११ दुर्गामन्त्रपुरश्चरणदुर्गोत्सवविधिः

अथ दूर्गामन्त्रभेदास्तत्पुरश्चरणविशेषाश्च
निरूप्यन्ते ।

तथा च (शारदातिलके)

ततो दुर्गामनुं वक्ष्ये दृष्टादृष्टफलप्रदम् ।  
माया त्रिः कर्णबीजाढ्यो भूयोऽसौ सर्गवान् भवेत् ॥ ११-१ ॥  

पञ्चान्तकः प्रतिष्ठावान् मारुतो भौतिकासनः ।  

तारादिहृदयान्तोऽयं मन्त्रो वस्वक्षरात्मकः ॥ ११-२ ॥

ऋषिश्च नारदश्छन्दो गायत्रं देवता मनोः ।
दुर्गा समीरिता सद्भिर्दुरितापन्निवारिणी ॥ ११-३ ॥

नमस्कारवियुक्तेन मूलमन्त्रेण साधकः ।
द्रामाद्यैः सह कुर्वीत षडङ्गानि यथाविधि ॥ ११-४ ॥

अथ ध्यानम् ।

सिंहस्था शशिशेखरामरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुःशरा।श्च दधती नेत्रैस्त्रिभिः शोभिता ।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गादुर्गतिहारिणी भवतु वो रत्नोल्लसत्कुण्डला ॥ ११-५ ॥

अथ पुरश्चरणम् ।

वसुलक्षं जपेन्मन्त्रं तिलैर्मधुरलोलितैः ।  
पयोऽन्धसा वा जुहुयात् तत्सहस्रं जितेन्द्रियः ॥ ११-६ ॥  

इति दुर्गामन्त्रः ।

अथ महिषमर्दिनीमन्त्रः ।

तत्रैव ।

भान्तं वियत्सनयनं श्वेतो मर्दिनि ठद्वयम् ।  

प्। ९५३) अष्टाक्षरी समाख्याता विद्या महिषमर्दिनी ॥ ११-७ ॥

अयं मन्त्रो मायाप्रणवाद्यन्यतमबीजाढ्यो नवाक्षरो भवति ।
तदुक्तं (कुलचूडामणिविश्वसारादौ)

त्रैलोक्यबीजभूतान्ते सम्बोधनपदं ततः ।  
सृष्टिसंहारकौ वर्णौ विद्यामहिषमर्दिनी ॥ ११-८ ॥  

प्रणवाद्यां जपेद्विद्यां मायाढ्यां वा जपेत् सुधीः ।  
बधूबीजादिकां वाऽपि कवचाढ्यां जपेत् तथा ॥ ११-९ ॥  

(शारदायाम्)

महिषहिंसिके हु। फट् हृदयं परिकीर्तितम् ।  
महिषशत्रो सार्षि हु। फट् शिरोऽङ्गं समुदाहृतम् ॥ ११-१० ॥  

महिषं द्वेषय द्वन्द्वं हु। फडन्तः शिखामनुः ।  
महिषं हनयुग्मान्ते देवि हु। फट् तनुच्छदम् ॥ ११-११ ॥  

महिषान्ते सूदिनि हुं फडन्तं शस्त्रमीरितम् ।  
मन्त्रैरेतैर्जातियुक्तैः पञ्चाङ्गानि प्रकल्पयेत् ॥ ११-१२ ॥  

अथ ध्यानम् ।

गारुडोपलसन्निभां मणिमौलिकुण्डलमण्डितां  
	नौमि भालविलोचनां महिषोत्तमाङ्गनिषेदुषीम् ।  
चक्रशङ्खकृपाणखेटकबाणकार्मुकशूलका। -  
	स्तर्जनीमपि बिभ्रतीं निजबाहुभिः शशिशेखराम् ॥ ११-१३ ॥  

पुरश्चरणम् ।

अष्टलक्षं जपेन्मन्त्रं तत्सहस्रैस्तिलैः शुभैः ।  

जुहुयादिति शेषः ।

इति महिषमर्दिनीमन्त्रः ।

अथ शूलिनीमन्त्रः ।

तत्रैव ।

ज्वलज्वलपदस्यान्ते शूलिनीति पदं वदेत् ॥ ११-१४ ॥  

प्। ९५४) दुष्टग्रहं हुमस्त्रान्ते वह्निजायावधिर्मनुः ।
पञ्चभिर्दशभिः प्रोक्तो ग्रहशत्रुविनाशनः ॥ ११-१५ ॥

ऋषिर्दीर्घतया प्रोक्तः ककुच्छन्द उदाहृतम् ।  
शूलिनी देवता प्रोक्ता समस्तसुरवन्दिता ॥ ११-१६ ॥  

दुर्गे हृद्वरदे शीऋषं विन्ध्यवासिनि तच्छिखा ।  
असुरान्ते मर्दिनी स्याद्युद्धपूर्वप्रिये पुनः ॥ ११-१७ ॥  

त्राशयद्वितयं वर्म देवसिद्धसुपूजिते ।  
नन्दिनी स्याद्रक्षयुगं महायोगेश्वरी क्रमात् ॥ ११-१८ ॥  

शूलिन्याद्या हु। फडन्ताः पञ्चाङ्गमनवः स्मृताः ।  

अथ ध्यानम् ।

अध्यारूढां मृगेन्द्रं सजलजलधरश्यामलां हस्तपद्मैः
शूलं बाणं कृपाणीमरिजलजगदाचापपाशान् वहन्तीम् ॥ ११-१९ ॥

चन्द्रोत्तंसां त्रिनेत्रां चतसृभिरसिना खेटकान् बिभ्रतीभिः
कन्याभिः सेव्यमानां प्रतिभटभयदां शूलिनीं भावयामि ।

अथ पुरश्चरणम् ।

मनुमेनं जपेन्मन्त्री वर्णलक्षं विचक्षणः ॥ ११-२० ॥  

सर्पिषाऽज्येन होमस्तु तद्दशांशमितो भवेत् ।  

इति शूलिनीमन्त्रः ।

अथ [प्रायः सर्वेषु पुस्तकेषु वनदुर्गेत्यत्र नवदुर्गेत्युपलभ्यते ।]वनदुर्गामन्त्रः ।

उत्तिष्ठपदमाभाष्य पुरुषि स्यात् पदं ततः ॥ ११-२१ ॥  

पितामहः सनेत्रे नः स्वपिषि स्याद्भयं च मे ।  
समुपस्थितमुच्चार्य यदि शक्यमनन्तरम् ॥ ११-२२ ॥  

अशक्यं वा पुनस्तन्मे वदेद्भगवतिं ततः ।  

प्। ९५५) शमयाग्निवधूः सप्तत्रिंशद्वर्णात्मको मनुः ॥ ११-२३ ॥

ऋषिरारण्यकश्च्छन्दोऽप्यत्यनुष्टुबुदाहृतम् ।  
देवता वनदुर्गा स्यात् सर्वदुर्गविमोचनी ॥ ११-२४ ॥  

षड्भिश्चतुर्भिरष्टाभिरष्टाभिः षड्भिरिन्द्रियैः ।  
मन्त्रार्णैरङ्गकॢप्तिः स्याज्जातियुक्तैर्यथाक्रमम् ॥ ११-२५ ॥  

अथ ध्यानम् ।

सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनोसन्निभां  
शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् ।  
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां  
ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ ११-२६ ॥  

अथ पुरश्चरणम् ।

एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः ।  
जुहुयाद्धविषा मन्त्री शालिभिः सर्पिषा तिलैः ॥ ११-२७ ॥  

इति वनदुर्गामन्त्रः ।

अथ नवदुर्गात्मकचामुण्डामन्त्रः ।

(मेरुतन्त्रे)

अथातः सम्प्रवक्ष्यामि चामुण्डाया महामनुम् ।  
नवदुर्गात्मकं यस्य सेवनाद्भुक्तिमुक्तयः ॥ ११-२८ ॥  

सुरथो यत्प्रसादेन राज्यं प्राप्याभवन्मनुः ।  
संसारबन्धनिर्णाशि ज्ञानमाप्तं समाधिना ॥ ११-२९ ॥  

मार्कण्डेयपुराणोक्तं चरितत्रितयं स्तवः ।  
जपाद्यस्य फलं दद्यात् तं मनुं वच्मि साम्प्रतम् ॥ ११-३० ॥  

वाग्लज्जाकामबीजानि चामुण्डायै पदं वदेत् ।  
विच्चे नवार्णमन्त्रोऽयं शक्तिमन्त्रोत्तमोत्तमः ॥ ११-३१ ॥  

ब्रह्मविष्णुमहेशास्तु मुनुयोऽस्य प्रकीर्तिताः ।  

प्। ९५६) गायत्र्युष्णिगनुष्टुप् च छन्दस्त्रयमुदीरितम् ॥ ११-३२ ॥

देवताऽस्य महाकाली महालक्ष्मीः सरस्वती ।  
नन्दा शाकम्भरी भीमा शक्तित्रयमुदाहृतम् ॥ ११-३३ ॥  

तिस्रोऽस्य शक्तयो दुर्गा भ्रामरी रक्तदन्तिका ।  
अग्निवायुभगास्तत्त्वं प्राग्वदृष्यादिकं न्यसेत् ॥ ११-३४ ॥  

तथा ।

ततः षडङ्गं कुर्वीत विभक्तैर्मूलवर्णकैः ।  
एकेनैकेन चैकेन चतुर्भियुग्मकेन च ॥ ११-३५ ॥  

नमस्तेनैव मन्त्रेण कुर्यादङ्गानि षट् क्रमात् ।  

अथ ध्यानम् ।

ततो देवीत्रयं ध्यायेत् कालिकाध्यानमुच्यते ॥ ११-३६ ॥  

दशास्यां दशपादां च दशहस्तां विधिस्तुताम् ।  
इद्रनीलद्युतिं खड्गं चक्रं शङ्खं शिरः शरान् ॥ ११-३७ ॥  

दक्षहस्तेषु दधतीं गदां शूलं भुशुण्डिकाम् ।  
परिघं च धनुर्वामे दधतीं ब्रह्मसंस्तुताम् ॥ ११-३८ ॥  

मधुकैटभनाशार्थं सालङ्कारां त्रिवीक्षणाम् ।  

तन्त्रान्तरेऽपि ।

खड्गं चक्रगदेषुचापपरिघान् शूलं भुशुण्डीं शिरः  
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ॥ ११-३९ ॥  

नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां  
यामस्तौच्छयिते हरौ कमलजो हन्तुं मधुं कैटभम् ।  

इति चामुण्डामन्त्रः ।

अथ महालक्ष्मीध्यानम् ।

(मेरुतन्त्रे)

ततो ध्यायेन्महालक्ष्मीं महिषासुरमर्दिनीम् ॥ ११-४० ॥  

प्। ९५७) समस्तदेवतातेजोजातां पद्मासनस्थिताम् ।
अष्टादशभुजामक्षमालां पद्मं च शायकान् ॥ ११-४१ ॥

खड्गं वज्रं गदां चक्रं दक्षहस्ते कमण्डलुम् ।  
शङ्खं च दधतीं वामे शक्तिं च परशुं धनुः ॥ ११-४२ ॥  

चर्मदण्डौ सुरापात्रं घण्टां पाशं त्रिशूलकम् ।  

अन्यत्रापि ।

अक्षस्रक्परशू गदेषुकुलिशान् पद्मं धनुः कुण्डिकां  
	दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ॥ ११-४३ ॥  

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां  
	सेवे शैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ।  

अथ सरस्वतीध्यानम् ।

(मेरुतन्त्रे)

सरस्वतीं ततो ध्यायेच्छरच्चन्द्रसमप्रभाम् ॥ ११-४४ ॥  

शङ्खं च मुशलं चक्रं बाणान् दक्षेषु बिभ्रतीम् ।  
घण्टां शूलं हलं चापं वामहस्तेषु बिभ्रतीम् ॥ ११-४५ ॥  

गौरीदेहसमुद्भूतां नृणामानन्ददायिनीम् ।  
आधारभूतां जगतः शुम्भादिकविमर्दिनीम् ॥ ११-४६ ॥  

अधिष्ठात्रीं तृतीयस्य चरित्रस्य स्मरेत् सदा ।  

तन्त्रान्तरेऽपि ।

घण्टाशूलहलानि शङ्खमुशले चक्रं धनुः शायकं  
	हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुशुक्लप्रभाम् ॥ ११-४७ ॥  

गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा �  
	पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ।  

अथ पुरश्चरणम् ।

सितपक्षतिमारभ्य चाष्टम्यन्तमिषस्य यः ॥ ११-४८ ॥  

प्। ९५८) जपेल्लक्षं मनुं होमं खाद्यैस्त्रिमधुराप्लुतैः ।
प्रत्यहं पूजयेद्देवीं चण्डीमाद्यन्तयोः पठेत् ॥ ११-४९ ॥

विप्रान् गुरुन् समाराध्य वाञ्छितं लभते द्रुतम् ।  

अथ जयदुर्गामन्त्रः ।

(शारदायाम्)

तारो दुर्गेयुगं रक्तमन्त्यढान्तौ सलोचनौ ॥ ११-५० ॥  

द्विठान्ता जयदुर्गेयं विद्या वेद्या दशाक्षरी ।  
तारादिदुर्गे हृदयं दुर्गे शिर इतीरितम् ॥ ११-५१ ॥  

दुर्गायै स्याच्छिखा वर्म भूतरक्षिणि कीर्तितम् ।  
तारादिदुर्गेयुगलं रक्षिण्यस्त्रमुदीरितम् ॥ ११-५२ ॥  

अथ ध्यानम् ।

कालाभ्रामां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां  
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।  
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं  
ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥ ११-५३ ॥  

अथ पुरश्चरणम् ।

[वर्णलक्षमिति क्वचित् पाठः ।]बाणलक्षं जपेन्मन्त्रं घृतेन जुहुयात् ततः ।
दशांशं संस्कृते वह्नौ ब्राह्मणानपि भोजयेत् ॥ ११-५४ ॥

इति दुर्गाप्रकरणम् ।

अथ दुर्गोत्सवविधिः प्रदर्श्यते ।

(बृहत्सिद्धान्तसारे)

आश्विनस्य सिते पक्षे नानाविधमहोत्सवैः ।  
प्रसादयेयुः श्रीदुर्गां चतुर्वर्गफलार्थिनः ॥ ११-५५ ॥  

(कालिकापुराणे)

दुर्गातन्त्रेण मन्त्रेण कुयुर्दुर्गामहोत्सवम् ।  

प्। ९५९) महानवम्यां शरदि वलिदानं नृपादयः ॥ ११-५६ ॥

आश्विनस्य तु या शुक्ला भवेद्दुर्गाष्टमी तिथिः ।  
मूर्तिभेदैर्महादेवी पूजां गृह्णाति भूतये ॥ ११-५७ ॥  

कन्यासंस्थे रवौ वत्स शुक्लामारभ्य नन्दकाम् ।  
अयाची त्वथ नक्ताशी एकाशी त्वथ[त्वथ वाऽन्नद इति वा० पा० ।]वाय्वदः ॥ ११-५८ ॥  

प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः ।  

महानवम्यामिति ।
तदुक्तं (देवीपुराणे)

आश्विने शुक्लपक्षे तु सप्तम्यादितिथित्रये ॥ ११-५९ ॥  

महाशब्दः प्रयोक्तव्यो नान्यत्रेति विनिश्चयः ।  

आरभ्येति । शुक्लां प्रतिपदमारभ्येत्यर्थः । अन्नद इति । ब्राह्मणान् भोजयित्वेत्यर्थः । वाय्वद इति पाठे तु वायुभक्ष इत्यर्थः । जितद्वन्द्व इति । शीतोष्णादिसहिष्णुरित्यर्थः । शिवपूजक इत्यत्र एकशेषो बोद्धव्यः ।
(रुद्रयामले)

एकोत्तराभिवृद्ध्या तु नवमी यावदेव हि ॥ ११-६० ॥  

चण्डीपाठं जपेच्चैव जापयेद्वा विधानतः ।  

तथा ।

एवं चतुर्वेदविदो विप्रान् सर्वान् प्रसादयेत् ॥ ११-६१ ॥  

तेषां च वरणं कार्यं वेदपारायणाय वै ।  

तन्त्रान्तरे ।

वीररात्र्यादिषु श्रेष्ठा महारात्रिर्महेश्वरि ॥ ११-६२ ॥  

उपोष्य पूजयेत् तेषां दुर्गां दुर्गार्तिनाशिनीम् ।  

वीररात्र्यादयं प्रोक्ताः (शक्तिसङ्गमे)

वीररात्रिर्महारात्रिः कालरात्रिस्तथैव च ॥ ११-६३ ॥  

महारात्रिर्घोररात्रिः क्रोधरात्रिस्तथैव च ।  

प्। ९६०) तथैव चाचला रात्रिस्तारारात्रिस्तथैव च ॥ ११-६४ ॥

शिवरात्रिर्दिव्यरात्रिर्दारुणा च यथाक्रमात् ।  
कथ्यते परमेशानि शृणु सावहिता भव ॥ ११-६५ ॥  

चतुर्दश्यां सङ्क्रमे च कुलर्क्षे कुलवासरैः ।  
अर्धरात्रे यथायोगो वीररात्रिः प्रकीर्तिता ॥ ११-६५ ॥  

शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै ।  
महारात्रिर्महेशानि कालरात्रिं शृणु प्रिये ॥ ११-६६ ॥  

दीपोत्सवचतुर्दश्यां त्वमाया योग एव तु ।  
कालरात्रिर्महेशानि ताराकालीप्रियङ्करी ॥ ११-६७ ॥  

जन्माष्टमी महेशानि मोहरात्रिः प्रकीर्तिता ।  

तथा ।

चैत्रे मासि नवम्यां च शुक्लपक्षे तु भूसुते ॥ ११-६८ ॥  

क्रोधरात्रिर्महेशानि तारारूपा भविष्यति ।  
मासि मार्गशिरे प्राप्ते कृष्णाष्टम्यां महेश्वरि ॥ ११-६९ ॥  

महाकालस्वरूपा च घोररात्रिः प्रकीर्तिता ।  
प्राप्ते फाल्गुनके मासे कृष्णैकादशिका तु या ॥ ११-७० ॥  

भृगुभौमयुता चेत् स्यादचलारात्रिरीरिता ।  
ज्यैष्ठी या दशमी शुद्धा भृगुवासरसंयुता ॥ ११-७१ ॥  

दशयोगसमायुक्ता तारा चैकादशी यदि ।  
सा तिथिर्दिव्यरात्रिश्च कीर्तिता परमेश्वरि ॥ ११-७२ ॥  

ज्यैष्ठो या दशमी शुद्धा दशयोगसमन्विता ।  
वटुकस्य तिथिः प्रोक्ता वटुकोत्पत्तिकारिणी ॥ ११-७३ ॥  

अमा भौमसमायुक्ता सङ्क्रमेण समन्विता ।  
कुल - ऋक्षसमायुक्ता ग्रहणं यदि चेद्भवेत् ॥ ११-७४ ॥  

प्।९६१) तारारात्रिस्तु सम्प्रोक्ता भाग्यादेव तु लभ्यते ।
फाल्गुने कृष्णपक्षे तु ह्यर्धरात्रे भृगोः शिवे ॥ ११-७५ ॥

शिवरात्रिस्तु सञ्जाता सर्वसिद्धिप्रदायिनी ।  
अमा भृगुसमायुक्ता सूर्यग्रहणयुग्यदि ॥ ११-७६ ॥  

अपराह्णे यदा योगो मृतसञ्जीविनी तिथिः ।  
स्नानदानादिहोमान्तमनन्तफलदं भवेत् ॥ ११-७७ ॥  

अष्टमी चैत्रमासीया सङ्क्रमेण समन्विता ।  
सिद्धिरात्रिरिति ख्याता ताराकालीसमा कलौ ॥ ११-७८ ॥  

तृतीया माधवे शुद्धा कुलवारर्क्षसंयुता ।  
दारुणा कीर्तिता देवी सर्वसिद्धीश्वरी परा ॥ ११-७९ ॥  

कुलवारादयश्च ।

रविश्चन्द्रो गुरुः सौरिश्चत्वारस्तेऽकुला मताः ।  
भौमशुक्रौ कुलाख्यौ तु बुधवारः कुलाकुलः ॥ ११-८० ॥  

द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ।  
विषमश्चाकुलाः सर्वाः शेषाश्च तिथयः कुलाः ॥ ११-८१ ॥  

वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् ।  
कुलानि समधिष्ण्यानि शेषभान्यकुलानि च ॥ ११-८२ ॥  

इति (रुद्रयामले) प्रोक्ताः
तथा ।

अष्टमी प्रतिमासं तु कृष्णपक्षस्य पार्वति ।  
भौमयुक्ता तथा ऋक्षयुक्ता वा केवला च वा ॥ ११-८३ ॥  

देवीरात्रिरिति ख्याता सर्वसिद्धिप्रदायिनी ।  

ऋक्षयुक्ता कुलर्क्षयुक्ता ।  
तथा ।  

बुधाष्टमी महेशानि प्रतिमासं तु या भवेत् ॥ ११-८४ ॥  

प्। ९६२) विष्णुरात्रिरिति ख्याता भाद्रे मासि विशेषतः ।

तत्रैव (नवरात्रनिर्णये)

नवशक्तिसमायुक्तं नवरात्रं तदुच्यते ॥ ११-८५ ॥  

एकैव देवदेवेशि नवधा परिनिष्ठिता ।  
शयनं बोधनाख्यं च नवरात्रं द्विधा भवेत् ॥ ११-८६ ॥  

शयनं चैत्रमासीयमाश्विनस्थं च बोधनम् ।  
द्वयोस्तु समुपोष्यैव सर्वसिद्धिं लभेन्नरः ॥ ११-८७ ॥  

निराहारी फलाहारी त्वेकभक्तो जलव्रतः ।  
नक्तभोजी हविष्याशी यथाशक्ति समाचरेत् ॥ ११-८८ ॥  

अथ देवीपूजोपयुक्तमण्डपलक्षणं (देवीपुराणे)

ऐशाने पूर्वभागे वा सिद्ध्यर्धं मनसः प्रियम् ।  
देवीगृहं प्रकर्तव्यं सर्वलक्षणलक्षितम् ॥ ११-८९ ॥  

दश द्वादश वाऽरभ्य यावद्धस्तशतं भवेत् ।  

(भविष्योत्तरे)

दुर्गागृहं प्रकर्तव्यं चतुरस्रं सुशोभनम् ॥ ११-९० ॥  

रहस्यं स्वस्तिकाद्यैश्च चर्चितं वस्त्रमण्डितम् ।  
दीपमालापरिक्षिप्तं द्वारदामोपशोभितम् ॥ ११-९१ ॥  

गौरमृद्गोमयाभ्यां च लिप्तं शस्तं समीरितम् ।  
तन्मध्ये वेदिका कार्या चतुर्हस्ता समा शुभा ॥ ११-९२ ॥  

तस्यां सिंहासनं सौम्यं कम्बलाजिनसंयुतम् ।  
तत्र दुर्गां प्रतिष्ठाप्य सर्वलक्षणसंयुताम् ॥ ११-९३ ॥  

सर्वदेवमयीं प्रौढयौवनोन्मादशालिनीम् ।  
भुजैश्चतुर्भी रुचिरैर्दशभिर्वा विभूषिताम् ॥ ११-९४ ॥  

तप्तहाटकवर्णाङ्गीं त्रिनेत्रां शशिशेखराम् ।  

प्। ९६३) पीताम्बरपरिधानां नीलकौशेयसंयुताम् ॥ ११-९५ ॥

ग्रैवेयहारकेयूरनूपुराभरणान्विताम् ।  
नानारत्नविचित्रेण मुकुटेन विराजिताम् ॥ ११-९६ ॥  

अनेककुसुमाकीर्णकपर्देन विराजिताम् ।  
नितम्बबिम्बसन्नद्धकिङ्किणीक्वणनादिनीम् ॥ ११-९७ ॥  

शूलचक्रदण्डशक्तिवज्रचापासिधारिणीम् ।  
घण्टाक्षमालाकरकपानपात्रलसत्कराम् ॥ ११-९८ ॥  

तदग्रे छिन्नशिरसं महिषं रुधिराप्लुतम् ।  
निःसृतार्धतनुं कण्ठनालाच्चर्मासिधारिणम् ॥ ११-९९ ॥  

देवीकरधृतग्रीवं शूलेनोरसि ताडितम् ।  
दैत्यं करालदंष्ट्रास्यं विद्युत्कपिशमूर्धजम् ॥ ११-१०० ॥  

नागपाशेन विक्षिप्तं हर्यक्षेणाभिविद्रुतम् ।  
वमद्रुधिरवक्त्रेण धुन्वतोऽर्धं शटारुषा ॥ ११-१०१ ॥  

ऊर्धलाङ्गूलदण्डेन देव्यधिष्ठानशोभिना ।  
सर्वतो मातृचक्रेण सेव्यमानां सुरैस्तथा ॥ ११-१०२ ॥  

पूजयेत् प्रयतो देवीं नरो नियममास्थितः ।  

स्थापने विशेष उक्तो (देवीपुराणे)

याम्यास्या शुभदा दुर्गा पूर्वास्या जयवर्धिनी ।  
पश्चिमाभिमुखो नित्यं न स्थाप्या सौम्यदिङ्मुखी � इति ॥ ११-१०३ ॥  

(मत्स्यपुराणो-)क्तदशभुजाध्यानं यथा ।

कात्यायन्याः प्रवक्ष्यामि मूर्तिं दशभुजां तथा ।  
त्रयाणामपि देवानां धर्मकामार्थकारिणीम् ॥ ११-१०४ ॥  

जटाजूटसमायुक्तामर्धेन्दुकृतलक्षणाम् ।  
नेत्रत्रयसमायुक्तां पद्मेन्दुसदृशाननाम् ॥ ११-१०५ ॥  

प्। ९६४) अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥ ११-१०६ ॥

सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् ।  
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ११-१०७ ॥  

त्रिशूलं दक्षिणे दद्यात् खड्गं चक्रं क्रमादधः ।  
तीक्ष्णं बाणं तथा शक्तिं वामतोऽपि निबोधत ॥ ११-१०८ ॥  

खेटकं पूर्णचापं च पाशमङ्कुशमूर्ध्वतः ।  
घण्टां वा परशुं चापि वामतः सन्निवेशयेत् ॥ ११-१०९ ॥  

अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ।  
शिरश्चेदोद्भवं तद्वद्दानवं खड्गपाणिनम्[खड्गपाणिकमित्यत्र खड्गपाणिनप्रिति सर्वपुस्तकेषुपलभ्यते ।] ॥ ११-११० ॥  

सपाशं वामहस्तेन धृतकेशं च दुर्गया ।  
वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् ॥ ११-१११ ॥  

देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् ।  
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ ११-११२ ॥  

स्तूयमान्ं च तद्रूपममरैः सन्निवेशयेत् ।  

अथ षोडशभुजाध्यानम् (कालिकापुराणे)

योगनिद्रा महामाया जगद्धात्री जगन्मयी ॥ ११-११३ ॥  

भुजैः षोडशभिर्युक्ता भद्रकालीति विश्रुता ।  
क्षीरोदस्योत्तरे तीरे बिभ्रती विपुलां तनुम् ॥ ११-११४ ॥  

अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डला ।  
जटाजूटमखण्डेन्दुमुकुटत्रयभूषिता ॥ ११-११५ ॥  

नागहारेण सहिता स्वर्णहारविभूषिता ।  

प्। ९६५) शूलं खड्गं च शङ्खं च चक्रं बाणं तथैव च ॥ ११-११६ ॥

शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः ।  
बिभ्रती सततं देवी विकाशिनयनोज्ज्वला ॥ ११-११७ ॥  

खेटकं चर्म चापं च पाशं चाङ्कुशमेव च ।  
घण्टां परशुं मुशलं बिभ्रतो वामपाणिभिः ॥ ११-११८ ॥  

सिंहस्था नयनै रक्तवर्णैस्त्रिभिरभिज्ज्वजा ।  
शूलेन महिषं भित्त्वा तिष्ठन्ती परमेश्वरी ॥ ११-११९ ॥  

वामपादेन चाक्रम्य तत्र देवी जगन्मयी ।  

अष्टादशभुजाध्यानं प्रागेवोक्तम् ।
अथ चण्डिकाध्यानं तत्रैव ।

धम्मिल्लसंयतकचा विधोश्चाधोमुखीं कलाम् ॥ ११-१२० ॥  

केशान्ते तिलकस्योर्ध्वे दधती सुमनोहरा ।  
मणिकुण्डलसङ्घृष्टगण्डा मुकुटमण्डिता ॥ ११-१२१ ॥  

सज्ज्योतिःकर्णपूराभ्यां कर्णावापूर्य सङ्गता ।  
सुवर्णमणिमाणिक्यनागहारविराजिता ॥ ११-१२२ ॥  

सदा सुगन्धिभिः पद्मैरम्लानैरतिसुन्दरी ।  
मालां बिभर्ति ग्रीवायां रत्नकेयूरधारिणी ॥ ११-१२३ ॥  

मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः ।  
राजन्ती कञ्जुकोपेता पीनोन्नतपयोधरा ॥ ११-१२४ ॥  

क्षीणमध्या पीतवस्त्रा त्रिवलीमध्यभूषिता ।  
शूलं वज्रं च बाणं च खड्गं शक्तिं तथैव च ॥ ११-१२५ ॥  

ऊर्ध्वादिक्रमतो देवी दधती वामपाणिभीः ।  
सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्मणि कौशिकी ॥ ११-१२६ ॥  

बिभ्रती रूपमतुलं ससुरासुरमोहनम् ।  

प्। ९६६) अथ सर्वमङ्गलाध्यानं (देवीपुराणे)

ब्रह्मोवाच ।

अवतारे समासेन कथिता सर्वमङ्गला ॥ ११-१२७ ॥  

प्रतिमालक्षणं सम्यक् कथयामि यथा भवेत् ।  
सिंहपद्मासना सौम्या जटामुकुटमण्डिता ॥ ११-१२८ ॥  

शूलाक्षसूत्रवरदा कमण्डलुकरा शुभा ।  
चतुर्भूजा समाख्याता तथा चाष्टभुजां शृणु ॥ ११-१२९ ॥  

वरदं चाभयं खड्गमक्षसूत्रं च दक्षिणे ।  
दर्पणं शूलचापं च चतुर्थं खेटकं भवेत् ॥ ११-१३० ॥  

एवं चाष्टभुजा देवी मङ्गला सर्वमङ्गला ।  

अथ देवीबोधनकालनिर्णयः । तत्रैकस्या एव महिषमर्दिन्या अष्टादशभुजादिध्यानभेदेन बोधनकाल उक्तो (महाथर्वणसंहितायाम्)

अष्टादशभुजा दुर्गा उग्रचण्डेति या स्मृता ॥ ११-१३१ ॥  

सैवेयं षोडशभुजा भद्रकालीति गीयते ।  
दशभिर्बाहुभिर्युक्ता सैव कात्यायनी स्मृता ॥ ११-१३२ ॥  

भिन्नध्याना कल्पभेदान्महिषासुरमर्दिनी ।  
कालभेदे बोधनीया सा दुर्गोत्सवकर्मणि ॥ ११-१३३ ॥  

आश्विनासितपक्षे तु दिवा सम्पूज्य भक्तितः ।  
खड्गे नवम्यामार्द्रायामुग्रचण्डां प्रबोधयेत् ॥ ११-१३४ ॥  

आश्विनासितपक्ष इति पौर्णमास्वन्ताश्विनकृष्णपक्ष इत्यर्थः ।
तथा च ।
आर्द्रानक्षत्रयुक्तायां पूर्णमास्यन्ताश्विनकृष्णनवम्यामुग्रचण्डां दिवा खड्गे सम्पूज्य प्रबोधयेदिति वाक्यार्थः ।
(लिङ्गपुराणे देवोपुराणेऽपि)

यदा त्वष्टादशभुजां महामायां प्रपूजयेत् ।  
कन्यायां कृष्णपक्षे तु पूजयित्वाऽर्द्रभे दिवा ॥ ११-१३५ ॥  

प्। ९६७) नवम्यां बोधयेद्देवीं गीतवादित्रनिःस्वनैः ।
शुक्लपक्षे चतुर्थ्यां तु देवीकेशविमोचनम् ॥ ११-१३६ ॥

प्रातरेव तु पञ्चम्यां स्नापयेयुः शुभैर्जलैः ।  
सप्तम्यां पत्रिकापूजा अष्टम्यां चाभ्युपोषणम् ॥ ११-१३७ ॥  

पूजा च जागरश्चैव नवम्यां विधिवद्वलिः ।  
सम्प्रेषणं दशम्यां तु क्रीडाकौतुकमङ्गलैः ॥ ११-१३८ ॥  

(महाकालसंहितायामपि)

येऽष्टादशभुजां देवीमुग्रचण्डाभिधां प्रिये ।  
पिपूजयिषवो मर्त्त्यास्तदुपासकतामिताः ॥ ११-१३९ ॥  

तथाऽश्विननवम्यां वै कृष्णायां सुसमाहिताः ।  
करवाले बोधयेयुर्मध्याह्ने शङ्खनिः स्वनैः � इति ॥ ११-१४० ॥  

मध्याह्नस्तु पञ्चधा विभक्तदिनतृतीयाशः ।

अह्नस्तु प्रथमो भागः प्रातःकाल इति स्मृतः ।  
द्वितीयः सङ्गवः प्रोक्तो मध्याह्नस्तु तृतीयकः ॥ ११-१४१ ॥  

अपराह्णश्चतुर्थः स्यात् सायाह्नः पञ्चमः स्मृतः � इति वचनात् ।  

शङ्खनिःस्वनैरित्युपलक्षणम् । शङ्खादिनानाविधवाद्यनिःस्वनैरित्यर्थः ।  

अत्र यस्मिन् दिने नवम्यां दिवार्द्रालाभस्तत्रैव बोधनं कार्यम् । दिनद्वये नवम्यां दिवार्द्रालाभे तु युग्मविधिवाक्यबलादष्टमीविद्धायामेव नवम्यां बोधनं कार्यम् । एवमार्द्राया अलाभेऽपि युग्मादरेणैव व्यवस्थेति वर्षक्रियाकौमुदीकृतः ।
वस्तुतस्तु �
मध्याह्ने शङ्खनिःस्वनैः � इति महाकालवचनान्मध्याह्नस्य बोधनकालत्वप्रतीतेस्तद्व्याप्त्यैव निर्णयः ।

कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः � इति बृहद्याज्ञवल्क्योक्तेः । दिनद्वये मध्याह्नव्यातो तदव्याप्तो नक्षत्रेण । नक्षत्रस्य   
युग्मवाक्यान्युक्तानि (निगमे)  

युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः ।  

प्। ९६८) रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा ॥ ११-१४२ ॥

प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलम् ।  

व्यस्तमेतन्महादोषं प्रवदन्ति मनीषिणः � इति ।  

अत्र युग्मादिरन्ध्रान्ताः शब्दा द्वितीयादिनवम्यन्ततिथिवाचकाः । रुद्र एकवशी । शेषं स्पष्टम् ।
यद्यपि युग्माग्नित्यादिवाक्यानि शुक्लपक्षपरतयोक्तानि (निर्णयामृतादौ) पूर्णिमाया अमाप्रतिपद्युग्मस्य च कृष्णपक्षेऽसम्भवादिति । तथाऽपि पूर्वविद्धैव नवमी पक्षयोरुभयोरपीति माधवोक्तेः ।
कृष्णपक्षेऽपि नवम्यष्टमीयुतैव ग्राह्या ।
निबन्धव्याख्याकृतस्तु । चतुर्दश्या च पूर्णिमा � इत्यत्र त्रयोदश्या चतुर्दशी � इति पाठस्य स्मृत्यन्तरे श्रवणादेतानि युग्मवाक्यानि पक्षद्वयपराणीयाहुः ।
निर्णयसिन्धुकृतोऽपि अमा प्रतिपद्युग्मात् कृष्णपक्षलिङ्गात् पक्षद्वयपरमिदं तत्तद्विशेषवाक्यैः कृष्णे तिथिविशेषेऽपीड्यत इति व्याजह्रुः ।
पूजयित्वाऽद्रभे दिवा � इत्यार्द्रानक्षत्रयोगाभिधानं तु नक्षत्रयोगस्य प्रशस्ततया सम्भवाभिप्रायम् ।
तथा च मध्याह्नव्यापिन्यां नवम्यां सति सम्भवे आर्द्रानक्षत्रयुक्तानां बोधनं कुर्यादिति निष्कर्षः ।

तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् ॥ ११-१४३ ॥  

योगाभावे तिथिर्ग्राह्या देव्याः पूजनकर्मणि � इति निर्णयसिन्धुधृतदेवलोक्तेः ।  

तत्तन्नक्षत्रयोगस्तु फलधिक्याय कल्पते ।  

भानामलाभे तु पुनः प्रशस्ता केवला तिथिः �इति महाकालवचनाच्च ।  

निर्णयामृतकृतस्तु �
पूजयित्वेति पूजनक्रियायाः समानकर्त्तृकयोः पूर्वकाल इति क्त्वाप्रत्यस्य नवम्यां बोधयेदिति बोधनक्रियाकालान्नवमीरूपात् पूर्वकालेऽष्टमीरूपे विधानात् क्त्वाप्रत्ययसामर्थ्यादेवाष्टम्यां पूजनं नवम्यां बोधनमित्याहुः ।
पूजयित्वाऽष्टमीदिने � इति [क्वाचित्कः पाठ � इति ४ पु० पा०]निर्णयसिन्धौ स्थितम् ।

प्। ९६९) यत् तु आर्द्रानक्षत्रयुक्तायायामष्टम्यां पूजनं नवम्यां प्रबोध इति मतं तत् तुच्छम् ।

आश्विनासितपक्षस्य नवमी या शिवर्क्षयुक् ॥ ११-१४४ ॥

बोधयित्वेश्वरीं तस्यां शरदर्चनमारभेत् � इति नवम्यामेवार्द्रानक्षत्रयोगस्य महाकालेनाभिहितत्वात् ।  
एवमाश्विनकृष्णनवमीमारभ्याश्विनशुक्लनवमीपर्यन्तमुत्सवोऽष्टादशभुजापक्षः ।  
 अथ षोडशभुजापक्षः । (महाथर्वणसंहितायाम्)  

इषे शुक्लप्रतिपदि भुजैः षोडशभिर्युताम् ।  
बोधयित्वा भद्रकालीं नवम्यन्तं प्रपूजयेत् ॥ ११-१४५ ॥  

(महाकालसंहितायामपि)

प्रतिपद्येव शुक्लायां बोधयित्वा सुरेश्वरीम् ।  
अभ्यर्चयेन्नवाहानि तन्त्रपौराणिकक्रमैः ॥ ११-१४६ ॥  

केवलपौराणिकक्रमेणोत्सवे कर्तव्ये तु आश्विनकृष्णचतुर्दश्यामेव षोडशभुजाया भोधनं कार्यम् ।  
तदुक्तं (कौमुद्यां लिङ्गपुराणे च) ।  

यदा तु षोडशभुजां महामायां प्रपूजयेत् ।  
दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु ॥ ११-१४७ ॥  

कन्यायां कृष्णपक्षे तु एकादश्यामुपोषितः ।  
द्वादश्यामेकभक्तं च नक्तं कुर्यात् परेऽहनि ॥ ११-१४८ ॥  

चतुर्दश्यां महामायां बोधयित्वा विधानतः ।  
गीतवादित्रनिर्घोषैर्नानानैवेद्यवेदनैः ॥ ११-१४९ ॥  

अयाचितं बुधः कुर्यादुपवासं परेऽहनि ।  
एवमेव व्रतं कुर्याद्यावद्वै नवमी भवेत् � इति ॥ ११-१५० ॥  

कलशस्थापनं तु प्रतिपद्येवोक्तं (यामले)

प्रतिपद्येव कर्तव्यं कलशस्थापनं तथा � इति ।  

तृतीयपक्षे तु सप्तम्यां कलशस्थापनं वक्ष्यते ।
अथाश्विनशुक्लप्रतिपन्निर्णीयते । सा च दुर्गोत्सवोपपासादिषु परविद्धा ग्राह्या ।

प्। ९७०) या चाश्वयुजि मासे स्यात् प्रतिपद्भद्रयाऽन्विता ।
शुक्ला ममार्चनं तस्यां शतयज्ञफलप्रदम् ॥ ११-१५१ ॥

इति (देवीपुराणे)परविद्धायाः प्राशस्त्यविधानात् ।

पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी ।  
नवरात्रव्रतं तस्यां न कार्यं शुभमिच्छता ॥ ११-१५२ ॥  

देशभङ्गो भवेत् तत्र दुर्भिक्षं चोपजायते ।  
नन्दायां दर्शयुक्तायां यत्र स्यान्मम पूजनम् ॥ ११-१५३ ॥  

इति (मार्कण्डेयदेवीपुराणयोः) पूर्वविद्धानिषेधाच्च ।
(रुद्रयामले)

अमायुक्ता सदा चैव प्रतिपन्निन्दिता मता ।  
तत्र न स्थापयेत् कुम्भं दुर्भिक्षं जायते ध्रुवम् ॥ ११-१५४ ॥  

प्रतिपत् सद्वितोया तु कुम्भारोपनकर्मणि ।  

(कल्पतरुः)

कुहूकाष्ठोपसंयुक्तां वर्जयेत् प्रतिपत्तिथिम् ॥ ११-१५५ ॥  

राज्यनाशाय सा प्रोक्ता निन्दतं तत्र पूजनम् ।  

(देवीपुराणे)

शृणु राजन् प्रवक्ष्यामि चण्डिकापूजनक्रमम् ॥ ११-१५६ ॥  

आश्विनस्य सिते पक्षे प्रतिपत् सुशुभे दिने � इत्युपक्रम्य ।  
शुद्धे तिथौ प्रकर्तव्यं प्रतिपच्चोर्ध्वगामिनी ॥ ११-१५७ ॥  

आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा ।  
अपराह्णे च कर्तव्यं शुद्धसन्ततिकाङ्क्षिभिः ॥ ११-१५८ ॥  

अपराह्णे योगिन्याः प्राशस्त्यं तु द्वितीयदिने प्रतिपदोऽभावे बोध्यम् । तत्रैव (उड्डामरतन्त्रे) च देवीवचनम् ।

अमायुक्ता न कर्तव्या प्रतिपत् पूजने मम ।  
मुहूर्तमात्रा कर्तव्या द्वितीयादिगुणान्विता ॥ ११-१५९ ॥  

प्। ९७१) आद्याः षोडश नाडीष्तु लब्ध्वा यः कुरुते नरः ।
कलशस्थापनं तत्र अरिष्टं जायते ध्रुवम् ॥ ११-१६० ॥

(शक्तिसङ्गमे)

घटिकाः षोडश त्याज्या आद्याः प्रतिपदस्तु याः ।  
कलशस्थापनं कुर्यात् कल्याणं जायते तदा ॥ ११-१६१ ॥  

तथा ।

अमायुक्ता न कर्तव्या प्रतिपत् कालिकार्चने ।  

(स्कान्दे)

वर्जनीया प्रयत्नेन अमायुक्ता तु पार्थिव ॥ ११-१६२ ॥  

द्वितीयादिगुणैर्युक्ता प्रतिपत् सर्वकामदा ।  

(देवीपुराणे) देवीवचः ।

यो मां पूजयते भक्त्या द्वितीयादिगुणान्विताम् ॥ ११-१६३ ॥  

शरत्प्रतिपदं ज्ञत्वा सोऽश्नुते सुखमव्ययम् ।  
यदि कुर्यादमायुक्तप्रतिपत्स्थापनं मम ॥ ११-१६४ ॥  

तस्य शापायुतं दत्वा वंशनाशं करोम्यहम् ।  
आग्रहात् कुरुते यस्तु प्रथमे स्थापनं मम ॥ ११-१६५ ॥  

तस्य सम्पद्विनाशः स्याज्ज्येष्ठपुत्रश्च नश्यति ।  
अमायुक्ता न कर्तव्या प्रतिपच्चण्डिकार्चने ॥ ११-१६६ ॥  

धनार्थिभिर्विशेषेण वंशहानिश्च जायते ।  
न दर्शकलया युक्ता प्रतिपच्चण्डिकार्चने ॥ ११-१६७ ॥  

उदये द्विमुहूर्ताऽपि ग्राह्या सोदयगामिनी ।  

अन्यत्रापि ।

परविद्धा च या शुद्धा भवेत् प्रतिपदाश्विनी ॥ ११-१६८ ॥  

तत्र दुर्गोत्सवं कुर्यादमायुक्तां विवर्जयेत् � इति ।  

नन्वेतानि वाक्यानि �

प्। ९७२) प्रतिपदा त्वमावस्या तिथ्योर्युग्मं महाफलम् � इति ॥ ११-१६९ ॥

एतद्युग्मवाक्यविरुद्धानीति चेन्न । युग्मवावयस्थैतत्प्रतिपदभिन्नप्रतिपद्विषयत्वात् ।
[तदुक्तं नन्दिकेश्वरपुराणे इति ४ पु० पा० ।] अत एवोक्तं (देवीपुराणे)

शरत्काले महापूजा क्रियते या च वार्षिकी ।  
सा कार्योदयगामिन्यां न तत्र तिथियुग्मता � इति ॥ ११-१७० ॥  

न च �

सम्पूज्य नवदुर्गां च नक्तं कुर्यात् समाहितः ।  
नवरात्राभिधं कर्म नक्तव्रतमिदं स्मृतम् ॥ ११-१७१ ॥  

इति (स्कान्दात् ) अस्य नवरात्रव्रतस्य नक्तव्रतत्वे सिद्धे �

नक्तव्रतेषु सर्वेषु रात्रियोगः प्रशस्यते ।  

इति वचनात् पूर्वविद्धैव ग्राह्येति वाच्यम् ।
अमायुक्ता न कर्तव्या इत्यादिविशेषवचनैर्निषेधात् ।
किञ्च न केवलं नक्तव्रतमेतत् ।

एवं च विन्ध्यवासिन्यां नवरात्रोपवासतः ॥ ११-१७२ ॥  

एकभक्तेन नक्तेन [स्वशक्त्यायाचितं नरः इति ४ पु० पा० ।]तथैवायाचितेन च ।  
पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ॥ ११-१७३ ॥  

(हेमाद्रौ भविष्ये) व्रतचतुष्टयस्योक्तत्वात्[नानाव्रताभिधानात् इति ४ पु० पा० ।] ।
अत एवोक्तं कमलाकरभट्टैः पाक्षिकनक्तानुवादोऽयमिति [अत्रोपवासादिबहुकर्माभिधानेऽपि देवीपूजनमेव प्रधानमिति रहस्यविदः इति ४ पु० पा० ।] ।
अत्र केचिद् (रुद्रयामलदेवीपुराणादि-)वचनेषु कलशस्थापनश्रुतेस्तदेव प्रथमदिने निषिद्धं न तूपवासादि तस्य प्रतिपदा त्वमावास्या � इति युग्मवाक्यात् ।
शुक्लपक्षे दर्शविद्धा इति माधवोक्तेश्च पूर्वदिने प्राप्तेऽस्य बाधे प्रमाणाभावादित्याहुः ।
वस्तुतस्तु �

प्। ९७३) अत्र देवीपूजायाः प्राधान्येन पूर्वदिने तस्या निषेधात् तदङ्गोपवासादावपि परैव ग्राह्येति युक्तम् ।
अत एवोक्तं देवलेन ।

व्रतोपसनियमे घटिकैकाऽपि या भवेत् ।  
सा तिथिस्तद्दिने पूज्या विपरीता तु पैतृके � इति ॥ ११-१७४ ॥  

अत्र घटिकाशब्दो मुहूर्त्तपर इति गौडाः ।
कमलाकरभट्टास्तु �
घटिकैकेति मुहूर्तमात्रा कर्तव्येति च द्विमुहूर्तस्तुतिः । तेनौदयिकी प्रतिपद्धिमुहूर्त्ता ग्राह्या । अन्यथा द्विमुहूर्त्तविधेर्वेयर्थ्यापत्तेः ।
यदा तु पूर्वदिने सम्पूर्णा शुद्धा भूत्वा परदिने वधते तदा सम्पूर्णत्वादमायोगाभाषाच्च पूर्वैव ग्राह्या ।
यानि च द्वितीयायोगनिषेधकानि वचनानि केचित् पठन्ति तान्यपि शुधाधिकनिषेधपराणीत्याहुः ।
द्विमुहूर्त्तवचसोऽपि त्रिमुहूर्तस्तावकत्वात् परदिने यदि प्रतिपन्मुहूर्तत्रयान्न्यूना तदा दर्शयुक्ताऽपि पूर्वैव ब्राह्येति समयप्रकाशकृतः ।
वस्तुतस्तु �
त्रिमुहूर्त्तविधिर्मुख्यः । द्विमुहूर्त्तविधिस्त्वनुकल्पः ।
द्विमुहूर्त्ताऽपि कर्तव्येति दक्षेणापि � शब्दस्योक्तत्वात् [एवं प्रकृतेऽपि उदये द्विमुर्ताऽपीत्यपि � शब्दोक्तेर्द्विमुर्तविधिरनुकल्पो वोध्यः इति ४ पु० पा० ।] ।
परदिने प्रतिपदोऽभावे त्वमाय्क्ताऽपि सा ग्राह्या ।

अमायुक्ताऽपि कर्तव्या यदि न स्यात् परेऽहनि ।

इति निबन्धव्याख्यालिखितवचनात् [ग्रन्थान्तरोदाहृतानि दशंयुक्तप्रतिपद्विधायकानि वचनान्येतद्विषयाण्येव इति ४ पु० पा० ।] ।
अत्र केचित् ।

वृद्धौ समाप्तिरष्टम्यां ह्रासेऽमाप्रतिपन्निशि ॥ ११-१७५ ॥  

प्रारम्भो [नवरात्रस्य ४ पु० पा० ।] नवचण्ड्यास्तु नवरात्रमतोऽर्थवत् ।  

प्। ९७४) इति (निर्णयसिन्धु-) धृत (देवीपुराणोक्त-) वचनान्नवरात्रशब्दो नवाहोरत्रपरः [इति (निर्णयसिन्धु-) धृत- (देवीपुराणो-)क्तवचनात् । तिथेः क्षये तथा वृद्धौ पूर्ववेधो न दूष्यति । इति तान्त्रिकवचनाच्च इति पु० पा० ।] ।
अमायुक्तप्रतिपन्निषेधकानि वाक्यानि तु तिथिह्रासाभावविषयाणीत्याहुः ।
अयं च नेपालदेशसम्प्रदायः ।
वस्तुतस्तु �

न रात्रौ स्थापनं कार्यं न च कुम्भाभिषेचनम् ॥ ११-१७६ ॥  

इति (मत्स्य-)पुराणीयवचनीय रात्रौ कलशस्थापनादिनिषेधात् प्रारम्भो नवचण्ड्यास्त्विति पूजनादेरपूर्वकत्वाभिधानाच्च नवभिर्दिनैर्नवावृत्तिचण्डीपाठविषयमेतद्वचनम् ।
नवरात्रशब्दस्तु नवतिथिपर एव ।
प्रारम्भो नवरात्रस्य इत्यादौ तु कर्मणि लाक्षणिकः । तस्य नवाहोरात्रपरत्वे तु तिथिह्रासवृद्ध्योर्न्यूनाधिकत्वापत्तेः ।
अत एवोक्तं (निर्णयामृते देवीपुराणे च)

तिथिवृद्धौ तिथिह्रासे नवरात्रमपार्थकम् ।  
अष्टरात्रेण दोषोऽयं नवरात्रतिथिक्षये ॥ ११-१७७ ॥  

