१० सरस्वत्यादि

अथ सरस्वत्यादिमन्त्रास्तत्पुरश्चर-
णविशेषाश्च प्रदर्श्यन्ते ।

तथा च (शारदायाम्)

अद्रिर्वरुणसंरुद्धो दवाग्वादिनि ठद्वयम् ।  
वागीश्वर्या दशार्णोऽयं मन्त्रो वाग्विभवप्रदः ॥ १०-१ ॥  

ऋषिः कण्वो विराट्छन्दो देवता वाक् समीरिता ।  
शिरःश्रवणदृङ्नासावदनान्धुगुदेष्विमान् ॥ १०-२ ॥  

न्यासार्णान् प्राग्वदङ्गानि मातृकोक्तानि कल्पयेत् ।  

अथ ध्यानम् ।

तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः
कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ॥ १०-३ ॥

निजकरकमलोद्यल्लेखनीपुस्तकश्रीः
सकलविभवसिद्ध्यै पातु वाग्देवता नः ।

अथ मन्त्रान्तरं तत्रैव ।

दशलक्षं जपेन्मन्त्रं दशांशं जुहुयात् ततः ॥ १०-४ ॥  

पुण्डरीकैः पयोऽभ्यक्तैस्तिलिर्वा मधुराप्लुतैः ।  

अथ मन्त्रान्तरं तत्रैव ।

हृदयान्ते भगवति वदशब्दयुगं ततः ॥ १०-५ ॥  

वाग्देवि वह्निजायान्तं वाग्भवाद्यं समुद्धरेत् ।  
मनुं षोडशवर्णाढ्यं वागैश्वर्यफलप्रदम् ॥ १०-६ ॥  

मनोः षड्भिः पदैः कुर्यात् षडङ्गं जातिसंयुतैः ।  

अथ ध्यानम् ।

शुभ्रां शुभ्रविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां  

प्। ८६९) व्याख्यामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजैः ॥ १०-७ ॥

बिभ्राणां कमलासनां कुचनतां वाग्देवतां सुस्मितां  
वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् ।  

अथ पुरश्चरणम् ।

हविष्याशी जपेत् सम्यग्वसुलक्षमनन्यधीः ॥ १०-८ ॥  

दशांशं जुहुयादन्ते तिलैराज्यपरिप्लुतैः ।  

अथमन्त्रान्तरं तत्रैव ।

तारो माया धरो विन्दुः शक्तिस्तारं सरस्वती ॥ १०-९ ॥  

ङेन्ता नत्यन्तिको मन्त्रः प्रोक्त एकादशाक्षरः ।  
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये नवरन्ध्रेषु च क्रमात् ॥ १०-१० ॥  

मन्त्रवर्णान् न्यसेन्मन्त्री वाग्भवेनाङ्गकल्पना ।  

अथ ध्यानम् ।

वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभां  
	चन्द्रार्धाङ्कितमस्तकां निजकरैः सम्बिभ्रतीमादरात् ॥ १०-११ ॥  

वीणामक्षगुणं सुधाट्यकलशं विद्यां च तुङ्गस्तनीं  
दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे ।  

अथ पुरश्चरणम् ।

जपेद्द्वादशलक्षाणि तत्सहस्रं सिताम्बुजैः ॥ १०-१२ ॥  

नागचम्पकपुष्पैर्वा जुहुयात् साधकोत्तमः ।  

अथ मन्त्रान्तरं तत्रैव ।

वाचस्पतेऽमृते भूयः प्लुवः प्लुवेति कीर्तयेत् ॥ १०-१३ ॥  

वागाढ्यो मुनिभिः प्रोक्तो रुद्रसङ्ख्याक्षरो मनुः ।
कुर्यादङ्गानि विधिवद्वागाद्यैः पञ्चभिः पदैः ॥ १०-१४ ॥

अथ ध्यानम् ।

आसीना कमले करैर्जपवटीं पद्मद्वयं पुस्तकं  

प्। ८७०) बिभ्राणा तरुणेन्दुबद्धमुकुटा मुक्तेन्दुकुन्दप्रभा ।
भालोन्मीलितलोचना कुचभराक्रान्ता भवद्भूतये
भूयाद्वागधिदेवता मुनिगणैरासेव्यमानाऽनिशम् ॥ १०-१५ ॥

अथ पुरश्चरणम् ।

रुद्रलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ।  
मातृकाकल्पिते पीठे पूजयेत् तां यथा पुरा ॥ १०-१६ ॥  

अथ मन्त्रान्तरं तत्रैव ।

तोयस्थं शयनं विष्णोः सकेवलचतुर्मुखम् ।  
विन्द्वर्घीशयुतो वह्निविन्दुसद्योऽम्बुमान् भृगुः ॥ १०-१७ ॥  

उक्तानि त्रीणि बीजानि सद्भिः सारस्वतार्थिनाम् ।  
अङ्गानि कल्पयेद्वीजैद्विरुक्तैर्जातिसंयुतैः ॥ १०-१८ ॥  

अथ ध्यानम् ।

मुक्ताहारावदातां शरसि शशिकलालङ्कृतां बाहुभिः स्वै �  
र्व्याख्यां वर्णाक्षमालां मणिमयकलशं पुस्तकं चोद्वहन्तीम् ।  
अपीनोत्तुङ्गवक्षोरुहभरविनमन्मध्यदेशामधीशां  
वाचामीडे चिराय त्रिभुवननमितां पुण्डरीके निषण्णाम् ॥ १०-१९ ॥  

अथ पुरश्चरणम् ।

त्रिलक्षं प्रजपेन्मन्त्रं जुहुयात् तद्दशांशतः ।  
पायसेनाज्यसिक्तेन संस्कृते हव्यवाहने ॥ १०-२० ॥  

अथ चिन्तामणिसरस्वतीमन्त्रो (मेरुतन्त्रे)

अथादौ सम्प्रवक्ष्यामि चिन्तामणिसरस्वतीम् ।  
तारं माया च हसरानैकाराढ्यान् सविन्दुकान् ॥ १०-२१ ॥  

पुनर्मायां च तारं च वदेत् ङेन्तां सरस्वतीम् ।  
हृदयान्तो भवार्णोऽयं मन्त्रस्तु परिकीर्तितः ॥ १०-२२ ॥  

त्रिष्टुप्च्छन्दो मुनिः कण्वश्चिन्तामणिसरस्वती ।  

प्। ८७१) देवता ह्सै। च बीजं स्यात् ह्री। शक्तिस्त्वङ्गकल्पने ॥ १०-२३ ॥

स्वरसम्पुटितैः कादिवर्गैः स्यादङ्गकल्पनम् ।  

अथ ध्यानम् ।

हंसारूढां मौक्तिकाभां मन्दहास्येन्दुशेखराम् ॥ १०-२४ ॥  

वीणामृतघटाक्षस्रग्दीप्तहस्तां कजस्थिजाम् ।  

अथ पुरश्चरणम् । जपेद्द्वादशलक्षक मित्युक्त्वा �

सिताब्जै रविसाहस्रं हुनेद्वाऽथ च चम्पकैः ॥ १०-२५ ॥  

अथ पारिजातसरस्वतीमन्त्रः (दक्षिणामूर्तिसंहितायाम्)

सम्पत्प्रदाया भैरव्या वाग्भवं बीजमालिखेत् ।  
तारेण परया देवी सम्पुटीकृत्य मन्त्रवित् ॥ १०-२६ ॥  

सरस्वत्यै हृदन्तोऽयं रुद्रार्णो मनुरीरितः ।  
ऋषिस्तद्दक्षिणामूर्तिर्गायत्री छन्द ईरितम् ॥ १०-२७ ॥  

पारिजातेश्वरी वाणी देवता परिकीर्तिता ।  
तृतीयं च द्वितीयं च बीजं शक्तिश्च तारकम् ॥ १०-२८ ॥  

कीलकं परमेशानि महासारस्वतप्रदम् ।  
षड्दीर्घस्वरसम्भिन्नबीजेनाङ्गानि विन्यसेत् ॥ १०-२९ ॥  

अथ ध्यानम् ।

हंसारूढा वर्रहसितहारेन्दुकुन्दावदाता  
	वाणी मन्दस्मिततरमुखी मौलिबद्धेन्दुरेखा ।  
विद्यावीणामृतमयघटाक्षस्रजादीप्तहस्ता  
	शुध्रा?ब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ १०-३० ॥  

अथ पुरश्चरणं तन्त्रान्तरे ।

वर्णलक्षं जपेन्मन्त्रं तद्दशांशं ततो हुनेत् ।  
किंशुकैश्चम्पकैर्वाऽपि तिलाज्यमधुलोलितैः ॥ १०-३१ ॥  

नवाक्षरोऽपि यो मन्त्रस्तत्रादौ प्रणवस्ततः ।  

प्। ८७२) सम्पत्प्रदाधाग्भवस्ततो लज्जाबीजमिति ।
(शारदायाम्)

एवमुक्तेषु मन्त्रेषु दीक्षितो यतमानसः ॥ १०-३२ ॥  

एकं यो भजते भक्त्या स भवेद्भुक्तिमुक्तिभाक् ।  
सुसितैर्गन्धकुसुमैः पूजा सारस्वते विधौ ॥ १०-३३ ॥  

दूर्वाबीजाङ्कुरं पुष्पं राजवृक्षसमुद्भवम् ।  
उत्पलानि प्रशस्तानि सिन्धुवाराङ्कुराणि च ॥ १०-३४ ॥  

भजन् सरस्वतीं नित्यमेतानि परिवर्जयेत् ।  
आम्रातं गृञ्जनं विम्बं करञ्जं लशुनं तथा ॥ १०-३५ ॥  

तैलं पलाण्डुं पिण्याकं साङ्गाष्टमपि भोजने ।  
सर्वं पर्युषितं त्याज्यं सदा सारस्वतार्थिना ॥ १०-३६ ॥  

नाचरेन्निशि ताम्बूलं स्त्रियं गच्छेद्दिवा न च ।  
न सन्ध्ययोः स्वपेज्जातु नाशुचिः किञ्चिदुच्चरेत् ॥ १०-३७ ॥  

प्रदोषे तु भवेन्मौनी दिग्वस्त्रां न विलोकयेत् ।  
न पुष्पितां स्त्रियं गच्छेन्न निन्देद्वामलोचनाम् ॥ १०-३८ ॥  

न मृषा वचनं ब्रूयान्नाक्रमेत् पुस्तकं सुधीः ।  
अक्षराढ्यानि पत्राणि नोपेक्षेत न लङ्घयेत् ॥ १०-३९ ॥  

चतुर्दश्यष्टमीपर्वप्रतिपद्ग्रहणेषु च ।  
सङ्क्रमेषु च सर्वेषु विद्यां नैव पठेन्नरः ॥ १०-४० ॥  

व्याख्याने सन्त्यजेन्निद्रामालस्यं जृम्भणां बुधः ।  
क्रोधं निष्ठीवनं तद्वन्नीचाङ्गस्पर्शनं तथा ॥ १०-४१ ॥  

मनुष्यसर्पमार्जारमण्डूकनकुलादयः ।  
अन्तरा यदि गच्छेयुस्तदा व्याख्यां परित्यजेत् ॥ १०-४२ ॥  

निशासु दीपभ्रंशे च पाठं सद्यः परित्यजेत् ।  

प्। ८७३) ज्ञात्वा दोषानिमान् सम्यग्भक्त्या यो भारतों भजेत् ॥ १०-४३ ॥

वाचां सिद्धिमवाप्तोति वाचस्पतिरिवापरः ।  

इति सरस्वतीप्रकरणम् ।

अथ त्वरितामन्त्रः ।
तत्रैव ।

ततोऽभिधास्ये त्वरितां त्वरितं फलदायिनीम् ॥ १०-४४ ॥  

तारो माया वर्मबीजमृद्धिरीशस्वरन्विता ।  
कूर्मस्तदन्तो भगवान् क्षस्त्री। दीर्घतनुच्छदम् ॥ १०-४५ ॥  

संवर्तो भगवान् माया फडन्तो द्वादशाक्षरः ।  
मुनिरर्जुन आख्यातो विराट् छन्दः समीरितम् ॥ १०-४६ ॥  

त्वरिता देवता प्रोक्ता पुरुषार्थफलप्रदा ।  

तथा ।

कूर्माद्यैः पञ्चभिर्वर्णैः पूर्वपूर्वविवर्जितैः ॥ १०-४७ ॥  

द्वाभ्यां द्वाभ्यां षडङ्गानि कल्पयेत् साधकोत्तमः ।  

अथ ध्यानम् ।

श्यामां वर्हिकलापशेखरयुतामाबद्धपर्णांशुकां  
गुञ्जाहारलसत्पयोधरभरामष्टाहिपान् बिभ्रतीम् ॥ १०-४८ ॥  

ताटङ्काङ्गदमेखलां गुणरणन्मञ्जीरतां प्रापितां  
कैरीतीं वरदाभयोद्यतकरां देवीं त्रिनेत्रां भजे ।  

अथ पुरश्चरणम् ।

लक्षं सञ्जप्य मन्त्रज्ञो मन्त्रमेनं जितेन्त्रियः ॥ १०-४९ ॥  

दशांशं जुहुयाद्वैल्वैर्मधुराक्तैः समिद्वरैः ।  

तथा ।

एवं सिद्धमनुर्मन्त्री नारीनरनरेश्वरैः ॥ १०-५० ॥  

मान्यते वत्सरादर्वाग्लक्ष्म्या जितघनेश्वरः ।  

इति त्वरितामन्त्रः ।

प्। ८७४) अथ नित्यक्लिन्नामन्त्रस्तत्रैव ।

तारो माया वाग्भवान्ते नित्यक्लिन्ने मदद्रवे ॥ १०-५१ ॥  

वाङ्माया वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः ।  
द्वाभ्यां द्वाभ्यां पुनर्द्वाभ्यां द्वाभ्यां पञ्चभिरक्षरैः ॥ १०-५२ ॥  

वाचं विना समस्तेनाप्यङ्गषट्कमथाचरेत् ।  

अथ ध्यानम् ।

द्वीपं त्रिकोणविपुलं सुरद्रुममनोहरम् ॥ १०-५३ ॥  

कूजत्कोकिलनादाढ्यं मन्दमारुतसेवितम् ।  
भृङ्गपुष्पलताकीर्णमुद्यच्चन्द्रदिवाकरम् ॥ १०-५४ ॥  

स्मृत्वा सुधाब्धिमध्यस्थं तस्मिन् माणिक्यमण्डपे ।  
रत्नसिंहासने न्यस्तत्रिकोणोज्ज्वलकर्णिके ॥ १०-५५ ॥  

पद्मे सञ्चिन्तयेद्देवीं साक्षात् त्रैलोक्यमोहिनीम् ।  
	नित्यां भजे बालशशाङ्कचूडां  
	पाशाङ्कुशौ कल्पलतां कपालम् ॥ १०-५६ ॥  

	हस्तैर्बहन्तीमरुणां त्रिनेत्रा �  
	मास्फालयन्तीं कलवल्लकीं ताम् ।  

अथ पुरश्चरणम् ।

त्रिलक्षं प्रजपेन्मन्त्रमाज्येन जुहुयात् ततः ॥ १०-५७ ॥  

दशांशमिति शेषः ।

इति नित्यक्लिन्नामन्त्रः ।

अथान्नपूर्णामन्त्रः ।

(मेरुतन्त्रे)

अथातः सम्प्रवक्ष्यामि अन्नपूर्णामहामनुम् ।  
ॐ ह्री। श्री। क्ली। नमः प्रोक्त्वा भगवति पदं वदेत् ॥ १०-५८ ॥  

माहेश्वरि चान्नपुर्णे स्वाहा विंशतिवर्णकः ।  

प्। ८७५) छन्दोऽनुष्टब्मुनिर्ब्रह्मा ह्यन्नपूर्णा च देवता ॥ १०-५९ ॥

ह्री। बीजं चापि शक्तिः श्री। कीलकं क्ली। प्रकीर्तितम् ।  
षड्दीर्घयुक्तहृल्लेखा षडङ्गेषु प्रकीर्तिता ॥ १०-६० ॥  

अथ ध्यानम् ।

तप्तकाञ्चनसङ्काशां बालेन्दुकृतशेखराम् ।  
नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् ॥ १०-६१ ॥  

चित्रवस्त्रपरीधानां मीनाक्षीं कलशस्तनीम् ।  
नृत्यन्तमीशमनिशं दृष्ट्वाऽनन्दमयीं पराम् ॥ १०-६२ ॥  

सानन्दमुखलोलाक्षीं मेखलाढ्यनितम्बिनीम् ।  
अन्नदानरतां नित्यां भूमिश्रीभ्यां नमस्कृताम् ॥ १०-६३ ॥  

दुग्धान्नभरितं पात्रं सरत्नं वामहस्तके ।  
दक्षिणे तु करे देव्या दर्वीं ध्यायेत् सुवर्णजाम् ॥ १०-६४ ॥  

