्यक्षस्रग्वराभीतिकरां बन्धूकसन्निभाम् ॥ १२-१३ ॥
मयूरध्वजिनीं रक्तवस्त्रामौदुम्बरस्थिताम् ।
हरित्कञ्चुकिकां रम्यां नानालङ्कारभूषिताम् ॥ १२-१४ ॥
अथ पुरश्चरणम् ।
लक्षषट्कं जपः प्रोक्तः पञ्चखाद्यैस्तथा हुनेत् ।
मधुरत्रयसंयुक्तः सिद्धमन्त्रस्तदा भवेत् ॥ १२-१५ ॥
तर्पणं मार्जनं कृत्वा कुमारीणां च भोजनम् ।
अथ वैष्णवीमन्त्रः ।
अथातः सम्प्रवक्ष्यामि वैष्णवीमन्त्रमद्भुतम् ॥ १२-१६ ॥
प्। ११३२) अकचटतपयशा वैष्णव्या मन्त्र ईरितः ।
अष्टाक्षरो मनुश्चास्य नारदोऽनुष्टुवुच्यते ॥ १२-१७ ॥
छन्दस्तु वैष्णवी देवी न्यासः प्रणवपूर्वकः ।
मूलमन्त्राक्षरैः कुर्यात् त्रिभिस्त्रिभिरनुक्रमात् ॥ १२-१८ ॥
एकैकं च जपेत् पश्चादङ्गानि षडनुक्रमात् ।
अथ ध्यानम् ।
शोणपद्मप्रतीकाशां मुक्तमूर्धजलम्बिनीम् ॥ १२-१९ ॥
लसत्काञ्चनसम्भूतकुण्डलोज्ज्वलशालिनीम् ।
स्वर्णरत्नसमुन्नद्धकिरीटसूत्रधारिणीम् ॥ १२-२० ॥
कृष्णशुक्लारुणैर्नेत्रैस्त्रिभिश्चारुविभूषिताम् ।
बन्धूकदन्तवसनां शिरीषप्रभनासिकाम् ॥ १२-२१ ॥
कम्बुग्रीवां विशालाक्षीं सूर्यकोटिसमप्रभाम् ।
चतुर्भुजां सुवसनां पीनोन्नतपयोधराम् ॥ १२-२२ ॥
दक्षिणाभ्यां कराभ्यां तु खड्गं च जपमालिकाम् ।
बिभ्रतीं वामहस्तभ्यामभयं च वरं तथा ॥ १२-२३ ॥
अनल्पनागनासोरुं गुप्तगुल्फां सुपार्ष्णिकाम् ।
गात्रेण रत्नस्तम्भं च सम्यगालम्ब्य संस्थिताम् ॥ १२-२४ ॥
किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः ।
पञ्चाननं पुरः संस्थं निरीक्षन्तीं स्ववाहनम् ॥ १२-२५ ॥
ईदृशीं चण्डिकां ध्यायेदिति शेषः ।
अथ पुरश्चरणम् ।
लक्षद्वयं जपेदस्य पुरश्चरणकर्मसु ।
दशांशं होममाज्येन कर्त्तव्यं तर्पणादिकम् ॥ १२-२६ ॥
अथ मन्त्रान्तरं तत्रैव ।
ॐ नमोऽन्ते च वैष्णव्यै मन्त्रः प्रोक्तः षडक्षरः ।
प्। ११३३) मन्त्रार्णैरत्र चाङ्गानि शेषं पूर्ववदाचरेत् ॥ १२-२७ ॥
अथापराजितावैष्णवीमन्त्रस्तत्रैव ।
अथातः सम्प्रवक्ष्यामि वैष्णवीमपराजिताम् ।
तारमाकर्षिणिपदमावेशिनि ततो वदेत् ॥ १२-२८ ॥
ज्वालामालिनि रमणि रामणि धरणीति च ।
धरणि तपनीत्युक्त्वा तापिनि मनोन्मादिनि ॥ १२-२९ ॥
शोषिणीति पदं प्रोच्य ततः सम्मोहिनीति च ।
तथा नीलपताके च महानीले महाप्रिये ॥ १२-३० ॥
महाग्नेयि महाचण्डे महारौद्रि महेति च ।
वज्रिणीति तथाऽदित्यरश्मिजाह्नवि संवदेत् ॥ १२-३१ ॥
यमघण्टे किलिकिलिचिन्तामणिपदं वदेत् ।
सुरभिसुरोत्पन्ने च सरस्वतिपदं ततः ॥ १२-३२ ॥
सर्वकामदुघे प्रोच्य यथा मम मनीषितम् ।
कार्यं तन्मे सिध्यत्विति स्वाहान्तोऽयं मनुर्मतः ॥ १२-३३ ॥
षड्द्वादशार्णो मुन्यादिः प्राग्वत् सौख्यप्रदो मनुः ।
जपेद्वर्णशतं होमादिकं पूर्ववदाचरेत् ॥ १२-३४ ॥
अथ वाराहीमन्त्रः ।
अथ वार्त्तालिकां वक्ष्ये वाराहीं शत्रुघातिनीम् ।
ऐ। लौ। ठ। ठ। ठमिति हु। स्वाहान्तोऽष्टाक्षरो मनुः ॥ १२-३५ ॥
छन्दोऽनुष्टुप् च कपिलो मुनिर्वार्त्तालिका सुरी ।
वाराह्यत्र षडङ्गानि क्रमाद्द्विभ्विन्दुभूभूभिः ॥ १२-३६ ॥
द्वाभ्यां ध्यायेत् ततो देवीं विद्युद्भासां कराम्बुजैः ।
दधानामङ्कुशं पाशं मुद्गरं शक्तिमेव च ॥ १२-३७ ॥
विद्युद्भासां त्रिनेत्रां च नाशयन्तीं तथा रिपून् ।
प्। ११३४) अथ पुरश्चरणम् ।
वसुलक्षं जपित्वाऽन्ते विल्वपत्रैर्हयारिजैः ॥ १२-३८ ॥
धात्रीफलैर्भृङ्गराजैः कुशैश्चापि दशांशतः ।
होमः कार्यस्तर्पणादि कुर्याद्ब्राह्मणभोजनम् ॥ १२-३९ ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान् कर्त्तुमर्हति ।
अथ श्यामलामन्त्रः ।
अथातः सम्प्रवक्ष्यामि मालामन्त्रं सुसिद्धिदम् ॥ १२-४० ॥
ॐ ऐ। ग्लौ। ऐ। नमः प्रोच्य ततो भगवतीति च ।
वार्तालिवाराहियुगं वाराहमुखिवाभवम् ॥ १२-४१ ॥
ग्लौ। अन्धे अन्धिनीति नमो रुन्धे च रुन्धिनि ।
नमो भञ्जे भञ्जिनीति नमो मोहेति मोहिनि ॥ १२-४२ ॥
नमस्तम्भे स्तम्भिनीति नम ऐ। ग्लौ। च वाग्भवम् ।
सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाग्वदेत् ॥ १२-४३ ॥
चित्तचक्षुर्मुखगतिजिह्वास्तम्भं कुरुद्वयम् ।
शीघ्रं वश्यं कुरु कुरु ऐ। ग्लौ। ऐ। ठचतुष्टयम् ॥ १२-४४ ॥
हू। फट् स्वाहेति मन्त्रोऽयं वेदरुद्राक्षरः स्मृतः ।
मुनिः शिवोऽस्य जगती छन्दो वार्तालिका सुरी ॥ १२-४५ ॥
वाराह्यस्य षडङ्गानि वार्त्ताली हृदयं स्मृतम् ।
वाराह्यस्य शिरः प्रोक्तं शिखा वाराहमुख्यपि ॥ १२-४६ ॥
अन्धे अन्धिनि वर्मोक्तं रुन्धे रुन्धिनि नेत्रकम् ।
भञ्जे भञ्जिनि चास्त्रं स्यात् ततो ध्यायेच्च चण्डिकाम् ॥ १२-४७ ॥
अथ ध्यानम् ।
रक्ताब्जकर्णिकायां तु शवासनसमास्थिताम् ।
मुण्डमालालसत्कण्ठां नीलाभां दधतीं करैः ॥ १२-४८ ॥
प्। ११३५) अभयं मुशलं चापि हलं चापि वरं तथा ।
वाराहास्यां तुङ्गकुचां त्रिनेत्रामरुणाम्बराम् ॥ १२-४९ ॥
अथ पुरश्चरणम् ।
जपेन्मन्त्रं सहस्राणि बन्धूककुसुमैस्तिलैः ।
जुहुयात् —————————————– इति ॥
अथ स्वप्नवाराहीमन्त्रः ।
अथातः सम्प्रवक्ष्यामि वाराहीं स्वप्नसञ्ज्ञिकाम् ॥ १२-५० ॥
ॐ ह्री। नमश्च वाराहीघोरे स्वप्नं विसर्गयुक् ।
ठद्वयं वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः ॥ १२-५१ ॥
ईश्वरोऽस्य मुनिः प्रोक्तो जगती छन्द ईरितम् ।
देवता स्वप्नवाराही बीजं तारः प्रकीर्त्तितः ॥ १२-५२ ॥
हृल्लेखा शक्तिरुद्दिष्टा ठद्वयं कीलकं मतम् ।
अथ ध्यानम् ।
ततो ध्यायेद्घनश्यामां त्रिनेत्रामुन्नतस्तनीम् ॥ १२-५३ ॥
कोलास्यां चन्द्रभालां च दंष्ट्रोद्धृतवसुन्धराम् ।
खड्गाङ्कुशौ दक्षिणयोर्वामयोश्चर्मपाशकौ ॥ १२-५४ ॥
अश्वारूढां च कोलास्यां नानालङ्कारभूषिताम् ।
अथ पुरश्चरणम् ।
लक्षं जपेद्दशांशेन नीलपद्मैस्तिलैर्हुनेत् ॥ १२-५५ ॥
अथेन्द्राणीमन्त्रः ।
अथातः सम्प्रवक्ष्यामि इन्द्राणीं नष्टराज्यदाम् ।
इन्द्राणीं नम इति मन्त्रः प्रोक्तः षडक्षरः ॥ १२-५६ ॥
गुरुर्मुनिश्च गायत्री छन्दो देवीन्द्रवल्लभा ।
इ। बीजं शक्तिरिन्द्रणीं नमः कीलकमुच्यते ॥ १२-५७ ॥
अथ ध्यानम् ।
वज्रपाशवराभीतिहस्ता श्यामाम्बरावृता ।
प्। ११३६) चतुर्दन्तगजाकल्पच्छायासंस्था हिरण्यभा ॥ १२-५८ ॥
अथ पुरश्चरणम् ।
लक्षषट्कं जपेन्मन्त्रं मालतीकुसुमैर्हुनेत् ।
त्रिमध्वक्तैस्तावदेव राज्यार्थं राजवृक्षकैः ॥ १२-५९ ॥
अथ चामुण्डामन्त्रस्तन्त्रान्तरे ।
मायाबीजं समुच्चार्य चामुण्डा ङेयुता पुनः ।
नमोऽन्तो नगवर्णोऽयं मन्त्रः सर्वार्थसाधकः ॥ १२-६० ॥
शिवो मुनिश्च गायत्री छन्दोऽमुष्य च देवता ।
चामुण्डा मन्त्रवर्णैश्च द्विरावृत्त्या षडङ्गकम् ॥ १२-६१ ॥
अथ ध्यानम् ।
नीलोत्पलदलश्यामचतुर्बाहुसमन्विता ।
खट्वाङ्गं चन्द्रहासं च बिभ्रती दक्षिणे करे ॥ १२-६२ ॥
वामे चर्म व पाशं च ऊर्ध्वतो भावतः पुनः ।
दधती मुण्डमालां च व्याघ्रचर्माम्बराधरा ॥ १२-६३ ॥
कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घाऽतिभीषणा ।
लोलजिह्वा निम्नरक्तनयनाकारभीषणा ॥ १२-६४ ॥
कबन्धवाहनासीना विस्तारिश्रवणानना ।
अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं दशांशं मधुरप्लुतैः ॥ १२-६५ ॥
पायसैर्जुहुयान्मन्त्री ततः सिद्धो भवेन्मनुः ।
अथ महालक्ष्मीमन्त्रस्तत्रैव ।
मायाबीजं समुद्धृत्य स्वबीजं च समुद्धरेत् ॥ १२-६६ ॥
ततो ङेन्ता महालक्ष्मीर्नमोऽन्तोऽष्टाक्षरो मनुः ।
मुनिरस्य शिवः प्रोक्तो गायत्री छन्द ईरितम् ॥ १२-६७ ॥
देवता तु महालक्ष्मीर्मन्त्रवर्णैः षडङ्गकम् ।
प्। ११३७) अथ ध्यानम् ।
सुवर्णवर्णदीप्ताङ्गी त्रिनेत्रा सिंहवाहिनी ॥ १२-६८ ॥
ईषत्प्रहसिता देवी नीलोत्पलदलेक्षणा ।
भुजषोडशसम्पन्ना सर्वालङ्कारभूषिता ॥ १२-६९ ॥
खड्गं घण्टां शरं सूत्रमङ्कुशं शूलपद्मकम् ।
दधाना दक्षिणैर्हस्तैरनाथेभ्यो वरप्रदा ॥ १२-७० ॥
तथा वामैर्हस्तपद्मैः खेटकं डिण्डिमं धनुः ।
कमण्डलुं नागपाशं कपालं पुस्तकाभयम् ॥ १२-७१ ॥
जाज्वल्यमाना तेजोभिरतीवाह्लादकारिणी ।
अथ पुरश्चरणम् ।
लक्षमेकं जपेन्मन्त्रं दशांशं मधुरप्लुतैः ॥ १२-७२ ॥
विदध्यात् पायसैर्होममेवं सिद्धो भवेन्मनुः ।
इत्यष्टमातृकाप्रकरणम् ।
अथ गोरक्षनाथमन्त्रः ।
(कल्पद्रुमतन्त्रे)
गर्ग उवाच ।
अथ मन्त्रं प्रवक्ष्यामि शृणु त्वं यदुनन्दन ॥ १२-७३ ॥
जपन्ति साधका वीरास्तन्मन्त्रान् श्रद्धयाऽन्विताः ।
शीघ्रं भवति सिद्धिर्वै साधकानां शिवाज्ञया ॥ १२-७४ ॥
तथा ।
गोरक्षस्य मनुं जप्त्वा योगीन्द्रो भविता नरः ।
विना गोरक्षमन्त्रेण योगसिद्धिर्न जायते ॥ १२-७५ ॥
गोरक्षस्य प्रसादेन सर्वकार्याणि साधयेत् ।
मन्त्रा यथा ।
ॐ ह्री। श्री। हु। फट् स्वाहा ।
प्। ११३८) ॐ ह्री। श्री। गो। गोरक्ष हु। फट् स्वाहा ।
ॐ ह्री। श्री। गो। गोरक्ष हु। हु। निरञ्जनात्मने हू। फट् स्वाहा ।
ॐ श्री। गो। ह्री। ह। हा। गोरक्षनाथाय निरञ्जनात्मने ह। स। फट् हसः ।
इति चत्वारो मन्त्राः ।
अथ गायत्री ।
ॐ ह्री। श्री। गो। गोबीजाय विद्महे गोरक्षाय धीमहि तन्नो निरञ्जनः प्रचोदयात् ।
अथ ऋष्यादिनासः ।
गोरक्षनाथमन्त्रस्य बृहदारण्यको मुनिः ॥ १२-७६ ॥
छन्दोऽनुष्टुब्देवता च नाथो गोरक्षसञ्ज्ञकः ।
कराङ्गन्यासस्तु ।
ॐ ह्री। श्री। गो। गोरक्षनाथाय अङ्गष्ठाभ्यां नमः- इत्यादि ।
अथ ध्यानम् ।
शुद्धस्फटिकसङ्काशो जटाजूटी त्रिलोचनः ॥ १२-७७ ॥
निरञ्जनो निराकारो निर्विकल्पो निरामयः ।
अथ पुरश्चरणम् ।
लक्षं शताधिकं जप्त्वा साधकः शुद्धमानसः ॥ १२-७८ ॥
साधयेत् सर्वकार्याणि नात्र कार्या विचारणा ।
धारयेद्यो नरो नित्यं मन्त्रमेनं विशेषतः ॥ १२-७९ ॥
स योगसिद्धिमाप्नोति गोरक्षस्य प्रसादतः ।
अथ शीतलामन्त्रो (मेरुतन्त्रे)
अथ वक्ष्ये महेशस्य वस्त्रप्रक्षालिका तु या ॥ १२-८० ॥
शीतलेति च विख्याता मसूर्या चिपिटेश्वरी ।
प्। ११३९) तारो माया रमा शीतलायै हृच्च नवाक्षरः ॥ १२-८१ ॥
(यामले तु) ।
माया श्रीशीतला ङेन्ता हृदन्तोऽष्टाक्षरो मनुः - इत्युक्तम् ।
(मेरौ)
उपमन्युर्मुनिश्छन्दो बृहती शीतला सुरी ।
षड्दीर्घयुक्त्रपालक्ष्मीबीजाभ्यां स्यात् षडङ्गकम् ॥ १२-८२ ॥
अथ ध्यानं (यामलादौ)
नमामि शीतलां देवीं रासभस्थां दिगम्बराम् ।
मार्जनीकलशोपतां सूर्पालङ्कृतमस्तकाम् ॥ १२-८३ ॥
(मेरौ)
ध्यायेच्च शीतलां देवीं रासभस्थां दिगम्बराम् ।
मार्जनीसूर्पहस्तां च रक्तपुष्पहिमार्चिताम् ॥ १२-८४ ॥
तैलादिमलसंयुक्तवस्त्रपोटलिशीर्षकाम् ।
त्रिकोणान्तर्यजेद्देवीं कोद्रवां च मसूरिकाम् ॥ १२-८५ ॥
शराविकां च कोणेषु भूपुरे त्वष्टभैरवान् ।
अथ पुरश्चरणम् ।
अयुतं प्रजपेन्मन्त्रं पायसेन दशांशतः ॥ १२-८६ ॥
हुत्वा कृत्वा तर्पणादि मन्त्रसिद्धिः प्रजायते ।
नाभिमात्रे जले स्थित्वा यः सहस्रं जपेन्मनुम् ॥ १२-८७ ॥
तेन सम्मार्जितास्तीव्राः स्फोटा नश्यन्ति तत्क्षणात् ।
साधितो येन मन्त्रोऽयं तस्य वंशे न शीतला ॥ १२-८८ ॥
तेनाभिमन्त्रितं भस्म यद्गेहे तत्र सा न हि ।
एतत्पुरुषस्यापि मन्त्रस्तत्रैवोक्तः ।
अथातः सम्प्रवक्ष्यामि भर्त्तुरस्याः परं मनुम् ॥ १२-८९ ॥
प्। ११४०) तारः प्रासादबीजं य। व। व्योमव्यापिने द्विठः ।
एकादशार्णमन्त्रोऽयं न्यासध्यानार्चनादिकम् ॥ १२-९० ॥
प्रासादमन्त्रवज्ज्ञेयमर्धलक्षं पुरस्कृतिः ।
दशांशं जुहुयादाज्यैस्तर्पणादि ततश्चरेत् ॥ १२-९१ ॥
इति शीतलाप्रकरणम् ।
अथोक्तदेवतानां पूजायन्त्राणि प्रदर्श्यन्ते ।
तत्रादौ विघ्नराजयन्त्रं (मेरुतन्त्रे)
श्रीपर्ण्यादिकृते पीठे रचयेत् कुङ्कुमादिना ।
चतुर्द्वारयुतं कुर्याच्चतुरस्रत्रयं शुभम् ॥ १२-९२ ॥
तन्मध्येऽष्टदलं कार्यं पूजापीठं गणेशितुः ।
अथ लक्ष्मीगणेशयन्त्रं तत्रैव ।
अष्टपत्राम्बुजद्वन्द्वं कर्णिकाकेशरोज्ज्वलम् ॥ १२-९३ ॥
चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् ।
शक्तिगणेशक्षिप्रसादहरेम्बहरिद्रा गणेशयन्त्रं विघ्नराजयन्त्रवत् ।
अथ महागणपतियन्त्रं तत्रैव ।
धर्मादिकॢप्ते पूर्वोक्ते तीव्रादिनवशक्तिके ॥ १२-९४ ॥
पूजायन्त्रं गणेशस्य मातृकापद्म उच्यते ।
चतुर्द्वारसमायुक्तं चतुरस्रत्रायवृतम् ॥ १२-९५ ॥
तत्कर्णिकायां षट्कोणं तदन्तश्च त्रिकोणकम् ।
विरञ्चिगणनायकयन्त्रं विघ्नराजयन्त्रवत् । वक्रतुण्डयन्त्रं लक्ष्मीगणेशयन्त्रवत् । एवमग्रिमयोरपि विघ्नराजसमानम् ।
अथ सूर्ययन्त्रं (सौरपद्धतौ)
लिखेदष्टदलं पद्मं तद्बाह्येऽष्टदलं लिखेत् ॥ १२-९६ ॥
चतुरस्रं ततो बाह्ये सूर्ययन्त्रमिदं स्मृतम् ।
प्। ११४१) (महाक्रमार्चनपद्धतौ तु)
मध्येऽष्टदलपद्मं च अष्टशृङ्गं ततः परम् ॥ १२-९७ ॥
द्वादशारं च कमलं वेदास्रद्वारमेव हि- इत्युक्तम् ।
क्वचित् तु चतुरस्रावृतमष्टदलमात्रमुक्तम् ।
अन्यत्र तु द्वादशदलपद्ममुक्तम् ।
अथ विष्णुयन्त्रं तत्रैव ।
अष्टपत्रं लिखेत् पद्मं कर्णिकाकेशरोज्ज्वलम् ।
चतुरस्रावृतं बाह्ये पूजापीठं मधुद्विषः ॥ १२-९८ ॥
अथ मत्स्ययन्त्रम् ।
षट्पत्रं विलिखेत् पद्मं तद्बाह्ये च चतुर्दलम् ।
सप्तपत्रं तु तद्बाह्ये तद्बाह्येऽष्टदलं लिखेत् ॥ १२-९९ ॥
ततश्चतुर्दशदलं तद्बहिः षोडशच्छदम् ।
वसुच्छदं तु तद्बाह्ये चतुरस्रं ततो बहिः ॥ १२-१०० ॥
कूर्मयन्त्रं तु भूपुरावृतमष्टदलपद्ममेव ।
अथ वराहयन्त्रं (प्रपञ्चसारे)
अष्टपत्रमथ पद्ममुल्लसत्कर्णिकं विधिवदारचय्य च ।
मण्डलं रविसहस्रसन्निभं शूकरं यजत तत्र सिद्धये ॥ १२-१०१ ॥
अथ नृसिंहयन्त्रम् (विष्वक्सेनसंहितायाम्)
अष्टपत्रं लिखेत् पद्मं कर्णिकाकेशरान्वितम् ।
तद्बाह्येऽष्टदलं लेख्यं तद्बाह्येऽपि वसुच्छदम् ॥ १२-१०२ ॥
चतुरस्रं ततो बाह्ये यन्त्रं श्रीनारसिंहकम् ।
अन्यत्र तु पूर्वोक्तविष्णुयन्त्रमेव श्रीनृसिंहयन्त्रमुक्तम् ।
अथ वामनयन्त्रम् ।
षड्दलं पद्ममालिख्य तद्बाह्ये षोडशच्छदम् ॥ १२-१०३ ॥
तद्बहिर्वसुपत्रं च तद्बाह्ये द्वादशच्छदम् ।
अष्टपत्रं ततो बाह्ये तद्बहिर्भूपुरत्रयम् ॥ १२-१०४ ॥
प्। ११४२) अथ परशुरामयन्त्रम् ।
आदौ चतुर्दलं पद्मं तद्बाह्येऽष्टदलं लिखेत् ।
अष्टपत्रं ततो बाह्ये तद्बहिर्दशपत्रकम् ॥ १२-१०५ ॥
तद्बहिर्द्वादशारं च षोडशारं च तद्बहिः ।
तद्बहिर्भूपुरद्वन्द्वं चतुर्द्वारोपशोभितम् ॥ १२-१०६ ॥
अथ रघुनाथयन्त्रम् ।
अष्टपत्रं लिखेत् पद्मं षट्कोणोज्ज्वलकर्णिकम् ।
पुनरष्टदलं बाह्ये लिखेद्वृत्तत्रयाद्बहिः ॥ १२-१०७ ॥
तद्बहिर्द्वादशदलं तद्बाह्ये षोडशच्छदम् ।
दन्तपत्रं च तद्बाह्ये भूपुरत्रितयावृतम् ॥ १२-१०८ ॥
अत्र केचित् ।
देहात्मनोर्यथा भेदो मन्त्रदैवतयोस्तथा ।
तस्मात् पीठे महामन्त्रं लिखित्वा तत्र पूजयेत्- इति ॥
वशिष्ठवचनादस्मिन् सपर्यायन्त्रेऽपि साधारणयन्त्रोक्तमन्त्रवर्णान् यथास्थानं लिखित्वा श्रीरामः पूज्य इति वदन्ति ।
धारणयत्रे मन्त्रलिखिनप्रकारस्तु (रामतापिन्या-) मुक्तः ।
यथा ।
त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ १२-१०९ ॥
तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।
द्वितीयान्तं च तस्योर्ध्वे षष्ठ्यन्तं साधकं तथा ॥ १२-११० ॥
कुरुद्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् ।
तत्सर्वं प्रणवाभ्यां च वेष्टयेद्बुद्धिः- ऋद्धिमान् ॥ १२-१११ ॥
दीर्घभाजि षडस्रेषु लिखेद्बीजं हृदादिभिः ।
कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ १२-११२ ॥
क्रोधं कोणाग्रान्तरेषु लिखेन्मन्त्र्यभितो गिरम् ।
प्। ११४३) वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत् स्वरान् ॥ १२-११३ ॥
केशरे चाष्टपत्रे च वगस्तिकमथो लिखेत् ।
तेषु मालामनोर्वर्णान् विलिखेर्दूर्मि-(४५)सङ्ख्यया ॥ १२-११४ ॥
अन्ते पञ्चाक्षरानेवं पुनरष्टदलं लिखेत् ।
तेषु नारायणाष्टार्णं लिखेत् तत्केशरे रमाम् ॥ १२-११५ ॥
तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् ।
तथोन्नमो भगवते वासुदेवायेत्यव्ययम् ॥ १२-११६ ॥
आदिक्षान्तान् केशरेषु वृत्ताकारेण संलिखेत् ।
तद्बहिः षोडशदलं लिखेत् तत्केशरे ह्रियम् ॥ १२-११७ ॥
वर्मास्त्ररतिसंयुक्तं दलेषु द्वादशाक्षरम् ।
तत्सन्धिश्रीरजादीनां मन्त्रान् मन्त्री समालिखेत् ॥ १२-११८ ॥
हृ। सृ। भृ। वृ। ऌ। षृ। जृ। च लिखेत् सम्यगतो बहिः ।
द्वादशारे महापद्मं नादविन्दुसमायुतम् ॥ १२-११९ ॥
विलिखेन्मन्त्रराजार्णं तेषु पत्रेषु यत्नतः ।
ध्यायेदष्ट वसूनेकादश रुद्रा।स्तथैव च ॥ १२-१२० ॥
द्वादशेना।श्च धातारं वषट्कारं ततो बहिः ।
भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ १२-१२१ ॥
द्वारोपेतं च राश्यादिभूषितं फणिसंयुतम् ।
एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ १२-१२२ ॥
नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा ।
कूटरेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ १२-१२३ ॥
यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि ।
प्। ११४४) अन्त्यार्घीशवियद्विन्दुनादैर्बीजं च शौकरम् ॥ १२-१२४ ॥
हू।कारं चात्र रामस्य मालामन्त्रोऽधुनेरितः ।
तारो नतिश्च निद्रायाः स्मृतिर्वेदश्च कामिका ॥ १२-१२५ ॥
रुद्रेण सहिता वह्निमेधामरविभूषिताः ।
दीर्घा क्रूरयुताह्लादिन्यथो दीर्घा समानदा ॥ १२-१२६ ॥
क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया ।
युक्ता दीर्घा ज्वालिनी च ससूक्ष्मा मृत्युरूपिणी ॥ १२-१२७ ॥
सप्रतिष्ठाऽह्लादिनी त्वक् क्ष्वेडं प्रीतिश्च सामरा ।
ज्योतिस्तीक्ष्णाऽग्निसंयुक्ता श्वेताऽनुस्वारसंयुता ॥ १२-१२८ ॥
कामिका पञ्चमोलान्ता स्तान्तान्तो धान्त इत्यथ ।
ससानन्तो दीर्घयुक्तो वायुः सूक्ष्मयुतो विषा ॥ १२-१२९ ॥
कामिका कामिका रुद्रयुक्ताऽथोपिस्थिराससे ।
तापिनी दीर्घयुक्ता भूरनीलोऽनन्तगोऽनलः ॥ १२-१३० ॥
नारायणात्मकः कालः प्राणोऽम्भो विद्यया युतम् ।