अष्टरात्रेण दोषो हि पूर्णां मुक्त्वा तु पूजनम् ।  
तिथिह्रासेऽपि कर्त्तव्यं प्रतिपद्याश्विने सिते � इति ॥ ११-१७८ ॥  

प्रतिपदि चित्रावैधृतियोगानिषेध उक्तस्तत्रैव ।

त्वाष्ट्रवैधृतियुक्ता चेत् प्रतिपच्चण्डिकार्चने ।  
तयोरन्तर्विधातव्यं कलशारोपणं गृहे � इति ॥ ११-१७९ ॥  

तथा ।

आश्विने प्रतिपत् पूर्णा शुद्धा या तु भवेन्नृप ।  
आरभ्यं नवरात्रं स्याद्धित्वा चित्रां च वैधृतिम् ॥ ११-१८० ॥  

यदा तु चित्रावैधृत्योः परिहारेण प्रतिपन्न लभ्यते तदा कात्यायनः ।

प्रतिपद्याश्विने मासि नरो वैधृतिचित्रयोः ।  

प्। ९७५) आद्यपादौ परित्यज्य प्रारभेन्नवरात्रकम् ॥ ११-१८१ ॥

(रुद्रयामलेऽपि)

वैधृतौ पुत्रनाशः स्याच्चित्रायां धननाशनम् ।  
तस्मान्न स्थापयेत् कुम्भं चित्रायां वैधृतौ तथा ॥ ११-१८२ ॥  

सम्पूर्णा प्रतिपद्देवि चित्रायुक्ता यदा भवेत् ।
वैधृत्या वाऽपि युक्ता स्यात् तदा मध्यन्दिने रवौ ॥ ११-१८३ ॥

अभिजित् तु मुहूर्तं यत् तत्र स्थापनमिष्यते ।

(भविष्ये)

चित्रावैधृतिसम्पूर्णा प्रतिपच्चेद्भवेन्नृप ॥ ११-१८४ ॥  

त्याज्या ह्यंशास्त्रयस्त्वाद्यास्तुरीयांशे तु पूजनम् ।  

चित्रादियुक्ताऽपि द्वितीयायुता चेन्न दुष्टेत्युक्तं (दुर्गोत्सवे)

भद्रान्विता चेत् प्रतिपत् तु लभ्यते विरुद्धयोगैरपि सङ्गता सती ॥ ११-१८५ ॥

सा वै पराह्णे विबुधैर्विधेया श्रीपुत्रराज्यादिविवृद्धिहेतुः � इति ।

अथ यववपनविधिः (रुद्रयामले)

स्नानं माङ्गलिकं कृत्वा ततो देवीं प्रपूजयेत् ॥ ११-१८६ ॥  

शुभाभिर्मृत्तिकाभिश्च पूर्वं कृत्वा तु वेदिकाम् ।  
यवान् वै वापयेत् तत्र गोधूमैश्चापि संयुतान् ॥ ११-१८७ ॥  

तन्त्रान्तरे ।

वालुका गृह्य यत्नेन नदीनदसमुद्भवाः ।  
वेदीं कुर्यात् प्रयत्नेन चतुरस्रां शुभावहाम् ॥ ११-१८८ ॥  

द्विहस्ता चोत्तमा वेदी मध्यमा सार्धहस्तका ।  
अधमा हस्तमात्रा च न्यूनाधिक्यं न कारयेत् ॥ ११-१८९ ॥  

भूरसीति पठेन्मन्त्रं देवीं संस्पृश्य मानवः ।  
अपामग्निं समुच्चार्य प्रोक्षयेच्चन्दाम्भसा ॥ ११-१९० ॥  

तन्मध्ये विलिखेन्मन्त्रं जयदुर्गाख्यमुत्तमम् ।  

प्। ९७६) तत्रावाह्य यजेद्देवीमष्टादशभुजां पराम् ॥ ११-१९१ ॥

पञ्चोपचारैः सम्पूज्य दिक्पाला।श्चापि पूजयेत् ।
पश्चान्नवार्णमनुना पूजयेदस्त्रमातृकाम् ॥ ११-१९२ ॥

संशोध्य यवराशिं च यवोऽसीति मनुं पठन् ।  
प्रक्षिपेद्वेदिकामध्ये वक्ष्यमाणमनुं जपन् ॥ ११-१९३ ॥  

ॐ यव त्वं यवरूपोऽसि यज्ञार्थे निर्मितो विधेः ।  
देवानां तृप्तिकृद्यस्मात् तस्मात् त्वं वरदो भव ॥ ११-१९४ ॥  

जयन्ती मङ्गलाकाली भद्रकाली कपालिनी ।  
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोष्तुते ॥ ११-१९५ ॥  

तथा ।

भेरोमृदङ्गडमरूघण्टापटहनिःस्वनैः ।  
महोत्सवं प्रकुर्वीत यवारोपणकर्मणि ॥ ११-१९६ ॥  

प्रसृते च दशम्यां वै भद्राभद्रं विचारयेत् ।  

विचारस्त्वन्यत्र ।

सम्यक् समुद्गता दीर्घा ऋजवश्चाङ्कुराः शुभाः ॥ ११-१९७ ॥  

अनुद्गताः कुण्ठिताग्रा ह्रस्वाः शुष्काश्च भङ्गुराः ।  
कीटाखुभुक्ताः शटिताः विषमाश्चाशुभाः स्मृताः ॥ ११-१९८ ॥  

सङ्ग्रहान्तरलिखितविचारान्तरं तु प्रमाणाभासमूलकत्वादुपेक्षितम् ।
(रुद्रयामले)

तत्र संस्थापयेत् कुम्भं विधिना मन्त्रपूर्वकम् ।  
सौवर्णं राजतं वाऽपि ताम्रं मृण्मयमेव वा ॥ ११-१९९ ॥  

(मात्स्ये)

न रात्रौ स्थापयेत् कुम्भं न च कुम्भाभिषेचनम् ।  

विष्णुः ।

भास्करोदयमारभ्य यावत् तु दश नाडिकाः ॥ ११-२०० ॥  

प्। ९७७) प्रातःकाल इति प्रोक्तः स्थापनारोपणादिषु ।

कलशस्थापनविधिस्तु दशभुजापक्षे वक्ष्यते (वैष्णवीकल्पे)

नैमित्तिकोक्तविधिना नवाहानि प्रपूजयेत् ॥ ११-२०१ ॥  

उपोषणं तथाऽष्टम्यां प्रभूतवलिदानकम् ।  
नवम्यामाचरेद्धीमान् दशम्यां तु विसर्जयेत् ॥ ११-२०२ ॥  

पुत्रिणा तु महाष्टम्यामुपवासो न कार्यः ।

उपवासं महाष्टम्यां पुत्रवान् न समाचरेत् ।  
यथा तथा संयतात्मा व्रती देवीं प्रपूजयेत् ॥ ११-२०३ ॥  

इति (कालिकापुराणात्)नवम्यां प्रभूतवलिदानमित्यनेनाष्टम्यादौ पूजाङ्गवलिदानमायाति ।

अष्टम्यां वलिदानेन पुत्रनाशो भवेद्ध्रुवम् ।  

इति नामशून्यं वचनं केचित् पठन्ति । तत्र मूलं मृग्यम् । समूलत्वाभिधाने तु प्रभूतवलिदाननिषेधकमिति मन्तव्यम् । पूजावलिदानविसर्जनादिविधिस्त्वग्रे व्यक्तीभविष्यति ।
अथ दशभुजापक्षः (कालिकापुराणे)

बोधयेद्विल्वशाखासु षष्ठ्यां देवीं फलेषु च ॥ ११-२०४ ॥  

सप्तम्यां विल्वशाखां तामाहृत्य प्रतिपूजयेत् ।  
पुनः पूजां तथाऽष्टम्यां विशेषेण समाचरेत् ॥ ११-२०५ ॥  

जागरं च स्वयं कुर्याद्वलिदानं महानिशि ।  
प्रभूतवलिदानं च नवम्यां विधिवच्चरेत् ॥ ११-२०६ ॥  

जपहोमसमायुक्तो भोजयेद्वै कुमारिकाः ।  
ध्यायेद्दशभुजां देवीं दुर्गातन्त्रेण पूजयेत् ॥ ११-२०७ ॥  

विसर्जन दशम्यां तु कुर्याद्वै शावरोत्सवैः ।  

फलेषु इति । फलयुक्तासु शाखास्वित्यर्थः । दुर्गातन्त्रेणेति दुर्गातन्त्रसञ्ज्ञकेन पूर्वोक्तजयदुर्गामन्त्रेणेत्यर्थः । शावरोत्सवैरिति । शवरोचितवेशभाषाधूलिकर्दमविक्षेपादिभिरित्यग्रे स्फुटीभविष्यति । षष्ठ्यां च सायाह्ने सन्ध्यायां वा बोधनं कार्यम् ।

सायाह्ने विल्वशाखायां षष्ठ्यां देवीं प्रबोधयेत् ॥ ११-२०८ ॥  

प्। ९७८) इति महाकालोक्तेः ।

षष्ठ्यां विल्वतरौ बोधं सायंसन्ध्यासु कारयेत् ।  

इति (भविष्यपुराणाच्च)
पञ्चधा विभक्तिदिनपञ्चमांशः सायाह्नः । सन्ध्या तु दिनरात्र्योः सन्धौ मुहूर्तः ।
(देवीपुराणे)

ज्येष्ठानक्षत्रयुक्तायां षष्ठ्यां विल्वाभिमन्त्रणम् ॥ ११-२०८ ॥  

सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवेशनम् ।  

इति नक्षत्रयोगे फलातिशयः ।

मूलाभावेऽपि सप्तम्यां केवलायां प्रवेशयेत् ॥ ११-२०९ ॥  

इति (नन्दिकेश्वरपुराणात्)
एवं च ।

ज्यैष्ठायामेव सम्बोध्य मूलेनैव प्रवेशयेत् ।  
पूर्वोत्तराभ्यां सम्पूज्य श्रवणान्ते विसर्जयेत् ॥ ११-२१० ॥  

इत्यादौ सर्वत्रापि तिथिनक्षत्रयोगे फलभूयस्त्वं वेदितव्यम् । पूर्वोत्तराभ्यामिति । पूर्वाषाढान्वितायामष्टम्यामुत्तराषाढान्वितायां नवम्यामित्यर्थः । नक्षत्रानुरोधेन पत्रिकाप्रवेशनं विसर्जनं च रात्रौ न कर्तव्यम् ।

ऋक्षयोगानुरोधेन रात्रौ पत्रीप्रवेशनम् ।  
विसर्जनं चरेद्यस्तु सराष्ट्रः स विनश्यति ॥ ११-२११ ॥  

इति (दुर्गाभक्तितरङ्गिणी-)लिखितवचनात् ।
तथा च ।

अन्त्यपादो निशाभागे श्रवणस्य यदा भवेत् ।  
तदा देव्याः समुत्थानं दशम्यां दिनभागतः ॥ ११-२१२ ॥  

इति वचनात् श्रवणान्ते विसर्जयेत् इत्यादिवचनानुरोधेन रात्रौ विसर्जनं न कार्यमिति तत्रैवोक्तम् । अत्र दिनत्रये तिथित्रयविहितपूजात्रयं प्रायिकं कदा चित् तिथिह्रासवशाद्द्वाभ्यां पूजात्रयं कदा चित् तिथिवृद्धिवशाद्दिनचतुष्टयेन पूजात्रयं तिथित्रयलाभे तु निर्विवादैव व्यवस्था ।

व्रती प्रपूजयेद्देवीं सप्तम्यादिदिनत्रये ।  
द्वाभ्यां चतुरहोभिर्वा ह्रासवृद्धिवशात् तिथेः ॥ ११-२१३ ॥  

इति (भविष्य-) वचनात्

प्। ९७९) अस्मिन् पक्षेऽपि प्रतिपदादिदिनकृत्यान्युक्तानि (भविष्ये)

केशसंस्कारद्रव्याणि प्रदद्यात् प्रतिपत्तिथौ ।  
पट्टडोरं द्वितीयायां केशसंयमहेतवे ॥ ११-२१४ ॥  

दर्पणं च तृतीयायां सिन्दूरालक्तकं तथा ।  
मधुपर्कं चतुर्थ्यां तु तिलकं नेत्रमण्डनम् ॥ ११-२१५ ॥  

पञ्चम्यामङ्गरागं च शक्त्याऽलङ्करणानि च ।  
षष्ठ्यां विल्वतरौ बोधं सायंसन्ध्यासु कारयेत् � इति ॥ ११-२१६ ॥  

अत्रं च पत्रिकाप्रवेशात् पूर्वेद्युः सायङ्काले षष्ठ्यभावे तत्पूर्वदिनेऽधिवासनं कार्यम् । षष्ठ्याः सायङ्कालेऽत्यन्तासत्त्वे त्वधिवासनलोपः ।

षष्ठ्यां सायं प्रकुर्वीत विल्ववृक्षेऽधिवासनम् ।  

इति (कल्पतरु-) वचनादिति । एवं देवीबोधनेऽपि व्यवस्था ।
वस्तुतस्तु �
अनेकतन्त्रवोधितकर्त्तव्यताकस्य देवीबोधनस्यावश्यकतया यस्मिन् दिने सायंसमये षष्ठीलाभस्तत्रैव बोधनम् । उभयदिने सन्ध्यायां षष्ठीलाभे तु युग्मादरेण व्यवस्था । दिनद्वयं सन्ध्यायां षष्ठ्यभावे तु प्रदोषादिसमये षष्ठ्यमिति कौमुदीकृन्मतमेवादरणीयम् । गौणकालव्याप्तेः सत्त्वात् ।
तदुक्तम् ।

	स्वकालादुत्तरः कालो गौणः स्यात् पूर्वकर्मणः � इति ।  

अत एव सायं श्रुतिः फलार्थातिशयार्था न तु कर्मलोपः कार्यम् इत्याचार्यचूडामणिः ।  
प्रदोषस्तु �  

	त्रिमूहूर्तः प्रदोषः स्याद्भानावस्तं गते सति ॥ ११-२१७ ॥  

इति (मदनरत्ने) व्यासेनोक्तः ।
वत्सेन तु �
प्रदोषोऽस्तमयादूर्ध्वं घटिकाद्वयमिष्यते � इत्युक्तम् ।

एवं च पत्रिकाप्रवेशादौ सप्तभ्युदयव्यापिन्येव ग्राह्या न तु षण्मुन्योरिति युग्मवाक्यात् पूर्वविद्धा ।

युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया ।  
रवेरुदयमिच्छन्ती न तत्र तिथियुग्मता ॥ ११-२१८ ॥  

प्। ९८०) इति (कृत्यतत्त्वार्णव -) लिखितवचनात् ।

भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः ।  
तिथावुदयगामिन्यां सर्वास्ताः कारयेद्बुधः ॥ ११-२१९ ॥  

इति (तिथितत्त्व-)लिखित-(नन्दिकेश्वरपुराणाच्च)
अधिवासनं तु पत्रिकाप्रवेशाव्यवहितपूर्वदिन एव सायङ्काले षष्ठ्यभावेऽपि कार्यम् ।

ज्येष्ठा वा यदि वा षष्ठी सायङ्काले न चेद्भवेत् ।  
सायमेव तथाऽपि स्याद्विल्ववृक्षेऽधिवासनम् ॥ ११-२२० ॥  

पूर्वां षष्ठीं सनक्षत्रां सायं प्राप्तामपि त्यजेत् � इति ।  

तथा च ज्योतिःशास्त्रम् ।
पूर्वाह्णे नवपत्रिका शुभकरी सर्वार्थसिद्धिप्रदा
आरोग्यं धनदा करोति विजयं चण्डीप्रवेशे शुभा ।
मध्याह्ने न च पीडनं क्षयकरी नॄणामघोरावहा
सायाह्ने वधबन्धमादिकलहं सर्वक्षतिं दास्यति ॥ ११-२२१ ॥

सप्तम्यामस्तगायां यदि विशति गृहं पत्रिका श्रीफलाद्या
राज्ञः सप्ताङ्गराज्यं जनसुखसहितं हन्ति मूलानुरोधात् ।
तस्मात् सूर्योदयस्थां नरपतिशुभदां सप्तमीं प्राप्य देवीं
भूपालो वेशयेत् तां सकलजनहितां राक्षसर्क्षं विहाय ॥ ११-२२२ ॥

मत्स्यसूक्तवचनात् ।

पत्रीप्रवेशात् पूर्वेद्युः सायाह्ने विल्ववासिनीम् ।  
चण्डीमामन्त्रयेद्विद्वान्नात्र षष्ठीपुरस्क्रिया ॥ ११-२२३ ॥  

इति (ब्रह्माण्डपुराणाच्च)
विल्वनिमन्त्रणपत्रिकाप्रवेशादिविधिरग्रे वक्ष्यते ।
एकाहपक्षोऽपि (कालिकापुराणे)

यस्त्वेकस्यामथाष्टम्यां नवम्यामथ साधकः ।  

पूजयेद्वरदां देवीं महाविभवविस्तरैः � इति ॥  

प्।९८१) (रुद्रयामले)

मूलनक्षत्रमारभ्य पूजनीया सरस्वती ॥ ११-२२४ ॥

पूजयेत् प्रत्यहं देवीं यावद्वैष्णवमृक्षकम् ।  
नाध्यापयेन्न च लिखेन्नाधीयीत कदाचन ॥ ११-२२५ ॥  

पुस्तके स्थापिते देवि विद्याकामो द्विजोत्तमः ।  

(सङ्ग्रहे)

आश्विनस्य सिते पक्षे मेधाकामः सरस्वतीम् ॥ ११-२२६ ॥  

मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् ।  

अथ महाष्टमी निर्णीयते । सा च पूजोपवासादिषु परयुता ग्राह्या । वसुरन्ध्रयोरिति युग्मवाक्यात् ।

शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी ॥ ११-२२७ ॥  

पूर्वविद्धा न कर्त्तव्या कर्त्तव्याऽपरसंयुता ।  

इति (ब्रह्मवैवर्त्ताच्च)
तथा च (स्मृतिसङ्ग्रहे)

शरन्महाष्टमी पूज्या नवमीसंयुता सदा ॥ ११-२२८ ॥  

सप्तमीसंयुता नित्यं शोकसन्तापकारिणी ।  
जम्भेन सप्तमीयुक्ता पूजिता तु महाष्टमी ॥ ११-२२९ ॥  

इन्द्रेण निहतो जम्भस्तस्माद्दानवपुङ्गवः ।  
तस्मात् सर्वप्रयत्नेन सप्तमीमिश्रिताऽष्टमी ॥ ११-२३० ॥  

वर्जनीया प्रविज्ञाय मनुजैः शुभकाङ्क्षिभिः ।  
सप्तमीं शल्यसंयुक्तां मोहादज्ञानतोऽपि वा ॥ ११-२३१ ॥  

महाष्टमीं प्रकुर्वाणो नरकं प्रतिपद्यते ।  
सप्तमी कलया यत्र परतश्चाष्टमी भवेत् ॥ ११-२३२ ॥  

तेन शल्यमिदं प्रोक्तं पुत्रपौत्रक्षयप्रदम् ।  

तथा ।

पुत्रान् हन्ति पशून् हन्ति हन्ति राष्ट्रं सराजकम् ॥ ११-२३३ ॥  

हन्ति जातानजाता।श्च सप्तमीसहिताऽष्टमी ।  

(निर्णयामृते) स्मृत्यन्तरवचनम् ।

नाष्टमी सप्तमीयुक्ता सप्तमी नाष्टमीयुता ॥ ११-२३४ ॥  

नवम्या सह कार्या स्यादष्टमी सर्वथा बुधैः ।  

तत्रैव ।

अष्टमी नवमीयुक्ता महोत्साहो महोत्सवः ॥ ११-२३५ ॥  

इति (देवीपुराणे)

सप्तमी वेधसंयुक्ता यैः कृता तु महाष्टमी ।  
पुत्रदारधनैर्हीना भ्रमन्तीह पिशाचवत् ॥ ११-२३६ ॥  

(भोजराजीये)

उमाया नवमी प्रोक्ता हरस्य तिथिरष्टमी ।  
द्वयोरैक्ये महापुण्या उमामाहेश्वरी तिथिः ॥ ११-२३७ ॥  

(मदनरत्ने स्मृतिसमुच्चये)

सप्तमी शल्यसंविद्धा वर्जनीया महाष्टमी ।  
स्तोकाऽपि सा महापुण्या यस्यां सूर्योदयो भवेत् ॥ ११-२३८ ॥  

स्तोकाऽपीति घटिकामात्राऽपीत्यर्थः । अत एव घटिकामात्राऽप्यष्टम्यौदयिकी ग्राह्या ।

व्रतोपवासनियमे घटिकैकाऽपि या भवेत् ।

इति देवलोक्तेरिति निर्णयसिन्धुकृतः । गौडा अप्येवमेवाहुः ।
एवं च सप्तमीवेधः कलारूपोऽप्यष्टमीवर्जनप्रयोजको न तु त्रिमुहूर्त्तेति द्रष्टव्यम् ।

समयप्रकाशादिग्रन्थकारास्तु त्रिमुहूर्ताऽष्टम्येव सप्तमी वर्जनप्रयोजिका न तु ततो न्यूना । स्तोकाऽपीत्यादीनि वचनान्यवयवद्वारा त्रिमुहूर्तं स्तुवन्ति तेनाष्टमी परदिने यदि मुहूर्त्तत्रयान्न्युना तदा सप्तमीयुता पूर्वैव ग्राह्येत्याहुः ।
कलाकाष्ठा घटिकामुहूर्त्तद्विमूर्त्तवचांसि त्रिमुहूर्त्तप्रशंसापराणीति निबन्धव्याख्याकारोऽपि बभाण ।
यत् तु �

प्। ९८३) महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी ॥ ११-२३९ ॥

सप्तम्याऽपि युता कार्या मूलेन तु विशेषतः ।  

इति वचनं तत् परदिनेऽष्टम्यभावविषयम् ।
तदुक्तं (निर्णयामृते देवीपुराणे)

उत्तरास्तिथयो यत्र क्षयं यान्ति नराधिप ॥ ११-२४० ॥  

तदा पूर्वाष्टमीं कुर्यादन्यथा त्वशुभं भवेत् � इति ॥  

यच्च �

यदाऽष्टमीं तु सम्प्राप्य ह्यस्तं याति दिवाकारः ।  
तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरेऽहनि ॥ ११-२४१ ॥  

दुर्भिक्षं तत्र जानीयान्नवम्यां यत्र पूज्यते ।  

इति परदिनेऽष्टमीसत्त्वेऽपि पूर्वविद्धाविधायकं वचनं तत् परदिने नवम्यभावविषयम् ।

यदा सूर्योदये न स्यान्नवमी चापरेऽहनि ॥ ११-२४२ ॥  

तदाष्टमीं प्रकुर्वीत सप्तम्या सहितां नृप ।  

इति (स्मृतिसङ्ग्रहात्)
यत् तु �

सप्तम्यामुदिते सूर्ये परतो याऽष्टमी भवेत् ॥ ११-२४३ ॥  

तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरेऽहनि ।  

इति परविद्धाष्टमीनिषेधकविश्वरूपनिबन्धवचनं तदाश्विनकृष्णपक्षनवम्यां विहिते देवीबोधने तदङ्गत्वेन कृष्णाष्टम्यां क्रियमाणदेवीपूजाविषयम् ।

कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी ॥ ११-२४४ ॥  

पूर्वविद्धा तु कर्त्तव्या परविद्धा न कुत्रचित् ।  
उपवसादिकार्येषु एष धर्मः सनातनः ॥ ११-२४५ ॥  

इति कृष्णाष्टम्याः परविद्धाया एव प्राशस्त्यविधानादिति निबन्धव्याख्याकृतः ।
यानि च �

प्। ९८४) अहं भद्रा च भद्राऽहं नावयोरन्तर क्वचित् ।
सर्वसिद्धिं प्रदास्यामि भद्रायामर्चिताऽप्यहम् ॥ ११-२४६ ॥

तथा ।

महाष्टम्यां भगवती भद्रायामपि पूजिता ।  
ददाति चायुरारोग्यं यतो भद्रास्वरूपिणी ॥ ११-२४७ ॥  

इत्यादीनि (देवीपुराण -) वचनानि तानि तु विष्टिकरणमध्ये पूजाविधानार्थानि ।

विष्टिं त्यक्त्वा महाष्टम्यां मम पूजां करोति यः ।
तस्य पूजाफलं न स्यात् तेनाहमवमानिता ॥ ११-२४८ ॥

इति देवीवाक्यात् ।

भद्रायां भद्रकाल्याश्च मध्ये स्यादर्चनक्रिया ।  
तस्माद्वै सप्तमीविद्धा कार्या दुर्गाष्टमी बुधैः ॥ ११-२४९ ॥  

इति वचनं तु पूर्वदिनेऽष्टम्यभावविषयमिति सर्वसम्मतम् ।
महाष्टमी भौमवारान्विता चेदतिप्रशस्ता ।
तदुक्तं (मदनरत्ने)

अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भवेत् ।  

कुजवारो भवेत् तत्र पूजनीया प्रयत्नतः - इति ॥  

मूलयुक्तेयमतिप्रशस्तेत्युक्तं (स्कान्दे)

महाष्टमी मूलयुक्ता त्रैलोक्येऽपि सुदुर्लभा � इति ।  

मूलयुक्ताऽपि सप्तमीविद्धा चेत् त्याज्यैवेत्युक्तं (दुर्गोत्सवे)

मूलेनापि हि संयुक्ता सदा त्याज्याऽष्टमी बुधैः ॥ ११-२५० ॥  

लेशमात्रेण सप्तम्या अपि स्याद्यदि दूषिता � इति ॥  

यदा तु पूर्वदिने सम्पूर्णा सती परदिने वर्धते तदा सम्पूर्णत्वात् सप्तमी योगाभावाच्च पूर्वैव ग्राह्या न तूत्तरा ।

षष्टिदण्डात्मिकायाश्च तिथेर्निष्क्रमणे परे ।  

अकर्मण्यं तिथिमलं भवेदेकादशीं विना � इति स्मार्त्तवचनात् ॥  

एवं च ।

सप्तमी कलया युक्ता वर्जनीया महाष्टमी ॥ ११-२५१ ॥  

प्। ९८५) इत्यादिवाक्यैः पूर्वविद्धाया निषेधात् परविद्धैव महाष्टमिति सिद्धम् ।
शुद्धायां तु न कश्चित् सन्देहः ।
केचित् तु �

तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।  
प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ॥ ११-२५२ ॥  

अतोऽर्थं पूजनीया सा तस्मिन्नहनि मानवैः ।  
त्रिसन्ध्यं पूजयेद्देवीं जपस्तोत्रपरायणः ॥ ११-२५३ ॥  

इत्यादिवाक्यविहितायां दिवातनपूजायां परविद्धाऽष्टमी ग्राह्या ।

आश्विनस्य सिते पक्षे या तु स्यात् तिथिरष्टमी ।  
तस्यां रात्रौ पूजनीया महाविभवविस्तरैः ॥ ११-२५४ ॥  

इत्यादिवचनप्राप्तायां रात्रिपूजायां त्वष्टम्यां रात्रियोग एवादरणीयः ।

कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः ।  
तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ॥ ११-२५५ ॥  

इति वचनादित्याहुः । महाष्टमीकृत्यमग्रे वक्ष्यते ।
अथ महानवमी निर्णीयते । सा च पूर्वयुता ग्राह्या वसुरन्ध्रयोरिति युग्मवाक्यात् ।

अष्टम्या सहिता कार्या सा महानवमी तिथिः ।  

इति (बृहत्सिद्धान्तसाराच्च)

अष्टम्या सहिता रिक्ता न कदाचित् परायुता ॥ ११-२५६ ॥  

इति * (लघुतिथिनिर्णये मत्स्यपुराणाच्च)
पैठीनसिरपि ।

प्रतिपन्नवमी चैव कर्त्तव्या सम्मुखी तिथिः ।  

सम्मुखी सायाह्नव्यापिनी ।
(ब्रह्मवैवर्त्ते)

अष्टम्या नवमी विद्धा कर्त्तव्या फलकाङ्क्षिभिः ॥ ११-२५७ ॥  

(पद्मे)

अष्टमी नवमीयुक्ता नवमी चाष्टमीयुता ।  

प्। ९८५) (मात्स्ये)

अष्टम्या सहिता रिक्ता प्रकर्त्तव्या सदा बुधैः ॥ ११-२५८ ॥  

पूर्णायुक्तां तदा कुर्यात् का चिन्नास्त्यष्टमीयुता ।  

(* हेमाद्रौ पाद्मे)

श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी ॥ ११-२५९ ॥  

पूर्वविद्धा च कर्त्तव्या शिवरात्री वलेर्दिनम् ।  

(भविष्ये)

अश्वयुक् शुक्लपक्षे तु याऽष्टमी मूलसंयुता ॥ ११-२६० ॥  

सा महानवमी नाम त्रिषु लोकेषु दुर्लभा ।  

अष्टमीमूलाभ्यां युक्तेत्यर्थः । मूलेत्युपलक्षणम् ।
तथा च (मदनरत्ने लैङ्गे)

दुर्गापूजासु नवमी मूलाद्यृक्षत्रयान्विता ॥ ११-२६१ ॥  

महती कीर्त्तिता तस्यां दुर्गां महिषमर्दिनीम् ।  

पूजयेदिति शेषः ।

अष्टम्या नवमी विद्धा नवम्या चाष्टमी तथा ॥ ११-२६२ ॥  

मूलादिमत्रयेणाद्या त्रैलोक्येऽपि प्रपूजिता � इति ॥  

अत्र मुहूर्त्तत्रयात्मको वेधो वेदितव्यः ।
तदाह पैठीनसिः ।

पक्षद्वयेऽपि तिथयस्तिथिं पूर्वां तथोत्तराम् ।  

त्रिभिर्मुहूर्तैर्विध्यन्ति सामान्योऽयं विधिः स्मृतः � इति ॥  

यद्यपि �

उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ ॥ २६३ ॥  

द्विस्त्रिर्मुहूर्त्तमह्नो यः सा तिथिर्हव्यकव्ययोः ।  

इति (हेमाद्रौ विष्णुधर्मे ) मुहूर्त्तद्वयात्माऽपि वेध उक्तस्तथाऽपि प्रातरेव सः सायं तु त्रिमुहूर्त्त एव वेधः ।

प्। ९८७) तदुक्तं (स्कान्दे)

यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः ॥ ११-२६४ ॥  

सा तिथिस्तद्दिने प्रोक्ता त्रिमुहूर्तैव या भवेत् � इति ॥  

सूर्योदयेऽपि द्विमुहूर्त्तत्वमनुकल्प एव ।

द्विमुहूर्त्ताऽपि कर्त्तव्या या तिथिर्वृद्धिगामिनी ।  

इति दक्षोणापि � शब्दग्रहणात् ।
निर्णयसिन्धुकृतोऽपि त्रिमुहूर्त्तयोगे पूर्वा नवमी पूर्वोक्तवचनात् ।

न कुर्यान्नवमीं तात दशम्या तु कदाचन ॥ ११-२६५ ॥  

इति (स्कान्दे) परानिषेधाच्च । त्रिमुहूर्त्तयोगाभावे तु निषिद्धाऽपि परव ग्राह्या ।

व्रतोपवासनियमे घटिकैकाऽपि या भवेत् ।
सा कार्योदयगामिन्याम् ���������������- ॥ ११-२६६ ॥

इत्यादिवचनानि नवमीभिन्नतिथिपराणि नवम्यां विशेषोक्तेरित्याहुः ।
यद्यप्येवं निर्णयः प्रामाणिकैः कृतस्तथाऽपि ।

तत्राश्वयुक्तनवमी मुहूर्त्तं वा कला यदि ।  
सा तिथिः सकला ज्ञेया लक्ष्मीविद्याजयार्थिभिः ॥ ११-२६७ ॥  

इति (सौरपुराणात्)

अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भवेत् ।  
प्रभाते बलिदाने तु कियन्मात्राऽपि लभ्यते ॥ ११-२६८ ॥  

नवम्यां तत्र सम्पूज्य दुर्गां दुर्गार्त्तिनाशिनीम् ।  

इति (सिद्धान्तसङ्ग्रहो-) दाहृतवचनात् ।

सूर्योदये परं रिक्ता पूर्णा स्यात् परतो यदि ॥ ११-२६९ ॥  

वलिदानं प्रकर्त्तव्यं तस्मिन् देशे शुभावहम् ।  
वलिदाने कृतेऽष्टम्यां * पुत्रभङ्गो भवेन्नृप ॥ ११-२७० ॥  

इति (देवीपुराणाच्च) वलिदाने परविद्धायाः प्राशस्त्यमेवावगन्तव्यम् । उपवासे तु पूर्वैव पूर्वोक्तवचननिचयात् ।

प्। ९८८) एकादशी च नवमी दिशा विद्धा भवेद्यदि ।
तदा वर्ज्या प्रयत्नेन गङ्गाम्भः सुरया यथा ॥ ११-२७१ ॥

नवमी दशमी चैव नोपोष्या परसंयुता ।  

इति (पाद्मब्रह्मवैवर्त्तयोः) उपवासे परानिषेधाच्च । पूजाङ्गवलिदानमष्टम्यामपि कर्त्तव्यम् ।

अष्टम्यामधिकं देयं सप्तमीवलिदानतः ॥ ११-२७२ ॥  

इति महाकालोक्तेः ।
किन्तु प्रभूतवलिदानं तत्र निषिद्धम् ।

प्रभूतवलिदानं तु न कुर्यान्नवमीं विना ।  

इति भैरवोक्तेः ।
नवम्यामुदयव्यापिन्यां प्रभूतवलिदानमुक्तं (भविष्ये)

एवं हृष्टैर्निशां नीत्वा प्रभाते अरुणोदये ॥ ११-२७३ ॥  

घातयेन्महिषान् मेषान् रटतो नतकन्धरान् ।  

शतमर्धशतं वाऽपि तदर्धं वा यथेच्छया � इति ।  

निशामष्टमीरात्रिम् । अरुणोदयः सूर्योदय इत्यर्थः ।

सूर्योदये नवम्यां तु दद्याद्बलिमतन्द्रितः ॥ ११-२७४ ॥  

इति तन्त्रान्तरसंवादात् ।

अरुणो भास्करेऽपि स्यात् ������������ ।  

इति (अमरकोषाच्च)
यानि तु �

नन्दायां ज्वलते वह्निः पूर्णायां पशुघातनम् ॥ ११-२७५ ॥

भद्रायां गोकुलक्रीडा राज्यनाशाय जायते ।  
नवम्यामपराह्णे तु वलिदानं प्रशस्यते ॥ ११-२७६ ॥  

दशमीं वर्जयेत् तत्र नात्र कार्या विचारणा ।  

इत्यादीनि (ब्रह्मवैवर्त्तादि-) वचनानि तानि शुद्धाधिकनिषेधपराणीति दिक् ।
नवमीकृत्यमग्रे वक्ष्यते ।
अथ विजयादशमी निर्णीयते । सा च देवीविसर्जनव्यतिरिक्तकर्मसु तारकोदयव्यापिनी ग्राह्या ।

प्। ९८९) ईषत्सन्ध्यामतिक्रान्तः किञ्चदुद्भिन्नतारकः ॥ ११-२७७ ॥

विजयो नाम कालोऽयं सर्वकार्यार्थसिद्धिदः ।

इति (ज्योतिर्निबन्धे) नारदवचनात् ।
दिनद्वये नक्षत्रोदयव्यापिन्या दशम्याः सत्त्वे पूर्वा ।

या पूर्णा नवमीयुक्ता तस्यां पूज्याऽपराजिता ॥ ११-२७८ ॥  

क्षेमार्थं विजयार्थं च पूर्वोक्तविधिना नरैः ।  
नवमिशेषयुक्तायां दशम्यामपराजिता ॥ ११-२७९ ॥  

ददाति विजयं देवी पूजिता जयवर्धिनी ।  

इति (हेमाद्रौ स्कन्दात्) निर्णयसिन्धुमते तूत्तरा ।

दशम्यां तु नरैः सम्यक् पूजनीयाऽपराजिता ॥ ११-२८० ॥  

ऐशानीं दिशमाश्रित्य चापराह्णे प्रयत्नतः ।  

इति (स्कन्दात्) अपाराह्णव्याप्तेराधिक्यात् । असत्त्वे तु एकादशमुहूर्त्तव्यापिनी ग्राह्या ।

आश्विने शुक्लपक्षे तु या भवेद्दशमी तिथिः ॥ ११-२८१ ॥  

एकादशमुहूर्ता सा ग्राह्या श्रवणसंयुता � इति धौम्योक्तेः ॥  

आश्विनस्य सिते पक्षे दशम्यां सर्वरात्रिषु ।  
सायङ्काले शुभा यात्रा दिवा वा विजयक्षणे ॥ ११-२८२ ॥  

एकादशो मुहूर्तोऽपि विजयः परिकीर्त्तितः ।  
तत्र सर्वैर्विधातव्या यात्रा विजयकाङ्क्षिभिः ॥ ११-२८३ ॥  

इति भृगुवचनाच्च ।
दिनद्वये तद्व्याप्तौ पूर्वतारकोदयव्याप्तेराधिक्यात् ।
यदा तु परदिने स्वल्पाऽपि श्रवणयुक्ता तदा यात्रायां परैवोपादेया ।

उदये दशमी किञ्चित् सम्पूर्णैकादशी यदि ।  
श्रवणर्क्षं यदा काले सा तिथिर्विजयाभिधा ॥ ११-२८४ ॥  

श्रवणर्क्षे तु पूर्णायां काकुत्स्थः प्रस्थितो यतः ।  

प्। ९९०) उल्लङ्घयेयुः सीमानं तद्दिनर्क्षे ततो नराः ॥ ११-२८५ ॥

इति (हेमाद्रौ) काश्यपोक्तेः ।
एवमुक्तलक्षणाया दशम्याः परदिने सत्त्वे देवीविसर्जनेऽपि परैव ग्राह्या ।

विसर्जनं तु तद्दुष्टं लक्ष्मीविद्या बलक्षयम् ॥ ११-२८६ ॥  

(तिथिनिर्णये देवीपुराणे) पूर्वानिषेधात् ।
अत एव नारदः ।

सूर्योदये यदा राजन् दृश्यते दशमी तिथिः ।  
आश्विने मासि शुक्ले तु विजयां तां विदुर्बुधाः ॥ ११-२८७ ॥  

इति श्रवणान्वितायां दशम्यां केवलायामेव दशम्यां वा विसर्जनं कार्यम् ।

तत्तन्नक्षत्रयोगे तु फलभूमा प्रजायते ।  
नक्षत्राणामलाभे तु केवलायां तिथौ चरेत् ॥ ११-२८८ ॥  

इति महाकालोक्तेः ।
तिथिः शरीरं तिथिरेव कारणं तिथिः प्रमाणं तिथिरेव साधनम् ।
इति लल्लवचनाच्च ।
परदिने दशम्यसत्त्वे तु पूर्वदिन एव दशमीभागे विसर्जनं कार्यम् ।

सम्प्रेषणं दशम्यां तु क्रीडाकौतुकमङ्गलैः ।  

इति (नन्दिकेश्वरपुराणात्)
स्थापनविसर्जनयोर्लग्नमाह ।

क्रूरे च स्थापयेद्देवीं चरलग्ने तु चालयेत् ॥ ११-२८९ ॥  

(महाकालसंहितायाम्)

शरदर्चाविधौ देव्याः स्थापनं च विसर्जनम् ।  
चरलग्ने चरांशें वा कुर्यात् सर्वसमृद्धये ॥ ११-२९० ॥  

अन्यलग्नेऽन्यांशके वा विपरीतफलप्रदम् ।  

इत्युक्तं तन्त्रान्तरे ।

ततो विसर्जयेद्देवीं स्तुत्वा नत्वा पुनः पुनः ॥ ११-२९१ ॥  

श्रवणस्यान्तिमे पादे दशम्यां शावरोत्सवैः ।  

श्रवणानुरोधेन रात्रौ विसर्जनं न कर्त्तव्यमिति प्रागेवोक्तम् ।
(तिथितत्त्वे देवीपुराणे)

प्रातरावाहयेद्देवीं प्रातरेव प्रवेशयेत् ॥ ११-२९२ ॥  

प्रातरेव च सम्पूज्य प्रातरेव विसर्जयेत् ।  

एतद्विसर्जनं परविद्धायामिति ज्ञेयम् ।
तथा ।

वर्षे वर्षे विधातव्यं स्थापनं च विसर्जनम् ॥ ११-२९३ ॥  

तन्त्रान्तरे ।

ततोऽपराह्णे सम्पूज्य श्रवणे चापराजिताम् ।  
प्रस्थानं नृपतिः कुर्यात् सामात्यबलवाहनः ॥ ११-२९४ ॥  

एतयोर्विधिरग्रे वक्ष्यते ।
प्रस्थानं च दशमीमुल्लङ्घ्य एकादशीभागे न कार्यम् ।

दशमीं यः समुलङ्घ्य प्रस्थानं कुरुते नृपः ।  
तस्य तं वत्सरं राज्ये न क्वापि विजयो भवेत् ॥ ११-२९५ ॥  

इति (निर्णयामृते स्कान्दात्)
उदये दशमी किञ्चित् � इत्यादिकाश्यपोक्तेस्तु दशम्याः कर्मकालव्याप्तिरपि नापेक्षितेति प्रतिभाति तेनेदं स्कान्दवचनं श्रवणशून्यदशमीविषयम् ।
इति दशमीनिर्णयः ।
अथाशौचे विशेषो (विश्वरूपनिबन्धे)

आश्विनस्य सिते पक्षे प्रारब्धे नवरात्रके ।  
शावे शौचे समुत्पन्ने क्रियाः कार्याः कथं बुधैः ॥ ११-२९६ ॥  

सूतके वर्त्तमने च तत्रोत्पन्नं यदा भवेत् ।  
देवीपूजा प्रकर्त्तव्या पशुयज्ञविधानतः ॥ ११-२९७ ॥  

सूतके पूजनं प्रोक्तं दानं चैव विशेषतः ।  
देवीमुद्दिश्य कर्त्तव्यं तत्र दोषो न विद्यते ॥ ११-२९८ ॥  

विष्णुः ।

व्रते यज्ञे विवाहे च श्राद्धे होमेऽर्चने जपे   

प्। ९९२) प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ ११-२९९ ॥

तन्त्रेऽपि ।

सूतकेऽत्र समुत्पन्ने प्रारब्धं न त्यजेद्बुधः � इति ।  

प्रारब्ध इति आरम्भश्चात्र सङ्कल्परूपः ।

सङ्कल्पो व्रतसत्रयोः ��������������������� ।  

इति विष्णूक्तेः ।
आरब्धे स्वयमेव देवीपूजादि कुर्यात् । अनारब्धे त्वग्निहोत्रादिवत् कारयितव्यमिति सर्वमतम् । रजस्वलाऽन्येन कारयेदिति विशेषवचनाभावात् ।
तदुक्तं (मात्स्ये)

अन्तरा तु रजोयोगे पूजामन्येन कारयेत् � इति ।  

तत्र पूजादिकं प्रवृत्तिरूपं कर्म पुत्रादिद्वारा निर्वाह्यम् । उपवासादिकं स्वयमेव कर्त्तव्य निवृत्तावशौचस्याकिञ्चित्करत्वात् ।
तत्राहाङ्गिराः ।

नियमस्था यदा नारी प्रपश्येदन्तरा रजः ॥ ११-३०० ॥

उपोष्यैव तु ता रात्रीः स्नात्वा शेषं चरेद्व्रतम् � इति ॥
अत्र पारणाहे सूतकादिप्राप्तौ तदतिक्रम्य पारणं कुर्यादिति केचित् तदसत् ।

सूतके पारणं कुर्यान्नवम्यां होमपूर्वकम् ।  
तदन्ते भोजयेद्विप्रान् दानं दद्याच्च शक्तितः ॥ ११-३०१ ॥  

इति (रुद्रयामलो-)क्तवचनेन सूतकेऽपि पारणविधानात् । गौडाख्यसम्प्रदायमभिप्रेत्य नवम्यामित्युक्तेः ।
तदुक्तं (प्रकटयोगिनीमते)

गौडाख्यसम्प्रदाये तु नवम्यां पारणं भवेत् ।  
वर्जयेत् तां दिशा विद्धां काश्मीरे सैव शोभना ॥ ११-३०२ ॥  

केरलाख्ये सम्प्रदाये दशम्यामेव पारणमिति (शक्तिसङ्गमे-)ऽप्येवम् । सैव शोभनेति काश्मीरसम्प्रदाये दशमीविद्धैव नवमी प्रशस्तेत्यर्थः । गौडसम्प्रदायिभिस्तु नवम्यां दशमीयुक्तायां पारणं न कार्यम् ।

यो मोहाद्दशमीवेधे नवम्यां चण्डिकां यजेत् ।  

पारणं च प्रकुर्याद्वै तस्य पुण्यं निरर्थकम् � इति तत्रैवोक्तम् ॥  

प्। ९९३) यजननिषेधस्तु पूर्वदिने कर्मार्हनवमीलाभे वेदितव्यः । दशम्यां पारणं कुर्यात् � इति मुण्डमालावचनं तु पुरश्चरणविषयम् । सम्प्रदायप्रभेदप्रयुक्तेतिकर्त्तव्यताभेदास्तु नवमतरङ्गे स्फुटीकृताः * ।
निर्णयसिन्धुकृतस्तु नवम्यां पारणं विधायकान्येतदादिवचनानि निर्मूलान्येव समूलत्वाभिमाने तु लोहाभिसारिकपराणि तस्याष्टमीपर्यन्तमेवोक्तेः ।
नवरात्रव्रतस्य नवमीपर्यन्तकर्त्तव्यताकतया दशम्यामेव नियमपारणा कार्येत्याहुः ।
अथेयं शारदी पूजा नित्या । अकरणे प्रत्यवायश्रवणादिति केचित् ।
शरदागमनिमित्तकत्वान्नैमित्तिकीत्यन्ये ।
नानाविधफलश्रुतेः काम्येत्यपरे ।
वस्तुतस्तु �
नित्यकाम्यरूपेयं न तु नैमित्तिकी ।
अन्यथा कार्यमात्रं प्रति कालस्य हेतुतया नित्यस्यापि कर्मणो नैमित्तिकत्वापत्तेरित्युक्तं (महाकालसंहितायाम्)
यथा ।

अधुना कथयिष्यामि सरहस्यं विशेषतः ॥ ११-३०३ ॥  

शारदीयां च वासन्तीमर्चां नानाफलप्रदाम् ।  
मनीषिणो विदधति विचारानत्र भूयशः ॥ ११-३०३ ॥  

स्मृत्यध्वचारिणः सर्वे कौलिकाः सर्व एव च ।  
त्रैविध्यमध्ये किंरूपाः भवतीयं समर्हणा ॥ ११-३०४ ॥  

यस्याकरणतः पापं जायते नित्यमेव तत् ।  
विधानाद्यस्य च फलं जायते काम्यमेव तत् ॥ ११-३०४ ॥  

अननुष्ठानतो यस्य पापमुत्पद्यते परम् ।  
विधानाच्च फलं वाऽपि तन्नैमित्तिकमुच्यते ॥ ११-३०५ ॥  

इयं या शारदी पूजा कथ्यते सा किमात्मिका ।  
केचित् काम्यां वदन्त्येनां के चिन्नैमित्तिकीमपि ॥ ११-३०६ ॥  

पूर्वं फलश्रवणतः शरदागमनात् परे ।  

प्। ९९४) नित्यामेनामेव केचिद्वदन्ति कुलमार्गगाः ॥ ११-३०७ ॥

तथा ।

त्रिपुरघ्नाय यद्वाक्यं पुरोवाच सुरेश्वरी ।  
शारदीयामिमां पूजां न करिष्यन्ति ये नराः ॥ ११-३०८ ॥  

ते पतिष्यन्ति निरये पापाः पूजापहारकाः ।  
इत्यादिवाक्यान्नित्यत्वमभिधानादथ श्रुतेः ॥ ११-३०९ ॥  

घटते काम्यता चास्यास्तत्र हेतुं वदामि ते ।  
अत्रापि चण्डिकावक्त्राम्बुजोद्भूतसुधासमम् ॥ ११-३१० ॥  

वचः कलय कल्याणि काम्यताप्रतिपादकम् ।  
शरत्कालीनपूजां ये कर्त्तारो भक्तिभाविताः ॥ ११-३११ ॥  

तेषां दारान् सुतान् भोगं वित्तमारोग्यमुन्नतिम् ।  
तुष्टा दास्याम्यहं शम्भो स्वर्लोके वसतिं सदा ॥ ११-३१२ ॥  

इत्थं नानाफलोल्लेखश्रवणात् काम्यताऽपि च ।  
शरदागमनं हेतुमुपन्यस्यास्य ये बुधाः ॥ ११-३१३ ॥  

नैमित्तिकत्वं ब्रुवते न ते पाण्डितबुद्धयः ।  
कालो न स्यादुपादानकारणं कस्य वस्तुनः ॥ ११-३१४ ॥  

तदागमनहेतुत्वे नित्यस्यापि न नित्यता ।  
अकृते जायते नैनः कृते च न भवेत् फलम् ॥ ११-३१५ ॥  

नैमित्तिकस्येदृशं हि ब्रुवाणैर्लक्षणं प्रिये ।  
फलाद्याधायके किं नो दृश्येते वचने उभे ॥ ११-३१६ ॥  

तस्मादत्र हि विज्ञेयं नित्यकाम्यत्वमीश्वरि ।  
यथा च शारदीयार्चा वासन्त्यर्चा तथैव च ॥ ११-३१७ ॥  

नानयोर्विद्यते भेदः स्वल्पोऽपि निगमादिषु ।  

शारदोत्सवनिदानमाह ।

प्। ९९५) आसीत् पूर्वं महापूजा वासन्त्येव जगत्त्रये ॥ ११-३१८ ॥

रामरावणयोर्युद्धे जाते त्रेतायुगान्तरे ।  
कालिकाङ्गीतकृत्वेन हन्तुं रामोऽशकन्नतम् ॥ ११-३१९ ॥  

ततो वै चिन्तितो भूत्वा ब्रह्मा सुरगणैर्वृतः ।  
कालिकां बोधयामास हिमालयकृतालयाम् ॥ ११-३२० ॥  

त्वदुपासकयोर्देवि युध्यतोर्घोरमाहवे ।  
अस्त्रशिक्षां लाघवं च समागत्यावलोकय ॥ ११-३२१ ॥  

एवमभ्यर्थिता देवी अकाले बोधिता तथा ।  
जगाम ब्रह्मणा सार्धं लङ्कां द्रष्टुं रणं तयोः ॥ ११-३२२ ॥  

शुक्लप्रतिपदीषस्य प्राप्ता तं देशमीश्वरी ।  
सप्तरात्रं निराहारं महद्युद्धमहर्निशम् ॥ ११-३२३ ॥  

तयोर्दिव्यास्त्रप्रयोगसंहारपरयोरभूत् ।  
रामः शशाक नो हन्तुं राक्षसं काल्युपासकम् ॥ ११-३२४ ॥  

स चापि नाशकद्रामं स्वयं विष्णुमुपागतम् ।  
समीक्ष्य राक्षसो बाहुबलं देवीं तुतोष ह ॥ ११-३२५ ॥  

स्वभक्त इति कृत्वाऽस्मिन् पक्षपातं चकार च ।  
रक्षस्यनुग्रहं दृष्ट्वा ब्रह्मा सर्वैः सुरैः सह ॥ ११-३२६ ॥  

सन्तुष्टाव स्तवैर्दिव्यैर्भक्त्या प्रणतकन्धरः ।  
काकूक्त्या प्रणिपातैश्च नमस्कारैः स्तवैरपि ॥ ११-३२७ ॥  