पुरश्चरणम् ।

लक्षं जपेत् सनियमस्तद्दशांशेन होमयेत् ।  
रम्यपायसर्पिर्भ्यामेवं भवति सिद्धिदा ॥ १०-६५ ॥  

अथ मन्त्रान्तरं (शारदायाम् )

माया हृद्भगवत्यन्ते माहेश्वरि पदं ततः ।  
अन्नपूर्णे ठयुगलं मनुः सप्तदशाक्षरः ॥ १०-६६ ॥  

अ"गानि मायया कुर्यात् ततो देवीं विचिन्तयेत् ।  

अथ ध्यानम् ।

रक्तां विचित्रवसनां नवचन्द्रचूडा-  
मन्नप्रदाननिरतां स्तनभारनम्राम् ॥ १०-६७ ॥  

नृत्यन्तमिन्दुशकलाभरणं विलोक्य  
हृष्टां भजे भगवतीं भवदुःखहर्त्रीम् ।  

प्। ८७६) अथ पुरश्चरणम् ।

यथाविधि जपेन्मन्त्रं वसुयुग्मसहस्रकम् ॥ १०-६८ ॥  

साज्येनान्नेन जुहुयात् तद्दशांशमनन्तरैः ।  

इत्यन्नपूर्णामन्त्रः ।

अथ प्रत्यङ्गिरामन्त्रः ।
(मेरुतन्त्रे)

अथातः सम्प्रवक्ष्यामि परकृत्यानिवारिणीम् ॥ १०-६९ ॥  

देवीं प्रत्यङ्गिरां नाम सर्वापद्विनिवारिणीम् ।  
ॐ अ। क। च। तथा ट। त। प। ह्म। भो। ह्री। समुच्चरेत् ॥ १०-७० ॥  

हु।स उक्त्वा हु। तथाऽस्त्रं स्वाहान्तं षोडशाक्षरः ।  
मुनिर्विधाता छन्दोष्णिग्देवताः षट् प्रकीर्तिताः ॥ १०-७१ ॥  

महावायुर्महापृथ्वी महाकाशस्तथैव च ।  
महासमुद्रनामा च महापर्वत एव च ॥ १०-७२ ॥  

महाग्निश्चेति हु। बीजं ह्री। शक्तिः परिकीर्तिता ।  
लज्जया तु षडङ्गानि षड्दीर्घान्वितयाऽचरेत् ॥ १०-७३ ॥  

मन्त्रदेवी।स्ततो मन्त्री ध्यायेत् सुस्थिरमानसः ।  

अथ ध्यानम् ।

नानारत्नार्चिराक्रान्तं वृक्षाम्भःस्रवणैर्युतम् ॥ १०-७४ ॥  

व्याघ्रादिपशुभिर्व्याप्तं सानुयुक्तं गिरिं स्मरेत् ।  
मत्स्यकूर्मादिबीजाढ्यं नवरत्नसमन्वितम् ॥ १०-७५ ॥  

घनच्छायं सकल्लोलमकूपारं विचिन्तयेत् ।  
ज्वालावलीसमाक्रान्तं जगत्त्रितयमद्भुतम् ॥ १०-७६ ॥  

पीतवर्णं महावह्निं संस्मरेच्छत्रुशान्तये ।  
त्वरा समुत्थरावौघमलिनं रुद्धभूदिवम् ॥ १०-७७ ॥  

प्। ८७७) पवनं संस्मरेद्विश्वजीवनं प्राणरूपतः ।
नदीपर्वतवृक्षादिकलिताग्राससङ्कुला ॥ १०-७८ ॥

आधारभूता जगतो ध्येया पृथ्वीह मन्त्रिणा ।  
सूर्यादिग्रहनक्षत्रकालचक्रसमन्वितम् ॥ १०-७९ ॥  

निर्मलं गगनं ध्यायेत् प्राणिनामाश्रयः पदम् ।  

पुरश्चरणमाह ।

एवं षड्देवता ध्यात्वा सहस्राणि तु षोडश ॥ १०-८० ॥  

जपेन्मन्त्रं दशांशेन षड्द्रव्यैर्होममाचरेत् ।  
व्रीहयस्तण्डुला आज्यं सर्षपाश्च यवास्तिलाः ॥ १०-८१ ॥  

एतैर्हुत्वा यथाभागं पीठे पूर्वोदिते यजेत् ।  

अथ मालामन्त्रस्तत्रैव ।

अथ प्रत्यङ्गिरामालामन्त्रः सिद्धः प्रकीर्त्त्यते ॥ १०-८२ ॥  

ॐ ह्री। नमः कृष्णवाससेशतेविश्वसहस्रहिम् ।  
सिनि सहस्रवदने महाबले पराजिते ॥ १०-८३ ॥  

प्रत्यङ्गिरे परसैन्यपरकर्मपदं वदेत् ।  
विध्वंसिनि परमन्त्रोत्सादिनीति ततो वदेत् ॥ १०-८४ ॥  

सर्वभूतेति दमनि सर्वदेवान् वदेत् ततः ।  
बन्धयुग्मं सर्वविद्या द्विश्च्छिन्धि क्षोभयद्वयम् ॥ १०-८५ ॥  

परयन्त्राणीति वदेत् स्फोटयद्वितयं ततः ।
सर्वशृङ्खला।स्त्रोटय त्रोटय ज्वल चोच्चरेत् ॥ १०-८६ ॥

ज्वालाजिह्वे करालेति वदने प्रत्यमुच्चरेत् ।  
गिरे ह्री। नम इत्येष सपादशतवर्णवान् ॥ १०-८७ ॥  

ब्रह्माऽनुष्टुब्मुनिश्छन्दो देवी प्रत्यङ्गिरा मता ।  
बीजशक्ती तारमाये कृत्यानाशेति योजनम् ॥ १०-८८ ॥  

प्। ८७८) षडङ्गानां विधिश्चात्र षड्दीर्घान्वितमायया ।

अथ ध्यानम् ।

सिंहारूढातिकृष्णाङ्गीं ज्वालावक्त्रां भयङ्कराम् ॥ १०-८९ ॥  

शूलखड्गकरां वस्त्रे दधतीं नूतने भजे ।  

अथ पुरश्चरणम् ।

अयुतं प्रजपेन्मन्त्रं सहस्रं तिलराजिकाः ॥ १०-९० ॥  

हुत्वा सिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् ।  
ग्रहभूतादिकारिष्टं सिञ्चेन्मन्त्रं जपन् जलैः ॥ १०-९१ ॥  

विनाशयेत् परकृतं यन्त्रमन्त्रादिसाधनम् ।  

[एतच्चिह्नान्तर्गतः पाठः ४ पु० अधिको दृश्यते ।] अथ मन्त्रान्तरं (सिद्धान्तसङ्ग्रहे)

ॐ यां कल्पयन्ति नोऽरयः क्रूरां कृत्यां वधूमिव ॥ १०-९२ ॥  

तां ब्रह्मणाऽपनिर्नुद्मप्रत्यक् कर्त्तारमिच्छतु ।  
ह्रो। मुन्याद्या विनियोगान्ता मलामन्त्रवदस्य तु ॥ १०-९३ ॥  

षडङ्गानि च पादेन पादार्धैश्चरणेन च ।  
कुर्याद्वेदादिषड्दीर्घहृल्लेखापुटितेन च ॥ १०-९४ ॥  

शिरोभ्रूमध्यवदनगलबाहुद्वयेष्वथ ।  
हृन्नाभिपार्श्वकट्यन्धुपादेषु पदशो न्यसेत् ॥ १०-९५ ॥  

व्यापकन्तं समस्तेन कृत्वा ध्यायेन्महेश्वरीम् ।  
खड्गचर्मधरां कृष्णां मुक्तकेशीं विवाससम् ॥ १०-९६ ॥  

दंष्ट्राकरालवदनां भीषाभां सर्वभूषणाम् ।  
ग्रसन्तीं वैरिणं ध्यायेत् प्रेरितां शिवतेजसा ॥ १०-९७ ॥  

पुरश्चरणमाह ।

अयुतं प्रजपेदेनं मन्त्री प्रयतमानसः ।  

प्। ८७९) दशांशं जुहुयात् पश्चादपामार्गेध्मराजिकाम् ॥ १०-९८ ॥

सर्पिषा च समायुक्तां ततः सिद्धो भवेन्मनुः ।  
प्रयोगेषु जपेन्मन्त्रमष्टोत्तरशतं बुधः ॥ १०-९९ ॥  

तावतैव तु होमेन परकृत्या विनश्यति ।  

इति प्रत्यङ्गिरामन्त्रः ।

अथ कुब्जिकामन्त्रः ।

(कुलालिकाम्नायतन्त्रे)

श्रीकुब्जिकोवाच ।

कथं तु लघ्विकानाथ वद मन्त्रपदान्विताम् ॥ १०-१०० ॥  

सर्वज्ञां सर्वदा देव लक्षणेन समन्विताम् ।  
उवाच भैरवो ह्येवं लघ्विकां शृणु लघ्विके ॥ १०-१०१ ॥  

किन्तु त्वया न वक्तव्या यावन्नादेशितः शिशुः ।  
च्चेवीति प्रथमं पदं णिकिणिकि द्वितीयकम् ॥ १०-१०२ ॥  

छी। छा। पदं तृतीयं च खिमुरघो-अचतुर्थकम् ।  
मेनणञङेति पञ्चमं ह्रौ। ह्रा। ह्री। षष्ठकं पदम् ॥ १०-१०३ ॥  

यै काब्जिकुश्रो सप्तमं त्यैवगभ मोनाष्टमम् ।  
एषा सा समया देवी द्वात्रिंशाक्षरमालिनी ॥ १०-१०४ ॥  

पञ्चप्रणवमाद्यन्तनियुक्ता लक्षणान्विता ।  
आदिकूटावसाने च द्विचत्वारिंशमालिनी ॥ १०-१०५ ॥  

विलोमेनोच्चरेद्देवि गुरुवक्त्रोपदेशतः ।  
रेफसहमिदं कूटं विद्यायाः सप्तमं स्मृतम् ॥ १०-१०६ ॥  

श्रीलोपे सन्नियोक्तव्यं जीवितं कुब्जिके मम ।  
स्वमनीषिकातोऽन्यथा सविद्धिष्टोमरीचिभिः ॥ १०-१०७ ॥  

गुप्त गुप्ततरं कार्यं योगिनीहृदयनन्दनम् ।  

प्। ८८०) यस्माद्भस्मारमित्येवं सर्वस्वं योगिनीकुले ॥ १०-१०८ ॥

अथ चेत् सर्वपीठेषु मातेयं समयात्मिका ।  
अस्याः स्मरणमात्रेण विह्वलं तु जगत्त्रयम् ॥ १०-१०९ ॥  

जायते नात्र सन्देह इति माता सुरक्षिता ।  
हृदयाद्यस्त्रपर्यन्तमेकोच्चारेण सुव्रते ॥ १०-११० ॥  

सिद्धिमार्गे यथा ब्रूमि विलोमेन विलोमतः ।

यस्त्रा-अ यैर्वाणाकक्को च्चेवि णिकिणिकि ययात्रत्रने केरिताहम्मजलकु छा। छी। यचावकयैपारूहुबखीमुरघो-अ मे नणञङ यैखाशि खेशिरर्वव ह्री। ह्रा। ह्रौ। सेरशि यैपादीलकु यैकाब्जिकुश्री ययादहृ यैलामत्कहृत्यैवगभ मोन ।

पञ्चादशाक्षरं हृदयं शिरश्चैव त्रयोदश ॥ १०-१११ ॥  

शिखारुद्रक्षरा ज्ञेया कवचैकोनविंशति ।  
तिथिसङ्ख्या भवेन्नेत्रमस्त्रं चैव चतुर्दश ॥ १०-११२ ॥  

पञ्चप्रणव आद्यन्तो यथा विद्या तथाऽन्तिमा ।  
एतत्कौलिकभाषायां कथितं ते सप्रत्ययम् ॥ १०-११३ ॥  

सस्फुटं गुरुवक्क्रस्थं विलोमस्थं न सिध्यति ।  
कौलिकेऽदः समाख्यातं सिद्धमार्गे सुदुर्लभम् ॥ १०-११४ ॥  

अथ ध्यानं (परातन्त्रे)

वृषभे संस्थितं देवं खवर्णरूपशोभितम् ।  
एकवक्त्रं त्रिनेत्रं च भुजाष्टादशधारिणम् ॥ १०-११५ ॥  

परशुं डमरुं बाणं खड्गमङ्कुशवज्रकम् ।  
शङ्खं च वेणुवाद्यं च वरदं दक्षिणे करे ॥ १०-११६ ॥  

वामे खट्वाङ्गशूलं च धनुः फलकपाशकम् ।  

प्। ८८१) घण्टां कपालं वेणुं च अभयं भयनाशनम् ॥ १०-११७ ॥

पट्टेन बन्धितं जानुवामोरुस्था च कुब्जिका ।  
एकवक्त्रा त्रिनेत्रा च करुणावरवर्णिता ॥ १०-११८ ॥  

द्विभुजा वरदा देवी सिंहस्थाऽभयसव्यसु ।  
नानाभरणभूषाङ्गी खण्डेन्दुकृतशेखरा ॥ १०-११९ ॥  

वर्वरा केशपाशेन चारुपीनघनस्तनी ।  
एवं येध्या कुजा माता पश्चिमाम्नायनायिका ॥ १०-१२० ॥  

अथ पुरश्चरणम् । (कुलालिकाम्नायतन्त्रे)

अक्षराक्षरसन्तानं योजयेल्लक्षसङ्ख्यया ।  
लघ्वीशगुणतुल्योऽसौ हर्ता कर्ता स्वयं प्रभुः ॥ १०-१२१ ॥  

खेचरीणां पदं सो हि पश्यति ह्यविचारतः ।  
निराचारेण योगेन चिन्तयन्तो महेश्वरीम् ॥ १०-१२२ ॥  

इति कुब्जिकामन्त्रः ।

अथ गङ्गामन्त्रः ।
(मेरुतन्त्रे)

अथ वक्ष्ये रुद्रशीर्षनिवासिन्याः परान् मनून् ।  
तारो नमः शिवायै च नारायण्यै पदं वदेत् ॥ १०-१२३ ॥  

दशहरायै गङ्गायै स्वाहान्तो विंशदर्णकः ।  
व्यासो मुनिः कृतिश्छन्दो गङ्गा देवी प्रकीर्तिता ॥ १०-१२४ ॥  

त्रिवह्निवेदबाणाग्निनेत्रवर्णैः षडङ्गकम् ।  

अथ ध्यानम् ।

चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् ॥ १०-१२५ ॥  

रत्नकुम्भसिताम्भोजवरदाभयसत्कराम् ।  
चामरैर्बीजमानां च श्वेतच्छत्रोपशोभिताम् ॥ १०-१२६ ॥  

प्। ८८२) अथ पुरश्चरणम् ।

लक्षं जपेद्दशांशेन जुहुयात् सघृतैस्तिलैः ।  

अथ मन्त्रान्तरं तत्रैव ।

अथान्यं सम्प्रवक्ष्यामि वामाचाराघनाशनम् ॥ १०-१२७ ॥  

बहिर्यजनकर्तारः शिद्धाः स्युर्यत्प्रभावतः ।  
तारो नमो भगवति वाग्भवं च हिलिद्वयम् ॥ १०-१२८ ॥  

मिलिद्वयं च गङ्गे मां पावयद्वितयं वदेत् ।  
स्वाहान्तस्तारको वर्णो मनुः पापप्रणाशनः ॥ १०-१२९ ॥  

ईश्वरोऽस्य मुनिश्छन्दोऽमितं गङ्गा च देवता ।  
रामवेदाङ्गवह्न्यङ्गनेत्रार्णैरङ्गकल्पनम् ॥ १०-१३० ॥  

अथ ध्यानम् ।

रक्ताम्बरां रक्तवर्णां शूलकुम्भवराभयान् ।  
करैः सन्दधतीं स्मेरां कच्छपस्थां सुरादिभिः ॥ १०-१३१ ॥  

तद्रूपाभिः स्वपापस्य नाशाय सुनिषेविताम् ।  

अथ पुरश्चरणम् ।

वर्णलक्षं जपेद्धोमः प्रोक्तः पद्मैर्दशांशतः ॥ १०-१३२ ॥  

एवं सिद्धमनुर्मन्त्री मरुदादिकनिर्जले ।  
देशे गत्वा जलार्थं तु पुरश्चर्यां समाचरेत् ॥ १०-१३३ ॥  

होमादिसर्वं निर्वृत्य गङ्गामावाहयेत् ततः ।  
तत्र कूपादिकं कृत्वा भवेत् तदमृतोपमम् ॥ १०-१३४ ॥  