पीता रतिस्तथा लान्तो युक्तो योन्या तथा नतिः ॥ १२-१३१ ॥
सप्तचत्वारिंशदर्णो गुणान्तस्त्वगुणः स्वयम् ।
अयं राज्याभिषिक्तस्य रामस्योक्तक्रमाल्लिखेत् ॥ १२-१३२ ॥
इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् ।
सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ १२-१३३ ॥
अपुत्राणां पुत्रदं च बहुना किमनेन वै ।
प्राप्नुवन्ति क्षणात् सम्यगत्र धर्मादिकानपि ॥ १२-१३४ ॥
इदं रहस्यं परममीश्वरेणापि दुर्गमम् ।
इदं यन्त्रं समाख्यातं न देयं प्रकृते जने ॥ १२-१३५ ॥
प्। ११४५) श्रीकृष्णबलरामयोर्यन्त्रं तु पूर्वाक्तविष्णुयन्त्रमेव ।
बुद्धयन्त्रं तु भूपुरावृतद्वात्रिंशद्दलं पद्मम् ।
एवं ध्यात्वा यजेत् पद्मे द्वात्रिंशत्पत्रसम्मिते ।
इति (मेरुतन्त्र-) वचनात् ।
विष्णुयन्त्रमेव कल्कियन्त्रम् ।
हयग्रीवादियन्त्रमपि विष्णुयन्त्रमेव ।
गोपालसुन्दरीयन्त्रं श्रीचक्रं तच्चाग्रे वक्ष्यते ।
अथ शिवयन्त्रं (प्रपञ्चसारे)
अष्टपत्रगुणवृत्तराशिभिर्वीथिकल्पतरुभिः समावृतम् ॥ १२-१३६ ॥
मण्डलं प्रतिविधाय शूलिनः पीठमन्त्रनवशक्तिभिर्यजेत् ।
क्वचित् तु भूपुरत्रयावृताष्टदलपद्मत्रयात्मकं शैवयन्त्रमुक्तम् ।
कर्णिकाकेशरभ्राजद्वसुपत्रत्रयं लिखेत् ॥ १२-१३७ ॥
चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् - इति ॥
(सिद्धान्तसङ्ग्रहे)
भूपुरत्रयमध्ये तु लिखेदष्टदलत्रयम् ।
केशरानाद्यपत्रेषु मध्ये विन्दुं प्रकल्पयेत् ॥ १२-१३८ ॥
अथ दक्षिणामूर्तियन्त्रं (मेरुतन्त्रे)
पद्मत्रयसमोपेते भूगृहत्रितयान्विते ।
चतुर्द्वारयुते—————————-इति ॥
अथ पाशुपतास्त्रमन्त्रयन्त्रं तत्रैव ।
पद्ममष्टदलं कृत्वा कर्णिकाकेशरान्वितम् ॥ १२-१३९ ॥
चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् ।
अथ वटुकयन्त्रं तत्रैव ।
शैवे पीठे यजेद्देवमन्तर्व्योमाष्टपत्रकम् ॥ १२-१४० ॥
ऊर्ध्वत्रिकोणषट्कोणमष्टपत्रं गृहावृतम् ।
प्। ११४६) अथ क्षेत्रपालयन्त्रं तत्रैव ।
शैवे पीठे यजेदष्टपत्रे दिक्स्वरभूषिते ॥ १२-१४१ ॥
अथ भवानीयन्त्रं तन्त्रान्तरे ।
आदौ त्रिकोणमालिख्य तद्बाह्येऽष्टदलाम्बुजम् ।
भूपुरं चापि तद्बाह्ये भवानीमन्त्र पूजयेत् ॥ १२-१४२ ॥
एतदेव त्रिकोण शून्यं यन्त्रान्तरम् ।
गरुडयन्त्रं तु वक्ष्यमाणमातृकायन्त्रमेव ।
पूजयेन्मातृकापद्मे गरुडं वेदविग्रहम् - इति (मेरुतन्त्र-) वचनात् ।
कार्त्तवीर्ययन्त्रं तु पूर्वोक्तविष्णुयन्त्रमेव ।
काम्यपूजायां तु विशेष उक्तो (मेरुतन्त्रे)
अथातो दक्षिणे मार्गे वक्ष्यते काम्यपूजनम् ।
शुद्धभूमावष्टगन्धैर्लिखेद्यन्त्रं तदुच्यते ॥ १२-१४३ ॥
लिखेद्दशदलं पद्मे कर्णिकायां समालिखेत् ।
प्लौ। क्लीमोमैश्च पत्रेषु प्रणवाद्यानि संलिखेत् ॥ १२-१४४ ॥
मन्त्रस्य नवबीजानि ततो यन्त्रान्तरेषु च ।
फडादिदशवर्णा।श्च मन्त्रस्यैव समालिखेत् ॥ १२-१४५ ॥
शषसहान् स्वरा।श्चापि केशरेषु द्विशो लिखेत् ।
वेष्टयेत् कादिभिर्वर्णैः शषसहविवर्जितैः ॥ १२-१४६ ॥
तद्बाह्ये चतुरस्रं तु वेष्टयेद्भूतवर्णिकैः ।
कामनाभेदतस्तानि वाय्वग्निक्ष्मा जलं नभः ॥ १२-१४७ ॥
पञ्च ह्रस्वाः पञ्च दीर्घा एकाराद्याश्च पञ्च च ।
पञ्चवर्णा पञ्च याद्याः षक्षराश्च सहौ क्रमात् ॥ १२-१४८ ॥
स्तम्भने पार्थिवैराप्यैः शान्तौ वश्ये च तैजसैः ।
उच्चाटने वायवीयैर्विद्वेर्षे चापि नाभसैः ॥ १२-१४९ ॥
प्। ११४७) मारणे तैजसैः शान्तौ चाप्यैः पुष्टौ च पार्थिवैः ।
अस्मिन् यन्त्रे तोयपूर्णघटे भूपं प्रपूजयेत् ॥ १२-१५० ॥
कुम्भं स्पृष्ट्वा जपेन्मन्त्रं सहस्रं तेन सेचयेत् ।
सम्यक् साध्यं तदा स स्यात् पुत्रवान् रोगवर्जितः ॥ १२-१५१ ॥
यशस्वी दीर्घजीवी च सत्कलत्रोऽनुरञ्जकः ।
वाक्सिद्धश्चापि तेजस्वी प्रतापी विजितेन्द्रियः ॥ १२-१५३ ॥
शत्रूपद्रवमापन्नो ग्रामे वा मण्डपे पुरे ।
संस्थापयेदिदं यन्त्रमरिभीतिनिवृत्तये ॥ १२-१५४ ॥
अथ वक्ष्ये वामगानां यन्त्रभेदं शृणुष्व तत् ।
लिखेदष्टदलं पद्मं ससाध्यं फ्रो। च मध्यतः ॥ १२-१५५ ॥
यौ। यैमाद्यन्तयोस्तस्य लिखेत् पत्रेषु च क्रमात् ।
मन्त्रबीजाष्टकं चान्ते दले लेख्यं पुनश्च फट् ॥ १२-१५६ ॥
पत्रान्तरे शेषवर्णानन्ते वर्णद्वयं लिखेत् ।
द्विशः स्वरान् केशरेषु द्विधोष्मार्णसमन्वितान् ॥ १२-१५७ ॥
वृत्तद्वयं च तद्बाह्ये तयोर्वीथ्यां च कादिकान् ।
उष्मोना।श्चतुरस्रं तु वज्राष्टकसमन्वितम् ॥ १२-१५८ ॥
तद्बाह्ये विलिखेत् तत्र पूर्ववद्भूतवर्णिकान् ।
स्नानार्थं घटमानीयमन्यत् पूर्ववदीरितम् ॥ १२-१५९ ॥
अथ हनुमद्यन्त्रं तन्त्रान्तरे ।
अष्टपत्रं लिखेत् पद्मं कर्णिकाकेशरोज्ज्वलम् ।
भूपुरं च ततो बाह्ये लिखित्वा तत्र पूजयेत् ॥ १२-१६० ॥
अथ स्मरयन्त्रं तत्रैव ।
यन्त्रं लिखेत् ततो विद्वान् वसुपत्राम्बुजं शुभम् ।
तद्बहिः षोडशदलं चतुरस्रेण संयुतम् ॥ १२-१६१ ॥
प्। ११४८) अथ मातृकायन्त्रं (शारदायाम्)
व्योमेन्दौ रसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्कशरं
यन्त्रान्तर्गतपञ्चवर्गयशलार्णादित्रिवर्गं क्रमात् ।
आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षोणीपुरेणावृतं
पद्मं कल्पितमत्र पूजयत तां वर्णात्मिकां देवताम् ॥ १२-१६२ ॥
व्योम हकरः । इन्दुः सकारः । औ इति स्वरूपम् । रसनार्णो विसर्गः । तेन ह्सौरिति । आशास्वित्यादि । आशासु दिक्षु । अस्रिषु कोणेषु । लान्तो वकारः । लाङ्गली ठकारः । तथा चतुर्दिक्षु वकारयुक्तेषु कोणेषु ठकार युक्तेनेत्यर्थः । शेषं स्पष्टम् ।
भूतलिपियन्त्रं तु अष्टदलोपरि षोडशदलं तदुपरि चतुर्द्वारयुक्तं चतुरस्रमिति (शारदा-)टीकायामुक्तम् ।
अथ श्यामासपर्यायन्त्रं (कालीतन्त्रे)
आदौ त्रिकोणं विन्यस्य त्रिकोणं च बहिर्न्यसेत् ।
ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् ॥ १२-१६३ ॥
ततो वृत्तं समालिख्य लिखेदष्टदलं ततः ।
वृत्तं विलिख्य विधिवल्लिखेद्भूपुरमेककम् ॥ १२-१६४ ॥
यन्त्रान्तरमुक्तं (कुमारीकल्पे)
आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्बहिर्न्यसेत् ।
बहिस्त्रिकोणमालिख्य षट्कोणं च बहिर्न्यसेत् ॥ १२-१६५ ॥
मध्ये तु वैन्दवं चक्रं बीजेनापि विभूषितम् ।
षट्कोणात् तु बहिः पद्मं भूपुरैकेण संयुतम् ॥ १२-१६६ ॥
ज्ञात्वैवं मुक्तिमाप्नोति यन्त्रमेतन्न संशयः ।
पद्ममष्टदलम् । भूपुरं च चतुर्द्वारयुक्तम् ।
तदुक्तं (भैरवतन्त्रे)
शक्त्यग्निभ्यां च षट्कोणं तत्र शक्तित्रयं लिखेत् ।
पद्ममष्टदलं भूमिपूश्चतुर्द्वारसंयुतम् ॥ १२-१६७ ॥
प्। ११४९) शक्त्यग्निभ्यामिति । शक्तिरधोमुखत्रिकोणम् । अग्निरूर्ध्वमुखं त्रिकोम् । ताभ्यां षट्कोणे सिद्धे तन्मध्ये वाऽधोमुखत्रिकोणत्रयं लिखेदित्यर्थः ।
तथा ।
स्वर्णादिरचिते पात्रे रक्तचन्दनचर्चिते ।
स्वयम्भुकुसुमाक्ते वा रक्ताक्ते चान्यथा शुचि ॥ १२-१६८ ॥
रक्तचन्दनलेखन्याऽथ वा स्वर्णशलाकया ।
रक्तचन्दनचर्चिते पशुना स्वयम्भुकुसुमाद्यक्ते वीरेण यन्त्रं लेखनीयमित्यर्थः ।
(कुमारीकल्पे)
एतत् तु विलिखेत् ताम्रे कुण्डगोलविलेपिते ॥ १२-१६९ ॥
स्वयम्भुकुसुमैर्युक्ते कुङ्कुमारुणसेविते ।
(स्वतन्त्रतन्त्रे)
स्वयम्भुकुसुमं कुण्डगोलोत्थं रोचनाऽगुरुः ॥ १२-१७० ॥
काश्मीरमृगनाभी च मद्यं मलयजोद्भवम् ।
एष गन्धः समाख्यातः सर्वदा चण्डिकाप्रियः ॥ १२-१७१ ॥
एतेन गन्धयोगेन योनिचक्रक्रमं लिखेत् ।
(मुण्डमालायाम्)
ताम्रपात्रे कपाले वा श्मशाने काष्ठनिर्मिते ॥ १२-१७२ ॥
शनिभौमदिने वाऽपि वीरमृतकसम्भवे ।
स्वर्णे रौप्ये तथा लौहे चक्रमर्च्यं विधानतः ॥ १२-१७३ ॥
अत्रापि कपालादिविधेवीरेपरत्वं वेदितव्यम् ।
अथ गुह्यकालीयन्त्रं (महाकालसंहितायाम्)
सविन्दुत्र्यारपञ्चारविभिन्ननवकोणयुक् ।
वृत्तयोरन्तरेऽष्टारयुतं तदनु भाविनि ॥ १२-१७४ ॥
वस्वर्कभूपच्छदनाम्भोजवृत्तान्वितं ततः ।
अष्टाशनिसमायुक्तमन्तर्बहिरथापि च ॥ १२-१७५ ॥
अष्टशूलाष्टमुण्डाढ्यं वह्निज्वालायुतेन हि ।
प्। ११५०) श्मशानेनावृतं शेषे शोणितोदेन वेष्टितम् ॥ १२-१७६ ॥
यन्त्रराजमिदं देवि पूजनाय प्रकल्पितम् ।
भरतश्च्यवनश्चापि हारीतश्च जवालकः ॥ १२-१७७ ॥
दक्षश्चैते जनाः पञ्च पूजयन्त्यमुनाऽम्बिकाम् ।
विन्दुः पञ्चारषट्कोणत्रिकोणनवकोणगः ॥ १२-१७८ ॥
अष्टारवृत्तसहितषोडशच्छदपद्मयुक् ।
पुनर्वृत्तान्वितः शेषे पूर्ववत् सकलं प्रिये ॥ १२-१७९ ॥
पूज्योऽयं रामयक्षेशनाहुषाणां वरानने ।
अथ कामकलायन्त्रं तत्रैव ।
यन्त्रमस्याः प्रवक्ष्यामि तत्र धेहि मनः प्रिये ॥ १२-१८० ॥
भूपुरे वसुपत्राढ्ये पद्ममष्टदलान्वितम् ।
केशराणि प्रकल्प्यानि तदन्तश्चापि कर्णिकाम् ॥ १२-१८१ ॥
कर्णिकान्तस्त्रिकोणस्य त्रितयं पृथगेव हि ।
बहिस्त्रिकोणकोणेषु लिखेद्बीजत्रयं शुभम् ॥ १२-१८२ ॥
मायाबीजं तु वामे स्यात् क्रोधबीजं तु दक्षिणे ।
अधः पाशं विनिर्दिश्य कन्दर्पार्णं तु मध्यतः ॥ १२-१८३ ॥
तदन्तःस्थायिनी देवी तत्र सर्वं प्रतिष्ठितम् ।
एतद्यन्त्रं महादेवि सर्वकामफलप्रदम् ॥ १२-१८४ ॥
एतस्य सर्वयन्त्राणि कलां नार्हन्ति षोडशीम् ।
अथ श्मशानकालीयन्त्रं (स्वतन्त्रतन्त्रे)
पद्मं चाष्टदलं वृत्तं तद्बाह्येऽष्टकवर्गकम् ॥ १२-१८५ ॥
धरण्यां विलिखेदाद्यं चतुष्कं च चतुष्ककम् ।
पर्वादि उतरान्तं च मध्ये देवीं प्रपूजयेत् ॥ १२-१८० ॥
प्। ११५१) अथ सिद्धिलक्ष्मीयन्त्रं कालानलतन्त्रे ।
यन्त्रोद्धारमहं वक्ष्ये सिद्धिलक्ष्म्या द्विज शृणु ।
चतुरस्रं चतुर्द्वारं वृत्तत्रयेण वेष्टितम् ॥ १२-१८१ ॥
अष्टारं च रविदलं पुनरष्टदलं लिखेत् ।
षट्कोणमध्ये कोणं च तत्र विन्दुं विचिन्तयेत् ॥ १२-१८२ ॥
अथ तारायन्त्रं (फेरवीये)
अष्टपत्रं लिखेत् पद्मं त्रिकोणोज्ज्वलकर्णिकम् ।
मायां पूर्वदले न्यस्य याम्ये बीजं द्वितीयकम् ॥ १२-१८३ ॥
तथोत्तरे पश्चिमे च फट्कारं विलिखेत् ततः ।
मध्ये बीजं लिखित्वा� � � � � � � � � � � � � � इति ॥
(फेत्कारिणीतन्त्रे)
सयोनि गोमयेनाष्टपत्रमब्जं सुशोभनम् ॥ १२-१८४ ॥
भूपुरं वसुवज्राढ्यं यन्त्रमेकजटात्मकम् ।
(मेरुतन्त्रे)
ततस्तां पूजयेत् पीठे पद्मे षट्कोणकर्णिके ॥ १२-१८५ ॥
धरागृहावृते पीठमादावर्च्यं सशक्तिकम् ॥ १२-१८५एफ़् ॥
एतयोर्भूपुरमधिकमुक्तम् ।
तथा त्रिकोणषट्कोणयोर्विकल्पः (नीलतन्त्रे)
व्योमेन्दौ रसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केशरं
वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् ।
ताराधीश्वरवारिवर्णविलसद्दिक्कोणसंशोभितं
यन्त्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् ॥ १२-१८६ ॥
इदं च नीलसरस्वतीयन्त्रं नीलतनोरित्यभिधानात् ।
(फेत्कारिणीतन्त्रो-)क्तयन्त्रमेकजटायाः । (फेरवीयमेरुतन्त्रोक्तं) च ताराया इति सम्प्रदायविदः ।
प्। ११५२) केचित् तु व्योमेन्दावित्यादिना धारणयन्त्रमुक्तम् । पूर्वोक्तानि यन्त्राणि तारैकजटानीलसरस्वतीसाधारणानीति वदन्ति ।
(मत्स्यसूक्ते)
अनुक्तकल्पे यन्त्रं तु लिखेत् पद्मं दलाष्टकम् ।
षट्कोणकर्णिकं वृत्तं वेदद्वारोपशोभितम् ॥ १२-१८७ ॥
अथ श्रीयन्त्रं (यामले)
विन्दुत्रिकोणवसुकोणदशारयुग्मं
मन्वस्रनागदलसंयुतषोडशारम् ।
वृत्तत्रयं च धरणीसदनत्रयं च
श्रीचक्रराजमुदितं परदेवतायाः ॥ १२-१८८ ॥
अस्मिन् यन्त्रे केशरा न कर्त्तव्याः ।
योऽस्मिन् यन्त्रे महेशानि केशराणि प्रकल्पयेत् ।
योगिनीसहितास्तस्य हिंसां कुर्वन्ति भैरवाः ॥ १२-१८९ ॥
इति (भूतभैरवोक्तेः)
एतद्दर्शनफलमुक्तं (यामले)
सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् ।
तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥ १२-१९० ॥
महाषोडशदानादि कृत्वा यल्लभते फलम् ।
तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् ॥ १२-१९१ ॥
सार्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमश्नुते ।
लभते तत् फलं भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥ १२-१९२ ॥
अथ पूजाफलम् ।
कोटिलिङ्गप्रतिष्ठायां यत् फलं समुदाहृतम् ।
तत्फलं लभते नूनं श्रीचक्रस्य च पूजनात् ॥ १२-१९३ ॥
अथ दानफलम् ।
श्रीचक्रं कारयित्वा तु यो दद्यात् साधकाय च ।
प्। ११५३) भूचक्रं तेन दत्तं हि सशैलवनसागरम् ॥ १२-१९४ ॥
अथैतत्पादोदकमाहात्म्यम् ।
गङ्गापुष्करनर्मदासयमुनागोदावरीगोमती �
गङ्गाद्वारगयाप्रयागवदरीवाराणसीसिन्धुषु ।
रेवासेतुसरस्वतीप्रभृतिषु ब्रह्माण्डभाण्डोदरे
तीर्थस्नानसहस्रकोटिगुणितं श्रीचक्रपादोदकम् ॥ १२-१९५ ॥
अथैतच्चक्रोद्धारप्रकारस्तन्त्रान्तरोक्तः प्रदर्श्यते ।
वृत्तं कृत्वेष्टमानेन मध्ये सूत्रं तु पातयेत् ।
पूर्वपश्चिमलग्नाग्रं द्विचत्वरिंशवद्भवेत् ॥ १२-१९६ ॥
पूर्वदिग्भागतः कार्या रेखा दोषापनुपत्तये ।
त्यक्त्वा षड्भागमाद्या स्याद्रेखा याम्योत्तराश्रिता ॥ १२-१९७ ॥
पञ्चभागा।स्ततस्त्यक्त्वा द्वितीयाऽपि तथा भवेत् ।
ततो भागचतुष्कोण दूरतस्त्रितया भवेत् ॥ १२-१९८ ॥
ततो भागत्रयं त्यक्त्वा रेखा स्यात् तु चतुर्थिका ।
भागद्वयं ततस्त्यक्त्वा रेखा कार्याऽथ पञ्चमी ॥ १२-१९९ ॥
ततो भागचतुष्केण षष्ठी रेखा तथा भवेत् ।
सप्तमी स्यात् त्रिभिर्भागैश्चतुर्भागैस्तथाऽष्टमी ॥ १२-२०० ॥
नवमी पञ्चभिर्भागैरेवं रेखा विधाय तु ।
अन्तरं वृत्ततः षद्भिरंशैराद्यन्तरेखयोः ॥ १२-२०१ ॥
सूर्यादिग्रहनामानि नवानां धारयेत् क्रमात् ।
पार्श्वद्वयेऽपि कर्त्तव्यं रेखाग्राणां विमार्जनम् ॥ १२-२०२ ॥
अग्रयोरुभयोर्लुप्येत् सूर्ये भागत्रयं त्रयम् ।
पञ्चभागान् प्रलुप्येत द्वितीया पार्श्वयोर्द्वयोः ॥ १२-२०३ ॥
मार्जनं च भवेदेवमग्रयोः शनिभौमयोः ।
प्। ११५४) बुधरेखाग्रयोर्लुप्याद्भागान् षोडश यत्नतः ॥ १२-२०४ ॥
अष्टादश विलुप्येत भागान् गुर्वग्रयोर्द्वयोः ।
षोडशोभयतो लुप्येद्भागान् भृग्वग्रयोस्तथा ॥ १२-२०५ ॥
राहुकेत्वोः क्रमेण स्यादष्टषड्भागमार्जनम् ।
सूर्याग्रे चुम्बतः शुक्रे मध्यं सोमाग्रके पुनः ॥ १२-२०६ ॥
चुम्बतः केतुमध्यं तु भौमाग्रे वृत्तचुम्बके ।
बुधाग्रे राहुमध्यं तु चुम्बतस्तद्वदेव हि ॥ १२-२०७ ॥
चुम्बतः शनिमध्यं तु अग्रभागौ बृहस्पतेः ।
पूर्वस्यां वृत्तमध्यं चुम्बतोऽग्रे शनेरपि ॥ १२-२०८ ॥
राह्वग्रे सूर्यमध्यं तु चुम्बतस्तद्वदेव हि ।
केत्वग्रे चुम्बतो भौमं भृग्वग्रे सोमचुम्बके ॥ १२-२०९ ॥
एवं चक्रं लिखित्वा तु भवेदतिमनोरमम् � इति ।
बालायन्त्रं तु वक्ष्यमाणत्रिपुरभैरवीयन्त्रवत् ।
(त्रिपुरासारसमुच्चये) यन्त्रान्तरमुक्तम् ।
त्रिकोणं विलिख्यानु वृत्तं दलानां
ततः पञ्चकं तद्बहिश्चापि वृत्तम् ।
पुनः षड्दलं बाह्यतश्चापि वृत्तं
लिखेदष्टपत्राणि तद्बाह्यतोऽपि ॥ १२-२१० ॥
अथ भुवनेश्वरीयन्त्रम् (शारदायाम्)
पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्दलैः ।
विलिखेत् कर्णिकामध्ये षट्कोणमतिसुन्दरम् ॥ १२-२११ ॥
चतुरस्रं चतुर्द्वारमेव मण्डलमालिखेत् ।
अथ त्रिपुरभैरवीयन्त्रं (शारदायाम्)
पद्ममष्टदलोपेतं नवयोन्याढ्यकर्णिकम् ॥ १२-२१२ ॥
प्। ११५५) चतुर्द्वारसमायुक्तं भूगृहं विलिखेत् ततः ।
अथ चैतन्यभैरवीयन्त्रं (ज्ञानार्णवे)
त्रिकोणं चैव षट्कोणं वसुपत्रं वरानने ॥ १२-२१३ ॥
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ।
भुवनेश्वरीभैरवीकमलेश्वरभैरव्योरपि तदेव यन्त्रम् । सम्पत्प्रदाभैरवीयन्त्रं त्रिपुरभैरवीयन्त्रवत् । कामेश्वरभैरवीयन्त्रं चैतन्यभरवीयन्त्रवत् ।
अथ षट्कूटाभैरवीयन्त्रं (ज्ञानार्णवे)
यन्त्रमस्या वरारोहे त्रिकोणं सम्पुटं लिखेत् ॥ १२-२१४ ॥
बहिरष्टदलं पद्मं रविपत्रं ततो लिखेत् ।
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ॥ १२-२१५ ॥
अथ रुद्रभरवीयन्त्रं तत्रैव ।
त्रिकोणं चैव वृत्तं च वृत्ताष्टदलपङ्कजम् ।
वृत्तं भूमण्डलं च � � � � � � � � � � � � � इति ॥
अथ छिन्नमस्तायन्त्रं (यामले)
त्रिकोणं विन्यसेदादौ तन्मध्ये मण्डलत्रयम् ॥ १२-२१६ ॥
तन्मध्ये विलिखेद्योनिं द्वारत्रयसमन्वितम् ।
बहिरष्टदलं पद्मं भूविम्बत्रितयं पुनः ॥ १२-२१७ ॥
कूर्मबीजं लिखेन्मध्ये त्रिकोणे हसमन्वितम् ।
(तन्त्रान्तरे)
अथोच्यते यन्त्रराजं वैरोचन्या महेश्वरि ॥ १२-२१८ ॥
षट्कोणं प्रथमं लेख्यं मध्यदेशे त्रिकोणकम् ।
सूर्यविम्बं ततो दद्याच्चतुरस्रं ततः परम् ॥ १२-२१९ ॥
भूगोलं च ततो दद्याच्चतुरस्रं ततः परम् ।
अष्टपत्रं ततो दद्याद्यथास्थानं च देशिकः ॥ १२-२२० ॥
चन्द्रबिम्बं ततो दद्याद्वह्निविम्बं ततः परम् ।
प्। ११५६) भूगोलं च ततो दद्याद्भूपुरत्रितयं ततः ॥ १२-२२१ ॥
वज्रशूलसमायुक्तं कोणे टङ्कं नियोजयेत् ।
किञ्जल्के केशरे दद्यान्मत्रवर्णा।स्त्रिकोणके ॥ १२-२२२ ॥
इति कामोपरि ध्यायेद्देवीं वैरोचनीं शुभाम् ।
(तन्त्रान्तरे)
भैरवोक्तमहं वक्ष्ये यन्त्रं सर्वसमृद्धिदम् ॥ १२-२२३ ॥
त्रिकोणं प्रथमं लेख्यं षट्कोणैर्वेष्टयेच्च तत् ।
त्रिविम्बं च ततो दद्याद्गुणानां परिणामकम् ॥ १२-२२४ ॥
भूपुरत्रितयं कुर्याद्वज्रशूलसमन्वितम् ।
कोणदेशे ततो दद्याट्टङ्कास्त्रं सुमनोहरम् ॥ १२-२२५ ॥
यथास्थाने लिखेद्धीमान् कर्त्तृखर्परकं शुभम् ।
रतिकामोपरि ध्यायेद्देवीं वैरोचनीं शुभाम् ॥ १२-२२६ ॥
(मेरुतन्त्रे)
त्रिकोणं रसकोणं वाऽष्टदलं भूपुरं ततः ।
अथ धूमावतीयन्त्रं तन्त्रान्तरे ।
लिखेदष्टदलं पद्मं भूपुरेण च वेष्टितम् ॥ १२-२२७ ॥
अथ वगलामुखीयन्त्रं (मेरुतन्त्रे)
सौवर्णे वाऽथ वा रौप्ये पैत्तले वाऽथ भूर्जके ।
कर्पूरागुरुकस्तूरीश्रीखण्डकुङ्कुमैरपि ॥ १२-२२८ ॥
लिखेद्यन्त्रं प्रयत्नेन लेखन्या हेमतारयोः ।
मध्ये योनिं समालेख्य तद्बाह्ये तु षडस्रकम् ॥ १२-२२९ ॥
तद्बाह्येऽष्तदलं पद्मं तद्बाह्ये षोडशच्छदम् ।