तुष्टा ब्रह्माणमूचे सा हृत्स्थं वत्स वरं वृणु ।  
वरं वव्रे ततः सार्धं त्रिदशैश्च चतुर्मुखः ॥ ११-३२८ ॥  

त्वत्पादयोर्भक्तमपि त्यजैनं दुष्टराक्षसम् ।  
मय्यनुग्रहलेशेन विष्णोर्मान्यतयाऽपि च ॥ ११-३२९ ॥  

प्। ९९६) कृपादृष्ट्या च देवेषु धर्मसंस्थापनाय च ।
त्रिलोकी जायतां सुस्था देवाः सन्तु मखाशिनः ॥ ११-३३० ॥

तपस्तपन्तु मुनयश्चातुर्वर्ण्यं प्रवर्त्तताम् ।  
एष वीरजिता।लोकाञ्छस्त्रपूतश्च गच्छतु ॥ ११-३३१ ॥  

पूजां प्रवर्त्तयिष्यामि तव देव्यमरैः सह ।  
तिथिमाद्यां समारभ्य यावद्रक्षोवधो भवेत् ॥ ११-३३२ ॥  

दिनानि नव ते पूजा भविष्यति जगत्त्रये ।  
नवम्यां निहते वीरे रावणे विश्वकण्टके ॥ ११-३३३ ॥  

प्रीतिमुत्पादयिष्यामः प्रभूतवलिभिस्तव ।  
अपरेऽह्नि दशम्यां ते नीराजनमहोत्सवम् ॥ ११-३३४ ॥  

गीतैर्नृत्यैस्तथा वाद्यैर्जलकर्दमकेलिभिः ।  
अश्लीलवेशवचनैः शास्त्रास्त्ररचनैरपि ॥ ११-३३५ ॥  

रथद्विरदवाहानां सज्जनाविधिभिस्तथा ।  
सुराः प्रवर्त्तयिष्यन्ति मनुष्याश्च महीतले ॥ ११-३३६ ॥  

भक्तोऽयं रावणो यद्वत् पादयोस्तव कालिके ।  
रामो भविष्यति तथा सदैव तव पूजकः ॥ ११-३३७ ॥  

मन्त्रः कोऽपि च ते देवि रामोपासितसञ्ज्ञया ।  
सद्यस्तव प्रीतिकरः ख्यातिं जगति यास्यति ॥ ११-३३८ ॥  

इत्युक्त्वा ब्रह्मणा काली बभूवास्य पराङ्मुखी ।  
ततो जघान दिव्यास्त्रै राघवो रावणं रणे ॥ ११-३३९ ॥  

तत आरभ्य देवेशि शारद्यर्चा प्रवर्त्तिता ।  
अत एव द्वयो कार्या वासन्ती शारदी तथा ॥ ११-३४० ॥  

केषां चिदपि वासन्त्यां मतभेदो न विद्यते ।  

प्। ९९७) शारद्यां तु त्रयो भेदाः कथ्यन्ते ते मयाऽधुना ॥ ११-३४१ ॥

आश्विनाशितपक्षस्य नवमी या शिवर्क्षयुक् ।  
बोधयित्वेश्वरीं तस्यां शरदर्चनमाचरेत् ॥ ११-३४२ ॥  

यावत् स्यान्नवमी शुक्ला तावत् पूजा प्रवर्त्तते ।  
इत्येकः पक्ष उदितो द्वितीयमवधारय ॥ ११-३४३ ॥  

प्रतिपद्येव शुक्लायां बोधयित्वा सुरेश्वरीम् ।  
अभ्यर्चयेन्नवाहानि तन्त्रपौराणिकक्रमैः ॥ ११-३४४ ॥  

उदीरितो द्वितीयोऽयं तृतीयं कथयाम्यथ ।  
सायाह्ने विल्वशाखायां षष्ठ्यां देवीं प्रबोधयेत् ॥ ११-३४५ ॥  

प्रातः प्रवर्त्तते पूजा सप्तम्यादिदिनत्रये ।  
त्रैविध्य ईदृश्यर्चाया विवदन्ते मिथो बुधाः ॥ ११-३४६ ॥  

ब्रवीमि तत्र सिद्धान्तं छिन्नं येन तमो भवेत् ।  
रम्भकल्पे पुरा देवी रम्भासुरतनूद्भवम् ॥ ११-३४७ ॥  

अष्टादशभुजा भूत्वा महाघोरतराकृतिः ।  
उग्रचण्डा स्वरूपेण जघान महिषासुरम् ॥ ११-३४८ ॥  

सितेन करवालेन मृतमेनं जहौ तथा ।  
पतितं च क्षितावस्य व्यशीर्यत कलेवरम् ॥ ११-३४९ ॥  

नीललोहितकल्पे तु पुनरेव व्यजायत ।  
उद्वेगकृद्देवतानां तथा यञविनाशकृत् ॥ ११-३५० ॥  

इति कृत्वा महामाया भद्रकाली वपुर्धरा ।  
सम्भूय षोडशभुजा विशिषेण शितेन हि ॥ ११-३५१ ॥  

अवधीत् तं पुनश्चापि तत्याज गलितं भुवि ।  
श्वेतवाराहकल्पादावजायत पुनः स हि ॥ ११-३५२ ॥  

प्। ९९८) जैगोषव्यप्रसादेन पूर्वजातिस्मरोऽभवत् ।
वारद्वयं हतं ज्ञात्वा देव्यात्मानं पुराऽसुरः ॥ ११-३५३ ॥

स्त्रीवध्यतां च विज्ञाय स्वस्यामुष्यां जनावपि ।  
कात्यायनमुनेः शापात् स्वप्नदर्शनतोऽपि च ॥ ११-३५४ ॥  

एकान्ते भक्तिमास्थाय त्रिविधां महिषासुरः ।  
आराधयामास कालों स्वोदर्कपरिशुद्धये ॥ ११-३५५ ॥  

दिव्यद्वादशसाहस्रवर्षानन्तरमीश्वरी ।  
प्रत्यक्षमागता तस्य वरं वृण्विति चाब्रवीत् ॥ ११-३५६ ॥  

ततोऽसुरः स ऊचे तां निरीक्ष्य पुरतः स्थिताम् ।  
वरं पश्चाद्ग्रहीष्यामि देवि त्वत्तो मनोगतम् ॥ ११-३५७ ॥  

आदौ मे संशयं छिन्धि जागरूकं हृदि स्थितम् ।  
वारद्वयं मामवधीः सुरारिरणमूर्धनि ॥ ११-३५८ ॥  

धृत्वा कां कामाकृतिं त्वमघोरामथ भीषणाम् ।
जन्मन्यस्मिन्नपि पुनः केनाकारेण कालिके ॥ ११-३५९ ॥

मां हनिष्यसि दुर्वृत्तं निखिलामरकण्टकम् ।
निशम्येदृग्वचस्तस्य विहस्य जगदम्बिका ॥ ११-३६० ॥

चालयन्ती शिरः किञ्चिदुवाच मधुराक्षरम् ।
मदीयतादृशाकारदर्शनेन फलं तव ॥ ११-३६१ ॥

किं भविष्यति दैत्येन्द्र किन्तु त्रासमवाप्स्यसि ।
दिदृक्षसे चेदथ तां करालामाकृतिं मम ॥ ११-३६२ ॥

पश्येत्युक्त्वा जगद्धात्री विहाय ललितं वपुः ।
उग्रचण्डा तनूरूपं दर्शयामास दानवम् ॥ ११-३६३ ॥

ज्वालाकरालवदनमष्टादशभुजान्वितम् ।
प्। ९९९) दिव्यशस्त्रास्त्रकलितं मुण्डमालाभयङ्करम् ॥ ११-३६४ ॥

विदीर्णसृक्क्वयुगलं घोरदंष्ट्रातिभीषणम् ।  
चलत्सौदामिनीतुल्यरसनं नाददारुणम् ॥ ११-३६५ ॥  

तद्रूपं दितिजो वीक्ष्य न्यमीलयत लोचने ।
कृताञ्जलिपुटो भूत्वा प्रत्युवाच च कालिकाम् ॥ ११-३६६ ॥

घोरमोदृशमाकारं न शक्नोमि तवेक्षितुम् ।  
त्रैलोक्यत्रासनं रूपं देवि संहर संहर ॥ ११-३६७ ॥  

इत्युक्त्वाऽसुरराजेन पुनः सा प्राकृतं वपुः ।  
कृत्वा तं दर्शयामास ततः सुस्थो बभूव सः ॥ ११-३६८ ॥  

भद्रकाली वपुर्भूत्वा पुनः सा परमेश्वरी ।  
निरीक्षयामास रूपं द्वितीयं जीवनापहम् ॥ ११-३६९ ॥  

तद्रूपदर्शनेऽप्येष पुनस्त्रासमुपेयिवान् ।  
तस्यापि परिवृत्तौ स प्राकृतः सम्बभूव ह ॥ ११-३७० ॥  

गतमीरथ तां देवीमुवाच दितिजाधिपः ।  
ईदृशाकारधारिण्या कथं देवि त्वया सह ॥ ११-३७१ ॥  

समरे योद्धुमशकमहं वरमदोद्धतः ।  
गरुत्मता सह यथा डुण्डुभस्य रणस्मृहा ॥ ११-३७२ ॥  

दावाग्निना पतङ्गानां तिमिरस्य च भास्वता ।  
मृगाणां हरिणा चैव द्रुमाणां वायुना तथा ॥ ११-३७३ ॥  

भेकानामहिना चापि प्राणिनां शमनेन च ।  
तद्वद्भवत्या समं मे कथमासीन्महान्रणः ॥ ११-३७४ ॥  

यदतीतमतीतं तदिदानीं ते वरत्रयम् ।  
वृणेऽहं मम तद्देहि मनोरथपदातिगम् ॥ ११-३७५ ॥  

प्। १०००) एकं सौम्याकारधरा भूत्वाऽस्मिन् जन्मनीश्वरि ।
त्वं मां वधिष्यसि त्राण हेतोरध्वरभोजिनाम् ॥ ११-३७६ ॥

द्वितीयं ते मच्छिरसि वामपादाम्बुजं सदा ।  
स्थास्यति प्राणयुक्तस्य पश्यतस्त्वन्मुखच्छविम् ॥ ११-३७७ ॥  

तृतीयं देवि यज्ञस्य भागं प्राप्नोमि कञ्चन ।  
इत्येवमुक्ते महिषे वचनेन सुरारिणा ॥ ११-३७८ ॥  

उवाच सस्मितं देवी भक्तिप्रणतकन्धरम् ।  
दैत्येन्द्र शृणु मद्वाक्यं यथार्थं मधुराक्षरम् ॥ ११-३७९ ॥  

रम्भासुरस्ते जनकस्तपस्तप्त्वा सुदारुणम् ।  
शङ्करं तोषयामास रङ्कल्पे हिमालये ॥ ११-३८० ॥  

वच ऊचे हरस्तुटो महाभाग वरं वृणु ।  
हित्वा सोऽन्यवरं वव्रे भवान् पुत्रो भवत्विति ॥ ११-३८१ ॥  

भक्त्या नियन्त्रितः कार्यगतित्वात् स महेश्वरः ।  
वरं ददौ स आत्मानं पुत्राकृतमनुष्ठ्य हि ॥ ११-३८२ ॥  

तस्माज्जातो हि महिषीगर्भे त्वं काममोहितात् ।  
साक्षात् त्वं रुद्र एवासि न सामान्या हराकृतिः ॥ ११-३८३ ॥  

तथा ।

शिवस्त्वं वरदानेन रम्भस्य सुततां गतः ।  
मन्वन्तरत्रयं साग्रं भुक्तवा।श्च जगत्त्रयम् ॥ ११-३८४ ॥  

अतः परं न वस्तव्यं त्वया दितिजदेहिना ।  
स्वपुरं प्रति गन्तव्यं मम लोकादधः स्थितम् ॥ ११-३८५ ॥  

कात्यायनस्य शापाच्च शिरश्छेदनहेतुकात् ।  
युक्तकाले स्थास्यति नो भक्तिरेतादृशी तव ॥ ११-३८६ ॥  

कपोतशापादीदृक्षादित्युक्ताः पञ्च हेतवः ।  

प्। १००१) महिषायेदृशं दत्वा वरमुक्त्वा पुरा कथाम् ॥ ११-३८७ ॥

सपद्यन्तर्दधे काली वर्षासु चपला यथा ।  
देव्यामन्तर्हितायां स सर्वं विस्मृतवान् क्षणात् ॥ ११-३८८ ॥  

बभूव पूर्ववद्दुष्टो यज्ञदेवद्विजन्मनाम् ।  
प्रणष्टा भक्तिरस्यापि देव्यामव्यभिचारिणी ॥ ११-३८९ ॥  

पूर्वदत्तमतिर्भ्रष्टा ज्ञानमन्तर्हितं चरेत् ।  
इति ते कथितो देवि वृतान्तः पूर्वसम्भवः ॥ ११-३९० ॥  

सिद्धान्तमनयोर्बोद्धुं रीत्या शक्त्या विचक्षणात् ।  
सिद्धान्तनिर्णयकृते कथिताऽख्यायिकाऽप्यसौ ॥ ११-३९१ ॥  

इयं हि शारदी पूजा मूर्त्तिभेदात् त्रिधा मता ।  
तत्तद्द्रव्यमधिष्ठाय नृणां गृह्णाति सार्चनम् ॥ ११-३९२ ॥  

येऽष्टादशभुजां देवीमुग्रचण्डाभिधां प्रिये ।  
पिपूजयिषवो मर्त्त्यास्तदुपासकतामिताः ॥ ११-३९३ ॥  

तथाऽश्विननवम्यां वै कृष्णायां सुसमाहिताः ।  
करवाले बोधयेयुर्मध्याह्ने शङ्खनिःस्वनैः ॥ ११-३९४ ॥  

खगानजान् वा महिषानेणान् वाऽन्यवलीनपि ।  
रीतिं सङ्कलितां कृत्वा दद्युः षोडशवासरान् ॥ ११-३९५ ॥  

एषाऽद्या महिषालम्भकर्त्तृपूजाविधिर्मतः ।  
अथ माध्यमिकः पक्ष ।इषस्याद्यतिथौ सिते ॥ ११-३९६ ॥  

प्रातः पटहनिःस्वानैः सढक्कानकगोमुखैः ।  
ईश्वरीं षोडशभुजां भद्रकालीति नामिकाम् ॥ ११-३९७ ॥  

सम्बोध्य ये पूजयेयुर्दिनानि नव वै प्रिये ।  
अपूपमोदकप्रायवलिसङ्कलितक्रमैः ॥ ११-३९८ ॥  

प्। १००२) तृतीयः पक्ष ईदृक्ष उदितस्त्रिपुरारिणा ।
अश्वयुक्सितषष्ठ्यां वै शाखायां विल्वशाखिनः ॥ ११-३९९ ॥

सायङ्काले बोधयित्वा वाद्यैरुच्चावचोद्धतैः ।  
दुर्गादेवीमर्चयीत सप्तम्यादिदिनत्रये ॥ ११-४०० ॥  

दशबाहुधरां देवीं महासौन्दर्यशालिनीम् ।  
रीतिसङ्कलिते पात्रे विल्वपत्रस्य कीर्त्तिता ॥ ११-४०१ ॥  

अथवा करवीरस्य शक्त्या च महिषाजयोः ।  
स्वस्वशक्त्यनुसारेण सर्वमन्यत् प्रकीर्त्तितम् ॥ ११-४०२ ॥  

होमो जपः कुमार्यर्चा साधकानां च भोजनम् ।  
उपोषणमथो मौनं प्रभूतफलहेतवे ॥ ११-४०३ ॥  

हननात् खड्गबाणाभ्यां तत्र तत्र तु बोधनम् ।  
आविर्भावो विल्वतरोरत्र बोधनमाचरेत् ॥ ११-४०४ ॥  

तत्तन्नक्षत्रलाभे तु फलभूमा प्रजायते ।  
नक्षत्राणामलाभे तु केवलायां तिथौ चरेत् ॥ ११-४०५ ॥  

सत्यां शक्तौ चतुर्थ्यां वै देव्याः केशं विमोचयेत् ।  
तत्र पूजा विधातव्या महाविभवविस्तरैः ॥ ११-४०६ ॥  

उद्वर्त्तनं कण्टकिकं केशबन्धनडोरकम् ।  
नखरञ्जं शलाकां च सिन्दूरालक्तकज्जलम् ॥ ११-४०७ ॥  

सुगन्धितैलोष्णजलपिष्टातामलकादिकम् ।  
दद्याद्देव्यै विशेषेण भक्तिभावेन पार्वति ॥ ११-४०८ ॥  

पूजायाः कथितं चात्र द्वैविध्यं मुनिपुङ्गवैः ।  
पौराणिकं तान्त्रिकं च कालिकाप्रीतिसिद्धये ॥ ११-४०९ ॥  

श्रुतध्वजाय प्राङ्नन्दिकेश्वरेण यदीरितम् ।  

प्। १००३) तद्वै बहुलविस्तारं शारदीयार्चनं मतम् ॥ ११-४१० ॥

यद्देव्या स्वयमाख्यातं कपिलाय महर्षये ।  
तन्नातिबहुलं नातिस्वल्पं मध्यममुच्यते ॥ ११-४११ ॥  

यदौर्वेण समाख्यातं सगराय महीभृते ।  
तद्विज्ञेयं सुरेशानि कनीयः शरदर्चनम् ॥ ११-४१२ ॥  

तान्त्रिकं बहुतन्त्रोक्तं सर्वैः स्वस्वमतागतम् ।  
यो येनैव क्रमेणैतां शरदर्चां वरानने ॥ ११-४१३ ॥  

विधत्ते स समाप्नोति फलं तत्तत्क्रमेण हि ।  
इयं हि पूजा द्विविधा पौराणी तान्त्रिकी तथा ॥ ११-४१४ ॥  

तान्त्रिके कौलिकी रीतिः पुराणे वैदिकी मता ।  
यद्येभ्यो रोचते देवि प्रतिनन्दति ते हि तत् ॥ ११-४१५ ॥  

अथ पूजा प्रकर्त्तव्या केषु केषु स्थलेषु हि ।  
तत्रोत्तरं ते वदामि शृणुष्वावहिता सती ॥ ११-४१६ ॥  

तैजसे प्रतिमा यन्त्रेऽथ वा मोहेयदारवे ।  
शैलेय अथवा देवि धातवे गिरिसम्भवे ॥ ११-४१७ ॥  

विल्ववृक्षपत्रिका च घटः पूर्ववदीरितः ।  
गोमयेनोपलिप्तं वा स्थण्डिलं जगदीश्वरि ॥ ११-४१८ ॥  

सिन्दूराङ्के मण्डलं वा शूलखड्गशरास्तथा ।  
पुस्तकं वा चित्रपटं सर्वतोभद्र एव वा ॥ ११-४१९ ॥  

अनादिपीठं च तथा शिवलिङ्गं तथैव च ।  
जलमग्निस्तथा खातनृकरोटिस्थलं शुभम् ॥ ११-४२० ॥  

एवमादीनि चान्यानि स्थानान्यर्चनहेतवे ।  
पत्रिकाश्च परिज्ञेयाः कदलीविल्वदाडिमाः ॥ ११-४२१ ॥  

प्। १००४) हरिद्राशोककच्यौ च जयन्ती धान्यमालिनी ।

(भविष्येऽपि)

रम्भा कची हरिद्रा च जयन्ती विल्वदाडिमौ ॥ ११-४२२ ॥  

आशोको मानकश्चैव धान्यानि नव पत्रिकाः ।  

(महाकालसंहितायाम्)

एकाशीतिपदं चक्रं सर्वतोभद्रमण्डलम् ॥ ११-४२३ ॥  

भित्तौ चित्रीकृता देवी पूजिता फलदायिनी ।  
अष्टम्यां तु विशेषेण पूजा कार्याऽत्र पार्वति ॥ ११-४२४ ॥  

प्रभूतवलिदानं तु नवम्यां होम एव च ।  
अष्टमीनवमीसन्धौ विशेषात् पूजनं चरेत् ॥ ११-४२५ ॥  

नवम्यां वलिदानानु कुमारीपूजनं तथा ।  
दिनत्रयेऽपि च महादेव्याः स्नानं प्रकल्पयेत् ॥ ११-४२६ ॥  

तथा ।

उपवासं तथा कुर्यादष्टम्यां कालिकामुदे ।  
सिद्ध्यर्थं स्वाभिलाषाणां तथाऽन्येषां च शर्मणाम् ॥ ११-४२७ ॥  

किन्तु पुत्री न कुर्वीत कृते पुत्रो विनश्यति ।  
स्त्र्युपयोगीनि वस्तूनि रचनादीनि यानि हि ॥ ११-४२८ ॥  

तानि देव्यै प्रदेयानि विभवाद्यनुरूपतः ।  
तिथौ शुक्लप्रतिपदि कृत्वोपक्रममीश्वरि ॥ ११-४२९ ॥  

षष्ठेऽह्नि सायंसमये कृतनित्यक्रियो दिवा ।  
बोधयेद्विल्वशाखायां देशिकः परमेश्वरीम् ॥ ११-४३० ॥  

सङ्कल्पं पुरतः कृत्वा स्वस्तिवाचनपूर्वकम् ।  
सराशिमासपक्षस्य तिथेरुल्लिखनक्रमात् ॥ ११-४३१ ॥  

सगोत्रनामोच्चरणं यजमानो विधाय हि ।  

प्। १००५) दुर्गाबोधनकर्माहं करिष्ये इति कीर्त्तयेत् ॥ ११-४३२ ॥

भूतशुद्धिं ततः कृत्वा षडङ्गं सर्षि तत्परम् ।
आवाह्य विल्वशाखायामथ वा मूर्त्तिपीठयोः ॥ ११-४३३ ॥

उपचारैः षोडशभिर्मूलमन्त्रेण देशिकः ।  
पूजयित्वा जगद्धात्रीमर्धमस्तमिते रवौ ॥ ११-४३४ ॥  

विल्ववृक्षं च सम्पूज्य गन्धपुष्पाक्षतादिभिः ।  
शङ्खतूर्यनिनादैश्च मुरजध्वनिगीतिभिः ॥ ११-४३५ ॥  

बोधयेत् स्तुतिसंलापैर्वन्दीव वसुधाधिपम् ।  
प्रोच्यमानं समुच्चार्य मन्त्रं सञ्चालयेच्छिवाम् ॥ ११-४३६ ॥  

तारमैधे शाकिनी च कूटं स्वप्नावतं तथा ।  
विसन्धिभगवत्युक्त्वोत्तिष्ठ द्वयमुदीरयेत् ॥ ११-४३७ ॥  

निद्रां जहि युगं चापि प्रतिबुद्ध्यस्व च द्वयम् ।  
मम शत्रून् हन द्वन्द्वं पातय द्वितयं तथा ॥ ११-४३८ ॥  

लज्जा रमा डाकिनी च फट्स्वाहा तदनन्तरम् ।  

तारः प्रणवः । मैधं वाग्भवम् । शाकिनी फ्रे। । स्वप्नावतीकूटम् ख्स्ह्क्ष्व्ली। । डाकिनी ख्फ्रे। ।
तत्रान्त्ररे तु श्लोकरूपा मन्त्रा उक्ताः ।
यथा ।

रावणस्य वधार्थाय रामस्यानुग्रहाय च ॥ ११-४३९ ॥

अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा ।  
अहमप्याश्विने षष्ठ्यां सायाह्ने बोधयामि वै ॥ ११-४४० ॥  

शक्रेणापि च सम्बोध्य राज्यं प्राप्तं सुरालये ।  

तस्मादहं त्वां प्रति बोधयामि विभूतिराज्यप्रतिपत्तिहेतोः ।
यथैव रामेण हतो दशास्यस्तथैव शत्रुं विनिपातयामि � इति ॥

तथा ।
षष्ठ्यां सायं प्रकुर्वीत विल्ववृक्षेऽधिवासनम् ॥ ११-४४१ ॥

प्। १००६) (महाकालसंहितायाम्)

रजन्याद्ये मुहूर्त्ते तु चण्डिकामधिवासयेत् ।  
सुगन्धितैलपाताभ्यां पञ्चभिर्गन्धजातिभिः ॥ ११-४४२ ॥  

पुष्पजातिविशेषैश्च तावद्भिरधिवासयेत् ।  
सर्वमाङ्गल्यवस्तूनि विधायैकत्र भाजने ॥ ११-४४३ ॥  

प्रशस्तवदनं देव्याः कारयेत् तदनन्तरम् ।  
समांसमीनसिद्धान्नवलिं भूतेभ्य उत्सृजेत् ॥ ११-४४४ ॥  

गीतवाद्यैश्च नाद्यैश्च नमस्कारैश्च जागरैः ।  
देवीं सन्तोष्य वचनैर्व्याजस्तुत्याद्यनिन्दनैः ॥ ११-४४५ ॥  

सिद्धार्थकैर्मन्त्रपाठपूर्वं रक्षां विधाय च ।  
पूर्ववत् सर्वमाभाष्य मासपक्षतिथिक्रमैः ॥ ११-४४६ ॥  

शरत्कालीनपूजाङ्गं ततश्च कृत्यपत्रिकाः ।  
अथवा प्रतिमापीठयन्त्रस्थापनकर्मणि ॥ ११-४४७ ॥  

दुर्गादेव्या गन्धपुष्पपट्टवासस्रगादिभिः ।  
अधिवासनकर्माहं कुर्वीयेत्यभिजल्प्य वै ॥ ११-४४८ ॥  

पूर्ववद्भूतशुद्धिं च सर्षिं करषडङ्गकम् ।  
प्राणायामत्रयं चापि कृत्वाऽर्घस्थापनं चरेत् ॥ ११-४४९ ॥  

गणेशमथ दिक्पालान् मातृग्राहा।स्तथैव च ।  
वटुकान् क्षेत्रपाला।श्च द्वाराध्यक्षा।श्च योगिनीः ॥ ११-४५० ॥  

शक्त्योपचारैः सम्पूज्य पत्रिकापीठमूर्त्तिषु ।  
आवाह्य देवीमिष्टां च मूलमन्त्रोपचारकैः ॥ ११-४५१ ॥  

शताहरिद्रातैलानि एकीकृत्य समानि हि ।  
चैतन्यकमलालज्जागन्धचारेरुडस्त्रकम् ॥ ११-४५२ ॥  

प्। १००७) उच्चार्य दद्यादलिके शिरस्यपि च पादयोः ।
ततः कुङ्कुमकर्पूरकस्तूरीमलयोद्भवैः ॥ ११-४५३ ॥

एकीकृतैर्डाकिनीहृन्मन्त्रैस्तान्येव भूषयेत् ।  
विल्वपत्रजवापद्मकरवीरापराजिताः ॥ ११-४५४ ॥  

एकीकृत्यार्पयेन्मूर्ध्नि वदन्मदनमस्तके ।  
माल्यैरापूरयेद्यन्त्रं प्रतिमां पत्रिकामपि ॥ ११-४५५ ॥  

शङ्खोनोसवदौ क्रौडौ मृत्तिकामलयोद्भवः ।  
गोरोचनाधान्यदूर्वादृषत्सिन्दूरकज्जलम् ॥ ११-४५६ ॥  

हरिद्रास्वस्तिकालक्तदध्यक्षतफलाम्बुजम् ।  
धूपदीपौ मधुघृतं कुमारीकरतन्तवः ॥ ११-४५७ ॥  

घनसारो मृगमदं कक्कोलं कुङ्कुमं तथा ।  
महौषधिगणाः सिद्धार्थफलं स्वर्णमणी तथा ॥ ११-४५८ ॥  

रौप्यं व्याघ्रनखोऽम्भोजं विष्णुक्रान्ताऽपराजिता ।  
एवमादीनि माङ्गल्यद्रव्याण्युक्तानि यानि वै ॥ ११-४५९ ॥  

एकस्मिन् भाजने तानि एकीकृत्य पृथक् पृथक् ।  
देव्याः शिरो वक्षसि च तारमैधत्रपाशिरः ॥ ११-४६० ॥  

प्रोच्चरन् समनुत्तोल्य त्रिवारं स्पर्शयेच्छनैः ।  
भूतादिभ्यो वलिं दद्यात् तत्तद्बीजं पुरः स्मरन् ॥ ११-४६१ ॥  

तत्तन्नामाभ्यसन्तं च सन्धिनैष वलिर्नमः ।  
दशदिक्षु क्षिपेच्चापि राजिकाश्वेतसर्षपौ ॥ ११-४६२ ॥  

ताराद्रक्षयुगं चास्त्रं शिरः कूर्चोऽन्तिमे तथा ।  

प्। १००८) अस्त्राण्यस्याः पुरः कृत्वा जागृयात् सकलां निशाम् ।

इति षष्ठीकृत्यम् ।
अथ सप्तमीकृत्यं तत्रैव ।

अथो उषसि सप्तम्यां कृतनित्यक्रियो बुधः ॥ ११-४६४ ॥  

पूर्ववद्विल्वशाखायां देवीमभ्यर्च्य मानवः ।  
शितां गृहीत्वा छुरिकां मन्त्रमेनं समुच्चरेत् ॥ ११-४६५ ॥  

फलद्वययुतां शाखां छिन्द्याद्विल्वस्य सधकः ।  
चैतन्यं प्रणवं माया रोषरावौ च डाकिनी ॥ ११-४६६ ॥  

इमां शाखां छिन्धि युगं छेदय द्वितयं तथा ।  
अस्त्रयुग्मं शिरश्चापि गृहीत्वा तां करद्वये ॥ ११-४६७ ॥  

बद्धाञ्जलिश्चतुर्मन्त्रान् पठेत् पौराणिकान् प्रिये ।  
मेरुमण्डलकैलाशहिमवच्छिखरे गिरौ ॥ ११-४६८ ॥  

जातः श्रीफलवृक्षस्त्वमम्बिकायाः सदा प्रियः ।  
श्रीशैले शिखरे जातः श्रीफलः श्रीनिकेतनः ॥ ११-४६९ ॥  

नेतव्योऽसि मया गच्छ पूज्यो दुर्गास्वरूपतः ।  
विल्ववृक्ष महाभाग सदा त्वं शङ्करप्रिय ॥ ११-४७० ॥  

गृहीत्वा तव शाखां हि देवीपूजां करोम्यहम् ।  
शाखाछेदोद्भवं दुःखं न च कार्यं त्वया तरो ॥ ११-४७१ ॥  

देवैर्गृहीत्वा शाखां ते पूजिताऽम्बेति विश्रुतिः ।  
पुनरन्यत् पद्यरूपं मन्त्रं ब्रूयाच्च साधकः ॥ ११-४७२ ॥  

पुत्रायुर्धनवृद्ध्यर्थं नेष्यामि त्वामुमाप्रियाम् ।  
विल्वशाखां समाश्रित्य राज्यं देवि प्रयच्छ मे ॥ ११-४७३ ॥  

आगच्छ चण्डिके देवि सर्वकल्याणहेतवे ।  
कात्यायनि गृहाणार्चां नमस्ते शङ्करप्रिये ॥ ११-४७४ ॥  

प्। १००९) ततः पूर्वोदिताश्चान्या आहरेदष्ट पत्रिकाः ।

तन्त्रान्तरे ।

पत्रिकास्ताः समानीय गीतवाद्यपुरःसरम् ॥ ११-४७५ ॥  

ब्रह्मघोषादिभिः सार्धं नीत्वाऽन्यस्येद्गृहाङ्गणे ।  

(महाकालसंहितायाम्)

ता एकीकृत्य लतयाऽपराजितसमाह्वया ॥ ११-४७६ ॥  

संवेष्ट्य वसनेनापि पूजासङ्कल्पमाचरेत् ।  
पूर्ववत् सर्वमुच्चार्य पत्रिकापीठमूर्त्तितः ॥ ११-४७७ ॥  

ततश्च स्थापनमहं किरष्ये इति कीर्त्तयेत् ।  

पत्रिकायां तथा मूर्तौ खड्गे वा * यन्त्रमूर्त्तयोः ॥ ११-४७८ ॥

देवीमावाह्य सम्पूज्य विल्वपत्राञ्जलीत्रयम् ।  
 दत्वा शक्तौ प्रकुर्वीत देव्याः स्नानं महोत्तरम् ॥ ११-४७९ ॥  

तद्वै पौराणवैदिक्यमपि सङ्कीर्त्तयामि ते ।  
शक्तौ दिनत्रयं कुर्यादशक्तौ तु दिनद्वयम् ॥ ११-४८० ॥  

सर्वाभावे नवम्यां तु स्नानमावश्यकं मतम् ।  
कुर्यादत्रापि सङ्कल्पं काम्यमेतद्यतः प्रिये ॥ ११-४८१ ॥  

शतजन्मकृतात् पापान्मोचने प्रथमं स्मृतम् ।  
तथा चाष्टसहस्राब्दावच्छिन्नपदतः खलु ॥ ११-४८२ ॥  

दुर्गालोकस्थितिरिति शतयज्ञफलाप्तियुक् ।  
नवाऽपि पत्रिका शुद्धतोयेन स्नापयेत् ततः ॥ ११-४८३ ॥  

प्रत्येकं तत्तदाख्याभिर्मूर्तौ नाम्ना धियाऽपि च ।  
मन्त्राणां पद्यरूपाणामादौ तारस्त्रपा स्मरः ॥ ११-४८४ ॥  

रमा मैधं रावरौषौ डाकिन्यष्ट च वै नव ।  

प्। १०१०) प्रत्येकं देवि देयानि तान्त्रिकस्नापनक्रमे ॥ ११-४८५ ॥

कदलीतरुसंस्थाऽसि शम्भुवक्षःस्थलस्थिते ।  
स्नापयाम्यद्य पत्रि त्वां नमस्ते हरवल्लभे ॥ ११-४८६ ॥  

कच्चित् त्वं स्थावरीभूता सद्यः सिद्धिविधायिनी ।  
दुर्गारूपेण सर्वत्र स्नानेन विजयं कुरु ॥ ११-४८७ ॥  

हरिद्रे हर दुःखानि शङ्करस्य सदा प्रिये ।  
रुद्ररूपाऽसि देवि त्वं सर्वशान्तिं प्रयच्छ मे ॥ ११-४८८ ॥  

जयन्ती जयरूपाऽसि जगतां जयकारिणी ।  
स्थापयामीह देवि त्वां जयं देहि गृहे मम ॥ ११-४८९ ॥  

श्रीफल श्रीनिकतोऽसि सदा विजयवर्धन ।  
देहि मे धर्मकामार्थान् प्रसन्नो भव सर्वदा ॥ ११-४९० ॥  

दाडिम्यघप्रणाशाय क्षुन्नाशाय तथा नृणाम् ।  
निर्मिताऽसि पुरा धात्रा प्रसीद त्वमुमाप्रिये ॥ ११-४९१ ॥  

स्थिरा भव सदा लोके दुर्गेशोकविनाशिनि ।  
मया त्वं पूजिता नियं स्थिरा भव हरप्रिये ॥ ११-४९२ ॥  

ब्राह्मेषु मानो मानेषु माननीयः सुरासुरैः ।  
स्नापयामि महादेवीं मानं देहि नमोऽस्तु ते ॥ ११-४९२ ॥  

लक्ष्मीस्त्वं धान्यरूपाऽसि प्राणिनां प्राणदायिनी ।  
स्थिराऽत्यन्तं हि नो भूत्वा गृहे कामप्रदा भव ॥ ११-४९३ ॥  

ततो द्वित्रिनदीतोयं कृत्वा कलशगर्भगम् ।  
चन्दनालोडितं चापि स्नापयेत् तेन चण्डिकाम् ॥ ११-४९४ ॥  

शीता चालकनन्दा च चक्षुर्भद्रादृषद्वती ।  
तुङ्गभद्रा कृष्णवर्णा पयोष्णी नर्मदा तथा ॥ ११-४९५ ॥  

प्। १०११) तापी भीमरथी सिप्रा * वितस्तैरावती तथा ।
गोदावरी विपासा च शतद्रुः सिन्धुरेव ॥ ११-४९६ ॥

चर्मण्वती च कावेरो ताम्रपर्णी महानदी ।  
करतोया बहुदा च शोणा वेत्रवती तथा ॥ ११-४९७ ॥  

देविका भैरवः कोका गोमती चोत्पलावती ।  
आत्रेयी भारती गङ्गा यमुना च सरस्वती ॥ ११-४९८ ॥  

सरयूर्गण्डकी चापि श्वेतगन्धा च कौशिकी ।  
भोगवती च पाताले स्वर्गे मन्दाकिनी तथा ॥ ११-४९९ ॥  

एताश्चान्याश्च या नद्यो भाषिता याश्च नेरिताः ।  
देवखातानि तीर्थानि कूपा निर्झरसञ्ज्ञकाः ॥ ११-५०० ॥  

सरांसि सिन्धवश्चापि सम्भेदा ये च भूतले ।  
सर्वे त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥ ११-५०१ ॥  

वासुदेवो जगन्नाथस्तथा सङ्कर्षणः प्रभुः ।  
प्रद्युम्नश्चानिरुद्धश्च भवतीं स्नापयन्त्विमे ॥ ११-५०२ ॥  

ख्याता ये द्वादशादित्या रुद्रा एकादशापि च ।  
मरुतश्चोनपञ्चाशद्वसवोऽष्टर्त्तवश्च षट् ॥ ११-५०३ ॥  

आखण्डलोऽग्निर्भगवान् यमो वै निर्-ऋतिस्तथा ।  
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥ ११-५०४ ॥  

ब्रह्मणा सहितः शेषो दिक्पालाः स्नापयन्त्वमी ।  
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्षमा रतिः ॥ ११-५०५ ॥  

बुद्धिर्लज्जा क्रिया शान्तिस्तुष्टिः कान्तिश्च मातरः ।  

प्। १०१२) एतास्त्वामभिषिञ्चन्तु शक्तिरूपधरास्तव ॥ ११-५०६ ॥

आदित्यश्चन्द्रमा भौमबुधजीवसितार्कजाः ।  
राहुः केतुश्च भवतीं स्नापयन्तु ग्रहा नव ॥ ११-५०७ ॥  

ऋषयो मनवो गावो देवमातर एव च ।  
देवपत्न्योऽध्वरा नागा दैत्याश्चाप्सरसां गणाः ॥ ११-५०८ ॥  

त्रिशूलच्क्रचापर्ष्टिभुशुण्डी परिघो गदा ।  
कुन्तमुद्गरखट्वाङ्गशक्तितोमरपर्शवः ॥ ११-५०९ ॥  

पट्टिशो मुद्गलः प्रासभिन्दिपालकटङ्ककाः ।  
हूता शतघ्नी कुलिशपाशकर्त्तृहलानि च ॥ ११-५१० ॥  

चत्वार ऋग्यजुःसामार्थर्वणो निगमा हि ये ।
अङ्गानि शिक्षा कल्पश्च छन्दो व्याकरणं तथा ॥ ११-५११ ॥

निरुक्तं ज्यौतिषं चापि पुराणान्यखिलानि च ।  
मीमांसान्यायवेदान्ताक्षपत्साङ्ख्यपतञ्जलाः ॥ ११-५१२ ॥  

स्मृतिशास्त्राणि सर्वाणि दण्डनीतिर्विधाऽपि च ।  
गन्धर्वायुर्धनुर्वेदाश्चतुःषष्टिश्च याः कलाः ॥ ११-५१३ ॥  

अस्त्राणि सर्वशस्त्राणि वाहनानि नृपास्तथा ।  
औषधानि च सर्वाणि शिल्पविद्यादिकानि वा ॥ ११-५१४ ॥  

मुक्तामाणिक्यवैदूर्यवज्रेन्द्रमणयस्तथा ।  
गोमेदपद्मरागौ च प्रवालः श्याम एव च ॥ ११-५१५ ॥  

रत्नानि यानि चान्यानि कालस्यावयवाश्च ये ।  
मन्वन्तराणि सर्वाणि चत्वार्यपि युगानि हि ॥ ११-५१६ ॥  

अब्दमासर्त्तुपक्षाहोरात्रायनकलालवाः ।  
राशिनक्षत्रयोगाश्च कलांशाश्चापि सूक्ष्मकाः ॥ ११-५१७ ॥  

प्। १०१३) सरितः सागराः शैलस्तीर्थानि जलदा नदाः ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ११-५१८ ॥

एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये ।  
सिन्धुरैवतशोणाद्या ये ह्रदा भुवि विश्रुताः ॥ ११-५१९ ॥  

सर्वे सुमनसो भूत्वा भृङ्गारैः स्नापयन्तु ते ।  
तक्षकाद्याश्च ये नागाः पातालतलवासिनः ॥ ११-५२० ॥  

स्नापयन्तु जगद्धात्रि भृङ्गारैस्त्वां सुवासितैः ।  
अथ द्रव्यविशिषेण मन्त्रभेदान् ब्रवीमि ते ॥ ११-५२१ ॥  

पौराणानपि तान्त्रीयान्महास्नापनकर्मणि ।  
सर्वेषामधिपो देव ईशानो नाम नामतः ॥ ११-५२२ ॥  

शूलपाणिर्महादेवः स त्वां संस्नापयेत् प्रहुः ।  
स्नापयेच्छङ्खतोयेन मन्त्रमेनमुदीरयेत् ॥ ११-५२३ ॥  

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं परम् ।  
स्वर्गस्रोतःसमुद्भूतं स्नानं भवतु तेन ते ॥ ११-५२४ ॥  

गाङ्गेन वारिणा देवीं स्नापयेन्मनुनाऽमुना ।  
उष्णं सुखस्पर्शकरं ज्योतिर्वह्निसमन्वितम् ॥ ११-५२५ ॥  

मलापहारकं कल्यं तेन स्नानं समाचर ।  
स्नापयेत् पाथसोष्णेन पठन्मन्त्रममुं प्रिये ॥ ११-५२६ ॥  

गन्धाढ्यं शोभनं चैव शीतलं सुमनोहरम् ।  
सर्वपापहरं तोयं तत् ते स्नानाय कल्पताम् ॥ ११-५२७ ॥  

अमुनाऽमोदिसलिलकुम्भेन स्नापयेच्छिवाम् ।  
पुण्यं पवित्रं स्वच्छं च शीतलं स्वादु यज्जलम् ॥ ११-५२८ ॥  

प्। १०१४) स्नानाय कल्पतां तत् ते तथैव श्रमशान्तये ।
मेध्याच्छशीतलाम्भोभिः स्नापयेदमुनेश्वरीम् ॥ ११-५२९ ॥

गावः पवित्रा ह्यनघा गावो विश्वस्य मातरः ।  
गावोऽध्वराणां धात्र्यश्च गोषु सर्वं प्रतिष्ठितम् ॥ ११-५३० ॥  

तदङ्गप्रसृतैः पञ्चगव्यैस्त्वां स्नापयाम्यहम् ।  
इति सामान्यतो मन्त्रं पठित्वा तदनु प्रिये ॥ ११-५३१ ॥  

प्रत्येकं पञ्चगव्येन स्नापयेज्जगदम्बिकाम् ।  
गावं मूत्रेण पुण्येन सर्वाघपरिमोषिणा ॥ ११-५३२ ॥  

स्नापयामि जगद्धात्रीं पुत्रायुर्धनवृद्धये ।  
एतेन स्नापयेदेवीं गोमूत्रेण शनैः शनैः ॥ ११-५३३ ॥  

पवित्रताकरं भूमेर्विभूतेः कारणं परम् ।  
गोमयं सर्वपापघ्नं तेन त्वां स्नापयाम्यहम् ॥ ११-५३४ ॥  

मन्त्रमेनं पठेद्देवीं स्नपायेद्गोमयाम्भसा ।  
यद्गवामङ्गसम्भूतं हविषः कारणं हि यत् ॥ ११-५३५ ॥  

दधि तत् तेऽङ्गलावण्यकरणाय भवत्विदम् ।  
दध्नाऽमुना भगवतीं स्नापयेद्देशिकोत्तमः ॥ ११-५३६ ॥  

यज्ञक्रियाकलापोऽयम् सर्वो यस्मिन् प्रतिष्ठितः ।  
पयसा तादृशेन त्वां स्नापयामि हरप्रियाम् ॥ ११-५३७ ॥  

गृणन्नमुं गव्यदुग्धैः स्नापयेज्जगदम्बिकाम् ।  
यद्धोमसाधनत्वेन प्रथितं निगमादिषु ॥ ११-५३८ ॥  

यच्चाप्यग्निमुखेनैव भुञ्जते निखिलाः सुराः ।  
यस्मात् पवित्रं नैवास्ति बलवीर्यकरं च यत् ॥ ११-५३९ ॥  

तेन त्वां स्नापयाम्यद्य गव्येन हविषेश्वरीम् ।  

प्। १०१५) कालीममूभ्यां मन्त्राभ्यां घृतेन स्नापयेद्बुधः ॥ ११-५४० ॥

एकीकृत्य ततः पञ्चगव्यानि सकलानि हि ।  
तथाऽनामिकयाऽलोड्य कुशमूलेन वा प्रिये ॥ ११-५४१ ॥  

यस्मात् परं नापरमस्ति मेध्यं देहे गतं यद्वृजिनं निहन्ति ।  
नास्ते परं हृद्यमतस्तदेतत्स्नानाय भूयात् तव पञ्चगव्यम् ॥ ११-५४२ ॥  

स्नापयेत् पञ्चगव्येन मन्त्रेणानेन कालिकाम् ।  
गव्यं पयो दधि घृतं माध्वीकं सितशर्कराः ॥ ११-५४३ ॥  

पञ्चामृतमिदं प्रोक्तममुना स्नापयेदुमाम् ।  
सारं गृहीत्वा जगतां त्रयाणां यन्निर्मितं यज्ञकृते विधात्रा ॥ ११-५४४ ॥  

पञ्चामृतं तन्मधुरं मनोज्ञं संस्नापकं ते जगदम्ब भूयात् ।  
मनुनैवामुना पञ्चामृतेन स्नापयेच्छिवाम् ॥ ११-५४५ ॥  

तथा ।

ॐ कात्यायन्यै विद्महे भगवत्यै धीमहि तन्नो दुर्गा प्रचोदयात् ।  

एतेनेक्षुरसेनैव स्नापयीत सुरेश्वरीम् ।  

तन्त्रान्तरे ।

महौषधीभिः सर्वाभिः सर्वकामार्थसिद्धये ॥ ११-५४६ ॥  

या औषधीति मन्त्रेण स्नापयेज्जगदम्बिकाम् ।  

(महौषध्य उक्ता मात्स्ये)

सहदेवी तथा व्याघ्री वला चातिवला तथा ॥ ११-५४७ ॥  

शङ्खपुष्पी च सिंही च वचा चैव सुवर्चसा ।  
महौषध्यष्टकं प्रोक्तं महास्नाने नियोजयेत् ॥ ११-५४८ ॥  

व्याघ्री कण्टकारिका । वला वाट्यलकः ।
सवौषधयस्तु प्रागेवोक्ताः ।
तथा ।

सहस्रधारकुम्भेन स्नापयेज्जगदम्बिकाम् ।  

प्। १०१६) (महाकालसंहितायाम्)

सागराः सरितः सर्वाः स्वर्गस्रोतो नदास्तथा ॥ ११-५४९ ॥  

तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि पृथिवीतले ।  
कूपाः सरः प्रस्रवणा देवखाताः सगर्तकाः ॥ ११-५५० ॥  

कुल्याश्च निर्झरी वाप्यो यावन्तश्च जलाशयाः ।  
लवणेक्षुसुरासर्पिर्दधिदुग्धजलात्मिकाः ॥ ११-५५१ ॥  

समुद्राः सप्त तद्द्वीपा ये च सप्त प्रकीर्त्तिताः ।  
जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कलाः ॥ ११-५५२ ॥  

अभिषिञ्चन्तु सर्वे त्वां मन्त्रपाठवशीकृताः ।  
अग्निमीलेति मन्त्रेण ऋग्वेदस्याद्यया ऋचा ॥ ११-५५३ ॥  

त्वां स्नापयतु गव्येन पयः कुम्भेन चण्डिकाम् ।  
इषे त्वाख्येन मन्त्रेण स्नापयत्विक्षुजद्रवैः ॥ ११-५५४ ॥  

षडशीतिभिदा युक्तो यजुर्वेदः सुरेश्वरीम् ।  
सहस्रशाखासंयुक्तः सामवेदो मधुद्रवैः ॥ ११-५५५ ॥  

अग्न आयाहि मन्त्रेण त्वां स्नापयतु चण्डिकाम् ।  
अथर्ववेदो हविषा बहुशाखासमन्वितः ॥ ११-५५६ ॥  

शन्नो देवीति मन्त्रेण देवि त्वामभिषिञ्चतु ।  
अष्टादश पुराणानि व्यासेनोक्तानि यानि हि ॥ ११-५५७ ॥  

यानि चोपपुराणानि दध्ना त्वां स्नापयन्तु हि ।  
महर्षिभिः प्रणीतानि धर्मशास्त्राणि यानि च ॥ ११-५५८ ॥  

शतं चाशीतिरूपाणि स्नापयन्तु महेश्वरीम् ।  
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥ ११-५५९ ॥  

स्वर्गनद्यम्बुपूर्णेन आद्येन कलशेन तु ।  

प्। १०१७) अमुना गाङ्गतोयेन स्नापयेत् परमेश्वरीम् ॥ ११-५६० ॥

मरुतश्चाभिषिञ्चन्तु भक्तिमन्तः सुरेश्वरीम् ।  
मेघतोयाम्बुपूर्णेन द्वितीयकलशेन च ॥ ११-५६१ ॥  

एतेन वृष्टिनीराढ्यकुम्भेन स्नापयेच्छिवाम् ।  
सारस्वतेन तोयेन स्वच्छमेध्येन चण्डिके ॥ ११-५६२ ॥  

विद्याधराः स्नापयन्तु तृतीयकलशेन तु ।  
सरस्वत्यम्बुसम्पूर्णघटेनाप्लावयेच्छिवाम् ॥ ११-५६३ ॥  

त्वां स्नापयन्तु शक्राद्या लोकपालाः समागताः ।  
सागरोदकपूर्णेन तुर्येण कलशेन हि ॥ ११-५६४ ॥  

अभावेनाम्बुना देवीं स्नापयेन्मनुनाऽमुना ।  
वारिणा परिपूर्णेन पद्मरेणुसुगन्धिना ॥ ११-५६५ ॥  

पञ्चमेनाभिषिञ्चन्तु नागास्त्वां कलशेन हि ।  
पद्मपुष्पसमायुक्तजलकुम्भमनुस्त्वसौ ॥ ११-५६६ ॥  

हिमवन्मेरुकैलाशा अभिषिञ्चन्तु पर्वताः ।  
निर्झरोदकपूर्णेन षष्ठेन कलशेन हि ॥ ११-५६७ ॥  

अमुना निर्झराम्भोभिः स्नापयेत् परमेश्वरीम् ।  
सर्वतीर्थाम्बुपूर्णेन कलशेन सुरेश्वरीम् ॥ ११-५६८ ॥  

सप्तमेनाभिषिञ्चन्तु ऋषयः सप्त खेचराः ।  
मन्त्रेणैतेन तीर्थाम्बुकुम्भेन स्नापनं चरेत् ॥ ११-५६९ ॥  

वसवस्त्वाऽभिषिञ्चन्तु कलशेनाष्टमेन तु ।  
सारसेनैव तोयेन दुर्गे देवि नमोऽस्तु ते ॥ ११-५७० ॥  

देवीमनेन मन्त्रेण सिञ्चेत् कासारवारिणा ।  

प्। १०१८) धर्मो ज्ञानं च वैराग्यं तपः सत्यं क्षमा धृतिः ॥ ११-५७१ ॥

यशो विवेको नियमो ब्रह्मचर्यं दया दमः ।
शान्तिर्मौनं तथा शौचं सन्तोषो मितभाषिता ॥ ११-५७२ ॥