कल्पस्थायितयाऽगाधं समस्तगदनाशनम् ।  

तथा ।

इयमादिमसप्तार्णं त्यक्त्वोक्ता तु नखाक्षरी ॥ १०-१३५ ॥  

प्राग्वन्मुन्यादिकं बाणवेदत्रित्रित्रिबाहुभिः ।  
मन्त्रार्णैः स्युः षडङ्गानि पुरश्चर्यार्णलक्षकम् ॥ १०-१३६ ॥  

प्। ८८३) होमद्रव्यादिकं प्राग्वत् सिद्धमन्त्रः समाचरेत् ।
प्रयोगं जलमध्ये तु स्थित्वा जप्त्वाऽयुतं मनुम् ॥ १०-१३७ ॥

त्र्यहादवर्षाकालेऽपि वृष्टिर्भवति भूयसी ।  

अथ मन्त्रान्तरं तत्रैव ।

तारो हिलिमिलिद्वन्द्वे गङ्गे देवि नमो मनुः ॥ १०-१३८ ॥  

तिथिवर्णोऽयस्य मुन्यादिः पूजा पूर्ववदीरिता ।  
त्रिद्वित्र्यक्षिकृताब्ध्यर्णैः षडङ्गविधिरीरितः ॥ १०-१३९ ॥  

एतस्य भजनाज्जन्तोर्नातीर्थे मरणं भवेत् ।  

पुनर्मन्त्रान्तरमाह ।

तारो लज्जा रमा हार्दं ततो भगवती पदम् ॥ १०-१४० ॥  

सम्बुध्यन्तं गङ्गदयिते नमो हु। तथाऽस्त्रकम् ।  
अष्टादशार्णमन्त्रोऽयं मुन्याद्यं पूर्ववन्मतम् ॥ १०-१४१ ॥  

इति गङ्गामन्त्रः ।

अथ मणिकर्णिकामन्त्रः ।

तत्रैव ।

अथातः सम्प्रवक्ष्यामि मणिकर्णीमनुद्वयम् ।  
तरो वाक् ह्री। रमा कामस्तारोऽयं मणिकर्णिके ॥ १०-१४२ ॥  

नम ॐ तिथिवर्णोऽयं मन्त्रः परमदुर्लभः ।  
मुनिर्व्यासोऽतिशक्वरी छन्दः स्यान्मणिकर्णिका ॥ १०-१४३ ॥  

देवता चन्द्रनेन्त्राक्षिद्वीषुत्र्यर्णैः षडङ्गकम् ।  

अथ ध्यानम् ।

बीजपूरं दक्षहस्ते वामेन्दीवरमालिका ॥ १०-१४४ ॥  

बद्धाञ्जलिः श्वेतवस्त्रा त्र्यक्षा चन्द्रनिभानना ।  
पश्चिमाभिमुखी स्मेरा पद्मस्था पद्ममालिका ॥ १०-१४५ ॥  

नानालङ्कारभूषाढ्या ध्येया श्रीमणिकर्णिका ।  

प्। ८८४) अथ पुरश्चरणम् ।

लक्षत्रयं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ॥ १०-१४६ ॥  

पुण्डरीकैस्त्रिमध्वक्तैर्यजेत् तां गङ्गया समम् ।  

इति मणिकर्णिकामन्त्रः ।

अथ वाग्मतीमन्त्रः ।
तत्रैव ।

अथातः सम्प्रवक्ष्यामि वाग्मत्याश्च मनुद्वयम् ॥ १०-१४७ ॥  

वाग्बीजं प्रथमो मन्त्रो नारदोऽस्य मतो मुनिः ।  
छन्दोऽनुष्टुब्देवता तु वाग्मती परिकीर्तिता ॥ १०-१४८ ॥  

अथ ध्यानम् ।

श्वेतम्बरां श्वेतवर्णां श्वेतगन्धानुलेपनाम् ।  
सुधाकुम्भं च पद्मं च वीणां पुस्तकमेव च ॥ १०-१४९ ॥  

करैर्दधन्तीं मीनस्थां मुक्ताभरणभूषिताम् ।  
एवं ध्यात्वा कर्णिकायां यजेद्देवीं षडस्रके ॥ १०-१५० ॥  

रुद्रधारां मणिमतीं फल्गुं विष्णुमतीं तथा ।  
प्रभावतीं भानुमतीं भूपुरे तु दिगीश्वरान् ॥ १०-१५१ ॥  

अथ पुरश्चरणन् ।

लक्षत्रयञ्जपेन्मन्त्रं पञ्चखाद्यैस्तथा हूनेत् ।  
तर्पणादि ततः कृत्वा सिद्धो मन्त्रः प्रजायते ॥ १०-१५२ ॥  

सद्योजातस्य बालस्य जिह्वायां बीजमालिखेत् ।  
मधुना स्वर्णलेखन्या सोऽष्टवर्षः कविर्भवेत् ॥ १०-१५३ ॥  

वाग्मत्यां वाऽथ गङ्गायां पुरश्चर्यां करोति यः ।  
द्वितीयामप्रतिग्राही भिक्षाशी चाथ मौनवान् ॥ १०-१५४ ॥  

प्। ८८५) ब्रह्मचारी भूमिशायी श्वेताम्बधरः शुचिः ।
वाक् सिद्धिं लभतेऽवश्यं दाता भोक्ता त्वयाचकः ॥ १०-१५५ ॥

अथ मन्त्रान्तरं तत्रैव ।

रमात्रपावाग्बीजानि वदेद्ङेऽन्ता च वाग्मती ।  
नमो ममेति च पदे धारणां च ततो धियम् ॥ १०-१५६ ॥  

वाचमद्भुतां प्रदेहि स्वाहान्तस्तत्त्ववर्णकः ।  
मुन्यादिकं तथा पूजा पुरश्चर्या च पूर्ववत् ॥ १०-१५७ ॥  

इति वाग्मतीमन्त्रः ।

अथ चन्द्रमन्त्रः ।

(शारदायाम्)

अथोच्यते चन्द्रमसो मनुः सर्वसमृद्धिदः ।  
खड्गीशस्थो भृगुर्विन्दुमनुः स्वरसमन्वितः ॥ १०-१५८ ॥  

सोमाय हृदयान्तोऽयं मन्त्रः प्रोक्तः षडक्षरः ।  
ऋषिरुक्तो भृगुश्छन्दः पङ्क्तिः सोमोऽस्य देवता ॥ १०-१५९ ॥  

दीर्घभाजा स्वबीजेन मनोरङ्गक्रिया मता ।  

अथ ध्यानम् ।

कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुविम्बाननं  
मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः ॥ १०-१६० ॥  

हस्ताभ्यां कुमुदं वरं च दधतं नीलालकोद्भासितं  
स्वस्थाङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे ।  

अथ पुरश्चरणम् ।

रसलक्षं जपेन्मन्त्रं साधको विजितेन्द्रियः ॥ १०-१६१ ॥  

तत्सहस्रं प्रजुहुयात् पायसेन ससर्पिषा ।  

अथ मन्त्रान्तरं (मेरुतन्त्रे)

ॐ आ। श्री। श्रु। सविन्दुः स सोमायेत्यग्निगेहिनी ॥ १०-१६२ ॥  

प्। ८८६) दशाक्षरश्चन्द्रमन्त्रो जप्यश्चायं नृपायुतम् ।
होमादिकप्रयोगा।श्च सर्वं पूर्ववदाचरेत् ॥ १०-१६३ ॥

इति चन्द्रमन्त्रः ।

अथ भौममन्त्रः ।

तत्रैव ।

अथ भौममनुं वक्ष्ये सर्वरोगनिवारणम् ।  
अ। च अङ्गारको ङेऽन्तो हृदन्तश्चाष्टवर्णकः ॥ १०-१६४ ॥  

ऋष्याद्या ब्रह्मगायत्री भूमिपुत्राः प्रकर्तिताः ।  
अङ्गषट्कं त्वस्य मनोर्निजबीजेन सम्मतम् ॥ १०-१६५ ॥  

अथ ध्यानम् ।

नमाम्यङ्गारकं रक्तं रक्ताम्बरविभूषणम् ।  
जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् ॥ १०-१६६ ॥  

अथ पुरश्चरणम् ।

लक्षाष्टकं जपः प्रोक्तः खदिरोद्भवकैर्हुनेत् ।  
साज्यैः सन्तर्पणं रक्तचन्दनाद्यैः समाचरेत् ॥ १०-१६७ ॥  

अथ मन्त्रान्तरं तत्रैव ।

अथ मन्त्रान्तरं वक्ष्ये भूमिमन्त्रस्य सिद्धिदम् ।  
ॐ हा। ह।सः ख। ख इति मन्त्रः प्रोक्तः षडक्षरः ॥ १०-१६८ ॥  

मुनिर्विरूपो गायत्री छन्दो देवो धरात्मजः ।  
षड्भिर्वणैः षडङ्गानि मनोः कुर्वीत साधकः ॥ १०-१६९ ॥  

अथ ध्यानम् ।

जवाकुसुमसङ्काशं शक्तिं शूलं गदां वरम् ।  
मेषसंस्थं रक्तवस्त्रं तं वन्देऽहं धरात्मजम् ॥ १०-१७० ॥  

अस्य पुरश्चरणं षड्लक्षजपः ।

रसलक्षं जपेद्धोमं समिद्भिः खदिरस्य च ।  

इति तत्रैवोक्तत्वात् ।

प्। ८८७) ॐ क्रा। क्री। क्रौ। सविन्दुः सकुजायेत्यग्निगेहिनी ॥ १०-१७१ ॥

दशाक्षरो भौममन्त्रो जप्यश्चायं नवायुतः ।  

पुनर्मन्त्रान्तरमाह ।

ॐ श्री। क्ली। ह्री। समुच्चार्य ङेऽन्तो भौमो हृदन्तकः ॥ १०-१७२ ॥  

दशाक्षरी मनुः प्रोक्तो विरूपाक्षो मुनिर्मतः ।  
गायत्री छन्द उदितं देवता मङ्गलो भवेत् ॥ १०-१७३ ॥  

ह्री। बीज। श्री। च शक्तिः स्यात् कीलकं क्ली। प्रकर्तितम् ।  
कालादिकं समुच्चार्य नियोग ऋणनाशने ॥ १०-१७४ ॥  

षड्दीर्घयुक्तबीजेन अङ्गुल्यादिषडङ्गकम् ।  

अथ ध्यानम् ।

ततो ध्यायेद्रक्तवर्णं रक्तमाल्यांशुकावृतम् ॥ १०-१७५ ॥

कण्ठे कमलमालाढ्यं करयोः शक्तिशूलकम् ।  
मङ्गलानां मङ्गलं च सर्वकामफलप्रदम् ॥ १०-१७६ ॥  

अथ पुरश्चरणम् ।

एवं ध्यात्वा जपेल्लक्षं जुहुयात् करवीरजैः ।  
जवाप्रसूनैः पुरुभिर्मधुरत्रितयान्वितैः ॥ १०-१७७ ॥  

रक्तचन्दनगन्धाढ्यैर्यजेदरुणभूषणम् ।  
विधिना भूमितनयं सर्वाभीष्टफलप्रदम् ॥ १०-१७८ ॥  

इति कुजमन्त्रः ।

अथ भौममन्त्रः ।
तत्रैव ।

अथातः सम्प्रवक्ष्यामि बुधमन्त्रं महाद्भुतम् ।  
बुं ङेऽन्तं बुधशब्दं च हृदयान्तः षडर्णकः ॥ १०-१७९ ॥  

बुधमन्त्रोऽस्य मुन्याद्या ब्रह्मप"क्तिबुधा मताः ।  

प्। ८८८) षडङ्गानि स्वबीजेन विन्यस्यैवं विचिन्तयेत् ॥ १०-१८० ॥

अथ ध्यानम् ।

वन्दे बुधं सदा देवं पीताम्बरसुभूषणम् ।  
जानुस्थवामहस्ताब्जं साभयेतरपाणिकम् ॥ १०-१८१ ॥  

अथ पुरश्चरणम् ।

प्रजपेद्वर्णसाहस्रं दशांशं जुहुयाद्घृतैः ।  

अथ मन्त्रान्तरं तत्रैव ।

ॐ ब्रा। ब्री। ब्रू। सविन्दुः सबुधायेत्यग्निगेहिनी ॥ १०-१८२ ॥  

दशाक्षरः सौम्यमन्त्रो जपो लक्षैकसङ्ख्यया ।  

इति बुधमन्त्रः ।

अथ बृहस्पतिमन्त्रः ।

तत्रैव ।

अथातः सम्प्रवक्ष्यामि गुरुमन्त्रं गुरुत्वकृत् ॥ १०-१८३ ॥  

बृ। बृहस्पतये हृच्च मन्त्रश्चाष्टाक्षरो मतः ।  
छन्दोऽनुष्टुब्मुनिर्ब्रह्मा देवः प्रोक्तो बृहस्पतिः ॥ १०-१८४ ॥  

बृ। बीजं पतये शक्तिर्बीजेनैवाङ्गकल्पनम् ।  

अथ ध्यानम् ।

सुवर्णाभं पीतवस्त्रं रक्तस्वर्णाम्बरादिकम् ॥ १०-१८५ ॥  

किरन्तं दक्षहस्तेन तद्राशिं वामपाणिना ।  
स्पृशन्तं सम्यगपरं विपणौ कनकादिकम् ॥ १०-१८६ ॥  

नानालङ्कारशोभाढ्यं विद्यासागरपारगम् ।  

अथ पुरश्चरणम् ।

जपित्वाऽशीतिसाहस्रं हुत्वा धेनुघृतेन वा ॥ १०-१८७ ॥  

धर्माधर्मादिपीठे तं पूजयेदङ्गदिश्यकैः ।  

अथ मन्त्रान्तरं तत्रैव ।

ॐ ज्रा। ज्री। ज्रू। सविन्दुः सचतुर्थ्यन्तो बृहस्पतिः ॥ १०-१८८ ॥  

प्। ८८९) वह्निस्त्रीविश्ववर्णोऽयं जप्यः पञ्चदशायुतम् ।

इति बृहस्पतिमन्त्रः ।

अथ शुक्रमन्त्रः ।

तत्रैव ।

वस्त्रं मे देहि शुक्राय हृदयान्तः शुमादिकः ॥ १०-१८९ ॥  

एकादशाक्षरो मन्त्रो विराट् छन्द उदाहृतम् ।  
ब्रह्मा मुनिर्देवता तु शुक्रो दैत्यादिपूजितः ॥ १०-१९० ॥  

षड्भिः पदैः षडङ्गानि ततो देवं विचिन्तयेत् ।  

अथ ध्यानम् ।

शुक्रं नमाम्यापणस्थं मुक्ताभरणभूषिणम् ॥ १०-१९१ ॥  

स्वर्णवासोरत्नधाराविमुग्धान्तःकरद्वयम् ।  

अथ पुरश्चरणम् ।

अयुतं प्रजपेन्मन्त्रं सहस्रं जुहुयाद्घृतैः ॥ १०-१९२ ॥  

अथ मन्त्रान्तरं तत्रैव ।

ॐ ह्रा। ह्री। ह्रौ। सविन्दुः सशुक्रायेत्यग्निगेहिनी ।  
दशाक्षरः शुक्रमन्त्रो जप्योऽयं द्वादशायुतम् ॥ १०-१९३ ॥  

उदुम्बरसमिद्भिश्च होमयेत् सकलापदः ।  
भूपैः कृता विनश्यन्ति स्त्रीसौख्यमुपजायते ॥ १०-१९४ ॥  

इति शुक्रमन्त्रः ।

अथ शनैश्चरमन्त्रः ।
तत्रैव ।

शनैश्चराय हृदयं शमाद्यश्चाष्टवर्णकः ।  
मुन्याद्या ब्रह्मगायत्रशनैश्चरसमाह्वयाः ॥ १०-१९५ ॥  

षड्दीर्घयुक्तबीजेन षडङ्गानि समाचरेत् ।  

अथ ध्यानम् ।

वन्दे शनैश्चरं वक्रदंष्ट्रं नीलविभूषणम् ॥ १०-१९६ ॥  

प्। ८९०) वामजानुस्थितं वामकरं दक्षे वरं दधत् ।

[एतच्चिह्नान्तर्गतः पाठः ५ पुस्तक एवोपलभ्यते ।] (मार्तण्डभैरवतन्त्रे)

नीलाद्रिशोभाञ्चितदिव्यमूर्तिः खड्गी त्रिदण्डी शरचापहस्तः ॥ १०-१९७ ॥  

शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ।  

इति ध्यानान्तरमुक्तम् ।
अथ पुरश्चरणं (मेरौ)

जपेदक्षरसाहस्रं तद्दशांशं हुनेद्घृतैः ॥ १०-१९८ ॥  

षडङ्गग्रहदिक्पालसायुधैः परिपूजनम् ।  
न शनैश्चरभक्तानामापदो न दरिद्रता ॥ १०-१९९ ॥  