चतुरस्रत्रयं बाह्ये चतुर्द्वारोपशोभितम् ॥ १२-२३० ॥
अथ मातङ्गीयन्त्रं तन्त्रान्तरे ।
षट्कोणाष्टदलं पद्मं लिखेद्यन्त्रं मनोरमम् ।
प्। ११५७) एतस्मिन् पूजयेत् पीठे नवशक्तीः क्रमादिमाः ॥ १२-२३१ ॥
अथ यन्त्रान्तरं (मेरुतत्रे)
त्रिकोणं पञ्चकोणं च बहिरष्टदलद्वयम् ।
षोडशारं चाष्टदलं भूपुत्रितयं लिखेत् ॥ १२-२३२ ॥
एतद्द्वयमप्युच्छिष्टचाण्डालिन्याः । राजमातङ्गीयन्त्रं तु तद्ध्यानात् प्रागेवोक्तम् । वश्यमातङ्ग्यादिभेदानामपि तदेव यन्त्रमाकलनीयम् ।
अथ सुमुखीयन्त्रम् ।
त्रिकोणं पञ्चकोणं च वृत्तमष्टदलावृतम् ।
चतुरस्रं च तद्बाह्ये सुमुखीयन्त्रमीरितम् ॥ १२-२३३ ॥
अथ लक्ष्मीयन्त्रं (मेरुतन्त्रे)
धर्मादिकल्पिते पीठे भूपुरद्वारशोभिते ।
दलादष्टके केशराख्ये कर्णिकायां यजेदिमाम् ॥ १२-२३४ ॥
भूपुरावेष्टितमष्टदलपद्मत्रयात्मकं यन्त्रमन्यत्रोक्तम् ।
अथ सरस्वतीयन्त्रं तन्त्रान्तरे ।
पद्ममष्टदले लेख्यं चतुरस्रावृतं शुभम् ।
यन्त्रमेतद्वरारोहे वाग्देव्याः परिकीर्त्तितम् ॥ १२-२३५ ॥
त्वरिताया नित्यक्लिन्नायाश्च यन्त्रं पूर्वोक्तभुवनेश्वरीयन्त्रवत् ।
अथान्नपूर्णायन्त्रं (मेरुतन्त्रे)
त्रिकोणं च चतुःपत्रं वसुपत्रं ततः परम् ।
कलापत्रं च भूविम्बं चतुरस्रत्रयावृतम् ॥ १२-२३६ ॥
प्रत्यङ्गिरायन्त्रमन्नपूर्णायन्त्रवत् ।
अथ कुब्जिकायन्त्रम् ।
विन्दुत्रिकोणषट्कोणमष्टपत्रं सकेशरम् ।
श्रीमत्कुब्जेश्वरीयन्त्रं सद्वारं भूपुरत्रयम् ॥ १२-२३७ ॥
तन्त्रान्तरे ।
विन्दुत्रिकोणषट्कोणमष्टपत्राम्बुजं तथा ।
समातृबीजाष्टदलमष्टशृङ्गं सभूपुरम् ॥ १२-२३८ ॥
प्। ११५८) गङ्गायन्त्रं तु सरस्वतीयन्त्रवत् । भूपुरावृतषडस्रं वाग्मतीयन्त्रम् ।
अष्टदलकमलद्वयात्मकं चन्द्रयन्त्रम् ।
अथ भौमयन्त्रं (मेरुतन्त्रे)
त्रिकोणं पूर्वमुद्धृत्य पञ्चधा विभजेत् ततः ।
तृतीयरेखां चिह्नाभ्यां लाञ्छयेत् समभागतः ॥ १२-२३९ ॥
आद्यरेखाग्रयुगलं तृतीयाचिह्नयोर्न्यसेत् ।
द्वितीयाग्रे समाकृष्य तृतीयाचिह्नयोर्न्यसेन् ॥ १२-२४० ॥
युता रेखा तृतीया तु समा भाज्या समं ततः ।
तुर्या चिह्नद्वयेनाथ त्रिभिश्चिह्नैश्च पञ्चमी ॥ १२-२४१ ॥
तृतीयाग्रे प्रकुर्वीत पञ्चम्या मध्यचिह्नजे ।
तुर्याग्रे योजयेत् सम्यक् पञ्चम्या चिह्नयोर्द्वयोः ॥ १२-२४२ ॥
अथ मीनद्वये दद्यात् सूत्रयुग्मं विचक्षणः ।
एवमेकाधिका सम्यक् कोष्ठानां विंशतिर्भवेत् ॥ १२-२४३ ॥
बुधादीनां यन्त्रं तु भूपुरावृताष्टदलकमलम् । तेषां यन्त्रान्तराणि विस्तरभयान्न लिख्यन्ते ।
पिङ्गलादिग्रहमातृयन्त्रं तु त्रिकोणपञ्चकोणाष्टदलभूपुररूपम् । षड्दलाद्बहिरष्टदलमिन्द्रयन्त्रम् । अग्नियन्त्रमपि तदेव । अष्टदलमात्रमग्नेर्यन्त्रान्तरम् । यमयन्त्रमिन्द्रयन्त्रवत् । नैर्-ऋतयन्त्रं तु पञ्चकोणगर्भाष्टदलपद्मम् । षड्दलाद्बहिरष्टदलवरुणयन्त्रम् । षड्दलाद्बहिरष्टदलत्रयं वायुयन्त्रम् । कुवेरयन्त्रमष्टदलमात्रम् । ईशानयन्त्रं शिवयन्त्रवत् । ब्रह्मयन्त्रं तु दशदलपद्मम् । विष्णुयन्त्रमेवानन्तयन्त्रम् । षट्कोणकर्णिकषोडशदलपद्मं ब्राह्मीयन्त्रम् । पञ्चकोणगर्भाष्टदलकमलं कौमारीयन्त्रम् । वैष्णवीयन्त्रमष्टदलपद्मम् । तदेव वाराहीयन्त्रमपि ।
मालामन्त्रं तु यन्त्रान्तरमुक्तं (मेरुतन्त्रे)
योनिपञ्चास्रषट्कोणाष्टपत्रशतपत्रकम् ।
सहस्रदलभूविम्बसंवीतं द्वारशोभितम् ॥ १२-२४४ ॥
कैलाशाचलमध्यस्थं पीठमेतद्विचिन्तयेत् ।
त्रिकोणषोडशदलाष्टदलदशदलद्वयात्मकं स्वप्नवाराहीयन्त्रं तत्रैवोक्तम् । षट्कोणगर्भाष्टदलपद्ममैन्द्रीचामुण्डामहालक्ष्मीयन्त्रम् ।
प्। ११५९) नवदुर्गात्मकचामुण्डामन्त्रयन्त्रं तु तत्रान्तरे ।
एतन्मन्त्रावृतत्र्यस्रषट्कोणाष्टदलं लिखेत् ॥ १२-२४५ ॥
पञ्चविंशद्दलं बाह्ये चतुरस्रावृतं शुभम् ।
अथ दुर्गायन्त्रं (मेरुतन्त्रे)
अष्टपत्राम्बुजद्वन्द्वं चतुरस्रत्रयावृतम् ॥ १२-२४६ ॥
चतुर्द्वारसमायुक्तं कुङ्कुमादिभिरुद्धरेत् ।
अथ यन्त्रपुरश्चरणं तत्रान्तरे ।
आदौ यन्त्रस्य सिद्ध्यर्थे तन्मन्त्रस्य पुरस्क्रियाम् ॥ १२-२४७ ॥
कृत्वाऽयुतप्रमाणेन पश्चाद्यन्त्रस्य वाऽचरेत् ।
यथाऽधारे यथाद्रव्यैर्यन्त्रं संलिख्य यत्नतः ॥ १२-२४८ ॥
तत्रावाह्यैव तद्देवं सम्पूज्य विधिपूर्वकम् ।
ध्यात्वा बलिं जपं होमं कृत्वा देवं विसर्जयेत् ॥ १२-२४९ ॥
एकैकवारमावर्त्त्य तन्मन्त्रं संस्मरन् बुधः ।
इत्थं जपादिभिः सिद्धे यन्त्रे नासाध्यता क्वचित् ॥ १२-२५० ॥
दिक्सहस्रप्रमाणेन यन्त्रे कार्या पुरस्क्रिया ।
अथ धारणयन्त्रसाधनमुक्तं (मेरुतन्त्रे)
अथ यन्त्रविधिं वक्ष्ये सर्वतन्त्रेषु गोपितम् ॥ १२-२५१ ॥
सिद्धस्य लिखनादेव यन्त्रसिद्धिः प्रजायते ।
न भावि यत्र कार्यं तु सिद्धस्यापि तदा भवेत् ॥ १२-२५२ ॥
दुःस्वप्नदर्शनं पूर्वं तदा यन्त्रं न कारयेत् ।
साधकस्य शुभे घस्रे समाराध्येष्टदेवताम् ॥ १२-२५२ ॥
स्वप्यात् त्रिदिवसं भूमौ हविष्याशी जपे रतः ।
एतद्यन्त्रं करिष्यामि मम तत् कीदृशं प्रभो ॥ १२-२५२ ॥
स्वप्ने वदैतद्देवेशि तदङ्गत्वेन पूजनम् ।
प्। ११६०) प्रदोषसमये कृत्वा लिखेत् त्रिदिवसं भुवि ॥ १२-२५३ ॥
तृतीयदिवसे रात्रौ यथा स्वप्नः प्रजायते ।
तथैवाज्ञां गृहीत्वा तु सत्स्वप्ने चालिखेद्भुवि ॥ १२-२५४ ॥
अस्वप्ने वाऽथ दुःस्वप्ने नैव कुर्याल्लिखेद्धि तत् ।
जीवसंस्थापनं यन्त्रे कुर्याद्येन फलं लभेत् ॥ १२-२५५ ॥
षष्ठ्यन्तं साधकपदं मध्यबीजोर्ध्वतो लिखेत् ।
द्वितीयान्तं साध्यमधः कुरुद्वन्द्वं च पार्स्वयोः ॥ १२-२५६ ॥
हसौर्यन्त्रस्य जीवः स्यान्मध्यभागादधो लिखेत् ।
हंसः सोऽहं मनोरस्य लिखेदेकैकमक्षरम् ॥ १२-२५७ ॥
ईशानादिषु कोणेषु दक्षपार्श्वे च इद्वयम् ।
उद्वयं वामपार्श्वे च पूर्वाशादौ लिखेत् क्रमात् ॥ १२-२५८ ॥
ल। र। म। क्ष। तथा व। य। स। ह। पूर्वादिके लिखेत् ।
ईशानपूर्वयोर्मध्ये आ। ह्री। वायव्यसौम्ययोः ॥ १२-२५९ ॥
एवं दिक्पालबीजानि दशदिक्षु न्यसेत् क्रमात् ।
यन्त्रराजाय विद्महे वरप्रदाय धीमहि तन्नो यन्त्रः प्रचोदयात् ।
एतस्याः प्रतिकाष्ठायां लिखेद्वर्णत्रयं त्रयम् ॥ १२-२६० ॥
बहिः प्राणप्रतिष्ठाया मन्त्रं सर्वत्र वेष्टयेत् ।
एवं तु लिखितं यन्त्रं भवेत् सिद्धिप्रदायकम् ॥ १२-२६१ ॥
स्थलानुक्तौ भूर्जपत्रे क्षौमे वा ताम्रपत्रके ।
यन्त्रं विलिख्य गुटिकां बद्ध्वा सूत्रेण वेष्टयेत् ॥ १२-२६२ ॥
लाक्षयाऽच्छादितं स्वर्णे रुप्ये ताम्रऽथ वा क्षिपेत् ।
यद्देवतार्क यन्त्रं स्यात् तद्बीजेन च पूजयेत् ॥ १२-२६३ ॥
तदभावे मातृकार्णैर्यन्त्रपूजां समाचरेत् ।
प्। ११६१) अष्टोत्तरसहस्रं तु मूलं जप्त्वा हुनेद्घृतम् ॥ १२-२६४ ॥
तत्सम्पातेन संसिक्तं कृत्वा यन्त्रं नियोजयेत् ।
मूर्ध्नि बाहौ गले वाऽपि तत्तदिष्टार्थसिद्धये ॥ १२-२६५ ॥
(मेरुतन्त्रे)
उपास्या वा भूतलिपिर्यन्त्रसिद्धिविधायिनी ।
अक्लेशेनैव सर्वेषां यन्त्राणां सिद्धिमाप्नुयात् ॥ १२-२६६ ॥
अथ भूतलिपिनिर्णयः (शारदायाम्)
अथ भूतलिपिं वक्ष्ये सुगोप्यामपि दुर्लभाम् ।
यां प्राप्य शम्भोर्मुनयः सर्वान् कामान् प्रपेदिरे ॥ १२-२६७ ॥
पञ्च ह्रस्वाः सन्धिवर्णा व्योमेराग्निर्जलन्धरा ।
अन्तमाद्यं द्वितीयं च चतुर्थं मध्यमं क्रमात् ॥ १२-२६८ ॥
पञ्चवर्गाक्षराणि स्युर्वान्तः श्वेतेन्दुभिः सह ।
एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः ॥ १२-२६९ ॥
पञ्च ह्रस्वा इति अकारादयः । सन्धिवर्णा एकारादयश्चत्वारः । व्योम हकारः । इरो यकारः अग्नी रेफः । जलं वकारः । धरा पृथ्वी तद्बीजं लकारः । अन्तमित्यादि वर्गस्येति शेषः । वान्तः शकारः । श्वेतः षकारः । इन्दु सकारः ।
तथा ।
आयंवरार्णाः वर्गाणां पञ्चमाः शार्णसंयुताः ।
वर्गाद्या इति विज्ञेया नव दुर्गाः स्मृता अमी ॥ १२-२६९ ॥
आयंवरार्णा इति । अश्च ए च अंवरार्णश्च ते । आयंवरार्णा अकारैकारहकारा इत्यर्थः । वर्गाणां पञ्चमा ङञणनमाः । शार्णः शकारः । एते वर्णा नवानां वर्गाणामाद्या इत्यर्थः ।
भूतलिपित्वं दर्शयति ।
व्योमेराग्निजलक्षोणीवर्गवर्णान् पृथग्विदुः ।
द्वितीयवर्गे भूर्न स्यान्नवमे सजलन्धरा ॥ १२-२७० ॥
भूर्न स्यादिति । द्वितीयवर्णस्य वर्णचतुष्टयात्मकत्वादिति भावः । एवमग्रेऽपि बोध्यम् ।
प्। ११६२) तथा ।
विरिञ्चिविष्णुरुद्राश्विप्रजापतिदिगीश्वराः ।
क्रियादिशक्तिसहिता नवदुर्गेश्वराः स्मृताः ॥ १२-२७१ ॥
ऋषिः स्याद्दक्षिणामूर्तिर्गायत्री छन्द ईरितम् ।
देवता कथिता सद्भिः साक्षाद्वर्णेश्वरी परा ॥ १२-२७२ ॥
हादिषड्वर्णकैः कुर्यात् षडङ्गानि सजातिभिः ।
(मेरुतन्त्रे)
स्वरहीनैर्हयाद्यैश्च मन्त्रार्णैः पञ्चपञ्चभिः ॥ १२-२७३ ॥
अथ ध्यानं (शारदायाम्)
ध्यायैल्लिपितरोर्मूले देवीं तन्मयपङ्कजे ।
वदन्ति सुधियो वृक्षं नित्यं वर्णमयं शुभम् ॥ १२-२७४ ॥
परसंविन्महाबीजं विन्दुनादमहाशिफम् ।
पृथिव्यक्षरशाखाभिः सर्वाशासु विजृम्भितम् ॥ १२-२७५ ॥
सलिलाक्षरपत्रैः स्वैः सञ्छादितयुगत्रयम् ।
वह्निवर्णाङ्कुरैर्दीप्तं रत्नैरिव सुरद्रुमम् ॥ १२-२७६ ॥
मरुद्वर्णलसत्पुष्पैर्द्योतयन्तं वपुःश्रियम् ।
आकाशार्णफलैर्नम्रं सर्वभूताश्रयं परम् ॥ १२-२७७ ॥
परामृताख्यमधुभिः सिञ्चन्तं परमेश्वरीम् ।
वेदागमादिभिः कॢप्तसमुन्नतिमनोहरम् ॥ १२-२७८ ॥
शिवशक्तिमयं साक्षाच्छायाश्रितजगत्त्रयम् ।
एतामाश्रित्य सुधियः सर्वान् कामान् प्रपेदिरे ॥ १२-२७९ ॥
अङ्कोन्मुक्तशशाङ्ककोटिसदृशीमापीनतुङ्गस्तनीं
चन्द्रार्धान्वितमस्तकां मधुमदादालोलनेत्रत्रयाम् ।
बिभ्राणामनिशं वरं जपवटीं विद्यां कपालं करै �
प्। ११६३) राद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये ॥ १२-२८० ॥
अथ पुरश्चरणम् ।
लक्षं न्यसेज्जपेत् तावज्जुहुयादयुतं तिलैः ।
पूजयेदन्वहं देवीं पीठे प्रागीरिते सुधीः ॥ १२-२८१ ॥
(मेरुतन्त्रेऽपि)
लक्षं प्रजप्यादयुतं तिलैर्हुत्वा च तर्पयेत् ।
एवं भूतलिपिः सेव्या यन्त्रसिद्धिः प्रजायते ॥ १२-२८२ ॥
श्रीविद्याराधने वाऽपि समर्थो जायते नरः ।
इति भूतलिपिपुरश्चरणम् ।
अथ मातृकान्यासपुरश्चरणम् (शारदायाम्)
दीक्षितः प्रोक्तमार्गेण न्यसेल्लक्षं समाहितः ॥ १२-२८२ ॥
जपेत् तत्सङ्ख्यया विद्वानयुतं मधुराप्लुतैः ।
विदधीत तिलैर्होमं मातृकामन्वहं जपेत् ॥ १२-२८३ ॥
इति मातृकान्यासपुरश्चरणम् ।
अथ त्रिलोहीमुद्रा तत्रैव ।
सोमसूर्याग्निरूपाः स्युर्वर्णा लोहत्रयं तथा ।
रौप्यमिन्दुः स्मृतो हेम सूर्यस्ताम्रं हुताशनः ॥ १२-२८४ ॥
लोहभागाः समुद्दिष्टाः स्वराद्यक्षरसङ्ख्यया ।
तैर्लोहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् ॥ १२-२८५ ॥
साग्रं सहस्रं सञ्जप्य स्पृष्ट्वा तां जुहुयात् ततः ।
तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्वसङ्ख्यया ॥ १२-२८६ ॥
निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना ।
आवाह्य पूजयेद्देवीमुपचारैः समाहितः ॥ १२-२८७ ॥
अभिषिञ्च्य विनीताय दद्यात् तां मुद्रिकां गुरुः ।
प्। ११६४) इयं रक्षा क्षुद्ररोगविषज्वरविनाशिनी ॥ १२-२८८ ॥
व्यालचौरमृगादिभ्यो रक्षां कुर्याद्विशेषतः ।
युद्धे विजयमाप्नोति धारयेन्मनुजेश्वरः ॥ १२-२८९ ॥
सोमसूर्याग्निरूपा इति । अकारादयः स्वराः सोमरूपाः । कादयो मान्ताः स्पर्शवर्णाः सूर्यरूपाः । यकारादयो व्यापकवर्णा अग्निरूपा इत्यर्थः ।
तथेति । तथैव लोहत्रयमपि सोमसूर्याग्निरूपमित्यर्थः ।
एतदेव स्फुटयति रौप्यमित्यादिना । भागा अंशाः ।
स्वराद्यक्षरसङ्ख्ययेति । रौप्यस्य षोडश । हेम्नः पञ्चविंशतिः । ताम्रस्य दशभागा इत्यर्थः ।
असङ्कलितसङ्गतामिति । असङ्कलितामेकरूपतामनापन्नाम् । सङ्गतां परस्परसम्बद्धाम् ।
सञ्जप्येति । जपश्चात्र मातृकावर्णानामेव ।
तस्यां सम्पादयेदिति । वाहेति दुत्वा तस्यां मुद्रायां सम्पाताज्यं निःक्षिपेदित्यर्थः ।
अभिषिकोक्तवर्त्मनेति । काम्याभिषेकोक्तरीत्यत्येर्थः ।
काम्याभिषेकस्तु तत्रैव ।
पूर्वोक्तं पङ्कजं कृत्वा कुम्भं संस्थाप्य पूर्ववत् ।
क्वाथेन पूरयेन्मन्त्री यथावत् क्षीरशाखिनाम् ॥ १२-२९० ॥
अष्टगन्धं विलोड्यास्मिन् नवरत्नसमन्विते ।
आवाह्य पूजयेद्देवीं मातृकामुक्तमार्गतः ॥ १२-२९१ ॥
सहस्रं साधितैस्तोयैरभिषिञ्चेत् प्रियं नरम् ।
भानुवारे शुभे लग्ने ब्राह्मणानपि भोजयेत् ॥ १२-२९२ ॥
गुरवे दक्षिणां दद्याद्भक्तियुक्तः स्वशक्तितः ।
रक्षाकरं विशेषेण कृत्वा द्रोहोपशान्तिदम् ॥ १२-२९३ ॥
ऐश्वर्यजननं पुंसां सर्वसौभाग्यसिद्धिदम् ।
अभिषेकमिमं प्राहुर्विश्वसम्मोहनं परम् � इति ॥
देवीं मातृकासरस्वतीम् ।
अभिषिञ्च्येति । अभिषेकस्तु विलीममातृकावर्णैः कार्यः ।
प्। ११६५) अभिषिञ्चेद्विलोमेन साध्यन्तं दत्तदक्षिणम् ॥ १२-२९४ ॥
इत्यभिषेकान्तरे तत्रैवोक्तत्वात् ।
अथ नवरत्नमुद्रा तत्रैव ।
विभजेन्मातृकां मन्त्री नववर्गान् यथाक्रमात् ।
अष्टावष्टौ स्वराः स्पर्शाः पञ्चशो व्यापका अपि ॥ १२-२९५ ॥
नववर्गा।ः समुत्पन्नाः नवरत्नेश्वरग्रहाः ।
अर्केन्दरक्तज्ञगुरुभृगुमन्दाहिकेतवः ॥ १२-२९६ ॥
माणिक्यं मौक्तिकं चारु विद्रुमं गारुडं पुनः ।
पुष्परागं लसद्वज्रं नीलं गोमेदकं शुभम् ॥ १२-२९७ ॥
वैदूर्यं नवरत्नानि मुद्रां तैः कल्पयेच्छुभाम् ।
जपहोमादिकं सर्वं कुर्यात् पूर्वोक्तवर्त्मना ॥ १२-२९८ ॥
यो मुद्रां धारयेदेनां तस्य स्युर्वशगा ग्रहाः ।
वहते तस्य सौभाग्यं लक्ष्मीरप्यहता भवेत् ॥ १२-२९९ ॥
कृत्या द्रोहा विनश्यन्ति नश्यन्ति सकलापदः ।
रक्षोभूतपिशाचाद्या नेक्षन्ते तं भयाकुलाः ॥ १२-३०० ॥
उपर्युपरि वर्धन्ते धनरत्नादिसम्पदः ।
इति नवरत्नमुद्रा ।
अथ षोढान्यासपुरश्चरणं तन्त्रान्तरे ।
देवीभावसमायुक्तः षोढान्यासपरो भवेत् ॥ १२-३०१ ॥
दशविद्याविधौ सा च दशधा भिन्नभिन्नतः ।
प्रत्येकं षडृषिं तं तं तद्ध्यानं च समाचरेत् ॥ १२-३०२ ॥
ऋषिच्छन्दादिकं यत्र कीर्तितं परमेश्वरि ।
तदेव तत्र गदितमनुक्ते मूलदेववत् ॥ १२-३०३ ॥
ध्यानं छन्दादिकं स्तोत्रं देवीवत् सर्वमेव तु ।
प्। ११६६) अयुतं च पुरश्चर्या न्यासस्तत्क्रमयोगतः ॥ १२-३०३ ॥
इति षोढान्यासपुरश्चरणम् ।
अथ सहस्रनामस्तवकवचानां पुरश्चरणं तत्रैव ।
ईश्वर उवाच ।
सहस्रनामस्तोत्रेषु कवचेष्वपि पार्वति ।
कवचादौ तु या प्रोक्ता सा वै कार्या पुरस्क्रिया ॥ १२-३०४ ॥
यत्रानुक्ता पुरश्चर्या तत्र किं वा विधीयते ।
अयुतं तु पुरश्चर्या स्तोत्रमात्रे प्रकीर्तिता ॥ १२-३०५ ॥
सहस्रनामकवचे पुरश्चर्या त्वियं मता ।
एवं पुरस्क्रियां कृत्वा दशांशं हवनादिकम् ॥ १२-३०६ ॥
तर्पणं मार्जनं देवि कुत्रचित् परिकीर्त्तितम् ।
महाकालमते प्रोक्तं तत्रस्थं चेत् समाचरेत् ॥ १२-३०७ ॥
विप्रसन्तोषणेनैव सर्वं सिद्ध्यति पार्वति ।
हवनं तु तथा कार्यं पुरश्चर्यादिकं भवेत् ॥ १२-३०८ ॥
सहस्रनामरूपं वै कीदृशं परमेश्वरि ।
तथा च कवचं देवि किंरूपं परिकीर्त्तितम् ॥ १२-३०९ ॥
शिवदेव्योस्तु संवादो ब्रह्मरन्ध्रं प्रकीर्त्तितम् ।
अन्ये श्लोकाः केशतुल्या ऋषिः शिर उदीरितम् ॥ १२-३१० ॥
छन्दो मुखं भवेद्देवि देवता हृदयं भवेत् ।
बीजं गुह्यमिति प्रोक्तं शक्तिं तु पदगां विदुः ॥ १२-३११ ॥
सर्वाङ्गं कीलकं देवि ह्यर्थवादः प्रकीर्त्तितः ।
स्तोत्रमध्ये स्थितं यद्यत् तत् सर्वं स्तोत्ररूपकम् ॥ १२-३१२ ॥
एवं च देवदेवेशि स्तोत्ररूपं प्रकीर्त्तितम् ।
तथैव कवचं देवि ज्ञात्वा पाठं पठेत् प्रिये ॥ १२-३१३ ॥
प्। ११६७) अङ्गहीने भवेन्नाशः सर्वथा परमेश्वरि ।
फलस्तुत्यादिकं देवि अङ्गमित्यभिधीयते ॥ १२-३१४ ॥
आद्योपान्तं विना देवि फलमर्धं प्रकीर्त्तितम् ।
अत्रार्थे प्रत्ययो देवि षडङ्गाद्या यथा स्मृताः ॥ १२-३१५ ॥
हवनं कवचादीनां श्लोकान्ते विहितं च वा ।
आद्योपान्तं पठित्वा तु पश्चात् तु हवनं मतम् ॥ १२-३१६ ॥
आदौ पूर्णं तु सम्पठ्य तथैवान्ते महेश्वरि ।
मध्ये नामानि पाद्यानि पुरश्चर्या प्रकीर्त्तिता ॥ १२-३१७ ॥
श्लोकान्ते हवनं प्रोक्तं श्लोकान्ते मार्जनादिकम् ।
तत्र स्तोत्रोक्तविधिना पुरश्चर्यादिकं चरेत् ॥ १२-३१८ ॥
स्तोत्रमावर्त्त्य सम्पूर्णं तदन्ते गणानां चरेत् ।
सम्पूर्णहोमयोगोऽयं कथितस्ते प्रियंवदे ॥ १२-३१९ ॥
सारूप्यं कवचाख्यं च सायुज्यं स्तोत्रमीरितम् ।
सान्निध्यं नामसाहस्रं त्रितयं परिकीर्त्तितम् ॥ १२-३२० ॥
कवचं कवचरूपं स्यात् स्तोत्रं सहचरो भवेत् ।
सहस्रनामस्तोत्रं तु पूजास्थाने प्रकीर्त्तितम् ॥ १२-३२१ ॥
पूजा दुर्गास्वरूपा स्याद्बलिदानं तु मारणम् ।
मन्त्रो राजा पुरश्चर्या राज्यसम्पत्तिरीरिता ॥ १२-३२२ ॥
सम्पत्त्या तु विना राजा न शोभति महेश्वरि ।
सम्पत्तिमूलमेतद्धि सर्वमेव प्रकीर्त्तितम् ॥ १२-३२३ ॥
होमो मन्त्रः इति प्रोक्तः पर्जन्यास्त्रं तु तर्पणम् ।
जलं दुर्गस्वरूपं वै त्वभिषेकः प्रकीर्त्तितः ॥ १२-३२४ ॥
ब्राह्मणानां भोजनं तु दुष्टसैन्यप्रभक्षणम् ।
प्। ११६८) देवतागुरुविद्यैक्यं त्वात्मैक्यं परिभाव्य च ॥ १२-३२५ ॥
सर्वसिद्धिश्वरो भूत्वा त्रैलोक्याधिपतिर्भवेत् ।
यथा च राजराज्यादौ शत्रुसैन्यभयं भवेत् ॥ १२-३२६ ॥
सिद्धिराज्ये महादेवि तथैव परिकीर्त्तितम् ।
दुर्गयन्त्रादिकं देवि देशराज्ये यथा मतम् ॥ १२-३२७ ॥
तथैव सिद्धिराज्यस्य पुरश्चर्यादिकं मतम् ।
मन्त्रो राजा गुरुर्मन्त्री गणेशा द्वारपालकाः ॥ १२-३२८ ॥
साधनं शवमुण्डस्य सिंहासनमितीरितम् ।
साधकेन तथा कार्यं येन सर्वं तु सिध्यति ॥ १२-३२९ ॥
नैमित्तिकं च काम्यं च हयद्विरदकौ मतौ ।
होमधूपः पताकाः स्याज्जयस्तु सिद्धभूमिका ॥ १२-३३० ॥
सिद्धिराजाधिपे देवि किं न सिद्ध्यति भूतले ।
षोढान्यासादिकं सेना देवता राज्यदायिका ॥ १२-३३१ ॥