यवत्यश्चोपनिषदः कैवल्यप्रतिपादकाः ।  
स्थावरं जङ्गमं चापि त्रैलोक्ये यत् प्रतिष्ठितम् ॥ ११-५७३ ॥  

यद्ब्रह्मसृष्टावुत्पन्नं मूर्त्तं चामूर्त्तमेव च ।  
अचरं यच्चरं चापि यद्वाङ्मयमवाङ्मयम् ॥ ११-५७४ ॥  

ते सर्वे स्नापयन्तु त्वां नवमेन घटेन हि ।  
स्नापयेच्छुद्धतोयेन चण्डिकां मनुनाऽमुना ॥ ११-५७४ ॥  

इत्युक्तं ते महास्नानं शरदर्चाविधौ प्रिये ।  
दिनान्तरेऽपि कुर्वीत भक्तश्चेद्भक्तिभावितः ॥ ११-५७५ ॥  

अनेन विधिना यस्तु स्नापयेज्जगदम्बिकाम् ।  
सप्तजन्मकृतात् पापान्मुक्तः स्यान्नात्र संशयः ॥ ११-५७२ ॥  

दिव्याष्टाब्दसहस्राणि देवीलोके वसेत् तथा ।  
नवम्यां तु महास्नानं धनपुत्रविवर्धनम् ॥ ११-५७३ ॥  

सहस्रयज्ञस्य फलं लभते नात्र संशयः ।  

राजा राज्यमवाप्नोति शत्रुनाशं तथैव च ॥ ११-५७४ ॥

स्वाभीष्टमाप्नुवन्त्यन्ये महास्नानेन पार्वति ।  
महास्नानादनु ततो भूतेभ्यो वलिमुत्सृजेत् ॥ ११-५७५ ॥  

स कौलानां मांसमद्ये माषान्नं स्मृतिवर्त्तिनाम् ।  
गृहीत्वा तममूभ्यां वै मनुभ्यामुत्सृजेद्वलिम् ॥ ११-५७६ ॥  

भूताः प्रेताः पिशाचाश्च ये वसन्त्यत्र भूतले ।  
ते गृह्णन्तु मया दत्तं वलिमेनम् प्रसाधितम् ॥ ११-५७७ ॥  

पूजिता गन्धपुष्पाद्यैर्वलिभिस्तर्पितास्तथा ।  

प्। १०१९) देशादस्माद्विनिःसृत्य पूजां पश्यन्तु मत्कृताम् ॥ ११-५७८ ॥

ताररावौ कूर्चभूतौ भ्यसन्तो भूत एव च ।  
ससन्ध्येष वलिर्हृच्च मन्त्रावेतावुदाहृतौ ॥ ११-५७९ ॥  

रावः फ्रे। । भूतः स्फ्रो। ।
तथा ।

अकृते बलिदाने तु महास्नानादनन्तरम् ।  
अफलं तद्भवेद्देवि पूजाङ्गं हीयते तथा ॥ ११-५८० ॥  

विलुम्पन्ति सदा लुब्धा न च गृह्णन्ति देवताः ।  
तस्माद्यत्नेन कर्त्तव्यं भूतानामपसारणम् ॥ ११-५८१ ॥  

लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतादिकम् ।  
गृहीत्वा ताररोषानुनिःश्रेण्यस्त्रमुदीरयेत् ॥ ११-५८२ ॥  

अपसर्पन्तु भूतास्ते ये भूताः शारदार्चिकाः ।  
भूतानामविरोधेन देवीपूजां करोम्यहम् ॥ ११-५८३ ॥  

वेतालाश्च पिशाचाश्च राक्षसाश्च सरीसृपाः ।  
अपसर्पन्तु सर्वत्र मन्त्ररूपास्त्रताडिताः ॥ ११-५८४ ॥  

अन्ते मनूनामे तेषां हू। अः फडिति कीर्त्तयेत् ।  
भूतादीनपसार्याथ द्वारपालेभ्य एव च ॥ ११-५८५ ॥  

त्रपाहृद्विल्वशाखान्ते वासिन्यै तदनन्तरम् ।  
दुर्गायै कूर्चमस्त्रं च मन्त्रेणानेन पार्वति ॥ ११-५८६ ॥  

पाद्यादिभिः समभ्यर्च्य कुर्यान्नीराजनाविधिम् ।  

नीराजनं निर्मञ्छनम् ।

प्। १०१२) द्वारदेशः समानीय कुर्यान्निर्मञ्छनं ततः ॥ ११-५८७ ॥

इति तन्त्रान्तरवचनात्
तथा ।

धृत्वाऽसनं ततो देवीं पत्रिकां मृन्मयीमपि ।  
सञ्चाल्य गीतवद्यादीनिमं मन्त्रं समुच्चरेत् ॥ ११-५८८ ॥  

स्थापयेत् सुस्थिराकारां ततः कल्पित आसने ।  
तारत्रपारावलक्ष्मीयोगिनीकामयोषितः ॥ ११-५८९ ॥  

डाकिनी चापि फेत्कारीं चण्डिके भगवत्यपि ।  
चलद्वयं चालय द्विर्वर्ज्रकापालिनीत्यपि ॥ ११-५९० ॥  

पूजालयं द्विः प्रविश हू। फट् स्वाहा ततः परम् ।  
आगच्छ मद्गृहे देवि सह शक्तिभिरष्टभिः ॥ ११-५९१ ॥  

पूजां गृहाण विधिवत् सर्वकल्याणहेतवे ।  
अनेन स्थापयेद्देवीं सर्वकल्याणदायिनीम् ॥ ११-५९२ ॥  

दिनत्रयस्य पूजार्थं वेदिकाद्यासनादिषु ।  

त्रपा ह्री। । रावः फ्रे। । योगिनी छ्री। । कामः क्ली। । योषित् स्त्री। । डाकिनी ख्फ्रे। । फेत्कारी ह्स्ख्फ्रे। ।
तथा ।

तारचिद्रावडाकिन्यः स्था। स्थी। त्वमम्बिके तथा ॥ ११-५९३ ॥

स्थिरीभव शिरश्चति स्थिरीकुर्यात् ततः परम् ।  

चिद्वाग्भवम् ।
कलशस्थापनमाह ।

ततः पुनर्विरचिते सर्वतोभद्रमण्डले ॥ ११-५९४ ॥  

चित्रितं पञ्चवर्णेन दध्यक्षतफलान्वितम् ।  
पञ्चरत्नेन हेम्ना च गर्भगेन विभूषितम् ॥ ११-५९५ ॥  

पट्टाच्छादनसंवीतग्रीवं पल्लवशोभितम् ।  
व्रीहीनां वा यवानां वा स्थापयित्वोपरि प्रिये ॥ ११-५९६ ॥  

प्। १०२१) वैदिकेन विधानेन कलशस्थापनं चरेत् ।
भूमिं स्पृष्ट्वा जपेन्मन्त्रं भूरसीति वरानने ॥ ११-५९७ ॥

अथ धान्यमसीत्युक्त्वा व्रीहिने वाऽभिमन्त्रयेत् ।  
आजिघ्रेत्युच्चरन्मन्त्रं कलशं तत्र विन्यसेत् ॥ ११-५९८ ॥  

वरुणस्येति मन्त्रेण पाथोभिः परिपूरयेत् ।  
काण्डात् काण्डादिति प्रोच्य पल्लवं विन्यसेत् ततः ॥ ११-५९९ ॥  


फलं वा फलिनीत्युक्त्वा श्रीश्चेत्युक्त्वा प्रसूनकम् ।  
गन्धद्वारेत्यथो गन्धं सहस्रेत्यक्षतं न्यसेत् ॥ ११-६०० ॥  

स्थिरीभवेति मन्त्रेण स्थिरीकरणमाचरेत् ।  
वल्मीककुञ्जररदनदीसङ्गमपर्वतात् ॥ ११-६०१ ॥  

गोकुलाद्देवनृपतिद्वारादपि च मृत्तिकाः ।  
आहृत्य हार्दमन्त्रेण प्रत्येकं निःक्षिपेद्घटे ॥ ११-६०२ ॥  

हार्दमन्त्रेण नम इति मन्त्रेण ।

पूर्ववत् सर्ववस्त्वादिशोधनं विदधीत वै ।  
प्रागुदीरितमन्त्रेण तथैवालोकनेन च ॥ ११-६०३ ॥  

यदात्मनाऽनवज्ञातं पूजाद्रव्यादिदूषणम् ।  
अस्पृश्यस्पर्शनं वाऽपि यदन्यायार्जितं च वा ॥ ११-६०४ ॥  

तथा निर्माल्यसंस्पृष्टं कीटारोहणदूषितम् ।  
नश्यन्ति तानि सर्वाणि दूषणान्यवलोकनात् ॥ ११-६०५ ॥  

भूतापसारणं कृत्वा भूतशुद्धिं विधाय च ।  
सम्पूज्यासनमात्मीयं गणेशगुरुदेवताः ॥ ११-६०६ ॥  

नत्वा विदध्यात् तदनु प्राणायामत्रयं बुधः ।  
पत्रिकायास्ततः कुर्यादृष्यादि यतमानसः ॥ ११-६०७ ॥  

प्। १०२२) शरत्कालीनदुर्गार्चाविधेरस्य हि नारद ।
ऋषिश्छन्दश्च गायत्री श्रीदुर्गा देवता मता ॥ ११-६०८ ॥

बीजं ह्रीमिति निर्दिष्टं शक्तिः श्रीमपि पार्वति ।  
कीलकं क्लीमीति प्रोक्तं पूजायां विनियोगता ॥ ११-६०९ ॥  

अस्मिन्नेव ह्यवसरे सङ्कल्पं केऽपि कुर्वते ।  
काम्यत्वान्नेतरे चास्य निन्यत्वान्नित्यकृत्यवत् ॥ ११-६१० ॥  

क्रियते यदि सङ्कल्पस्त्र्यहस्याप्येक एव हि ।  
एक प्रयोगसंहारात् फलैक्याच्च विसर्जनात् ॥ ११-६११ ॥  

पीठे मूर्तौ च नित्यं तमृषिं तत्तन्मनोश्चरेत् ।  
मृन्मूर्तिपत्रिकापक्षे मन्त्रं सर्षिं निशामय ॥ ११-६१२ ॥  

आदौ वेदादिमालेख्य द्विवारं दुर्ग ईरयेत् ।  
सम्बुद्धिरथ रक्षिण्याः शिरसा सह कीर्त्तयेत् ॥ ११-६१३ ॥  

पत्रिकार्चोपचारादिप्रदानार्थं मनुस्त्वमौ ।  
एकं द्वे द्वे त्रीणि च द्वे सकलो मन्त्र एव च ॥ ११-६१४ ॥  

कराङ्गुलीहृदादिष्वमी न्यस्या मन्त्रवर्णकाः ।  

तथा ।

नित्यपीठे पुरोदीर्णं स्वं स्वं ध्यानं समाचरेत् ॥ ११-६१५ ॥  

माहेयपीठिकापक्षे ध्यानमाकलय प्रिये ।  
निस्तप्तस्वर्णवर्णाभां नवतारुण्यशालिनीम् ॥ ११-६१६ ॥  

पूर्णचन्द्राभवदनां जटामुकुटमण्डिताम् ।  
लोलदीर्घासितत्र्यक्षां खण्डेन्द्वाबद्धशेखराम् ॥ ११-६१७ ॥  

दाडिमीकुसुमाकारदन्तपङ्क्तिविराजिताम् ।  
उत्तुङ्गपीनवक्षोजां वलित्रयविराजिताम् ॥ ११-६१८ ॥  

अतिक्षामोदरीं देवीं नितम्बाभोगभासुराम् ।  

प्। १०२३) त्रिभङ्गस्थानकतया भज्यन्मध्यामिव स्थिताम् ॥ ११-६१८ ॥

बाहुभिर्दशभिर्युक्तां सर्वालङ्करणान्विताम् ।  
शूलं कृपाणं चक्रं च बाणं शक्तिं च दक्षिणे । ६१९ ॥  

धारयन्तीमथो वामे पाशचर्माङ्कुशं धनुः ।  
कण्ठीरवोपरिन्यस्तदक्षिणाङ्घ्रीसरोरुहाम् ॥ ११-६२० ॥  

सम्मुखस्थितसञ्छिन्नमहिषासुरमस्तकाम् ।  
कण्ठनालोत्थदितिजसकिरीटकचोच्चयाम् ॥ ११-६२१ ॥  

पाशं वामकरेणैव बिभ्रतीं परमेश्वरीम् ।  
शूलेन हृदि निर्भिन्नं पश्यन्तीं दानवं रुषा ॥ ११-६२२ ॥  

पाशाकारमहानागवेष्टितोदरबाहुकम् ।  
भ्रूकुटीभीषणाकारं शोणितार्द्रकलेवरम् ॥ ११-६२३ ॥  

आकृष्टासिनिगलितकफोणिं हरिणा हठात् ।  
स्रवद्रुधिरसन्दोहवदनेन महात्मना ॥ ११-६२४ ॥  

स्तूयमानां सुरैः सर्वैर्ब्रह्माजेशमुखादिभिः ।  
लीलया दानवं हत्वा किञ्चित् किञ्चिद्धसन्मुखीम् ॥ ११-६२५ ॥  

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।  
चण्डा चण्डवती चैव चण्डरूपा च चण्डिका ॥ ११-६२६ ॥  

आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।  
चिन्तयेदीदृशीं दुर्गां धर्मकामार्थमोक्षदाम् ॥ ११-६२७ ॥  

ध्यात्वेत्थं मानसैरेवोपचारैः परिपूज्य च ।  
पूर्वोक्तेनैव विधिना विदध्यादर्घसंस्थितिम् ॥ ११-६२८ ॥  

नैमित्तिकविधानेन विस्तारो यत्र कीर्त्तितः ।  
सत्यां शक्तौ तु पाद्यादीन् पृथक्त्वेन प्रविन्यसेत् ॥ ११-६२९ ॥  

प्। १०२४) अर्घस्योत्तरतः कार्यं पाद्यमाचमनीयकम् ।
स्नानीयं मधुपर्कं च उपचारास्तथा मया ॥ ११-६३० ॥

अस्मिन्नेव क्षणे देवीपञ्चायतनपूजकः ।  
गणेशार्कहरीशानां सम्भारैः कल्पितैर्यजेत् ॥ ११-६३१ ॥  

पीठार्चनं ततः कुर्यात् सामान्यं प्रथमं बुधः ।  
सर्वशेषे योगरत्नं शेषमन्त्रोपबृंहितम् ॥ ११-६३२ ॥  

विधाय च पुनर्ध्यानमावाहनमथाचरेत् ।  
मुद्राविभक्तिकलितं साधको मीलितेक्षणः ॥ ११-६३३ ॥  

मूलमन्त्रेणाथ सावयवीकृत्य विभावनैः ।  
मन्वक्षरैः षडङ्गानि विन्यसेत् तदुपस्पृशन् ॥ ११-६३४ ॥  

मूलपीठप्रतिष्थायां यो मनुः प्रागुदीरितः ।  
यन्त्रमूर्त्योस्तु तेनैव प्रतिष्ठां स्थिरयोश्चरेत् ॥ ११-६३५ ॥  

मृन्मूर्तिपत्रिकाकुम्भशूलास्यादिष्वपि प्रिये ।  
के चनेच्छन्ति तन्मन्त्रं नैव कापालिकादयः ॥ ११-६३६ ॥  

अन्यान् पौरिणिकान् मन्त्रान् वैदिकानपि का।श्चन ।  
ईरयेत् पीठिकाकुम्भमाहेयप्रतिमादिषु ॥ ११-६३७ ॥  

ता।स्ते वदामि सुतनु नन्दिकेश्वरभाषितात् ।  
हस्तं दत्वा पत्रिकायां तारादि तत्सदित्यपि ॥ ११-६३८ ॥  

त्रिरुदीर्य पठेन्मन्त्रानेवैतान् स्थिरपीठयोः ।  
आगच्छ मद्गृहे देवि अष्टाभिः शक्तिभिः सह ॥ ११-६३९ ॥  

पूजां गृहाण विधिवत् सर्वकल्याणकारिणि ।  
एह्येहि भगवत्यम्ब शत्रुक्षयजयप्रदे ॥ ११-६४० ॥  

भक्तितः पूजयामि त्वां नवदुर्गे सुरार्चिते ।  

प्। १०२५) दुर्गे देवि समागच्छ सान्निध्यं चापि कल्पय ॥ ११-६४१ ॥

यज्ञभागं गृहाण त्वमष्टाभिः शक्तिभिः सहः ।  
शारदीयामिमां पूजां करोमि त्रिदशार्चिते ॥ ११-६४२ ॥  

आज्ञापय महादेवि दैत्यदर्पनिषुदनि ।  
दुष्पारे घोरसंसारे सागरे पतितं सदा ॥ ११-६४३ ॥  

त्रायस्व वरदे देवि नमस्ते शङ्करप्रिये ।  
ये देवा याश्च देव्यश्च चलितायां चलन्ति हि ॥ ११-६४४ ॥  

आवाहयामि तान् सर्वा।श्चण्डिके परमेश्वरि ।  
प्राणान् रक्ष यशो रक्ष रक्ष दारान् सुतं धनम् ॥ ११-६४५ ॥  

सर्वरक्षाकरी यस्मात् त्वं हि देवि जगत्प्रिये ।  
प्रविश्य तिष्ठ यज्ञेऽस्मिन् यावत् पूजां करोम्यहम् ॥ ११-६४६ ॥  

मेनानन्दकरे देवि सर्वसिद्धिं च देहि मे ।  
आगच्छ चण्डिके देवि सर्वकल्याणहेतवे ॥ ११-६४७ ॥  

पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ।  
आवाहयामि देवि त्वां मृन्मये श्रीफले तथा ॥ ११-६४८ ॥  

त्रिशूले कलशे खड्गे मण्डले चित्र एव च ।  
कैलाशशिखराद्देवि विन्ध्याद्रेर्हिमपर्वतात् ॥ ११-६४९ ॥  

आगत्य विल्वशाखायां चण्डिके कुरु सन्निधीम् ।  
स्थापिताऽसि मया देवि पूजये त्वां प्रसीद मे ॥ ११-६५० ॥  

चण्डे चण्डात्मिके चण्डि चण्डविग्रहधारिणि ।  
विल्वशाखां समाश्रित्य तिष्ठ देवि गणैः सह ॥ ११-६५१ ॥  

अथवा मृन्मये कुम्भे त्रिशूले खड्ग एव च ।  
तथा चित्रपटे वाऽरिनृमुण्डे वह्निमण्डले ॥ ११-६५२ ॥  

प्। १०२६) सर्वगा त्वं समागत्य सान्निध्यमिह कल्पय ।
देवि त्वं जगतां मातः सृष्टिसंहारकारिणि ॥ ११-६५३ ॥

मण्डलेषु समस्तेषु सान्निध्यमनुकल्पय ।  
चतुर्विंशतिसङ्ख्येषु अधिष्ठेयेषु चण्डिके ॥ ११-६५४ ॥  

आगत्य शारदीं पूजां हृह्ण देवि प्रसीद मे ।  
आवाहिताऽसि देवि त्वं निखिले मण्डले तव ॥ ११-६५५ ॥  

भूत्वाऽत्रैव स्थिरात्म त्वं मद्गेहे कामदा भव ।  
चण्डि त्वं चण्डरूपाऽसि सुरतेजःसमुद्भवे ॥ ११-६५६ ॥  

परिवारैः समागत्य स्थितिमत्र कुरु द्रुतम् ।  
अष्टादशैतान् प्रजपेन्मन्त्रान् पौराणिकान् प्रिये ॥ ११-६५७ ॥  

ततो हंसः शुचीत्येवं प्रतद्विष्णुस्तवेत्यपि ।  
तथा विष्णुर्योनिमिति तार्त्तियकतयोदितम् ॥ ११-६५८ ॥  

तारव्याहृतिपूर्वा च गायत्री तारपश्चिमा ।  
त्र्यम्बकं चेति पञ्चैतान् वैदिकान् प्रजपेन्मनून् ॥ ११-६५९ ॥  

नेमानपि स्थिरे पीठे मूर्त्तौ वा परिकल्पयेत् ।  
अतः प्राणप्रतिष्ठां वै कुर्वीत मनुविस्तरैः ॥ ११-६६० ॥  

आद्येन नित्यख्यातेन निमित्तोक्तेन तत्परम् ।  
आख्यास्यमानतार्त्तीयमनुना तदनन्तरम् ॥ ११-६६१ ॥  

तच्च शारदपूजायां नेतरस्यां कदाचन ।  
पीठमूर्त्त्योरपि तथा मण्डले नेतरत्र च ॥ ११-६६२ ॥  

तारमैधत्रपारावयोगिन्यो डाकिनी तथा ।  
फेत्कारीकूर्चवनिता बीजानीमानि वै नव ॥ ११-६६३ ॥  

एह्येहि भगवत्येवं ततो ब्रूयात् पदत्रयम् ।  

प्। १०२७) त्रयस्त्रिंशत्कोटिपदात् तथा त्रिदशशब्दतः ॥ ११-६६४ ॥

तेजःकल्पितशब्दाच्च शरीरे परिकल्पयेत् ।  
पदात् तथा च महिषासूरतो मर्दिनीत्यपि ॥ ११-६६५ ॥  

ततो जगत्त्रयेत्युक्त्वा पालिनि प्रतिकीर्त्तयेत् ।  
कामप्रसादपाशाश्च नृसिंहकमले ततः ॥ ११-६६६ ॥  

आगच्छद्वितयं चापि सान्निध्यं कल्पयद्वयम् ।  
पूजालयम् प्रविश्योक्त्वा तिष्ठयुग्ममतः परम् ॥ ११-६६७ ॥  

ततो विसन्ध्यष्टशक्तिपदात् परिवृते वदेत् ।  
ज्वलयुग्मं प्रज्वलयुगं स्फुर प्रस्फुर चेदृशम् ॥ ११-६६८ ॥  

अङ्कुशप्रेतभैरव्योऽमाहारप्रलयास्ततः ।  
विद्युन्महाक्रोधताराः शिरः शेषे ततः परम् ॥ ११-६६९ ॥  

शतमष्टादशोपेतं वर्णानामत्र वै मनौ ।  
मन्त्रत्रयेणामुनैव कुर्यात् प्राणप्रतिष्ठितम् ॥ ११-६७० ॥  

मृन्मूर्तिपत्रिकाकुम्भादिषु सर्वान्तिमं मनुम् ।  
श्रौत पठेन्मनोजूतिरिति कौलेतरो नरः ॥ ११-६७१ ॥  

नैमित्तिकोक्तेन तथा कुर्यादावाहनं ततः ।  
मन्त्रेण त्रिरुदीर्णेन न पत्र्यां पीठ एव हि ॥ ११-६७२ ॥  

अथ कौलादयः कुर्युरस्मिन्नवसरे प्रिये ।  
नैमित्तिकेन विधिना पात्रस्थापनमुत्तमम् ॥ ११-६७३ ॥  

न्यासौघान् पुरतः कृत्वा नैमित्तिकविधीरितान् ।  
शक्तौ तु पञ्चकान् सर्वान् षोढात्रितयमेव हि ॥ ११-६७४ ॥  

माहेयपत्र्योर्नैतां वै प्रकुर्वीत कदाचन ।  
पात्राणां स्थापनं चापि कुर्यात् स्वेन मतेन हि ॥ ११-६७५ ॥  

प्। १०२८) विचाररीती एषां वै नैमित्तिक उदीरिते ।
सा कल्पना च ते मन्त्राः स क्रमः संस्थितिश्च सा ॥ ११-६७६ ॥

ते न्यासाः शोधनं तच्च वस्तु वा तर्पणं च तत् ।  
शरदर्चापीठमूर्त्योर्नैमित्तिकसमर्हणात् ॥ ११-६७७ ॥  

कस्यापि मत ईशानि नैवाणुरपि भिद्यते ।  
विशिष्यातो मया तन्त्रपौराणिकविधिद्वयम् ॥ ११-६७९ ॥  

उच्यते स मनुः प्रायो बुद्धिमद्बुद्धिगोचरः ।  
पत्रिकादिषु पौराणं तान्त्रिकं पीठ एव हि ॥ ११-६८० ॥  

वस्त्वर्पणस्य प्रत्येकं ये मन्त्राः पूर्वमीरिताः ।  
नैमित्तिकार्चनविधौ ग्राह्यास्तेऽत्रापि पार्वति ॥ ११-६८१ ॥  

प्रत्येकं मनवो ये वै पत्रिकादिषु संस्थिताः ।  
तानिदानीं प्रवक्ष्यामि तत्तद्वस्त्वर्पणाविधौ ॥ ११-६८२ ॥  

यथा तत्तन्मनूच्चारादनुमूलमनूदितान् ।  
कथ्यते वस्तुदानाय तथाऽत्रापि सुरेश्वरि ॥ ११-६८३ ॥  

पौराणिकमनुं प्रोच्य तदन्ते परिकीर्त्तयेत् ।  
द्वात्रिंशद्वर्णकं मन्त्रमथवा भैरवोदितम् ॥ ११-६८४ ॥  

कात्यायनोपासितं यज्जयदुर्गादशाक्षरम् ।  
ताभ्याम् पौराणिकार्चायां वस्तुदानसमुद्धृतेः ॥ ११-६८५ ॥  

द्वयोरशक्तावेकं वा आवश्यकतयेरयेत् ।  

वक्ष्ये तयोरुद्धृतिं तदाद्यं नन्दीश्वरार्चितम् ॥ ११-६८६ ॥

तारत्रपाभ्यां ङेन्ता स्याद्दक्षयज्ञविनाशिनी ।  
महाघोराऽपि च तथा योगिनीकोटिशब्दतः ॥ ११-६८७ ॥  

तद्वत् परिवृता कार्या मायाबीजं ततः परम् ।  
पूर्ववद्भद्रकाली च हृन्मन्त्रः सर्वशेषगः ॥ ११-६८८ ॥  

प्। १०२९) अथवा तारतो दुर्गा इति वारद्वयं वदेत् ।
सम्बुद्ध्यन्तां रक्षणीं च तर्जनीमनुरन्त्यगः ॥ ११-६८९ ॥

यद्यपीमौ मनू देवि तान्त्रिकौ समुदीरितौ ।  
तथाऽपि पौराणिकान्ते नियोज्यौ तत्तदर्हणे ॥ ११-६९० ॥  

अथ सर्वोपचारीयान् वक्ष्ये पौराणिकान्मनून् ।  
पूर्वमेवोदिताः सन्ति निमित्तार्चासु तान्त्रिकाः ॥ ११-६९१ ॥  

त एवात्र नियोक्तव्याः प्रत्येकं तत्तदर्पणे ।  
पत्रिकादिषु पौराणाः पीठमूर्त्त्योस्तु तान्त्रिकाः ॥ ११-६९२ ॥  

आसनं पाद्यमर्घ्यं च ततोऽन्वाचमनीयकम् ।  
मधुपर्कं स्नानजलं वस्त्रं भूषणचन्दने ॥ ११-६९३ ॥  

पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम् ।  
अलक्तं चापि नैवेद्यं प्रदक्षिणनमस्कृती ॥ ११-६९४ ॥  

उपचारा इमे प्रोक्ता देवीतुष्टिविधायकाः ।  
यद्यद्वै दीयते द्रव्यमलङ्कारादिकाञ्चनम् ॥ ११-६९५ ॥  

तेषां दैवतमुच्चार्य कृत्वा च प्रोक्षणार्चने ।  
उत्सृज्य तत्तन्मन्त्रेण तत्तन्नाम्ना निवेदयेत् ॥ ११-६९६ ॥  

सर्वशुद्धिं तु पौराणक्रमेण धरयाऽचरेत् ।  
इदं त आसनं दत्तं मया सुरवरार्चिते ॥ ११-६९७ ॥  

भवैतस्मिन्निषण्णा त्वं यावत् पूजां करोम्यहम् ।  
दूर्वापराजितापद्मश्यामाकसहितं जलम् ॥ ११-६९८ ॥  

पाद्याय कल्पते देवि विशेषार्चासु नान्यथा ।  
पाद्यं गृह्ण मया दत्तं सर्वदुःखापहारकम् ॥ ११-६९९ ॥  

प्। १०३०) त्रायस्व वरदे देवि घोरादस्माद्भवार्णवात् ।
स्नाते वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ॥ ११-७०० ॥

तच्च स्वधापदैर्दद्यान्मधुपर्कं तथा प्रिये ।  
अर्घं स्वाहापदेनैव सर्वमन्यन्नमः पदैः ॥ ११-७०१ ॥  

गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपान् ।  
विल्वपत्रक्षीरदूर्वासहितं सलिलं शुचि ॥ ११-७०२ ॥  

श"खपात्रगतं कृत्वा कालिकायै निवेदयेत् ।  
दूर्वाक्षतसमायुक्तं विल्वपत्रसमन्वितम् ॥ ११-७०३ ॥  

शोभनं शङ्खपात्रस्थं गृहाणार्घं हरप्रिये ।  
नानातीर्थोद्भवं वारि सर्ववस्तूपकल्पितम् ॥ ११-७०४ ॥  

गृहाणार्घमिमं देवि जगद्धात्रि नमोऽस्तु ते ।  
चन्द्रजातीलवङ्गैलाकक्कोलसहितं जलम् ॥ ११-७०५ ॥  

विशेषाचमनीयं वै दद्याद्देव्यै फलेच्छया ।  
आमोदवस्तुसुरभीकृतमेतदनूत्तमम् ॥ ११-७०६ ॥  

गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ।  
इमा आपो मया भक्त्या तव पादतलेऽर्पिताः ॥ ११-७०७ ॥  

आचामय महादेवि प्रीता शान्तिं प्रयच्छ मे ।  
सुराभावे घृतदधि मधु कांस्ये निवेदयेत् ॥ ११-७०८ ॥  

मधुपर्कं तदुद्दिष्टं प्रार्थनीयं दिवौकसाम् ।  
मधुपर्कं महेशानि ब्रह्मणा परिकल्पितम् ॥ ११-७०९ ॥  

मया निवेदितं तुभ्यं गृहाण जगदीश्वरि ।  
मधुपर्कप्रदानान्ते पुनराचमनीयकम् ॥ ११-७१० ॥  

दातव्यं प्राशनान्तेऽस्य यत उच्छिष्टता भवेत् ।  

प्। १०३१) वारीदं हि ममामोदि प्रसन्नं मेध्यमेव च ॥ ११-७११ ॥

मया निवेदितं भक्त्या स्नाह्यनेन सुरेश्वरि ।  
नानावर्णसमायुक्तपट्टसूत्रादिनिर्मितम् ॥ ११-७१२ ॥  

वासःशुक्लं तथा रक्तं गृहाण त्रिदशेश्वरि ।  
देहशोभाकरं पूतं रञ्जितं नागवस्तुभिः ॥ ११-७१३ ॥  

परिधत्स्व जगद्धात्रि वासो भक्त्या निवेदितम् ।  
वाससः परिधानान्ते पुनराचमनीयकम् ॥ ११-७१४ ॥  

दातव्यं भक्तिभावेन स्मृत्युक्तत्वान्मनुष्यवत् ।  
दिव्यरत्नसमायुक्ता वह्निभानुसमप्रभाः ॥ ११-७१५ ॥  

अलङ्कारास्तवाङ्गानि शोभयन्तु सुरेश्वरि ।  
अनुलेपनमेतत् ते महासुरभि शीतलम् ॥ ११-७१६ ॥  

मया निवेदितं देवि गृहीत्वा लेपयाङ्गकम् ।  
इदं कुसुममामोदि ग्रामारण्यसमुद्भवम् ॥ ११-७१७ ॥  

प्राणसन्तर्पणं हृद्यं मयां दत्तं प्रगृह्यताम् ।  
कर्पूरागुरुसम्मिश्रो वनस्पतिरसोद्भवः ॥ ११-७१८ ॥  

मया निवेदितो धूपो देवदेवि प्रगृह्यताम् ।  
अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च ॥ ११-७१९ ॥  

ज्योतिषामुत्तमं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
त्वं चन्द्रसूर्यज्योतींषि विद्युदग्न्योस्तथैव च ॥ ११-७२० ॥

त्वमेव जगतां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
स्निग्धमुष्णं हृद्यतमं दृशां शोभाकरं तव ॥ ११-७२१ ॥

गृहीत्वा कज्जलं सद्यो नेत्राण्यञ्जय पार्वति ।  
त्वत्पादाम्भोजनखरद्युतिकारि मनोरमम् ॥ ११-७२२ ॥  

प्। १०३२) अलक्तकमिदं देवि मया दत्तं प्रगृह्यताम् ।
नानाविधानि रम्याणि स्वादूनि रसवन्ति च ॥ ११-७२३ ॥

मया दत्तानि गृह्यन्तां नैवेद्यानि सुरार्चिते ।  
फलपूलानि सर्वाणि ग्रामकाननजानि च ॥ ११-७२४ ॥  

नानाकारसुगन्धीनि गृहाण परमेश्वरि ।  
चतुर्विधमिदं भोज्यं देवि षड्भी रसैर्युतम् ॥ ११-७२५ ॥  

सदा तृप्तिकरं रम्यमिदमन्नं प्रगृह्यताम् ।  
गव्यसर्पिःपयोयुक्तं नानामधुरमिश्रितम् ॥ ११-७२६ ॥  

निवेदितं देवि मया परमान्नं प्रगृह्यताम् ।  
अमृतै रचितं दिव्यं घृतखण्डविनिर्मितम् ॥ ११-७२७ ॥  

पिष्टकं विविधं स्वादु गृहाण हरवल्लभे ।  
मोदकं स्वादु रुचिरं कर्पूरादिभिरन्वितम् ॥ ११-७२८ ॥  

मिश्रं नानाविधैर्द्रव्यैः प्रतिगृह्याशु भुज्यताम् ।  
ताम्रपात्रे स्थितं सीधुं पयो गव्यमथात्र वा ॥ ११-७२९ ॥  

नारिकेलोदकं कांस्ये गृहाण शङ्करप्रिये ।  
पानीयं शीतलं स्वच्छं प्रसन्नं घनसारयुक् ॥ ११-७३० ॥  

भोजने तृप्तिकृद्देवि कृपया प्रतिगृह्यताम् ।  
भोजनान्ते प्रदातव्यं पुनराचमनीयकम् ॥ ११-७३१ ॥  

पूर्वोक्तेनैव मन्त्रेण सर्वत्रैव शुचिस्मिते ।  
फलपत्रकसंयुक्तं कर्पूरादिसुवासितम् ॥ ११-७३२ ॥  

मुखकान्तिकरं हृद्यं ताम्बूलं प्रतिगृह्यताम् ।  
दूर्वाङ्कुरं ततो देव्यै दद्यात् साधकसत्तमः ॥ ११-७३३ ॥  

प्। १०३३) नमस्ते सर्वगे देवि नमस्ते भुक्तिमुक्तिदे ।
दूर्वां गृहाण देवि त्वं मां निस्तारय सङ्कटात् ॥ ११-७३४ ॥

विल्वपत्रं ततो देव्यै पृथक्त्वेन निवेदयेत् ।  
अमृतोद्भवं श्रीयुक्तं महादेव प्रियं सदा ॥ ११-७३५ ॥  

पवित्रं ते प्रयच्छामि पत्रं मालूरशाखिनः ।  
नानापुष्पेण रचितां स्तनबद्धां सुगन्धिनीम् ॥ ११-७३६ ॥  

प्रभ्रष्टां लम्बनां चापि तव देवि निवेदये ।  
सर्वशेषे प्रदातव्यं सिन्दूरं पत्रिकार्चने ॥ ११-७३७ ॥  

अनुलेपनकाले तु पीठमूर्त्त्योर्भिदेयती ।  
अलिकादिकशोभायाः कारकं रागसम्भवम् ॥ ११-७३८ ॥  

अतिरागि समुत्पिञ्जसिन्द्रूरं प्रतिगृह्यताम् ।  
चमरीपुच्छजं श्वेतं हेमदण्डि सुलोम च ॥ ११-७३९ ॥  

मयाऽर्पितं राजचिह्नं चामरं प्रतिगृह्यताम् ।  
वर्हिवर्हकृताकारं मध्यदण्डसमन्वितम् ॥ ११-७४० ॥  

गृह्यतां व्यजनं देवि देहस्वेदापनत्तये ।  
येन भीषयसे दैत्यान् येन पूरयसेऽम्बरम् ॥ ११-७४१ ॥  

तां घण्टां ते प्रयच्छामि महिषघ्नि प्रगृह्यताम् ।  
दीपैरनेकैर्विहितमारात्रिकमिदं शुभम् ॥ ११-७४२ ॥  

निवेदयामि ते देवि संहराज्ञानजं तमः ।  
सर्वशेषे प्रदातव्यं पुष्पाणामञ्जलित्रयम् ॥ ११-७४३ ॥  

तन्मनुस्तु वरारोहे दुर्गागायत्र्युदीरिता ।  

प्। १०३४)ॐ चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो गौरी प्रचोदयात् ।

अनेन विधिना यस्तु मन्त्रैरेभिश्च पार्वति ॥ ११-७४४ ॥  

महिषघ्नीं महामायां पत्रिकासु प्रपूजयेत् ।  
अश्वमेधफलं प्राप्य स गच्छेच्चण्डिकालयम् ॥ ११-७४५ ॥  

इहापि च भवेत् सद्यः कल्याणानां स भाजनम् ।  
पूजारीतिर्वरारोहे पीठमूर्त्त्योरपीदृशी ॥ ११-७४६ ॥  

मन्त्रभेदः परो ज्ञेयः पात्राणां स्थापनं तथा ।  
प्रत्येकं तु ततः कुर्यात् पत्रिकाणां तु पूजनम् ॥ ११-७४७ ॥  

यावच्छक्योपचारेण मन्त्रेणापि पृथक् पृथक् ।  
एका तत्तदधिष्ठात्री देवता परिकीर्त्तिता ॥ ११-७४८ ॥  

तत्तन्नाम्ना चतुर्थ्यन्तां समावाह्यार्चयेत् प्रिये ।  
आदौ तु रम्भाधिष्ठात्री ब्रह्माणी परिकीर्त्तिता ॥ ११-७४९ ॥  

कालिका कच्च्यधिष्ठात्री त्रिपुरघ्नेन भाषिता ।  
दुर्गा हरिद्राधिष्ठात्री जयन्त्यां कार्त्तिकी तथा ॥ ११-७५० ॥  

शिवा च विल्वाधिष्ठात्री दाडिमाधिष्ठिता तत्था ।  
शत्रुसङ्घक्षयकरी विज्ञेया रक्तदन्तिका ॥ ११-७५१ ॥  

मुनिभिः शोकरहिताऽशोकाधिष्ठात्र्युदीरिता ।  
तथैव मानाधिष्ठात्री चामुण्डा परिकीर्त्तिता ॥ ११-७५२ ॥  

लक्ष्मीश्च धान्याधिष्ठात्री नन्दीशेनोपपादिता ।  
नवपत्रिकाधिष्ठात्री कात्यायन्यप्युदीरिता ॥ ११-७५३ ॥  

याथाऽसां क्रमतो देवि नामान्युक्तानि ते मया ।  
तथैव मन्त्रमेकैकं क्रमेन प्रब्रुवेऽधुना ॥ ११-७५४ ॥  

प्। १०३५) ब्रह्माणि त्वं ससागच्छ सान्निध्यमिह कल्पय ।
रम्भारूपेण सर्वत्र शान्तिं कुरु नमोऽस्तु ते ॥ ११-७५५ ॥

महिषासुरयुद्धेषु कच्चीभूताऽसि कालिके ।  
मनुष्यानुग्रहार्थाय लोकमेनमुपागता ॥ ११-७५६ ॥  

हरिद्रे वरदे देवि दुर्गारूपाऽसि शोभने ।  
मम विघ्नविनाशाय पूजां गृह्ण प्रसीद मे ॥ ११-७५७ ॥  

निशुम्भशुम्भमथने सेन्द्रैर्देवगणैः पुरा ।  
जयन्ती पूजिताऽसि त्वमस्माकं वरदा भव ॥ ११-७५८ ॥  

महादेवप्रियकरो वासुदेवप्रियः सदा ।  
सदा कालीप्रीतिकरो विल्ववृक्ष नमोऽस्तु ते ॥ ११-७५९ ॥  

दाडिमि त्वं पुरा युद्धे रक्तबीजस्य सम्मुखे ।  
चामुण्डाप्रीतिमकरोत् तस्मात् त्वां पूजयाम्यहम् ॥ ११-७६० ॥  

हरप्रीतिकरो वृक्षो ह्यशोकः शोकनाशनः ।  
दुर्गाप्रीतिकरत्वेन मामशोकं सदा कुरु ॥ ११-७६१ ॥  

यस्य पत्रे वसेद्देवी मानवृक्ष शचीप्रिय ।  
ममैवानुग्रहार्थाय पूजां गृह्ण सुरेश्वरि ॥ ११-७६२ ॥  

जगतः प्राणरक्षार्थं ब्रह्मणा निर्मितं पुरा ।  
उमाप्रीतीकरं धान्यं तस्मात् त्वं रक्ष मां सदा ॥ ११-७६१ ॥  

पत्रिके नवदुर्गे त्वं महादेवमनोहरे ।  
पूजां समास्तां सङ्गृह्य रक्ष मां त्रिदशेश्वरि ॥ ११-७६२ ॥  

प्रत्येकमित्थं सम्पूज्य मन्त्रैरेतैरुदीरितैः ।  
नामाभ्यामपि ङेन्ताभ्यामुक्ताभ्यां पूर्वमेव ते ॥ ११-७६३ ॥  

सामान्यपीठन्यासोक्तनामभिर्ङेन्तबृंहितैः ।  

प्। १०३६) दिक्पालानपि नित्योक्तवाहनायुधसंयुतान् ॥ ११-७६४ ॥

वस्तुभिः पीठमूर्त्त्योस्तु नित्यनैमित्तिकोदितैः ।  
प्रावृत्यार्चनविस्तारैर्यजेत् परमेश्वरीम् ॥ ११-७६५ ॥  

यावती कथिता नित्य इति कर्त्तव्यता मया ।  
यथा नैमित्तिके चापि द्वयीमपि नियोजयेत् ॥ ११-७६६ ॥  

सम्प्रयोगममन्त्राणामवदन्नैत्यके विधौ ।  
तं केवलं विधायेशि सर्वमन्यमुपाचरेत् ॥ ११-७६७ ॥  

नैमित्तिकीयः सङ्ग्राह्योऽन्यः सर्व उभयात्मकः ।  
प्रयोगो यादृशीयस्तु तादृशीयं हि तर्पणम् ॥ ११-७६८ ॥  

शक्तौ तु पत्रिकार्चायां दशास्त्राणि प्रपूजयेत् ।  
ङेन्तैस्तारहृदो मध्येऽधिष्ठितैस्तत्तदक्षरैः ॥ ११-७६९ ॥  

ततोऽनु सर्वपूजान्ते पूजयेन्महिषासुरम् ।  
वलिं दद्यात् स्वशक्त्या च पशूनपि खगानपि ॥ ११-७७० ॥  

नैमित्तिके तद्विधानं प्रागेव तव कीर्त्तितम् ।  

इति सप्तमीकृत्यम् ।

अथाष्टमीकृत्यम् ।

तत्रैव ।

एतावत् सप्तमीकृत्यमथाष्टम्यर्चनं शृणु ॥ ११-७७१ ॥  

सप्तम्युक्तविधानं हि पूर्वमेवानुवर्त्तते ।  
अधिकं यत् तदाख्यास्ये सर्वमन्यत् पुरोक्तवत् ॥ ११-७७२ ॥  

शोधनं द्रव्यजातानामासनादेस्तथैव च ।  
प्राणायामो भूतशुद्धिर्मातृकान्यास एव च ॥ ११-७७३ ॥  

तथा पीठषडङ्गाख्यन्यासौ न्यासान्तराण्यपि ।  
विधाय पूर्वोक्तरीत्या च महास्नानं तथैव च ॥ ११-७७४ ॥  

प्। १०३७) दर्पणे प्रतिबिम्बं च कारयित्वा पुरोक्तवत् ।
दन्तकाष्ठं निवेद्याथ सङ्कल्पं विरचय्य च ॥ ११-७७५ ॥

अर्घसंस्थापनादीनि विधाय च पुरोक्तवत् ।  
समाप्यात्मार्चनं चापि घटे गणपतिं यजेत् ॥ ११-७७६ ॥  

सूर्यादीनपि पञ्चायतनान् सम्पूज्य यत्नतः ।  
ध्यात्वाऽथ मानसैरेवोपचारैः परिपूज्य च ॥ ११-७७७ ॥  

उपचारैः षोडशभिर्महामायां समर्चयेत् ।  
तैस्तैर्मन्त्रैस्तदनुक्रमतश्चापि पार्वति ॥ ११-७७८ ॥  

मुद्राप्रदर्शनैस्तैरुपचारनिवेदनैः ।  
पीठमूर्त्त्योस्तान्त्रिकोक्तरीत्या पूजनमाचरेत् ॥ ११-७७९ ॥  

पत्रिकासु च पौराणक्रमतो जगदीश्वरि ।  
कृत्वाऽवरणपूजां हि पीठे द्वाभ्यां समाचरेत् ॥ ११-७८० ॥  

नित्यनैमित्तिकोक्ताभ्यां महाष्टम्यर्चनक्रमे ।  
विशेषं कं चिदाख्यास्ये पत्रिकायाः प्रपूजने ॥ ११-७८१ ॥  

पूर्वादिवसुकोणेषु दशोपचरणैर्यजेत् ।  
देव्याः शक्तीः क्रमेणैवोग्रचण्डाद्या विशेषतः ॥ ११-७८२ ॥  

मन्त्रमालामयीसंस्थैर्मन्त्रैरासां तु कौलिकः ।  
नन्दिकेशपुराणोक्तैर्मनुभिः पद्यरूपिभिः ॥ ११-७८३ ॥  

श्रुत्यध्वन्याः पूजयेयुरुग्रचण्डादिकाः प्रिये ।  
मनू।स्तदीयानधुना ब्रवीमि तव सुन्दरि ॥ ११-७८४ ॥  

तारह्नीकमला आदौ मध्ये ङेन्ताभिधा तथा ।  
अन्ते हृन्मनुरेवं हि परिपाटी प्रकीर्त्तिता ॥ ११-७८५ ॥  

उग्रचण्डा तु भयदा मध्याह्नार्कसमप्रभा ।  

प्। १०३८) सा मे सदाऽस्तु वरदा तस्यै नित्यं नमो नमः ॥ ११-७८६ ॥

प्रचण्डे पुत्रदे नित्यं प्रचण्डगणसंवृते ।  
जगदानन्ददे देवि प्रसन्ना भव सर्वदा ॥ ११-७८७ ॥  

चण्डोग्रे भूतरूपाऽसि सर्वभूतभयप्रदा ।  
सौम्या भूता मयि सदा वरदा भव शोभने ॥ ११-७८८ ॥  

या सिद्धिरिति नाम्ना तु देवेशेन प्रकाशिता ।  
शासि त्वं साऽसि देवेशि नमस्ते चण्डनायिके ॥ ११-७८९ ॥  

देवि चाण्डात्मिके चण्डे चण्डारिविजयप्रदे ।  
धर्ममोक्षप्रदाऽसि त्वं नित्यं मे वरदा भव ॥ ११-७९० ॥  

या सृष्टिस्थितिसंहारगुणत्रयसमन्विता ।  
यस्याः परा न चान्याऽस्ति चण्डवत्यै नमो नमः ॥ ११-७९१ ॥  

चण्डरूपा महाचण्डा चण्डनायकचण्डिका ।  
सर्वसिद्धिप्रदा देवि तस्यै नित्यं नमो नमः ॥ ११-७९२ ॥  

बालार्कारुणनेत्रा या सर्वदा भक्तवत्सला ।  
चण्डासुरस्य मथनी वरदा साऽस्तु चण्डिका ॥ ११-७९३ ॥  

ततोऽष्टदलपद्मस्य अष्टावृत्या दलेषु च ।  
यजेच्चतुःषष्टिमिता योगिनीगणरूपिणीः ॥ ११-७९४ ॥  

तारत्रयं पुरो दत्वा शेषे नम इदं पदम् ।  
ङेन्तं ततो नाम तासां मध्ये कृत्वा नियोजयेत् ॥ ११-७९५ ॥  

उपचारैः पञ्चभिर्वा पुष्पैर्वा केवलाक्षतैः ।  
ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च ॥ ११-७९६ ॥  

कौमारी भैरवी दुर्गा नारसिंही च कालिका ।  

प्। १०३९) चामुण्डा शिवदूती च वाराही कौशिकी तथा ॥ ११-७९७ ॥

माहेश्वरी शङ्करी च जयन्ती सर्वमङ्गला ।  
करालिनी मुक्तकेशी शिवा शाकम्भरी तथा ॥ ११-७९८ ॥  

भीमा शान्ता भ्रामरी च रुद्राणी चण्डरूपिणी ।  
क्षमा धात्री स्वधा स्वाहा अपर्णा च महोदरी ॥ ११-७९९ ॥  

घोररूपा महाकाली विद्युज्जिह्वा कपालिनी ।  
क्षेमङ्करी महामाया मेघमाला बलाकिनी ॥ ११-८०० ॥  

शुष्कोदरी चण्डघण्टा महाप्रेता प्रियङ्करी ।  
खरतुण्डी ऋक्षकर्णी बलप्रमथनी तथा ॥ ११-८०१ ॥  

मनोमथन्यपि तथा सर्वभूतदमन्यपि ।  
उमा तारा महानिद्रा विजया च जया तथा ॥ ११-८०२ ॥  

शैलपुत्री महोल्का च त्रिशूलिन्यञ्जनप्रभा ।  
कूष्माण्डी विश्वसन्त्रासा तथा कात्यायनी परा ॥ ११-८०३ ॥  

कालरात्रिर्महागौरी चतुःषष्टिरिमा मताः ।  
पूजयेन्मण्डलस्यान्ते सर्वकामार्थसिद्धये ॥ ११-८०४ ॥  

पुनश्च कोटियोगिन्यः पूज्याः एकाख्यया प्रिये ।  
पद्मपत्राग्रहाग्रेषु पूर्ववन्मन्त्रकल्पनैः ॥ ११-८०५ ॥  

ततो देवीसन्निधाने सम्यग्दुर्गा फलप्रदा ।  
ऐशान्यादिक्रमे द्वे द्वे मध्ये वा नव पूजयेत् ॥ ११-८०६ ॥  

आसामप्युग्रचण्डादिवन्मन्त्रः परिकीर्त्तितः ।  
पाद्यादिभिः पूर्ववच्च तत्तन्मन्त्रैः प्रपूजयेत् ॥ ११-८०७ ॥  

प्। १०४०) मृत्युञ्जयप्राणसंस्थैरथ पौराणिकैरपि ।
पूर्वपक्षः कौलिकानामुत्तरः श्रुतिशालिनाम् ॥ ११-८०८ ॥

तन्मन्त्रामधुना वक्ष्ये सावधाना निशामय ।  
चतुर्मुखीं जगद्धात्रीं हंसारूढां वरप्रदाम् ॥ ११-८०९ ॥  

सृष्टिकर्त्रीं महाभागां ब्रह्मणीं तां नमाम्यहम् ।  
वृषारूढां शिवां भद्रां त्रिनेत्रां वरदां शिवाम् ॥ ११-८१० ॥  

माहेश्वरीं नमस्यामि जगत्संहारकारिणीम् ।  
कौमारीं पीतवसनां मयूरवरवाहिनीम् ॥ ११-८११ ॥  