अथ मन्त्रान्तरं तत्रैव ।

ॐ प्रा। प्री। प्रौ। स इत्युक्त्वा शनैश्चरपदं वदेत् ।  
ङेऽन्तं स्वाहा द्वादशार्णो जपः प्रयुतसम्मतः ॥ १०-२०० ॥  

हुनेच्छमीसमिद्भिश्च क्लीवाः सर्वेऽस्य वश्यगाः ।  

इति शनैश्चरमन्त्रः ।

अथ राहुमन्त्रः ।

तत्रैव ।

अपरं तु मनुं वक्ष्ये राहवे नम उच्चरेत् ॥ १०-२०१ ॥  

रा। पूर्वकः षडर्णोऽयं वर्णैरेवाङ्गकल्पनम् ।  
मुन्याद्या ब्रह्मगायत्रराहवः परिकीर्तिताः ॥ १०-२०२ ॥  

अथ ध्यानम् ।

वन्दे राहुं धूम्रवर्णं सर्वकायं कृताञ्जलिम् ।  
विकृतास्यं रक्तनेत्रं धूम्रालङ्कार[मण्डितम् � इति २-३-४पु० पा०।] मन्वहम् ॥ १०-२०३ ॥  

अथ पुरश्चरणम् ।

जपेद्वर्णसहस्रं तु होमयेद्गोघृतेन च ।  

प्। ८९१) ग्रहाशाधिपशस्त्रैश्च पूजावृत्तिरुदीरिता ॥ १०-२०४ ॥

राहोरुपासको भूपः सङ्ग्रामे विजयी भवेत् ।  

अथ मन्त्रान्तरं तत्रैव ।

ॐ सा। सी। सौ। सविन्दुः सराहवे त्वग्निगेहिनी ॥ १०-२०५ ॥  

दशाक्षरो राहुमन्त्रो जप्यश्चायं दशायुतः ।
दूर्वाभिर्होमयित्वा च द्विजान् सन्तर्प्य सिध्यते ॥ १०-२०६ ॥

इति राहुमन्त्रः ।

अथ केतुमन्त्रः ।
तत्रैव ।

के। केतवे हृदित्येवं केतुमन्त्रः षडर्णकः ।  
ब्रह्मा मुनिर्मतश्छन्दः पङ्क्तिः केतुश्च देवता ॥ १०-२०७ ॥  

के। बीजं वे। तु शक्तिः स्याद्बीजेनैव षडङ्गकम् ।  

अथ ध्यानम् ।

वन्दे कुतुं कृष्णवर्णं कृष्णवस्त्रविभूषितम् ॥ १०-२०८ ॥  

वामोरुन्यस्ततद्धस्तं साभयेतरपाणिकम् ।  

अथ पुरश्चरणम् ।

जपेदक्षरसाहस्रं तद्दशांशं हुनेद्घृतैः ॥ १०-२०९ ॥  

अथ मन्त्रान्तरं तत्रैव ।

ॐ प्रा। प्री। प्रौ। सविन्दुः सकेतवे वह्निगेहिनी ।  
दशाक्षरः केतुमन्त्रो जप्योऽयं द्वादशायुतम् ॥ १०-२१० ॥  

होमः कुशैः प्रकर्तव्यो घृताक्तैस्तर्पणादि च ।  
उपासकानामेतस्य केतवोऽग्रे चलन्ति हि ॥ १०-२११ ॥  

इति केतुमन्त्रः ।

अथ ग्रहमातृकामन्त्राः ।

तत्रैव ।

अथातः सम्प्रवक्ष्यामि ग्रहमातृसुसाधनम् ।  

प्। ८९२) ग्रहमातरि तुष्टायां किं ग्रहैर्दुरितैरपि ॥ १०-२१२ ॥

ग्रहमातरि तुष्टायां सुग्रहैः किं प्रयोजनम् ।  
मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ॥ १०-२१३ ॥  

उल्का सिद्धा सङ्कटा च विकटा गर्भपालिका ।  
रुद्रनक्षत्रतश्चाष्टौ जन्मधिष्ण्यक्रमाद्दशाः ॥ १०-२१४ ॥  

फलं नामानुरूपं स्यादेकोपचयतो द्वयोः ।  
पिङ्गला सूर्यजननी महाधिव्याधिकारिणी ॥ १०-२१५ ॥  

तुष्टा चेच्छत्रुवर्गस्य रुष्टा कुर्याच्च साधके ।  
ब्जे। बीजं तु समुच्चार्य पिङ्गले वैरिवार्णिणि ॥ १०-२१६ ॥  

प्रसीद फडिति प्रोक्तस्त्रयोऽग्निशक्तिवर्णकः ।  
दीर्घषट्कयुजा पूर्वबीजेन च षडङ्गकम् ॥ १०-२१७ ॥  

अथ ध्यानम् ।

पिङ्गवर्णां पिङ्गकेशीं पिङ्गनेत्रां धनुःशरान् ।  
हस्ताभ्यां दधतीं पद्मयुगलं तां भजाम्यहम् ॥ १०-२१८ ॥  

अथ पूजाविधिं वक्ष्ये सर्वासामेव तन्त्रतः ।  
जवापुष्पाणि शस्तानि धूपो गुग्गुलुसम्भवः ॥ १०-२१९ ॥  

घृतप्रदीपो मधुरा नैवेद्याः पायसादयः ।  
अलङ्कारास्तथा रक्तास्तथा वस्त्राणि चन्दनम् ॥ १०-२२० ॥  

स्वर्णालङ्करणैश्चापि सद्द्रव्यैर्बहुपञ्चकैः ।  
तर्पयेत् परमेशानि तत्तन्मन्त्रैः सहस्रधा ॥ १०-२२१ ॥  

सुवर्णपत्रे निच्छिद्रे हस्तायामे मनोरमे ।  
कृत्वा यन्त्रं तथोक्तं तु योगिनीं तत्र पूजयेत् ॥ १०-२२२ ॥  

तत्तन्मन्त्रवरं जप्त्वा विघ्नशान्त्यै सहस्रशः ।  

प्। ८९३) सप्ताहेन प्रजायेत त्रिविधोत्पातवारणम् ॥ १०-२२३ ॥

ततश्च कुण्डं विधिवत् कृत्वा च चतुरस्रकम् ।  
अथ वा स्थण्डिले शुद्धे सुलिप्ते गोमयाम्बुभिः ॥ १०-२२४ ॥  

चतुर्हस्तप्रमाणेन योजयेत् स्थिरमानसः ।  
योगिन्यग्निं तु संस्थाप्य कृत्वा पूर्वोदिताः क्रियाः ॥ १०-२२५ ॥  

अन्यासां दशवारं तु विरुद्धायाः सहस्रधा ।  
विल्वपत्रैस्तत्फलैश्च कमलैर्नागकेशरैः ॥ १०-२२६ ॥  

जुहुयात् पायसान्नेव तथैव कुलवस्तुना ।  
सहस्रमयुतं वाऽपि लक्षं वा कामनाक्रमात् ॥ १०-२२७ ॥  

अथ पूजाम् प्रवक्ष्यामि मध्ये देवीं प्रपूजयेत् ।  
इच्छां ज्ञानं क्रियां शक्तिं त्रिषु कोणेषु पूजयेत् ॥ १०-२२८ ॥  

मन्मथान् पञ्च तदधः पञ्चकोणेषु पूजयेत् ।  
षडङ्गं पूजयेत् पश्चादष्टपत्रेऽन्ययोगिनीः ॥ १०-२२९ ॥  

तद्वाह्यभूपुरे लोकपालानस्त्राणि पूजयेत् ।  
पूजाप्रकारो होमश्च सर्वासामयमेव हि ॥ १०-२३० ॥  

विशेषः पुनरत्रास्ति शत्रूच्छेदाभिचारके ।  
खड्गचर्मधरामुग्रां ध्यायेत् षड्भुजधारिणीम् ॥ १०-२३१ ॥  

गरुडासनमासीनां वैरिनिग्रहकारिकाम् ।  
लक्षमेकं प्रजप्यादौ जपेल्लक्षं हि तर्पयेत् ॥ १०-२३२ ॥  

सर्वशत्रुविनाशः स्याद्दुःखं नाप्नोति कुत्रचित् ।  
अथातः सम्प्रवक्ष्यामि चन्द्रमातुश्च साधनम् ॥ १०-२३३ ॥  

मायाद्यो वह्निजायान्तो मङ्गले मङ्गलालये ।  
एकादशाक्षरो मन्त्रो मङ्गलायाः प्रकीर्तितः ॥ १०-२३४ ॥  

प्। ८९४) कृत्वाऽयेन षडङ्गानि दीर्घषट्कयुजा तथा ।
ध्यायेदेनां त्रिनयनामुद्यदादित्यसन्निभाम् ॥ १०-२३५ ॥

दरस्मेरमुखाम्भोजां सिन्दूरसुन्दुराधराम् ।  
पद्मद्वयं धनुर्बाणान् दधतीं भुजपल्लवैः ॥ १०-२३६ ॥  

सुगुञ्जन्मञ्जुमञ्जीरकाञ्चीगुणविराजिताम् ।  
एवं ध्यात्वा महेशानि पूर्ववत् परिपूजयेत् ॥ १०-२३७ ॥  

ततो लब्धमनुं जप्त्वा तारमायापुरःसरम् ।  
योगिनीक्षेत्रवटुकगणाधिपवलिं हरेत् ॥ १०-२३८ ॥  

सर्वासामेव पूजान्ते मङ्गलैव प्रसीदति ।  

अथ पुरश्चरणमाह ।

योगिन्यास्तु प्रसादार्थं वर्णलक्षं जपेन्मनुम् ॥ १०-२३९ ॥  

दुर्योगिन्यनुकूलार्थं जपेत् तत्सङ्ख्यकायुतम् ।  
अदृष्टप्रतिबद्धस्य शुभायास्तु फलस्य च ॥ १०-२४० ॥  

प्राप्तये प्रजपेत् तावत्सहस्रं प्रत्यहं जपम् ।  
प्रकर्तव्यो वर्णशतं यावद्दुष्टा तु योगिनी ॥ १०-२४१ ॥  

तुष्टाया वर्णदशकं रोगिणं चाभिमन्त्रयेत् ।  
वर्णतुल्येन मन्त्रेण यस्याः सेवापरो भवेत् ॥ १०-२४२ ॥  

तस्याः पीडानिवृत्तिः स्याद्वर्णाभ्यन्तर्गतैर्दिनेः ।  
एवं विधिर्नवानां तु विज्ञेयः सुरसत्तमाः ॥ १०-२४३ ॥  

योगिनी तुल्यफलदा वाममार्गे च दक्षिणे ।  
अथातः सम्प्रवक्ष्यामि भ्रामरीं भौममातरम् ॥ १०-२४४ ॥  

क्षी। भ्रामरि पदं चोक्त्वा जय तान्मे अधीश्वरि ।  
भ्रामय क्ली। षोडशार्णो मन्त्रोऽस्याः परिकीर्तितः ॥ १०-२४५ ॥  

प्। ८९५) पिङ्गलावत् सर्वमस्याः सिद्धये शर्करान् दश ।
मन्त्रयित्वाऽनया मार्गे दशदिक्षु च सन्त्यजेत् ॥ १०-२४६ ॥

प्रातस्ततो व्रजेन्मार्गं मार्गस्थाः सर्व एव हि ।  
सर्वे मोहं समायान्ति व्याघ्राः सर्पाश्च तस्कराः ॥ १०-२४७ ॥  

शुल्किनो दुष्टभूपाश्च नित्यमेवं समाचरेत् ।  
उपानत्कतले यस्य लिखित्वा नाम च व्रजेत् ॥ १०-२४८ ॥  

योजनैकं जपेन्मन्त्रं स भ्रमेच्च वसुन्धराम् ।  
अथातः सम्प्रवक्ष्यामि भद्रिकां बुधमातरम् ॥ १०-२४९ ॥  

प्लू। बीजं तोयभूयोगाज्जातमादौ समुच्चरेत् ।  
भद्रिके मे मम भद्रं देहीति च पदं पुनः ॥ १०-२५० ॥  

वदेच्च परभद्राणि नाशय द्वितयं ततः ।  
स्वाहान्तो जिनवर्णोऽयं भद्रिकाया मनुर्मतः ॥ १०-२५१ ॥  

षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ।  
मङ्गलावच्छुभानां स्याद्ध्यानं दुष्फलदायिनी ॥ १०-२५२ ॥  

पिङ्गलावत् समुद्दिष्टं जपाद्यं प्रोक्तवर्त्मना ।  
अथातः सम्प्रवक्ष्यामि धन्याख्यां गुरुमातरम् ॥ १०-२५३ ॥  

श्रीधनदे समुच्चार्य धन्ये स्वाहाऽष्टवर्णकः ।  
षड्दीर्घाढ्याद्यबीजेन षडङ्गविधिरीरितः ॥ १०-२५४ ॥  

नास्ति धन्यासमा का चिदिह लोके फलप्रदा ।  
पुरश्चर्यात्रयं कृत्वा प्राग्जन्मार्जितपातकम् ॥ १०-२५५ ॥  

संस्तम्भ्य धन्या ददते धन्यत्वं साधकाय तु ।  
बृहस्पतीश्वरात् पश्चात् काश्यां धन्यां विलोकयेत् ॥ १०-२५६ ॥  

पुरश्चर्यां तत्र कृत्वा वैश्यो धन्यः प्रजायते ।  

प्। ८९६) अथातः सम्प्रवक्ष्यामि सिद्धां शुक्रस्य मातरम् ॥ १०-२५७ ॥

ह्री। सिद्धे मे सर्वमानं समुक्त्वा साधयद्वयम् ।  
हृदयान्तो मित्रवर्णः सिद्धाया मनुरीरितः ॥ १०-२५८ ॥  

बीजेनैव षडङ्गानि जपाद्यम् प्रोक्तवच्चरेत् ।  
नास्ति सिद्धोपासकानां कर्मासिद्धिस्तु कुत्रचित् ॥ १०-२५९ ॥  

उपासका ये सिद्धायाः येनाम्नायेन जायते ।  
तदाम्नायकदेवानां पाकेऽस्याः सर्वमेव हि ॥ १०-२६० ॥  

षट्कर्म सिध्यते तस्य मनोराराधनं विना ।  
अथातः सम्प्रवक्ष्यामि चोक्त्वा मन्दस्य मातरम् ॥ १०-२६१ ॥  

ॐ मम रोगं नाशय भञ्जयैकादशाक्षरः ।  
सर्वरोगापहो मन्त्रो मार्जनात् सप्तघस्रतः ॥ १०-२६२ ॥  

उल्कामन्त्रो यस्य सिद्धो न गदास्तस्य मन्दिरे ।  
शीतलायां महामार्यां महिषं लक्षणान्वितम् ॥ १०-२६३ ॥  

उल्काप्रीत्यै तमुत्सृज्य नगरे भ्रामयेत् पुनः ।  
नानावाद्यैः परिवृतं वस्त्रादिभिरलङ्कृतम् ॥ १०-२६४ ॥  

उत्सृजेत् तं यमाशायामुपद्रवशमो भवेत् ।  
अथातः सम्प्रवक्ष्यामि सङ्कटां राहुमातरम् ॥ १०-२६५ ॥  

ह्री। सङ्कटे च रोगं मे परमं नाशयद्वयम् ।  
षोडशार्णस्तु मन्त्रोऽयं सर्वदुःखापनोदनः ॥ १०-२६६ ॥  

कारागृहे जपेल्लक्षं बन्धमोक्षः प्रजायते ।  
वीरेश्वरादुदक् काश्यां सङ्कटा यत्र संस्थिता ॥ १०-२६७ ॥  

तत्र षोडशलक्षाणि जप्त्वा होमस्तु दूर्वया ।  
तस्य सिद्धो भवेन्मन्त्रस्तन्मुखाद्यदि निःसरेत् ॥ १०-२६८ ॥  

प्। ८९७) अमुकस्यामुकं कष्टं गतं तद्धतमेव हि ।
अथातः सम्प्रवक्ष्यामि विकटां केतुमातरम् ॥ १०-२६९ ॥

तारो नमो भगवति विकटे वीरपालिके ।  
प्रसीदयुगलं मन्त्रः प्रकृत्यर्णः प्रकीर्तितः ॥ १०-२७० ॥  

काश्यां वीरेश्वरासन्ना पश्चिमे विकटा स्थिता ।  
तत्र मन्त्रमिमं जप्त्वा ग्रहतप्ताश्च बालकाः ॥ १०-२७१ ॥  

उदरं चापि बन्ध्यायाः प्रसवत्यास्तथा शिरः ।  
पित्रादिभिस्त्यक्तबालास्तथा मातृविवर्जिताः ॥ १०-२७२ ॥  