यन्त्रं तु वज्रदुर्गं तु जीवचक्रं त्वभेदकम् ।
कवचादि पुरश्चर्या प्रोक्ता किं श्रोतुमिच्छसि ॥ १२-३३२ ॥
इति स्तवकवचसहस्रनामपुरश्चरणम् ।
अनुक्तपुरश्चरणानां स्तवकवचादीनां पुरश्चरणमेतत् । उक्तपुरश्चरणानां तु तेषां कल्पोक्तमेव तत् कार्यम् ।
अथ कर्पूरस्तवपुरश्चरणं (वीरतन्त्रे)
देव्युवाच ।
कर्पूराख्यमिदं स्तोत्रं यदुक्तं भवता पुरा ।
षट्कर्मसाधनं तस्य प्रयोगं वद शङ्कर ॥ १२-३३३ ॥
श्रीशिव उवाच ।
शृणु देवि प्रवक्ष्यामि कर्पूरस्तवसाधनम् ।
प्। ११६९) सकृत् कृतेऽपि देवेशि काली तुष्टा भवेत् सदा ॥ १२-३३४ ॥
शनिभौमदिने देवि स्नात्वा प्रयतमानसः ।
सम्पूज्य कालिकां देवीं सङ्कल्पं सम्यगाचरेत् ॥ १२-३३५ ॥
कृत्वा षोढादिकं देवि पठेत् स्तोत्रमनुत्तमम् ।
अयुतैकप्रमाणेन तद्दशाशं हुनेत् सुधीः ॥ १२-३३६ ॥
तर्पणं चाभिषेकं च ब्राह्मणान् भोजयेत् ततः ।
पश्चात् स्वकार्यसिद्ध्यर्थं प्रयोगानाचरेत् तथा ॥ १२-३३७ ॥
राज्ञो भये समुत्पन्ने दुर्भिक्षे शत्रुसङ्कटे ।
त्रासोत्पन्ने महेशानि रोगशोकभये तथा ॥ १२-३३८ ॥
पठेत् स्तोत्रं महाकाल्याः सर्वशान्तिं प्रयच्छति ।
कुमारीपूजनं चान्ते कर्त्तव्यं सुसमाहितः ॥ १२-३३९ ॥
एवं कृते महेशानि सम्यक् सिद्धिर्भवेद्ध्रुवम् ।
इति कर्पूरस्तवपुरश्चरणम् ।
अथ सप्तशतीस्तवविधानम् ।
(मुक्तावल्याम्)
सप्तशत्या विधानं तु शृणु वक्ष्यामि यत्नतः ॥ १२-३४० ॥
यज्ज्ञात्वा साधकश्रेष्ठः सर्वसिद्धिमवाप्नुयात् ।
(मेरुतन्त्रे)
सप्तशत्यास्तु सकलं तत्त्वं वेद्म्यहमेव हि ॥ १२-३४१ ॥
पादोनं श्रीहरिर्वेत्ति वेत्त्यर्धं तु प्रजापतिः ।
व्यासस्तुर्यांशकं वेत्ति कोट्यंशमितरे जनाः ॥ १२-३४२ ॥
(वाराहीतन्त्रे)
ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः ।
ऋष्यादिन्यास उक्तो (मेरुतन्त्रे)
सप्तशत्याश्चरित्रे तु प्रथमे पद्मभूर्मुनिः ॥ १२-३४३ ॥
प्। ११७०) छन्दो गायत्रमुदितं महाकाली तु देवता ।
वाग्बीजं पावकस्तत्त्वं धर्मार्थे विनियोजनम् ॥ १२-३४४ ॥
मध्यमस्य चरित्रस्य मुनिर्विष्णुरुदाहृतः ।
उष्णिक्छन्दो महालक्ष्मीर्देवता बीजमद्रिजा ॥ १२-३४५ ॥
वायुस्तत्त्वं धनप्राप्त्यै विनियोग उदाहृतः ।
उत्तरस्य चरित्रस्य मुनिः शङ्कर उच्यते ॥ १२-३४६ ॥
महासरस्वती देवी त्रिष्टूप् छन्द उदाहृतम् ।
कामो बीजं रविस्तत्त्वं कामाप्त्यै विनियोजनम् ॥ १२-३४६ ॥
तन्त्रान्तरे ।
नवार्णमन्त्रवर्णैस्तु षडङ्गन्यासमाचरेत् ।
देवतात्रयध्यानानि (दुर्गाप्रकरणे) प्रोक्तानि ।
अथ पाठक्रमो (वाराहीतन्त्रे)
आधारे स्थापयित्वा तु पुस्तकं वाचयेत् ततः ॥ १२-३४७ ॥
हस्तसंस्थापनाद्देवि भवेदर्धफलं यतः ।
यावन्न पूर्यतेऽध्यायस्तावन्न विरमेत् पठन् ॥ १२-३४८ ॥
यदि प्रमादादध्याये विरामो भवति प्रिये ।
पुनरध्यायमारभ्य पठेत् सर्वं मुहुर्मुहुः ॥ १२-३४९ ॥
अनुक्रमात् पठेद्देवि शिरःकम्पादिकं त्यजेत् ।
(महाकालसंहितायाम्)
ब्राह्मणान् वरयित्वैवं वस्त्रालङ्करणासनैः ॥ १२-३५० ॥
विदध्यात् कामनोल्लेखं पूजां शक्त्या च पुस्तके ।
शनैः पठेत् पाठकोऽपि वर्णोच्चारणपूर्वकम् ॥ १२-३५१ ॥
सुव्यक्तं नापि विश्लिष्टं न शिरश्चारगीवत् ।
तनुमान्दोलयन्नापि न हसन्न रुदन् व्रजन् ॥ १२-३५२ ॥
प्। ११७१) नाश्नन्नान्यैरालप।श्च न मध्ये छिन्नवत् तथा ।
आचान्तः कृतशौचश्च पदोरुद्गमनीयवान् ॥ १२-३५३ ॥
एतेन विधिनाऽधीते तुष्यते जगदम्बिका ।
यथोक्तफलदात्री च भवति प्राणवल्लभे ॥ १२-३५४ ॥
(वाराहीतन्त्रे)
प्रणवं चादितो दत्वा स्तोत्रं वा संहितां पठेत् ।
अन्ते च प्रणवं दद्यादित्युवाचादिपुरुषः ॥ १२-३५५ ॥
तथा ।
स्वयं च लिखितं यच्च शूद्रेण लिखितं भवेत् ।
अब्राह्मणेन लिखितं तच्चापि विफलं भवेत् ॥ १२-३५६ ॥
स्तोत्रे न दृश्यते यत्र प्रणवं तत्र विन्यसेत् ।
सर्वत्र पाठे विज्ञेयस्त्वन्यथा विफलं भवेत् ॥ १२-३५७ ॥
(देवीपुराणे)
वाचकं पूजयित्वा तु यथाविभवविस्तरैः ।
वाचयीत ततो राजन् देवीमाहात्म्यमुत्तमम् ॥ १२-३५८ ॥
तदन्ते शान्तिशब्दस्तु जनस्य सनृपस्य च ।
अनेन विधिना राजन् यः पठेच्छृणुयादपि ॥ १२-३५९ ॥
चिन्तयेद्वाचयेद्वाऽपि तस्य पुण्यफलं शृणु ।
वाजपेयसहस्रस्य अश्वमेधशतस्य च ॥ १२-३६० ॥
यत् फलं लभते तात तत् फलं शतधा भवेत् � इत्यादि ॥
(मरीचिकल्पे)
रात्रिसूक्तं जपेदादौ मध्ये सप्तशतीस्तवम् ।
प्रान्ते तु जपनीयं वै देवीसूक्तमिति क्रमः ॥ १२-३६१ ॥
एवं सम्पूटितं स्तोत्रं सर्वकामार्थसिद्धये ।
प्। ११७२) अत्र रात्रिसूक्तं च ।
त्वं स्वाहा त्वं स्वधा � इत्यादि प्रथमचरित्रस्थस्तुतिरूपं देवीसूक्तम् ।
नमो देव्यै � इत्यादि तृतीयचरित्रस्थस्तुतिरूपमिति नागोजिभट्टादयः ।
अन्ये तु सूक्तद्वयं वैदिकमेवेत्याहुः ।
(मेरुतन्त्रे)
मार्कण्डेयपुराणोक्तं नित्यं चण्डीस्तवं पठेत् ॥ १२-३६२ ॥
पुटितं मूलमन्त्रेण जपन्नाप्नोति वाञ्छितम् ।
मूलमन्त्रस्तु दुर्गाप्रकरणोक्तो नवार्णः ।
अथ पुरश्चरणं (मरीचिकल्पे)
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशीम् ॥ १२-३६३ ॥
वृद्ध्यैकोत्तरया जाप्यं पूर्वसम्पुटितं तु तत् ।
एवं देवि मया प्रोक्तः पौरश्चरणिकः क्रमः ॥ १२-३६४ ॥
तदन्ते हवनं कुर्यात् प्रतिश्लोकेन पायसैः ।
रात्रिसूक्तं प्रति - ऋचं तथा देव्यास्तु सूक्तकम् ॥ १२-३६५ ॥
प्रतिश्लोकेनेति । तस्य (कात्यायनीतन्त्रो-)क्तमन्त्रविभागेन । तदज्ञाने तु श्लोकेनैव होमः कार्य इति साम्प्रदायिकाः ।
नवरात्रे प्रकारान्तरेण पुरश्चरमुक्तं तत्रैव ।
अथातः सम्प्रवक्ष्यामि नवरात्रविधानकम् ।
जपेदेकोत्तरां वृद्धिं दिनानि नवसङ्ख्यया ॥ १२-३६६ ॥
नवाक्षरीविधानेन सम्पूज्याथ विचक्षणः ।
सहस्रं प्रजपेन्मन्त्रं प्रत्येकं च यथाविधि ॥ १२-३६७ ॥
हुत्वा दशांशतो होमं तत्र सिद्धिमवाप्नुयात् ।
इति पुरश्चरणम् ।
अथ प्रसङ्गाच्छतचण्डोविधिर्लिख्यते ।
तथा च (मेरुतन्त्रे)
शतचण्डीविधानं तु प्रवक्ष्ये प्रीतये नृणाम् ॥ १२-३६८ ॥
प्। ११७३) नृपोपद्रवमापन्ने दुर्भिक्षे भूमिकम्पने ।
अतिवृष्ट्यामनावृष्टौ परचक्रभये क्षये ॥ १२-३६९ ॥
सर्वे विघ्ना विनश्यन्ति शतचण्डीविधौ कृते ।
रोगाणां वैरिणां नाशो धनपुत्रसमृद्धयः ॥ १२-३७० ॥
शङ्करस्य भवान्या वा प्रसादनिकटे शुभम् ।
मण्डपं द्वारवेद्याढ्यं कुर्यात् सध्वजतोरणम् ॥ १२-३७१ ॥
तत्र कुण्डं प्रकुर्वीत प्रतीच्यां मध्यतोऽपि वा ।
स्नात्वा नित्यकृतिं कृत्वा योजयेद्दशवाडवान् ॥ १२-३७२ ॥
जितेन्द्रियान् सदाचारान् कुलीनान् सत्यवादिनः ।
व्युत्पन्ना।श्चण्डिकापाठे रतान् लज्जादयावतः ॥ १२-३७३ ॥
मधुपर्कविधानेन वस्त्रस्वर्णादिदानतः ।
जपार्थमासनं मालां दद्यात् तेभ्योऽपि भोजनम् ॥ १२-३७४ ॥
ते हविष्यान्नमश्नन्तो मन्त्रार्थगतमानसाः ।
भूमौ शयानाः प्रत्येकं जपेयुश्चण्डिकास्तवम् ॥ १२-३७५ ॥
मार्कण्डेयपुराणोक्तं दशकृत्वः सचेतसः ।
नवार्णं चण्डिकामन्त्रं जपेयुश्चायुतं क्वचित् ॥ १२-३७६ ॥
वाडवा विप्राः ।
अत्र च ।
पञ्चभिः सप्तभिर्वाऽपि नवैकादशभिस्तथा ।
अदीर्घदिवसे क्षिप्रं विदध्याच्चण्डिकामखम् ॥ १२-३७७ ॥
अयुग्मब्राह्मणैः कार्यं शतावृत्तं सुसिद्धये ।
त्रिपञ्चसप्तनवभिर्दिनैः पक्षेण वा पुनः ॥ १२-३७८ ॥
देवीमाहात्म्यपाठं तु युगैर्विप्रैः कृतं च यत् ।
प्। ११७४) निष्फलं च भवेत् सर्वं भूतिनाशं च प्राप्नुयात् ॥ १२-३७९ ॥
इति यद्वचनत्रयं क्रोडतन्त्रनाम्ना पठ्यते तत् तु निर्मूलम् । तन्त्रानुपलम्भादनेकतन्त्रविरोधाच्च ।
तथा ।
यजमानः पूजयेच्च कन्यानां दशकं शुभम् ।
द्विवर्षाद्या दशाब्दान्ताः कुमारीः परिपूजयेत् ॥ १२-३८० ॥
तथा ।
विप्रां सर्वेष्टसंसिद्ध्यैः यशसे क्षत्रियोद्भवाम् ।
वैश्यजां धनलाभाय पुत्राप्त्यै शूद्रजां यजेत् ॥ १२-३८० ॥
द्विवर्षादीनां प्रत्येकं नामानि ।
द्विवर्षा सा कुमार्युक्ता त्रिमूर्तिर्हायनत्रिका ।
चतुरब्दा तु कल्याणी पञ्चवर्षा तु रोहिणी ॥ १२-३८१ ॥
षडब्दा कालिका प्रोक्ता चण्डिका सप्तहायना ।
अष्टवर्षा शाम्भवी स्याद्दुर्गा तु नवहायना ॥ १२-३८२ ॥
शुभदा दशवर्षोक्ता ता मन्त्रैः परिपूजयेत् ।
एकाब्दायाः प्रीत्यभावो रुद्राब्दा तु विवर्जिता ॥ १२-३८३ ॥
मन्त्राक्षरमयीं लक्ष्मीं मातॄणां रूपधारिणीम् ।
नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम् ॥ १२-३८४ ॥
कुमारिकादिकन्यानां पूजामन्त्रान् ब्रुवेऽधुना ।
जगत्पूज्ये जवद्वन्द्ये सर्वशक्तिस्वरूपिणि ॥ १२-३८५ ॥
पूजां गृहाण कौमारि जगन्मात्रे नमोऽस्तु ते ।
त्रिपुरां त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम् ॥ १२-३८६ ॥
त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् ।
कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम् ॥ १२-३८७ ॥
प्। ११७५) कल्याणजननीं नित्यां कल्याणीं पूजयाम्यहम् ।
अणिमादिगुणाधारामकाराद्यक्षरात्मिकाम् ॥ १२-३८८ ॥
अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम् ।
कामचारीं शुभां कान्तां कालचक्रस्वरूपिणीम् ॥ १२-३८९ ॥
कामदां करुणोदारां कालिकां पूजयाम्यहम् ।
चण्डबीजां चण्डमयीं चण्डमुण्डप्रभञ्जनीम् ॥ १२-३९० ॥
पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् ।
सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् ॥ १२-३९१ ॥
सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम् ।
दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् ॥ १२-३९२ ॥
पूजयामि सदा भक्त्या दुर्गां दुर्गतिनाशिनीम् ।
सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम् ॥ १२-३९३ ॥
सुभद्रजननीं देवीं सुभद्रां पूजयाम्यहम् ।
एतैर्मन्त्रैर्लक्षणाढ्यां तां तां कन्यां समर्चयेत् ॥ १२-३९४ ॥
गन्धैः पुष्पैर्भक्ष्यभोज्यैर्वस्त्रैराभरणैरपि ।
वेद्यां विरचिते रम्ये सर्वतोभद्रमण्डले ॥ १२-३९५ ॥
घटं संस्थाप्य विधिवत् तत्रावाह्यार्चयेच्छिवाम् ।
तदग्रे कन्यकाश्चापि भोजयेद्ब्राह्मणानपि ॥ १२-३९६ ॥
उपचारैश्च विविधैः पूर्वोक्तावरणान्यपि ।
एवं चतुर्दिनं कृत्वा पञ्चहोमान् समाचरेत् ॥ १२-३९७ ॥
एतेन प्रथमेऽह्नि प्रत्येकमेकैकावृत्तिः । द्वितीये द्वे द्वे । तृतीये तिस्रस्तिस्रः । चतुर्थे चतस्रश्चतस्र इत्युक्तं भवति ।
तदुक्तं (रुद्रयामले)
एकं द्वे त्रीणि चत्वारि जपेद्दिनचतुष्टये ।
प्। ११७६) पञ्चमे दिवसे प्रातर्होमं कुर्याद्विधानतः � इति ॥
अथ ब्राह्मणहोमद्रव्याप्युक्तानि (मेरुतन्त्रे)
पायसान्नैस्तु मध्वक्तैर्द्राक्षारम्भाफलैरपि ॥ १२-३९८ ॥
मातुलुङ्गैरिक्षुखण्डैर्नारिकेलैः पुरैस्तिलैः ।
जातीफलैराम्रफलै रम्यैर्मधुरवस्तुभिः ॥ १२-३९९ ॥
सप्तशत्या दशावृत्त्या प्रतिश्लोकं हुतं चरेत् ।
अयुतं च नवार्णेन स्थापितेऽग्नौ विधानतः ॥ १२-४०० ॥
होमविधौ यो विशेषः स चाग्रे वक्ष्यन्ते मया ।
कृत्वाऽवरणदेवानां होमं तन्नाममन्त्रतः ॥ १२-४०१ ॥
कृत्वा पुर्णाहुतिं सम्यग्देवमग्निं विसृज्य च ।
अभिषिञ्चेच्च यष्टारं विप्रौघः कलशोदकैः ॥ १२-४०२ ॥
अभिषेकमन्त्रास्तु ।
विश्वेश्वरीं जगद्धात्रीम् � इत्यादि ।
देव्या यया ततमिदम् � इत्यादि ।
नमो देव्यै महादेव्यै � इत्यादि ।
देवि प्रपन्नार्त्तिहरे प्रसीद � इति चत्वारः श्लोकाः ।
निष्कं सुवर्णमथ वा प्रत्येकं दक्षिणां दिशेत् ।
(मारीचिकल्पे तु)
पञ्चस्वर्णाः शतावृत्ते पक्षावृत्ते तु तत्त्रयम् ।
पञ्चावृत्ते स्वर्णमेकं त्रिरावृत्ते तदर्धकम् ॥ १२-४०३ ॥
एकावृत्ते पादमेकं दद्याद्वा शक्तितो बुधः � इत्युक्तम् ।
(कात्यायनीतन्त्रे)
एकैकं दशविप्रेभ्यो दद्याद्गोमिथुनं समम् ।
निष्कत्रयसमायुक्तं वस्त्रालङ्कारभूषितम् ॥ १२-४०४ ॥
प्। ११७७) (मेउतन्त्रे)
भोजयेच्च पृथग्विप्रान् भक्ष्यभोज्यैः पृथग्विधैः ।
तेभ्योऽपि दक्षिणां दत्वा गृह्णीयादाशिषस्तथा ॥ १२-४०५ ॥
एवं कृते जगद्वश्यं सर्वे नश्यन्त्युपद्रवाः ।
राज्यं धनं यशः पुत्रानिष्टमन्नं लभेत च ॥ १२-४०६ ॥
(कात्यायनीतन्त्रे)
यद्यत् कार्यं समुद्दिश्य क्रियते शतचण्डिका ।
तत् तत् तस्य महालक्ष्मीः सत्यमाशु प्रयच्छति ॥ १२-४०७ ॥
अथ सहस्रचण्डीविधानमुक्तं (मेरौ)
एतद्दशगुणं कुर्याच्चण्डीसाहस्रजं विधिम् ।
विद्यावतः सदाचारान् ब्राह्मणान् वृणुयाच्छतम् ॥ १२-४०८ ॥
प्रत्यहं चण्डिकापाठान् विदध्युस्ते दशामितान् ।
अयुतं प्रजपेयुस्ते प्रत्येकं नववर्णकम् ॥ १२-४०९ ॥
पूर्वोक्ताः कन्यकाः पूज्याः पूर्वमन्त्रैः शतं शुभाः ।
एवं दशाहं सम्पाद्य होमं कुर्युः प्रयत्नतः ॥ १२-४१० ॥
सप्तशत्याः शतावृत्त्यां प्रतिश्लोकं विधानतः ।
लक्षसङ्ख्यं नवार्णं च पूर्वोक्तैर्द्रव्यसञ्चयैः ॥ १२-४११ ॥
होतृभ्यो दक्षिणां दत्वा पूर्वोक्तान् भोजयेद्द्विजान् ।
सहस्रसम्मितान् साधून् देव्याराधनतत्परान् ॥ १२-४१२ ॥
एवं सहस्रसङ्ख्याते कृते चण्डीविधौ नृणाम् ।
सिद्ध्यत्यभीप्सितं सर्वं दुःखौघश्च विनश्यति ॥ १२-४१३ ॥
मारीदुर्भगरोगाद्या नश्यन्ति व्यसनोच्चयाः ।
(रुद्रयामले)
राज्यभ्रंशे महोत्पाते जनमारे महाभये ॥ १२-४१४ ॥
प्। ११७८) गजमारेऽश्वमारे च परचक्रभये तथा ।
इत्यादिविविधे दुःखे क्षयरोगादिजे भये ॥ १२-४१५ ॥
सहस्रचण्डिकापाठं कुर्याद्वा कारयेत् तथा ।
(मेरुतन्त्रे)
नेमं विधिं वदेद्दुष्टे खले चौरे गुरुद्रुहि ॥ १२-४१६ ॥
साधौ जितेन्दिये दान्ते वदेद्विधिमिमं परम् ।
एवं सा चण्डिका तुष्टा वक्तॄन् श्रोतॄन् प्ररक्षति ॥ १२-४१७ ॥
अथ होमविधिः ।
चतुरस्रे समे कुण्डे समन्ताद्धस्तमात्रके ।
एकावरणसंयुक्ते योनिमण्डलमण्डिते ॥ १२-४१८ ॥
दशांशविधिना होममुक्तहव्येन साधयेत् ।
नित्यचण्ड्यां नवचण्ड्यां कुण्डमेवंविधं स्मृतम् ॥ १२-४१९ ॥
एतद्द्विगुणितं कुण्डं शतचण्ड्यां प्रकीर्त्तितम् ।
संस्कारैरष्टभिः कुण्डं संस्कृत्याग्निं निधापयेत् ॥ १२-४२० ॥
कुण्डमध्ये भुवं दर्भैः परिमार्ज्य प्रलेपयेत् ।
प्रागग्राः स्रुवमूलेन रेखास्तिस्रः समुल्लिखेत् ॥ १२-४२१ ॥
पांशुमुद्धृत्य रेखाणामभ्युक्षणमतः परम् ।
कुण्डस्य पूजनं षष्ठः सप्तमः सप्तमुद्रया ॥ १२-४२२ ॥
अस्त्रावगुण्ठितं कुण्डे संस्कारश्चाष्टमः स्मृतः ।
अष्टमङ्गलनामानं कुण्डेऽग्निं सन्निधापयेत् ॥ १२-४२३ ॥
अत्र सर्वत्र मायाबीजमन्त्रः ।
चण्डिकापाठसम्पूर्णे ब्रह्माणं दक्षिणे द्विजम् ।
ततस्तदग्निमत् कुण्डं नववस्त्रेण भूषयेत् ॥ १२-४२४ ॥
कुण्डस्योत्तरतः स्थाप्या प्रणीता वारिपूरिता ।
प्। ११७९) प्रणीतापात्रतः सर्वे स्थाप्याः पात्रगणाः क्रमात् ॥ १२-४२५ ॥
आज्यस्थाली चरुस्थाली गव्यक्षीरसमन्विता ।
स्रुक्स्रुवौ च घृतं गव्यं तण्डुलाः कुशमूलकाः ॥ १२-४२६ ॥
पालाशाः समिधस्तिस्रः पूर्णपात्रमतः परम् ।
सप्तद्वीपेश्वरीं ध्यात्वा गृहीत्वा कुशमूलकम् ॥ १२-४२७ ॥
निःक्षिपेत् प्रोक्षणीपात्रे वारुणं बीजमुच्चरेत् ।
तेन दर्भसमूहेन शतसङ्ख्येन चेश्वरि ॥ १२-४२८ ॥
क्रमात् पात्राणि सम्प्रोक्षन् प्रोक्षणीपात्रवारिणा ।
आज्यपात्रे चरुस्थाल्यां निःक्षिपेद्घृततण्डुलम् ॥ १२-४२९ ॥
यथाक्रमेण कर्त्तव्यं ततोऽधिश्रयणं तयोः ।
आदौ वै पायसं कार्यं पर्यग्निकरणं तयोः ॥ १२-४३० ॥
सव्यं पालाशकाष्ठेन त्रिभिर्दर्भैश्च सोज्ज्वलम् ।
स्रुवयोः स्थापनं कृत्वा दक्षिणे स्थापनं कृतम् ॥ १२-४३१ ॥
उद्वास्य प्रथमं पूर्वादानीयाग्नेः प्रदक्षिणम् ।
कुण्डाचार्यान्तरे स्थाप्यं स्वबीजजपगौरवात् ॥ १२-४३२ ॥
स्वबीजं त्वमृतबीजम् ।
अभिघार्य स्वबीजेन वायव्ये स्थापयेच्चरुन् ।
तिष्ठन् पालाशसमिधो मौनी वैश्वानरे क्षिपेत् ॥ १२-४३३ ॥
कुशमुलकयुक्ताभिः प्रोक्षिण्यद्भिः प्रदक्षिणम् ।
पर्युक्ष्याग्निं प्रणीतायां निःक्षिपेत् कुशमूलकम् ॥ १२-४३४ ॥
निधाय दक्षिणं जानु भूमावग्निमुखं हुनेत् ।
अन्वारब्धस्रुवेणाज्यं निर्धूमे हव्यवाहने ॥ १२-४३५ ॥
प्रजापतिं महाकालीं महालक्ष्मीं सरस्वतीम् ।
प्। ११८०) एतदग्निमुखं प्रोक्तं मायाबीजपुरस्सरम् ॥ १२-४३६ ॥
संश्रवान् प्रोक्षणीपात्रे निःक्षिपेद्यज्ञसाधनान् ।
विदद्यात् कल्पितं होममुक्तेन हविषा शमी ॥ १२-४३७ ॥
कल्पितं सङ्कल्पितमित्यर्थः ।
ततः स्विष्टकृतं दद्याद्धविषा स्वोज्ज्वलेऽनले ।
मायाबीजं ब्रह्माणीमाहेश्वरीकौमारीवैष्णवीनारसिंही � ऐन्द्रीचामुण्डायै विच्चे विष्टेते स्वाहा ।
एष प्रोक्तो महादेवीमन्त्रः स्विष्टकृदाहुतौ ॥ १२-४३८ ॥
आज्येन नवाहुतिकं मायाबीजादिनामभिः ।
नन्दारक्तदन्तिकाशाकम्भरीदुर्गाभीमाभ्रामरीकालीशिवदूतीचामुण्डायै प्रजापतिभ्यः ।
गन्धपुष्पफलोपेतां कृत्वा यज्ञात्मिकां श्रुचम् ॥ १२-४३९ ॥
ततः पूर्णाहुतिं दद्याद्घृतेनाच्छिन्नधारया ।
नवाक्षरेण मन्त्रेण महालक्ष्मीपरायणः ॥ १२-४४० ॥
ध्यात्वा यज्ञपुरोडाशममृतं देवदुर्लभम् ।
प्रोक्षणीपात्रमध्यस्थान्मन्त्रेणाश्नाति संस्रवात् ॥ १२-४४१ ॥
यस्मात् प्राशस्तं संस्रवपुरोडाशं प्राश्नामि सुखपुण्यदम् � इति
मन्त्रः ।
सलिलेन प्रणीतायास्तीर्थध्यानपरायणः ।
करोति मार्जनं दर्भैः शतेन श्लोकपाठतः ॥ १२-४४२ ॥
याः शिवाः शक्तयो याश्च ताभिश्च सविता सह ।
याश्च याः सन्निधानस्थास्तास्ते कृण्वन्तु भेषजम् � इति ॥
संसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापतेः ।
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ॥ १२-४४३ ॥
प्। ११८१) अलक्ष्मीं मलरूपां याः सर्वभूतेषु संस्थितम् ।
क्षालयन्ति जलस्पर्शादापो देव्यः पुनन्तु माम् � इति मन्त्र ॥
अभिषिञ्चेदथात्मानं चतुर्भिश्चण्डिकास्तवैः ॥ १२-४४४ ॥
शूलेन पाहि नो देवीत्यादिश्लोकचतुष्टयम् ।
ऋत्विक्ककर्त्तृयजमानाभिषेके तु पूर्वोक्तश्लोकचतुष्टयमेव ।
दानं दद्याद्विधानेन हेमधेन्वम्बरादिकम् ॥ १२-४४५ ॥