शक्तिहस्तां शोणदेहां नमामि वरदां सदा ।  
शङ्खचक्रगदापद्मधारिणीं कृष्णविग्रहाम् ॥ ११-८१२ ॥  

स्थितिरूपां खगेन्द्रस्थां वैष्णवीं प्रणमाम्यहम् ।  
वराहरूपिणीं देवीं दंष्ट्रोद्धृतवसुन्धराम् ॥ ११-८१३ ॥  

शुभदां नीलवसनां वाराहीं तां नमाम्यहम् ।  
नृसिंहरूपिणीं भीमां दैत्यदानवघातिनीम् ॥ ११-८१४ ॥  

विकरालनखां शुभ्रां नारसिंहीं नमाम्यहम् ।  
इन्द्राणीं गजकुम्भस्थां सहस्रनयनां शुभाम् ॥ ११-८१५ ॥  

नमामि वरदां देवीं सर्वदेवनमस्कृताम् ।  
चामुण्डां मुण्डमथनीं मुण्डमालोपशोभिताम् ॥ ११-८१६ ॥  

अट्टाट्टहासमुदितां नमाम्यात्मविभूतये ।  
कात्यायनीं दशभुजां महिषासुरमर्दिनीम् ॥ ११-८१७ ॥  

प्रसन्नवदनां देवीं वरदां प्रणमाम्यहम् ।  
चण्डिके नवदुर्गे त्वं महादेवप्रिये सदा ॥ ११-८१८ ॥  

पूजां समस्तां सङ्गृह्य रक्ष मां त्रिदशेश्वरि ।  

प्। १०४१) कात्यायन्याश्च दुर्गाया मन्त्रद्वयमिदं मतम् ॥ ११-८१९ ॥

इमे तेनैव मन्त्रेण पूजयेत् सुरवन्दिते ।  
पुनः पूर्वोक्तविधिना देवीरेकादशर्चयेत् ॥ ११-८२० ॥  

जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् ।  
दुर्गां क्षमां शिवां धात्रीं स्वधां स्वाहां च पूजयेत् ॥ ११-८२१ ॥  

ततोऽस्त्रपूजां कुर्वीत सप्तम्यर्चनतोऽधिकाम् ।  
प्रणवाद्यैर्नमोऽन्तैश्च मन्त्रैरेव सुरेश्वरि ॥ ११-८२२ ॥  

आदौ तु दक्षिणे भागे ततो वामे प्रपूजयेत् ।  
पाद्यादिभिस्त्रिशूलादीन् केवलैरक्षतैरथ ॥ ११-८२३ ॥  

सर्वायुधानां प्रथमो निर्मितस्त्वं पिनाकिना ।  
शूलसारं समाकृष्य कृत्वा मुष्टिग्रहं शुभम् ॥ ११-८२४ ॥  

असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।  
श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तु ते ॥ ११-८२५ ॥  

चक्रं त्वं विष्णुरूपोऽसि विष्णुपाणौ सदा स्थितः ।  
देवीहस्तगतश्चासि चक्रराज नमोऽस्तु ते ॥ ११-८२६ ॥  

सर्वायुधानां श्रेष्ठस्त्वं दैत्यसेनानिषूदन ।  
भयेभ्यः सर्वदा रक्ष तीक्ष्णबाण नमोऽस्तु ते ॥ ११-८२७ ॥  

शक्ते त्वं सर्वदेवानां गुहस्य च विशेषतः ।  
शक्ति रूपेण सर्वत्र रक्षां कुरु नमोऽस्तु ते ॥ ११-८२८ ॥  

रक्षारूपेण खेट त्वमरिसंहारकारकः ।  
सदा देवीकरगत मां रक्ष बहुसङ्कटात् ॥ ११-८२९ ॥  

सर्वायुधमहामात्र सर्वासुरनिषूदन ।  
चाप मां सर्वतो रक्ष साकं सायकसत्तमैः ॥ ११-८३० ॥  

प्। १०४२) पाश त्वं नागरूपोऽसि विषपूर्णो विषोदरः ।
शत्रूणां दुःसहो नित्यं नागपाश नमोऽस्तु ते ॥ ११-८३१ ॥

अङ्कुशोऽसि नमस्तुभ्यं गजानां त्वं नियामकः ।  
देवानामपि रक्षार्थं पार्वत्याऽसि धृतः करे ॥ ११-८३२ ॥  

यस्या निनादमाकर्ण्य शकृन्मूत्रे प्रसुस्रुवः ।  
दैत्यसङ्घाः पाहि सा त्वं घण्टे नानाविधाद्भयात् ॥ ११-८३३ ॥  

परशो त्वमतिक्ष्णोऽसि सर्ववैरिविमर्दन ।  
देवीहस्तगतश्चासि सदा तुभ्यं नमो नमः ॥ ११-८३४ ॥  

यानि यानीह मुख्यानि प्रसिद्धान्यायुधानि च ।  
क्षयकारीणि शत्रूणां विख्यातानि जगत्त्रये ॥ ११-८३५ ॥  

यानि यान्यम्बिका धत्ते करेषु स्वेषु सर्वदा ।  
भुशुण्डीपाशपरिघभिन्दिपालास्तु लागुडाः ॥ ११-८३६ ॥  

ऋष्टितोमरकुन्ताश्च पट्टिशो मुशलस्तथा ।  
गदाशतघ्नीकुणपच्छुरिकाकर्त्तरीमुखाः ॥ ११-८३७ ॥  

सर्वा।स्तान् पूजयाम्यद्य महाष्टम्यां विशेषतः ।  
सर्वे रक्षन्तु मां नित्यम् सर्वसिद्धिं ददत्वपि ॥ ११-८३८ ॥  

तारात् कूर्चाच्च दुर्गायै सर्वायुधपदान्यपि ।  
धारिण्यै नम उच्चार्य दद्यात् पुष्पाञ्जलित्रयम् ॥ ११-८३९ ॥  

ततो देव्याः किरीटादीनलङ्कारान् प्रपूजयेत् ।  
ताराद्येन नमोऽन्तेन नाम्ना ङेन्तेन तस्य च ॥ ११-८४० ॥  

ततः प्रपूजयेद्देव्याः सिंहासनमनुत्तमम् ।  
ताराद्वज्रनखदंष्ट्रायुधाय परिकीर्त्त्य हि ॥  

महासिंहाय हु। हृच्च सिंहमेतेन पूजयेत् ।  

प्। १०४३) यथोपकल्पितैरेवोपचारैः कुसुमाक्षतैः ॥ ११-८४१ ॥

तदन्ते मनुनैतेन देव्याः सिंहासनं यजेत् ।  
आसनं चासि देव्यास्त्वं घोरदंष्ट्रोत्कटान्वितः । । ८४२ ॥  

हिमाद्रिशिखराकार सिंहराज नमोऽस्तु ते ।  
देव्या दत्तवरत्वेन विशेषान्महिषासुरम् ॥ ११-८४३ ॥  

अष्टम्यां च नवम्यां च पूजयेद्बहुविस्तरैः ।  
यावच्छक्योपचारैस्तु पाद्यादिभिरनेकधा ॥ ११-८४४ ॥  

नमोऽन्तः प्रणवादिश्च ङेन्तोऽन्तर्महिषासुरः ।  
एतेन मनुना सर्वोपचारानस्य चार्पयेत् ॥ ११-८४५ ॥  

न सामान्यासुरधिया साक्षाद्रुद्रधियैव हि ।  
पूजान्ते कीर्त्तयेन्मन्त्रानमून् बद्धाञ्जलिः प्रिये ॥ ११-८४६ ॥  

रुद्रोऽस्यसुरराज त्वं देवानां दर्पनाशकः ।  
पितुर्वरप्रार्थनया महिषीगर्भसम्भवः ॥ ११-८४७ ॥  

कात्यायन्या समं योद्धुं सामर्थ्यं कस्य विद्यते ।  
केनासुरेण विधृतः समरे मधुसूदनः ॥ ११-८४८ ॥  

केनान्येन विजित्याजौ त्रिदशाः सेवकीकृताः ।  
मन्वन्तरत्रयं केन भुक्तं राज्यमकण्टकम् ॥ ११-८४९ ॥  

बभूव कस्य वा सेना परार्धशतसम्मिता ।  
रुद्ररूपधरायातो महिषासुर ते नमः ॥ ११-८५० ॥  

ततः सम्पूजयेद्देवि चतुरो वटुकानपि ।  
सिद्धपुत्रं ज्ञानपुत्रं तथा सहजपुत्रकम् ॥ ११-८५१ ॥  

शेषे समयपुत्रं च मन्त्रमेषां निशामय ।  
वेदादिकमलाबीजे पुरतोऽन्ते नमोऽपि च ॥ ११-८५२ ॥  

प्। १०४४) तत्तन्नाम्ना सह तथा वटुको विग्रहीकृतः ।
स ङेन्त इति मन्त्राः स्युरेतेषां जगदीश्वरि ॥ ११-८५३ ॥

समस्तैरुपचारैस्तु यथाविभवकल्पितैः ।  
पूजयेद्वटुकानेताञ्छृण्वन्यावृत्तिपूजनम् ॥ ११-८५४ ॥  

पूजयेत् क्षेत्रपाला।श्च मध्ये किञ्जल्कपक्षयोः ।  
हेतुकं त्रिपुरघ्नं च अग्निजिह्वं तथैव च ॥ ११-८५५ ॥  

अग्निवेतालसञ्ज्ञं च कालं चाथ करालकम् ।  
एकपादं भीमनाथमुत्तरादिक्रमेण तु ॥ ११-८५६ ॥  

अधुना मन्त्रमेतेषां ब्रवीमि शृणु पार्वति ।  
तारकूर्चक्षेत्रपालबीजत्रयमिदं पुरः ॥ ११-८५७ ॥  

एतन्नाम्ना सह पुनः क्षेत्रपालः सविग्रहः ।  
ङेन्तो महाभीषणश्च तद्वदेव प्रकीर्त्तितः ॥ ११-८५८ ॥  

क्रोधो हृच्छिरसी चापि मन्त्र एषां वरानने ।  
मण्डलस्य चतुर्दिक्षु द्वौ द्वौ मध्ये च पूजयेत् ॥ ११-८५९ ॥  

भैरवान् नव देवेशि शरदर्चनकर्मणि ।  
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च ॥ ११-८६० ॥  

आनन्दश्च कपाली च भीषणस्तदनन्तरम् ।  
संहारी सर्वशेषे स्यात् कीर्त्तिता नव भैरवाः ॥ ११-८६१ ॥  

तारत्रपारोषबीजं तत्तन्नाम ततः परम् ।  
भैरवान्तं विग्रहि च ङेन्तं हृन्मन्त्रसंयुतम् ॥ ११-८६२ ॥  

दिक्ष्वष्टसु बहिः पद्माद्दिगीशानष्ट पूजयेत् ।  
इन्द्रोऽग्निश्च यमश्चैव नैर्-ऋतो वरुणस्तथा ॥ ११-८६३ ॥  

वायुः सोमश्च ईशान एतन्नाम्ना परिस्थिता ।  

प्। १०४५) वज्रं शक्तिश्च दण्डश्च खड्गः पाशोऽङ्कुशस्तथा ॥ ११-८६४ ॥

ध्वजशूले अमीषां तु शस्त्राणि कथितानि ते ।  
नैर्-ऋतो वरुणश्चापि मध्येऽनन्तः प्रकीर्त्तितः ॥ ११-८६५ ॥  

तदस्त्रं चक्रमुदितं यथेन्द्रेशानमध्यतः ।  
ब्रह्मा सपद्म इत्येते दिगीशा दश ईरिताः ॥ ११-८६६ ॥  

मन्त्ररीती इदानीं त्वं समाकल्पय भामिनि ।  
प्रणवं पुरतो दत्वा तत्तन्नाम ततः परम् ॥ ११-८६७ ॥  

ततः परं तत्तदस्त्रं सशब्दपरिबृ।हितम् ।  
सवाहनपरीवारं सायुधं तदनन्तरम् ॥ ११-८६८ ॥  

शब्दाश्चत्वार इत्येते ङेन्ताः कार्या नमस्ततः ।  
ततो दद्याद्वलिं देव्यै पूर्वोदितविधानतः ॥ ११-८६९ ॥  

अष्टम्यामधिकं दद्यात् सप्तमीवलिदानतः ।  

तन्त्रान्तरे ।

ततो यथाशक्ति जपं कृत्वा स्तोत्रमुदीरयेत् ॥ ११-८७० ॥  

वलिदानविधिः स्तोत्रं चाग्रे वक्ष्यते ।
तथा ।

साष्टाङ्गं प्रणमेद्भूमौ देवीं भक्तिपरायणः ।

(निर्णयामृते) पुराणान्तरे ।

ततः खड्गं नमस्कृत्य शत्रूणां वधसिद्धये ॥ ११-८७१ ॥  

इच्छेत विजयं राज्ये सुभिक्षं चात्मनो नृपः ।  
पुनः पुनः प्रणम्यार्यां संस्मरेद्धृदये शिवाम् ॥ ११-८७२ ॥  

सर्वं कृत्वेति कौरव्य अष्टम्यां जागरं निशि ।  
नटनाटकघोषैश्च कारयेच्च महोत्सवम् ॥ ११-८७३ ॥  

अथाष्टमीनवम्योः सन्धौ चामुण्डापूजा ।

प्। १०४६) (महाकालसंहितायाम्)

अष्टमीनवमीसन्धौ कुर्वते के चिदर्चनम् ।  
तत्सन्धिपूजनमिति पुराणादिषु कीर्त्तितम् ॥ ११-८७४ ॥  

नवम्यामर्धरात्रे वा तत्परेणापि पूजनम् ।  
तान्त्रिकाः के चिदिच्छन्ति सिद्धिं तूभयथाऽर्चने ॥ ११-८७५ ॥  

चामुण्डारूपधारिण्यास्तत्र देव्यास्तु पूजनम् ।  
विहितं नान्यरूपिण्याः कृत इत्येष निर्णयः ॥ ११-८७६ ॥  

तन्मन्त्रं ध्यानमस्यास्तु समाकल्पय साम्प्रतम् ।  

चामुण्डाया मन्त्रध्याने तन्त्रान्तरोक्ताष्टमातृकाप्रकरणे वक्ष्यामः ।
तथा ।

एवं ध्यात्वा च सम्पूज्य विविधोपायनादिभिः ॥ ११-८७७ ॥  

शक्तौ तु मार्त्तिकीः स्थालीः पूरयेदन्नतेमनैः ।  
पक्वान्नैराममांसैश्च रुधिरैर्देयपक्षिणाम् ॥ ११-८७८ ॥  

ताश्च सम्पूजयेद्गन्धै रक्तपुष्पाक्षतरपि ।  
उपरिष्टाद्धूपदीपैररिबलैर्मनुभिश्च यः ॥ ११-८७९ ॥  

वलिं समुत्सृजेत् तेन महतीं श्रियमश्नुते ।  
शक्तियामे ततः पश्चात् केचित् कुर्वन्ति कौलिकाः ॥ ११-८८० ॥  

तद्विधानं पुरैवोक्तं तेनैवैतां समापयेत् ।  

अथ नवमीकृत्यम् ।

(भविष्यपुराणे)

नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता ॥ ११-८८१ ॥  

जघान महिषं दुष्टमवध्यं देवताभिः ।  
लब्ध्वाऽभिषेकं वरदा शुक्ले चाश्वयुजस्य च ॥ ११-८८२ ॥  

प्। १०४७) तस्मात् सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ।
महत्त्वं हि यतः प्राप्ता तत्र देवी सरस्वती ॥ ११-८८३ ॥

तदर्थं महती प्रोक्ता नवमीयं सदा बुधैः ।  
पूजयित्वा महादेवीं नवम्यां मन्त्रचण्डिकाम् ॥ ११-८८४ ॥  

महत्त्वं प्राप्तवान् वीर ब्रह्मा विष्णुस्तथाऽमराः ।  
तस्मादियं महापुण्या नवमी पापनाशिनी ॥ ११-८८५ ॥  

उपोष्या तु प्रयत्नेन सततं सर्वपार्थिवैः ।  
पूर्वोत्तरेण ऋक्षेण संयुक्ता विधिवन्नृप ॥ ११-८८६ ॥  

विशेषतो नृपाद्यैश्च बालैर्वृद्धैः सयौवनैः ।  
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च सेवकैः ॥ ११-८८७ ॥  

इत्यादि (दुर्गोत्सवपद्धतौ)
तन्त्रान्तरे ।

ततो महानवम्यां च पूजयेज्जगदम्बिकाम् ।  
अष्टम्यां यावती प्रोक्ता विस्तरेण समर्हणा ॥ ११-८८८ ॥  

नवम्यामपि कर्त्तव्या तावत्येव वरानने ।  
विशेषस्तत्र कर्त्तव्यं प्रभूतवलिदानकम् ॥ ११-८८९ ॥  

(महाकालसंहितायाम्)

नैमित्तिकक्रमेणैव पीठमूर्त्त्यर्चनं चरेत् ।  
शक्तौ नित्योदितावृत्यर्चनं कुर्वीत साधकः ॥ ११-८९० ॥  

नान्यां पूजां वरारोहे व्यवस्थेयं शिवोदिता ।  
पीठमूर्ती पत्रिकामृन्मूर्त्ती यो भक्तिभावितः ॥ ११-८९१ ॥  

कुरुते तस्य विहितं पूजनद्वितयं तदा ।  
पत्रिकायाः पुरः पूजा पीठमूर्त्त्योस्ततः परम् ॥ ११-८९२ ॥  

सर्वाऽपि तान्त्रिकी रीतिः पीठमूर्त्त्योरुदीरिता ।  

प्। १०४८) पत्रिकादिषु पौराणी रीतिरुक्ता पुरारिणा ॥ ११-८९३ ॥

असंसृष्टं पृथक्कृत्य द्वयमेतन्मयोदितम् ।  
ततः परं सुरेशानि पाठयेदथ वा पठेत् ॥ ११-८९४ ॥  

मार्कण्डेयपुराणान्तर्गतां भगवतीस्तुतिम् ।  
समग्रां वा पठेदाहो वधं शुम्भनिशुम्भयोः ॥ ११-८९५ ॥  

महिषासुरस्याप्यथ वा मधुकैटभयोरपि ।  
कुर्यादुभयमेवात्र विधिं सङ्कल्पपूर्वकम् ॥ ११-८९६ ॥  

ब्राह्मणान् वरयित्वैव वस्त्रालङ्करणासनैः ।  
विदध्यात् कामनोल्लेखं पूजां शक्त्या च पुस्तके ॥ ११-८९७ ॥  

शनैः पठेत् पाठकोऽपि वर्णौच्चारणपूर्वकम् ।  
सुव्यक्तं नातिविश्लिष्टं न शिरश्चालगीतवत् ॥ ११-८९८ ॥  

तनु मान्दोलयन् नापि न हसन् न रुदन् व्रजन् ।  
नाश्नन्नान्यैरालप।श्च न मध्ये च्छिन्नवत् तथा ॥ ११-८९९ ॥  

आचान्तः कृतशौचश्च पदोरुद्गमनीयवान् ।  
एतेन विधिनाऽधीते तुष्यते जगदम्बिका ॥ ११-९०० ॥  

यथोक्तफलदात्री च भवति प्राणवल्लभे ।  
यथैतत्पाठतो देवी प्रीता स्याद्द्रुतमीश्वरी ॥ ११-९०१ ॥  

न तथा धूपदीपस्रग्वलिनैवेद्यविस्तरैः ।  
पठनं पाठनं वाऽपि तस्मादेतस्य यत्नतः ॥ ११-९०२ ॥  

कार्यं शारदपूजायां कालिकातुष्टिमिच्छता ।  
देवीशारदपूजायां यथैतस्य हि नित्यता ॥ ११-९०३ ॥  

होमस्यापि तथा ज्ञेया मुख्ये अङ्गे इमे मते ।  
हस्तमात्रं विधायादौ स्थण्डिलं श्रद्धया मृदा ॥ ११-९०४ ॥  

प्। १०४९) तत्राग्निस्थापनं कृत्वा वैदिकैर्मनुभिः प्रिये ।
घृताहुतिं वा जुहुयात् तिलमिश्रामथापि वा ॥ ११-९०५ ॥

विल्वपत्रं यवां पद्मं पायसं वा मधूक्षितम् ।  
मन्त्रस्तत्र तु विज्ञेया भारती षोडशाक्षरी ॥ ११-९०६ ॥  

अथवा जयदुर्गाया मन्त्रो यः परिनिष्ठितः ।  

भारती षोडशाक्षरीति प्रकृताभिप्रायेण । जयदुर्गामन्त्रस्तु सकलसाधारण इति बोध्यम् ।
तथा ।
सप्तशत्यास्तथा देवी एकैकश्लोक एव वा ॥ ११-९०७ ॥

मन्त्रे सहस्रसङ्ख्या स्याच्छक्तावयुतमेव वा ।  
उभयत्रापि दातव्याः कर्मान्ते दक्षिणाः शुभाः ॥ ११-९०८ ॥  

इदं कर्मद्वयं देवि मूर्तेः पुरत आचरेत् ।  
नाप्यदो द्वितयं कार्यं क्षपायां वासरादृते ॥ ११-९०९ ॥  

तस्यां कृतं तु विफलं जायते वेदशासनात् ।  
देवी सप्तशतीपाठं गृह्णाति विधिवत् कृतम् ॥ ११-९१० ॥  

विधिना वाऽप्यविधिना पुनर्होमं प्रयच्छति ।  
तस्माद्यत्नेन कर्त्तव्यो होमः शारदपूजने ॥ ११-९११ ॥  

होमः सप्तशतीपाठो वलिर्वादित्रवादनम् ।  
चतुष्टयमिदं शस्तं मासीषे कालिकार्चने ॥ ११-९१२ ॥  

प्रभूतवलिदानं च कार्यं भूत्यनुसारतः ।  

अथ वलिदानविधिस्तत्रैव ।

ततो दद्याज्जीववलिं यथालाभं यथाविधि ॥ ११-९१३ ॥  

विधिस्तु द्विविधः प्रोक्तः श्रौत आगमिकस्तथा ।  
श्रौतः श्रुत्युक्तमन्त्रेणागमस्तन्त्रोक्तमन्त्रकैः ॥ ११-९१४ ॥  

प्। १०५०) श्रौतोऽपि स्वस्वगृह्योक्तविधिना सम्प्रदीयते ।
पशुजातिविशेषेण तत्राप्यस्ति भिदाऽधिका ॥ ११-९१६ ॥

(मेरुतन्त्रे)

वलिस्तु त्रिविधो ज्ञेयस्तान्त्रिकः स्मार्त्त एव च ।  
वैदिकश्चेति तत्रादौ तान्त्रिकोऽष्टविधः स्मृतः ॥ ११-९१७ ॥  

नरश्च महिषः कोलश्छागोऽविः सारसस्तथा ।  
कपोतः कुक्कुटश्चेति सामान्याः पूर्वपूर्वतः ॥ ११-९१८ ॥  

तथा ।

कूष्माण्डं नारिकेलं वा श्रीफलं चेक्षुमेव च ।  
वस्त्रसंवेष्टितं कृत्वा छेदयेच्छुरिकादिभिः ॥ ११-९१९ ॥  

एवं स्मार्त्तो वलिः प्रोक्तो धर्मशास्त्रानुगामिनाम् ।  

तथा ।

वदिकं तु वलिं दद्यादोदनं स्विन्नमाषवत् ॥ ११-९२० ॥  

सरोचनमतिक्रूरदैवते वटकान्वितम् ।  

इत्युक्तं (महाकालसंहितायाम्)

श्रौतः श्रुतिषु सन्धेयो योऽध्वरेषु निरूपितः ॥ ११-९२१ ॥  

वक्ष्याम्यागमिकं सर्वं यागस्थानक्रमागतम् ।  
न स देवो न सा देवी देवयोनिभिदा न सा ॥ ११-९२२ ॥  

न स कालो न तद्भूतं यो नेच्छति वलिं प्रिये ।  
अमूर्त्ता ये च कालाशा माससंवत्सरर्त्तवः ॥ ११-९२३ ॥  

पक्षायनाहोरजनीतिथिप्रहरसङ्क्रमाः ।  
एतेऽपि वलिमिच्छन्ति किं पुनर्देवयोनयः ॥ ११-९२४ ॥  

वनस्पत्योषधिलतातरुगुल्मनगादयः ।  
स्थावरा जङ्गमाश्चापि वल्याकाङ्क्षां प्रकुर्वते ॥ ११-९२५ ॥  

यस्य यस्य हि देवस्य यो यो वलिरुदीरितः ।  

प्। १०५१) एतत्प्रसङ्गेन शिवे स स कश्चन कथ्यते ॥ ११-९२६ ॥

स्वयम्भुवो बलिः सिंहो विष्णोर्वार्ध्रीणसः स्मृतः ।  
अश्व इन्द्रस्य कथितो गण्डकः परमेष्ठिनः ॥ ११-९२७ ॥  

विष्ण्वादिनुद्दिश्य वार्घ्रीणसादेरुत्सर्गमात्रं न तु हिंसेति विधानमुक्तावलीकृतः ।
वार्घ्रीणसलक्षणं त्वग्रे वक्ष्यते ।
तथा ।

शूकरो भैरवस्यापि प्रमथानां च जम्बुकः ।  
प्रियो द्वीपी वेधसश्च चित्रको बलिरिष्यते ॥ ११-९२८ ॥  

गणाध्यक्षस्य भल्लूको यक्षाणां लोहितो मृगः ।  
स्कन्दस्य गोधा विश्वेषां देवानां चमरोऽपि च ॥ ११-९२९ ॥  

विनायकानां च बलिः कृष्णसार उदीरितः ।  
वेतालानां च महिषो गुह्यकानां च सम्बरः ॥ ११-९३० ॥  

शच्याः शल्यो रोहिषस्तु तुषितानां प्रकीर्त्तितः ।  
कृकलाशो दानवानां दैत्यानां श्येन उच्यते ॥ ११-९३१ ॥  

हिरण्यगर्भस्य बलिरष्टापद उदीर्यते ।  
ईशानस्य पदस्वर्चा रुरू रुद्रस्य कीर्त्यते ॥ ११-९३२ ॥  

बलिर्ममापि गोकर्णः साध्यानां गवयस्तथा ।  
सृमरो भासुराणां च वसूनामृक्ष इष्यते ॥ ११-९३३ ॥  

बृहस्पतेस्तु गवयो हस्ती चैव प्रजापतेः ।  
कुरङ्गो गणसाध्यानां तक्ष्ण उष्ट्रो निगद्यते ॥ ११-९३४ ॥  

श्राद्धीयविश्वदेवानां वृषभः परिकीर्त्तितः ।  
अग्नेस्तु कुटरुः पक्षी चक्रवाकः प्रचेतसः ॥ ११-९३५ ॥  

पारुष्णो गार्हपत्यस्य दक्षिणाग्नेस्तु चीनकः ।  
चमूरुराहवनीयस्य शशोऽर्यम्ण उदीरितः ॥ ११-९३६ ॥  

प्। १०५२) वायोर्वलाका सोमस्य हंसश्चन्द्रस्य वै लवः ।
वरुणस्य तथा नक्रो मित्रस्य च कुलीयकः ॥ ११-९३७ ॥

चाषोऽग्नीषोमयोर्ज्ञेय इन्द्राग्न्योः क्रौञ्च एव च ।  
मित्रमित्रस्य मद्गुः स्यात् कुलीकस्त्वष्टुरेव हि ॥ ११-९३८ ॥  

आदित्यानां तथा न्यङ्कुः कृष्णोऽपि हि यमस्य च  
स्यात् प्राजापत्यवाय्वोश्च गोमृगौ बलिरीश्वरि ॥ ११-९३९ ॥  

नासत्ययोर्मयूरोऽपि पूष्णो जम्बुक उच्यते ।  
गर्दभो निर्-ऋतेर्मित्रावरुणस्यकपोतकः ॥ ११-९४० ॥  

गोधादि देवपत्नीनां मालिकः सवितुस्तथा ।  
कुलीको देवयोनीनां राजज्ञोऽप्सरसामपि ॥ ११-९४१ ॥  

अन्तरिक्षस्य योक्त्रस्तु भूमेराखुर्दिवः कशा ।  
दिशां बलिस्तु नकुलो विदिशां बभ्रुरेव च ॥ ११-९४२ ॥  

अपां मत्स्यस्तेजसस्तु होमीयाख्यो भुजङ्गमः ।  
जलः सामान्यकालस्य तथा कालस्य चिल्लिका ॥ ११-९४३ ॥  

सुपर्णश्चापि दात्यूहो बलिर्वत्सरमासयोः ।  
कपिञ्जलो वसन्तर्तोर्ग्रीष्मस्य कलविङ्ककः ॥ ११-९४४ ॥  

वर्षाणां तित्तिरिर्ज्ञेयः शरदो वर्त्तिका तथा ।  
क्रकरश्चापि हैमन्तः शैशिरो वैककर्यपि ॥ ११-९४५ ॥  

पक्षस्य खञ्जरीटः स्यादयनस्य तु सारसः ।  
पारावतो दिनस्यापि रात्रेः सीरायुरुच्यते ॥ ११-९४६ ॥  

प्रोक्ता जलौका सन्ध्याया यैज्ञराजस्तिथेरपि ।  
यामस्य सुखिलीकस्तु सङ्क्रान्तेरन्यपायकः ॥ ११-९४७ ॥  

किरीकको ग्रहाणां च नक्षत्रानां शरव्यकः ।  

प्। १०५३) राशीनामपि साकल्यो लग्नानामपि चुञ्चुटः ॥ ११-९४८ ॥

शिशुमारः समुद्रस्य नदीनां च तिमिङ्गिलः ।  
आवर्त्तानां च मकरो विचीनां शङ्कलोऽपि च ॥ ११-९४९ ॥  

उष्ट्रः पातालदेवस्य शङ्कुर्वै ताण्डवस्य च ।  
पर्जन्यानां च मण्डूको वृष्टेरपि महीलताः ॥ ११-९५० ॥  

विद्युतामपि सम्बूको भारद्वाजोऽशनेऽरपि ।  
सिनीवालीकुहूराकानुमतीनाम् क्रमेण हि ॥ ११-९५१ ॥  

शरादिकङ्कहारीतजीवञ्जीवाः प्रकीर्त्तिताः ।  
बलिः कलञ्जः प्रेतानां पिशाचानां वकोऽपि च ॥ ११-९५२ ॥  

भूतानां कुररश्चापि कुक्कुटो ब्रह्मरक्षसाम् ।  
गन्धर्वाणां कोकिलोऽपि घोणकानां च वायसः ॥ ११-९५३ ॥  

वर्त्तकः क्षेत्रपालानां वटुकानां च कुक्कुटः ।  
यावत्यो जातिहारिण्यस्तासां भारुण्ड उच्यते ॥ ११-९५४ ॥  

छुच्छुन्दरीर्ह्यश्मनः स्याज्जलस्य शरभो बलिः ।  
चिल्लो बलिर्डाकिनीनां किन्नराणां च तक्षकः ॥ ११-९५५ ॥  

भूलिङ्गो योगिनीनां स्यान्निधीनां टिट्टिभो बलिः ।  
इन्द्रियाणामथो वच्मि चक्षुषोर्मशको बलिः ॥ ११-९५६ ॥  

श्रोत्रयोर्भ्रमरश्चापि घ्राणस्य सरघास्तथा ।  
रसनाया बलिश्चिक्का मक्षिका च त्वचो बलिः ॥ ११-९५७ ॥  

पतङ्गो मनसश्चापि प्लुषिर्वाचो बलिर्मतः ।  
झिल्लीकीटो बलिः पाण्योः खद्योतः पदयोरपि ॥ ११-९५८ ॥  

पायोर्यूका समुद्दिष्टा उपस्थस्य सिनीपतिः ।  
वनस्पतीनां मधुको लतानां तैलपायिका ॥ ११-९५९ ॥  

प्। १०५४) मत्कुणा औषधीनां स्युस्तरुणां च पिपीलिका ।
गुल्मानां गन्धकीटोऽपि शैलानां वुद्गतास्तथा ॥ ११-९६० ॥

शवो बलिः पूतनाया राक्षसीनामहिर्बलिः ।  
जातमात्रशिशुः षष्ठ्याः शङ्खो बालग्रहस्य च ॥ ११-९६१ ॥  

चकोरो गरुडस्यापि मातॄणां तैलपायिका ।  
विद्याधराणां च कोलो यज्ञानां शुक एव च ॥ ११-९६२ ॥  

गृध्रोऽरुणस्य च बलिर्नरकस्य करेटुकः ।  
राज्ञो बलिर्मर्कटोऽपि कान्तारस्य प्लवः खगः ॥ ११-९६३ ॥  

सर्वेषामेव देवानां च विशेषतः ।  
बलित्वेन विनिर्दिष्टा महिषच्छागलादयः ॥ ११-९६४ ॥  

जलजाः स्थलजाश्चापि ग्रामजारण्यजास्तथा ।  
पशवः पक्षिणः कीटास्तिर्यग्योनय एव च ॥ ११-९६५ ॥  

इमे विधात्रा विहिता बलित्वेन दिवौकसाम् ।  
नान्यैर्नैवेद्यसम्भारैस्तथा तुष्यन्ति देवताः ॥ ११-९६६ ॥  

यथा पशूनां बलिभिर्विहङ्गानां तथैव च ।  
अत एव हि देवेशि मीमांसावेदयोरपि ॥ ११-९६७ ॥  

देवानां प्रियशब्दस्तु पशुपर्याय उच्यते ।  
एवं विज्ञाय सिद्धान्तं देव्याः सन्तोषहेतवे ॥ ११-९६८ ॥  

पशून् दद्याद्बलित्वेन मेध्यानपि विहङ्गमान् ।  
क्रिमिकीटादयः सर्वे ये तिर्यञ्चः प्रकीर्त्तिताः ॥ ११-९६९ ॥  

न ते देवीबलित्वेन विधात्रा विहिताः प्रिये ।  
आलभेत वृषं श्वेतं यज्ञे गोमेधनामनि ॥ ११-९७० ॥  

नरमेधे नरं चापि गजक्रान्ते गजं तथा ।  

प् १०५५) अश्वमेधे तथैवाश्वं शङ्खचुडे च हस्तिनम् ॥ ११-९७१ ॥

ब्रवीति यत्र वेदोऽपि तत्र कैव विचारणा ।  
तस्मान्नैमित्तिकार्चायां बलिरावश्यकः प्रिये ॥ ११-९७२ ॥  

विशेषेण प्रदात्तव्यो देवीसन्तोषहेतवे ।  
बलिं विना नैव देवी पूजामङ्गीकरोति हि ॥ ११-९७३ ॥  

तत्राप्युभौ प्रशस्येते महिषश्छाग एव च ।  
अन्यदेवोचितबलिर्विचारैः किं प्रयोजनम् ॥ ११-९७४ ॥  

येन सन्तुष्यते काली तं विचारं ब्रुवेऽधुना ।  
याः काश्चिद्गुह्यकाल्यास्तु विहिताः पशुजातयः ॥ ११-९७५ ॥  

आरण्या अथ वा ग्राम्या जलजानां च जातयः ।  
खगानां जातयश्चापि ता एवादौ ब्रवीमि ते ॥ ११-९७६ ॥  

मत्स्या मृगा बराहाश्च कच्छपा महिषास्तथा ।  
गण्डका गोधिका ग्राहाः शार्दुला हरयोऽपि च ॥ ११-९७७ ॥  

नकुलाः शरभश्चापि गवयाश्छागलास्तथा ।  
मनुष्याः पक्षिणश्चापि तेषां कोशा अपि प्रिये ॥ ११-९७८ ॥  

भगवत्या बलित्वेन विधात्रा बलिकल्पिताः ।  
एतेषां बलिदानेन सर्वकार्याणि साधयेत् ॥ ११-९७९ ॥  

बलिदानफलान्याह ।

बलिभिर्वर्धते ह्यायुर्बलिभिः शाम्यते रुजा ।  
जयत्यरातीन् बलिभिः प्राप्यते बलिभिर्धनम् ॥ ११-९८० ॥  

सिद्धिमाप्नोति बलिभिर्बलिभिस्त्रिदिवं व्रजेत् ।  
निष्कामाणां बलौ दत्ते प्राप्यो मोक्षोऽपि यज्ञवत् ॥ ११-९८१ ॥  

मत्स्यादीनां जातिभेदानाह ।

जातिभेदानथो वक्ष्ये समासादवधारय ।  

प्। १०५६) अष्टादशभिधा मत्स्याश्चतुर्विंशतिधा मृगाः ॥ ११-९८२ ॥

वराहाः पञ्चधा प्रोक्तास्त्रिभेदाः कच्छपा अपि ।  
द्विभेदा महिषास्तद्वद्गण्डकाश्च चतुर्विधाः ॥ ११-९८३ ॥  

गोधिका च त्रिभेदा स्याद्द्विभेदो ग्राह एव च ।  
त्रिविधौ व्याघ्रसिंहौ च नकुलो द्विविधोऽपि च ॥ ११-९८४ ॥  

शरभश्चैकजातिः स्यान्नास्य भेदो वरानने ।  
गवयस्त्रिविधः प्रोक्तश्छागः पञ्चविधो मतः ॥ ११-९८५ ॥  

चतुर्विधा मनुष्याश्च षट्त्रिंशज्जातयः खगाः ।  
क्रमेण नामान्येतेषां व्याहरामि तव प्रिये ॥ ११-९८६ ॥  

शङ्कुलो रोहितः शालः पाठिनो राघवोऽपि च ।  
प्रोष्ठी नालशिशुद्ध्यङ्गमेरेटाङ्गुलिचाम्बटाः ॥ ११-९८७ ॥  

तिमिमाकूटराजीवगडकाः शस्तजातयः ।  
गोकर्णकृष्णसारैणरुरुर्न्यङ्कुचमूरवः ॥ ११-९८८ ॥  

प्रियवातप्रमीचीनसमूहसृमरक्रषाः ।  
रङ्कुशम्बरकन्दल्यः सुखरो रोहिषो वटः ॥ ११-९८९ ॥  

कदल्येन विसालाक्षपतङ्गोल्लाटरोहिताः ।  
वराहास्तब्धक्रोडकुशाक्षीणजलस्वनाः ॥ ११-९९० ॥  

कूर्मश्चित्री चित्रकटो वामनश्चेति वै त्रिधा ।  
अकेरः क्षीरिलश्चापि महिषो द्विविधो मतः ॥ ११-९९१ ॥  

कौञ्जरो वारिलश्चार्मी वैशः खड्गाश्चतुर्विधाः ।  

हिरण्या किलिका मीना गोधिका त्रिविधा मता ॥ ११-९९२ ॥

दीर्घग्रीवश्चर्मपूरो ग्राहो द्विविध एव च ।
तरक्षुस्तरुगश्चित्रो व्याघ्रस्त्रिविध उच्यते ॥ ११-९९३ ॥

प्। १०५७) शरलः कृकयुर्मेदी सिंहोऽपि त्रिविधो मतः ।
स्थूलः कलिङ्गश्च तथा नकुलोऽपि द्विधेरितः ॥ ११-९९४ ॥

एकजातिं विना नैव शरभोऽन्यः प्रजायते ।  
लाटिको विट्चरः सास्नि गवयोऽपि त्रिधोच्यते ॥ ११-९९५ ॥  

त्रिपिवः पालितः क्षौरी वर्करो मारिषस्तथा ।  
पञ्चभेदो भवेच्छागोऽविरपि त्रिविधो मतः ॥ ११-९९६ ॥  

उर्मिकः पारिशो भेटो मनुष्यानपि मे शृणु ।  
न मनुष्यत्वसामान्ये चातुर्विध्यं हि वर्त्तते ॥ ११-९९७ ॥  

प्रकारभेदतस्तस्या भिन्नता परिकल्पते ।  
चण्डिकानुगृहीतस्य वितृष्णस्य भवाम्बुधौ ॥ ११-९९८ ॥  

तत्तल्लोकावाप्तिफलश्रवणोत्कण्ठितस्य च ।  
स्वतः प्रवृत्तिर्देव्यास्तु बलिरूपो भवाम्यहम् ॥ ११-९९९ ॥  

आगत्य च स्वयं ब्रूते मां बलित्वेन योजय ।  
प्रत्यक्षमेव सर्वेषां नृपस्य च विशेषतः ॥ ११-१००० ॥  

स एक उदितो देवि द्वितीयमवधारय ।  
बहुवित्तस्य रत्नादेस्तेनो लोकधृतश्च यः ॥ ११-१००१ ॥  

निर्णीय परिषन्मध्ये प्राग्विपाकेन कीर्त्तितः ।  
शीर्षच्छेद्यतया देवि द्वितीयः स निगद्यते ॥ ११-१००२ ॥  

युद्धे जितो धृतः शत्रुः कूटयोधी भटाकृतिः ।  
स तृतीयो विनिर्दिष्टश्चतुर्थमवधारय ॥ ११-१००३ ॥  

य आततायी पान्थानां कान्तारेऽप्यथ वा गृहे ।  
विदितश्चापि निर्णीतः साक्षिभिः सत्यवादिभिः ॥ ११-१००४ ॥  

स हि तुर्यः समाख्यातः पञ्चमो नोपपद्यते ।  

प्। १०५८) वक्ष्ये विहङ्गान् ये देव्यै बलित्वेन निरूपिताः ॥ ११-१००५ ॥

पारावतास्ताम्रचूडा हंसा वार्ध्रीणसास्तथा ।  
उलूका लोहपृष्ठाश्च सर्वाघाटाश्च सारसाः ॥ ११-१००६ ॥  

कलविङ्काश्चकोराश्च चक्रवाकाः शुका अपि ।  
शतपत्रा भरद्वाजा भूलिङ्गाश्चटकास्तथा ॥ ११-१००७ ॥  

कारण्डवाश्चक्रवाकाः पारुश्नाश्च कुलीयकाः ।  
प्ल्वाः कुटरवश्चापि वर्त्तकाः कुक्कुभा अपि ॥ ११-१००८ ॥  

तित्तिर्युरुकक्रौञ्चाश्च नवचाषशिखण्डिनः ।  
योक्त्रदात्यूहसाकल्यपैङ्गराजन्यवायकाः ॥ ११-१००९ ॥  

जिहीका सुखिलीकाश्च मुद्गुहारीतवर्त्तकाः ।  
जिहीञ्जीवाश्च हारीताः कोयष्ट्यश्मटटिट्टिभाः ॥ ११-१०१० ॥  

वककोकिलगृध्राश्च करेटुश्चोनखञ्जनाः ।  
चिरीकाश्चैव जहिकाः सीचापुञ्जन्तमेकलाः ॥ ११-१०११ ॥  

कशाः सुपर्णा भारुण्डा हामायाश्चापि पार्वति ।  
इति ते कथिताः सर्वे षष्टिभेदा विहायसाम् ॥ ११-१०१२ ॥  

देव्यै योग्यबलित्वेन नान्य उक्ता विहङ्गमाः ।  
एतेषां जातिभेदास्तु वर्त्तन्ते डामरादिषु ॥ ११-१०१३ ॥  

बहुत्वात् ते न कथ्यन्ते ग्रन्थगौरवभीतितः ।  
कपोतभ्रामका बङ्कमनित्थतुरुकादयः ॥ ११-१०१४ ॥  

पारावतास्तु दशधा हंसाः पञ्चविधास्तथा ।  
राजहंसा मल्लिकाख्या धार्त्तराष्ट्रा परिस्फुटाः ॥ ११-१०१५ ॥  

माहेया एवमन्येऽपि ज्ञेया विगहजातयः ।  

तथा ।

अधुना सम्प्रवक्ष्यामि बलिना येन येन हि ॥ ११-१०१६ ॥  

प्। १०५९) यं यं कालमभिव्याप्य तुष्टा भवति कालिका ।
अष्टादशविधैर्मत्स्यैः कच्छपैरपि चण्डिका ॥ ११-१०१७ ॥

तृप्यते मासमात्रं हि बलित्वेन नियोजितैः ।  
ताम्रचूडस्य बलिना हंससारसयोरपि ॥ ११-१०१८ ॥  

तृप्ता भवति मासौ द्वौ त्रीन् मासान् द्विपिनक्रयोः ।  
कलविङ्कैरुलूकैः स्यात् तृप्ता मासचतुष्टयम् ॥ ११-१०१९ ॥  

पञ्च मासान् भवेत् तृप्ता शुकैः पारावतैरपि ।  
दार्वाघाटैश्चकोरैश्च षण्मासा।स्तृप्तिमाप्नुयात् ॥ ११-१०२० ॥  

तृप्यते सप्त मासान् सा जिहीकैश्च कुलीयकैः ।  
चतुर्विंशतिभेदैश्च कुरङ्गैर्गवयैरपि ॥ ११-१०२१ ॥  

मासानष्टौ भवेत् तृप्ता नव मासान् पिकैरपि ।  
हारीतबलिना देवी दश मासा।श्च तृप्यते ॥ ११-१०२२ ॥  

तथा दात्यूहदानेन गजराजैर्वरानने ।  
मासानेकादश शिवा तृप्तिमायाति सिद्धिदा ॥ ११-१०२३ ॥  

गोधिकाबलिदानेन तृप्ताऽब्दं व्याप्य जायते ।  
अविना नकुलेनापि त्र्यब्दं तृप्ता भवेदपि ॥ ११-१०२४ ॥  

आजेन बलिना वाऽपि तुष्टा स्यात् पञ्चवत्सरम् ।  
जीवञ्जीवेन पाङ्क्तेन तुष्यतेऽष्टौ च हायनान् ॥ ११-१०२५ ॥  

पार्षतैणैन बलिना वराहबलिनाऽपि च ।  
द्वादशाब्दमभिव्याप्य तुष्टा भवति कालिका ॥ ११-१०२६ ॥  

हामायनामा यः पक्षी सिंहाकृतिधरोऽरुणः ।  
तद्दानात् तुष्यते देवी पञ्चविंशतिवत्सरम् ॥ ११-१०२७ ॥  

प्। १०६०) त्रिविधैरपि शार्दूलैर्महिषैर्द्विविधैरपि ।
चतुर्विधैस्तथा खड्गैर्बलित्वेन समर्पितैः ॥ ११-१०२८ ॥

शतं संवत्सरं यावच्चण्डिका प्रीतिमश्नुते ।  
एको वार्ध्रीणसोऽजश्च विशेषः परिकीर्त्त्यते ॥ ११-१०२९ ॥  

अपरः पक्षिजातीयो हिमवच्चरणस्थितः ।  
वृद्धः श्मश्रुधरः श्वेतः पादस्फोटीन्द्रियोज्झितः ॥ ११-१०३० ॥  

त्रिविधो रक्तरसनो निःशृङ्गः स्वरभङ्ग्यजः ।  
पीतचञ्चू रक्तशिराः सितपक्षोऽसिताङ्घ्रिकः ॥ ११-१०३१ ॥  

नीलग्रीवः पाटलाभगलो वार्ध्रीणसः खगः ।  

(कालिकापुराणेऽपि)

त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजं परम् ॥ ११-१०३२ ॥  

वार्ध्रीणसं विजानीयाद्धव्यकव्येषु संस्कृतम् ।  
नीलग्रीवो रक्तशिराः कृष्णपादः सितच्छदः ॥ ११-१०३३ ॥  

वार्ध्रीणसः स पक्षी स्यान्मम विष्णोरपि प्रियः ।  

(महाकालसंहितायाम्)

अजवार्ध्रीणसैस्तुष्टा भवेत् त्रिंशतिवत्सरम् ॥ ११-१०३४ ॥  

निरङ्कसामान्यशशैर्बलित्वेन निरूपितैः ।  
जायते गुह्यकाली सा तुष्टा पञ्चशतं समाः ॥ ११-१०३५ ॥  

शरभैरथ सिंहैश्च शोणितैश्च स्वदेहजैः ।  
दत्ते सन्तुष्यते काली सहस्रं परिवत्सरान् ॥ ११-१०३६ ॥  

वार्ध्रीणसविहङ्गेन दत्तेन विधिना प्रिये ।  
अब्दं द्वादशसाहस्रं तुष्यते जगदम्बिका ॥ ११-१०३७ ॥  

चौराततायिरूपेण नारेण बलिना तथा ।  
त्रीणि लक्षाणि वर्षाणां प्रीतये गुह्यकालिका ॥ ११-१०३८ ॥  

प्। १०६१) एते ते कथिता देवि बलयस्तृप्तिहेतवः ।

अथ निषिद्धबलयस्तत्रैव ।

अदेयानधुना वक्ष्ये पशूनपि विहङ्गमान् ॥ ११-१०३९ ॥  

भल्लूकान् मर्कटान् फेरून् सर्पानोतून् शुनस्तथा ।  
क्रमेलका।श्च बालेयान् शल्यान् विट्चरशूकरान् ॥ ११-१०४० ॥  

जलजेष्वपि मण्डूकान् रासभान् शिशुमारकान् ।  
कुलीरान् दीर्घपृष्ठादीन् मीनानपि च भूरिशः ॥ ११-१०४१ ॥  

खगेषु वायसा।श्चिल्लान् दुर्विदान् कुलिकानपि ।  
एवमन्येऽपि विज्ञेया नानाशास्त्रागमादिषु ॥ ११-१०४२ ॥  

तथा ।

का।श्चिन्निषिद्धान् वक्ष्यामि विहितेषु बलिष्वपि ।  
ग्राम्याणामथ वन्यानां पशूनां पक्षिणां तथा ॥ ११-१०४३ ॥  

स्त्रियं नैव प्रयुञ्जित बलिकर्मणि साधकः ।  
ज्ञानपूर्वं बलिं दत्वा नरकं प्रतिपद्यते ॥ ११-१०४४ ॥  

अज्ञानेन वितीर्यापि किञ्चित् पापं समश्नुते ।  
अत्रिमाससमुत्पन्नं पशुं न विनिवेदयेत् ॥ ११-१०४५ ॥  

न्यूनं तदर्धान्न खगं जातु देव्यै समर्पयेत् ।  
भग्नशृङ्गं भग्नदन्तं छिन्नलाङ्गूलमेव च ॥ ११-१०४६ ॥  

काणं व्यङ्गं रोगिणं च शृङ्गाहतनरं तथा ।  
दुष्टं गलितरोमाणं क्षीरपं च गलद्विशम् ॥ ११-१०४७ ॥  

पशुं न दद्यादीदृक्षं तथा चैव विहायसम् ।  
छिन्नत्रोटिं छिन्नपक्षं रुग्णमाहारवर्जितम् ॥ ११-१०४८ ॥  

अनुड्डीनं तथाऽकाशे मातुरङ्के परिस्थितम् ।  
विहितावपि विज्ञातौ न दद्यात् पशुपक्षिणौ ॥ ११-१०४९ ॥  

प्। १०६२) तन्त्रान्तरे ।

कृष्णवर्णो बलिर्यस्तु श्वेतपुच्छो यदा भवेत् ।  
छागलं तादृशं विद्वान् दूरतः परिवर्जयेत् ॥ ११-१०५० ॥  

एवं सितं कृष्णपुच्छं वर्जयेत् मतिमान् सदा ।  

(महाकालसंहितायाम्)

यस्य यस्य निषिद्धो यः स इदानीं निरूप्यते ॥ ११-१०५१ ॥  

नरं केशरिणं व्याघ्रं चाषं खञ्जनमेव च ।  
स्वकीयरुधिरं मद्यं न दद्याद्ब्राह्मणः क्वचित् ॥ ११-१०५२ ॥  

तौ द्वौ खगौ तथा सिंहं द्वीपिनं मानुषं तथा ।  
दत्वा रोगी च हीनायुर्भूत्वा नरकमश्नुते ॥ ११-१०५३ ॥  