साधकस्य करस्पृष्ट्वा नीरोगाश्चिरजीविनः ।  

इति ग्रहमातृकामन्त्राः ।

अथ दिक्पालमन्त्राः ।
तत्रादौ शक्रमन्त्र उक्तस्त्रैव ।

ज्ञ्मिन्द्राय नमश्चेति शक्रमन्त्रः षडक्षरः ॥ १०-२७३ ॥  

पङ्क्तिश्छन्दो मुनिर्ब्रह्मा देव इन्द्रः प्रकीर्तितः ।  
मायेति शक्ति। रि। बीजं बीजेनैव षडङ्गकम् ॥ १०-२७४ ॥  

अथ ध्यानम् ।

पीतवर्णं सहस्राक्षं वज्रप्द्मकरं विभुम् ।  
सर्वालङ्कारसंयुक्तं नौमीन्द्रं दिक्पतीश्वरम् ॥ १०-२७५ ॥  

अस्य पुरश्चरणणं तत्रैव ।

प्रजपेल्लक्षमेकं तु तिलाज्याभ्यां हुनेत् ततः ।  
एवं सिद्धमनुर्मन्त्री प्रयोगं कर्त्तुमर्हति ॥ १०-२७६ ॥  

अथाग्निमन्त्रः (शारदायाम्)

व्याहृतित्रयमग्नेः स्याज्जातवेद इहावह ।  
सर्वकर्माणि सम्भाष्य साधयाग्निप्रिया ततः ॥ १०-२७७ ॥  

ताराद्योऽयं मनुः प्रोक्तः पञ्चविंशतिवर्णवान् ।  

प्। ८९८) ऋषिर्भृगुर्भवेच्छन्दो गायत्रं देवताऽनलः ॥ १०-२७८ ॥

विभक्तः पञ्चभिः षड्भिश्चतुर्भिः पञ्चभिस्त्रिभिः ।  
द्वाभ्यामङ्गक्रिया प्रोक्ता वर्णैर्मूलमनोः क्रमात् ॥ १०-२७९ ॥  

अथ ध्यानम् ।

अंसासक्तसुवर्णमाल्यमरुणस्रक्चन्दनालङ्कृतं  
ज्वालापुञ्जजटाकलापविलसन्मौलिं सुमुक्ताम्बरम् ।  
शक्तिस्वस्तिकदर्भमुष्टिकजपस्रक्स्रुक्स्रुवाभीवरान्  
तदोर्भिर्बिभ्रतमञ्चितत्रिनयनं रक्ताभमग्निं भजे ॥ १०-२८० ॥  

अथ पुरश्चरणम् ।

गुरोर्लब्धमनुर्मन्त्री चतुर्दश्यामुपोषितः ।  
जपेद्भानुसहस्राणि शुद्धाचारो जितेन्द्रियः ॥ १०-२८१ ॥  

अमावास्यादिने विप्रान् भोजयेन्मधुरोत्तरैः ।  
भक्ष्यैर्भोज्यैर्यथाशक्ति दद्यात् तेभ्योऽत्र दक्षिणाम् ॥ १०-२८२ ॥  

भुक्त्वा भोगं समानीय होमद्रव्याणि शोधयेत् ।  
अपरं दिनमारभ्य होमं कुर्यदतन्द्रितः ॥ १०-२८३ ॥  

क्रमाद्वटसमिद्ब्रीहितिलराजीहविर्घृतैः ।  
प्रत्येकमष्टोत्तरशतं जुहुयादनिशं सुधीः ॥ १०-२८४ ॥  

दशाहमेवं निर्वर्त्त्य विधानेन विधानवित् ।  
दत्वा पूर्णाहुतिं सम्यगेकादश्यां द्विजोतमान् ॥ १०-२८५ ॥  

सम्पूज्य तर्पयेद्वित्तैर्यथाविभवमादरात् ।  
गुरवे दक्षिणां दद्यादरुणां गां पयस्विनीम् ॥ १०-२८६ ॥  

वासांसि धनधान्यादि दत्वा सम्प्रीणयेद्गुरुम् ।  

अथ यमन्त्रो(मेरुतन्त्रे)

ॐ क्रो। ह्री। आ। च तद्बीजं ङेऽन्तं वैवस्वतं वदेत् ॥ १०-२८७ ॥  

प्। ८९९) धर्मराजाय भक्तानुग्रहकृते नमो वदेत् ।
चतुर्विंशतिवर्णोऽयं यममन्त्रोऽखिलेष्टदः ॥ १०-२८८ ॥

सिद्धीष्विस्वङ्गयुग्मार्णैः षडङ्गानि स्मरेद्यमम् ।  
मेघश्यामं प्रसन्नास्यं नानालङ्कारसंयुतम् ॥ १०-२८९ ॥  

महिषस्थं दण्डधरं संस्तुतं पितृभिर्वृतम् ।  
नानारूपधरैर्दूतैः श्वेतवस्त्रं भजेद्यमम् ॥ १०-२९० ॥  

अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं हुनेदाज्यान्वितैस्तिलैः ।  

अथ नैरृतमन्त्रस्तत्रैव ।

ॐ क्ष। निर्-ऋतये रक्षाधिपतये पदं वदेत् ॥ १०-२९१ ॥  

धूम्रवर्णाय खड्गेति हस्ताय प्रेतवाहनः ।  
ङेऽन्तस्ततश्च हृदयं त्रिंशदर्णो मनुर्मतः ॥ १०-२९२ ॥  

ॐ क्षमाद्यैर्हृदन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः ।  

ध्यानम् ।

किरीटिनं च पिङ्गाक्षं धूम्राभं प्रेतवाहनम् ॥ १०-२९३ ॥  

नानारक्षोगणैः सेव्यः खड्गचर्मधरं भजे ।  

पुरश्चरणं तत्रैव ।

जपेत् त्रिंशत्सहस्राणि गुञ्जाज्याभ्यां हुनेत् पुनः ॥ १०-२९४ ॥  

अथ वरुणमन्त्रस्त्रैव ।

अथातः सम्प्रवक्ष्यामि मन्त्रं वरुणदैवतम् ।  
तारं व। वरुणायेति जलाधिपतये वदेत् ॥ १०-२९५ ॥  

वदेच्च शुक्लवर्णाय पाशहस्ताय संवदेत् ।  
मकरेति वाहनाय नम एकत्रिवर्णकः ॥ १०-२९६ ॥  

त्रिष्टुप्छन्दो वशिष्ठर्षिर्देवता वरुणो मतः ।  
ॐ वमाद्यैर्नमोऽन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः ॥ १०-२९७ ॥  

प्। ९००) ध्यानम् ।

श्वेतांशुकं दधद्धस्तैः पाशाङ्कुशवराभयान् ।  
स्वच्छारविन्दवसतिर्मुक्ताभरणभूषितः ॥ १०-२९८ ॥  

तुन्दिलश्च प्रसन्नास्यो वरुणो निधिदोऽस्तु मे ।  

पुरश्चरणम् ।

जपेद्वर्णसहस्रं तु होमः पद्माक्षकैर्मतः ॥ १०-२९९ ॥  

अथ वायुमन्त्रस्तत्रैव ।

अथातः सम्प्रवक्ष्यामि वायुमन्त्रं महाद्भुतम् ।  
तारं य। वायवे प्राणाधिपतये पदं वदेत् ॥ १०-३०० ॥  

कृष्णवर्णायाङ्कुशेति हस्ताय मृगवाहना - ।  
य नमो गोद्विवर्णोऽयं वायोर्मन्त्र उदीरितः ॥ १०-३०१ ॥  

गणकोऽस्य मुनिश्छन्दो निवृद्वायुश्च देवता ।  
पञ्चाङ्गानि मनोरस्य ॐ य। बीजादिकैः पदैः ॥ १०-३०२ ॥  

ध्यानम् ।

कृष्णवर्णं धावमानं मृगस्थं वेगवत्तरम् ।  
पाशाङ्कुशकरं प्रेतकृत्यापरिमलान्वितम् ॥ १०-३०३ ॥  

अथ पुरश्चरणम् ।

जपेद्वर्णसहस्राणि लाजाज्याभ्यां च होमयेत् ।  
सिद्धमन्त्रस्तु तत्कालं भवेद्भूमौ बलाधिकः ॥ १०-३०४ ॥  

अथ कुवेरमन्त्रस्तत्रैव ।

अथातः सम्प्रवक्ष्यामि राजराजमनून् शुभान् ।  
यक्षाय च कुवेराय वदेद्वैश्रवणाय च ॥ १०-३०५ ॥  

धनधान्याधिपतये धनधान्यपदं वदेत् ।  
समृद्धिं मे देहि वदेद्दापयाग्निप्रियान्तकः ॥ १०-३०६ ॥  

पञ्चत्रिंशद्वर्णमितो विश्रवा मुनिरीरितः ।  

प्। ९०१) छन्दस्तु बृहती त्र्यब्धीष्वष्टाष्टाङ्गैः षडङ्गकम् ॥ १०-३०७ ॥

ध्यानम् ।

गारुत्मतनिभं शान्तं मुकुटादिविभूषितम् ।  
वरं गदां च दधतं तुन्दिलं यक्षसेवितम् ॥ १०-३०८ ॥  

पुरश्चरणम् ।

लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात् तिलैः ।  
धर्मादिपीठे प्रयजेदङ्गलोकेशहेतिभिः ॥ १०-३०९ ॥  

शिवालये लपेन्मन्त्रमयुतं धनवृद्धये ।  
विल्वमूलोपविष्टेन जप्तो लक्षं धनर्द्धिदः ॥ १०-३१० ॥  

अथ मन्त्रान्तरं वक्ष्ये ॐ श्री। ॐ ह्री। समुच्चरेत् ।  
श्री। ह्री। क्ली। श्री। क्ली। च वित्तेश्वराय नम इत्यपि ॥ १०-३११ ॥  

षोडशार्णोऽस्य मुन्यादि प्राग्वत् त्रिद्विद्विनेत्रकैः ।  
पञ्चाक्षिभ्यां षडङ्गं स्याद्ध्यानपूजादि पूर्ववत् ॥ १०-३१२ ॥  

अथ मन्त्रान्तरं तत्रैव ।

अथ मन्त्रान्तरं वक्ष्ये कुवेरस्य गजाक्षरम् ।  
तारो वैश्रवणायेति स्वाहा पञ्चाङ्गमत्र तु ॥ १०-३१३ ॥  

स्वाहान्तैः प्रणवाद्यैस्तु पञ्चभिर्मन्त्रवर्णकैः ।  

ध्यानमाह ।

धनपूर्णं स्वर्णकुम्भं तथा रत्नकरण्डकम् ॥ १०-३१४ ॥  

हस्ताभ्यां बिभ्रतं खर्वकरपादं च तुन्दिलम् ।  
धराधस्ताद्रत्नपीठोपविष्टं सस्मिताननम् ॥ १०-३१५ ॥  

पुरश्चरणम् ।

वर्णलक्षं जपेद्धोमः पूजा प्राग्वन्महाधनी ।  
सेवनादस्य भवति यक्षिण्याद्यास्तथा वशाः ॥ १०-३१६ ॥  

अथेशानमन्त्रस्तत्रैव ।

प्रणवं हंसमुच्चार्य ईशानाय वदेत् ततः ।  

प्। ९०२) विद्याधिपतये चेति स्फटिकेति वदेत् ततः ॥ १०-३१७ ॥

वर्णाय शूलहस्ताय ङेऽन्तश्च वृषवाहनः ।  
नमोऽन्त एकत्रिंशद्भिर्वर्णैर्मन्त्र उदाहृतः ॥ १०-३१८ ॥  

ॐ हमाद्यैर्नमोऽन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः ।  
शक्तीनां मनवो ये च ता विद्याः परिकीर्तिताः ॥ १०-३१९ ॥  

पुरुषाणां च ते मन्त्रा विद्यास्तु पुरुषं विना ।  
भवन्ति नैव फलदा यथा नारी नरं विना ॥ १०-३२० ॥  
	  
पुसां योगो यत्र नोक्तस्तत्रेशानं प्रयोजयेत् ।  

अस्य पुरश्चरणमष्टसहस्रजपस्तन्त्रान्तरे प्रोक्तः ।
अथ ब्रह्ममन्त्रो (मेरुतन्त्रे)

अथातः सम्प्रवक्ष्यामि ब्रह्मणो मन्त्रमुत्तमम् ॥ १०-३२१ ॥

तारं पाशं ब्रह्मणे च लोकाधिपतये वदेत् ।  
रक्तवर्णायोर्ध्वलोकपालकाय वदेत् ततः ॥ १०-३२२ ॥  

पद्महस्ताय च पदं ङेऽन्तं स्यार्द्धसवाहनः ।  
नमोऽन्तो बाणरामार्णो मन्त्रोऽयं परिकीर्तितः ॥ १०-३२३ ॥  

तारपाशादिकैः षड्भिः पदैरङ्गहृदन्तकैः ।  
नास्य पूजा तु मच्छापाज्जपोऽस्य परिकीर्तितः ॥ १०-३२४ ॥  

वर्णलक्षजपादेव निग्रहानुग्रहक्षमः ।  
दशपत्रे यजेदेनं प्रागीशान्तर्दले सुराः ॥ १०-३२५ ॥  

न तत्र मम शापोऽस्ति शापः केवलपूजने ।  

अथानन्तमन्त्रस्तत्रैव ।

अथातः सम्प्रवक्ष्यामि शेषस्य मनुमद्भुतम् ॥ १०-३२६ ॥  

तारं मायामनन्ताय नागाधिपतये वदेत् ।  
गौरवर्णायातलादिसप्तलोकेश्वराय च ॥ १०-३२७ ॥  

प्। ९०३) चक्रहस्ताय गरुडवाहनाय नमोऽन्तकः ।
एवं चत्वारिंशदर्णो मन्त्रोऽनन्तस्य कीर्तितः ॥ १०-३२८ ॥

मन्त्रं प्रतिचतुर्दश्यां चतुर्दशशतं जपेत् ।  
दुग्धं हुनेदिन्द्रविप्रान् भोजयेच्च चतुर्दश ॥ १०-३२९ ॥  

कुर्याच्चतुर्दशीं भक्त्या धनधान्ययुतो भवेत् ।  
राज्यभ्रष्टो लभेद्राज्यं विद्याकामस्तु पण्डितः ॥ १०-३३० ॥  

भाद्रशुक्लचतुर्दश्यां विशेषात् पूजनं मतम् ।  

इति दिक्पालप्रकरणम् ।

अथ गायत्रीपुरश्चरणादि ।

(मेरुतन्त्रे)

अथ वक्ष्यामि मन्त्रेशीं गायत्रीं वेदमातरम् ॥ १०-३३१ ॥  

यया तु सगुणं ब्रह्म गीयते प्रतिपाद्यते ।  
निर्गुणं यां विना मुक्तिर्न कस्यापि प्रजायते ॥ १०-३३२ ॥  

महामायास्वरूपायां महाकालः स्वयं यजेत् ।  
यत्प्रभावादहं त्वं च जातकाल इवापरः ॥ १०-३३३ ॥  

सगुणब्रह्मेति । सूर्यमण्डलमध्यस्थगुणत्रयात्मकतेजोरूपमित्यर्थः । तदुक्तं (बृहत्सिद्धान्तसारे)

अदित्यमण्डलगतं यत् तेजस्त्रिगुणात्मकम् ।  
तदेतत् सगुणं ब्रह्म ब्रह्मविष्णुशिवात्मकम् � इति ॥ १०-३३४ ॥  

निर्गुणमिति । गुणत्रयोपाधिरहितमित्यर्थः ।
यां विनेति । गुणब्रह्माभिधानद्वारा निर्गुणब्रह्मप्रतिपादिकाया अस्या एव मुक्तिहेतुत्वादिति भावः ।
(शारदायाम्)

प्रणवाद्या व्याहृतयः सप्त स्युस्तत्पदादिकाः ।  
चतुर्विंशत्यक्षरात्मा गायत्री शिरसाऽन्विता ॥ १०-३३५ ॥  

सर्ववेदोद्धृतः सारो मन्त्रोऽयं समुदाहृतः ।  

प्। ९०४) ब्रह्मा देव्यादिगायत्री परमात्मा समीरिताः ॥ १०-३३६ ॥

ऋष्याद्याः प्रणवस्यैते मुनिभिः परिकीर्तिताः ।  
यमदग्निभरद्वाजभृगुगौतमकाश्यपान् ॥ १०-३३७ ॥  

विश्वामित्रवशिष्ठाख्यौ व्याहृतीनामृषीन् विदुः ।  
गायत्र्युष्णिगथानुष्टुब्बृहतीपङ्क्त्यः पुनः ॥ १०-३३८ ॥  

त्रिष्टुब्जगत्यौ छन्दांसि कथितानि मनीषिभिः ।  
सप्तार्चिरनिलं सूर्यो वाक्पतिर्वरुणो वृषः ॥ १०-३३९ ॥  

विश्वे देवाः क्रमादासां देवताः परिकीर्तिताः ।  

(मेरुतन्त्रे)