सजपं होममावेद्य महालक्ष्मीं प्रणम्य च ।
शूलेन पाहि नो देवीत्येतैः श्लोकैः प्रक्षिणम् ॥ १२-४४६ ॥
विदध्यात् सुस्थिरो भूत्वा चण्डिकाध्यानतत्परः ।
इत्येतैः � शूलेन � इत्यादिभिः तैरस्मान्रक्ष सर्वतः � इत्यन्तैरित्यर्थः ।
नमो देव्या इति श्लोकैः पञ्चभिर्ध्यानतत्परः ॥ १२-४४७ ॥
कृत्वा पञ्चनमस्कारानुपविश्यासने शुभे ।
सर्वस्वरूपे इत्यादिषड्भिः श्लोकैः कृताञ्जलिः ॥ १२-४४८ ॥
प्रार्थयेज्जगतां धात्रीं प्रणतः सन् हृदीप्सितम् ।
स्वशरीरे समारोप्य दद्यादस्यै विसर्जनम् � इति ।
अनेन विधिना यस्तु प्रकुर्याच्चण्डिकार्चनम् ॥ १२-४४९ ॥
तस्य तुष्टा महालक्ष्मीः सर्वान् कामान् प्रयच्छति ।
इति होमविधिः ।
(प्रयोगसारे)
चण्डीपाठफलं राजन् शृणुष्व गदतो मम ॥ १२-४५० ॥
एकावृत्त्यादिपाठानां प्रत्यहं पठतां नृणाम् ।
सङ्कल्पपूर्वं सम्पूज्य न्यस्याङ्गेषु मनून् सकृत् ॥ १२-४५१ ॥
पश्चाद्बलिप्रदानेन फलमाप्नोति मानवः ।
उपसर्गोपशान्त्यर्थं त्रिरावृत्तं पठेन्नरः ॥ १२-४५२ ॥
प्। ११८२) ग्रहदोषोपशान्त्यर्थं पञ्चावृत्तं वरानने ।
महाभये समुत्पन्ने सप्तावृत्तमुदीरयेत् ॥ १२-४५३ ॥
नवावृत्त्याभवेच्छान्तिर्मुच्येत् प्राणार्त्तिजाद्भयात् ।
राजवश्याय भूत्यै च रुद्रावृत्तमुदीरयेत् ॥ १२-४५४ ॥
अर्कावृत्त्या कामसिद्धिर्वैरिनाशश्च जायते ।
मन्वावृत्त्या रिपुर्वश्यस्तथा स्त्रीवश्यतामियात् ॥ १२-४५५ ॥
सौख्यं पञ्चदशावृत्त्या श्रियं प्राप्नोति मानवः ।
कलावृत्त्या पुत्रपौत्रधनधान्यागमं विदुः ॥ १२-४५६ ॥
राजभीतिविनाशाय वैरस्योच्चटनाय च ।
कुर्यात् सप्तदशावृत्तं तथाऽष्टादशकं प्रिये ॥ १२-४५७ ॥
महार्णवविमोक्षाय विंशावृत्तं पठेन्नरः ।
पञ्चविंशावर्त्तनाच्च भवेद्बन्धविमोक्षणम् ॥ १२-४६० ॥
सङ्कटे समनुप्राप्ते दुश्चिकित्सामये तदा ।
जातिध्वंसे कुलच्छेदे आयुषो नाश आगते ॥ १२-४६१ ॥
वैरिवृद्धौ व्याधिवृद्धौ धननाशे तथा क्षये ।
तथैव त्रिविधोत्पाते तथा चैवातिपातके ॥ १२-४६२ ॥
कुर्याद्यत्नाच्छतावृत्तं ततः सम्पद्यते शुभम् ।
विपदस्तस्य नश्यन्ति अन्ते याति परां गतिम् ॥ १२-४६३ ॥
श्रियो वृद्धिः शतावृत्त्या राज्यवृद्धिस्तथा परा ।
मनसा चिन्तितं देवि सिद्ध्येदष्टोत्तराच्छतात् ॥ १२-४६४ ॥
शताश्वमेधयज्ञानां फलं प्राप्नोति सुव्रते ।
सहस्रावर्त्तन्यल्लक्ष्मीरावृणोति स्वयं स्थिरा ॥ १२-४६५ ॥
भुक्त्वा मनोगतान् कामान् नरो मोक्षमवाप्नुयात् ।
प्। ११८३) यथाऽश्वमेधः क्रतुषु देवानां च यथा हरिः ॥ १२-४६६ ॥
स्तवानामपि सर्वेषां तथा सप्तशतीस्तवः ।
नातः परतरं स्तोत्रं किञ्चिदस्ति वरानने ॥ १२-४६७ ॥
भुक्तिमुक्तिप्रदं पुण्यं पावनानां च पावनम् ।
अथवा बहुनोक्तेन किमेतेन वरानने ॥ १२-४६८ ॥
चण्डिकायाः शतावृत्त्याः सर्वाः सिद्ध्यन्ति सिद्धयः ।
(मेरुतन्त्रे)
कलौ न चण्डीसदृशी सिद्धदा भुवनत्रये ॥ १२-४६९ ॥
वामदक्षिणमार्गाभ्यामधिकारिफलप्रदा ।
तत्रादिमं चरित्रं तु रोगनाशाय योजयेत् ॥ १२-४७० ॥
उपसर्गविनाशाय मध्यमं योजयेद्बुधः ।
अन्त्यं विषमकामस्तु चरित्रं परिशीलयेत् ॥ १२-४७१ ॥
चरित्रद्वयशीलस्य न वंशश्छिद्येते क्वचित् ।
पठेदाद्यन्तचरितं विपत्तिस्तस्य नश्यति ॥ १२-४७२ ॥
अनाद्यं पठते यस्तु मारयेदचिराद्रिपून् ।
स्वार्थानुसारपद्यं च सप्तशत्यास्तु योजयेत् ॥ १२-४७३ ॥
यस्तन्मत्रेण पुटितं तत्प्रस्ताराङ्कसङ्ख्या ।
पठेच्चण्डीं तथाऽद्यन्ते स कामस्तस्य सिद्ध्यति ॥ १२-४७४ ॥
स्वशत्रून् दैत्यभावेन स्वमित्रान् देवताधिया ।
भावयन् योजयेच्चण्डीं त्रिसन्ध्यं मासमात्रकम् ॥ १२-४७५ ॥
मृता वा मृतकल्पा वा शत्रवः स्युर्न संशयः ।
सितपक्षतिमारभ्य चाष्टम्यन्तमिषस्य यः ॥ १२-४७६ ॥
जपेल्लक्षं मनुं खाद्यैस्त्रिमधुराप्लुतैः ।
प्। ११८४) प्रत्यहं पूजयेद्देवीं चण्डीमाद्यन्तयोः पठेत् ॥ १२-४७७ ॥
विप्रान् गुरुं समाराध्य वाञ्छितं लभते द्रुतम् ।
अथ (कात्यायनीतन्त्रो-)क्ताः कति चित् प्रयोगा लिख्यन्ते ।
प्रतिमन्त्रमाद्यन्तयोः प्रणवं � जपेन्मन्त्रसिद्धिः ।
सम्प्रणवव्याहृतित्रयमादावन्ते तु विलोमं तदित्येवं प्रतिश्लोकं कृत्वा शतावृत्तपाठेऽतिशीघ्रं सिद्धिः ।
प्रतिश्लोकमादौ जातवेदसे इति ऋचं पठेत् सर्वकामसिद्धिः ।
अपमृत्युवारणायादावन्ते च शतं त्र्यम्बकं जपेत् ।
प्रतिश्लोकं शरणागतदीनार्त्त � इति श्लोकं पठेत् सर्वकार्यसिद्धिः ।
प्रतिश्लोकं करोतु सा नः शुभ � इत्यर्धं पठेत् सर्वकामाप्तिः ।
स्वाभीष्टवरप्राप्त्यै एवं देव्या वरं लब्ध्वा � इति श्लोकं पठेत् ।
सर्वापन्निवरणाय प्रतिश्लोकं � दुर्गे स्मृता � इति पठेत् ।
अस्य केवलस्यापि श्लोकस्यापि कामानुसारेण लक्षमयुतं सहस्रं शतं वा जपः ।
सर्ववाधा � इत्यस्य लक्षजपे श्लोकोक्तं फलम् ।
इत्थं यदा यदा � इति श्लोकस्य लक्षजपे महामारीशान्तिः ।
ततो वव्रे नृपो राज्य � इति मन्त्रस्य लक्षजपे पुनः स्वराज्यलाभः ।
हीनस्ति दैत्यतेजांसि � इत्यनेन सदीपबलिदाने घण्टाबन्धने च बालग्रहशान्तिः ।
आद्यावृत्तिमनुलोमेन पठित्वा ततो विपरीतक्रमेण पुनरनुलोमेन वामावृत्तित्रय उक्तप्रकारेषु शीघ्रं सिद्धिर्भवति ।
सर्वापन्निवारणाय � दुर्गे स्मृता � इत्यर्धम् ।
ततो यदन्तिके यच्च दूरके � इत्यृचं तदन्ते � दारिद्र्यदुःख � इत्यर्धमेव कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः ।
मारणार्थम् एवमुक्त्वा समुत्पन्ना � इति प्रतिश्लोकं पठेत् । मारणोक्तावृत्तिभिः फलसिद्धिः ।
प्। ११८५) ज्ञानिनामपि चेतांसि � इति श्लोकत्रयमात्रेण सद्यो मोहनमित्यनुभव सिद्धम् ।
प्रतिमन्त्रं तच्छ्लोकपाठे त्ववश्यम् ।
रोगानशेषा � इति श्लोकस्य प्रतिश्लोकपाठे सकलरोगनाशः तन्मात्रजपेऽपि समं फलम् ।
इत्युक्त्वा सा तदा देवी गम्भीरा � इति श्लोकस्य प्रतिश्लोकपाठे यथा जपे वा विद्याप्राप्तिः वाग्वैकृतेर्नाशश्च ।
भगवत्या कृतं सर्वम् � इत्यादिद्वादशोत्तरशताक्षरो मन्त्रः सर्वकामदः सर्वापन्निवारणश्च ।
देवि प्रपन्नार्त्तिहरे � इति श्लोकस्य यथाकार्यं लक्षायुतसहस्रशतान्यमे जपे प्रतिश्लोकपाठे वा सर्वापन्निवृत्तिः सर्वकामाप्तिश्च ।
एषु प्रयोगेषु प्रतिश्लोकं दीपाग्रे केवलमेव वा नमस्कारकरणेऽतिशीघ्रं सिद्धिः ।
अत्र सर्वत्र प्रयोगे त्रयोदशपात्रेषु एकस्मिन्नेव पात्रे वा त्रयोदशदीपाः प्रदेयाः ।
प्रतिश्लोकं कामबीज � सम्पुटितस्यैकचत्वारिंशद्दिनं त्रिरावृत्तौ सर्वकामसिद्धिः ।
एकविंशतिदिनपर्यन्तमुक्तरीत्या प्रत्यहं दशावृत्तौ वशीकरणम् ।
मायाबीज � पुटितस्य फट्पल्लव � सहितस्य सप्तदिनपर्यन्तं त्रयोदशावृत्तपठने उच्चाटनसिद्धिः ।
तादृशस्यैव दिनचतुष्टयमेकादशावृत्तौ सर्वोपद्रवनाशः ।
एकोनपञ्चाशद्दिनपर्यन्तं प्रतिश्लोकं श्रीबीज � सम्पुटितस्य पञ्चदशावृत्तौ लक्ष्मी प्राप्तिः ।
प्रतिश्लोकं वाग्भवबीज � सम्पुटितस्य शतावृत्त्या विद्याप्राप्तिः ।
अथ परार्थे प्रयोगे �
ॐ पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रमाणो वसुनीथ यज्ञैः । घृतेन त्वं तन्ववर्धयस्व सत्याः सन्तु यजमानस्य कामाः ।
इति वैदिकमन्त्रं प्रत्यध्यायं प्रत्यावृत्ति वा पठेत् ।
नवार्णमन्त्रपुटितप्रयोगस्तु कमानामात्रे कर्त्तव्यः ।
तदुक्तं (वाराहीतन्त्रादौ)
शतमादौ शतं चान्ते जपेन्मन्त्रं नवाक्षरम् ॥ १२-४७८ ॥
प्। ११८६) चण्डीसप्तशतीमध्ये सम्पुटोऽयमुदाहृतः ।
सकामैः सम्पुटो जाप्यो निष्कामैः सम्पुटं विना ॥ १२-४७९ ॥
सर्वकामप्रसिद्ध्यर्थं नवार्णपुटितं जपेत् � इति ॥
अत्र नवार्णमन्त्रौ प्रसिद्धौ । तत्रैको दुर्गाप्रकरणे उक्तः ।
अन्यस्तु (वाराहीतन्त्रे)
वेदादिर्वाग्भवं चैव माया कामस्तथैव च ।
पृथ्वी रेफो वामनेत्रं नादविन्दुविभूषितम् ॥ १२-४८० ॥
माया कामो नमः पश्चान्मूलमन्त्र उदाहृतः ।
अस्य पुरश्चरणमपि तत्रैवोक्तम् ।
लक्षं जपेन्मूलमन्त्रं सर्वकामार्थसिद्धये � इति ।
(कात्यायनीतन्त्रे)
स्थितिक्रमो भुक्तिकामे मुक्तिकामे च संहृतिः ॥ १२-४८१ ॥
श्रीकामे पुष्टिकामे च सृष्टिक्रम उदाहृतः ।
सृष्टिक्रमादयश्च तत्रैवोक्ताः ।
आदिमारभ्य प्रजपेत् सृष्टिक्रम इहोच्यते ॥ १२-४८२ ॥
जपेच्छक्रादिमारभ्य शुम्भदैत्यबधावधि ।
आद्याच्छक्रादिपर्यन्तं स्थितिक्रम उदाहृतः ॥ १२-४८३ ॥
शेषमारभ्य आद्यन्तं संहारोऽयं क्रमो भवेत् ।
(मेरुतन्त्रे) चरित्रत्रयप्रयोगसङ्ख्यां यथाक्रममुक्त्वा �
एवं सप्तशतं चात्र प्रयोगाः परिकीर्त्तिताः ॥ १२-४८४ ॥
तस्मात् सप्तशतीत्येतत् प्रोक्तं व्यासेन धीमता ।
(कात्यायनीतन्त्रे) तु सप्तशतहोममन्त्रा एवास्य सप्तशतीत्वव्यवहारप्रयोजका इत्युक्तम् ।
ते च मन्त्रास्तत्रैव ।
मार्कण्डेय ऋषिप्रोक्तप्रथमश्लोकतः प्रिये ॥ १२-४८५ ॥
व्योमादिवर्णसम्भूतो द्वितीयस्वरसंयुतः ।
प्। ११८७) व्योम हकारस्तस्यादिः सकारः । द्वितीयस्वर आकारः । तेन सा इति ।
तथा ।
नृपान्तं प्रवदेन्मन्त्राः सर्वे चाष्टादश प्रिये ॥ १२-४८६ ॥
वैश्योवाच ततः श्लोका व्योमाद्याः पञ्च मन्त्रकाः ।
व्योमाद्य आद्यो येषामिति मृगनयनावत् समासः ।
नृपस्योक्तिर्मान्तवर्णो द्वादशस्वरसंयुतः ॥ १२-४८७ ॥
मान्तवर्णो यकारः । स च द्वादशस्वरेण ऐकारेण युक्तः ।
सकारो विन्दुसंयुक्तश्चान्ते स मनुरीदृशः ।
वैश्योवाच पुनर्देवि स्वरैकादश आदितः ॥ १२-४८८ ॥
स्वरैकादश एकारः ।
वह्निबीजं विन्दुयुक्तमन्ते स्यान्मनुपञ्चकम् ।
वह्निबीजं रमिति ।
मार्कण्डेय - ऋषिप्रोक्तं मन्त्रत्रयमुदाहृतम् ॥ १२-४८९ ॥
तादिवर्णं च भुवनस्वरयुग्वाहनं परम् ।
भुवनस्वर औ । तद्युक्तं वाहनं वौ इति ।
राजोवाचेति षण्मन्त्रा भादितान्ताः शुभानने ॥ १२-४९० ॥
अथोवाच ऋषिर्ज्ञानमस्तीत्यादि सुरेश्वरि ।
सर्वेश्वरेश्वरी चान्ते मन्त्रा वै द्वादश स्फुटाः ॥ १२-४९१ ॥
राजोवाचेति भगवन्नादिरन्ते विदां वरम् ।
मन्त्रत्रयमिदं ख्यातं तत ऋषिरुवाच ह ॥ १२-४९२ ॥
नित्यैव सा पदं चादौ प्रभुरन्तेऽष्टमन्त्रकाः ।
ब्रह्मोवाच ततश्च त्वं स्वाहादिश्च महासुरौ ॥ १२-४९३ ॥
अन्ते पञ्चदशैते स्युर्मन्त्राः स्युः परमेश्वरि ।
एवं स्तुतादि - ऋष्युक्तिवान्तमन्त्राश्च सप्त वै ॥ १२-४९४ ॥
प्। ११८८) ततो भगवदुक्तिश्च भवेतादिमनुद्वयम् ।
वञ्चितेति च ऋष्युक्तिर्मन्त्रौ द्वौ परमेश्वरि ॥ १२-४९५ ॥
ऋष्युक्तिश्च तथेत्यादि मन्त्रद्वयमुदाहृतम् ।
सर्वे श्लोकास्त्विहाध्याये अष्टयुक् सप्ततिः क्रमात् ॥ १२-४९६ ॥
मध्ये चतुर्विंशतिका अर्धमन्त्राः प्रकीर्त्तिताः ।
सर्वाश्चाहुतयो ज्ञेयाश्चतुरुत्तरकं शतम् ॥ १२-४९७ ॥
उवाचान्तास्तत्र बोध्याः मन्त्रा भुवनसङ्ख्यकाः ।
इति प्रथमचरित्रमन्त्रनिर्णयः ।
ईश्वर उवाच ।
द्वितीये ऋषिरुवाचेति नवषष्ट्याहुतिः क्रमात् ॥ १२-४९८ ॥
ततस्तृतीयेऽध्याये तु ऋषिरुवाचेति देशिकैः ।
षट्त्रिंशच्च तथा मन्त्राः श्लोका ज्ञेया वरानने ॥ १२-४९९ ॥
देव्युवाचेति मन्त्रान्ते मन्त्रः श्लोको मतः प्रिये ।
ऋषेरुक्तिः पुनः श्लोकाः पञ्च मन्त्राः सनातनाः ॥ १२-५०० ॥
एवमाहुतयस्तत्र चत्वारिंशच्चतुर्युतम् ।
चतुर्थे क्रमतो देवि ऋष्युक्तिः षट् च विंशतिः ॥ १२-५०१ ॥
पुनस्तथैव ऋष्युक्तिः श्लोकौ द्वौ मन्त्ररूपिणौ ।
एवं स्तुतेति मन्त्रोऽयमतिगुह्यः शुभानने ॥ १२-५०२ ॥
देव्युवाचेति व्रियतां मत्रोऽयं षोडशाक्षरः ।
देवा ऊचुस्ततश्चोक्त्वा भगवत्या कृतं वदेत् ॥
मन्त्रोऽयं शतवर्णाढ्यो द्वादशोत्तरयुक् पुनः ।
ततो - ऋषिरुवाचेति इति प्रसादितेति च ।
चतुःसङ्ख्यास्तु ते श्लोका मन्त्रास्तावन्त एव हि ॥ १२-५०३ ॥
प्। ११८९) श्लोकाश्चतुर्थेऽध्याये तु षट्त्रिंशत् परमेश्वरि ।
अर्धमन्त्रद्वयेनैव चत्वारिंशद्द्वियुक् पुनः ॥ १२-५०४ ॥
एवं मध्यचरित्रस्य पञ्चाशच्च शतोत्तरम् ।
तथा पञ्चशतं मन्त्रा महालक्ष्म्या विभेदतः ॥ १२-५०५ ॥
इति मध्यमचरित्रमन्त्रनिर्णयः ।
ऋषिरुवाच त्रिपुरा विष्णुमायां प्रतुष्टुवुः ।
षण्मन्त्राः श्लोकरूपास्ते देवा ऊचुस्ततः परम् ॥ १२-५०६ ॥
नमो देव्यादितः श्लोकास्त्रिंशद्विनम्रमूर्तिभिः ।
विष्णुमायादितो भ्रान्तिरूपान्ते त्रीणि षष्टियुक् ॥ १२-५०७ ॥
अवतारपृथङ्मन्त्रास्तेषां त्रिषष्टिराहुतीः ।
चितिरूपेण मन्त्रेण आहुतित्रयमाचरेत् ॥ १२-५०८ ॥
एवं मन्त्रा अशीतिस्ते ऋषिरुवाच इत्यथ ।
एवं स्तवादियुक्तानां त्वया कस्मान्न गृह्यते ॥ १२-५०९ ॥
मन्त्राः सप्तदशैते तु ऋष्युक्तिर्निशम्येति वै ।
इत्यादित्रितयैर्मन्त्रैः शुद्धभेदाः प्रकीर्त्तिताः ॥ १२-५१० ॥
अथ दूत उवाचेति देवि दैत्येश्वरः परम् ।
इत्यादिनवमन्त्राश्च पुना ऋषिरुवाच ह ॥ १२-५११ ॥
इत्युक्तेत्यादिमन्त्रेण एकेन च सरस्वती ।
देव्युवाचेति श्लोकास्तु चत्वारो मन्त्रभेदतः ॥ १२-५१२ ॥
दूत उवाचेति पुनरवलिप्ताऽसि इत्यथ ।
मन्त्राश्चत्वारो विज्ञेया देव्युवाच ततः परम् ॥ १२-५१३ ॥
एवमेतद्बली शुम्भो � स च युक्तं करोतु यत् ।
इति मन्त्रद्वयं श्लोका अर्धमन्त्राश्च ते नव ॥ १२-५१४ ॥
प्। ११९०) एकोनत्रिंशच्च शतादधिका मन्त्ररूपकाः ।
इति पञ्चमोऽध्यायः ।
ऋषिरुवाचेत्याकर्णेति श्लोकाश्चत्वार ईरिताः ॥ १२-५१५ ॥
पुना ऋषिरुवाचेति तेनाज्ञप्तस्ततः परम् ।
मन्त्रत्रयमिदं प्रोक्तं देव्युवाचेति वै तथा ॥ १२-५१६ ॥
दैत्येश्वरेण प्रहितो � एको मन्त्रः प्रकीर्त्तितः ।
ततश्च ऋषिरुवाच इत्य्क्तः सोऽभ्यधावत ॥ १२-५१७ ॥
इत्यादिद्वादशश्लोकाः षष्ठेऽध्याये प्रकीर्त्तिताः ।
चतुर्विंशतिभेदास्ता देवताहुतयः क्रमात् ॥ १२-५१८ ॥
इति षष्ठोऽध्यायः ।
ऋष्युक्तिराज्ञ � इत्यादित्रयोविंशतिमातरः ।
ऋषिरुवाच तावानीतौ मातृभेदद्वयं क्रमात् ॥ १२-५१९ ॥
सप्तविंशत्यत्र देवि भवन्त्याहुतयः क्रमात् ।
अत्राध्यायद्वये देवि धूम्राक्षी तु प्रकीर्त्तिता ॥ १२-५२० ॥
इति सप्तमोऽध्यायः ।
ऋषिश्चण्डे च निहते इत्याध्यायावसानकम् ।
त्रिषष्ठ्याहुतयः प्रोक्ता एका त्वर्धाहुतिर्मता ॥ १२-५२१ ॥
रक्ताक्षी देवता अष्टौ महाशक्त्यः प्रकीर्त्तिताः ।
इत्यष्टमोऽध्यायः ।
राजा विचित्रमित्यादि श्लोकद्वयमुदाहृतम् ॥ १२-५२२ ॥
ऋषिश्चकार कोपं हि इत्यादिश्लोकरूपतः ।
एकचत्वारिंशदिह आहुतिर्नवमे शुभे ॥ १२-५२३ ॥
देवता भैरवी तावच्छृणु गोप्यं वरानने ।
इति नवमोऽध्यायः ।
प्। ११९१) ऋषिर्निशुम्भनिहतमित्यादिद्वयमन्त्रकम् ॥ १२-५२४ ॥
ततो देवीति मन्त्रो द्वौ एकैवाहं मनूत्तमौ ।
पुनर्देव्येकमन्त्रेण व्यक्तमन्त्रा उदीरिताः ॥ १२-५२५ ॥
ऋषिस्ततः प्रववृते सार्धद्वाविंशतिस्त्वयम् ।
द्वात्रिंशन्मनवस्तत्र एको ह्यर्धमनुर्मतः ॥ १२-५२६ ॥
प्रथमं सिंहमासीना शूलपाशविधारिणी ।
मुख्या चतुर्भुजा बाणचापहस्ता शुभेक्षणा ॥ १२-५२७ ॥
इति दशमोऽध्यायः ।
ऋषिः सुमेधा विख्यातः प्रोक्तो देव्या हते शुभे ।
चतुस्त्रिंशत् तथा श्लोका मन्त्रास्तत्सङ्ख्यकाश्च ते ॥ १२-५२८ ॥
ततो देव्येकमन्त्रेण वरदाऽहं सुरेश्वरि ।
देवा ऊचुस्तथा सर्ववाधाप्रशमनं तथा ॥ १२-५२९ ॥
श्लोकेनैकेन देवेशि देव्युवाच ततः परम् ।
वैवस्वतेऽन्तरे प्राप्तेत्यादिश्लोकाश्चतुर्दश ॥ १२-५३० ॥
सार्धसर्वाहुतिर्देवि पञ्चाशत् पञ्चसंयुताः ।
वैष्णवी देवता ह्यत्र महागरुडवाहिनी ॥ १२-५३१ ॥
इत्येकादशोऽध्यायः ।
देव्युवाचेति च तत एभिः स्तवैश्च मां सदा ।
दूरेत्यर्धेन सहिता अष्टाविंशतिरूपकाः ॥ १२-५३२ ॥
ततश्च ऋषिरुवाच इत्युक्त्वा श्लोकमादितः ।
ऊर्धयुग्दशभिः श्लोकैर्मन्त्रास्तत्सङ्ख्यका मताः ॥ १२-५३३ ॥
एवं तु द्वादशाध्याये एकचत्वारिंशदाहुतीः ।
इति द्वादशोऽध्यायः ।
प्। ११९२) ततस्त्रयोदशेऽध्याये ऋषिरुवाच इत्यथ ॥ १२-५३३ ॥
एतत् ते कथितं भूपेत्यादिसार्धत्रयं मनुः ।
मनुचतुष्टयमित्यर्थः ।
मार्कण्डेय उवाचेति ततो वव्रे मनुद्वयम् ॥ १२-५३४ ॥
देव्युवाच पुनश्चैव स्वल्पश्लोकत्रयेण वै ।
अर्धानामेव मन्त्रत्वाद्भवत्यत्र षडाहुतिः ॥ १२-५३६ ॥
षट्सङ्ख्याहुतिरित्यर्थः ।
ततो मार्कण्डेय उवाचेति दत्वा तयोरिति ।
द्वौ मन्त्रौ पुनरुच्चार्य सावर्णिर्भविता मनुः ॥ १२-५३७ ॥
एकोनत्रिंशत्सङ्ख्याकाऽहुतिरत्र विधीयते ।
एवं त्रयोदशाध्याये होमे तर्पणकर्मणि ॥ १२-५३८ ॥
शतानि सप्तसङ्ख्यानि तव प्रोक्तानि शैलजे ।
सकारादिनकारान्तो मनुः परमदुर्लभः ॥ १२-५३९ ॥
स सम्प्रदायविधिना ज्ञातव्यो मम वल्लभे ।
अन्यथा विफलो मन्त्रः सत्यं सत्यं मयोदितः ॥ १२-५४० ॥
विधिनेति । अष्टम्यां वा चतुर्दश्यामिति कीलकेनेत्यर्थः । तत्र होमे स्वाहान्ता एते मन्त्राः पूजायां नमोऽन्ताः । तर्पणे तर्पयाम्यन्ताः ।
केचित् तन्मन्त्रं पठित्वा तत्तदध्यायदेवतायै स्वाहा � इत्येवम् ।
तत्तदध्यायहोमे तत्तदध्यादेवतां तर्पयामि � इति तर्पणे ।
तत्तदध्यायदेवतायै नमः � इति पूजने इत्याहुः ।
एवं होमाशक्तौ ।
जयन्ती � मन्त्रेण नमो देव्या इति मन्त्रेण सर्वमङ्गल � इति मन्त्रेण वा होमपूजातर्पणानि ।
जुहुयात् स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः � इत्यपि (रहस्ये) ।
आदौ तु कवचं कृत्वा पश्चात् सप्तशतीं जयेत् � इत्यादिवचनात् ।
प्। ११९३) कवचपाठे क्रियमाणे तच्छ्लोकैराहुतयो न देयाः ।
अन्धकश्च पुरा दैत्यो दुर्गाहोमपरायणः ।
कवचाहुतिमन्त्रेण महेशेन निपातितः � इति तन्त्रान्तरवचनात् ।
कवचं चात्रशूलेन पाहिनो देवि � इत्यादिश्लोकचतुष्टयरूपमिति केचित् । तत्र (कात्यायनीतन्त्र-) विरुद्धे (कात्यायनीतन्रो-)क्तमन्त्रविभाग एवाभियुक्तैः स्पष्टीकृत्याभिदर्शितः ।
तथा हि ।
अष्टसप्तत्युत्तरं तु श्लोकानां शतपञ्चकम् ॥ १२-५४१ ॥
प्रोक्तं सप्तशतीस्तोत्रे तत्सप्तशतसङ्ख्यया ।
विभज्य जुहुयान्मन्त्रमिति कात्यायनीमतम् ॥ १२-५४२ ॥
मार्कण्डेय उवाचैकः सावर्ण्याद्यास्ततः परम् ।