आत्महत्यामवाप्नोति दत्वा स्वरुधिरं द्विजः ।  
दत्वा देव्यै द्विजो मद्यं ब्राह्मणाद्विच्युतो भवेत् ॥ ११-१०५४ ॥  

चाप्डालत्वमवाप्नोति सर्वकर्मविवर्जितः ।  
न कृष्णसारं वितरेद्वर्हिणं च नराधिपः ॥ ११-१०५५ ॥  

कृष्णसारं ददद्देव्यै द्वितीयो वर्ण ईश्वरि ।  
ब्रह्मघ्नत्वमवाप्नोति सर्वकर्मविवर्जितः ॥ ११-१०५६ ॥  

न वैश्याः शूकरं दद्युर्न वर्त्तककुलीयकौ ।  
ददतां तत्क्षणादेव महापातकता भवेत् ॥ ११-१०५७ ॥  

वर्णोऽपरो नो वितरेद्गोधिकाशुकखड्गिनः ।  
मूषं मार्जारकं चाषं शूद्रो दत्वा पतत्यधः ॥ ११-१०५८ ॥  

मोहाद्धठाद्वा ददतां सद्यो ब्रह्मघ्नता भवेत् ।  
वानप्रस्थो ब्रह्मचारी गृहस्थो वा दयापरः ॥ ११-१०५९ ॥  

सात्त्विको ब्रह्मनिष्ठश्च यश्च हिंसाविवर्जितः ।  
तेन न दद्युः पशुबलिमनुकल्पं चरन्त्यपि ॥ ११-१०६० ॥  

प्। १०६३) अनुकल्पेऽपि मुख्येऽधिकारिण एवाधिकार इति प्रागुक्तम् ।
अनुकल्पविधिस्तु तत्रैवोक्तो यथा ।

सात्त्विको जीवहत्यां हि कदाचिदपि नो चरेत् ।
इक्षुदण्डं च कूष्माण्डं तथा वन्यफलादिकम् ॥ ११-१०६१ ॥

क्षीरपिण्डैः शालिचूर्णैः पशुं कृत्वा चरेद्वलिम् ।
तत्तत्फलविशेषेण तत्तत्पशुमुपानयेत् ॥ ११-१०६२ ॥

तथा ।

महिषत्वेन कुष्माण्डं छागत्वेनैव कर्कटीम् ।  
वृन्ताकं कुक्कुटत्वेन मेषत्वेन च तुम्बिकाम् ॥ ११-१०६३ ॥  

रम्भापुष्पं बीजपूरं पिण्डं जीवं कलौ भवेत् ।  
मानुषत्वेन पनसं मत्स्यत्वेनेक्षुदण्डकम् ॥ ११-१०६४ ॥  

शूरणं शम्बरत्वेन तथा कोशातकं मृगे ।  
पायसं तु गजत्वेन मार्जारत्वे कुलित्थकम् ॥ ११-१०६५ ॥  

पटोलं शूकरत्वेन शर्करावालुकं तथा ।  
खड्गत्वेन महेशानि मत्स्यत्वे कदलीफलम् ॥ ११-१०६६ ॥  

मूषत्वे मूलकं चैव सारङ्गत्वे कलिञ्जकम् ।  
करित्वे नारिकेलं च कल्पयेत् परमेश्वरि ॥ ११-१०६७ ॥  

माषाः सर्वबलित्वेन सर्वेषां कृशरान्नतः ।  

तथा ।
तत्तत्पशुप्रदातॄणां फलावाप्त्यै वरानने ।
घृतगोधूमैक्षवाद्यैः फाणितैरन्नजैस्तथा ॥ ११-१०६८ ॥

कृत्वा तं तं पशुं दद्युस्तत्तत्फलमवाप्नुयुः � इति ।  

अथ प्रशस्तपशुलक्षणं (रत्नावल्याम्)

ऊर्ध्वशृङ्गो लम्बकर्ण एकवर्णोऽतिपीवरः ।  
नीरोगः पुष्टकायश्च सदर्पश्च बलोर्जितः ॥ ११-१०६९ ॥  

प्। १०६४) नाधिकाङ्गो न हीनाङ्ग एकद्वित्र्यादिहायनः ।
प्रशस्तपशुरीदृक्षो देवीप्रीतिकरः शुभः ॥ ११-१०७० ॥

तन्त्रान्तरे ।

कृष्णवर्णश्छागलस्तु पृष्ठवंशे सितो यदि ।  
प्रशस्तं तं विजानीयाद्विपरीतं विवर्जयेत् ॥ ११-१०७१ ॥  

विपरीतमिति श्वेतवर्णम् । पृष्ठावच्छेदेन नीलमित्यर्थः ।
(त्रैपुरपद्धत्याम्)

बल्यन्ते छागलबलिं तथा मेषं सुरेश्वरि ।  
प्रदद्यात् सर्वकालेषु सर्वकामार्थसिद्धये ॥ ११-१०७२ ॥  

नित्ये नैमित्तिके काम्ये माहिषं बलिमाहरेत् ।  
जयाय सर्वकामाय देवीलोकाप्तसिद्धये ॥ ११-१०७३ ॥  

(महाकालसंहितायाम्)

पशूनां यत्र बाहुल्यं भवेद्वित्तानुसारतः ।  
तत्रैकं प्रथमं देवि सर्वलक्षणलक्षितम् ॥ ११-१०७४ ॥  

ऊर्जस्विनं सुन्दरं च बलिनं पशुमुत्सृजेत् ।  

तथा ।
पशूनामिह सर्वेषां प्रोक्षणं चैवमेव हि ॥ ११-१०७५ ॥

कश्चिद्विशेष उत्सर्गे फलं दैवाद्युदीरणे ।  

(त्रैपुरपद्धत्याम्)

सर्वलक्षणसंयुक्तं पशुं संस्नाप्य मन्त्रतः ॥ ११-१०७६ ॥  

देव्यग्रे स्थापयित्वाऽर्घोदकैः सम्प्रोक्षयेत् ततः ।  
अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च ॥ ११-१०७७ ॥  

मूलमन्त्रं समुच्चार्य धेनुमुद्रामृतीकृतम् ।  
गन्धपुष्पाक्षतैः सम्यक् परिपूज्योपचारकैः ॥ ११-१०७८ ॥  

कर्णे तस्य पठेन्मन्त्रं पशुपाशविमोचनम् ।  

प्। १०६५) ॐ पशुपाशाय विघ्नहे विप्रकर्णाय धीमहि तन्नो जीवः प्रचोदयात् ।

गायत्रीयं समाख्याता पशुपाशविमोचिनी ॥ ११-१०७९ ॥  

इमां पठेद्दक्षकर्णे तस्य मुक्तिप्रसिद्धये ।  

सम्प्रोक्षयेदिति प्रोक्षणं मूलमन्त्रेणैव ।

अर्घपात्रोदकैः शुद्धैर्मूलेन प्रोक्षयेत् त्रिशः ॥ ११-१०८० ॥  

इति महाकालोक्तेः ।
गात्र्यन्तरमुक्तं तत्रैव ।

योगिनीबीजतो ङेन्तं बलिरूपं तु विद्महे ।  
देवीप्रियं पूर्ववच्च धीमहीति ततः परम् ॥ ११-१०८९ ॥  

तन्नः पशुरिति प्रोच्य वदेच्चाथ प्रचोदयात् � इति ॥  

योगिनीबीजं छ्रीमिति (त्रैपुरपद्धत्याम्)

ततः खड्गं यजेन्मन्त्री मन्त्रेणानेन दक्षतः ।  
तारं च भुवनेशानीं कालीयुग्मं समालिखेत् ॥ ११-१०९० ॥  

वज्रेश्वरीपदं पश्चाल्लोहदंष्ट्रां ततः परम् ।  
ङेन्तां हृद्वसुयुग्मैकसङ्ख्यवर्णो मनुर्मतः ॥ ११-१०९१ ॥  

अनेन गन्धपुष्पाद्यैः ख्ड्गमभ्यर्चयेद्बुधः ।  
ततस्तस्य मुष्टिदेशे मध्ये चाग्रे यथाक्रमम् ॥ ११-१०९२ ॥  

गन्धपुष्पाक्षतैर्मन्त्री मिथुनत्रितयं जयेत् ।  
वागीशीसहितो ब्रह्मा लक्ष्मीनारायणौ तथा ॥ ११-१०९३ ॥  

उमामहेश्वरौ चेति सम्प्रोक्तं मिथुनत्रयम् ।  
ततश्चानेन मन्त्रेण तं खड्गमभिमन्त्रयेत् ॥ ११-१०९४ ॥  

खड्गायासुरनाशाय शक्तिकार्याय तत्पर ।  
पशुश्छेद्यस्त्वया शीघ्रं खड्गनाथ नमोऽस्तु ते ॥ ११-१०९५ ॥  

प्। १०६६) ततस्तु ताम्रपात्रस्थकुशाक्षतजलादिकम् ।
गृहीत्वा मूलमुच्चार्य सङ्कल्प्य पशुमुत्सृजेत् ॥ ११-१०९६ ॥

गृहीत्वाऽक्षततोयादि पशोः शिरसि सन्त्यजेत् ।  
ततस्तेनैव खड्गेन मूलमन्त्रेण साधकः ॥ ११-१०९७ ॥  

पशुच्छेदं प्रकुर्वीत स्वयं देवीमनुस्मरन् ।  

(मेरुतन्त्रसिद्धान्तसारयोः )

यदा सञ्चालयेद्गात्रं गृहीतस्तु यथेच्छया ॥ ११-१०९८ ॥  

यावन्न चालयेद्गात्रं पशुस्तावन्न हन्यते ।  
उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा ॥ ११-१०९९ ॥  

निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् ।  
पशुस्त्वं बलिरूपेण मम भाग्यादुपस्थितः ॥ ११-११०० ॥  

प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् ।  
चण्डिकाप्रीतिदानेन दातुरापद्विनाशनम् ॥ ११-११०१ ॥  

चामुण्डाबलिरूपाय बले तुभ्यं नमो नमः ।  
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा ॥ ११-११०२ ॥  

अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे वधोऽवधः ।  
इमं देहें परित्यज्य भूत्वा देववपुर्धरः ॥ ११-११०३ ॥  

मोदस्व प्रथमैः सार्धं यावदिन्द्राश्चतुर्दश ।  
ऐ। ह्री। श्रीमिति मन्त्रेण त्वं बलिं मत्स्वरूपिणम् ॥ ११-११०४ ॥  

चिन्तयित्वा न्यसेत् पुष्पं कुम्भकेनास्य मस्तके ।  

(महाकालसंहितायाम्)

ध्यायेत् कुसुममादाय खड्गमादौ वरानने ॥ ११-११०५ ॥  

कृष्णं पिनाकपाणिं च कालरात्रिस्वरूपिणम् ।  
उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् ॥ ११-११०६ ॥  

रक्ताम्बरधरं चैव पाशहस्तं कुटुम्बिनम् ।  

प्। १०६७) पिवमानं च रुधिरं भुञ्जानं क्रव्यसंहतिम् ॥ ११-११०७ ॥

क्षोभयन्तं जगत् सर्वं कम्पनादिप्रचारणैः ।  
वेष्टितं मृत्युकालाभ्यां वामदक्षिणभागतः ॥ ११-११०८ ॥  

तन्त्रान्तरे ।

ततः खड्गं यजेन्मन्त्री पाद्याद्यैरुपचारकैः ।  
गन्धपुष्पाक्षताद्यैश्च मन्त्रेणानेन मन्त्रवित् ॥ ११-११०९ ॥  

मन्त्रस्तु पूर्वोक्त एव ।
(महाकालसंहितायाम्)

ततो बद्धाञ्जलिर्मन्त्रं पठेत् खड्गं निरीक्ष्य वै ।  
रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः ॥ ११-१११० ॥  

भुङ्क्ष्वैतस्य पशो रक्तं क्रव्यसंहतिमेव च ।  
छिन्धीममिव मे शत्रुं मङ्गलानि प्रयच्छ मे ॥ ११-११११ ॥  

दैत्यदानवरक्षोऽसृङ्भेदोन्मत्त नमोऽस्तु ते ।  
एतेन खड्गमामन्त्र्य तन्नामाष्टकमुच्चरन् ॥ ११-१११२ ॥  

गृह्णीयान्निशितं खड्गं येन सद्यो भवेद्वधः ।  
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ॥ ११-१११३ ॥  

श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तु ते ।  

(मेरुतन्त्रे)

आ। हू। फडिति मन्त्रं जपन् सञ्छेदयेद्बलिम् ।  
एकेनैव प्रहारेण च्छिन्नो दैवततुष्टये ॥ ११-१११४ ॥  

(महाकालसंहितायामपि)

चन्द्रहासेन खड्गेन छिन्द्यादेकप्रहारतः ।  
उत्थाय हननं कुर्यान्नोपविश्य कदाचन ॥ ११-१११५ ॥  

प्। १०६८) (कालिकापुराणे)

चन्द्रहासेन कर्त्त्र्या वा छेदनं मुख्यमुच्यते ।  
दात्रासिधेनुक्रकचशङ्कुलाभिस्तु मध्यमम् ॥ ११-१११६ ॥  

असिधेनुः स्वल्पखड्गः शङ्कुला चक्रकर्त्तरी ।  
क्षुरक्षुरप्रभल्लैश्च मध्यमं परिकीर्त्तितम् ॥ ११-१११७ ॥  

एभ्योऽन्यैः शक्तिबाणाद्यैर्बलिश्छेद्यः कदाऽपि न ।  
नात्ति देवी बलिं तं तु दाता मृत्युमवाप्नुयात् ॥ ११-१११८ ॥  

हस्तेन छेदयेद्यस्तु प्रोक्षणं साधकः पशुम् ।  
पक्षिणं वा ब्रह्महत्यां स प्राप्नोति दुरुत्सहाम् ॥ ११-१११९ ॥  

नामन्त्र्य खड्गं तु बलिं नियुञ्जीत विचक्षणः ।  

तत्रान्तरे ।

सर्वेषामुत्तमः खड्गश्चन्द्रहासः सुखावहः ॥ ११-११२० ॥  

पञ्चाशदङ्गुलः कार्यः किं वा तालत्रयेण तु ।  
करवीरदलाकारः किं वा पद्मदलाकृतिः ॥ ११-११२१ ॥  

अथवा कुब्जखड्गेन दण्डखड्गेन भेदयेत् ।  

(महाकालसंहितायाम्)

सहस्रायुतलक्षाणां बलीनां सम्भवे सति ॥ ११-११२२ ॥  

द्वौ त्रीन् पञ्च तथाष्टौ वा दश वा द्वादशापि वा ।  
एभ्योऽधिकान् नैव कुर्याद्देवी भावतया स्थितान् ॥ ११-११२३ ॥  

प्राच्याशाभिमुखान् कृत्वा युगपन्मन्त्रमीरयेत् ।  
तन्त्रेणैव बलीन् सर्वान् प्रोक्षयेद्देशिकोत्तमः ॥ ११-११२४ ॥  

छेदका अपि भूयांसः कर्त्तव्याः कमलानने ।  
हरिद्वीप्यजकोरभ्रलुलायाकाशगामिनः ॥ ११-११२५ ॥  

प्। १०६९) दद्यादेतान् वामभागे पानकानि च यानि च ।

उरभ्रो मेषः ।
तथा ।

मत्स्यान् ग्राहान् शशान् खड्गान् कमठान् कोलगोधिकाः ॥ ११-११२६ ॥  

यावतो मृगभेदा।श्च दद्यात् सम्मुख एव हि ।  

(श्रीक्रमसंहितायाम्)

यत्नतस्तं बलिं दद्यान्न हन्यादात्मना पुनः ॥ ११-११२७ ॥  

यदि हन्यात् प्रमादेन रौरवं नरकं व्रजेत् ॥  

महाकालोऽपि ।

स्वहस्तेन पशुं हत्वा पशुयोनिमवाप्नुयात् ॥ ११-११२८ ॥  

तन्त्रान्तरे ।

स्वयं वा भ्रातृपुत्रो वा भ्राता वा सुहृदेव वा ।  
सपिण्डश्छेदयेद्वाऽपि शुद्धान्तःकरणो यदि … ११-११२९ ॥  

न रिपुं नाङ्गहीनं वा न काणं नापि कुब्जकम् ।  

न योजयेच्छत्रुपक्षं बलिच्छेदनकर्मणि � इत्युक्तम् ॥  

महिषबलिदाने विशेष उक्तो (महाकालसंहितायाम्)

विशेषः कश्चिदधिको महिषे तं ब्रुवेऽधुना ॥ ११-११३० ॥  

तदङ्गे देवताः सर्वाः पूजयेत् कुसुमाक्षतैः ।  
प्रणवादिनमोऽन्तैश्च मध्ये ङेन्तैः पदैस्तथा ॥ ११-११३१ ॥  

स्थानानि देवताश्चापि क्रमेण कथयामि ते ।  
ब्रह्मरन्ध्रे च नासायां कर्णयो रसने तथा ॥ ११-११३२ ॥  

नेत्रयोर्वदने चैव ललाटे तदनन्तरम् ।  
दक्षगण्डे वामगण्डे ग्रीवायां केश एव च ॥ ११-११३३ ॥  

दक्षभ्रुवि तथा वामभ्रुवि चैवं वरानने ।  
ओष्ठेऽधरे च स्कन्धे च हृदये पृष्ठ एव च ॥ ११-११३४ ॥  

प्। १०७०) जठरे चरणे पुच्छे सर्वस्मिन् देह एव च ।
ब्रह्मा मेदिन्यथाकाशः सर्वतो मुख एव च ॥ ११-११३५ ॥

ज्योतींषि विष्णुश्चन्द्रश्च शक्रो वह्निर्महेश्वरः ।  
निर्-ऋतिर्मित्रवरुणौ तथा लक्ष्मीः सरस्वती ॥ ११-११३६ ॥  

धनेश्वरः सर्पराज आदित्यः साध्य एव च ।  
गन्धर्वेन्द्रस्तथा सिद्धा चामुण्डा सर्वशेषगा ॥ ११-११३७ ॥  

अनेनैव प्रकारेण नरस्यापि प्रपूजयेत् ।  
क्रमसिद्धं पूर्वगतमदोऽधिकमिहार्हणम् ॥ ११-११३८ ॥  

अथोभयोः शेषगतान् मन्त्रानाकलय प्रिये ।  
यमस्य वाहनत्वेन ख्यातस्त्वमपि कासरः ॥ ११-११३९ ॥  

वसतः शृङ्गयोरग्रे मृत्युकालौ सदा तव ।  
भवानेव परिद्वेष्टि जवना।स्तुरगानपि ॥ ११-११४० ॥  

तव रूपं समास्थाय रम्भासुरसुतः पुरा ।  
भगवत्या समं युद्धं कृतवान् दर्पमोहितः ॥ ११-११४१ ॥  

देव्या त्वं निहतश्चासि तथा क्रान्तं शिरस्तव ।  
वहस्यतश्चण्डिकां त्वं शिरसा भृङ्गुरेण वा ॥ ११-११४२ ॥  

त्वत्तो नान्यो बलिः कश्चिद्देव्याः प्रीतिप्रदायकः ।  
अतो ददामि काल्यै त्वां भक्तियुक्तेन चेतसा ॥ ११-११४३ ॥  

मयि कल्याणमाधाय गच्छ कासर सद्गतिम् ।  

नरबलौ विशेषमाह ।

मनुष्यबलिदाने तु विशेषः कश्चिदीरितः ॥ ११-११४४ ॥  

पूर्वेद्युरकृताहारं सम्परित्यक्तमैथुनम् ।  
स्नातं रक्ताम्बरधरं नरं मुण्डितमस्तकम् ॥ ११-११४५ ॥  

प्। १०७१) रक्तचन्दनदिग्धाङ्गं कृत्तश्मश्रुनखं तथा ।
अजाताश्रुकमुद्रिक्तं न दीनं नाप्यधोमुखम् ॥ ११-११४५ ॥

न बाडवं न चाण्डालं न क्लीबं पतितं न च ।  
चतुर्विधेभ्योऽपि शिवे स्वयमागतमुत्तमम् ॥ ११-११४६ ॥  

प्रोक्षयेत् पशुसामान्यरूपेण प्रथमं ततः ।  
महिषोक्तप्रकारेण पश्चादेतान् मनून् जपेत् ॥ ११-११४७ ॥  

सर्वेषु प्राणिषु श्रेष्ठस्त्वं मनुष्य इति स्थितः ।  
बलिश्रेष्ठ महाभाग देवगर्भश्रिया वृतः ॥ ११-११४८ ॥  

रक्ष मां सर्वभीतिभ्यः सिद्धिं देहि तथोत्तमाम् ।  
राज्यं देहि यशो देहि देहि चानुत्तमां गतिम् ॥ ११-११४९ ॥  

आरोग्यं दीर्घमायुश्च प्रजावृद्धिं रणे जयम् ।  
कल्याणं विपुलान् भोगान् दारानपि हृदीप्सितान् ॥ ११-११५० ॥  

कात्यायन्यां दृढां भक्तिं लक्ष्मीमप्यधिकां स्थिराम् ।  
दत्वा राज्यं परित्यज्य शरीरं पाञ्चभौतिकम् ॥ ११-११५१ ॥  

देवीलोकं व्रज क्षिप्रं सज्ञातिसुतबान्धवम् ।  
महादानैर्महायज्ञैस्तपोभिरतिदुष्करम् ॥ ११-११५२ ॥  

यत् स्थानं नाप्यते लोकैस्तत् त्वं गच्छ नरर्षभ ।  
अङ्गीकृतो महाकाल्या मांसशोणितलिप्सया ॥ ११-११५३ ॥  

देवीलोकं सुदुष्प्राप्यं प्राप्नुहि त्वं द्रुतं गतः ।  
तत्र गत्वा शिवं ध्याहि मामकीनं जगत्पते ॥ ११-११५४ ॥  

देवीलोकगतिः काम्या मत्प्रसादात् तवेदृशः ।  
त्वत्प्रसादादहं शत्रून् जयेयं रणमूर्धनि ॥ ११-११५५ ॥  

श्लोकानष्टाविमान् देवि पठेन्नरबलिक्षणे ।  

प्। १०७२) गण्डकेऽपि विशेष उक्तस्तत्रैव ।

खड्गमन्त्रं समाख्यास्ये गण्डको येन दीयते ॥ ११-११५६ ॥  

द्विपदेहाकृते खड्ग शस्त्राभेद्यकलेवर ।  
तृप्ता भवेयुः पितरस्त्वन्मांसेन सुरा अपि ॥ ११-११५७ ॥  

न च त्वत्तोऽधिकः कश्चित् पवित्रः पृथिवीतले ।  
त्वत्करोटिजपात्राणि शस्तानि श्राद्धकर्मणि ॥ ११-११५८ ॥  

मया देव्या बलित्वेन त्वमद्य विनिवेदितः ।  

मम विघ्नान् समुत्सार्य सद्यो देवीगणे भव � इति ।  

(यामले)

एवं हत्वा पशून् सद्यस्तदीयरुधिरं तथा ॥ ११-११५९ ॥  

स्वर्णादिरचिते पात्रे गृह्णीयादुष्णफेनिलम् ।  

(कालिकापुराणे)

ॐ ह्री। ऐ। ह्री। श्री। कौशिकी रुधिरेणाप्यायताम् � इति ।  

पात्रे नियोजयेद्रक्तं शिरस्येव प्रदीपकम् ॥ ११-११६० ॥  

(महाकालसंहितायाम्)

अथ पात्राणि वक्ष्येऽहं स्थाप्यते यत्र शोणितम् ।  
हैमे वा राजते ताम्रे ग्राह्यं रक्तं महीभृता ॥ ११-११६१ ॥  

सामन्तैर्माण्डिलकैश्च ताम्रे वा कांस्यरैत्ययोः ।  
दरिद्रगृहिभिश्चापि मार्त्तिके वाऽथ दारवे ॥ ११-११६२ ॥  

अथवा पत्रपुटके नैव लोहे कदाचन ।  
न रङ्गे सीसके चापि नारिकेलफलत्वचि ॥ ११-११६३ ॥  

कौलानां सर्वपात्रेभ्यः कपालं श्रेष्ठमिष्यते ।  
एषां पशूनां पललैर्यावती तृप्तिरीरिता ॥ ११-११६३ ॥  

भगवत्याः प्रिये तृप्ती रुधिरैरपि तावती ।  
नित्ये नैमित्तिके वाऽपि कात्यायन्याः प्रपूजने ॥ ११-११६४ ॥  

प्। १०७३) विना बलिं नैव दद्यादामे पललशोणिते ।
पशोर्वा पक्षिणो वाऽपि नरस्यापि विशेषतः ॥ ११-११६५ ॥

अथ मस्तकपतनफलं तत्रैव ।

एवं दत्वा बलिं देव्यै बलिदानविधिर्यथा ।  
शुभाशुभं विजानीयाद्राज्यस्य च नृपस्य च ॥ ११-११६६ ॥  

यदि वायव्यदिग्भागे नैर्-ऋत्ये दक्षिणेऽपि वा ।  
मस्तके पतिते चैव हानिरत्र विनिर्दिशेत् ॥ ११-११६७ ॥  

शेषेषु दिक्षु सर्वासु विदिक्षु च फलं शृणु ।  
पूर्वे चोत्तरदिग्भागे पतते यदि मस्तकम् ॥ ११-११६८ ॥  

सर्वसम्पत्करं विद्याद्राजा राज्यं विनिर्दिशेत् ।  
भ्रमित्वा दक्षिणे कर्णे यदा पतति वै शिरः ॥ ११-११६९ ॥  

तदा सिद्धिश्च मासान्ते वामकर्णे विपद्भवेत् ।  
राजामग्रे भवेद्धानिर्गृहस्थानां भवेच्छुभम् ॥ ११-११७० ॥  

ऐशान्यां मध्ययोश्चैव पतते यदि मस्तकम् ।  
छिन्नं शिरो निपतितं सहास्यं यदि दृश्यते ॥ ११-११७१ ॥  

विभूतिं तस्य जानीयाद्राजा राज्यं विनिर्दिशेत् ।  
तदा स्वल्पेन कालेन सर्वसिद्धिर्भवेद्ध्रुवम् ॥ ११-११७२ ॥  

एकवारे भवेत् सिद्धिर्द्विवारे हानिरुच्यते ।  
गृहस्थानां विजानीयाद्राज्ञां तु विपरीतकम् ॥ ११-११७३ ॥  

यदाऽश्रु दृश्यते नेत्रे तदा हानिं विनिर्दिशेत् ।  
यदा कटकटाशब्दो दन्तानां श्रूयते क्वचित् ॥ ११-११७४ ॥  

तदा तु मरणं विद्याधानिं सर्वत्र निर्दिशेत् ।  

(त्रैपुरपद्धत्याम्)

दक्षिणे पतिते सिद्धिर्वामभागे च निन्दितम् ॥ ११-११७५ ॥  

प्। १०७४) सव्ये तु पतिते छेदे देवीमन्त्रं स्मरेद्बुधः ।
ततः कुण्डादिके हुत्वा हुतिभिर्दशपञ्चभिः ॥ ११-११७६ ॥

शमयेद्धूङ्कृतेर्दोषं बलिलक्षणलक्षितम् ।  

(महाकालसंहितायाम्)

दद्याद्राक्षसदिग्भागे मन्त्री बलिशिरः स्वयम् ॥ ११-११७७ ॥  

तद्दक्षिणे रक्तपात्रं विपरीतं न सन्ददेत् ।  
देवस्य सम्मुखं कृत्वा छिन्नं भागं प्रकल्पयेत् ॥ ११-११७८ ॥  

तदेव शस्तं जानीयान्मध्यमं तदुदीरितम् ।  
बलीनामिति सञ्ज्ञानं शिरश्च पुरतो ददेत् ॥ ११-११७९ ॥  

तथा ।

न भूमौ स्थापयेच्छीर्षं चैव विपरीतकम् ।  
शिरः सलोहितं दद्यात् पुर एव न चान्यतः ॥ ११-११८० ॥  

रुधिरादानकाले तु पात्रे स्वविभवाहृते ।  
सैन्धवं स्थापयेत् किञ्चित् फलानामेकमेव हि ॥ ११-११८१ ॥  

तद्रक्तं हविरेव स्यात् पुरोडाशं च तच्छिरः ।  
नासाग्रीवागण्डुपुच्छपललानि निकृत्त्य हि ॥ ११-११८२ ॥  

पशूनां वदने क्षिप्त्वा ततः संस्थापयेत् पुरः ।  
तथा पक्षत्रिपत्रं च वीनां त्रोटौ विनिःक्षिपेत् ॥ ११-११८३ ॥  

पशुवच्चरणस्यापि शीर्षे कमललोचने ।  
बलीनां मस्तके दद्यात् प्रदीपं धूपवर्त्तिकाम् ॥ ११-११८४ ॥  

दहनाल्लोमकेशानां यो गन्ध उपतिष्ठते ।  
घ्राति तं चण्डिका देवी सन्तुष्टा तु प्रजायते ॥ ११-११८५ ॥  

तस्मिन्नेव ह्यवसरे आधिक्यं धूपदीपयोः ।  

प्। १०७५) यथा विभतो देवि कर्त्तव्यं भक्तितत्परः ॥ ११-११८६ ॥

बल्याधिक्ये च शीर्षार्णां विधेयाः पङ्क्तयस्तथा ।  
सधूपदीपाः कुसुमाक्षतपुञ्जान्वितास्तथा ॥ ११-११८७ ॥  

तथा ।

शिरश्च सम्मुखे स्थाप्यं सदीपं पात्रवर्जितम् ।  
स चापि हविरक्तः स्यादथ वा तिलजोक्षितः ॥ ११-११८८ ॥  

सार्षपं न प्रदातव्यं न चान्यफलसम्भवम् ।  
मूर्धाभिषिक्तो हविषा तैलेन बहुसिद्धिभाक् ॥ ११-११८९ ॥  

अन्यबीजोद्भवै रोगं शोकं मृत्युं च विन्दति ।  
यथा लोमानि दह्यन्ते यत्नात् कार्यं तथा नरैः ॥ ११-११९० ॥  

तन्त्रान्तरे ।

सूत्रवर्त्तिं प्रदद्याच्च वस्त्रवर्तिः प्रशस्यते ।  
अङ्गुष्ठस्य प्रमाणं च दीर्घं चैव षडङ्गुलम् ॥ ११-११९१ ॥  

कार्पाससूत्रकैर्दद्यादेकविंशतिसूत्रकैः ।  
सुगन्धिद्रव्यैस्तत् कुर्यात् कर्पूरागुरुचन्दनैः ॥ ११-११९२ ॥  

ग्राहाणां कच्छपानां च गोधायाश्च विशेषतः ।  
मत्स्यानामपि पक्षिणां न दीपं दापयेच्छिवे ॥ ११-११९३ ॥  

शीर्षोपरि ज्वलद्दीपं यावत्कालं प्रवर्त्तते ।  
तावत्कालं वसेत् स्वर्गे तस्माद्यत्नेन दापयेत् ॥ ११-११९४ ॥  

लोमदाहोद्भवं गन्धं घ्रात्वा देवी प्रसीदति ।  
तस्मात् संवर्धयेद्दीपं तस्मात् पात्रं विवर्जयेत् ॥ ११-११९६ ॥  

निर्वाणे मृत्युमाप्नोति दीयमाने प्रदीपके ।  

(महाकालसंहितायाम्)

ततः पात्रं पुरः कृत्वा देव्याः सपशु शोणितम् ॥ ११-११९७ ॥  

शर्करायुतदूर्वाणां प्रदद्यात् त्रिर्महाघृतम् ।  

प्। १०७६) सैन्धवं शृङ्गवेरं च कदलीफलमेव च ॥ ११-११९८ ॥

पातयेन्मधुराणां च काममुद्दिश्य साधकः ।  
अष्टधा विभजेद्दिग्वन्मध्ये चैकं कुशादिभिः ॥ ११-११९९ ॥  

दत्वा किञ्चिद्घृतं तत्र कुर्यात् तर्पणमुद्रया ।  
तर्पणं भागभाजां वै देवीनां द्विर्द्विरेव च ॥ ११-१२०० ॥  

आद्यन्तिमौ तारहार्दी मध्ये आदिमनोरपि ।  
तत्तन्नाम्ना मन्त्रमपि तर्पयामीति संयुतम् ॥ ११-१२०१ ॥  

द्वितीयरूपं ङेन्तं च तद्द्वितीयपदोदितम् ।  
मध्ये नित्योदितश्र्याख्यपात्रवत् पीठगा क्रिया ॥ ११-१२०२ ॥  

पूर्वस्यां दिशि चामुण्डा दक्षिणस्यां तु योगिनी ।  
डाकिन्युक्ता पश्चिमायामुत्तरस्यां तु भैरवी ॥ ११-१२०३ ॥  

विदारिकाऽग्नेयकोणे नैर्-ऋत्यां पापराक्षसी ।  
पूतना चापि वायव्ये ईशाने कालिका तथा ॥ ११-१२०४ ॥  

ततः स्तुतिं प्रकुर्वीत बद्धाञ्जलिपुटोऽग्रतः ।  
जय देवि जगन्मातर्जय पापौघहारिणि ॥ ११-१२०५ ॥  

जय जन्मजराव्याधितृणदावानलाकृते ।  
जय सर्वविपत्तिघ्ने जय त्रिदशवन्दिते ॥ ११-१२०६ ॥  

जय नित्यानन्दरूपे जय कल्याणदायिनि ।  
जय शत्रुक्षयकरे जय रोगप्रणाशिनि ॥ ११-१२०७ ॥  

जय भीमे जयाघोरे जय सङ्कटतारिणि ।  
जयामृतरसास्वादतुन्दिलामन्दव्र्ग्रहे ॥ ११-१२०८ ॥  

त्रिनेत्रे विकरालास्ये मुण्डमालाबिभूषिते ।  
सर्वासुरक्षयकरि खड्गखट्वाङ्गधारिणि ॥ ११-१२०९ ॥  

प्। १०७७) महाघोरे महारावे दैत्यदर्पनिषूदिनि ।
इमं पशुबलिं देवि गृहीत्वा कालरात्रिके ॥ ११-१२१० ॥

प्रीता भव महाचण्डे रक्ष मां शरणागतम् ।  
आयुर्देहि धनं देहि भाग्यं र्कीर्तिं च देहि मे ॥ ११-१२११ ॥  

स्त्रियं देहि सुतान् देहि सर्वान् कामा।श्च देहि मे ।  
उग्रचण्डे प्रचण्डाऽसि प्रचण्डकरवालिनि ॥ ११-१२१२ ॥  

महाचण्डोग्रदोर्दण्डे विश्वेश्वरि नमोऽस्तु ते ।  
रक्ष मां शरणापन्नं त्वत्पादार्पितमानसम् ॥ ११-१२१३ ॥  

हर पापं हर क्लेशं हर शोकं हरासुखम् ।  
हर रोगं हर क्षोभं हर दैन्यं हरप्रिये ॥ ११-१२१४ ॥  

स्तुतिमेतां पठित्वैवं दण्डवत् प्रणमेद्भुवि ।  
गुह्यकालि जगद्धात्रि सर्वान्तर्यामिनीश्वरि ॥ ११-१२१५ ॥  

गृहीत्वेमं पशुबलिं यथोक्तफलदा भव ।  
कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ॥ ११-१२१६ ॥  

अन्तश्चरसि भूतानां द्रष्ट्री त्वं परमेश्वरि ।  

(यामले)

कात्यायनि महामाये दुर्गे दुर्गतितारिणि ॥ ११-१२१७ ॥  

नमस्तुभ्यं जगद्धात्रि कालरात्रिस्वरूपिणि ।  
एवं स्तुत्वा महादेव्यै दत्वा च सुमनोऽञ्जलीन् ॥ ११-१२१८ ॥  

साष्टाङ्ँ प्रणमेद्भूमौ भक्तियुक्तेन चेतसा ।  

सुमनोऽञ्जलीनिति बहुवचनं कपिञ्जलाधिकरणन्यायेन त्रित्वे पर्यवस्यति । तथा च पुष्पाञ्जलित्रयं दत्वा प्रणमेदित्यर्थः ।

इति बलिदानविधिः ।

अथ पशुपक्षिणां वस्त्वन्तराणां च दैवतानि ।
(महाकालसंहितायाम्)

पशूनां च विहङ्गानामन्येषामपि वस्तूनाम् ॥ ११-१२१९ ॥  

प्। १०७८) ब्रवीमि देवताः सर्वाः क्रमेणोत्सर्गकर्मणि ।
प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ॥ ११-१२२० ॥

तथा चैकशफाः सर्वे कथिता यमदैवताः ।  
महिषश्च तथा याम्य उष्ट्रो वै नैर्-ऋतो मतः ॥ ११-१२२० ॥  

गोवृषौ रुद्रदैवत्यौ छाग आग्नेय उच्यते ।  
मेषस्तु वारुणो ज्ञेयो वराहो वैणवो मतः ॥ ११-१२२१ ॥  

गोरीदेव्यौ व्याघ्रसिंहौ गण्डको ब्रह्मदैवतः ।  
यावन्तो मृगभेदाः स्युः कथिता वायुदेवताः ॥ ११-१२२२ ॥  

यावन्तः पक्षिणः सर्वे वायव्याः परिकीर्तिताः ।  
प्राजापत्यास्तथा मत्स्याः कच्छपाः साध्यदैवताः ॥ ११-१२२३ ॥  

गोधा वरुणदैवत्या ग्राहा अपि च तादृशाः ।  
तथा च बभ्रूशलभावादित्येशानदैवतौ ॥ ११-१२२४ ॥  

कन्या दासस्तथा दासी प्राजापत्या नरास्तथा ।  
अभयं शिवदैवत्यं धरित्री विष्णुदैवता ॥ ११-१२२५ ॥  

तथा समुद्रदैवत्यं रत्नमुक्ताफलादिकम् ।  
जलाशयास्तथा सर्वे वारिधानी कमण्डलुः ॥ ११-१२२६ ॥  

प्रपा कुम्भश्च करकं ज्ञेयं वरुणदैवतम् ।  
सुवर्णमग्निदैवत्यं लौहं भैरवदैवतम् ॥ ११-१२२७ ॥  

कांस्ये पूषाऽश्विनौ चापि देवता परिकीर्तिताः ।  
रङ्गं नासत्यदैवत्यं सीसकं वायुदैवतम् ॥ ११-१२२८ ॥  

ताम्रं च सूर्यदैवत्यं पित्तलं कुजदैवतम् ।  
रजतं चन्द्रदैवत्यं खर्परं पितृदैवतम् ॥ ११-१२२९ ॥  

प्। १०७९) गुडं कुवेरदैवत्यं शर्करा मित्रदैवता ।

अन्यत्र तु ।

आपो गुडे देवताः स्युः � � � � � � � � � - इत्युक्तम् ।  

तथा ।

जाङ्गलं वह्नि दैवत्यं मधु स्याद्यदैवतम् ॥ ११-१२३० ॥  

ताम्बूलदेवता ज्ञेया शक्रो विद्याधरोऽथ वा ।  

तन्त्रान्तरे ।

ताम्बूले देवताः शक्रविद्याधरविनायकाः ॥ ११-१२३१ ॥  

महाकालः ।

तथा मृत्युँजयो देवी घृतेषु परिनिष्ठितः ।  
तैलं तु राहुदैवत्यं कार्पासं केतुदैवतम् ॥ ११-१२३२ ॥  

क्षीरं च तारादैवत्यं दधि चौषधिदैवतम् ।  

अन्यत्र तु ।

क्षीरे नारायणः प्रोक्तो दधिसर्पाः प्रकिर्त्तिताः � इत्युक्तम् ।  

तथा

पिष्टं शचीदैवतं च सिन्दूरमपि पार्वति ॥ ११-१२३३ ॥

तन्त्रान्तरे ।

अन्येषु देवताः सर्वे देवः पिष्टे प्रजापतिः ।  

महाकालः ।

लवणं चाब्धिदैवत्यं जलं वरुणदैवतम् ॥ ११-१२३४ ॥  

देवः स्मरश्च गन्धर्वो मधुपर्के च चन्दने ।  
पुष्पं च लक्ष्मीदैवत्यं धूपे देवो वनस्पतिः ॥ ११-१२३५ ॥  

अप्सरोदैवतं ज्ञेयं सर्वं मृगमदादिकम् ।  
दीपोऽपि वह्निदैवत्यो नैवेद्यं विष्णुदैवतम् ॥ ११-१२३६ ॥  

प्। १०८०) पादुका सोमदैवत्या छत्रं स्यादिन्द्रदैवतम् ।
देवता कामधेनुः स्याच्चामरे त्रिदशेश्वरि ॥ ११-१२३७ ॥

व्यजनं वायुदैवत्यमिन्द्रः सिंहासनस्य च ।  
माला च रतिदैवत्या डाकिनी देवता सुरा ॥ ११-१२३८ ॥  

मांसं निर्-ऋतिदैवत्यं वितानं चन्द्रदैवतम् ।  
प्राजापत्यानि शस्यानि पक्वान्नानि च सर्वशः ॥ ११-१२३९ ॥  

वाचस्पत्यानि वासांसि पाण्डुराण्यसितानि च ।  
मयुदैवानि रक्तानि दुर्गादैवं तु पट्टकम् ॥ ११-१२४० ॥  

विद्या ब्राह्मी विनिर्दिष्टा विद्याप्रकरणानि च ।  
सारस्वतानि ज्ञेयानि पुस्तकाद्यानि पार्वति ॥ ११-१२४१ ॥  

पात्राणामपि सर्वेषां विश्वकर्माऽधिदैवतम् ।  

(यामले)

वाद्यं चतुर्विधं ज्ञेयं रुद्रगन्धर्वदैवतम् ॥ ११-१२४२ ॥  

महाकालः ।

द्रुमाणां च लतानां तु शाकानां हरितैः सह ।  
फलानामपि सर्वेषां देवो ज्ञेयो वनस्पतिः ॥ ११-१२४३ ॥  

अजिनानि तथा शय्या रथ आसनमेव च ।  
उपानहौ तथा दोला यच्चान्यत् प्राणिवर्जितम् ॥ ११-१२४४ ॥  

उत्तानाङ्गिरदैवत्यं प्रवदन्ति मनीषिणः ।  
ध्वजो वै धर्मदैवत्यः सीरं पर्यन्यदैवतम् ॥ ११-१२४५ ॥  

पाषाणादि तथा रत्नं कथितं शक्रदैवतम् ।  
गृहं तु सर्वदैवत्यमनुक्तं यन्मया प्रिये ॥ ११-१२४६ ॥  

तत् सर्वं रुद्रदैवत्यं ज्ञेयमुत्सर्गकर्मणि ।  

इति दैवतानि ।

अथ कुमारीपूजाविधिः ।

प्। १०८१) (महाथर्वणसंहितायाम्)

ततः कुमारीयजनं कुर्यात् साधकसत्तमः ॥ ११-१२४७ ॥  

यस्मिन् कृते तु विधिवत् कर्मणः साङ्गता भवेत् ।  
अकृते चाङ्गहानिः स्याद्विशेषाच्छरदर्चने ॥ ११-१२४८ ॥  

(महाकालसंहितायाम्)

समाप्य पूजामासायं प्रदोषे पर्युपस्थिते ।  
कुमारीपूजनं कुर्याद्विधिना पञ्चमं हितम् ॥ ११-१२४९ ॥  

तथा ।

भक्तभद्राभद्रमुभे तदनक्ति सुरेश्वरि ।  
स्वयं तद्रूपमास्थाय मूढभावमुपेयुषी ॥ ११-१२५० ॥  

दिदृक्षुरायाति शिवा भक्तिपूजनसम्भृतिः ।  
तस्मात् तत्रादरः कार्यो भक्तिभावं च जानता ॥ ११-१२५१ ॥  

देवतास्त्रिविधोत्पातैर्यथादेशे हिताहितम् ।  
सूचयन्ति तथैवैषां वार्षिकं सुरवन्दिते ॥ ११-१२५२ ॥  

तद्विज्ञानार्थमप्येषा पूजितव्या प्रयत्नतः ।  
चतुर्णामपि कौलानां स्मर्त्तानामानुकल्पिनाम् ॥ ११-१२५३ ॥  

नैवात्र मतभेदोऽस्ति नैवार्चनभिदाऽपि वा ।  
न च पूर्वोत्तरौ पक्षौ न च सन्देहकल्पना ॥ ११-१२५४ ॥  

भवेच्च फलबाहुल्यं तुष्टिर्देव्यास्तथैव च ।  
विशिष्य ज्ञायतेऽनेन तथा भावि शुभाशुभम् ॥ ११-१२५५ ॥  

ज्ञाते शुभे भवेत् तोषोऽन्यस्म।श्चोपायचिन्तनम् ।  

तथा ।

न तथा तुष्यति शिवा बलिहोमस्तुतीरणैः ॥ ११-१२५६ ॥  

कुमारीपूजनेनात्र यथा सद्यः प्रसीदति ।  

प्। १०८२) न केवलं पूजयेत् तां भोजयेच्चापि यत्नतः ॥ ११-१२५७ ॥

तथा ।
व्यङ्गता चाप्यकरणात् पूजायाः परिकीर्त्तिता ।
कूमारीपूजनेनात्र यथा सद्यः प्रसीदति ॥ ११-१२५८ ॥

करणात् साङ्गताऽपि स्यादन्यस्मिन्नकृतेऽपि हि ।  

तथा ।

कौलानां निशि पूजोक्ता स्मार्तानामपराह्णिको ॥ ११-१२५९ ॥  

नित्या तु शारद्यर्चायां काम्या नैमित्तिकीतरा ।  

कुमारीलक्षणमाह ।

सुस्नातां रक्तपीतादिनानारागोज्ज्वलांशुकाम् ॥ ११-१२६० ॥  

सर्वालङ्कारचित्राङ्गीमज्ञातानङ्गचेष्टिताम् ।  
अजातपुम्मनःसङ्गां सप्ताष्टनववार्षिकीम् ॥ ११-१२६१ ॥  

अनीचजातिं गौराङ्गीं पितृमातृमतीमपि ।  
अदन्तुरामवाग्दन्तामधिकोनाङ्गवर्जिताम् ॥ ११-१२६२ ॥  

अदीर्घकेशीमुद्दीप्तां सुस्मितास्यामलोभनाम् ।  

निषिद्धालक्षणमुक्तं तत्रैव ।

श्यामां दीर्घदतीमोतुनयनां पिङ्गमूर्धजाम् ॥ ११-१२६३ ॥  

तनुमूनगतिं क्रुद्धां कुब्जां खञ्जां च खर्विकाम् ।  
भ्रूकेशाल्पत्वसहितां तथा चैव गलद्व्रणाम् ॥ ११-१२६४ ॥  

जातस्तनरजोऽनङ्गां प्रयत्नेन विवर्जयेत् ।  

तन्त्रान्तरे ।

अधिकाङ्गीं च हीनाङ्गीं रोगिणीं च व्रणाङ्किताम् ॥ ११-१२६५ ॥  

अन्धां काणां केकरां च कुरूपां लोमशां त्यजेत् ।  

(महाकालसंहितायाम्)

एतद्भिन्ना कुमारी तु वरणीयाऽर्चनक्रमे ॥ ११-१२६६ ॥  

प्। १०८३) (मेरुतन्त्रे)

विप्रां सर्वेष्टसंसिद्ध्यै यशसे क्षत्रियोद्भवाम् ।  
वैश्यजां धनलाभाय पुत्राप्त्यै शूद्रजां यजेत् ॥ ११-१२६७ ॥  

(स्कान्दे)

दारुणे चान्त्यजां कन्यां पूजयेद्विधिना नरः ।  

(यामले)

यः कुमारीं यजेन्मन्त्री सर्वपर्वसु सर्वदा ॥ ११-१२६८ ॥  

तेनार्चिता महादेवी सत्यं सत्यं न संशयः ।  
सन्ध्यैकवर्षा सम्प्रोक्ता द्विवर्षा च सरस्वती ॥ ११-१२६९ ॥  

त्रिधामूर्त्तिस्त्रिवर्षा च चतुरब्दा चा कालिका ।  
सुभगा पञ्चवर्षेयमुमा सड्वार्षिकी भवेत् ॥ ११-१२७० ॥  

मालिनी सप्तवर्षा च अष्टमी कुब्जिका मता ।  
नवाब्दा कालसङ्कर्षा दशवर्षाऽपराजिता ॥ ११-१२७१ ॥  

एकादशाब्दा रुद्राणी द्वादशाब्दा च भैरवी ।
तत्परा स्यान्महालक्ष्मीस्तत्परा कुलनायिका ॥ ११-१२७२ ॥

क्षेत्रज्ञा तत्परा प्रोक्ता षोडशाब्दा च चण्डिका ।  
एवं क्रमेण विज्ञेया विना पुष्पं कुमारिका ॥ ११-१२७३ ॥  

(हेमाद्रौ स्कान्दे)

एकैकां पूजयेत् कन्यामेकवृद्ध्या तथैव च ।  
द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं तु वा ॥ ११-१२७४ ॥  

तथा ।

नवभिर्भजते भूमिमैश्वर्यं द्विगुणेन तु ।  
एकवृद्ध्या लभेत् क्षेममेकैकेन श्रियं लभेत् ॥ ११-१२७५ ॥  

एकवर्षा तु या कन्या पूजार्थे तां विवर्जयेत् ।  
गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ॥ ११-१२७६ ॥  

प्। १०८४) (वाडवानलीये)

उत्तमा सा परिज्ञेया सप्ताष्टनवहायना ।  
मध्यमा पञ्चवर्षा च षडब्दा दशहायना ॥ ११-१२७७ ॥  

एकद्वित्रिचतुर्वर्षा रुद्राब्दाद्याऽवरा स्मृता ।  

(महाकालसंहितायाम्)

गीतवादित्रनिर्घोषैरानन्दादरपूर्वकम् ॥ ११-१२७८ ॥  

नीत्वा पूजागृहद्वारि कुमारीस्ता अयुग्मिकाः ।  
पञ्च वा सप्त वा चापि नवैकादश वा पुनः ॥ ११-१२७९ ॥  

मुख्यैका तासु कर्त्तव्या या स्यात् सर्वाङ्गसुन्दरी ।  
वह्नीनामप्यभावे हि भवेदेका कुमारिका ॥ ११-१२८० ॥  

काम्ये नैमित्तिके चैका बह्वयः शारदपूजने ।  
श्रेणीभूता उत्थिताश्च नम्रीभूतानना अपि ॥ ११-१२८१ ॥  

स्थापयित्वा क्रमेणैता मुख्यामादौ नियोज्य च ।  
देवीबुद्धिं विधायास्यां साधको विगतत्वरः ॥ ११-१२८२ ॥  

गृहीतमदिरामत्तः कल्पितार्चनसम्भृतिः ।  
प्राणायामं विधायादौ ततो भूतापसारणम् ॥ ११-१२८३ ॥  

गुरुं गणपतिं नत्वा वामदक्षिणयोस्ततः ।  
मध्ये कुमारीं च तथा मूलदेवीस्वरूपिणीम् ॥ ११-१२८४ ॥  

छोटिकाभिस्तथा तालत्रितयैर्बन्धनं दिशाम् ।  

तथा ।

कुमर्या मूलभूतायाः पादौ प्रक्षालयेत् ततः ॥ ११-१२८५ ॥  

तथा ।

तज्जलं मस्तके दद्याद्देवीपादोदप्रज्ञया ।  
स्वोत्तरीयांशुकेनैव पादाम्बूपनयेत् ततः ॥ ११-१२८६ ॥  

प्। १०८५) पुनरक्षतमादाय विघ्नानुत्सारयेत् प्रिये ।
उदीर्यमाणमन्त्रेण तालत्रयपुरःसरम् ॥ ११-१२८७ ॥