गायत्र्या मुनिराख्यातो विश्वामित्रोऽतितापसः ॥ १०-३४० ॥  

गायत्री छन्द इत्युक्तं देवता सविता स्मृता ।  

तन्त्रान्तरे ।

अग्निर्मुखं शिरो ब्रह्मा हृद्विष्णुरलिकं शिवः ॥ १०-३४१ ॥  

साङ्ख्यायनश्च गोत्रं स्यात् त्रैलोक्यं चरणत्रयम् ।  

(शारदायाम्)

शिरसोऽस्या मुनिर्ब्रह्मा छन्दो देव्यादिका स्मृता ॥ १०-३४२ ॥

गायत्री परमात्मा तु देवता कथिता बुधैः ।  

(मेरुतन्त्रे)

व्याहृतिः सप्तभूराढ्या हृन्मुखांसोरुयुग्मके ॥ १०-३४३ ॥  

जठरे च क्रमात् न्यसेन्न्यासोऽयं प्रथमः स्मृतः ।  
पादाङ्गुल्याद्यसन्धौ च सन्धौ स्याद्गुल्फपादयोः ॥ १०-३४४ ॥  

गुल्फजान्वोस्तथा सन्धौ तथा जानूरुसन्धिषु ।  
लिङ्गे नाभौ च हृदये कण्ठे वर्णान्न्यसेत् क्रमात् ॥ १०-३४५ ॥  

कराङ्गुलीमूलसन्धौ मणिबन्धे च कूर्परे ।  
भुजमूले मुखे नासिकायां चापि कपोलयोः ॥ १०-३४६ ॥  

प्। ९०५) नेत्रकर्णभ्रूशिरसि चूडाधोवामकर्णके ।
दक्षकर्णे मुखे मस्तके च वर्णान् क्रमान् न्यसेत् ॥ १०-३४७ ॥

गायत्र्या अक्षरन्यासो द्वितीयः सम्प्रकीर्तितः ।  
पदानि दश गायत्र्याः शिरोभ्रूमध्यदृङ्मुखे ॥ १०-३४८ ॥  

कण्ठहृन्नाभिगुह्येषु जान्वोरङ्घ्र्योरथ न्येसेत् ।  
शिरोदेशे तु गायत्र्याः शिरोन्यासस्तृतीयकः ॥ १०-३४९ ॥  

हृदयं ब्रह्मणे प्रोक्तं विष्ण्वे शिर ईरितम् ।  
शिखा रुद्राय कवचमीश्वराय समीरितम् ॥ १०-३५० ॥  

नेत्रं सदाशिवायोक्तमस्त्रं सर्वात्मने स्मृतम् ।  
अयं षडङ्गन्यासस्तु चतुर्थः परिकीर्तितः ॥ १०-३५१ ॥  

पज्जानुकटिनाभौ च हृदये कण्ठभालयोः ।  
क्रमाद्व्याहृतयो न्यस्याः परब्रह्मेति शीर्षकम् ॥ १०-३५२ ॥  

पुनर्व्याहृतिन्यासोऽयं पञ्चमः परिकीर्तितः ।  
तत्सवितुर्हृदयाय वरेण्यं शिरसे तथा ॥ १०-३५३ ॥  

भर्गो देवस्य च शिखा धीमहि कवचं स्मृतम् ।  
धियो यो नो नेत्रमुक्तमस्त्रं शेषेण कीर्तितम् ॥ १०-३५४ ॥  

अयं न्यासस्तु षष्ठः स्यात् षडेते पापहारकाः ।  
प्राणायामत्रयं कृत्वा ततो ध्यानं समाचरेत् ॥ १०-३५५ ॥  

ध्यानं यथा ।

मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै �  
र्युक्तामिन्दिनिबद्धरत्नमुकुटां तत्त्वात्मवर्णात्मिकाम् ।  
गायत्रीं वरदाभयाङ्कुशकुशाञ्छुभ्रं कपालं गुणं  
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १०-३५६ ॥  

प्।९०६) ध्यानान्तरमुक्तं तन्त्रान्तरे ।

ब्रह्माणी चतुराननाऽक्षवलयं कुम्भं करैः स्रुक्स्रुवौ  
विभ्राणारुणकान्तिरिन्दुवदना ऋग्रूपिणी बालिका ।  
हंसारोहणकेलिरम्बरमणेर्विम्बाञ्चिताभूषिता  
गायत्री हृदि भाविता भवतु नः सम्पत्समृद्ध्यै सदा ॥ १०-३५७ ॥  

मध्याह्ने चान्त्यसन्ध्यायां ध्यानभेदमथ ब्रुवे ।  

तथा ।

रुद्राणो नवयौवना त्रिनयना वैयाघ्रचर्माम्बरा  
खट्वाङ्गत्रिशिखाक्षसूत्रवलयाभीतिर्दधानाऽम्बिका ॥ १०-३५८ ॥  

विद्युत्पुञ्जजटाकलापविलसद्बालेन्दुमौलिः सदा  
सावित्री वृषवाहनासिततनुर्ध्येया यजूरूपिणी ।  
वृद्धा नीलघनप्रभापरिलसत्पीताम्बराभूषिता  

दिव्यैराभरणैरथाङ्गकमले शङ्खं गदां बिभ्रती ॥ १०-३५९ ॥

तार्क्षस्कन्धगतासमस्तजगदाराध्या परा वैष्णवी  
ध्येया चैव सरस्वती भगवती सामस्वरूपा सदा ।  

अस्या पूजायन्त्रमुक्तं (मेरुतन्त्रे)

पद्ममष्टदलं लेख्यं ह्री। कारं कर्णिकास्थितम् ॥ १०-३६० ॥  

द्वौ द्वौ स्वरौ दिग्विदिशं प्रतिपत्रे समालिखेत् ।  
किञ्जल्केषु तदग्रेषु गायत्र्यर्णा। स्त्रिशस्त्रिशः ॥ १०-३६१ ॥  

तद्बहिर्वृत्तयुगलान्तराले तु समालिखेत् ।  
ककाराद्या।स्तथोमापोज्योतीरसोऽमृतं ब्रह्म ॥ १०-३६२ ॥  

भूर्भुवः सुवरोमिति यन्त्रे सर्वार्थसिद्धिदम् ।  

(शारदायाम्)

प्राणायामं पुरा कृत्वा गायत्रीं सन्ध्ययोर्जपेत् ॥ १०-३६३ ॥  

प्। ९०७) सप्तव्याहृतिसंयुक्तां गायत्रीं शिरसाऽन्विताम् ।
त्रिरुच्चरन् धिया प्राणान् धारयेद्यमानसः ॥ १०-३६४ ॥

प्राणायामोऽयमाख्यातः समस्तदुरितापहः ।  
व्याहृतित्रयसंयुक्तां गायत्रीं दीक्षितो जपेत् ॥ १०-३६५ ॥  

अथास्याः पूजाविधिः (मेरुतन्त्रे)

ततस्तु पूजयेद्देवीं दशावरणसंयुताम् ।  
आदौ सम्पूज्य देवेशीं कोणाग्रे पूजयेत् ततः ॥ १०-३६६ ॥  

त्रिकोणस्याग्निकोणात् तु प्रादक्षिण्येन देवताः ।  
ब्राह्मीं माहेश्वरीं वैष्णवीमिति प्रथमावृतिः ॥ १०-३६७ ॥  

तस्याग्रतस्त्वष्टदिक्षु क्रमादष्टौ प्रपूजयेत् ।  
आदित्यमुखा।श्च रविं प्रज्ञां भानुं प्रभां तथा ॥ १०-३६८ ॥  

भास्करं चापि सन्ध्यां च द्वितीयावरणं त्विदम् ।  
ततोऽर्चयेदष्टदलकेशरेष्वङ्गषट्ककम् ॥ १०-३६९ ॥  

गायत्र्याश्च तृतीयोक्तं दलमध्ये यजेदिमाः ।  
प्रह्लादिनीं प्रभां नित्यां विश्वम्भरां विलासिनीम् ॥ १०-३७० ॥  

प्रभावतीं जयां शान्तां चतुर्थावरणं त्विदम् ।  
ततो यजेद्दलाग्रेषु कान्तिं दुर्गां सरस्वतीम् ॥ १०-३७१ ॥  

विश्वरूपां विशालां च ईशानीं व्यापिनीं क्रमात् ।  
विमलां च प्रोक्तमिदं पञ्चमावृत्तिपूजनम् ॥ १०-३७२ ॥  

तदग्रिमे त्वष्टदले एताः पूज्याश्च शक्तयः ।  
तमोऽपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ॥ १०-३७३ ॥  

पद्मालयां परां शोभां पद्मरूपां तु षष्ठकम् ।  
भवेदावरणं चाग्रे ब्राह्म्याद्याः सप्त मातरः ॥ १०-३७४ ॥  

अष्टमा त्वरुणा प्रोक्ता सप्तमावरणं त्विदम् ।  

प्। ९०८) रविः सितः कुजो राहुः शनिश्चन्द्रो बुधो गुरुः ॥ १०-३७५ ॥

अष्टमावरणं चैतच्चतुरस्रे दिगष्टके ।  
दिक्पाला नवमे प्रोक्तास्तदस्त्राणि च दिङ्मिते ॥ १०-३७६ ॥  

एवं सपूजयेद्देवीं तस्या मुद्राः प्रदर्शयेत् ।  

मुद्रास्तु तत्रैवोक्ताः ।

गायत्र्या अथ वक्ष्यन्ते चतुर्विंशतिमुद्रिकाः ॥ १०-३७७ ॥  

जपादौ दर्शयेत् तासां देवताश्च तथा फलम् ।  
सुमुखं संहतौ हस्तावुत्तनाकुञ्चिताङ्गुली ॥ १०-३७८ ॥  

प्रल्हादिनी तत्र शक्तिः साधकानन्ददायिनी ।  
सम्पुटौ पद्मकोशाभौ करावन्योन्यसंहतौ ॥ १०-३७९ ॥  

तस्य शक्तिर्नित्यविश्वा विश्वस्यापि प्रियङ्करी ।  
विततं संहतौ हस्तावुत्तानावायताङ्गुई ॥ १०-३८० ॥  

हृदया नाम तच्छक्तिः सर्वेषां हृदयङ्ग्मा ।  
विस्तीर्णं संहतौ पाणी मिथो मुक्ताङ्गुलिद्वयम् ॥ १०-३८१ ॥  

शक्तिस्तु विमला तस्याः प्रभावादनघो भवेत् ।  
द्विमुखाख्या हस्तयोस्तु सम्मुखं सक्तयोर्द्वयोः ॥ १०-३८२ ॥  

कनिष्ठयोरेव योगः शक्तिस्तस्याः सदा विधा ।  
त्रिमुखारव्या हस्तयुग्मं संसक्तानामिकाद्वयम् ॥ १०-३८३ ॥  

संयुक्तं शेषमङ्गुल्यो भिन्नाः शक्तिः प्रभाती ।  
चतुर्मुखा हस्तयुग्मं संसक्तं मध्यमायुतिः ॥ १०-३८४ ॥  

शेषाङ्गुल्यस्तु सम्भिन्ना लोला शक्तिः प्रकीर्तिता ।  
मुद्रा पञ्चमुखी तद्वत् तर्जन्योर्यत्र संयुतिः ॥ १०-३८५ ॥  

अपराङ्गुलयो भिन्नाः शक्तिः शान्तिश्च शान्तिकृत् ।  
भवेत् षण्मुखमुद्रा सा सम्पूर्णाङ्गुलियोजनम् ॥ १०-३८६ ॥  

प्। ९०९) कनिष्ठाद्वितयं हित्वा शक्तिर्दुर्गा प्रकीर्तिता ।
अधोमुखं नाम मुद्रा न्युब्जौ हस्तावधोमुखौ ॥ १०-३८७ ॥

आकुञ्चिताग्रौ संयुक्तौ शक्तिरस्याः सरस्वती ।  
व्यापिकाञ्जलिकं नाम मुद्रा हस्तौ तु तादृशौ ॥ १०-३८८ ॥  

विशेषोऽत्र तु चोत्तानौ विश्वरूपाऽत्र देवता ।  
शकटं नाम मुद्रा सा बद्धाग्राङ्गुलिकौ करौ ॥ १०-३८९ ॥  

अधोमुखौ बद्धमुष्टी विशाखा शक्तिरत्र तु ।  
यमपाशं बद्धमुष्ट्योः करयोर्ग्रन्थिते यदा ॥ १०-३९० ॥  

तर्जन्यौ तत्र तलगे वामा ज्ञेयाऽत्र देवता ।  
ग्रन्थिताख्याऽन्योन्यसन्धिलग्नाश्चाङ्गुलयो यदि ॥ १०-३९१ ॥  

उत्तानौ चोच्छ्रिताङ्गुष्ठा वामा शक्तिः समीरिता ।  
सम्मुखोन्मुखमुद्रा तु सम्बद्धोर्ध्वाङ्गुली करौ ॥ १०-३९२ ॥  

दक्षिणाधोमुखो वाम ऊर्ध्वमाप्यायनी भवेत् ।  
विलम्बा नाम सा मुद्रा चोत्तानोन्नतकोटिकौ ॥ १०-३९३ ॥  

यस्यां करौ तु विमला तस्याः शक्तिः प्रकीर्तिता ।  
मुष्टिकं तु यदा मुष्टी भवतोऽन्योन्यसंयुते ॥ १०-३९४ ॥  

उत्तानौ तु करौ तत्र शक्तिः प्रोक्ता तमोमयी ।  
मत्स्यस्तु सम्मुखीभूतौ युक्तानामकनिष्ठिकौ ॥ १०-३९५ ॥  

ऊर्ध्वसंयुक्तवक्राङ्ग्यः शेषाः शक्तिर्हिरण्मयी ।  
कूर्मस्त्बधोमुखो वामस्तादृग्दक्षेण पृष्ठके ॥ १०-३९६ ॥  

समाक्रान्तस्तस्य शक्तिः सूक्ष्मा सूक्ष्मार्थसाधिनी ।  
वाराही दक्षिणस्योर्ध्वे वाममुत्तानकं करम् ॥ १०-३९७ ॥  

स्थापयित्वाऽधोमुखं तन्नामयेद्विश्वयोनिका ।  

प्। ९१०) सिंहाक्रान्तं नाम मुद्रा हस्तौ चेदायताङ्गुली ॥ १०-३९८ ॥

दत्तौ श्रवणयोरूर्ध्वं शक्तिरस्या जयावहा ।  
महाक्रान्तं नाम मुद्रा प्राग्वदाकुञ्चिताग्रकौ ॥ १०-३९९ ॥  

करौ कर्णस्थितौ शक्तिः प्रोक्ता पद्मालयाभिधा ।  
मुद्गरं किं चिदूर्ध्वं तु गतयोर्वामतर्जनी ॥ १०-४०० ॥  

धृता दक्षिणहस्तेन परा शोभाऽत्र देवता ।  
पल्लवाख्या भवेन्मुद्रा त्वङ्गुल्यः पल्लवीकृताः ॥ १०-४०१ ॥  

देव्यग्रे दर्शयेच्छक्तिर्गदारूपीति कीर्त्यते ।  

अथ पुरश्चरणं तत्रैव ।

चतुर्विंशतिलक्षाणि पुरश्चरणमुच्यते ॥ १०-४०२ ॥  

क्षीरौदनतिलान् दूर्वाः सिद्धौदनसमिद्वराः ।  
पृथक् सहस्रत्रितयं जुहुयान्मन्त्रसिद्धये ॥ १०-४०३ ॥  

तर्पणादि ततः कृत्वा गुरून् सन्तोष्य यत्नतः ।  
प्रयोगानाचरेद्विद्वा।स्तदनुज्ञापुरःसरम् ॥ १०-४०४ ॥  

इति गायत्रीपुरश्चरणविधिः ।

अथ व्याहृतीनां व्याख्या ।
(प्रपञ्चसारे)

भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्त्तते ।  
तत्पदं सदिति प्रोक्तं षण्मात्रत्वात् तु भूरतः ॥ १०-४०५ ॥  

भूतत्त्वात् कारणत्वाच्च भुवःशब्दस्य सङ्गतिः ।  
सर्वश्रीकरणात् स्वार्थतया च स्वरितीरितम् ॥ १०-४०६ ॥  

महत्त्वाच्च महःशब्दो महस्तेन समीरितः ।  
तदेव सर्वजननात् तस्मात् तु व्याहृतिर्जनः ॥ १०-४०७ ॥  

तपो ज्ञानतया चैव तथा तापतया स्मृतम् ।  

प्। ९११) सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्वयम् ॥ १०-४०८ ॥

व्याहृतीनां प्रणवैक्यमुक्तं तत्रैव ।

प्रणवस्य व्याहृतोनामन्तःसम्बन्ध उच्यते ।  
अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥ १०-४०९ ॥  

विन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् ।  
शान्तिः सत्यमिति प्रोक्तं सत् तत् परतरं पदम् ॥ १०-४१० ॥  