श्लोकमन्त्राः सप्तदश अर्धश्लोकात्मकस्ततः ॥ १२-५४३ ॥
एकोनविंशदेवं स्युर्वैश्योक्तिर्विंशतिस्तथा ।
पुनरर्धं पुनः श्लोकं त्रयमर्धं पुनर्भवेत् ॥ १२-५४४ ॥
पञ्चविंशतिसङ्ख्या स्याद्राजा षड्विंशतिस्तथा ।
अर्धश्लोकात्मकं मन्त्रद्वयमर्धं पुनर्भवेत् ॥ १२-५४५ ॥
एकोनत्रिंशदेवं तु मन्त्रसङ्ख्याः प्रकीर्त्तिताः ।
पुनरर्धं पुनः श्लोकत्रयमर्धं पुनर्भवेत् ॥ १२-५४६ ॥
मार्कण्डेयः पुनश्चार्धश्लोकः श्लोकात्मकः पुनः ।
अर्धश्लोकात्मको मन्त्रो राजार्धश्लोकमन्त्रकः ॥ १२-५४७ ॥
मन्त्राश्चत्वारिंशदेव श्लोकमन्त्रचतुष्टयम् ।
पुनरर्धमृषिश्चार्धश्लोकमन्त्राः पुनर्दश ॥ १२-५४८ ॥
पुनरर्धं पुना राजा एकोना षष्टिरुच्यते ।
पुनरर्धं पुनः श्लोकः पुनरर्धं पुना ऋषिः ॥ १२-५४९ ॥
प्। ११९४) पुनरर्धं पुनः श्लोकाः षण्मन्त्राः पुनरर्धकाः ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १२-५५० ॥
इत्येव पाठो मन्त्राणामेकसप्ततिरुच्यते ।
ब्रह्मार्धश्लोकमन्त्रोऽथ श्लोकमन्त्रास्त्रयोदश ॥ १२-५५१ ॥
अर्धश्लोकः पुनः श्लोक ऋषिः श्लोकास्तु पञ्च वै ।
पुनरर्धं तु मन्त्राणां सपञ्चनवतिः स्मृताः ॥ १२-५५२ ॥
भगवानर्धमन्त्रौ द्वौ ऋषिः श्लोकार्धकं पुनः ।
श्लोकः पुना ऋषिः श्लोकद्वयं मन्त्रद्वयं भवेत् ॥ १२-५५३ ॥
श्लोकानामष्टसप्तत्या चतुर्भिरधिकं शतम् ।
अध्यायादावेव ऋषिरुवाचेति सकृन्मनुः ॥ १२-५५४ ॥
अष्टषष्टिमिताः श्लोकास्तावन्तो मनवो मताः ।
एकोनसप्ततिः सर्वेऽध्याये मन्त्रा द्वितीयके ॥ १२-५५५ ॥
आदावृषिरुवाचैकं पञ्चविंशत् ततः परम् ।
निहन्यमानाद्याः श्लोका मुखरागाकुलाक्षराः ॥ १२-५५६ ॥
इत्यन्ता देव्युवाचैको गर्ज गर्जेति चापरः ।
श्लोको - ऋषिरुवाचेति पुनश्च श्लोकपञ्चकम् ॥ १२-५५७ ॥
चतुश्चत्वारिंशदैवं सर्वे मन्त्रास्तृतीयके ।
आदावृषिरुवाचेति शक्राद्याः श्लोकमन्त्रकाः ॥ १२-५५८ ॥
षड्विंशास्तु ऋषिः श्लोकद्वयं देवी ततः परम् ।
व्रियतां त्रदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ॥ १२-५५९ ॥
इत्यर्धश्लोकमन्त्रोऽथ देवा उचुस्ततः परम् ।
भगवत्या कृतं सर्वमित्यर्धश्लोकमन्त्रकः ॥ १२-५६० ॥
यदयं नियताद्यं च श्लोकमन्त्रत्रयं भवेत् ।
प्। ११९५) ऋषिश्लोकास्तु चत्वारो मनवः परिकीर्त्तिताः ॥ १२-५६१ ॥
षट्त्रिंशच्छ्लोककेऽध्याये चत्वारिंशद्द्वयाधिकम् ।
षट्सप्ततिश्लोकयुक्तेऽध्याये मन्त्रास्तु पञ्चमे ॥ १२-५६२ ॥
एकोनत्रिंशदधिकं शतं कात्यायनीमते ।
आदौ ऋषिरुवाचेति पुरा शुम्भादयश्च षट् ॥ १२-५६३ ॥
श्लोकमन्त्रास्ततो देवा ऊचुश्चैवाष्टमो मनुः ।
नमो देव्यादिकाः श्लोकाः पञ्च मन्त्राः प्रकीर्त्तिताः ॥ १२-५६४ ॥
त्रयोदशैव मन्त्रास्तु या देवीत्यादयोऽपि च ।
एकविंशतिकाः श्लोका भ्रान्त्यन्तास्तेषु मन्त्रकाः ॥ १२-५६५ ॥
प्रतिश्लोके त्रयो मन्त्रा ज्ञेयास्ते च त्रिषष्टिकाः ।
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ॥ १२-५६६ ॥
नमस्तस्यै इति प्रोक्तो विंशत्यक्षरको मनुः ।
नमस्तस्यै इति प्रोको द्वितीयश्चतुरक्षरः ॥ १२-५६७ ॥
अष्टाक्षरस्तृतीयोऽपि नमतस्यैव नमो नमः ।
एवं द्वांविंशतिश्लोके ज्ञेयं मन्त्रत्रयं बुधैः ॥ १२-५६८ ॥
पुनः श्लोकात्मको मन्त्रस्त्रिमन्त्रः श्लोककः पुनः ।
त्रयोविंशच्छ्लोककेषु मन्त्रा वै सप्तषष्टिकाः ॥ १२-५६९ ॥
पूर्वैस्त्रयोदशैर्मन्त्रैः सहाशीतिरुदाहृता ।
स्तुता सुरैरिति श्लोकद्वयं चैव पुना ऋषिः ॥ १२-५७० ॥
पुनः सप्तदशश्लोका ऋषिः श्लोकत्रयं ततः ।
दूतश्चैव नव श्लोका ऋषिरेकोऽम्बिका ततः ॥ १२-५७१ ॥
एक इत्यस्यैकश्लोकः इत्यर्थः ।
चतुःश्लोकी पुनर्दूतश्चतुःश्लोकी पुनः शिवा ।
प्। ११९६) श्लोकद्वयं मिलित्वा तु चत्वारिंशन्नवाधिकम् ॥ १२-५७२ ॥
अशीत्याऽपि च संयोग एकोनत्रिंशताऽधिकम् ।
शतमेवं तु विज्ञेयमाहुतीनां च पञ्चमे ॥ १२-५७३ ॥
विंशतिश्लोकसंयुक्ते षष्ठेऽध्याये प्रकीर्त्तिता ।
सर्वे श्लोका मन्त्ररूपा देव्ये काऽथ ऋषित्रयम् ॥ १२-५७४ ॥
चतुर्विंशतिमन्त्राणामित्येवं परिकीर्त्तितम् ।
पञ्चविंशच्छ्लोकयुक्तेऽध्याये मन्त्रास्तु सप्तमे ॥ १२-५७५ ॥
सर्वे मन्त्राः श्लोकरूपा ऋष्युवाचद्वयं ततः ।
सप्तविंशतिरेवं तु मन्त्रसङ्ख्या प्रकीर्त्तिता ॥ १२-५७६ ॥
सार्धैकषष्टिश्लोकाद्येष्टमेऽध्याये प्रकीर्त्तिताः ।
एकषष्टिश्लोकमन्त्रा अन्तेऽर्धश्लोकमन्त्रकः ॥ १२-५७७ ॥
आदावेक ऋषिश्चैव त्रिषष्टिर्मन्त्रसन्ततिः ।
एकोनचत्वारिंशद्भिः श्लोकैर्युक्ते समीरिताः ॥ १२-५७८ ॥
अध्याये नवमे मन्त्रास्तावन्तोऽथ मनुद्वयम् ।
राजा ऋषिश्चेति चैकचत्वारिंशन्मनुस्त्वयम् ॥ १२-५७९ ॥
सार्धसप्तान्वितैर्विंशच्छ्लोकैस्तु दशमेऽन्विते ।
सप्तविंशतिमन्त्रास्तु श्लोकरूपास्ततोऽन्तिमः ॥ १२-५८० ॥
अर्धश्लोकात्मको मन्त्र ऋष्युवाचद्वयं तथा ।
देव्युवाचद्वयं चैव द्वात्रिंशन्मन्त्रसङ्ग्रहः ॥ १२-५८१ ॥
श्लोकानां सार्धपञ्चाशज्ज्ञेयमेकादशे स्फुटम् ।
पञ्चाशच्छ्लोकमन्त्रास्तदन्तेऽर्धश्लोकमन्त्रकः ॥ १२-५८२ ॥
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
एषोऽर्धमन्त्र इत्याहुः केचिदत्र विचक्षणाः ॥ १२-५८३ ॥
प्। ११९७) देवीद्वयमृषिश्चैको देवा एकमितीरितम् ।
पञ्चाधिकं तु पञ्चाशन्मन्त्रा ज्ञेयाः परिस्फुटम् ॥ १२-५८४ ॥
अष्टत्रिंशच्छ्लोकयुक्तेऽप्यध्याये द्वादशात्मके ।
चत्वारिंशच्च एकश्च मन्त्रास्तत्राहुतिद्वयम् ॥ १२-५८५ ॥
अर्धश्लोकात्मकं श्लोकाः सप्तत्रिंशन्मिता ऋषिः ।
देव्युवाचेति चैवैकमेवं सङ्ख्या स्फुटोदिता ॥ १२-५८६ ॥
त्रयोदशे सार्धसप्तदशश्लोकाः प्रकीर्त्तिताः ।
ऋषिरुवाचेत्यारभ्य भोगस्वर्गापवर्गदाः ॥ १२-५८७ ॥
इत्यन्ताः पञ्चमन्त्रास्ते मार्कण्डेयस्ततः परम् ।
इति तस्य वचः श्रुत्वेत्यर्धमन्त्रः प्रकीर्त्तितः ॥ १२-५८८ ॥
श्लोकमन्त्रास्ततो ज्ञेयाः पञ्चैवाथार्धमन्त्रकम् ।
देव्युवाचेति मन्त्रोऽयं ततः श्लोकस्तु मन्त्रकः ॥ १२-५८९ ॥
मार्कण्डेयस्ततो मन्त्रः श्लोकौ मन्त्रद्वयं ततः ।
ततो देवीषडर्धानि सप्त मन्त्राः प्रकीर्त्तिताः ॥ १२-५९० ॥
मार्कण्डेयस्ततः पश्चाद्द्वयं मन्त्रद्वयं स्मृतम् ।
आवृत्त्या त्वधिको मन्त्रः सावर्णिर्भविता मनुः ॥ १२-५९१ ॥
एकोनत्रिंशत्सङ्ख्याका मन्त्रा अत्र स्मृता बुधैः � इति ।
अथ प्रसङ्गात् प्रश्नविधिरुच्यते (तन्त्रविधानमुक्तावली-)धृतवचनानि ।
त्रयोदशदलं पद्मं लिखित्वा सुमनोहरम् ।
एकाङ्कादिक्रमेणाङ्कैर्दलानि परिपूरयेत् ॥ १२-५९२ ॥
प्रत्यध्याये श्लोकसङ्ख्याः पृथग्लेख्याश्च पङ्क्तिशः ।
पूजयेत् पुस्तके दुर्गां नवर्णेन विधानवित् ॥ १२-५९३ ॥
देवि दुर्गे नमस्तुभ्यं सर्वज्ञे सर्वदर्शिनि ।
प्। ११९८) सिद्धिकार्यस्य वा सिद्धिं सत्यं मन्त्रं प्रदर्शय ॥ १२-५९४ ॥
एवं सम्प्रार्थ्य वा फलं वाऽक्षतमेव वा ।
कुमार्या वा शिशोर्हस्तादध्यायाङ्के निधाययेत् ॥ १२-५९५ ॥
विदित्वा चैवमध्यायं तत्पद्याङ्के निधापयेत् ।
श्लोकं ज्ञात्वा ततो मन्त्री वाचयीत स्फुटाक्षरम् ॥ १२-५९६ ॥
श्लोकस्यार्थानुसारेण ज्ञेयं विज्ञैः शुभाशुभम् ।
वरदानार्थकाः श्लोका देवीतुष्ट्यर्थकाश्च ये ॥ १२-५९७ ॥
त्राणाभ्युपगमार्थाश्च भाविभव्यार्थकाश्च ये ।
देवोत्सवाभिधेया ये श्लोकास्ते सिद्धिसूचकाः ॥ १२-५९८ ॥
दैत्यानां सङ्ख्ययो यत्र देवीविक्रमवर्णनम् ।
अमर्षवर्णनं देव्या असुरेषु रणाजिरे ॥ १२-५९९ ॥
एवं विधाश्च ये श्लोकाः सङ्ग्रामविजयप्रदाः ।
प्रार्थनार्थाश्च ये श्लोकाः स्तोत्ररूपास्तथैव च ॥ १२-६०० ॥
सूचयन्ति च ते सिद्धिं दीर्घकालविलम्बिनीम् ।
यदि स्यादुत्तरश्लोको वरदानार्थकस्तथा ॥ १२-६०१ ॥
सिद्धिमीदृगपि श्लोकस्तुर्णमेवाभिशंसति ।
आपदो वर्णनं तस्या वेदनं च सुपर्वणाम् ॥ १२-६०२ ॥
भूभृद्विशोश्च संवादो वर्णनं विपदस्तयोः ।
दूतवाक्यं च दैत्यानां विक्रमस्य च वर्णनम् ॥ १२-६०३ ॥
प्रयाणवर्णनं तेषां कार्यनाशस्य सूचकम् ।
आपद इति सुपर्वणामापदो वर्णनमित्यन्वयः । तस्या आपदो वेदनं ज्ञानं कथनमिति यावत् ।
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ॥ १२-६०४ ॥
विचरन्ति � इत्यदिरूपमित्यर्थः ।
प्। ११९९) केचिदिष्टमनिष्टं वा श्लोकानावेदयन्ति च ।
तादृशश्लोकलाभे तु पुनः प्रश्नं समाचरेत् ॥ १२-६०५ ॥
इति सप्तशतीप्रकरणम् ।
अथ प्राणायामपुरश्चरणं तदुक्तं (सिद्धान्तसङ्ग्रहे)
अथातः सम्प्रवक्ष्यामि प्राणायामपुरस्क्रियाम् ।
बद्धपद्मासनो मन्त्री समकायशिरोऽधरः ॥ १२-६०६ ॥
वशीकृतेन्द्रियग्रामो नाकुलः कम्पवर्जितः ।
मूलाधारेऽनाहते वा भ्रूमध्ये वा स्वपङ्कजे ॥ १२-६०७ ॥
मन्त्रं ज्योतिर्मयं ध्यायेद्येनासौ प्राणसंयमः ।
प्राणसंयमः प्राणायामो येन मन्त्रेण कर्त्तव्य इत्यर्थः ।
तथा ।
तत्स्वरूपं शिवं ध्यायेत् पूर्वोक्तेनैव वर्त्मना ॥ १२-६०८ ॥
प्राणायामं चरेद्धीमान् पूरकादिकलक्षणम् ।
शिवमिति प्रकृतदेवताभिप्रायेण ।
तथा ।
प्रातःकालं समारभ्य यावद्यामद्वयं भवेत् ॥ १२-६०९ ॥
हविष्यान्नैस्तथा नक्तं प्रकुर्याद्भोजनं मितम् ।
न कुर्याद्योषितां स्पर्शं न पश्येत् पामरं जनम् ॥ १२-६१० ॥
शुद्धभूमौ कुशास्तीर्णे शयीत विजितेन्द्रियः ।
एवं लक्षमितं कुर्यात् प्राणायामं विचक्षणः ॥ १२-६११ ॥
ततो होमादिकं कुर्यात् पुरश्चर्योक्तवर्त्मना ।
भोजनं कारयेद्विप्रान् गुरुं सन्तोषयेत् तथा ॥ १२-६१२ ॥
एवं कृत्वा सर्वपापनिर्मुक्तः शुद्धविग्रहः ।
मन्त्रसिद्धिमवाप्नोति योगसिद्धिं विशेषतः ॥ १२-६१३ ॥
अणिमाद्यष्टसिद्धीनामपि स्यादाश्रयस्तु सः ।
प्। १२००) यन्मन्त्रं साधयेन्मन्त्री स मन्त्रस्तस्य सिध्यति ॥ १२-६१४ ॥
इति प्राणायामपुरश्चरणम् ।
अथ पुरश्चरणव्यतिरिक्तेन मन्त्रसिद्धिप्रकारो (वीरतन्त्रे)
अथ सम्यक् प्रवक्ष्यामि गुरुसिद्धिपरम्पराम् ।
एवं ज्ञात्वा विशेषज्ञो गोपयेत् प्रीतये मम ॥ १२-६१५ ॥
एतत्प्रकाशनाल्लोके महाहानिः पदे पदे ॥ १२-६१५एफ़् ॥
शिवशिखिशीतभानुं पञ्चमान्त्यस्वराढ्यं
द्वितयमिदमपूर्वं बीजमुग्रप्रभायाः ।
क्षणमपि रमणीनां मण्डलान्तर्विभाव्य
क्षपयति दुरदृष्टं वादिराड्जायते सः ॥ १२-६१६ ॥
शिवो हकारः । शिखी वह्निस्तद्बीजं रेफः । सितभानुरनुस्वारः । पञ्चमान्त्यस्वर उकारस्तेन हुमिति प्रणवादिवह्निजायान्तस्योग्रप्रभामन्त्रस्य द्वितीयं बीजमित्यर्थः ।
तथा ।
स जयति रिपुवर्गान् वादिराजान् विवादे
रमयति रमणीनां चित्तचौरश्चिरायुः ।
कवयति कविराजैरप्यदृष्टं सुकाव्यं
मधुमतिरपि हेया किं पुनः सिद्धिसङ्घाः ॥ १२-६१७ ॥
कुलयुवतिसुयोनौ मन्त्रवर्णान् विलिख्य
निखिलनिगमवर्णान् सुप्तदोषादिदुष्टान् ।
विदितगुरुकुलान्तर्बाह्यवर्त्मा विधिज्ञो
मधुपुटितपटीयान् भावयेच्छान्तचित्तः ॥ १२-६१८ ॥
कुलपथमनुसन्ध्यातर्पणासक्तचित्त �
स्तव जननि जनो यस्तर्पयेत् तीर्थतोयैः ।
स किल सुरतपुष्पैर्गन्धमाल्यानुरूपै
प्। १२०१) रचितयुवतिवेशस्तद्धिया ध्यायते सः ॥ १२-६१९ ॥
परिचरति समस्तैर्न्यासपूर्वैः प्रसिद्धैः
स्तवपरिकरजालैर्योनिचक्रे प्रपूज्य ।
सुविमलकुलजातां ह्रीघ्रिणावर्जितां यः
स्वयमपि रचिताङ्गः क्षोभकृद्योगिनीनाम् ॥ १२-६२० ॥
पशुरिपुकुलचक्रे संस्पृशन्मध्यशाखं
सुरतरुसुरनाथः पापभ्रष्टसुवेशः ।
कुलपतिकुलनाथस्तद्द्वयं योजयित्वा
मनुपुटितविमृष्यं योजयेत् तद्बहिर्यः ॥ १२-६२१ ॥
जननि तव कलानां को विदां कामरूपः
कुमतिरहितचित्तः संलिखेत् तान्त्रिधारे ।
विगतभयविवादध्वान्तजालः सुधांशु �
स्तव चरणतलान्तर्धृत्यजालैर्विधेयः ॥ १२-६२२ ॥
परिकलितवपुस्तद्धर्मभिर्देवपूज्यैः
परिचरति स विज्ञो मोक्षचर्याधिया सः ।
मदनमदवधूनां बीजमुद्धृत्य शक्तिं
तदनु कठतबीजं लोकधात्रीं तदन्तः ॥ १२-६२३ ॥
यदि जपति मदन्तर्भावमासाद्य सद्यः
सुरनगरगतिस्तैः सिद्धवर्गैः स पूज्यः ।
शिवभृगुमदपृथ्वीशक्तियुक्तं सुसिद्धो
हरिहरचतुरास्यस्वस्वभूतिप्रभूतम् ॥ १२-६२४ ॥
परमवरदसञ्ज्ञः क्षोभकृत् कामिनीना �
मधिपतिरपि वाचां श्रीपतिः सार्वभौमः ।
प्। १२०२) भृगुमदकथिताधः कामबीजं तदग्रे
भुवनभयविनाशः क्षोभिणीं योजयित्वा ॥ १२-६२५ ॥
जपति यदि सकृद्वा चिन्त्यते वीरसिंहः
कुलयुवतिकुलान्तः क्षोभकृत् कामभावात् ।
मदनमदलताधः शक्तिबीजं नियोज्य
स्मरहरहरिरूपी कामरूपः कुवेरः ॥ १२-६२६ ॥
रिपुकुलहरिणाक्षीलोचनाम्भोजविद्यु �
द्विपुलजननिषेकात् खण्डितान्तोग्रतापः ।
शिवभृगुमदमूलं लोभमूलं भजन्ति
यदि विविधगुरूणां वर्त्ममूलं विमृष्य ॥ १२-६२७ ॥
निधिपतिरपि नाथो गीष्पतिर्भद्रचेता
यदि भवति तदेतन्मुख्यमुर्वोपतित्वम् ।
वरुणवलविवर्जं घ्राणमेकं विवर्जं
तदुपरि मृगचिह्नं द्वन्द्वमेतद्भवान्याः ॥ १२-६२८ ॥
निखिलमुनिवराणां मोक्षदानैकदक्षः
सदसतसमधर्मा क्षेमकृन्मन्त्रराजः ।
शिवशमनययुक्तं बीजमेतद्भवान्या
अनलशिवसधर्माश्चादिराजं स्वतन्त्रम् ॥ १२-६२९ ॥
तव समनययुक्तं बीजमेतद्भवान्या
द्वितयमपि विमानं वक्तुमोशो महेशः ।
किमिह कमलजन्मा जन्मधारासहस्रै �
रिति भजति नराणां मन्त्रराजं स्वभाग्यै ॥ १२-६३० ॥
भवति जननि युष्मत्पादपद्मोयभक्त �
प्। १२०३) स्त्यजसि परपुमांसं नेदृशं क्वापि काले ।
न खलु वपुपुरर्घ्यं तस्य काचित् कदाचि �
न्निहितगुरुमुखाद्वा प्राप्य कस्मादकस्मात् ॥ १२-६३१ ॥
स्मररिपुपुरपारे मोक्षचर्यास्वपारे
परमपदविलीनः सर्वसौभाग्यभोगैः ।
अनलपुरविभागे कालिकारन्ध्रबीजं
तदपि यदि विदध्याद्दिक्षितं दण्डवर्णम् ॥ १२-६३२ ॥
नयनयुतलकारं मस्तके नामयुक्तं
तदनु विकटदंष्ट्रासोत्कटं बीजयुक्तम् ।
यदि जपति समस्तं गुह्यगुह्यातिगुह्यं
त्रिजगति किमिहास्ते क्लेशलभ्यं कथं चित् ॥ १२-६३३ ॥
क्रमपचितमपूर्वं सर्वमेवानुबद्ध्यं
मनुरपरविभाव्यस्तस्य मध्यस्थरूपम् ।
भजति यदि चिदानन्दात्मधृक् केवलोऽसौ
विविधभुवनमुख्यः कौतुकी मानमुख्यः ॥ १२-६३४ ॥
इति ते कथितं सर्वं रहस्यं परमाद्भुतम् ।
यथानुक्रमतो लोके किं न साध्यति योगिराट् ॥ १२-६३५ ॥
अथ भैरवसाधनं (मेरुतन्त्रे)
अथातः सम्प्रवक्ष्यामि नानाभैरवसाधनम् ।
श्मशाने ते तु तिष्ठन्ति काले काले पुरे पुरे ॥ १२-६३६ ॥
नियमं कं चिदेकं यो न त्यजेद्धर्मगर्भितम् ।
वाममार्गादिनिरतोऽप्यद्वेष्टेतरवर्त्मनाम् ॥ १२-६३७ ॥
हीने गुरावपूर्णे वा साधने लोकभीतितः ।
स भवेद्भैरवो देवस्तस्य देशस्य शासकः ॥ १२-६३८ ॥
प्। १२०४) तत्रत्यभूतवेतालाः सदा संसेवयन्ति तम् ।
स्वमार्गप्रच्युतानां स शासनं कुरुते सदा ॥ १२-६३९ ॥
क्षीणकर्मणि तस्मि।श्च गते ग्रामो विलीयते ।
अन्यस्मिन् भैरवे जाते ग्रामो वसति निश्चितम् ॥ १२-६४० ॥
यदाम्नायो भैरवोऽसौ तच्छासनं तु तद्दिशि ।
तेन मार्गेण वशयेत् कार्यार्थं भैरवं तु तम् ॥ १२-६४१ ॥
वाग्रमाकायमायाख्यास्तारो बीजं क्रमाद्भवेत् ।
पूर्वाद्यूर्ध्वान्तकानां तदाम्नायानां क्रमेण च ॥ १२-६४२ ॥
आम्नायबीजं ग्रामस्य बीजं भ्रा। भैरवस्य च ।
ग्रामनाम ततः प्रोच्य पितृगेहे निवासिने ॥ १२-६४३ ॥
ततस्तेषां मनुमिमं जपेद्दशसहस्रकम् ।
निशि श्मशाने च बलिं तदाम्नायोक्तवर्त्मना ॥ १२-६४४ ॥
जपादौ च जपान्ते च नित्यं दद्यादनन्यधीः ।
वटुकोक्तं हुनेद्गव्यं तर्पणादि ततश्चरेत् ॥ १२-६४५ ॥
एवं सिद्धमनुर्मन्त्री भूतानां निग्रहक्षमः ।
तस्मिन् देशे भवेत् तस्य प्रत्यक्षीकरणं शृणु ॥ १२-६४६ ॥
कृतनित्यक्रियः प्रातः सोपवासो जितेन्द्रियः ।
सायं सन्ध्यादिकं कृत्वा शान्तिपाठं विधाय च ॥ १२-६४७ ॥
प्रगृहीत्वा च सामग्रीं सायं सोत्तरसाधकः ।
व्रजेच्छ्मशानसामग्रीं शृणु सुस्थिरमाषकान् ॥ १२-६४८ ॥
अनङ्कुरान् जलतिलान् मुद्गा।स्तद्वन्मसूरिकान् ।
तथैव चणकान् भक्तं पायसान् पूपशष्कुलीः ॥ १२-६४९ ॥
कन्यकाकर्त्तितं सूत्रं कुङ्कुमेन सुरञ्जितम् ।
प्। १२०५) अष्टौ वितस्तिदीर्घाश्च मुष्टिस्थूलाश्च खादिराः ॥ १२-६५० ॥
कोला एको हस्तमात्रं गन्धपुष्पादिकं तथा ।
बलिद्रव्यं च पूर्वोक्तं पूर्वाम्नाये समत्स्यकम् ॥ १२-६५१ ॥
समांसं पश्चिमाम्नाये समद्यं चोत्तरे भवेत् ।
ग्राममध्ये श्मशाने च ऊर्ध्वाम्नाये सरक्तकम् ॥ १२-६५२ ॥
यथायोग्यं च नैवेद्यं गच्छेच्च भयवर्जितः ।
पादप्रक्षालनं कृत्वा ततः स्मृत्वाऽस्य देवताम् ॥ १२-६५३ ॥
बद्धाञ्जलिरिदं वाक्यं प्रवदेत् साधकोत्तमः ।
अत्र श्मशाने याः काश्चिद्देवताः निवसन्ति हि ॥ १२-६५४ ॥
ताः प्रयच्छन्तु मे सिद्धिं प्रसन्नाः सन्तु पान्तु माम् ।
पूर्वे मां शङ्करः पातु तथाऽग्नेय्यां च शूलधृक् ॥ १२-६५५ ॥
कपाली दक्षिणे पातु नैर्-ऋत्ये जटिलोऽवतु ।
पश्चिमे पार्वतीभर्त्ता वायव्यां प्रमथाधिपः ॥ १२-६५६ ॥
उत्तरे मुण्डमालाढ्य ईशाने वृषभध्वजः ।
ऊर्ध्वं पातु तथा शम्भुरधस्ताद्धूलिधूसरः ॥ १२-६५७ ॥
अग्रतो भैरवः पातु पृष्ठतः पातु खेचरः ।
दक्षिणे भूधरः पातु वामे तु पिशिताशनः ॥ १२-६५८ ॥
केशान् पातु विशालाक्षो मूर्धानं च मरुत्प्रियः ।
मस्तकं पातु भृग्वीशो नेत्रे पातु महामनाः ॥ १२-६५९ ॥
कपोलौ पातु वीरेशो गण्डौ गण्डादिमर्दनः ।
उत्तरोष्ठे विरूपाक्षस्त्वधरे योगिनीप्रियः ॥ १२-६६० ॥
दन्तेषु दक्षविध्वंसी चिवुके नृकपालधृक् ।
कण्ठे रक्षतु मां देवो नीलकण्ठो जगद्गुरुः ॥ १२-६६१ ॥
प्। १२०६) दक्षस्कन्धे गिरीन्द्रेशो वामस्कन्धे च सुन्दरः ।
भुजे च दक्षिणे सर्वमन्त्रनाथः सदाऽवतु ॥ १२-६६२ ॥
वामे भुजे सार्वभौमो हृदये पातु पाण्डुरः ।
दक्षस्तनं पशुपतिर्वामं पातु महेश्वरः ॥ १२-६६३ ॥
उत्तरे सर्वकल्याणकारकोऽवतु मां सदा ।
नाभौ कामप्रविध्वंसी जङ्घे पातु दयामयः ॥ १२-६६४ ॥
जानुनी पात्वजामित्रो गुल्फौ गौरीपतिः सदा ।
पादपृष्ठं ज्ञाननिधिस्तथा पादाङ्गुलोर्हरः ॥ १२-६६५ ॥
पादाधः पातु सततं व्योमकेशो जगत्प्रियः ।
इति रक्षां समाधाय मन्त्ररक्षां ततश्चरेत् ॥ १२-६६६ ॥