तारपाशकलाकूर्चास्त्राणि प्रथमतो वदेत् ।  
भूतान्यपसारय च विघ्नात् नाशय चेत्यपि ॥ ११-१२८८ ॥  

हृच्छिर्षे चरमे दद्यादेकविंशाक्षरो मनुः ।  
कुमार्या सहिताः सर्वे तया देवीस्वरूपया ॥ ११-१२८९ ॥  

दर्शनार्थं समायान्ति यावन्तो देवयोनयः ।  
प्रेता भूताः पिशाचाश्च गन्धर्वा गुह्यका अपि ॥ ११-१२९० ॥  

राक्षसा दानवा यक्षा ये चान्ये क्रूरकर्मिणः ।  
सह प्रविश्य कौमार्या मण्डपं शारदार्चनम् ॥ ११-१२९१ ॥  

लुम्पन्ति च कुमार्यर्चां पूजां विध्वंसयन्ति च ।  
अतो वारद्वयं कार्यं विघ्नस्योत्सारणं प्रिये ॥ ११-१२९२ ॥  

ततः स्ववामहस्तेन कुमार्या दक्षिणं करम् ।  
गृहीत्वा दक्षचरणविनिःक्षेपपुरसःरम् ॥ ११-१२९३ ॥  

पङ्क्तीभूताः कुमारीस्ताः श्लोकरूपं मनुं पठन् ।  
पूजागृहान्तः शनकैर्नमन्मौलीः प्रवेशयेत् ॥ ११-१२९४ ॥  

समस्तजगतामाद्ये जगदाधाररूपिणि ।  
कुमारीरूपमास्थाय प्रविशेदं गृहं मम ॥ ११-१२९५ ॥  

भवत्याः कीदृशं रूपं जाने मातरहं न हि ।  
कुमारीरूपमेवेदं पश्यामि नरचक्षुषा ॥ ११-१२९६ ॥  

भक्तिं मदीयां विज्ञाय त्वत्पादाम्बुजयोः शिवे ।  
त्वया प्रकटितं रूपमीदृशं सर्वसिद्धये ॥ ११-१२९७ ॥  

दृष्टिः कार्या न मे पापे सञ्चारेणासतः पथः ।  

प्। १०८६) दृढायां केवलं भक्तौ दातव्या सुरवन्दिते ॥ ११-१२९८ ॥

शिवाद्यास्तव रूपं हि कीदृशं नेति जानते ।  
ज्ञास्यामि को वराकोऽहं पाञ्चभौतिकविग्रहः ॥ ११-१२९९ ॥  

इति पञ्च पठन् श्लोकान् स्वपृष्ठेनैव तारयेत् ।  
अनीक्षमाण एवेशि गीतवाद्यपुरःसरम् ॥ ११-१३०० ॥  

(यामले)

स्नापिता गन्धतैलेन नानाभरणभूषिता ।  
आनीय देवतापार्श्वे स्थापनीया सुधीन्ता ॥ ११-१३०१ ॥  

(महाकालसंहितायामपि)

मुख्यं तत्पूजनं प्रोक्तं मुख्याया एव तन्मनुम् ।  
तत्पूजयैव ताः सर्वाः पूजिताः स्युर्न संशयः ॥ ११-१३०२ ॥  

तथा ।

बलिं दत्वा ततो देवयोनिभ्यः परमेश्वरि ।  
आरभेत् निरालस्यः कुमारीन्यासमूत्तमम् ॥ ११-१३०२ ॥  

नामान्यादौ खलु महाचण्डयोगेश्वरी मता ।  
ततः सिद्धिकराली च पुनः सिद्धिविकराल्यपि ॥ ११-१३०३ ॥  

महान्ता मार्यथ ज्ञेया वज्रकापालिनी ततः ।  
मुण्डमालिन्यट्टहासिन्येते द्वे परिकीर्त्तिते ॥ ११-१३०४ ॥  

चण्डकापालिनी कालचक्रेश्वर्यप्यनन्तरम् ।  
गुह्यकाली ततः कात्यायनी कामाख्यया सह ॥ ११-१३०५ ॥  

चामुण्डा सिद्धिलक्ष्मीश्च कुब्जिका तदनन्तरम् ।  
मातङ्गी तदनु ज्ञेया चण्डेश्वर्यथ कीर्त्त्यते ॥ ११-१३०६ ॥  

सर्वशेषेऽथ कौमारी एता अष्टादशेरिताः ।  

एतानि गुह्येशीविषयाणि ।
अन्यत्र तु ।

प्। १०८७) नामान्यादौ व्याहरामि दुर्गा नारायणी शिवा ॥ ११-१३०७ ॥

महामाया योगनिद्रा कालरात्री कपर्दिनी ।  

उग्रचण्डा भद्रकाली अजिता चापराजिता ॥ ११-१३०८ ॥

कात्यायनी महाकाली कामाख्या कुलनायिका ।	  

भैरवी भुवनेशी च कौमार्यष्टादश स्मृताः ॥ ११-१३०९ ॥

इति नामान्तरप्युक्तानि ।
तथा ।

अङ्गान्यतो वच्मि शिरो मुखं तदनु चक्षुषी ।  
कर्णौ नासापुटे चापि कपोलौ तत्पुरौ पुनः ॥ ११-१३१० ॥  

अधरोष्ठौ दन्तपङ्क्ती स्कन्धौ हृदयमेव च ।  
बाहू च जठरं पृष्ठमूरुजानू तथैव च ॥ ११-१३११ ॥  

जङ्घे पादौ च सर्वाङ्गं तावन्त्येव स्थलानि च ।  

(त्रिशक्तिरत्ने)

कलादि च कलान्तं ताः पूजयेद्विधिना बुधः ॥ ११-१३१२ ॥  

उपवेश्यासने दिव्ये कुमारीं साधकोत्तमः ।  
वक्ष्यमाणेन विधिना देहेऽस्या न्यासमाचरेत् ॥ ११-१३१३ ॥  

कुमारिका स्यात् प्रथमा द्वितीया नायिका मता ।  
तृतीया भैरवी ख्याता तुर्या वागीश्वरी भवेत् ॥ ११-१३१४ ॥  

पालिका पञ्चमी प्रोक्तो सम्बुद्ध्यन्ताः कुलादिकाः ।  
न्यस्याः पञ्चाङ्गयोगेन कुमारीणां कलेवरे ॥ ११-१३१५ ॥  

वामावर्त्तक्रमादास्यचतुष्कं पूजयेत् क्रमात् ।  
ततः सिद्धा जया पूर्वा जयाऽन्या कुब्जिका परा ॥ ११-१३१६ ॥  

कालिका पञ्चमी प्रोक्ता विज्ञेया बोधिता इमाः ।  

प्। १०८८) पूर्वादिवक्त्रसंयुक्ता चतुर्थ्यन्ता नमोऽन्तकाः ॥ ११-१३१७ ॥

तत्तत्स्थानेषु विन्यस्याः स्वधिया क्रमपूर्वकम् ।  
पञ्चप्रणवयोगेन चैतन्यमनुना सह ॥ ११-१३१८ ॥  

न्यासजालं हि पूर्वोक्तं कुर्यात् साधकसत्तमः ।  

(महाकालसंहितायाम्)

ततोऽर्घस्थापनं कुर्यान्नित्यके यदुदाहृतम् ॥ ११-१३१९ ॥  

पूजोपकरणस्यापि शुद्धिरुक्ता पुरोक्तवत् ।  

तथा ।

ततो ध्यानं प्रकुर्वीत कुमार्या वक्ष्यमाणकम् ॥ ११-१३२० ॥  

तन्त्रान्तरे ।

प्रसन्नवदनाम्भोजां प्रोद्यद्बालार्कसप्रभाम् ।  
रक्ताम्बरां रक्तमाल्यां नानालङ्कारभूषिताम् ॥ ११-१३२१ ॥  

सस्मितां दिव्यकन्याभिः क्रीडारसपरायणाम् ।  
ध्यायेत् कुमारिकां बालां स्वभक्ताभीष्टसिद्धिदाम् ॥ ११-१३२२ ॥  

तथा ।

उपचारा।स्ततः सर्वान् पाद्यादीन् स्तुतिपश्चिमान् ।  

समर्पयेदिति शेषः ।
(यामले)

यष्टव्या पूर्वमार्गेण वक्ष्यमाणेन वा पुनः ॥ ११-१३२३ ॥  

स्वनामभिश्चतुर्थ्यन्तैस्त्रिताराद्यैर्नमोऽन्तकैः ।  
देवतापश्चिमे मन्त्री यजेदेताः सलक्षणाः ॥ ११-१३२४ ॥  

आद्या शुद्धा कालिकाऽन्या तृतीया ललिता स्मृता ।  
चतुर्थी मालिनी ख्याता पञ्चमी स्याद्वसुन्धरा ॥ ११-१३२५ ॥  

सरस्वती रमा गौरी दुर्गा तु नवमी भवेत् ।  

प्। १०८९) पञ्चाब्दं नववर्षं च यजेद्बालं विचक्षणः ॥ ११-१३२६ ॥

पञ्चाब्दो वटुकः प्रोक्तो नववर्षो गणेश्वरः ।  

तथा ।

प्रदद्यादासनं वाचा ह्रीया पाद्यं समर्पयेत् ॥ ११-१३२७ ॥  

रमयाऽर्घं निवेद्याथ स्त्रिया चन्दनमर्पयेत् ।  
कुमार्यै शक्तिबीजेन प्रदद्यात् कुसुमोच्चयम् ॥ ११-१३२८ ॥  

चैतन्यमनुना मन्त्री धूपदीपादिकं न्यसेत् ।  
तारा एते समाख्याता भृगुर्भवसमन्वितः ॥ ११-१३२९ ॥  

विन्दुनादसमाक्रान्तश्चैतन्यमनुरीरितः ।  
क्वचिद् भैरवबीजं तु पञ्चमः प्रणवो मतः ॥ ११-१३३० ॥  

एकस्या एव पूजने त्रिताराद्यमन्त्रेणैव समस्तोपचारसमर्पणं बोध्यम् ।
त्रिताराद्येन मन्त्रेण सर्वं तस्यै निवेदयेत् � इति वचनात् ।

(महाकालसंहितायाम्)

भूषणानि दूकूलानि सिन्दूरालक्तकावपि ।  
कज्जलादर्शविख्याततालवृन्तानि पेटिका ॥ ११-१३३१ ॥  

परिकर्माधारचोलमञ्चिकापीठदोलिका ।
पाञ्चालिका च मञ्जूषा पादुके कुथपट्टके ॥ ११-१३३२ ॥

चन्द्रातपोपसङ्ख्यान तथोद्वर्त्तनभाजनम् ।  
शय्योपधानपर्यङ्काः समुद्गं च प्रसाधनी ॥ ११-१३३३ ॥  

प्रतिग्राहश्च हिन्दोला तथा सीमन्तवर्त्तिका ।  
गोरोचनामृगमदौ कर्पूरं कुङ्कुमं तथा ॥ ११-१३३४ ॥  

एवमादीनि चान्यानि यावच्छक्यानि सुन्दरि ।  
प्रदातव्यानि वस्तूनि कुमारी तुष्यते यथा ॥ ११-१३३५ ॥  

तथा ।

प्। १०९०) ततो यत् स्थापितं पात्रं कुमार्यै प्रतिपादयेत् ।
स्वीकुर्यात् सा च तत्रैव तथा यत्नं समाचरेत् ॥ ११-१३३६ ॥

अगृहीते तु तत्पात्रे महान् दोषोऽभिजायते ।  
अतो यत्नस्तथा कार्यः स्वीक्रियेत यथा तया ॥ ११-१३३७ ॥  

ततो गृहीत्वा कुसुमाक्षतं तस्याः कलेवरे ।  
पञ्चाशत्सङ्ख्यकाः शक्तीः क्रमतः परिपूजयेत् ॥ ११-१३३८ ॥  

ता इदानीं प्रवक्ष्यामि सावधाना निशामय ।  
आद्या जया च विजया ऋद्धिदा माययाऽन्विता ॥ ११-१३३९ ॥  

कला च सिद्धिदा सूक्ष्मा प्रभा स्यात् सुप्रभा ततः ।  
विद्युता च विशुद्धिश्च नन्दिनी च विशुद्धियुक् ॥ ११-१३४० ॥  

अपराजिता च ललिता लक्ष्मीर्गौरी तथैव च ।  
अथ मेधा च गायत्री सावित्री च स्वधा पुनः ॥ ११-१३४१ ॥  

स्वाहेच्छे च क्रिया विद्या प्रज्ञा दीप्ता च चेतना ।  
भद्रा ज्येष्ठा तथोमा च शिवा च मुदिता क्षमा ॥ ११-१३४२ ॥  

श्रद्धाऽथ विमला कौमुद्यपि वै विशदा ततः ।  
अशोका ज्ञानदा चैव बलदा राज्यदाऽपि च ॥ ११-१३४३ ॥  

मैत्री तदनु रुद्राणी भवानी च मृडान्यपि ।  
सर्वज्ञा चण्डिका चापि कुमारी सर्वशेषगा ॥ ११-१३४४ ॥  

पञ्चाशत्सङ्ख्यका एताः कुमार्याः शक्तयः स्मृताः ।  
भैरवानष्ट तदनु पूजयेदक्षतादिभिः ॥ ११-१३४५ ॥  

भैरवीभ्यस्ततो विघ्नविनायकेभ्य एव च ।  
वटुकक्षेत्रपालाभ्यां योगिनिभ्यस्तथैव च ॥ ११-१३४६ ॥  

भतेभ्यः प्रेतयक्षेभ्यो डाकिनीभ्यस्तथैव च ।  

प्। १०९१) एतत्पूजां प्रकुर्वीत सदूर्वा क्षतचन्दनैः ॥ ११-१३४७ ॥

पुनरष्टौ सर्वशेषे ङेन्ता देवीर्यजेत् प्रिये ।  
महामाया कालरात्री ततो वै सर्वमङ्गला ॥ ११-१३४८ ॥  

पूज्या डमरुका पश्चाद्राजराजेश्वरी तथा ।  
सम्पत्प्रदा भगवती कुमारी तदनन्तरम् ॥ ११-१३४९ ॥  

(यामले)

कुलान्तः पूजयेदेनां कुलकोणेष्विमान् यजेत् ।  
कामेश्वरी च वज्रेशी तृतीया भगमालिनी ॥ ११-१३५० ॥  

उपरिष्टात् कुलद्वन्द्वकोणेष्वेतः समर्चयेत् ।  
अनङ्गकुसुमाऽनङ्गमन्मथाऽनङ्गपूर्विका ॥ ११-१३५१ ॥  

मदनानन्दशब्दाद्या चतुर्थी कुसुमोत्तरा ।  
पञ्चम्यमङ्गमदनाऽतुराऽनङ्गपदादिका ॥ ११-१३५२ ॥  

शिशिरा कथिता ह्येताः शक्तयो रससङ्ख्यकाः ।  
अनेन विधिना पूज्या कुमारी साधकोत्तमैः ॥ ११-१३५३ ॥  

(महाकालसंहितायाम्)

समाप्येत्थं कुमर्यर्चां तत्पुरो भुवि वारिणा ।  
वर्त्तुलं मण्डलं कृत्वा तन्मध्ये कुलकामिनीम् ॥ ११-१३५४ ॥  

विलिख्य जलकुसुमाक्षतचन्दननागजैः ।  
पूजयेन्मण्डलं तच्च शुभदायै नमो वदेत् ॥ ११-१३५५ ॥  

स्थालीगतं च तत्सर्वमन्नं तत्र निवेश्य हि ।  
नानाविधां च सामग्रीं लेह्यचोष्यादिघट्टिताम् ॥ ११-१३५६ ॥  

मांसमीनसुरापूर्णां भक्ष्यचर्व्यादिपूरिताम् ।  
कुमारीदक्षहस्तं च स्थापयित्वाऽन्नमूर्धनि ॥ ११-१३५७ ॥  

प्। १०९२) उत्तानं वक्ष्यमाणेन मनुनाऽन्नं समुत्सृजेत् ।

अन्नोत्सर्गमन्त्रस्तु ।

ऐ। ह्री। श्री। स्त्री। सौ।ः सर्वशक्तिस्वरूपायै सर्वसिद्धिदायै भगवत्यै कुमार्ये भक्ष्यभोज्यनानाविधान्नकल्पितषड्रसोपेतमिदं महाभोगनैवेद्यं तुभ्यमहं निवेदयामि गृहाण २ भुङ्क्ष्व २ प्रसीद २ सर्वसिद्धिं मे प्रयछ २ ऐ। ह्री। श्री। नमः स्वाहा ।  

इति पद्धतिकृतोक्तः ।
तथा ।

इतरासां कुमरीणां प्रत्येकं पूजनं चरेत् ॥ ११-१३५८ ॥  

गन्धपुष्पैर्धूपदीपैर्नेवेद्यैरन्नसङ्कुलैः ॥  

तथा ।

अन्नानि यादृशान्यस्यै मुख्यायै कल्पितानि हि ॥ ११-१३५९ ॥  

अन्याभ्यस्तादृशान्येव दातव्यान्येष निश्चयः ।  
फलाफलं तु मुख्याया ज्ञेयमत्र विपश्चिता ॥ ११-१३६० ॥  

भुञ्जानासु कुमारिषु न तूर्यध्वनिमाचरेत् ।  
नान्यत्र च मनो दद्यात् संवाधं नैव कल्पयेत् ॥ ११-१३६१ ॥  

कोलाहलं निषेधेत अमङ्गल्यानि यानि च ।  
रुदितापानवायुं च प्रयत्नेन विवर्जयेत् ॥ ११-१३६२ ॥  

सावधानो भवेदत्र किमादौ भक्षयन्ति ताः ।  
मिथः किं वा प्रजल्पन्ति कुत्र वा वस्तुविग्रहः ॥ ११-१३६३ ॥  

कुत्र दृष्टिं प्रक्षिपन्ति भीताः किं वा वदन्त्यमूः ।  
इत्यादि नानाजातीयाश्चेष्टा आसां प्रयत्नतः ॥ ११-१३६४ ॥  

सावधानतया ज्ञेया भद्राभद्रस्य सूचकाः ।  

प्। १०९३) भक्षयन्तीषु तास्वेवं पठेत् तत्स्तोत्रमत्वरम् ॥ ११-१३६५ ॥

कृताञ्जलिर्नम्रशिरा आसामन्ने क्षिपन् दृशौ ।  
जय कालि महाभीमे भीमरावे भयापहे ॥ ११-१३६६ ॥  

संसारदावाग्निशिखे वृजिनार्णवतारिणि ।  
ब्रह्मेन्द्रोपेन्द्रभूतेशप्रभृत्यमरवन्दिते ॥ ११-१३६७ ॥  

सर्गपालनसंहारकारण्यहितमारिणि ।  
गुह्यकालि परानन्दरसपूरितविग्रहे ॥ ११-१३६८ ॥  

परब्रह्मरसास्वादकैवल्यानन्ददायिनि ।  
गुणातीतेऽपि सगुणे महाकल्पान्तनर्त्तकि ॥ ११-१३६९ ॥  

कुमारीरूपमास्थाय विज्ञाप्रज्ञास्वरूपिणि ।  
आगताऽसि ममागारं शारद्यर्चासमाप्तये ॥ ११-१३७० ॥  

सांवत्सरिककल्याणसूचनाय तथैव च ।  
धन्योऽस्मि कृतकृत्योऽस्मि सफलं जीवितं मम ॥ ११-१३७१ ॥  

यस्मात् त्वमीदृशं कृत्वा कौमारं रूपमुत्तमम् ।  
गुह्यकालि समायाताऽब्दिकपूजाजिघृक्षया ॥ ११-१३७२ ॥  

त्वमेवैतेन रूपेण देवेभ्यः प्रार्थिता पुरा ।  
दत्तवत्यसि साम्राज्यं वरानपि समीहितान् ॥ ११-१३७३ ॥  

मह्यमप्यद्य देवेशि वरं देहि सुपूजिता ।  
ब्रह्मणे सृष्टिसामर्थ्यं त्वं पुरा दत्तवत्यसि ॥ ११-१३७४ ॥  

विष्णवे च त्वमेवादास्तथा पालनशक्तिताम् ।  
महारुद्राय संहारकर्त्तृत्वमददः शिवे ॥ ११-१३७५ ॥  

देवेभ्यश्चापि दैत्यानां नाशने दक्षतामपि ।  
अन्तर्यामिन्यसीशानि त्रिलोकीवासिनामपि ॥ ११-१३७६ ॥  

प्। १०९४) निवेदयामि किं तेऽहं सर्वकर्मैकसाक्षिणि ।
शत्रुनाश राज्यलाभं शरीरारोग्यमेव च ॥ ११-१३७७ ॥

त्वत्पादाम्बुजयोर्भक्तिं याचेऽहं चतुरो वरान् ।  
नमस्ते भगवत्यम्ब नमस्ते भक्तिवत्सले ॥ ११-१३७८ ॥  

नमस्ते जगदाधाररूपिणि ग्राहि मां सदा ।  
मातरं वेद्मि रूपं ते न शरीरं न वा गुणम् ॥ ११-१३७९ ॥  

भक्त्या हृत्स्थितया पूजां तव जानाम्यनन्यधीः ।  
त्वं माता त्वं पिता बन्धुस्त्वमेव जगदीश्वरि ॥ ११-१३८० ॥  

त्वं गतिः शरणं त्वं च स्वर्गस्त्वं मोक्ष एव च ।  
विहाय त्वां जगन्मातर्नान्यां जानामि देवताम् ॥ ११-१३८१ ॥  

नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः ।  
एभिः श्लोकैः स्तुतिं कृत्वा कुमारीणां वरानने ॥ ११-१३८२ ॥  

दद्यादाचमनीयं हि भोजनान्ते गतत्वरः ।  
ततः प्रदद्यात् ताम्बूलं मृगचन्द्राभिवासितम् ॥ ११-१३८३ ॥  

सह वाद्यादिभिस्तावदनुव्रज्य विसर्जयेत् ।  
शुभाशुभफलं वच्मि साम्प्रतं तव पार्वति ॥ ११-१३८४ ॥  

तत्राप्यादौ शुभं वक्ष्ये विपरीतं ततोऽस्य च ।  
तदुच्छिष्टं ततो दद्याज्जम्बुकेभ्योऽथ भूतले ॥ ११-१३८५ ॥  

निखनेदप्सु वा देवि समालोड्य विसर्जयेत् ।  
आदौ भक्ते करे दत्ते सुभिक्षं विषये भवेत् ॥ ११-१३८६ ॥  

पायसे यजमानस्य पशुवृद्धिः प्रजायते ।  
घृते स्यादायुरारोग्यं पूजामैश्वर्यवृद्धये ॥ ११-१३८७ ॥  

तथा मोदकशष्कुल्योः सन्ततिर्भूयसी भवेत् ।  

प्। १०९५) मत्स्यजातिष्वर्थलाभः कृशरे यानसम्पदः ॥ ११-१३८८ ॥

मांसे तु पुत्रलाभः स्यात् तेमने कामिनी भवेत् ।  

फलं मांसविशेषस्य भिन्नं मिश्रं ब्रुवे हि तत् ॥ ११-१३८९ ॥

अर्थलाभस्तु वाराहे खाङ्गे तु विजयो रणे ।  

माहिषेण तु मांसेन राज्यप्राप्तिर्भवेद्ध्रुवम् ॥ ११-१३९० ॥

आरोग्यं हारिणेनाशु कार्ष्णसारेण वाग्मिता ।	  

शाशे मेधावितां गच्छेदाजेष्वजरतामपि ॥ ११-१३९१ ॥

आवेये पलले देवि सर्वकल्याणमाप्नुयात् ।  
कामठे मेदिनीलाभो वह्वन्नत्वं च राङ्कुरे ॥ ११-१३९२ ॥  

वार्ध्रीणसे शत्रुनाशो हांसे मनुजवश्यता ।  
तैत्तिरेऽभीष्टसिद्धिश्च वर्त्तके पापसङ्क्षयः ॥ ११-१३९३ ॥  

मनस्तोषो बलाकायां फलेक्षोर्विश्ववश्यता ।  
कीर्त्तिस्तु महती दध्नि दुग्धे सम्पदनुत्तमा ॥ ११-१३९४ ॥  

पिष्टके तनयावाप्तिः शाके च रिपुसङ्क्षयः ।  
हालायां पुण्यवृद्धिः स्याच्चोष्ये सम्पत् सुवाग्मिता ॥ ११-१३९५ ॥  

धनागमः फाणिते तु कूर्चिकायां बलोन्नतिः ।  
तुम्बीवृन्ताककूष्माण्डकारवेल्लपटोलकैः ॥ ११-१३९६ ॥  

घोषशूरणदीर्घाङ्घ्रिमूलकैस्तेमने कृते ।  
विद्यालाभो भवेद्देवि तक्रे वाक्पटुताऽपि च ॥ ११-१३९७ ॥  

गोधूमचूर्णघटिते वस्तुनि प्रतिभा रणे ।  
वेद्यां दृष्टौ भवेन्मोक्षो मण्डपेऽप्युन्नतिर्भवेत् ॥ ११-१३९८ ॥  

चामरच्छत्रयोस्तालवृन्तपर्यङ्कयोरपि ।  
घण्टादर्पणयोश्चापि दृग्दाने भूतिरुत्तमा ॥ ११-१३९९ ॥  

प्। १०९६) आकल्पालङ्करणयोः स्पर्शचालनदृष्टिषु ।
नानाविधानि द्रव्याणि भवन्ति महितुः प्रिये ॥ ११-१४०० ॥

एवं विधानि भूयांसि चेष्टितान्यशनानि च ।  
शुभादेशीनि जायन्ते विपरीतान्यतः शृणु ॥ ११-१४०१ ॥  

मुख्यभूता कुमारी चेद्वमति द्वित्रिवारकम् ।  
दिर्भिक्षं जायतेऽवश्यं प्रजाः स्युः पीडिता अपि ॥ ११-१४०२ ॥  

राजा विनाशमायाति कुमार्या रोदने कृते ।  
उच्चारे तु महामारी पुरीषे पुरदाहनम् ॥ ११-१४०३ ॥  

अभोजने शत्रुभयमापदो बहुभोजने ।  
अभाषणे त्वामयाः स्युर्विपदो बहुभाषणे ॥ ११-१४०४ ॥  

उपसर्गा बहुविधाश्चेष्टया करपादयोः ।  
अतिलज्जा विनाशाय तथा निर्लज्जता शुभा ॥ ११-१४०५ ॥  

नानोत्पातास्तु मौने स्युः स्वापे बाहोर्विनाशनम् ।  
सर्वनाशस्तु भीतायां क्रुद्धायां मृत्युरेव च ॥ ११-१४०६ ॥  

आवेशे तत्क्षणाद्राजा म्रियते नात्र संशयः ।  
शङ्कितायां शत्रुशङ्का शान्तायामीतितो भयम् ॥ ११-१४०७ ॥  

चिन्तितायां तु विज्ञेयं तद्राष्ट्रस्यैव पातनम् ।  
मोहे वित्तविनाशः स्याज्जाड्ये पूजा च निष्फला ॥ ११-१४०८ ॥  

चाञ्चल्ये चञ्चला लक्ष्मीः पूजकस्यैव जायते ।  
विषादवत्यथ यदि कुमारी तत्र जायते ॥ ११-१४०९ ॥  

सरुजं सप्रजं राष्ट्रं तदा सीदति पार्वति ।  
रोगेण म्रियते राजा यदि रुग्णा प्रजायते ॥ ११-१४१० ॥  

प्। १०९७) दुर्भिक्षमरकातङ्का यद्यश्रूणि विमुञ्चति ।
सर्वनाशो भवेत् तर्हि धुनोति यदि मस्तकम् ॥ ११-१४११ ॥

त्रस्तायां रिपुजस्त्रासस्तस्य राज्ञः प्रदिश्यते ।  
कम्पे सति स्याद्विमुखी कालिका परमेश्वरी ॥ ११-१४१२ ॥  

नीचैः शिरश्चेत् कुरुते असन्तुष्टा तदेश्वरी ।  
हीतायुः स्यात् तदा पृथ्वीपतिश्चेद्गद्गदस्वरा ॥ ११-१४१३ ॥  

पूजकस्य भवेद्दैन्यं व्याकुला यदि जायते ।  
मोहने व्याकुलायां तु सर्वं नगरमाकुलम् ॥ ११-१४१४ ॥  

व्रीडितायां भवेद्रोगः स्वेदे दारधमक्षयः ।  
अधोवायुं पतति चेत् कुमारीदैवयोगतः ॥ ११-१४१५ ॥  

पीडितं परचक्रेण तदा भवति पत्तनम् ।  
गीतं गायति चेत् तत्र कुमारी रहितक्रिया ॥ ११-१४१६ ॥  

सम्प्रजाराष्ट्रतनयदारस्य नृपतेर्मृतिः ।  
सहागताभिः कदा चिन्मुख्या विवदते यदि ॥ ११-१४१७ ॥  

तदा समायात्यकस्मात् परचक्रं सुदारुणम् ।  
यया कयाचित् सार्धं वा येन केन चिदेव वा ॥ ११-१४१८ ॥  

कुमारी भाषते वीतभयं मन्दाक्षसाध्वसा ।  
प्रजायन्ते तदा तस्य विषयेषु षडीतयः ॥ ११-१४१९ ॥  

व्यत्यासं यदि भक्ष्यस्य कुर्वते करचालनैः ।  
ग्रस्तं समस्तं भवति मनसो वाञ्छितं प्रिये ॥ ११-१४२० ॥  

उपायनीकृतं यद्यद्द्रव्यं देव्यै तु मण्डपे ।  
तच्चेत् कराभ्यां स्पृशति कान्दिशीको भवेन्नृपः ॥ ११-१४२१ ॥  

निर्वापयति चेद्दीपं कुमारी मुखमारुतैः ।  

प्। १०९८) बुद्धिभ्रंशो भवेत् तर्हि ज्ञानदीपश्च नश्यति ॥ ११-१४२२ ॥

दैवयोगाच्च नृत्यन्ति कुमार्यश्चेत् सुराकुलाः ।  
सराजकः सविषयः श्मशानमिव जायते ॥ ११-१४२३ ॥  

वासांस्यु सृज्य नग्नाः स्युर्यदि तत्र कुमारिकाः ।  
शत्रुभिर्धृयते तर्हि राजा समरमूर्धनि ॥ ११-१४२४ ॥  

यदि फूत्कृत्य कूर्दन्ते करौ धृत्वा भ्रमन्ति च ।  
भूतावेशः क्षितीशस्य जायते नात्र संशयः ॥ ११-१४२५ ॥  

उच्चरिष्यामि हास्ये वा वदन्तीत्थं कुमारिकाः ।  
भोजनावसरे तर्हि महामारीभयं भवेत् ॥ ११-१४२६ ॥  

वामे वा दक्षिणे वाऽपि चलत्तारकया दृशा ।  
रक्तोग्रया घूर्णयते शिरः स्वस्य कुमारिका ॥ ११-१४२७ ॥  

कुरुते वाऽट्टहासं सा येन त्रस्यन्ति मानवाः ।  
भूतावेशो भवेत् तर्हि प्रेता नृत्यन्ति वा पुरे ॥ ११-१४२८ ॥  

दन्तैर्दन्तान् पीडयित्वा कुर्यात् कटकटारवम् ।  
प्रयाति सदनं मृत्योः सदारसुतबान्धवः ॥ ११-१४२९ ॥  

दृशावनिमिषे कृत्वा सन्दश्यौष्ठं रदेन हि ।  
सन्तर्जयति शीर्षं चेत् कम्पयन्ती कुमारिका ॥ ११-१४३० ॥  

तदेव फलमुद्दिष्टं यत् स्यात् कटकटारवे ।  
आद्यन्तिकं भजेन्मौनं करेणान्नं स्पृशेन्न च ॥ ११-१४३१ ॥  

शिरोऽत्यर्थं च नमयेदङ्गुष्ठेन लिखेद्भुवम् ।  
विदध्याद्भूतले रेखां करजैर्निष्प्रयोजनम् ॥ ११-१४३२ ॥  

संहताभ्यां कराभ्यां च कण्डूयेदथ वा शिरः ।  
तृणान्यकारणाच्छिन्द्यादङ्गुलीस्फोटमाचरेत् ॥ ११-१४३३ ॥  

प्। १०९९) पाणिभ्यां मुद्रयेन्नेत्रे द्वौ कर्णौ पिदधाति वा ।
कुर्वीत वा बाहुरिकां पार्ष्णिघृष्टिं करोति वा ॥ ११-१४३४ ॥

महान्तं ग्रासमादत्ते मुखं व्यादाय तिष्ठति ।  
अन्नोपरि क्षुतं धत्ते जृम्भणं वा मुहुर्मुहुः ॥ ११-१४३५ ॥  

गृहीत्वा पाणिना वाऽन्नं चतुर्दिक्षु क्षिपत्यपि ।  
उत्थाय वा प्रचलति त्यक्त्वाऽन्नं पूजनं तथा ॥ ११-१४३६ ॥  

आयाति वमनं वाऽस्याः स्यातां रोमाञ्चवेपथू ।  
निर्गच्छतो वा तद्गात्रात् पूयास्रे हेतुमन्तरा ॥ ११-१४३७ ॥  

अकस्मादेव कुरुते काकुञ्चेत् कारणं विना ।  
अश्लीलं वल्गति तथा स्ववर्ग्यार्थे प्ररोदिति ॥ ११-१४३८ ॥  

आमुक्तालङ्कृतीर्मुञ्चेद्गृहं यास्यामि वा वदेत् ।  
यस्य कस्यापि वा कुर्याद्भ्र्त्सनं तत्स्थले स्थिता ॥ ११-१४३९ ॥  

उपालभेत वा काञ्चित् सहैवास्या उपेयुषी ।  
भिनत्ति वा निदानं वा स्वहस्तबलयानि वा ॥ ११-१४४० ॥  

कृते मृतस्य कस्यापि बन्धोः शोचति तत्र सा ।  
यत्किञ्चिद्वा प्रलपति निर्निमित्तं कुमारिका ॥ ११-१४४१ ॥  

सर्वमेतदमङ्गल्यं विज्ञेयं त्रिदशार्चिते ।  
दुर्भिक्ष्ऽम् धननाशं च रोगो मारीभयं तथा ॥ ११-१४४२ ॥  

पदे पदे च विपदः शोको व्याधी रिपून्नतिः ।  
परचक्रागमोऽकस्मादग्निदाह पुरे गृहे ॥ ११-१४४३ ॥  

मृत्युत्रासश्च दारिद्र्यं विच्छेदो बन्धुभिः सह ।  
भूतप्रेतपिशाचाभिनिवेशोऽपि गृहे गृहे ॥ ११-१४४४ ॥  

अष्टाभिष्तु महारोगैः प्रजानां निधनं भवेत् ।  

प्। ११००) कुमारीचेष्टितद्वारा ज्ञायते हि शुभाशुभम् ॥ ११-१४४५ ॥

वार्षिकं च फलं राज्ञो जयो वाऽथ पराजयः ।  
मृत्युर्दुःखं धनं सौख्यं शत्रुभीतिर्बलोन्नतिः ॥ ११-१४४६ ॥  

राज्यवृद्धिः प्रजापीडा व्यङ्गताऽनीकसङ्क्षयः ।  
कुमारीपूजनात् सर्वं ज्ञायते भोजनादपि ॥ ११-१४४७ ॥  

परीक्षा यत्नतस्तस्माद्राज्ञा स्वस्य शुभाशुभम् ।  
अर्चातोऽपि विशेषेण भोजनेन सुरेश्वरि ॥ ११-१४४८ ॥  

जाते शुभे समीचीनं वृत्ते तदितरत्र हि ।  
काम्यार्चा बहुसम्भारैर्दोषं तज्जं निवारयेत् ॥ ११-१४४९ ॥  

निवृत्य स्वगृहं रुग्णा याता यदि कुमारिका ।  
तस्मिन्नेवाहनि भवेत् तथाऽपि न शुभं फलम् ॥ ११-१४५० ॥  

इत्यादि फलबाहुल्यं शुभस्याप्यशुभस्य च ।  
मया विविच्य कथितं ध्रियस्व हृदि यत्नतः ॥ ११-१४५१ ॥  

ततो निशीथसमये विधिवत् पूजनं ततः ।  

(वाडवानलीये)

पूजिता शरदर्चायां या कुमार्युक्तलक्षणा ॥ ११-१४५२ ॥  

सर्वपर्वसु सा पूज्या यावत् पुष्पं न दृश्यते ।  

पुष्पमित्युपलक्षणम् ।
महाकालः ।

पीठमूर्त्त्योः प्रकुर्वीत धूपदीपानुलेपनैः ॥ ११-१४५३ ॥  

नैवेद्यैरुपहारैश्च गीतवाद्यादिभिस्तथा ।  

(यामले)

कुमारीपूजिता हन्ति कलुषं पूर्वसञ्चितम् ॥ ११-१४५४ ॥  

कुमारिकां विजानीयात् साक्षात् प्रकृतिरूपिणीम् ।  

प्। ११०१) पत्रं पुष्पं फलं तोयं यत्किञ्चिद्वस्तु शोभनम् ॥ ११-१४५५ ॥

अनन्तफलदं प्रोक्तं कुमार्यै चेत् समर्पयेत् ।  
भोजिता चेत् कुमारी स्याद्भोजितं भुवनत्रयम् ॥ ११-१४५६ ॥  

ब्राह्मणाय सुशीलाय कुमारीं यः समर्पयेत् ।  
पृथिवीदानजं पुण्यं सोऽश्नुते नात्र संशयः ॥ ११-१४५७ ॥  

स सर्वसिद्धिमाप्नोति यः कुमारीं समर्चयेत् ।  
वसन्ति सततं देहे कुमार्या योगिनीगणाः ॥ ११-१४५८ ॥  

अतः पूज्या नमस्या सा लालनीया तदिच्छया ।  
अशक्त्या पूजयेदेकां कुमारीं साधकोत्तमः ॥ ११-१४५९ ॥  

विना कुमरिकापूजां न पर्वं परिहापयेत् ।  
यो नित्यमर्चयेदेतां तस्य स्यात् सिद्धिरुत्तमा ॥ ११-१४६० ॥  

नवरात्रे समायाते नवम्यन्तं निशातधीः ।  
नानोपहारैरभ्यर्च्य कुमारीं वृद्धिपूर्वकम् ॥ ११-१४६१ ॥  

वृद्धिक्रमेण प्रयजेद्वाञ्छितां सिद्धिमाप्नुयात् ।  
अथवा पूजयेन्मन्त्री युवतीर्नव सङ्ख्यकाः ॥ ११-१४६२ ॥  

हृल्लेखा गगना रक्ता महासूक्ष्मा करालिका ।  
इच्छा ज्ञाना क्रिया दुर्गा नवनामभिरीताः ॥ ११-१४६३ ॥  

पूर्ववत् पूजयेन्मन्त्री जपेत् साग्रं सहस्रकम् ।  
यदि सा क्षोभमायाति स्वयमेव विलासिनी ॥ ११-१४६४ ॥  

तया सह नयेद्रात्रिं वासरं वा निशातधिः ।  
कुमारीं न स्पृशेदेव भावयुक्तेन चेतसा ॥ ११-१४६५ ॥  

अन्यथा मृत्युमाप्नोति नो चेद्देवी पराङ्मुखी ।  

(महाकालसंहितायाम्)

एवं दोषगुणौ ज्ञात्वा कुर्वीत विधिपूर्वकम् ॥ ११-१४६६ ॥  

प्। ११०२) कुमारीपूजनं भक्त्या शरत्पूजनकर्मणि ।
बलिहोमादयश्चास्य कलां नार्हन्ति षोडशीम् ॥ ११-१४६७ ॥

इति कुमारीपूजाविधिः ।

अथ शिवाबलिः ।

(कुलचूडामणौ)

विल्वमूले प्रान्तरे वा श्मशाने वाऽपि साधकः ।  
मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् ॥ ११-१४६८ ॥  

(महाकालसंहितायाम्)

पुराद्बहिर्निशाकाले महारण्यसमीपतः ।  
गृहीत्वा भक्ष्यवस्तूनि पूजासम्भृतिमप्युत ॥ ११-१४६९ ॥  

आप्तैरनुगतो द्वित्रैः प्रदद्यात् फेरवीबलिम् ।  
आमानि पक्वान्यपि च मांसानि विधिनाऽर्पयेत् ॥ ११-१४७० ॥  

तत्रोदीचीदिग्वदनो वीतभीः शुचिरूर्जितः ।  
प्राणायामं षडङ्गं च विधायार्घं प्रपूज्य वै ॥ ११-१४७१ ॥  

उत्थाय मुक्तचिकुरः शिवा आकारयेच्छनैः ।  

(कुलचूडामणौ)

कालि कालीति वक्तव्यं तत्र सा शिवरूपिणी ॥ ११-१४७२ ॥  

पशुरूपा समायाति परिवारगणैः सह ।  
भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुखरम् ॥ ११-१४७३ ॥  

तदैव मङ्गलं तस्य नान्यथा कुलभूषण ।  
अवश्यमन्नदानेन तोषयेन्नियतं शिवाम् ॥ ११-१४७४ ॥  

नित्यश्राद्धं यथासन्ध्यावन्दनं पितृतर्पणम् ।  
तथेयं कुलदेवीनां नित्यता कुलपूजने ॥ ११-१४७५ ॥  

पशुरूपां शिवां देवीं यो नार्चयति निर्जने ।  
शिवारावेण तस्याशु सर्वं नश्यति निश्चितम् ॥ ११-१४७६ ॥  

प्। ११०३) जपपूजाविधानानि यत्किञ्चित्सुकृतानि च ।
गृहीत्वा शापमासाद्य शिवा रोदिति निर्जने ॥ ११-१४७७ ॥

एकया त्वश्यते यत्र शिवया देव भैरव ।  
तत्रैव सर्वशक्तीनां प्रीतिः परमदुर्लभा ॥ ११-१४७८ ॥  

पशुशक्तिर्नरे शक्तिः पक्षिशक्तिश्च भैरव ।  
पूजिता विगुणं कर्म सगुणं कारयेद्यतः ॥ ११-१४७९ ॥  

तेन सर्वप्रयत्नेन कर्त्तव्यं पूजनं महत् ।  
राजादिभयमापन्नं देशान्तरभयादिकम् ॥ ११-१४८० ॥  

शुभाशुभानि कर्माणि विचिन्त्य बलिमाहरेत् ।  
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ॥ ११-१४८१ ॥  

शुभाशुभफलं व्यक्तिं ब्रूहि गृह्ण बलिं तव ।  
एवमुच्चार्य दातव्यो बलिः कुलजनप्रिये ॥ ११-१४८२ ॥  

(महाकालसंहितायाम्)

स्थानादस्मादपसरेत् किञ्चिद्दूरतरं प्रिये ।  
शिवा यथा वीतभया आगच्छन्त्यन्नसन्निधौ ॥ ११-१४८३ ॥  

तत्र स्थित्वा निरीक्षेत किं किं ता भक्षयन्ति हि ।  
सर्वा आगत्य चेत् सर्वं प्रदत्तं भक्षयन्ति हि ॥ ११-१४८४ ॥  

विनिर्दिशेत् सर्वसिद्धिं राज्यलाभं धनागमम् ।  
यद्यत् ता भक्षयन्त्यन्नं तत्तत् फलमवाप्नुयात् ॥ ११-१४८५ ॥  

यद्यच्च नैव खादन्ति तत्तन्नैव फलं लभेत् ।  
कुमारीपूजनादौ तु विशेषोऽस्योपवर्णितः ॥ ११-१४८६ ॥  

तेन नात्र ब्रुवे देवि ग्रन्थाधिक्यभयादपि ।  
कुमारीरूपमास्थाय यथाऽयाति महेश्वरी ॥ ११-१४८७ ॥  

प्। ११०४) शिवारूपं तथा कृत्वा स्वयमायाति कालिका ।
ततो भक्तिः प्रकर्तव्या तासु यत्नेन साधकैः ॥ ११-१४८८ ॥

शिवासु भक्षयन्तीषु सर्वेभ्यो बलिमाहरेत् ।
संहारभैरवायादौ वटुकेभ्यस्ततः परम् ॥ ११-१४८९ ॥

विनायकेभ्यो मातृभ्यः क्षेत्रपालेभ्य एव च ।  
योगिनीभ्यो डाकिनीभ्यः शिवदूतीभ्य एव च ॥ ११-१४९० ॥  

पुरोक्तो मन्त्र आसिद्धिं तेन तेन बलिं हरेत् ।  
महदैश्वर्यमाप्नोति निःशेषं भक्षयन्ति चेत् ॥ ११-१४९१ ॥  

अर्धे तु मध्यमा सिद्धिरभक्षे तु विपद्भवेत् ।  

(कुलचूडामणौ)

यदि नो गृह्यते वत्स तदा नैव शुभं भवेत् ॥ ११-१४९२ ॥  

शुभं यदि भवेत् तत्र भक्ष्यते तदशेषतः ।  

(महाकालसंहितायाम्)

खादितोत्थया तिष्ठत्सु शिवावृन्देषु तत्र हि ॥ ११-१४९३ ॥  

दण्डवत् प्रणमेत् सर्वाः स्वेष्टदेवीधिया स्वयम् ।  
पुष्पाञ्जलिं समादाय गन्धचन्दनचर्चितम् ॥ ११-१४९४ ॥  

उत्थाय मुक्तचिकुरो मीलिताक्षो दिगम्बरः ।  
भक्तिशाली वीतभयः किञ्चित्प्रणतकन्धरः ॥ ११-१४९५ ॥  

स्तुतिं कुर्यात् स्तवैरेतैर्वरप्रार्थनपूर्वकम् ।  
शिवारूपधरे देवि गुह्यकालि नमोऽस्तु ते ॥ ११-१४९६ ॥  

उल्कामुखि ललज्जिह्वे घोररावे शृगालिनि ।  
श्मशानवाशिनि प्रेते शवमांसप्रियेऽनघे ॥ ११-१४९७ ॥  

अरण्यचारिण्यनघे शिवे जम्बुकरूपिणि ।  
नमोऽस्तु ते महामाये जगत्तारिणि कालिके ॥ ११-१४९८ ॥  

प्। ११०५) मातङ्गि कुक्कुटे रौद्रि महाकालि नमोऽस्तु ते ।
सर्वसिद्धिप्रदे भीमे भयङ्करि भयापहे ॥ ११-१४९९ ॥

प्रसन्ना भव देवेशि मम भक्तस्य चण्डिके ।  
संसारसागरतरे जय सर्वशुभङ्करि ॥ ११-१५०० ॥  

विस्रस्तचिकुरे चण्डि चामुण्डे मुण्डमालिनि ।  
संहारकारिणि क्रुद्धे सर्वसिद्धिं प्रयच्छ मे ॥ ११-१५०१ ॥  

दुर्गे किराति शवरि प्रेतासनगतेऽभये ।  
अनुग्रहं कुरु सदा कृपया मां विलोकय ॥ ११-१५०२ ॥  

राज्यं प्रयच्छ विकटे वित्तमायुः सुतान् स्त्रियम् ।  
शिवाबलिप्रदानेन त्वं प्रसन्ना भवेश्वरि ॥ ११-१५०३ ॥  

नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमोऽस्तु ते ।  
इत्येतैरष्टभिः श्लोकैः शिवास्तोत्रमुदीरयेत् ॥ ११-१५०४ ॥  

ततस्तच्छेषमन्नं यद्भाजनं चान्यदेव वा ।  
सर्वं हि निखनेद्भूमौ प्रयत्नेनैव पार्वति ॥ ११-१५०५ ॥  

यदि काकाः खराः श्वानो ये चान्ये पापजातयः ।  
भक्षयन्ति तदुच्छिष्टं तदा विघ्नः प्रजायते ॥ ११-१५०६ ॥  

रात्रावेव समागच्छेन्निर्भयो विपिनान्तरात् ।  

इति शिवाबलिविधिः ।

अथ कृत्यशेषमाह ।

आगत्य गन्धपुष्पाद्यैः पुनर्देवीं प्रपूजयेत् ॥ ११-१५०७ ॥  

तथा ।

ततः प्रदक्षिणीकृत्य पतित्वा दण्डवद्भुवि ।  
भक्तिनम्रः स्तुतिं जल्पेत् काकुगद्गदया गिरा ॥ ११-१५०८ ॥  

अलिका नासिका बाहू वक्षो जठरमेव च ।  

प्। ११०६) पादौ क्ष्मां स्पर्शतो दण्डप्रणामः स हि गद्यते ॥ ११-१५०९ ॥

आयुर्देहि यशो देहि भगं भगवति देहि भे ।  
पुत्रान् देहि धनं देहि कामान् सर्वा।श्च देहि मे ॥ ११-१५१० ॥  

प्रचण्डे पुत्रदे नित्यं सुप्रीते सुरनायिके ।  
कुलोद्योतकरे चोग्रे जयं देहि नमोऽस्तु ते ॥ ११-१५११ ॥  

उग्रचण्डे प्रचण्डासि प्रचण्डबलनाशिनि ।  
नमस्ते सर्वदा देवि विश्वेश्वरि नमोऽस्तु ते ॥ ११-१५१२ ॥  

दुर्गोत्तारिणी दुर्गे त्वं सर्वाशुभनिषूदनि ।  
धर्मार्थमोक्षदे देवि नित्यं मे वरदा भव ॥ ११-१५१३ ॥  

दुर्गे देवि महाभागे त्राहि मां शरणागतम् ।  
महिषासृङ्मदोन्मत्ते प्रणतोऽस्मि प्रसीद मे ॥ ११-१५१४ ॥  

हर पापं हर क्लेशं हर शोकं हराशुभम् ।  

हर रोगं हर क्षोभं हर मानं हर प्रिये ॥ ११-१५१५ ॥

कालि कालि महाकालि कालिके पापहारिणि ।
धर्मकामप्रदे देवि नारायणि नमोऽस्तु ते ॥ ११-१५१६ ॥

सङ्ग्रामे विजयं देहि धनं देहि सदा गृहे ।  
धर्मकामर्थसम्पत्तीर्देहि देवि नमोऽस्तु ते ॥ ११-१५१७ ॥  

महिषघ्नि महामाये चामुण्डे मुण्डमालिनि ।  
आयुरारोग्यविजयं देहि देवि नमोऽस्तु ते ॥ ११-१५१८ ॥  

आयुर्ददातु मे काली पुत्रानपि सदाशिवा ।  
अर्थकामौ महामाया विभवं सर्वमङ्गला ॥ ११-१५१९ ॥  

शिरो मे चण्डिका पातु कण्ठं पातु सुरेश्वरी ।  
हृदयं पातु चामुण्डा सर्वतः पातु कालिका ॥ ११-१५२० ॥  

प्। ११०७) ब्रह्माणी चैव कौमारी वाराही वैष्णवी तथा ।
माहेश्वरी नारसिंही इन्द्राणी शिवदूत्यपि ॥ ११-१५२१ ॥

महाकाली च चामुण्डा भैरवी कौशिकी तथा ।  
उग्रचण्डा च प्रचण्डा च चण्डोग्रा चण्डनायिका ॥ ११-१५२२ ॥  

चण्डा चण्डवती चैव अतिचण्डा च चण्डिका ।  
एताश्चान्याश्च रुद्राणि यास्ते तिष्ठन्ति शक्तयः ॥ ११-१५२३ ॥  

ताभिः सहैव मां रक्ष सङ्ग्रामे सङ्कटे तथा ।  
नानापुराणवाक्येन नानादेवर्षिभाषितैः ॥ ११-१५२४ ॥  

सदाशिवाज्ञया चापि त्वमेव शरणं मम ।  
त्वां विहायेतरां नैव संश्रये देवतां शिवे ॥ ११-१५२५ ॥  