अथ गायत्रीव्याख्या पूर्वकं प्रणवस्याहृषोणां गायत्र्यैक्यमुक्तं तत्रैव ।

प्रणवस्य व्याहृतीनां गायत्र्यैक्यमथोच्यते ।  
अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवर्ण्यते ॥ १०-४११ ॥  

तद्द्वितीयैकवचनमनेनाखिलवस्तुनः ।  
सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥ १०-४१२ ॥  

अभिधेयं सदानन्दं परं ब्रह्माभिधीयते ।  
यत् तत् सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥ १०-४१३ ॥  

धातोरिति समुत्पन्नं प्राणिप्रसववाचकात् ।  
सर्वासां प्राणिजातानामिति प्रसवितुः सदा ॥ १०-४१४ ॥  

वरेण्यं वरणीयत्वात् सेवनीयतया तथा ।  
भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥ १०-४१५ ॥  

पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता ।  
पापस्य भर्जनाद्भर्गो भक्तस्निग्धतया तथा ॥ १०-४१६ ॥  

देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः ।  
प्रभुत्वेन प्रकाशेन दीप्यमानस्य वा तथा ॥ १०-४१७ ॥  

ध्यै � चिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः ।  
निगमाद्येन [देवेशि इति ४ पु० पा०।] दिव्येन विद्यारूपेण चक्षुषा ॥ १०-४१८ ॥  

प्। ९१२) दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः ।
हीनतारहितं तेजो यस्य स्यात् स हिरण्मयः ॥ १०-४१९ ॥

यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव हि ।  
द्वितीयाष्टाक्षरस्यैव व्याहृतिर्भुव ईरिता ॥ १०-४२० ॥  

धियो बुद्धिर्मनोरस्य च्छान्दसत्वात् समीरितम् ।  
कृतश्च लिङ्गव्यत्यासः सूत्रात् सुप्तिङुपग्रहात् ॥ १०-४२१ ॥  

यत् तु तेजोनिरुपमं सर्वदेवमयात्मकम् ।  
भजतां पापनाशस्य हेतुभूततयोच्यते ॥ १०-४२२ ॥  

न इति प्रोक्त आदेशः षष्ठ्यसौ युष्मदस्मदोः ।  
तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥ १०-४२३ ॥  

तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता ।  
एवं दश पदान्यस्यास्त्रयश्चाष्टाक्षराः स्मृताः ॥ १०-४२४ ॥  

षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः ।  
इत्थम्भूतं यदेतस्य देवस्य सवितुर्विभोः ॥ १०-४२५ ॥  

वरेण्यं भजतां पापविनाशनकरं परम् ।  
भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥ १०-४२६ ॥  

उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते ।  
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ १०-४२७ ॥  

तदात्मकं जगत् सर्वं रसस्तेजोद्वयं स्मृतम् ।  
अमृतं तदनाशित्वाद्बृहत्वाद्ब्रह्म गद्यते ॥ १०-४२८ ॥  

यदानन्दात्मकं ब्रह्म सत्यज्ञानादिलक्षणम् ।  
तद्भूर्भुवः स्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥ १०-४२९ ॥  

एतत् तु वेदवत् स्यात् तु वेदस्य शिर उच्यते ।  

प् ९१३) लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥ १०-४३० ॥

फलार्थी फलमाप्नोति मोक्षार्थी मोक्षमृच्छति ।  

इति व्याहृतीनां व्याख्या ।

अथ प्रणवमन्त्रः ।

(प्रपञ्चसारे)

अथ प्रणवसञ्ज्ञकं प्रतिवदामि मन्त्रं वरं  
सजापमपि सार्चनं सहुतकॢप्ति सोपासनम् ॥ १०-४३१ ॥  

अशेषदुरितापहं विविधकामकल्पद्रुमं  
विमुक्तिफलसिद्धिदं विमलमानसैः सेवितम् ।  
आद्यः स्वरः समेतोऽमरेण सधसप्तमश्च विन्दुयुतः ॥ १०-४३२ ॥  

प्रोक्तः स्यात् प्रणवोऽत्र त्रिमात्रिकः सर्वमन्त्रसमवायी ।  
मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका  
	गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता ॥ १०-४३३ ॥  

अक्लीवैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात् स्वरै-  
र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ।  

अथ ध्यानम् ।

विष्णुं भास्वत्किरीटा[भास्वत्कलापा � इति० ४ पु० पा०।]ङ्गदवलयगलाकल्पहारोदराङ्घ्रि �  
श्रोणीभूषं सुराजन्मणिमकरमहाकुण्डलामण्डिताङ्गम् ॥ १०-४३४ ॥  

हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयवासो �  
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ।  

अस्य पुरश्चरणं कोटिजपः ।
तदुक्तं तत्रैव ।

दीक्षितो मनुमिमं शतलक्षं सञ्जपेत् प्रतिहुनेच्च दशांशम् ॥ १०-४३५ ॥  

पायसैर्घृतयुतैश्च तदन्ते विप्रभूरुहभवाः समिधो वा ।  

प्। ९१४) सर्पिःपायसशालीतिलसमिधाज्यै हि योऽनले जुहुयात् ॥ १०-४३६ ॥

ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं न चिरात् ।  

पूजाविधिमुक्त्वा �

इत्थं मन्त्री तारमनुर्जाप्यहुतार्चा �  
भेदैरङ्गीकृत्य च युञ्ज्यादपि योगान् ॥ १०-४३७ ॥  

यैः संलब्ध्वा चेह समग्रां श्रियमन्ते  
विष्णोर्धाम प्राप्य स योगी लभते सत् ।  

इति प्रणवपुरश्चरणम् ।

अथ वैदिकमृत्युञ्जयमन्त्रः ।

(मेरुतन्त्रे)

मृत्योर्भयं तु सर्वेषां सर्वदा सर्वकर्मसु ॥ १०-४३८ ॥  

तस्मिन् जिते तु देवादिमोक्षान्तं साधयेज्जनः ।  
तदर्थं सम्प्रवक्ष्यामि मन्त्रं मृत्युञ्जयाभिधम् ॥ १०-४३९ ॥  

उपासना तस्य न स्याद्वंशेऽल्पायुश्च रोगभाक् ।  
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ १०-४४० ॥  

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ।  
वशिष्ठोऽस्य मुनिश्च्छन्दोऽनुष्टुब्देवस्त्रियम्बकः ॥ १०-४४१ ॥  

त्रिचतुर्वसुगोपञ्चत्रिभिर्वर्णैः षडङ्गकम् ।  

ध्यानमाह ।

हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो  
द्वाभ्यां तौ दधतं मृताक्षवलये द्वाभ्यां वहन्तं परम् ॥ १०-४४२ ॥  

अङ्कन्यस्तकरद्वयामृतघटं कैलाशसंस्थं शिवं  
स्वच्छाम्भोजगतं नवेन्दुमकुटं देवं त्रिनेत्रं भजे ।  

पुरश्चरणम् ।

जपेल्लक्षमिमं मन्त्रमेवं ध्यायेज्जितेन्द्रियः ॥ १०-४४३ ॥  

प्। ९१५) जुहुयाद्दशभिर्द्रव्यैरयुतं घृतसम्प्लुतैः ।

दशद्रव्याणि तत्रैवोक्तानि ।

विल्वं पलाशं खदिरं वटं च तिलसर्षपौ ॥ १०-४४४ ॥  

पायसं दधि दूर्वां च तथैकेन सहस्रकम् ।  
तर्पयित्वाऽभिषिञ्च्याथ ब्राह्मणा।स्तोषयेद्गुरुम् ॥ १०-४४५ ॥  

एवं कृते प्रयोगार्हो जायतेऽयं महामनुः ।  

इति वैदिकमृत्युञ्जयपुरश्चरणम् ।

अथ रुद्राध्यायपुरश्चरणविधिः ।

तत्रैव ।

श्रीविष्णुरुवाच ।

देवदेव महादेव भक्तानुग्रहकारक ॥ १०-४४६ ॥  

कालस्त्वमसि लोकानां महामाया त्वियं परा ।  
आवयोः के तुष्टिकरा मन्त्राः सूक्तानि तद्वद ॥ १०-४४७ ॥  

येन भुक्तिश्च मुक्तिश्च क्लेशो नैव च नैव च ।  

श्रीशिव उवाच

विष्णो गोप्यं त्वया पृष्टं न वाच्यं तान्त्रिके द्विजे ॥ १०-४४८ ॥  

तन्त्रे मे तामसं रूपं त्वया पृष्टं तु सात्त्विके ।  
भोगमोक्षैकनिलयं चतुर्वेदोत्तमोत्तमम् ॥ १०-४४९ ॥  

मन्त्रं स्तोत्रेश्वरं तन्मे जानीहि शतरुद्रियम् ।  
छन्दांस्यनुष्टुबादीनि अघोरोऽस्य मुनिर्मतः ॥ १०-४५० ॥  

देवताऽस्य भवेद्रुद्र आदित्यः परपूरुषः ।  

(पद्धतौ)

श्रीरुद्रप्रितये शतरुद्रियजपे विनियोगः ॥ १०-४५१ ॥  

अथ कराङ्गन्यासौ तत्रैव ।

ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।  

प्। ९१६) ॐ दर्शपौर्णमासात्मने तर्जनीभ्यां नमः ।
ॐ चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
ॐ निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ॐ ज्योतिष्टोमात्मने कनिष्ठाभ्यां नमः ।
ॐ चत्वारिंशच्छतसहस्रात्मने करतलपृष्ठाभ्यां नमः ।

एवं हृदयादिन्यासः ।
महान्यासस्तु विस्तरभयादुपेक्षितः ।
अथ ध्यानम् ।

आपातालनभःस्थलान्तभुवनब्रह्माण्डपाविस्फुर �  
ज्ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः ।  
आस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्  
ध्यायेदीप्सितसिद्धयेऽद्भुतपदं विप्रोऽभिषिञ्चेच्छिवम् ॥ १०-४५२ ॥  

(मेरुतन्त्रे)

पार्थिवोक्तप्रकारेण लिङ्गपूजां ततश्चरेत् ।  
आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः ॥ १०-४५३ ॥  

आराधयामि भक्त्या त्वां मां गृहाण महेश्वर ।  

आत्वावहन्तु हरयः सचेतसश्चेतैरश्वैः सह केतुमद्भिः ॥ १०-४५४ ॥

वाताजलैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वो नमः ।

एत् ते रुद्रभावसं तेन परो मूजवतोऽतीहि अवततधन्वा  

पिनाकवसः कृत्तिवासा अहि(चित्र)सन्नः शिवोऽतीहि ।
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य
त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्त्या। आविवेश ।

प्रसन्नो भव देवेशे सुमुखो भव शङ्कर ॥ १०-४५५ ॥  

शान्तो भवस्व चात्र त्वं मम चाभिमुखो भव ।  

प्। ९१७) स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् ॥ १०-४५६ ॥

तावत् त्वं प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधो भव ।  
अभिषेकं ततः कुर्यादमृतैः पञ्चभिः क्रमात् ॥ १०-४५७ ॥  

पश्चाच्छुद्धोदकेनाथ ततः पूजनमाचरेत् ।  
रौद्रीं धारां ततः कुर्यात् प्रच्यते तद्विधानकम् ॥ १०-४५८ ॥  

नमस्ते रुद्राग्नाविष्णु इत्यध्यायद्वयेन च ।  
आवर्तनमिति प्रोक्तं गङ्गास्नानफलप्रदम् ॥ १०-४५९ ॥  

आवर्तनाभिषेकं तु यः कुर्यात् प्रत्यहं नरः ।  
तस्य दैनन्दिनं पापं दैवजं नाशमाप्नुयात् ॥ १०-४६० ॥  

सन्ध्यावन्दनतः क्षीणं तच्चेत् प्राग्जन्मजं हरेत् ।  
एकः पाठो नमस्तस्य अनुवाकः परस्य च ॥ १०-४६१ ॥  

एवं भवा नमस्ते स्युरग्नाविष्णुस्तथैककम् ।  
इयं रुद्री समाख्याता रौद्रपापनिकृन्तनी ॥ १०-४६२ ॥  

अनया प्रत्यहं यस्तु कुर्याल्लिङ्गेऽभिषेचनम् ।  
जन्मजन्मकृतं पापं वर्षे वर्षे प्रणश्यति ॥ १०-४६३ ॥  

सप्तजन्मकृते पापे नष्टे लक्ष्मीर्विवर्धते ।  
वंशश्च स्थिरतामेति यशो याति दिगन्तरम् ॥ १०-४६४ ॥  

सूते चास्य यथा रूपं तथा तोये प्रणश्यति ।  
रुद्रीभिरेकादशभिर्लघुरुद्रः प्रकीर्तितः ॥ १०-४६५ ॥  

अनेन सिक्तं यैर्लिङ्गं ते न पश्यन्ति भास्करिम् ।  
एकादशभिरेतैस्तु महारुद्रः प्रकीर्तितः ॥ १०-४६६ ॥  

निर्धनानां द्विजानां च महापातकनाशनः ।  
अनेन विहितो होमः सोमयागफलं स्मृतम् ॥ १०-४६७ ॥  

प्। ९१८) अनधिकाराद्दीक्षायां कलौ पक्षस्त्वयं मतः ।
एकादशमहारुद्रैरतिरुद्रः प्रकीर्तितः ॥ १०-४६८ ॥

तथा ।

शाखायां यस्य तु यथा स्वाध्यायौ पठितावुभौ ।  
पठनीयौ तथा तेन शाखाभेदं न कारयेत् ॥ १०-४६९ ॥  

न रुद्रो यस्य शाखायां तैत्तिरीयं पठेत् स तु ।
शाखा तु यजमानस्य ब्राह्मणद्वारतः कृते ॥ १०-४७० ॥

अथ वा तैत्तिरीया स्यान्नान्या शाखा प्रयुज्यते ।  
शाखामिश्रं कृतं कर्म यजमानं विनाशयेत् ॥ १०-४७१ ॥  

धनलोभात् परार्थं यो विप्रो मामभिषिञ्चति ।  
स तु चाण्डालवज्ज्ञेयो निर्धनः सप्तजन्मसु ॥ १०-४७२ ॥  

कुटुम्बिना तु यत्नेन धानार्थं यच्च पूजनम् ।  
कृते चेज्जपदानाभ्यां तद्दशांशोऽस्य निष्कृतिः ॥ १०-४७३ ॥  

तथा ।

रुद्रो न यस्य शाखायां परिशिष्टान्वितं स तु ।  
पठेद्रुदं तेत्तिरीयं लुप्तशाखस्तमेव हि ॥ १०-४७४ ॥  

मन्त्रः प्रयोगसहितो रुद्राध्यायोऽथ वक्ष्यते ।  
असंस्कृताय नो वाच्यं तान्त्रिकाय कदाचन ॥ १०-४७५ ॥  

तत्रादौ ।

ॐ नमस्ते रुद्रमन्यव-इत्यारभ्य माहि(चित्र)सीः पुरुषं जगत् �   

इत्यन्तानां
पुरश्चरणप्रयोगः ।

दशलक्षं जपेद्विद्वानृच एता जितेन्द्रियः ।  
लक्षमेकं प्रजुहुयात् प्रत्यृचं योऽञ्जलिप्रभम् ॥ १०-४७६ ॥  

यवगोधूमकं क्षौद्रतिलाज्यदधिसंयुतम् ।  
यत्किञ्चित् कार्यमुद्दिश्य तस्य सिद्धिः प्रजायते ॥ १०-४७७ ॥  

प्। ९१९) एवमेव सहस्रं चेदेकादशदिनं हुनेत् ।
ग्रामगं बालमरकं नश्यते नात्र संशयः ॥ १०-४७८ ॥

कुमारमरकं ग्रामे द्वादशाहेन नश्यति ।  
होमः पञ्चदशाहं तु राष्ट्रोपद्रवनाशनः ॥ १०-४७९ ॥  

होमाद्विंशतिरात्रेण देशोपद्रवनाशनम् ।  
पृथिव्युपद्रवो नश्येन्मासमात्रेण होमतः ॥ १०-४८० ॥  

गवामुपद्रवे जाते गोष्ठमध्ये तदा हुनेत् ।  
वैकङ्कतसमिद्भिर्वाऽयुतं शान्तिः प्रजायते ॥ १०-४८१ ॥  

अयुतद्वयहोमेन महाशान्तिर्भवेद्ध्रुवम् ।  

शिवेन वचसा � इत्यादि ।

जपेदयुतसङ्ख्याकं शापमोक्षः प्रजायते ॥ १०-४८२ ॥  

शिशिरे तु जले प्रातर्लक्षं जप्त्वा सुखी भवेत् ।  

अध्यवोचत् � इति ।

लक्षमेकं पुरश्चर्या होमः स्याच्छ्वेतसर्षपैः ॥ १०-४८३ ॥  

व्याधिसङ्क्रामणीचेयं प्रयोगान्तरमुच्यते ।  
सप्ताभिमन्त्रितान् कृत्वा सर्षपानातुरस्य तु ॥ १०-४८४ ॥  