ॐ ह्रा। ह्रु। ह्रु। ह्रु। च पूर्वे ॐ ह्री। ह्रु। ह्रो। हुताशने ।
ॐ ह्री। श्री। दक्षिणे न्यस्य ॐ ग्लु। स्लु। चापि नैर्-ऋते ॥ १२-६६७ ॥
ॐ प्लु। म्लु। य्लु। प्रतीच्यां च तारः प्रो। प्रु। समीरणे ।
ॐ भ्रा। भैरवः सौम्यायां ॐ ब्लु। प्लु। भ्रु। च फट् शिवे ॥ १२-६६८ ॥
ॐ ग्लौ। ब्लु। मूर्धदेशेऽथो स्रा। स्रु। स्र। स्रस्त्वधः स्मृतम् ।
एवं रक्षां समाधाय कील्याः कीलादिगष्टके ॥ १२-६६९ ॥
मध्ये महाकीलमथो दिक्पालार्चनमारभेत् ।
ततो मन्त्रमिमं ब्रूयात् प्रार्थयेत् प्रेमसंयुतः ॥ १२-६७० ॥
भ्रा। भैरव द्विरुच्चार्य भयङ्करहरे वदेत् ।
मां रक्ष रक्ष हु। फट् च स्वाहा द्वाविंशदर्णकः ॥ १२-६७१ ॥
पलाशभाजने माषान् कृत्वा प्राचीं व्रजेत् ततः ।
कीलस्य निकटे चेन्द्रमावाह्य परिपूजयेत् ॥ १२-६७२ ॥
ध्यानं प्रागुक्तवत् कृत्वा तत्पुरश्चतुरस्रके ।
प्। १२०७) मन्त्रेणानेन चेन्द्राय मण्डले बलिमर्पयेत् ॥ १२-६७३ ॥
ॐ ह्रा। ह्री। ह्रु। समुच्चार्य भो इन्द्र सुरनायक ।
प्रसन्नो भव मे शीघ्रं देहि सिद्धिं सनातनीम् ॥ १२-६७४ ॥
इमं बलिं गृह्ण गृह्ण हू। फट्नागाग्निवर्णकः ।
जलं दत्वा बलिं त्यक्त्वा नत्वेयाद्वह्निकीलकम् ॥ १२-६७५ ॥
अग्निं तत्र समावाह्य प्राग्वद्ध्यात्वा प्रपूजयेत् ।
तदग्रे मण्डलं कृत्वा दद्यान्मन्त्रेण वै बलिम् ॥ १२-६७६ ॥
ॐ र। रा। रू। रू। च रि। री। तदग्रेऽग्नेपदं पदेत् ।
तेजोनायक मे शीघ्रं सिद्धिं देहि इमं वदेत् ॥ १२-६७७ ॥
मुद्गबलिं गृह्ण गृह्ण हू। फड्देवार्णको मनुः ।
ततो दक्षिणकीलस्य निकटे यममर्चयेत् ॥ १२-६७८ ॥
म। बीजेन समावाह्य मनुना निर्वपेद्बलिम् ।
ॐ प्रा। प्री। प्रु। ततः प्रा। प्री। प्रू। भो यमपदं वदेत् ॥ १२-६७९ ॥
प्रेताधिपतये शीघ्रं प्रसन्नो भव संवदेत् ।
इमं मे मसुरं पात्रे बलिं गृह्णयुगं वदेत् ॥ १२-६८० ॥
हू। फडन्तः समाख्यातो मन्त्रो गोरामवर्णकः ।
ततो नैर्-ऋत्यकीलस्य निकटे नैर्-ऋतं यजेत् ॥ १२-६८१ ॥
क्ष। बीजेन समावाह्य बलिमन्त्रोऽथ कथ्यते ।
ॐ प्रे। प्रे। प्रे। ततो हू। हू। त्रिः ख। द्विह्री। च भोयुगम् ॥ १२-६८२ ॥
रक्षोनाथ पदाच्छिघ्रं प्रसन्नो भव संवदेत् ।
इमं मे चणकबलिं गृह्ण हू। फड्मनुर्मतः ॥ १२-६८३ ॥
षट्त्रिंशदर्णोऽथ ततो व्रजेत् पश्चिमकीलकम् ।
व। बीजेन समावाह्य वरुणं तत्र पूजयेत् ॥ १२-६८४ ॥
प्। १२०८) बलिमन्त्रो ध्रुवो ब्रा। ब्री। भो भो वरुण संवदेत् ।
जलनाथपदस्यान्ते प्रसन्नो भव संवदेत् ॥ १२-६८५ ॥
इमं ते चोदनबलिं गृह्ण गृह्ण च हू। च फट् ।
त्रिंशदर्णो मनुः प्रोक्तो वरुणस्य बलेरयम् ॥ १२-६८६ ॥
ततो व्रजेद्वायुकोणं कीलस्य निकटेऽर्चयेत् ।
यं बीजेन समावाह्य वायुं शृणु बलेर्मनुम् ॥ १२-६८७ ॥
वा। वी। वू। ततः क्रा। क्री। भो भो वायो पुनः पुनः ।
क्षीप्रं प्रसन्नो भवेति ममेदं पायसेति ॥ १२-६८८ ॥
बलिं गृह्णयुगं हू। फट् पञ्चत्रिंशाक्षरो मनुः ।
उदक्कीलं ततो गत्वा कु। बीजेन धनेश्वरम् ॥ १२-६८९ ॥
आवायेत् पूजयित्वा मनुना निर्वपेद्वलिम् ।
ॐ क्रा। क्रू। ततः क्रा। क्री। भो भो यक्षपदं वदेत् ॥ १२-६९० ॥
नाथ शीघ्रं प्रसन्नो मे भवेति च पदं वदेत् ।
ममापूपबलिं गृह्ण गृह्ण हू। फड्रदार्णकः ॥ १२-६९१ ॥
ईशानकीलनिकटे गत्वेशानं समाह्वयेत् ।
ह। बीजेन ततः पूज्यबलिः स्यान्मनुनाऽमुना ॥ १२-६९२ ॥
ॐ श्रा। श्री। श्रू। ततः श्रा। श्री। श्री। श्री। स्याच्छष्कुलीपदम् ।
बलिं गृह्णयुगं हू। फड्नवविंशतिवर्णकः ॥ १२-६९३ ॥
पुष्पाक्षतान् समादाय मध्यस्तम्भादधः स्थितः ।
अधस्तनस्तम्भाय नमो मन्त्रोऽयं तु नवाक्षरः ॥ १२-६९४ ॥
अनेन मनुना स्तम्भनिर्भयः परिपूजयेत् ।
महाकवचमन्त्रेण कुर्याद्देहस्य रक्षणम् ॥ १२-६९५ ॥
ॐ ह्रा। ह्री। ह्रु। ततो ह्रश्च क्ष्रा। क्ष्री। क्ष्रु। क्ष्रः समुच्चरेत् ।
प्। १२०९) स्त्रा। स्त्री। स्त्रु। स्त्र। स्तथा घ्रा। घ्री। घ्रो। घ्रो। म्रा। म्री। ततो वदेत् ॥ १२-६९६ ॥
म्रू। म्रो। म्रे। म्र। ततो म्रो। म्रौ। त्रिधोक्तेन त्रिधा त्रिधा ।
हू। सप्तकं समुच्चार्य फडन्तं सर्वतो वदेत् ॥ १२-६९७ ॥
रक्ष रक्ष पदं प्रोच्य रक्ष रक्षेति भैरव ।
नाथ नाथ फडन्तोऽयमेकपञ्चाशदक्षरः ॥ १२-६९८ ॥
इत्यात्मरक्षां कृत्वाऽथ स्तम्भस्य च समीपतः ।
आसनं सम्यगास्तीर्य तत्र प्राङ्मुख आस्थितः ॥ १२-६९९ ॥
साग्रे सप्ते तु भूभागे गोमयाद्युपलेपिते ।
पद्ममष्टदलं कृत्वा तद्बहिः षोडशच्छदम् ॥ १२-७०० ॥
तद्बाह्येऽष्टदलं चापि भूपुरं च ततो लिखेत् ।
चतुरस्रत्रयोपेतं चतुर्द्वारसमन्वितम् ॥ १२-७०१ ॥
तन्मध्ये देवमावाह्य सम्यङ्मूलेन पूजयेत् ।
कर्णिकायां षडङ्गानि ह्यसिताङ्गादिभैरवान् ॥ १२-७०२ ॥
पत्राष्टके पूजयित्वा पूजयेत् षोडशच्छदे ।
कुलीशं सकुलीशं च जामित्रं रामठं रिभम् ॥ १२-७०३ ॥
प्रचण्डं चण्डकेशं च चण्डात्मानं च चामरम् ।
चारित्रं च चमत्कारं चञ्चलं चारुभूषणम् ॥ १२-७०४ ॥
चामीकरं चारुवहं चकितं चेति षोडश ।
नत्यन्तनामभिः पूज्याः षोडशानन्दपूरिताः ॥ १२-७०५ ॥
ब्राह्म्याद्याश्चाष्टपत्रेषु बहिर्वीथ्यां दिगीश्वरान् ।
तद्बाह्यायां तदस्त्राणि तद्बाह्यायां त्विमान् यजेत् ॥ १२-७०६ ॥
प्रचण्डचण्डोर्ध्वकेशभीषणाभिषणाभिधाः ।
व्योमकेशो व्योमवाहो व्योमव्यापक एव च ॥ १२-७०७ ॥
प्। १२१०) एतान् वीरान् समाहूय चायाहीति समुच्चरेत् ।
अभ्यर्चयेन्निर्भयः सन् बलिं न्यासान् समाचरेत् ॥ १२-७०८ ॥
पश्चिमाभिमुखो भूत्वा मालां सम्पूज्य संयजेत् ।
उच्चैः स्वरं तदाऽयाति प्रत्यहं भैरवः स्वयम् ॥ १२-७०९ ॥
वामहस्तेन दद्याच्च यथाम्नायोदितं बलिम् ।
सम्भोजयन् जपं कुर्यान्निर्भयः प्रीतमानसः ॥ १२-७१० ॥
तृप्तो देवो यदा ब्रूयाद्वरं वरय वाञ्छितम् ।
दक्षिणे पायसेनैव तस्य तृप्तिः प्रजायते ॥ १२-७११ ॥
वामादीनां मांसमद्यरक्ताद्यैश्चरुणाऽपि वा ।
प्रणम्य दण्डवद्भूमौ वाञ्छितं वरमुच्चरेत् ॥ १२-७१२ ॥
आगत्य च गृहे पश्चात् त्र्यहं कुर्यान्महोत्सवम् ।
एवं कलियुगे सिद्धिः श्मशानस्य प्रकीर्त्तिता ॥ १२-७१३ ॥
जपेदेनं समारूढो दैवी प्रत्यक्षता भवेत् ।
समस्तभैरवानां तु मन्त्रादेवं मयोदितम् ॥ १२-७१४ ॥
इति भैरवसाधनम् ।
अथ योगिनीसाधनं (भूतडामरे)
अथातः सम्प्रवक्ष्यामि योगिनीसाधनोत्तमम् ।
सर्वार्थसाधनं नाम देहिनां सर्वसिद्धिदम् ॥ १२-७१५ ॥
अतिगुह्या महाविद्या देवानामपि दुर्लभा ।
यासामभ्यर्चनं कृत्वा यक्षेशोऽभूत् कुलाधिपः ॥ १२-७१६ ॥
तासामाद्यां प्रवक्ष्यामि सुराणां सुन्दरीं प्रिये ।
अस्या अभ्यर्चनेनैव राजत्वं लभते नरः ॥ १२-७१७ ॥
अथ प्रातः समुत्थाय कृत्वा स्नानादिकं शुभम् ।
प्। १२११) प्रासादं च समासाद्य कुर्यादाचमनं ततः ॥ १२-७१८ ॥
प्रणवान्ते सहस्रारे हु। फड्दिग्बन्धनं चरेत् ।
प्राणायामं ततः कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ १२-७१९ ॥
षडङ्गं मायया कुर्यात् पद्ममष्टदलं लिखेत् ।
तस्मिन् पद्मे महामन्त्रबीजन्यासं समाचरेत् ॥ १२-७२० ॥
पीठे देवीं समभ्यर्च्य ध्यायेद्देवीं जगत्प्रियाम् ।
ध्यानं यथा ।
पूर्णचन्द्रमुखीं गौरीं विचित्राम्बरधारिणीम् ॥ १२-७२१ ॥
पीतोन्नतकुचां रामां सर्वाद्यामभयप्रदाम् ।
इति ध्यात्वा न मूलेन दद्यात् पाद्यादिकं शुभम् ॥ १२-७२२ ॥
पुनर्धूपं निवेद्यैव नैवेद्यं मूलमन्त्रतः ।
गन्धचन्दनताम्बूलं सकर्पूरं सुशोभनम् ॥ १२-७२३ ॥
प्रणवान्ते भुवनेशीमागच्छ सुरसुन्दरि ।
वह्निभार्या जपेन्मन्त्रं त्रिसन्ध्यं च दिने दिने ॥ १२-७२४ ॥
सहस्रैकप्रमाणेन ध्यात्वा देवीं सदा बुधः ।
मासान्ते व्याप्य दिवसं बलिपूजां सुशोभनाम् ॥ १२-७२५ ॥
कृत्वा च प्रजपेन्मन्त्रं निशीथे याति सुन्दरी ।
सुदृढं साधकं मत्वा महिम्ना साधकालये ॥ १२-७२६ ॥
सुप्रसन्ना साधकाग्रे सदा स्मेरमुखी ततः ।
दृष्ट्वा देवीं साधकेन्द्रो दद्यात् पाद्यादिकं शुभम् ॥ १२-७२७ ॥
सुचन्दनं सुमनसो ज्ञात्वाऽभिलषितं वदेत् ।
मातरं भगिनीं वाऽपि भार्यां वा भक्तिभावतः ॥ १२-७२८ ॥
यदि माता तदा वित्तं दिव्यं च सुमनोहरम् ।
प्। १२१२) भूपतित्वं प्राथितं यत् तद्ददाति दिने दिने ॥ १२-७२९ ॥
पुत्रवत् पालितं लोके सत्यं सत्यं सुनिश्चितम् ।
स्वसा ददाति दिव्यं च दिव्यवस्त्रं तथैव च ॥ १२-७३० ॥
दिव्यकन्यां समानीय नागकन्यां दिने दिने ।
यद्यद्भवति भूतं च भविष्यति च यत् पुनः ॥ १२-७३१ ॥
तत्सर्वं साधकेन्द्राय निवेदयति निश्चितम् ।
यद्यत् प्रार्थयते सर्वं ददाति सा दिने दिने ॥ १२-७३२ ॥
भ्रातृवत् पालितं लोके कामनाभिर्मनोरथैः ।
भार्या स्याद्यदि सा देवी साधकस्य मनोहरा ॥ १२-७३३ ॥
राजेन्द्रः सर्वराजानां संसारे साधकोत्तमः ।
स्वर्गे मर्त्त्ये च पाताले गतिः सर्वत्र निश्चितम् ॥ १२-७३४ ॥
यद्यद्ददाति सा देवी वर्णितुं नैव शक्यते ।
तया सार्थं च सम्भोगं करोति साधकोत्तमः ॥ १२-७३५ ॥
अन्यस्त्रीगमनं त्यक्त्वा अन्यथा नश्यति ध्रुवम् ।
इति सुन्दरीसाधनम् ।
अथ मनोहरासाधनं तत्रैव ।
ततोऽन्यसाधनं वक्ष्ये निर्मितं ब्रह्मणा पुरा ॥ १२-७३६ ॥
नदीतीरं समासाद्य कुर्यात् स्नानादिकं ततः ।
पूर्ववत् सकलं कार्यं चन्दनैर्मण्डलं लिखेत् ॥ १२-७३७ ॥
स्वमन्त्रं तत्र संलिख्यावाह्य ध्यायेन्मनोहराम् ।
ध्यानं यथा ।
कुरङ्गनेत्रां शरदिन्दुवक्त्रां विम्बाधरां चन्दनगन्धलिप्ताम् ।
चेलांशुकां पीनकुचां मनोज्ञां श्यामां सदा कामदुघां विचित्राम् ॥
एवं ध्यात्वा जपेद्देवीमगुरूधुपदीकैः ॥ १२-७३८ ॥
प्। १२१३) गन्धं पुष्पं रसं चैव ताम्बूलादी।श्च मूलतः ।
तारं माया तथाऽगच्छ मनोहरे पावकवल्लभा ॥ १२-७३९ ॥
स्नात्वाऽयुतं प्रतिदिनं जपेन्मन्त्रं प्रसन्नधीः ।
मासान्ते दिवसं प्राप्य कुर्याच्च जपमुत्तमम् ॥ १२-७४० ॥
आनिशीथं जपेन्मन्त्रं ज्ञात्वा च साधकं दृढम् ।
गत्वा च साधकाभ्यासे सुप्रसन्ना मनोहरा ॥ १२-७४१ ॥
वरं वरय शीघ्रं त्वं यद्यन्मनसि वर्त्तते ।
साधकेन्द्रोऽपि तां भक्त्या पाद्याद्यैरर्चयेन्मुदा ॥ १२-७४२ ॥
प्राणायामं षडङ्गं च मायया च समाचरेत् ।
मत्स्यमांसबलिं दत्वा पूजयेच्च समाहितः ॥ १२-७४३ ॥
चन्दनोदकपुष्पेण फलेन च मनोहराम् ।
ततोऽर्चिता प्रसन्ना सा पुष्णाति प्रार्थितं चरेत् ॥ १२-७४४ ॥
सुवर्णस्य शतं भारं सा ददादि दिने दिने ।
सविशेषं व्ययं कुर्यात् स्थिते तत् तु न दास्यति ॥ १२-७४५ ॥
अन्यस्त्रीगमनं तस्य न भवेदिदमीरितम् ।
अव्याहतगतिस्तस्य भवतीति न संशयः ॥ १२-७४६ ॥
साधिताऽपि विधानेन यदि नायानि यक्षिणी ।
विषं क्रोधात्मकं प्रोच्यामुकयक्षिण्यतः परम् ॥ १२-७४७ ॥
भूतेशान्मादनं वायुद्वयं क्रोधास्त्रसंयुतम् ।
क्रोधेनानेन चाक्रम्य जपेदष्टसहस्रकम् ॥ १२-७४८ ॥
एवं कृते समायाति वाञ्छितार्थं प्रयच्छति ।
मुद्रामाह ।
मुष्टिमन्योन्यमास्थाय कनिष्ठे वेष्टयेदुभे ॥ १२-७४९ ॥
प्। १२१४) प्रसार्याकुञ्च्य तर्जन्यौ कार्या चैषाऽङ्कुशाकृतिः ।
इयं क्रोधाङ्कुशी मुद्रा यक्षिण्याकर्षणक्षमा ॥ १२-७५० ॥
इयं ते कथिता विद्या सुगोप्या या सुरेश्वरि ।
तव स्नेहेन भक्त्या च वशोऽहं परमेश्वरि ॥ १२-७५१ ॥
इति मनोहरासाधनम् ।
अथ धनदामन्त्रस्तत्रैव ।
तत्तूर्य विन्दुना युक्तं लज्जाबीजं सविन्दुकम् ।
लक्ष्मीबीजं ततो देवि सम्बोध्य च रतिप्रिया ॥ १२-७५२ ॥
स्वाहान्तो मनुराख्यतो मन्त्रराजोत्तमोत्तमः ।
मन्त्रान्तरम् ।
तत्तूर्यं विन्दुसंयुक्तं लक्ष्मीः प्रणव एव च ॥ १२-७५३ ॥
मायाबीजं समुद्धृत्य सम्बोध्य च रतिप्रियाम् ।
वह्निजायामिति प्रोक्तो मन्त्रराजोत्तमोत्तमः ॥ १२-७५४ ॥
कुवेरोऽस्य मुनिः प्रोक्तः पङ्क्तिश्छन्दोऽथ देवता ।
धनदाप्रीतये तस्या विनियोगः प्रकीर्त्तितः ॥ १२-७५५ ॥
षड्दीर्घमायया चैव कराङ्गन्यास इष्यते ।
ततो ध्यानम् ।
कुङ्कुमोदरगर्भाभां किञ्चिद्यौवनशालिनीम् ॥ १२-७५६ ॥
मृणालकोमलभुजां केयूराङ्गदभूषिताम् ।
तुलाकोटिपरिभ्रान्तपादपद्मद्वयान्विताम् ॥ १२-७५७ ॥
माणिक्यहारमुकुटकुण्डलादिविभूषिताम् ।
नीलोत्पलदृशं किञ्चिदुद्यत्कुचविराजिताम् ॥ १२-७५८ ॥
कराब्जभ्राम्यत्कमलां रक्तवस्त्राङ्गरागिणीम् ।
हेमप्राकारमध्यस्थां रत्नसिंहासनोपरि ॥ १२-७५९ ॥
प्। १२१५) ध्यायेत् कल्पतरोर्मूले देवीं तां धनदायिकाम् ।
ध्यात्वा च साधकश्रेष्ठः पूजयेद्भक्तितत्परः ॥ १२-७६० ॥
नवयोन्यात्मकं चक्रं विलिखेत् कर्णिकोपरि ।
दिग्दलं पद्ममालिख्य चतुरस्रं ततो बहिः ॥ १२-७६१ ॥
कोणेषु वज्रान् संलिख्य मध्ये बीजं समुल्लिखेत् ।
अङ्गानि केशरेऽभ्यर्च्य दले शक्तीः प्रपूजयेत् ॥ १२-७६२ ॥
लक्ष्मीः पद्मा तथा पद्मालया श्रीश्च हरिप्रिया ।
हरा चैवाऽथ कमलालयाऽब्जलोलचञ्चला ॥ १२-७६३ ॥
एताः शक्तीः प्रपूज्याथ मध्ये देवीं प्रपूजयेत् ।
प्रजपेद्दक्षसूत्रेण रत्नालिकृतकेन च ॥ १२-७६४ ॥
लक्षे जपेत् मन्त्रसिद्धिः प्रयोगानाचरेद्बुधः ।
रात्रौ चेज्जपते चाष्टसहस्रं सप्त वासरान् ॥ १२-७६५ ॥
एतेनैव सुसिद्धः स्यात् पुरश्चर्यादिको विधिः ।
किमत्र दुर्लभं देवि साधयेद्यदि मानवः ॥ १२-७६६ ॥
भुक्त्वा वाऽप्यथ वाऽभुक्त्वा पायसान्नं प्रदाय च ।
दशकृत्त्वोऽथ वा शौचमकृत्वा वा कुले च ताम् ॥ १२-७६७ ॥
यं स्मरेद्देवि विद्यां तां दारिद्र्यैर्नाभिभूयते ।
कामदेवं जपेत् पार्श्वे देव्याः प्रत्यहमादरात् ॥ १२-७६८ ॥
तेन देया महाप्रीतिर्वाञ्छितार्थं ददाति च ।
पूजान्ते च समायाति रात्रौ देवी धनेश्वरी ॥ १२-७६९ ॥
सर्वालङ्कारमुत्सृज्य दत्वा याति निजालयम् ।
धनं च विपुलं दत्वा साधकस्य मनोरथान् ॥ १२-७७० ॥
पूरयित्वा महेशानि वशगा जायते शुभा ।
प्। १२१६) स्वयमाहेति यक्षेशी यो मां स्मरति मानवः ॥ १२-७७१ ॥
तस्य दारिद्र्यसन्यासं दासीवत् करवाण्यहम् ।
द्वितीयमन्त्रस्य पुरश्चरणमाह ।
सहस्रसप्ततिर्यावत पुरश्चरणमुच्यते ॥ १२-७७२ ॥
होमो घृतेन खण्डेन मधुना च दशांशतः ।
ताम्रपात्रे मण्डलं च कृत्वा चन्दनलेपिते ॥ १२-७७३ ॥
पूजा कार्या महादेव्याः क्षणाद्दारिद्र्यशान्तये ।
अङ्गन्यासकरन्यासौ चाङ्गे चैवास्य देवता ॥ १२-७७४ ॥
कुवेरस्य मतेनास्याः पूजाऽपि क्रियते तथा ।
इति धनदासाधनम् ।
अथाप्सरःसाधनं (भूतडामरे)
प्रालेयं श्रीः शशी देव्या अनादिः श्रीस्तिलोत्तमा ॥ १२-७७५ ॥
तारादिमन्त्रमुद्धृत्य प्रोक्ता काञ्चनमालिका ।
तारं श्रीर्वर्मणा युक्ता भाव्या कुण्डलहारिणी ॥ १२-७७६ ॥
तारं वर्मसमायुक्तं रत्नमाल्येति पञ्चमी ।
तारं ब्रह्मेति रम्भाख्या विषं श्रीरुर्वशी परा ॥ १२-७७७ ॥
अनादिबीजमाता च भूतिनीत्यप्सराः क्रमात् ।
क्रोधं नत्वा प्रवक्ष्येऽहमथासां सिद्धिसाधनम् ॥ १२-७७८ ॥
शैलशृङ्गं समारुह्य जपेल्लक्षं समाहितः ।
पौर्णमास्यां समभ्यर्च्य घृतदीपं निवेदयेत् ॥ १२-७७९ ॥
प्रजपेत् सकलां रात्रिमायाति बन्धनक्षये ।
चन्दनार्घेण सन्तुष्टा वरं वरय भाषिते ॥ १२-७८० ॥
कामिता सा भवेद्भार्या प्रयच्छति रसायनम् ।
प्। १२१७) सहस्रं वत्सरं याति वरं दद्याद्यथेप्सितम् ॥ १२-७८१ ॥
जपेदयुतमात्रं तु क्षीराशो सप्तवासरान् ।
चन्दनेन विधायाथ मण्डलं सप्तमे दिने ॥ १२-७८२ ॥
सम्पूज्य भक्तितः शुक्लाष्टम्यां पूर्वतमूर्धनि ।
प्रजपेत् सकलां रात्रिं समायाति निशात्यये ॥ १२-७८३ ॥
आगत्य पुरतस्तिष्ठेत् सितवस्त्रोन्नतस्तनी ।
चुम्बत्याऽलिङ्गयत्याशु भार्या भवति कामिका ॥ १२-७८४ ॥
राज्यं यच्छति सन्तुष्टा त्रिदिनं दर्शयत्यपि ।
पञ्चवर्षयहस्रं तु भुक्त्वा भोगमनुत्तमम् ॥ १२-७८५ ॥
मृते राजकुले जन्म प्रयच्छति तिलोत्तमा ।
अन्यथा म्रियते शीघ्रं विपरीते कृते सति ॥ १२-७८६ ॥
नीचगासङ्गमं कृत्वा मण्डलं चन्दनेन च ।
धूपं चैवागुरुं दत्वा बलिं च प्रतिपादयेत् ॥ १२-७८७ ॥
जपेदष्टसहस्रं तु नित्यं सप्तदिनावधि ।
सप्तमे दिवसे पूजां कृत्वा धूपं प्रदापयेत् ॥ १२-७८८ ॥
प्रजपेत् सकलां रात्रिं समायाति निशात्यये ।
चन्दनार्घेण सन्तुष्टा वरं वरय भाषिते ॥ १२-७८९ ॥
साधकेनापि वक्तव्यं मातृवत् परिपालय ।
वस्त्रालङ्करणं भक्ष्यं सेवकेभ्यः प्रयच्छति ॥ १२-७९१ ॥
मृते राजकुले जन्म दद्यात् काञ्चनमालिका ।
न तिथिर्न च नक्षत्रं नोपवासो विधीयते ॥ १२-७९२ ॥
शैलमूर्ध्नि समास्थायायुतं मासं जपेन्मनुम् ।
धूपं दत्वा समभ्यर्च्य पुना रात्रौ जपेत् ततः ॥ १२-७९३ ॥
प्। १२१८) अर्धरात्रे समायाति प्राग्वदर्घ्यं प्रदापयेत् ।
कामिता सा भवेद्भार्या प्रत्यहं सम्प्रयच्छति ॥ १२-७९४ ॥
लक्षमेकं हिरण्यं च सिद्धद्रव्यं रसायनम् ।
दर्शयेत् पृष्ठमारोप्य स्वर्गं कुण्डलहारिणी ॥ १२-७९५ ॥
देवतायतनं गत्वा जपेदष्टसहस्रकम् ।
मासमेकं तु मासान्ते पौर्णमास्यां पुनर्जपेत् ॥ १२-७९६ ॥
समभ्यर्च्यार्धरात्रौ च श्रूयते नूपरध्वनिम् ।
समायात्यन्तिकं दद्यात् पुष्पासनमनुत्तमम् ॥ १२-७९७ ॥
किमिच्छसि वद त्वं मे भव भार्येति साधकः ।
भार्याकर्म करोत्येवं राज्यं यच्छति कामिकम् ॥ १२-७९८ ॥
याति वर्षसहस्राणि प्रत्यहं परितोषिता ।
प्रतिपत्तिथिमारभ्य कृत्वा चन्दनमण्डलम् ॥ १२-७९९ ॥
धूपं च गुग्गुलुं दत्वा जपेदष्टसहस्रकम् ।
त्रिसन्ध्यं पौर्णमास्यां च पूजां कृत्वा सुशोभनाम् ॥ १२-८०० ॥
प्रजपेत् सकलां रात्रिं समायाति निशात्यये ।
कामिता सा भवेद्भार्या चान्यथा म्रियते ध्रुवम् ॥ १२-८०१ ॥
ददाति कामिकं भोज्यं सिद्धद्रव्यं रसायनम् ।
दशवर्षसहस्राणि जीवतेऽन्ते मृते पुनः ॥ १२-८०२ ॥
जन्म राजकुले कुर्याद्दद्यात् क्रोधप्रसादतः ।
रात्रौ देवगृहं गत्वा चन्दनेन च मण्डलम् ॥ १२-८०३ ॥
कृत्वा धूपं ततो दत्वाऽयुतं मासयुतं मनुम् ।
मासान्ते महतीं पूजां कृत्वा रात्रौ जपं चरेत् ॥ १२-८०४ ॥
निशात्यये समायाति प्रदद्यात् कुसुमासनम् ।
प्। १२१९) कृते च स्वागतं पृच्छेत् किमिच्छसि च भाषते ॥ १२-८०५ ॥
साधकः प्राह भार्या त्वं भव यच्छ रसायनम् ।