अतः परं यदुचितं तत् कर्त्तुं मातरर्हसि ।  
आध्याकुलं च दारिद्र्यं रोगं शोकं च दारुणम् ॥ ११-१५२६ ॥  

बन्धुस्वजनवैराग्यं दुर्गे त्वं हर दुर्गतिम् ।  
राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा ॥ ११-१५२७ ॥  

प्रभुत्वं तस्य सामर्थ्यं यस्य त्वं मस्तकोपरि ।  
धन्योऽहं कृतकृत्योऽहं सफलं जीवितं मम ॥ ११-१५२८ ॥  

अगताऽसि यतो दुर्गे माहेश्वरि ममालयम् ।  
अर्घ्यं पुष्पं च नैवेद्यं धूपं दीपं बलिं तथा ॥ ११-१५२९ ॥  

गृहाण वरदे देवि कल्याणं कुरु सर्वदा ।  
कृत्वैवं विधिना दण्डप्रणामस्तुतिपूर्वकम् ॥ ११-१५३० ॥  

पूजां समर्पयेद्देव्यै गृहीत्वा पाणिना जलम् ।  
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ॥ ११-१५३१ ॥  

यदर्चितं मया देवि परिपूर्णं तदस्तु मे ।  

प्। ११०८) गृहीतुं शारदीं पूजां मर्त्त्यमण्डलमागताम् ॥ ११-१५३२ ॥

चण्डिके त्वां नमाम्यद्य पूजेयं प्रतिगृह्यताम् ।  
कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ॥ ११-१५३३ ॥  

अन्तश्चरसि भूतानां ज्ञात्री त्वं सर्वसाक्षिणी ।  
एतावत् कृत्यमुदितं शारदीयार्चनक्रमे ॥ ११-१५३४ ॥  

प्रातरारभ्य देवेशि रात्रेर्यामत्रयावधि ।  
शिवाबलिं कुमार्यार्चां प्रभूतं बलिमेव वा ॥ ११-१५३५ ॥  

हित्वाऽदस्त्रयमष्टम्यामयमेव विधिः प्रिये ।  
ततः प्रसादं देव्या यदवशिष्ठं भवेदनु ॥ ११-१५३६ ॥  

गन्धं पुष्पं च नैवेद्यं सिद्धं वाऽसिद्धमेव वा ।  
बन्धुभिः सह भुञ्जीत हास्यकौतुकपूर्वकम् ॥ ११-१५३७ ॥  

गीतनृत्यादिकं पश्चाद्देव्यग्रे विनियोजयेत् ।  
क्रीडां च ज्ञातिभिः सार्धं विदधीत विचक्षणः ॥ ११-१५३८ ॥  

एतावदशक्ता सङ्क्षिप्तपूजोक्ता (कालिकापुराणे)

सम्यक् कल्पोदिता पूजा यदि कर्त्तुं न शक्यते ।  
गन्धं पुष्पं च धूपं दीपं नैवेद्यमेव वा ॥ ११-१५३९ ॥  

अभावे तोयपुष्पाभ्यां तदभावे च भक्तितः ।  

सङ्क्षेपपूजा कथिता ����������������इति ॥  

इति नवमीकृत्यम् ।

अथ द्वितीयादिनवमीपर्यन्तं रेवन्तादिपूजाविधिः ।  

तदुक्तं (स्कन्दपुराणे)

शान्तये वृद्धयेऽश्वानामात्मनो विजया च ॥ ११-१५४० ॥  

द्वितीयादिनवम्यन्तं रेवन्तं पूजयेन्नृपः ।  

प्। ११०९) ग्रन्थान्तरे ।

आश्विनस्य सिते पक्षे नवमीं यावदेव हि ॥ ११-१५४१ ॥  

द्वितीयां तिथिमारभ्य पूजयेद्विविधार्हणैः ।  
रेवन्तमुच्चैःश्रवसं तुरङ्गानभिरक्षितान् ॥ ११-१५४२ ॥  

वर्द्धन्ते वाजिनस्तेन सर्वोपद्रववर्जिताः ।  

अभिरक्षितानिति रक्षणहेतुस्तद्विधिश्चोक्तः ।
(शालिहोत्रे)

अश्वयुजि शुक्लपक्षे द्वितीयादि सप्तरात्रं तु ॥ ११-१५४३ ॥  

वडवारूपेणैका स्वातिः सौरं रथं वहति ।  
सा भारेणाक्रान्ता क्रुद्धाऽन्यान्यान्निरीक्षते वाहान् ॥ ११-१५४४ ॥  

तेषां तेजः सत्त्वं बलं च कृत्स्नं निगृह्णाति ।  
सञ्जायन्ते रोगा महोपसर्गैः समन्विताः कष्टाः ॥ ११-१५४५ ॥  

तस्मात् स्वात्युपतापे वाजिषु पीडा भवेन्महती ।  
एवं च सप्तरात्रं स्वातेः सम्पात एव निर्दिष्टः ॥ ११-१५४६ ॥  

तत्र दीवाकरकिरणैरस्पृष्टा वाजिनो रक्ष्याः ।  
शालां ततोपलिप्तां मनोरमां वर्जितां च रविकिरणैः ॥ ११-१५४७ ॥  

नानाकारैः पुष्पैरलङ्कृतां धूपितां कुर्यात् ।  
तस्यां स्नातास्तुरगाः सुधूपिता अर्चिता द्वितीयायाम् ॥ ११-१५४८ ॥  

पुरुषैश्च शस्त्रहस्तैः सप्ताहं रक्षितव्यास्तु ।  

तथा ।

शुभेऽह्नि मुहूर्ते च क्ष्मापतिः सपुरोहितः ॥ ११-१५४९ ॥  

कृतमङ्गलसंस्कारान् वाहान् शालां प्रपूजयेत् ।  

ज्योतिःशास्त्रेऽपि ।

स्वाती नाम रवेः पत्नी वरदा रूपिणी रथम् ॥ ११-१५५० ॥  

वहन्ती साऽश्विने मासि सूर्यरश्मिसमाश्रिता ।  

प्। १११०) सप्ताऽहं पीडयेदश्वा।स्ततः स्नानार्चितान् गृहे ॥ ११-१५५१ ॥

रेवन्तं पूजयित्वाऽथ बद्ध्वा पोटलिकां गले ।  

तथा ।

शुक्लपक्षे द्वितीयायां शालां संवेष्ट्य रक्षयेत् ॥ ११-१५५२ ॥  

आदित्यरश्मितो वाहान् कटैर्वस्त्रादिकैस्तथा ।  
अस्तं गते दिनकरे कटादीनपकर्षयेत् ॥ ११-१५५३ ॥  

प्रवातार्थं पुनर्दद्याद्यावत् सन्ध्या न जायते ।  
शालाप्रवेशविहितां रक्षां कण्ठे प्रदापयेत् ॥ ११-१५५४ ॥  

लोहकं निम्बपत्राणि गुग्गुलं सर्षपान् घृतम् ।  
चैलबद्धां वचां हिङ्गु बध्नीयाद्वाजिनां गले ॥ ११-१५५५ ॥  

घर्षणं भ्रामणं चैव तथा चैवापवर्त्तनम् ।  
निशाशेषे प्रकर्त्तव्यं यावद्दूरे दिवाकरः ॥ ११-१५५६ ॥  

एतत्प्रतिदिनं कुर्यात् सप्तरात्रमतन्द्रितः ।  
कारयेद्ब्राह्मणा।श्चैव शान्तिस्वस्त्ययनानि च ॥ ११-१५५७ ॥  

(ब्रह्मपुराणेऽपि)

शान्तिस्वस्त्ययने कार्ये तदा तेषां दिने दिने ।  
धान्यं भल्लातकं कुष्ठं वचां सिद्धार्थका।स्तथा ॥ ११-१५५८ ॥  

पञ्चरङ्गेन सूत्रेण कण्ठे तेषां तु बन्धयेत् ।  
वायव्यैर्वारुणैः सौरैः शाक्तैर्मन्त्रैः सवैष्णवैः ॥ ११-१५५९ ॥  

वैश्वदेवैस्तथाऽग्नेयैर्होमः कार्यो दिने दिने ।  
तुरगा रक्षणीयाश्च पुरुषैः शस्त्रपाणिभिः ॥ ११-१५६० ॥  

न च ताड्याः क्वचित् तत्र न च वाह्याः कदाचन ।  

(शालिहोत्रे)

शिरसि स्थापयेद्देवीं रेवन्तं पूजयेत् सदा ॥ ११-१५६१ ॥  

प्। ११११) तथा ।

नानाखाद्यनिवेद्यानि रेवन्ताय निवेदयेत् ॥  

तथा ।

वेदीं च कल्पयित्वा धुरि च विधानेन पावकं जुहुयात् ॥ ११-१५६२ ॥  

धुरि शालाशिरोभागे ।

सायं प्रातश्च शुचिः पुरोहितो ब्रह्मचारी स्यात् ।  
शालिहोत्रगदितेन मन्त्रेणानेन होमयेत् ॥ ११-१५६३ ॥  

रोहिताश्व महाभाग हव्यवाडमरोत्तम ।  
धूमध्वज क्रतुद्वार स्वर्गस्य प्रथितः पथि ॥ ११-१५६४ ॥  

उत्तिष्ठ होमं हृह्णेमं शान्तिरस्य हयेषु च ।  
स्वाहेति तत्र मन्त्रेण प्रापयेत् प्रथमाहुतिम् ॥ ११-१५६५ ॥  

ततः प्रजापतीन्द्राय सोमाय वरुणाय च ।  
विवस्वते कुवेराय सुषेणायाहिशालिने ॥ ११-१५६६ ॥  

आदित्येभ्यस्तथाऽश्विम्यां रुद्रेभ्यो वसुभिः सह ।  
विष्णोश्च विश्वदेवानां साध्यानां मरुद्भिः सहः ॥ ११-१५६७ ॥  

वासुकिप्रमुखानां च नागानां गरुडस्य च ।  
सर्वासां पौर्णमासीनां तिथीनां चैव सर्वशः ॥ ११-१५६८ ॥  

देवीनां नदीनां सागराणां वनस्पतीनाम् ।  
स्वाहाकारेण जुहुयात् तृतीयं च हुताशने ॥ ११-१५६९ ॥  

देवानामेव सर्वेषां स्वाहाकारेण होमयेत् ।  
दुर्बलानीह रक्षांसि प्रत्यूषे ब्रह्मतेजसा ॥ ११-१५७० ॥  

भवन्ति तस्मात् प्रत्यूषे स्वापयेत् पोषयेद्धयान् ।  
पुरोहितस्तु द्विः कालं तर्पयित्वा द्विजोत्तमम् ॥ ११-१५७१ ॥  

पुण्याहं कारयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् ।  

प्। १११२) नटनर्तकगन्धर्वाः सूतचारणमागधाः ॥ ११-१५७२ ॥

तुरगानुपतिष्ठेयुः सप्ताहं शान्तिकारणात् ।
मनोज्ञान् मधुरान् शब्दान् श्रुत्वा गच्छन्ति व ग्रहाः ॥ ११-१५७३ ॥

वादित्रं वाहनागारे तस्मान्नित्यं प्रयोजयेत् ।  
अतिक्रम्य च सप्ताहमष्टम्यां स्नापयेद्ध्यान् ॥ ११-१५७४ ॥  

वरुणाय बलिं दत्वा पश्चात् तोयेऽवगाहयेत् ।  

अष्टम्यामिति द्वितीयामारभ्याष्टमीतिथावित्यर्थः ।
ग्रन्थान्तरे ।

तानश्वान् समलङ्कृत्य वाजिशालां प्रवेश्य च ॥ ११-१५७५ ॥  

प्रतिमायां चित्रपटे स्थण्डिले मण्डलेऽथ वा ।  
नानोपचारसम्भारैः रेवन्तं देवमर्चयेत् ॥ ११-१५७६ ॥  

नमो देवाधिदेवाय तुरङ्गबलचारिणे ।  
सूर्यपुत्राय देवाय तुरङ्गानां हिताय च ॥ ११-१५७७ ॥  

तुरङ्गपरिषद्यस्य नृगजोपरि धावति ।  
साश्वमश्वाधिपं रक्ष शरणं त्वां व्रजाम्यहम् ॥ ११-१५७८ ॥  

इति पुष्पाञ्जलीं दत्वा रेवन्ताय बलिं हरेत् ।  

तथा ।

सूर्यपुत्र महावाहो छायाहृदयनन्दन ॥ ११-१५७९ ॥  

शान्तिं कुरु तुरङ्गानां रेवन्ताय नमोऽस्तु ते ।  
एवं स्तुत्वाऽथ विधिवदुच्चैःश्रवसमर्चयेत् ॥ ११-१५८० ॥  

(ब्रह्मपुराणे)

अश्वयुक्शुक्लपक्षे तु स्वातीयोगे सुशोभने ।  
पूर्वमुच्चैःश्रवा नाम प्रथमं सूर्यमावहत् ॥ ११-१५८१ ॥  

तस्मात् साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा ।  

प्। १११३) पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥ ११-१५८२ ॥

ग्रन्थान्तरे ।

उच्चैःश्रवो नमस्तुभ्यं नमः क्षीराब्धिनन्दन ।  
वाहान् वर्धय वाहेन्द्र सर्वोत्पातं विनाशय ॥ ११-१५८३ ॥  

एवं स्तुत्वोच्चैःश्रवसं तुरगान् पूजयेत् ततः ।  

नानोपचारैस्तेषां तु कर्णजापमिदं पठेत् ॥ ११-१५८४ ॥

गन्धर्वकुलजातोऽसि मा भूयाः कुलदूषकः ।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ ११-१५८५ ॥

तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ।  
रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ॥ ११-१५८६ ॥  

प्राभावाच्च हुताशस्य वर्त्तस्व त्वं तुरङ्गम ।  
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ॥ ११-१५८७ ॥  

सुरासुरैर्मथ्यमानात् क्षीरोदादमृतादिभिः ।  
जात उच्चैःश्रवा पूर्वं तेन जातोऽसि तत् स्मर ॥ ११-१५८८ ॥  

यां गतिं ब्रह्महा गच्छेत् पितृहा मातृहा तथा ।  
भूम्यर्थे नृतवादी च रणे यस्तु पराङ्मुखः ॥ ११-१५८९ ॥  

सूर्याचन्द्रमसौ वायुर्यावत् पश्यन्ति दुष्कृतम् ।  
व्रज त्वं तां गतिं क्षीप्रं तच्च पापं भवेत् ततः ॥ ११-१५९० ॥  

विकृतिं यदि गच्छेथा युद्धेऽध्वनि तुरङ्गम ।  
रिपून् विजित्य समरे भर्त्त्रा सह सुखी भव ॥ ११-१५९१ ॥  

तुरङ्गम चिरं जीव परशस्त्रैरलक्षितः ।  
सदा मां समरे रक्ष स्वामिकार्यं सदा कुरु ॥ ११-१५९२ ॥  

ज्योतिःशास्त्रे ।

नार्चयेज्जलजैः पुष्पैर्वाहनार्घविधिं प्रति ।  

प्। १११४) सौगन्धिकं विशेषेण तेषां दद्यान्न सर्वदा ॥ ११-१५९३ ॥

ग्रहहोमस्तु कर्त्तव्यो ग्रहाणामर्चनं तथा ।  
अनेन विधिना यस्तु करोति तुरगोत्सवम् ॥ ११-१५९४ ॥  

तस्य तुरङ्गनाथस्य न कदा चिद्भयं भवेत् ।  

गजपूजाऽप्युक्ता (ब्रह्मपुराणे)

ज्येष्ठायोगे पुरा तत्र गजाश्चाष्टौ महाबलाः ॥ ११-१५९५ ॥  

पृथिवीमवहन् पूर्वं सशैलवनकाननाम् ।  
कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः ॥ ११-१५९६ ॥  

सुप्रतीकोऽञ्जनो नीलस्तस्मात् ता।स्तत्र पूजयेत् ।  
शाक्रादृक्षात् समारभ्य नवम्यन्तं च पूर्ववत् ॥ ११-१५९७ ॥  

गजपुजामन्त्रस्तु ।

पान्तु वो बसवो रुद्रा आदित्याः समरुद्गणाः ।  
भर्त्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् ॥ ११-१५९८ ॥  

अवाप्नुहि जयं युद्धे समये स्वस्ति नो व्रज ।  
श्रीस्तु सोमाद्बलं कृष्णात् तेजः सूर्याज्जवोऽनिलात् ॥ ११-१५९९ ॥  

स्थैर्यं मेरोर्जयो रुद्राद्यशो देवात् पुरन्दरात् ।  
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ॥ ११-१६०० ॥  

अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतः सदा ।  

इति ज्योतिःशास्त्रे प्रोक्तः ।

इति रेवन्तादिपूजाविधिः ।

अथ शक्तिसङ्गमोक्ताः काम्यविशेषा लिख्यन्ते ।

नवरात्रव्रतासक्तो नवनाथो भवेद्ध्रुवम् ॥ ११-१६०१ ॥

गौडकाश्मीरद्रविडमार्गेण त्रिविधो भवेत् ।  
अष्टम्यन्तं जपः कार्यस्ततोऽष्टम्यां तु होमयेत् ॥ ११-१६०२ ॥  

अर्धरात्रे समायाता पूर्वविद्धाऽपि पार्वति ।  

प्। १११५) साऽष्टमी सर्वकार्याणां कर्त्त्री भवति निश्चितम् ॥ ११-१६०३ ॥

होमपूजादिकं तत्र कुर्याद्यत्नेन पार्वति ।  
द्वितीयदिवसे चेत् सा तदैवोपोषणं चरेत् ॥ ११-१६०४ ॥  

तथा ।

घटिकाः षोडश त्याज्या आद्याः प्रतिपदस्तु याः ।  
कलशस्थापनं कुर्यात् कल्याणं जायते तदा ॥ ११-१६०५ ॥  

नवम्यां पारणं कुर्याद्दशम्यां तु विसर्जनम् ।  
काश्मीराख्यं क्रमं देवि शृणु यत्नेन पार्वति ॥ ११-१६०६ ॥  

नवरात्रं निराहारो होमोऽष्टम्यां तथा भवेत् ।  
नवम्यां विप्रभोज्यं स्याद्दिग्वेधे पारणं चरेत् ॥ ११-१६०७ ॥  

नवरात्रं निराहारो निर्विकल्पं जितेन्द्रियः ।
अष्टमीनवमीसन्धौ होमकर्म समाचरेत् ॥ ११-१६०८ ॥

नवम्यां विप्रभोज्यं स्याद्दशम्यां पारणं चरेत् ।
केरलाख्यं क्रमः प्रोक्तो निर्णयं शृणु पार्वति ॥ ११-१६०९ ॥

तिथिक्षये तथा वृद्धौ यथोक्तेन तु वर्त्मना ।  
अष्टमीनवमीप्राप्तौ पूर्ववेधो न दूष्यति ॥ ११-१६१० ॥  

अष्टम्यामर्धरात्रे तु यत्किञ्चित् कुरुते नरः ।  
तत्तदक्षयमायाति नवदुर्गाप्रयोगतः ॥ ११-१६११ ॥  

एकोत्तरप्रविद्ध्या वा स्तोत्रं जापादिकं चरेत् ।  
प्रथमेऽह्नि जपो यावत् तावत् कुर्याच्च वा सुधीः ॥ ११-१६१२ ॥  

उदयास्तमयं जप्त्वा त्रैलोक्यविजयी भवेत् ।  
नवरात्रव्रते स्त्रीणां मृत्युयोगो भवेद्यदा ॥ ११-१६१३ ॥  

सैव देवी न सन्देहस्तां पूज्य विजयी कलौ ।  

प्। १११६) ताम्बूलागुरुकस्तूरीदिव्याम्बरविभूषणैः ॥ ११-१६१४ ॥

सूर्योदयं समारभ्य पुनः सुर्योदयान्तरम् ।  
तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ॥ ११-१६१५ ॥  

एकासनगतो भूत्वा नवरात्रं तु शाम्भवीम् ।  
मुद्रामालम्बयेद्देवि नवनाथाधिपो भवेत् ॥ ११-१६१६ ॥  

गुहायां मठिकायां वा निर्जने पर्वतेऽपि वा ।  
अधोमुखो वा देवेशि नवरात्रं निरम्बुभुक् ॥ ११-१६१७ ॥  

स्वमाच्छाद्य मृदा देवि तत्र संस्थापयेद्घटम् ।  

युवाङ्कुरान् समारोप्य शाम्भवीं मुद्रिकां चरेत् ॥ ११-१६१८ ॥

दृढासनी वाऽशयनी यथोद्दिष्टं समाचरेत् ।  
कापालिकावधूतानां व्रतमेतन्मयेरितम् ॥ ११-१६१९ ॥  

शाम्भवी मुद्रा तु (त्रिपुरासारसमुच्चये)

अथ पार्ष्णिनिरुद्धकम्बुनिर्ना ध्वजमूलस्थितसव्यपादपार्ष्णिः ।  
ऋजुकायशिरोधरो यतात्मा विषयेभ्यो विनिवर्तितेन्द्रियश्च ॥ ११-१६२० ॥  

काकीचञ्च्वग्रकृष्टैर्मुहूरुदरदरीं पूरयित्वा समीरै �  
रङ्गुष्ठाभ्यामुभाभ्यां नररिपुविवरे तर्जनीभ्यां च नेत्रे ।  
नासारन्धं निरुध्य स्थिरविमलमतिर्मध्यमाभ्यामथास्यं  
त्वन्याभिर्नातिगाढं कमलजनिलये स्थापयेन्मानसंस्वम् � इति ॥ ११-१६२१ ॥  

तथा (शक्तिसङ्गमे)

आज्ञा भवति देवेशि तदैवोपोषणं चरेत् ।  
आज्ञा यदि न जायेत तदा ग्रामाधिपस्य च ॥ ११-१६२२ ॥  

देशाधिपस्य विप्रस्य पूजकस्य स्त्रियस्तथा ।  
आज्ञां गृहीत्वा देवेशि वरं प्रार्थ्य सुखी भवेत् ॥ ११-१६२३ ॥  

भक्तप्रीता च सा दुर्गा स्वयमाज्ञां प्रयच्छति ।  

प्। १११७) वीरशाक्तविधानेन चण्डदर्पव्रतं चरेत् ॥ ११-१६२४ ॥

जिह्वां सन्त्रोट्य यत्नेन द्विवेदेषुरसाङ्गुलाम् ।  
जिह्वा सा पुनरायाति तेन सिद्धीश्वरो भवेत् ॥ ११-१६२५ ॥  

नवरात्रं समासाद्य महाष्टम्यां निशामुखे ।  
देवीं यत्नेन सम्पूज्य सङ्कल्पं कामनान्वितम् ॥ ११-१६२६ ॥  

शिरःपुष्पं कर्त्तयित्वा पूर्णं मध्यकनिष्ठतः ।  
यन्त्रे देवे निवेद्याथ शिवतुल्यो भवेद्ध्रुवम् ॥ ११-१६२७ ॥  

पुनः शिरः समायाति महाचीनवरः स तु ।  
अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु ॥ ११-१६२८ ॥  

नवरात्रं निराहारः श्रद्धाभक्तिसमन्वितः ।  
महाष्टम्यामर्धरात्रे अङ्गुष्ठान्मस्तकावधि ॥ ११-१६२९ ॥  

मासं सङ्कर्त्त्य यत्नेन यथोक्तं कुण्डमाचरेत् ।  
होमयेत् तत्र देवेशि देवीप्रत्यक्षतामियात् ॥ ११-१६३० ॥  

देवीदेहं भवेत् तद्धि नात्र कार्या विचारणा ।  
अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु ॥ ११-१६३१ ॥  

नवरात्रे निराहारो गुरुभक्तो महाव्रती ।  
कुण्डं पुरुषमात्रं तु कृत्वा तत्र विशङ्कितः ॥ ११-१६३२ ॥  

पञ्चपल्लवकाष्ठानां वह्निं तत्र समाचरेत् ।  
अङ्गुष्ठान्मस्तकं यावत् स्वदेहं होमयेद्व्रती ॥ ११-१६३३ ॥  

अग्निशय्यां च वा कृत्वा देवीं पश्यति निश्चितम् ।  
अर्चापरः क्रमेणैव लतागेहप्रवेशनात् ॥ ११-१६३४ ॥  

भवेत् कल्पलतातुल्यः साधको नात्र संशयः ।  
अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु ॥ ११-१६३५ ॥  

प्। १११८) नवरात्रं निर्विकल्पो निराहारो दृढव्रतः ।
यमुद्दिश्य क्रियां कुर्यात् तमेव वशमानयेत् ॥ ११-१६३६ ॥

कामबीजं साध्यनाम वशीकुर्विति चोच्चरेत् ।  
स्वाहामुच्चार्य देवेशि प्रदीप्ते जठरानले ॥ ११-१६३७ ॥  

होमयेद्यत्नतो देवि तद्गृहं वशमानयेत् ।  
अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु ॥ ११-१६३८ ॥  

नवरात्रं निराहारः सत्यवादी जितेन्द्रियः ।  
सहदेवीरसं गृह्य नवम्यां परमेश्वरि ॥ ११-१६३९ ॥  

पूर्वोक्तमनुना देवि पत्राण्यापिण्डमाहरेत् ।  
आजन्मान्तं वशीकुर्यात् तमेव सकुटुम्बकम् ॥ ११-१६४० ॥  

अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु ।  
नवरात्रं मौनयुक्तो वृक्षासनसमन्वितम् ॥ ११-१६४१ ॥  

पारणादिवसे प्राप्ते गोमुखं कारयेत् प्रिये ।  
पूर्वोक्तमनुना देवि होमयेज्जठरानले ॥ ११-१६४२ ॥  

स्वगेहे तत्त्वरात्रेण तद्गेहे दिवसत्रयात् ।  
आजन्मान्तं व�सं कुर्यान्महादेवाधिकं नरम् ॥ ११-१६४३ ॥  

अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु ।  
नवरात्रं निराहारो गुरुभक्तो महाव्रती ॥ ११-१६४४ ॥  

वामाङ्गुष्ठोपरि स्थित्वा वेदरात्रं महेश्वरि ।  
दक्षाङ्गुष्ठोपरि तथा वेदरात्रं महेश्वरि ॥ ११-१६४५ ॥  

नवम्यां पारणं कुर्याद्विल्वे पिण्डं प्रदापयेत् ।  
जगत्त्रयं वशीकुर्यान्नात्र कार्या विचारणा ॥ ११-१६४६ ॥  

अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु ।  

प्। १११९) नवरात्रं पर्यटन् वैरोचनासनसंयुतः ॥ ११-१६४७ ॥

होमं कुर्यान्महाष्टम्यां नवम्यां पारणं चरेत् ।  
सर्वस्वदानं कृत्वा तु त्रैलोक्यविजयी भवेत् ॥ ११-१६४८ ॥  

अथ वाऽन्यप्रकारेण प्रयोगः कथ्यते शृणु ।  
गोमूत्राशी महेशानि नवरात्रं महेश्वरि ॥ ११-१६४९ ॥  

यं कं चिद्वै जपेन्मन्त्रं नवम्यां होममाचरेत् ।  
नवम्यां पारणं कुर्याद्गोमुखेन महेश्वरि ॥ ११-१६५० ॥  

देवतादर्शनं भूयाद्रात्रौ स्वप्ने महेश्वरि ।  
अथवाऽन्यप्रकारेण प्रयोगं शृणु पार्वति ॥ ११-१६५१ ॥  

नवरात्रं जितग्रासो मौनव्रतधरः शुचिः ।  
निर्द्वन्द्वो निरहङ्कारः सत्यवादी महामतिः ॥ ११-१६५२ ॥  

राजाकर्षणकामश्चेद्राज्ञः सदनदिङ्मुखः ।  
पारणामिच्छया कुर्याद्रात्रिजापी सदा भवेत् ॥ ११-१६५३ ॥  

त्रैलोक्यं वशमायाति नात्र कार्या विचारण ।  

अथ दशमीकृत्यम् ।

तत्रैव ।

ततो दशम्यां निर्वाह्य स्नातो नित्यक्रियां निजाम् ॥ ११-१६५४ ॥  

यावच्छक्त्युपचारैस्तु पूजयेन्न्यासमुज्जहन् ।  
कृताञ्जलिः पठेत् पश्चाद्विसर्जनमनूनिमान् ॥ ११-१६५५ ॥  

विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।  
पूर्णं भवतु तत्सर्वं त्वत्प्रसादान्महेश्वरि ॥ ११-१६५६ ॥  

शक्नुवन्ति न ते पूजां कर्त्तुं ब्रह्मादयः सुराः ।  
अहं किं वा करिष्यामि मृत्युधर्मा नरोऽल्पधीः ॥ ११-१६५७ ॥  

न जानेऽहं तेऽम्ब रूपं न शरीरं न वा गुणान् ।  

प्। ११२०) एकामेव हि जानामि भक्तिं त्वच्चरणाब्जयोः ॥ ११-१६५८ ॥

तां भक्तिं हृदि सम्भाव्य शारद्यर्चां प्रगृह्य च ।  
गच्छ देवि निजस्थानं मह्यं दत्वा वरान् बहून् ॥ ११-१६५९ ॥  

एतान्मन्त्रान् समुच्चार्य चरलग्ने चरांशके ।  
प्रतिमां पत्रिकां वाऽपि चालयेत् पूजकः शनैः ॥ ११-१६६० ॥  

निर्माल्येन ततो देव्याः पूजयेत् कलशोपरि ।  
निर्माल्यवासिनीं देवीं ङेन्तां नमः पदेन हि ॥ ११-१६६१ ॥  

प्रदर्श्य योनिमुद्रां च ऐशान्यां दिशि निःक्षिपेत् ।  
निर्माल्यं भगवत्यास्तच्चण्डेश्वर्ये नमो वदन् ॥ ११-१६६२ ॥  

मृन्मूर्त्तिं पत्रिकां वाऽपि जलेऽगाधे विनिःक्षिपेत् ।  
स्रोतस्यथो मज्जयित्वा नदीवेगेन हारयेत् ॥ ११-१६६३ ॥  

पीठमूर्ती स्वके स्थाने चालयित्वा निवेशयएत् ।  
चालने यन्मनुद्वन्द्वं तदिदानीं निशामय ॥ ११-१६६३ ॥  

उत्तिष्ठ देवि चामुण्डे शुभां पूजां प्रगृह्य मे ।  
कुरुष्व मम कल्याणमष्टाभिः शक्तिभिः सह ॥ ११-१६६४ ॥  

गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके ।  
यत् पूजितं मया देवि परिपूर्णं तदस्तु ते ॥ ११-१६६५ ॥  

गम्यतामर्थलाभाय क्षेमाय विजयाय च ।  
शत्रोर्दर्पविनाशाय पुनरागमनाय च ॥ ११-१६६६ ॥  

व्रजत्वं स्रोतसि जले मद्गेहे तिष्ठ भूतये ।  
आगामिवत्सरे च त्वं पुनरायास्यसि ध्रुवम् ॥ ११-१६६७ ॥  

इति देवीं चालयित्वा मनुना कथयिष्यता ।  
महावाद्यरवं कुर्यान्नभोदिक्पूरि सर्वतः ॥ ११-१६६८ ॥  

प्। ११२१) तारत्रपारुषश्चैव शाकिनी डाकिनी तथा ।
चामुण्डे चल युग्मं च चालय द्वितयं तथा ॥ ११-१६६९ ॥

कूर्चास्रानलकान्ताभिर्मनुश्चालनकर्मणि ।  
शङ्खतूर्यनिनादैश्च मृदङ्गैः पटहैस्तथा ॥ ११-१६७० ॥  

ढक्काभेरीझर्झरैश्च पणवानकगोमुखैः ।  
तालवादित्रवीणाभिरातोद्यैर्डिण्डिमैरपि ॥ ११-१६७१ ॥  

मुरजैर्वेणुभिर्हिड्कैस्तालमानलयान्वितैः ।  
धूलीकर्दमविक्षपैः क्रीडाकौतुकमङ्गलैः ॥ ११-१६७२ ॥  

वेशयुग्वेशनिचयैर्विविधैः शावरोत्सवैः ।  
भगलिङ्गाभिधानैश्च भगलिङ्गप्रगीतकैः ॥ ११-१६७३ ॥  

भगलिङ्गक्रियाशब्दैर्वेशचेष्टाभिरुक्तिभिः ।  
विसर्जनस्यावसरे क्रीडितव्यं निजेच्छया ॥ ११-१६७४ ॥  

कार्यं जरद्भिरप्येतद्देवीसन्तोषहेतवे ।  

परैर्वा क्षिप्यते यस्तु यः परान् नाक्षिपत्यपि ॥ ११-१६७५ ॥

तस्य क्रुद्धा भगवती शापं दद्यात् सुदारुणम् ।  
एतत्प्रासङ्गिकीं देव्या उक्तिं समवधारय ॥ ११-१६७६ ॥  

ममानन्दे सदानन्दः सदानन्दो भविष्यति ।  
ममानन्दे निरानदो निरानन्दो भविष्यति ॥ ११-१६७७ ॥  

यथा यथा ममानन्दे भवत्युन्मत्तवज्जनः ।  
तथा तथाऽहं तुष्यामि तत्कृतार्चासु वल्लभ ॥ ११-१६७८ ॥  

ख्यातं मम भगं चिह्नं लिङ्गं चिह्नं तव प्रभो ।  
लिङ्गाङ्कत्वाद्भगाङ्कत्वादियं माहेश्वरी प्रजा ॥ ११-१६७९ ॥  

त्वां मां विहाय नैवान्यत् किञ्चित् त्रिभुवनोदरे ।  

प्। ११२२) तस्मान्मत्पूजनस्यान्ते त्वन्मच्चिह्नोक्तिभिर्जनः ॥ ११-१६८० ॥

यः क्रीडति महाभाग स मे मनसि तिष्ठति ।  
अकुर्वाणोऽपि सुरतं भगं भगमिति ब्रुवन् ॥ ११-१६८१ ॥  

लिङ्गं लिङ्गमिति प्रोच्य मां तोषयति तत्क्षणात् ।  
रेतःसिक्तं भवेद्यादृक् तादृश्यत्र प्रजायते ॥ ११-१६८२ ॥  

भगं त्रिजगतां स्रष्ट्ट को वा निन्दितुमर्हति ।  
इत्यादिवचनैर्देव्या यथेष्टं विहिरेज्जनः ॥ ११-१६८३ ॥  

उपस्थयोनिभजनशब्दैस्तत्तत्क्रियान्वितैः ।  
ततो नित्योदकाभ्यासं स्वयमम्भः प्रविश्य च ॥ ११-१६८४ ॥  

पत्रिकां मृन्मयीं मूर्तिं तदन्तः स्थापयेच्छनैः ।  
निमज्ज्याम्भसि सम्पूज्य पत्रिकां वर्जितां जले ॥ ११-१६८५ ॥  

मया देवि वरान् दत्वा ततो गच्छेन्निजालयम् ।  
इत्यनेन तु मन्त्रेण देवीं संस्थापयेज्जले ॥ ११-१६८६ ॥  

पीठमूर्त्योरिदं कर्म न कार्यं त्रिदशेश्वरि ।  
ततः सर्वैर्जनैः सार्धं जलक्रीडां समाचरेत् ॥ ११-१६८७ ॥  

निमज्जनोन्मज्जनैश्च तथा पिञ्जलताम्बुभिः ।  
अन्यैर्जलविहारैश्च क्षणं कौतुकमाचरेत् ॥ ११-१६८८ ॥  

प्रदद्याद्दक्षिणां पूजां कारयित्वा स्वभक्तितः ।  
हिरण्यं रजतं धेनुं भूमिं वासांसि मन्दिरम् ॥ ११-१६८९ ॥  

यावच्छक्यं च यच्छक्यं दातव्यं दक्षिणां ततः ।  
यानि देव्यै प्रदत्तानि महोपकरणान्यपि ॥ ११-१६९० ॥  

विभज्य तानि सर्वेभ्यो दातव्यानीति निश्चयः ।  

पूजाफलान्याह ।

एवमुक्तप्रकारेण कृत्वा शारदपूजनम् ॥ ११-१६९१ ॥  

प्। ११२३) यदाप्नोति फलं देवि तदिदानीं निशामय ।
सप्तलोकोपरि शिवे वैकुण्ठो लोक उच्यते ॥ ११-१६९२ ॥

तदूर्ध्वं शिवलोको हि गोलोकस्तदनन्तरम् ।  
तस्योपरि प्रियतमे देवीलोको विराजते ॥ ११-१६९३ ॥  

योजनानां कोटिशतं विस्तीर्णं तावदायतम् ।  
विभवा वा गुणा यस्य मम वाचामगोचराः ॥ ११-१६९४ ॥  

कल्पकोटिशतं साग्रं तत्रायं वसति प्रिये ।  
अव्याहतगतिर्भूत्वा षडानन इवापरः ॥ ११-१६९५ ॥  

त्रिलोकीं विचरत्येष द्वितीयो द्विरदाननः ।  
यदीहावतरत्येष कदाचित् कालपर्ययात् ॥ ११-१६९६ ॥  

शतसंवत्सरायुः स्यात् समस्तपृथिवीपतिः ।  
तेजसा सूर्यसदृशः कान्त्या चन्द्रमसा समः ॥ ११-१६९७ ॥  

कुवेरसन्निभो वित्ते क्षमया क्षमया समः ।  
स्थैर्ये सुमेरुणा तुल्यो गाम्भीर्ये सागरोपमः ॥ ११-१६९८ ॥  

विद्यया वाक्पतिसमः सौन्दर्ये मन्मथोपमः ।  
प्रियंवदो विनीतश्च दाताऽमितपराक्रमः ॥ ११-१६९९ ॥  

किं बहूक्तेन देवेशि यावन्तो हि गुणाः स्मृताः ।  
तमेकं संश्रयन्ते हि समुद्रं सरितो यथा ॥ ११-१७०० ॥  

प्रत्येकमस्या बाहुल्यं वर्त्तते फलसम्भवे ।  
न विस्तरभयाद्वच्मि डामरेषु तदीरितम् ॥ ११-१७०१ ॥  

न तादृशं फलं किञ्ञ्चिद्यन्न स्याच्छारदार्चनात् ।  

ततोऽपराजितां सम्पूज्य यात्रां कुर्यात् । तदुक्तं (निर्णयामृते) पुराणान्तरे ।

दशम्यां पूजयित्वा तु मृन्मयीं वाऽपराजिताम् ॥ ११-१७०२ ॥  

प्। ११२४) कलशं तोयसम्पूर्णं जयन्तीपल्लवाननम् ।
चतुर्वर्णैस्तदा यात्रा कर्त्तव्या साधनेन च ॥ ११-१७०३ ॥

दशम्यां च बली राजा पूजयित्वाऽपराजिताम् ।  
दशदिक्षु मनोयोगाद्यात्रां कृत्वाऽथ वा नृपः ॥ ११-१७०४ ॥  

नीराजनं स्वस्य कृत्वा ततो नीराजयेद्बलम् ।  

नीराजनमन्त्रस्तत्रैव ।

चतुरङ्गबलं मह्यं सुस्थिरत्वं व्रजत्विह ॥ ११-१७०५ ॥  

विजयो मम सर्वत्र अस्तु मेऽग्निप्रसादतः- इति ॥  
सर्वत्र विजयो मेऽस्तु त्वत्प्रसादात् सुरेश्वरि � इति (कृत्यरत्ने)  

अपराजितापूजने सङ्क्षिप्तप्रकारस्तु अपराह्णे ईशानोदिशमाश्रित्य सीमानमुल्लङ्घ्य �

अद्याश्विनशुक्लदशम्यां क्षेमसिद्ध्यर्थमपराजितापूजां करिष्ये �
इति सङ्कल्प्य कलशेऽष्टदलपद्मयन्त्रमध्ये � अपराजितायै नमः � इत्यपराजिताम् ।
तद्दक्षिणे � क्रियाशक्त्यै नमः � इति जयाम् ।
वामे � उमायै नमः � इति विजयां चावाह्य ।
ॐ अपराजितायै नमः । ॐ जयायै नमः । ॐ विजयायै नमः ।
इति मन्त्रैः सम्पूज्य प्रणम्य ।

इमां पूजां मया देवि यथाशक्ति निवेदितम् ।

रक्षार्थं तु समादाय व्रज स्वस्थानमुत्तमम् � इति विसर्जयेत् ॥

(महाकालसंहितायाम्)

अथ नीराजनं राजाऽपराह्णे विदधीत वै ॥ ११-१७०६ ॥  

विचित्रवेशवसनः सह स्वजनबान्धवैः ।  
चूडामणि परिस्फूर्यत्कीरीटकुण्डलोज्ज्वलः ॥ ११-१७०७ ॥  

लसत्प्रालम्बिको मुक्तामाली कटकमण्डितः ।  

प्। ११२५) केयूरी शृङ्खली तद्वदङ्गुलीयकभूषितः ॥ ११-१७०८ ॥

उष्णषी बद्धनिस्त्रिंशश्चर्चितो मलयद्रवैः ।  
चन्द्रकुङ्कुमकस्तूरीविलेपनसुवासितः ॥ ११-१७०९ ॥  

नानाविषयजानश्वान् भूषाभिः परिबृंहयेत् ।  
गान्धरजानुत्तरजान् पारसीकोद्भवानपि ॥ ११-१७१० ॥  

काम्बोजवानायुभवान् वाल्हीकमणिमन्थजान् ।  
युक्ता।स्तदीयभूषाभिः कुथाभिरुपशोभितान् ॥ ११-१७११ ॥  

एवमेव गजेन्द्रा।श्च कुथघण्टाङ्कुशोज्ज्वलान् ।  
कलिङ्गजङ्गलभवा।श्चेदितैलङ्गसम्भवान् ॥ ११-१७१२ ॥  

एवं रथानपि व्यूहे तदुपस्करसंयुतान् ।  
पदाती।श्च भटा।श्चापि नानाप्रहरणान्वितान् ॥ ११-१७१३ ॥  

कोदण्डशरनिस्त्रिंशशूलपट्टीशतोमरान् ।  
गदापरिघचक्रर्ष्टिभुशुण्डीपाशकौरजान् ॥ ११-१७१४ ॥  

भिन्दिपालहुताशक्तिपर्शुकुन्ताहिमुद्गरान् ।  
खट्वाङ्गवज्रमुशलपाशायोगुडकर्त्तरीः ॥ ११-१७१५ ॥  

शतघ्नोशल्यकुद्दालक्रकचच्छुरिकास्तथा ।  
एतान्यन्यानि चास्त्राणि दधतः स्फुरितौजसः ॥ ११-१७१६ ॥  

चतुरङ्गबलं चेत्थं कृत्वाऽग्रेसरमीश्वरि ।  
नानाविधैर्वाहनैश्च पौरजानपदानपि ॥ ११-१७१७ ॥  

वादित्राणि च सर्वाणि वादयित्वा विशेषतः ।  
महाकोलाहलं कृत्वा समराभिप्रयाणवत् ॥ ११-१७१८ ॥  

जय जीवेति निनदैः स्तूयमानो महीपतिः ।  
विनिर्गच्छेत् पुरात् स्वीयादनुकूलां दिशं प्रति ॥ ११-१७१९ ॥  

प्। ११२६) ब्राह्मणानग्रतः कृत्वा ताम्बूलं चर्वयन्मुहुः ।
नटान् मल्लान् वन्दिनश्च शिल्पिनो गणिकास्तथा ॥ ११-१७२० ॥

दैवज्ञान् वणिजो दूतानन्यान् वै देशिकानपि ।  
विलोकयन् हृष्टमना एतेभ्यः पारितोषिकम् ॥ ११-१७२१ ॥  

ददन्नुत्साहसंयुक्तो विजिगीषुरिव व्रजेत् ।  
एतन्नीराजनं नाम घटनाया बलास्त्रयोः ॥ ११-१७२२ ॥  

अथ खञ्जनादिदर्शनविधिस्तत्रैव ।

एतत् कृत्व महीपालो भूषितस्तेन चान्वितः ।  
खञ्जनं सारसं चाषं प्रयत्नेन विलोकयेत् ॥ ११-१७२३ ॥  

अनूपकच्छगोष्ठानगोविडम्बुरुहादिषु ।  
स्थितो रुवन् विधुन्वानः पक्षती खञ्जनः शुभः ॥ ११-१७२४ ॥  

मङ्गल्यं खञ्जनं दृष्ट्वा मध्यस्थाने मनोरमे ।  
शुभं स्यादशुभं ज्ञेयं विपरीतेन संशयः ॥ ११-१७२५ ॥  

वृक्षेषु गोषु गजवाजिमहोरगेषु
राज्यप्रदः कुशलदः शुचिशाद्वलेषु ।
भस्मास्थिकाष्ठतुषलोमतृणेषु दृष्टो �
ऽरिष्टं ददाति बहुशः खलु खञ्जरीटः ॥ ११-१७२६ ॥

तस्मिन् निधिर्भवति मैथुनमेति यस्मिन्
यस्मिन् पुनर्वसति तत्र दिशन्ति काचम् ।
अङ्गारमप्युपदिशन्ति पुरीषणेऽस्य
तत् कौतुकाय च शुभाय च खञ्जरीटः ॥ ११-१७२७ ॥

दृष्ट्वा तु खञ्जनं राजा प्रणमेद्विहिताञ्जलिः ।  
इमं मन्त्रं समुच्चार्य श्लोकरूपं वरानने ॥ ११-१७२८ ॥  

खञ्जनः खञ्जरीटश्च शङ्खमौलिः शुभप्रदः ।  

प्। ११२७) महापद्मो नीलगलश्चपलाङ्गो हरिद्विजः ॥ ११-१७२९ ॥

यः खञ्जरीटं प्रणमेदेभिर्नामभिरष्टभिः ।  
जायते मङ्गलं तस्य सतो गेहे यतः पथि ॥ ११-१७३० ॥  

नारायणशरीरोत्थ संवत्सरशुभप्रद ।  
शालग्रामशिलाकण्ठ खञ्जरीट नमोऽस्तु ते ॥ ११-१७३१ ॥  

वासुदेवस्वरूपेण सर्वकामफलप्रद ।  
पृथिव्यामवतीर्णोऽसि खञ्जरीट नमोऽस्तु ते ॥ ११-१७३२ ॥  

त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेषि हिमोद्गमेन ।
त्वं दृश्यसे प्रावृषि निर्गतायां त्वं खञ्जनाश्चर्यमयो नमस्ते ॥ ११-१७३३ ॥

अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणपूजनम् ।  
शान्तिं कुर्वीत कुर्याच्च स्नानं सर्वौषधीजलैः ॥ ११-१७३४ ॥  

अयं खगस्तु विज्ञेयो विष्णुरूपी सुरेश्वरि ।  
संसूचयति वर्षोत्थं मङ्गलामङ्गलद्वयम् ॥ ११-१७३५ ॥  

देवीरूपस्तु विज्ञेयः सारसः पक्षिराडपि ।  
तं दृष्ट्वा तोयतर्वद्रिसदूर्वोर्वीतलेषु हि ॥ ११-१७३६ ॥  

प्रणमेच्छुभदं केशगमस्थिगमभद्रदम् ।  
तथा कुर्वाण आहारं चञ्च्वा कण्डुं तनावपि ॥ ११-१७३७ ॥  

तिष्ठन् कुलाये शावाय ददद्वा भोजनं शुभम् ।  
सारसः सरसीवासः पुष्करः पुष्करालयः ॥ ११-१७३८ ॥  

विघ्नापहर्त्ता पक्षीन्द्रो देवीरूपो महाबलः ।  
विघ्नं नाशय पक्षीन्द्र शुभं देहि महाबल ॥ ११-१७३९ ॥  

पुष्कराब्दफलं ब्रूहि जहि शत्रून् महाबल ।  
पठित्वेदं पद्ययुगं प्रणमेत् सारसं बुधः ॥ ११-१७४० ॥  

प्। ११२८) विपरीते तथैतस्य पूर्ववच्छान्तिकं चरेत् ।
अथ चाषं निरीक्ष्यापि महारुद्रस्वरूपिणम् ॥ ११-१७४१ ॥

पूर्वोदितेषु स्थानेषु प्रणमेन्मङ्गलप्रदम् ।  
अन्यत्राशुभदातारं विहगं शिवरूपिणम् ॥ ११-१७४२ ॥  

अशोकश्च विशोकश्च नन्दीशः पुष्टिवर्धनः ।  
ताम्रचूडो मणिग्रीवः स्वस्तिकश्चापराजितः ॥ ११-१७४४ ॥  

अष्टावेतानि नामानि चाषं दृष्ट्वा तु यः पठेत् ।  
अग्रतो धनलाभाय पार्श्वतो विजयाय च ॥ ११-१७४५ ॥  

पृष्ठतः क्षेमवित्ताभ्यां दिव्य चाष नमोऽस्तु ते ।  
अशोकाय नमस्तुभ्यं सर्वाभीष्टप्रदाय च ॥ ११-१७४६ ॥  

नीलकण्ठाय भद्राय भद्ररूपाय ते नमः ।  
भद्रत्वं देहि मे भद्रमाशां पूरय पूरक ॥ ११-१७४७ ॥  

स्वस्तिकोऽसि कुरु स्वस्ति त्वं मां नन्दीश नन्दय ।  
अशोक कुर्वशोकं मां पुष्पत्वं पुष्टिवर्धन ॥ ११-१७४८ ॥  

एवं चाषं नमस्कृत्य प्रणमेच्च शमीतरुम् ।  
अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ॥ ११-१७४९ ॥  

दुःस्वप्नशमनीं धन्यां प्रपद्येऽहं शमीं शुभाम् ।  
शमी शमयते पापं शमी लोहितकण्टका ॥ ११-१७५० ॥  

धारिण्यर्जुनबाणानां रामस्य प्रियवादिनि ।  
करिष्यमाणयात्राया यथाकालं सुखं मया ॥ ११-१७५१ ॥  

तत्र निर्विघ्नकर्त्त्री त्वं भव श्रीरामपूजिते ।  
इति सम्प्रार्थ्य मूलस्थां गृहीत्वा पीतमृत्तिकाम् ॥ ११-१७५२ ॥  

प्। ११२९) प्रदक्षिणीकृत्य तथा समीवृक्षं महीपतिः ।
नियुद्धं प्रेक्ष्य मल्लानां भटानां शस्त्रलाघवम् ॥ ११-१७५३ ॥

भरतानां प्रेषणं च धावनं गजवाजिनाम् ।  
अस्तं गते दिनमणौ दीपिकाशतसंवृतः ॥ ११-१७५४ ॥  

प्रविशेन्नगरं राजा कोलाहलपुरःसरम् ।  
अनेन विधिना यस्तु कुरुते शारदं महम् ॥ ११-१७५५ ॥  

तस्य देवी सदा तुष्टा सदा नैव विमुञ्चति ।  
फलं यच्छारदार्चाया वक्तुं तत् केन शक्यते ॥ ११-१७५६ ॥  

ईदृशेव च वासन्ती पूजा कार्या मधौ सिते ॥ ११-१७५६एफ़् ॥  

इति दुर्गोत्सवविधिः ।

बिभ्रत्यद्भुतभूतिभूतपवचोवैवित्र्यचित्रामृत �
स्रोतःशालिनि सन्निबन्धसरितसम्भेदमभ्यर्हितम् ।
सन्मुक्तोपमयुक्तिशालिनि तरङ्गः प्रारदेकादशो
विज्ञश्रीनरदेवनिर्मितपुरश्चर्यार्णवेऽस्मिन् नवे ॥ ११-१७५७ ॥

इति श्रीमन्महाराजाधिराजप्रतापसिंहसाहविरचिते पुरश्चर्याणवे दुर्गामन्त्रपुरश्चरणदुर्गोत्सवविधिर्नामैकादशस्तरङ्गः ॥ ११ ॥