याति वर्षसहस्राणि अप्सराः स्वयमुर्वशी ॥ १२-८०६ ॥
परस्त्रीं वर्जयेत् सर्वां चान्यथा म्रियते ध्रुवम् ।
एकाकी शयने स्थित्वा शुची रात्रौ च कुङ्कुमैः ॥ १२-८०७ ॥
लिखित्वा भूषिणीं भूर्जे चन्दनेन तु धूपयेत् ।
जपेदष्टसहस्रं तु मासं यावत् प्रयत्नतः ॥ १२-८०८ ॥
मासान्ते तु समभ्यर्च्य जपेदष्टसहस्रकम् ।
रात्र्यर्धान्तिकमायाति भार्या भवति कामिता ॥ १२-८०९ ॥
सिद्धद्रव्यं हिरण्यं च तुष्टा यच्छति भूषिणी ।
क्रोधराजः पुनः प्राह यदि नायाति साधकः ॥ १२-८१० ॥
अनेन क्रोधयोगेन जपेदप्सरसां चयम् ।
विषं प्राथमिकं बीजमुद्धरेच्च कटुद्वयम् ॥ १२-८११ ॥
अमुकीं क्रोधबीजं च वातमादरसंयुतम् ।
जपेत् सकृत् समुद्धृत्य मन्त्रमष्टसहस्रकम् ॥ १२-८१२ ॥
म्रियते शीर्यते मूर्ध्नि प्रस्फुटत्यप्सरेति च ।
वन्दयेदप्सरोवृन्दं मन्त्रेणानेन साधकः ॥ १२-८१३ ॥
विषबन्धद्वयं प्रोच्यहनयुग्ममुदीरयेत् ।
अमुकीं क्रोधमन्त्रोऽयमप्सरोवश्यकारकः ॥ १२-८१४ ॥
अथ वक्ष्येऽप्सरोवश्यकारकं मनुमुत्तमम् ।
विषं चलद्वयं प्रोच्य अमुकीं वश्यमानय ॥ १२-८१५ ॥
सकूर्चास्त्रजपादेवाप्सरोवश्यमियाद्ध्रुवम् ।
प्। १२२०) अथ ज्वालामुखीसाधनं (फेत्कारिणीतन्त्रे)
नमो भगवतीत्युक्त्वा ज्वालामालिन्यतः परम् ॥ १२-८१६ ॥
गृध्रगणपरिवृते द्विठान्तो मनुरीरितः ।
ॐ नमो हृदयं प्रोक्तं भगवति शिरः स्मृतम् ॥ १२-८१७ ॥
ज्वालामालिनि च शिखा गृध्रगणपरिवृते ।
वर्मस्वाहास्त्रमित्येतज्जातियुक्तं न्यसेत् तनौ ॥ १२-८१८ ॥
अभुक्त्वा नियतं चैतज्जयमन्त्रं जपेज्जयी ।
अथ मन्त्रान्तरं तत्रैव ।
रुद्राङ्गनाग्निजायाभ्यां रुद्रज्वालामुखीत्यपि ॥ १२-८१९ ॥
मन्त्रान्तरं समाख्यातं ज्वालामुख्या अनन्तरम् ।
दीपतैलाक्तपादोऽर्धरात्रे गुरुदिनादितः ॥ १२-८२० ॥
जपेदष्टसहस्रं तु त्रयोविंशतिवासरान् ।
प्रत्यहं पलषट्कं च ददातीति न संशयः ॥ १२-८२१ ॥
पूर्वमन्त्रमाहात्म्यमाह ।
नारायणेन कथितमगस्त्यैः कथितं पुनः ।
सुसिद्धिमिच्छता गोप्यो नामापि न समीरयेत् ॥ १२-८२२ ॥
पुत्रस्य नृपतेश्चापि धार्मिकस्य विशेषतः ।
नवदुर्गाविधानेन दर्शयेत् कार्यगौरवात् ॥ १२-८२३ ॥
नृपोऽपि सम्यगाचारो मन्त्रज्ञो विविधं धनम् ।
निवेद्य विधिवत् पश्चान्मन्त्रग्रहणमाचरेत् ॥ १२-८२४ ॥
स्मृतिमात्रेण वैवर्णान् रिपून् सर्वान् विनाशयेत् ।
प्रदद्याद्दक्षिणां तस्य सहस्रं शतमेव वा ॥ १२-८२५ ॥
गवां सुवर्णं निष्काणां भूमिं वा शस्यशालिनीम् ।
सर्वशान्तिमवाप्नोति सर्वरक्षाकृतिर्भवेत् ॥ १२-८२६ ॥
निष्कमलङ्कारः ।
इति ज्वालामुखीसाधनम् ।
प्। १२२१) अथ कर्णपिशाचीमन्त्रस्तत्रैव ।
कहयुग्मं कालिके च गृह्ण युग्मं तथैव च ।
पिण्डं पिशाचि स्वाहेति द्वीपार्णः कथितो मनुः ॥ १२-८२७ ॥
ध्यानम् ।
ध्यायेत् पिशाचीं चलशूलहस्तां श्यामां सुदीर्घां युवतीं त्रिनेत्राम् ।
क्रुद्धां विवर्णां तनुवृत्तमध्यां गुञ्जाफलैः कल्पितहारयष्टिम् ॥
साधनप्रकारमाह ।
एकविंशद्दिनं यावदुदयास्तमयं जपेत् ।
नित्यं सायं स्वमाहारं पिण्डं हर्म्योपरि क्षिपेत् ॥ १२-८२८ ॥
त्रिसप्ताहाच्च तुष्टा सा शय्यां गत्वा पिशाचिनी ।
पञ्चविंशतिदेशानां कथां च कथयत्यपि ॥ १२-८२९ ॥
त्रिंशद्दिनैश्च देवेशि जम्बूद्वीपकथां नयेत् ।
द्वात्रिंशता तथा गौरि त्रैलोक्यं श्रावयेद्ध्रुवम् ॥ १२-८३० ॥
त्रिस्वादुबलिदानेन सर्वं वदति तत्क्षणात् ।
सभायां यदि सङ्घाते द्यूते च रिपुसंसदि ॥ १२-८३१ ॥
सर्वं कथयति क्षिप्रं नूनं तुष्टा पिशाचिनी ।
केनापि नैव वेद्या सा साधकस्तां प्रपश्यति ॥ १२-८३२ ॥
इति कर्णपिशाचीसाधनम् ।
अथ विभूषिण्यादिसाधनानि (फेत्कारिणीतन्त्रे)
आद्या विभूषिणी देवी परा कुण्डलधारिणी ॥ १२-८३३ ॥
हारिणी सिंहिनी चैव हंसिनी तु ततो नटी ।
देवी कामेश्वरी चैव प्रोक्ता देवी रतिप्रिया ॥ १२-८३४ ॥
विभूषिणीमन्त्रमाह ।
क्रोधास्त्रद्वयमायान्ते भूतिनी च त्रिकूर्चतः ।
तारलज्जाद्वयादस्त्रद्वयान्ते च विभीषिका ॥ १२-८३५ ॥
प्। १२२२) क्रोधद्वयान्तो मन्त्रोऽयं विभूषिण्या उदीरितः ॥ १२-८३५एफ़् ॥
ध्यानम् ।
कर्त्त्री चैव करे परे नरशिरस्तुङ्गाकृतिर्भीषणा
दन्तान्तर्गतमांसशोणितवसासंयुक्तभूतव्रता ।
कालव्यालकरालसत्त्वविकटव्यालम्बिदंष्ट्राङ्कुरा
यस्याः केशकुलाकुलाखिलमहीशैलाऽस्तु सा रक्षतु ॥ १२-८३६ ॥
साधनप्रकारमाह ।
एकवृक्षतरं गत्वा यामिन्यां प्रवसेत् त्र्यहम् ।
जपेदष्टसहस्रं तु ध्यायन्नव्यग्रमानसः ॥ १२-८३७ ॥
जपान्ते पूजनं नाम्नाऽगुरुधूपं निवेदयेत् ।
प्रजपेदर्धरात्रे तु समायाति विभूषिणी ॥ १२-८३८ ॥
चन्दनोदकमिश्रेण दत्तार्घा तुष्यति ध्रुवम् ।
माता वा भगिनी भार्या हृष्टा भवति कामिता ॥ १२-८३९ ॥
करमेलनकं कृत्वा माता भूत्वा जगत्त्रये ।
शताष्टपरिवारस्य सदाऽभ्यञ्जनभूषणम् ॥ १२-८४० ॥
भगिनी चेन्महायोगिन् सहस्रयोजनादपि ।
ददाति स्त्रियमानीय दिव्यं रसरसायनम् ॥ १२-८४१ ॥
भार्या चेत् स्पृष्टमारोप्य स्वर्गं नयति तत्क्षणात् ।
दिने रत्नसहस्रं तु रसं चैव रसायनम् ॥ १२-८४२ ॥
दद्यादिति शेषः ।
सर्वाशाः पूरत्येव सदा देवी विभूषणी ।
अथ कुण्डलधारिणीमन्त्रस्तत्रैव ।
ध्रुवमायास्त्रयुगला प्रोक्ता कुण्डलधारिणी ॥ १२-८४३ ॥
जपेदष्टसहस्रं तु मासमात्रं दिने दिने ।
कर्णे कुण्डलधारिणी शशिकुण्डलधारिणी ॥ १२-८४४ ॥
प्। १२२३) आयाति रुधिरेणार्घा देयास्तुष्टा वदत्यपि ।
किं कर्त्तव्यं मया वत्स मातेति भव साधकः ॥ १२-८४५ ॥
पञ्चाशता दिनेनापि त्रैलोक्यमपि दास्यति ।
अथ सिन्दूरहारिणीमन्त्रस्तत्रैव ।
क्रोधद्वयास्त्रयुगतः सिन्दूरहारिणीपदम् ॥ १२-८४६ ॥
कूर्चत्रयान्तः सम्प्रोक्तः सिन्दूरहारिणीमनुः ॥ १२-८४६एफ़् ॥
ध्यानम् ।
स्वर्णालङ्कृतिहारिणी चलदलव्यालोलशाखाम्बरा
सोत्कण्ठीकृतगात्रकर्मसुभगा शुभ्रांशुचन्द्रप्रभा ।
अन्तः सन्ततकान्तिदन्तमलिना त्रैलोक्यशोभास्पदा
पायादूर्धनवांशुशूललतिका सिन्दूरहारिण्यसौ ॥ १२-८४७ ॥
शून्यदेवालयं गत्वा जपेदष्टसहस्रकम् ।
शीघ्रमायात्यागता सा भार्या भवति कामिता ॥ १२-८४८ ॥
पञ्चविंशति दिनानि वस्त्रालङ्कारभूषणम् ।
ददाति साधकेन्द्राय देवी सिन्दूरहारिणी ॥ १२-८४९ ॥
अथ सिंहिनीमन्त्रस्तत्रैव ।
लज्जाद्वयास्त्रयुगलं सिंहिनीति पदं ततः ।
क्रोधबीजत्रयाद्यन्तः कीर्त्तितः सिंहिनीमनुः ॥ १२-८५० ॥
ध्यानम् ।
शैलाग्रद्रुमस्वर्गदन्तवदने दुर्गान्तदैत्यस्थिता
केशा अस्थिसमस्तविष्णुचरणप्रभ्रष्टसन्त्रासिनी ।
या दन्तान्तरलम्बिधारणरणे प्रक्षुब्धसिद्धाङ्गना
सेयं पातु समस्तकण्टककुलव्याकम्पिमालाकुला ॥ १२-८५१ ॥
प्। १२२४) गत्वैकलिङ्गं यामिन्यां प्रजपेदयुतं मनुम् ।
ततो हृष्टाऽतिवरदा सिंहिन्यायाति पूजिता ॥ १२-८५२ ॥
किं करोमि वदत्येवं भार्या भवति कामिता ।
दीनाय वस्त्रयुगलं दद्याद्रसरसायनम् ॥ १२-८५३ ॥
अथ हंसिनीमन्त्रस्तत्रैव ।
तारत्रिकूर्चास्त्रयुगाद्धंसिनी भूतिनी ततः ।
कूर्चत्रयान्तः कथितो हंसिनीमनुरुत्तमः ॥ १२-८५४ ॥
ध्यानम् ।
शुभ्रा शुभ्रसरोजतुल्यनयना दुग्धासवेनार्चिता
प्रारब्धध्वनिमुग्धमानववधूसंसेविता सादरम् ।
किञ्चित्तुङ्गविलोलपाङ्गवलितव्यामुग्धमीलन्मुखी
मुक्तायुक्तविलोलहारललिता श्रीहंसिनी पातु नः ॥ १२-८५५ ॥
वज्रपाणिगृहं गत्वा प्रतिमां शोभनां लिखेत् ।
हयमारेण सम्पूज्य जपेदयुतसङ्ख्यकम् ॥ १२-८५६ ॥
यावदर्धनिशां देवी हंसिन्यायाति निश्चितम् ।
चन्दनार्घप्रदानेन हृष्टा वदति साधकम् ॥ १२-८५७ ॥
किं मया ते प्रकर्त्तव्यं किङ्करी भव साधकः ।
वस्त्रालङ्कारभोज्याद्यं व्ययार्थं सम्प्रयच्छति ॥ १२-८५८ ॥
तदशेषव्ययाभावान्न ददाति प्रकुप्यति ।
अथ चेटीसाधनं तत्रैव ।
ततः कूर्चयुगं चास्त्रयुगं चेटी ततः परम् ॥ १२-८५९ ॥
ङेऽन्तं क्रोधयुगं चोक्त्वा चेटीयुग्मं त्रपां ततः ॥ १२-८५९एफ़् ॥
ध्यानम् ।
गच्छन्ती मितभाषिणी शशिमुखी भ्रष्टोत्तरीयाधरा
प्। १२२५) बिभ्रन्ती कलसं सरोजयुगलं स्वर्णान्तसीमन्तिनी ।
श्रीखण्डादिविलेपनामलवपुःसौरभ्यसम्भाविता
किञ्चिद्धर्मसमार्जितार्पितकरा पायादियं चेटिका ॥ १२-८६० ॥
कुत्रापि भीषणस्थाने नामोच्चारणमात्रतः ।
ध्रुवं चेटी समागत्य चेतीकर्म करोत्यपि ॥ १२-८६१ ॥
अथवाऽस्य गृहद्वारे त्र्यहं रात्रौ जपं चरेत् ।
आगत्य नियतं देवी चेटीकर्म करोति च ॥ १२-८६२ ॥
अथ कामेश्वरीमन्त्रस्तत्रैव ।
तारकूर्चास्त्रयुक्कामेश्वरि भूतिन्यतः परम् ।
ङेन्तं क्रोधत्रयं कामेश्वरीमन्त्र उदाहृतः ॥ १२-८६३ ॥
ध्यानम् ।
कामस्कन्धसमागता मधुलतावासन्तिपुष्पान्विता
गायन्ती मधुराधरस्मितमुखी वीणावती चञ्चला ।
रक्ताम्भोजविलोचना मधुमदैर्मत्ता समन्तादियं
पायात् पुष्पधनुर्धरा मधूमती कामेश्वरी भूतिनी ॥ १२-८६४ ॥
मातृस्थानं समागात्य कृत्वा मांसस्य भक्षणम् ।
मांसादिना बलिं दत्वा सहस्रं सप्त वासरान् ॥ १२-८६५ ॥
जपान्नियतमायाति रुधिरार्घं निवेदयेत् ।
कामेश्वरी भवेत् तुष्टा भार्या भवति कामिता ॥ १२-८६६ ॥
सर्वाशाः पूरयत्येव राज्यं यच्छति निश्चितम् ।
अथ रतिप्रियामन्त्रस्तत्रैव ।
तारं लज्जा च कूर्चास्त्रद्वययुक्ता रतिप्रिया ॥ १२-८६७ ॥
क्रोधत्रपास्त्रयुक्कामेश्वरीमन्त्रोक्तवत् क्रिया ॥ १२-८६७एफ़् ॥
प्। १२२६) ध्यानम् ।
हेमप्राकारमध्ये सुरविटपितटे हेमपीठाधिरूढा
यक्षीमालाविसर्पत्परिमलकुसुमोद्भासिधम्मिल्लभारा ।
पीनोत्तुङ्गस्तनाढ्या कुवलयनयना रक्तवर्णा कराभ्यां
भ्राम्यद्रक्तोत्पलाभा सकलसुरयुता दिव्यभूषाङ्गरागा ॥ १२-८६८ ॥
रात्रौ देवगृहं गत्वा तत्र शय्यां प्रकल्पयेत् ।
सितवस्त्रं चन्दनं च जातीपुष्पं प्रदापयेत् ॥ १२-८६९ ॥
धूपं तु गुग्गुलं दत्वाऽष्टसहस्रं जपेन्मनुम् ।
जपान्ते नित्यमायाति चुम्बनालिङ्गनादाभिः ॥ १२-८७० ॥
कामिता जायते भार्या सत्यं देवी कुमारिका ।
दद्यादष्टदिनेनैव दिव्यं वस्त्रयुगं ततः ॥ १२-८७१ ॥
कामिकं भोजनं दिव्यं परिवारस्य दास्यति ।
अन्यद्वैश्वानरगृहाद्द्रव्यमानीय यच्छति ॥ १२-८७२ ॥
सहस्रमेतानि जपेज्जपान्ते सिद्ध्यति ध्रुवम् ।
मुहुर्मुहुर्जपेन्मन्त्रमित्याह क्रोधभूपतिः ॥ १२-८७३ ॥
इति विभूषिण्यादिसाधनानि ।
अथ धरित्रीसाधनम् । तदुक्तं (वैष्णवीकल्पे)
अथातः सम्प्रवक्ष्यामि धरित्रीसाधनं परम् ।
रहस्यातिरहस्यं च सर्वतन्त्रेषु गोपितम् ॥ १२-८७४ ॥
सर्वैश्वर्यकरं नॄणां दुर्लभं परमाद्भुतम् ।
यज्ज्ञात्वा साधकेश्रेष्ठो धनदेन समो भवेत् ॥ १२-८७५ ॥
शरत्काले च केदारमध्ये कमलसङ्कुले ।
विनिर्माय कुटीं रम्यां स्थापयेत् कलशं शुभम् ॥ १२-८७६ ॥
भौमाष्टम्यामाहृतया मृदा नक्तं विनिर्मितम् ।
प्। १२२७) गन्धर्वकर्दमैर्लिप्तं वेष्टितं शुक्लवाससा ॥ १२-८७७ ॥
वक्ष्यमाणेन मन्त्रेण तत्रावाह्य वसुन्धराम् ।
नानोपचारसम्भारैस्त्रिसन्ध्यं पूजयेत् सुधीः ॥ १२-८७८ ॥
भूबीजं तारमायान्ते ङेन्ता चैव वसुन्धरा ।
हृदयं वह्निजायान्तो द्वादशार्णो मनुः स्मृतः ॥ १२-८७९ ॥
महावराहोऽस्य मुनिर्गायत्री छन्द ईरितम् ।
वसुन्धरा देवता च भूबीजं बीजमुच्यते ॥ १२-८८० ॥
मायाबीजं धरित्र्याश्च विनियोगः प्रसादने ।
मन्त्रवर्णैः षडङ्गानि कृत्वा ध्यायेद्वसुन्धराम् ॥ १२-८८१ ॥
ध्यानम् ।
फूल्लाम्भोरुहमध्यस्थामिन्दीवरदलप्रभाम् ।
पीतकौशेयवसनां नानालङ्कारभूषिताम् ॥ १२-८८२ ॥
नीलोत्पलद्वयं शालिमञ्जरीं चेक्षुकं करैः ।
बिभ्राणां सर्वलोकस्य धात्रीं वसुमतीं भजे ॥ १२-८८३ ॥
एवं ध्यात्वा जपेन्मन्त्रं वेदलक्षं समाहितः ।
जपान्ते वसुधादेवी भाषते कलशोदरान् ॥ १२-८८४ ॥
वरं ब्रूहि प्रदास्यामि यत् ते मनसि वर्त्तते ।
इति ब्रुवाणां तां देवीं प्रसूनाञ्जलिभिस्त्रीभिः ॥ १२-८८५ ॥
सम्पूज्य प्रणमेद्भूमौ दण्डवत् साधकोत्तमः ।
श्लोकार्धपतितमन्त्रः ।
नमस्तुभ्यं भगवति जगद्धात्रि वसुन्धरे ॥ १२-८८६ ॥
विष्णुपत्नि वराहस्य दंष्ट्राकोटिकृतालये ।
विश्वम्भरे नमस्तुभ्यं सर्वभूताश्रये धरे ॥ १२-८८७ ॥
रत्नानां च निधीनां च त्वदभ्यन्तरवर्त्तिनाम् ।
प्। १२२८) लब्धुकामोऽस्मि कल्याणि प्रसादात् तव मेदिनि ॥ १२-८८८ ॥
इति सम्प्रार्थयेद्देवीं सा ददाति वरं ततः ।
द्रक्ष्यसि प्राप्स्यसीत्येवं ततः पश्यति साधकः ॥ १२-८८९ ॥
पदे पदे च रत्नानि विधानं योजनत्रये ।
ततस्तानि समादाय यथेष्टं विहरेद्भुवि ॥ १२-८९० ॥
आदौ पुरस्क्रियां कुर्याद्वर्णलक्षं जपेन्मनुम् ।
तद्दशांशं च जुहुयात् संस्कृते हव्यवाहने ॥ १२-८९१ ॥
ससर्पिषा पायसेन तद्दशांशं च तर्पयेत् ।
मार्जयेत् तद्दशांशेन तद्दशांशेन वैष्णवान् ॥ १२-८९२ ॥
विप्रान् सम्भोजयेन्मन्त्री ततः साधनमाचरेत् ।
पुरश्चर्यामकृत्वा तु न मन्त्रः कोऽपि सिद्ध्यति ॥ १२-८९३ ॥
इति धरित्रीसाधनम् ।
एवं किन्नर्यादिसाधनानि विस्तरभयादुपेक्षितानि ।
मेरुतन्त्रं महाकालसंहितां शक्तिसङ्गम् ।
वाडवानलतन्त्रं च तन्त्रं कालानलाभिधम् ॥ १२-८९४ ॥
कालीतन्त्रं परातन्त्रं तन्त्रराजं तथैव च ।
मुण्डमालाख्यतन्त्रं च योगिनीहृदयं तथा ॥ १२-८९५ ॥
कुमारीतन्त्रमाम्नायरहस्यं श्रीमतोत्तमम् ।
कुलिकाम्नायतन्त्रं च कुलचूडामणिं तथा ॥ १२-८९६ ॥
तन्त्रचूडामणिं तद्वद्भावचूडामणिं तथा ।
समयाचारतन्त्रं च विश्वसारं तथैव च ॥ १२-८९७ ॥
भैरव्या भुवनेश्वर्याश्चामुण्डायास्तथैव च ।
योगिन्याश्चापि वाराह्याः पञ्च तन्त्राणि च क्रमात् ॥ १२-८९८ ॥
नीलतन्त्रं गौतमीयतन्त्रं फेत्कारिणीमपि ।
प्। १२२९) वामकेश्वरतन्त्रं च वीरतन्त्रं तथैव च ॥ १२-८९९ ॥
सम्मोहनाख्यतन्त्रं च तन्त्रं गन्धर्वसञ्ज्ञकम् ।
माहेश्वरीयतन्त्रं च तन्त्रं प्रथमसञ्ज्ञकम् ॥ १२-९०० ॥
तद्वत् कात्यायनीतन्त्रं बालातन्त्रं तथैव च ।
उड्डीशं मालिनीतन्त्रं गुह्यातन्त्रं तथैव च ॥ १२-९०१ ॥
कौलेशं कुब्जिकातन्त्रं कुलरत्नावलीमपि ।
विशुद्धेश्वरतन्त्रं च गणेश्वरविमर्षिणीम् ॥ १२-९०२ ॥
सिद्धसारस्वतं शम्भुविद्यातन्त्रं तथैव च ।
तद्वद्भैरवतन्त्रं च ज्ञानार्णवकुलार्णवौ ॥ १२-९०३ ॥
तथैव वैष्णवीकल्पं कालीकल्पं कुलामृतम् ।
श्रीमत्प्रत्यङ्गिराकल्पं ताराकल्पं तथैव च ॥ १२-९०४ ॥
निरुत्तराख्यतन्त्रं च तन्त्रमुत्तरसञ्ज्ञकम् ।
तन्त्रं तद्वत् स्वतन्त्राख्यं मन्त्रदेवप्रकाशिकाम् ॥ १२-९०५ ॥
श्रीक्रमं व्रह्मरुद्रादियामलानि कुलागमम् ।
शैषागमं सोमशम्भुमतं देव्यागमं तथा ॥ १२-९०६ ॥
डामरं भूतपूर्वं च यक्षपर्वं च डामरम् ।
वैनायकीसंहितां च वैशम्पायनसंहिताम् ॥ १२-९०७ ॥
अगस्त्यसंहितां तद्वद्बृहच्छ्रीक्रमसंहिताम् ।
सुरेन्द्रसंहितां चैव नन्दिकेश्वरसंहिताम् ॥ १२-९०८ ॥
वशिष्ठसंहितां तद्वद्वायवीयां च संहिताम् ।
गोरक्षसंहितां तद्वत्सिद्धनाथाद्यसंहिताम् ॥ १२-९०९ ॥
संहितां चैव वाराहीं महाथर्वणसंहिताम् ।
संहितां तत्त्वसाराद्यां दक्षिणामूर्तिसंहिताम् ॥ १२-९१० ॥
प्। १२३०) विष्वक्सेनीसंहितां च तथैव ब्रह्मसिंहताम् ।
निबन्धेषु क्रियासारं त्रिपुरासारसङ्ग्रहम् ॥ १२-९११ ॥
प्रपञ्चसारं सिद्धान्तसारं मन्त्रमहोदधिम् ।
शारदातिलकं चापि पुरश्चरणचन्द्रिकाम् ॥ १२-९१२ ॥
मन्त्ररत्नावलीं तद्वदाचारकुसुमावलीम् ।
सग्रहेषु प्रसिद्धेषु ताराभक्तिसुधार्णवम् ॥ १२-९१३ ॥
आगमाद्यां कल्पलतां मन्त्ररत्नाकरं तथा ।
क्रियासङ्ग्रहनामानं ग्रन्थं सिद्धान्तसङ्ग्रहम् ॥ १२-९१४ ॥
कालीतत्त्वं तथा श्यामारहस्यं मन्त्रचण्डिकाम् ।
तारारहस्यवृत्तिं च दुर्गाभक्तितरङ्गिणीम् ॥ १२-९१५ ॥
तन्त्रसारं तन्त्ररत्नं तन्त्रचिन्तामणिं तथा ।
तत्त्वसारं योगसारं श्रीरामार्चनचन्द्रिकाम् ॥ १२-९१६ ॥
ग्रन्थं विधानमालाख्यं विधिमुक्तावलीमपि ।
नानाविधाः पद्धतीश्च तथोपनिषदोऽपि च ॥ १२-९१७ ॥
ज्योतिःशास्त्रं शालिहोत्रं पुराणानि स्मृतीरपि ।
सम्यगालोक्य लोकानामुपकारविधित्सया ॥ १२-९१८ ॥
महाराजधिराजेन सुरराजानुकारिणा ।
श्रीमत्प्रतापसिंहेन विद्याब्धेः पारदृश्वना ॥ १२-९१९ ॥
संवत्सरे निशानाथवह्निनागधरा � १८३१ङ्किते ।
तपस्यर्जुनपक्षे हि तिथौ भास्करवासरे ।
पुरश्चर्याणवो नाम ग्रन्थ एष विनिर्मितः ॥ १२-९२० ॥
महीमहीपालगणोत्तमाङ्गस्रग्धूलिभिर्धूसरपादपद्मः ।
वीरो महादानमहाहवेषु प्रतापसिंहो नृपतिश्चकास्ति ॥ १२-९२१ ॥
प्। १२३१) उन्मीलयन् स्वजनमानसमानसानि
सङ्कोचयन् प्रतिनृपाननकैरवाणि ।
सम्मोदयन् सकलकोविदलोककोकान्
यस्य प्रतापसवितोदयते धरायाम् ॥ १२-९२२ ॥
यस्य क्षोणिपतेः प्रतापतपने विभ्राजमाने परे
राजन्ते न महीक्षितः क्षितितले खद्योतपोतद्युतः ।
यत्कीर्त्तीन्दुमरीचिभिस्त्रिभुवने शुभ्रीकृते सर्वतः
श्यामत्वं द्विषतामकीर्त्तितिमिरस्तोमेषु विश्राम्यति ॥ १२-९२३ ॥
यावल्लोकोपकारी रचयति दिनकृद्वासरानस्ततन्द्र �
श्चन्द्रो यावत् त्रियामाः कुमुदविशदया ज्योत्स्नयाऽलङ्करोति
यावन्नामानि विष्णोः प्रजपति जनता सन्ति भूतानि यावद् �
भूभर्त्तुस्तस्य कीर्तिः स्फुरतु वसुमती मण्डले तावदेषा ॥ १२-९२४ ॥
यद्विष्णुं प्रवदन्ति वैष्णवगणाः शैवाः शिवं मन्वते
गाणेशा निगदन्ति दन्तिवदनं शौरा दिनेशं विदुः ।
चिच्छक्तिं कलयन्ति शाक्तनिवहाः साङ्ख्या परं पूरुषं
ब्रह्माब्रह्मविदो वदन्त्यवतु वस्तद्दैव्यसिंहं वपुः ॥ १२-९२५ ॥
बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत �
स्रोतशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
नव्येऽस्मिन् नरदेवनिर्मितपुरश्चर्यार्णवे द्वादशः
सद्युक्तिं स्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः ॥ १२-९२६ ॥
इति श्रीगिरिराजचक्रचूडामणिनरनारायणेत्यादिविविधविरुदावलीविराजमानमानोन्नत श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहदेवविरचिते पुरश्चर्यार्णवे ब्राह्म्यादिमन्त्रपुरश्चरणपूर्वकयन्त्रस्तवकवचादिपुरश्चरणभेदनिरूपणं नाम द्वादशस्तरङ्गः समाप्तः ॥ १२ ॥
शुभमस्तु ।