चतुर्दिक्षु क्षिपेद्रक्षा दशदिग्भ्यः प्रजायते ।  
सप्ताभिमन्त्रितान् कृत्वा पथि गच्छ।स्तु सर्षपान् ॥ १०-४८५ ॥  

दशदिक्षु क्षिपेन्नित्यं पथि क्षेमः प्रजायते ।  
ब्रह्मराक्षसयक्षाद्यैः पिशाचप्रेतभूतकैः ॥ १०-४८६ ॥  

आविष्टसर्षपैस्ताड्यः सप्तवाराभिमन्त्रितैः ।  
पुनः पुनर्मन्त्रपाठपूर्वकं ते धनार्थिनः ॥ १०-४८७ ॥  

धनं गृहीत्वा गच्छन्ति करे तं द्रुतमेव च ।  

प्। ९२०) शिखामाक्रम्य च यजेत् ताडयेद्गौरसर्षपैः ॥ १०-४८८ ॥

रात्रिं समस्तां स्कन्दादिग्रहपीडा विनश्यति ।  
अनेन मन्त्रयित्वा तु दद्याच्छास्त्रोक्तमौषधम् ॥ १०-४८९ ॥  

तत्कालं तद्गुणाय स्यादन्यथाऽसौ यथाविधि ।  
अभिमन्त्र्य जलं दद्यात् सर्वसत्त्वभवां रुजम् ॥ १०-४९० ॥  

हरेत् सर्वग्रहाणां च सर्षपैस्ताडनात् तथा ।  
सर्वभूतोद्भवां पीडां भस्मधारणतो जयेत् ॥ १०-४९१ ॥  

दिवसे च तथा रात्रौ त्रिशूलमभिमन्त्रयेत् ।  
सहस्रैकं सहस्रकं क्षिपेन्नागह्रदे तु तत् ॥ १०-४९२ ॥  

त्रिशूलं बान्धवोपेता नाशं गच्छन्ति पन्नगाः ।  
भस्माभिमन्त्रितं कृत्वा पन्नगाक्रान्तमन्दिरे ॥ १०-४९३ ॥  

क्षिपेत् तत्तालशब्देन पन्नगोत्सादनं भवेत् ।  

असौ यस्ताम्र � इत्यादि ।

उदयास्तमये सूर्यमेताभ्यामुपतिष्टते ॥ १०-४९४ ॥  

अष्टोत्तरशतं त्र्यब्दमक्षयान्नोद्भवो भवेत् ।  
सहस्रमभिजप्तेन क्षीरेण स्नापयेच्छिवम् ॥ १०-४९५ ॥  

अबदैकेन प्रसन्नः स्याद्घृतस्नानाच्च वर्षणम् ।  
अतसीनां तु पुष्पाणि हुनेदयुतसङ्ख्यया ॥ १०-४९६ ॥  

अवशो वश्यतां याति सविता वरदो भवेत् ।  
अर्कवृक्षोद्भवैर्दुग्धैराप्लुतानां तु होमयेत् ॥ १०-४९७ ॥  

अयुतं चार्कसमिधां सक्तुं च सजलं ददेत् ।  
होमान्ते भगवान् सूर्यो वृष्टिं मुञ्चति नान्यथा ॥ १०-४९८ ॥  

मन्त्रद्वयं तु भजतामिष्टां सिद्धिं प्रयच्छति ।  

प्। ९२१) नमोस्तु नीलग्रीवाय � इत्यादि ।

स्थण्डिलस्योपयुक्तं तु [कृशरम् � इति २-३पु० पा०] कृत्वा सघृतपायसम् ॥ १०-४९९ ॥  

कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी ।  
प्रत्यहं स्नापयेत् तावत् सहस्रेणाभिमन्त्रितम् ॥ १०-५०० ॥  

निवेदयेत् तद्देवाय कार्षापणसहस्रकम् ।  
सोद्यमाज्जायते लाभः सिद्धे मन्त्रे न संशयः ॥ १०-५०१ ॥  

असिद्धे तु तदर्धं स्यात् सूर्यकान्तदृषद्यपि ।  
निवेदनात् पुनर्लाभो लक्षमेकं पुरस्कृतिः ॥ १०-५०२ ॥  

होमस्तु पायसघृतैरनाख्येयः प्रयोगवान् ।  

प्रमुञ्च धन्वस्त्वम् � इत्यादि ।

आभिः षड्भिस्त्वायुधानि मन्त्रयेच्च सहस्रकम् ॥ १०-५०३ ॥  

बन्धयित्वा तानि रणे गच्छेत् गछन्ति शत्रवः ।  
जुहुयादयुतं गर्भकण्टक्या द्वेषकामुकः ॥ १०-५०४ ॥  

गुडं मुखेन चोत्थाप्यं शत्रोर्नाम स्मरन् जपेत् ।  
जपाख्यस्यासनेनैव शत्रुमुत्सादयेद्धटात् ॥ १०-५०५ ॥  

सम्पूर्णाहं जपन्नेव नगरं ग्राममेव च ।  
उत्सादयेच्च राजानमहोरात्रं जपन्निति ॥ १०-५०६ ॥  

राजपुत्रं दिनार्धेन क्षत्रियं त्रिलवेन च ।  
चतुर्भागेन वैश्यं च षड्भागेनैकजातिकम् ॥ १०-५०७ ॥  

पलाशाश्वत्थविल्वानामपामार्गस्य च क्रमात् ।  
विप्रादिवश्यकामस्तु दधिक्षौद्रघृतान्विताः ॥ १०-५०८ ॥  

हुनेदयुतसङ्ख्याकाः समिधः कार्यसिद्धये ।  

प्। ९२२) हीनवर्णान् वशीकर्त्तुं वरुणार्ककवेतसाम् ॥ १०-५०९ ॥

साखोटका।श्च जुहुयाद्दृष्ट्वा विप्रादिवृत्तिकान् ।  
सौगन्धिकान्युत्पलानि कुमुदानि प्रयच्छति ॥ १०-५१० ॥  

स्वयम्भुलिङ्गे लक्षं तु चन्दनाक्तानि भक्तितः ।  
राज्यभ्रष्टो भवेद्राजा षड्भिर्मन्त्रैः पृथक् पृथक् ॥ १०-५११ ॥  

धनार्थी प्राप्नुयाद्वित्तं शक्नुवन्निति पूजयेत् ।  
लक्षमेकं तिलानां यः पृथङ्मन्त्रैः शिवोपरि ॥ १०-५१२ ॥  

आरोपयेत् स शत्रूणां सदा मूर्धनि तिष्ठति ।  
अयुतं राजवृक्षस्य समिधो होमयेत् तु यः ॥ १०-५१३ ॥  

रणे राजकुले द्यूते स शत्रुं त्वरितं जयेत् ।  
गुग्गुलं षट्सहस्रं यो दक्षिणामूर्तिसन्निधौ ॥ १०-५१४ ॥  

यत्कार्यार्थं हुनेत् तस्य सिद्धिः शीघ्रं प्रजायते ।  
असाध्यस्यापि सिद्धिः स्याद्धुत्वा चाष्टसहस्रकम् ॥ १०-५१५ ॥  

यथा महानसे सिद्धमन्नं च जुहुयात् तथा ।  
सहस्राष्टकमेतस्य द्रव्यं भवति चाक्षयम् ॥ १०-५१६ ॥  

एका ऋक् परिशिष्टस्य एतस्याग्रे प्रचक्षते ।  

नमस्ते अस्तु भगवन् � इति ।

अयुतं यो जपेदेतां घृताक्तैर्विल्वपत्रकैः ॥ १०-५१७ ॥  

प्रतिनामसहस्रं तु हुत्वा स्याल्लोकवन्दितः ।  

नमो हिरण्यवाहवे � इत्यादि ।

पुरश्चरणमेतस्य सहस्राष्टकमीरितम् ॥ १०-५१८ ॥  

यः सङ्ग्रामगतस्तस्य कौशल्यार्थमिदं जपेत् ।  
जपप्रभावाच्छस्त्राद्यैः सोऽरिभिर्नैव वाध्यते ॥ १०-५१९ ॥  

प्। ९२३) सुतायार्हन्यासपूर्वं पशिरिष्टं निगद्यते ।

नमो रोहिताय स्थपतये- इति ।

सहस्रपञ्चकं चास्य पुरश्चरणमुच्यते ॥ १०-५२० ॥  

एतज्जप्तुर्भयं नास्ति व्याघ्रचौरादिजं वने ।  

नमः सहमानाय निव्याधिन � इत्यादि ।

सहस्राष्टकमेतस्य पुरश्चरणमुच्यते ॥ १०-५२१ ॥  

व्रणादेस्तीव्रपीडाया नाशकोऽस्य जपः स्मृतः ।  

नम इषुमद्भ्यो � इत्यादि ।

सहस्रनवकं तावत् पुरश्चरणमस्य तु ॥ १०-५२२ ॥  

सेनायाश्चतुरङ्गानां शान्तये प्रजपेदिदम् ।  

नम आव्याधिनीभ्यो � इत्यादि ।

पुरश्चरणमेतस्य सहस्राणां तुषोडश ॥ १०-५२३ ॥  

दुष्टग्रहवलिं दत्वा जप्त्वा च तं निरामयः ।  

नमो भवाय च � इत्यादि ।

पुरश्चर्यायुतं चास्य विभवार्थं प्रयोजयेत् ॥ १०-५२४ ॥  

त्रिसन्ध्यासु पठेदेतद्भवेद्वर्षेण भाग्यवान् ।  

नमो ग्र्याय � इत्यादि ।

सहस्रपञ्चकं तावत् पुरश्चरणमुच्यते ॥ १०-५२५ ॥  

गणस्याग्रत्वमाप्नोति मन्यते च परैरपि ।  

नमो ज्येष्ठाय च � इत्यादि ।

सहस्रदशकं तावत् पुरश्चरणमुच्यते ॥ १०-५२६ ॥  

ज्ञातृश्रेष्टत्वमाप्नोति जप्ते तस्य न संशयः ।  

नम आशुषेणाय � इत्यादि ।

प्। ९२४) पुरश्चर्या तु निर्दिष्टा सहस्राणां तु पञ्चकम् ॥ १०-५२७ ॥

जप्त्वा नश्यति खञ्जत्वं पादुकासिद्धिमाप्नुयात् ।  

नमो दुन्दुभ्याय � इत्यादि ।

अयुतद्वितयं चास्य पुरश्चरणमुच्यते ॥ १०-५२८ ॥  

सङ्ग्रामजयकृच्चायमनुवाकः प्रकीर्तितः ।  

नमः कूप्याय च � इत्यादि ।

षट्सहस्रं पुरश्चर्या ग्रहेणाधिष्ठितो निधिः ॥ १०-५२९ ॥  

अभिमन्त्रितमेतेन तोयं तन्निधिमोचकम् ।  

नमः सोमाय च � इत्यादि ।

पुरश्चर्याऽयुतमिता जपेदष्टोत्तरं शतम् ॥ १०-५३० ॥  

त्रिकालं भस्मतोयं च भक्षयेल्लेपयेत् तथा ।  
मासत्रयाद्राजयक्ष्मा किलासश्वित्रमब्दतः ॥ १०-५३१ ॥  

नश्येद्देहो भवेद्दिव्यः क्षुद्ररोगा दिनत्रयात् ।  

नमस्तीर्थ्याय च � इत्यादि ।

षट्सहस्रं पुरश्चर्या षण्मासं तीर्थगो जपेत् ॥ १०-५३२ ॥  

यथोक्तं तत् तीर्थफलं भुञ्जते चेह जन्मनि ।  

नम इरिण्याय च � इत्यादि ।

सहस्रनवकं तावत् पुरश्चरणमुच्यते ॥ १०-५३३ ॥  

धातुवादो राजतस्तु सिध्यते तत्प्रभावतः ।  
अत्रास्ति परिशिष्टस्यानुवाक एक एव हि ॥ १०-५३४ ॥  

रजस्याय च चैतस्य नमोऽन्तस्याग्रतः पठेत् ।  

नमो नन्दिकाय च � इत्यादि ।

सहस्राष्टकमेतस्य पुरश्चरणमुच्यते ॥ १०-५३५ ॥  

प्। ९२५) बालग्रहा विनश्यन्ति बर्हिपिच्छौघमार्जनात् ।

नम ऊर्व्याय च � इत्यादि ।

पुरश्चर्यासहस्राणां चतुष्टयमुदाहृतम् ॥ १०-५३६ ॥  

अभिमन्त्र्य जलं देयं शोकशान्त्यै तु शोकिने ।  

नमो वः किरिकेभ्य � इत्यादि ।

तिलहोमेनायुतेन कार्षापणसहस्रकम् ॥ १०-५३७ ॥  

उद्यमाद्वाऽथ भूपालात् प्राप्नुयाद्वर्षमध्यतः ।  
अपामार्गस्य समिधाऽयुतं हुत्वा रसापतिः ॥ १०-५३८ ॥  

सहस्रस्वर्णतुल्यस्य स्वस्य सिद्धिः सकृद्भवेत् ।  
गुग्गुलुप्रतिमां कृत्वा क्षुरेणोत्कर्त्तयेच्च ताम् ॥ १०-५३९ ॥  

जुहुयादष्टसाहस्रं लभेत् कन्यामलङ्कृताम् ।  

एवं कृत्वाऽथ वा होमं धनार्थी जपपूर्वकम् ॥ १०-५४० ॥

सुवर्णानां तु शतकं प्राप्नुयाद्वर्षमध्यतः ।  
हुनेद्गोसफखण्डानि चैकादशसहस्रकम् ॥ १०-५४१ ॥  

घृत्ताक्तानि लभेन्मासाद्गाव एकादशैव हि ।  
पुरश्चरणपूर्वं तु लक्षैकं तिलतण्डुलान् ॥ १०-५४२ ॥  

यो हुनेत् तस्य गेहे तु राज्यलक्ष्मीः स्वयं वसेत् ।  

एवं च तिलधान्याभ्यां होमाल्लक्ष्मीः स्थिरा भवेत् ॥ १०-५४३ ॥

शतपुष्यमयीं कृत्वा प्रतिमां राजरूपकाम् ।
सहस्रं जुहुयाद्राजा वशोऽवश्यं प्रजायते ॥ १०-५४४ ॥

पद्मोत्पलानां लक्षं तु हुत्वा भूयः श्रियं लभेत् ।  
चणकप्रतिमालक्षं होमयेद्गुग्गुलैर्वटीम् ॥ १०-५४५ ॥  

स्मृतसामन्तराज्यं स प्राप्नोत्येव न चान्यथा ।  

प्। ९२६) हुनेद्बिल्वसमिद्भिस्तु दक्षिणामूर्तिसन्निधौ ॥ १०-५४६ ॥

लक्षमेकं तदा राष्ट्रं सामन्तस्य लभेद्ध्रुवम् ।  
महाचतुष्पथे स्थाप्यं लिङ्गं वल्मीकमृद्भवम् ॥ १०-५४७ ॥  

स्नापयेत् पञ्चगव्येन रुद्राध्यायेन मन्त्रयेत् ।  
मानस्तोकेन मन्त्रेण चाभिषिञ्चेन्निवेद्यकम् ॥ १०-५४८ ॥  

सघृतं पायसं दद्याद्भूतेभ्यश्च तथा वलिम् ।  
एवं मासत्रयं कृत्वा महदैश्वर्यमाप्नुयात् ॥ १०-५४९ ॥  

पलं वाऽर्थपलं वाऽपि दक्षिणमूर्तिसन्निधौ ।  
श्वेताम्बरां चूर्णयित्वा स्थापयेत् ताम्रपात्रके ॥ १०-५५० ॥  

आलोड्य कपिलाज्येन प्रदेशिन्याऽभिमन्त्रितम् ।  
सहस्राष्टकमेतेन मन्त्रेण प्रपिबेदथ ॥ १०-५५१ ॥  

भवेत् तस्याप्रतिहतं वाक्यं सर्वत्र निश्चितम् ।  
उदुम्बरस्य समिधो दध्यक्ताश्चायुतं हुनेत् ॥ १०-५५२ ॥  

स्वामी बहुगवां स स्यात् क्षीयन्ते नास्य धेनवः ।  
विल्वानां तु घृतक्तानां हुनेदष्टसहस्रकम् ॥ १०-५५३ ॥  

सुवर्णाष्टकमाप्नोति ह्यसिद्धो रजताष्टकम् ।  
विल्वाभावे त्वामलकं तदभावे उदुम्बरम् ॥ १०-५५४ ॥  

तस्याभावे हैमवती तदभावे विभीतकम् ।  
श्रीखण्डगोघृताक्तानां पद्मानां लक्षमेककम् ॥ १०-५५५ ॥  

हुनेद्यस्तस्य लक्ष्मीस्तु स्वयमेवोपतिष्टते ।  

द्रापे अन्धसस्पते � इत्यादि ।

अनेन जुहुयादाज्यमयुतान्नियुतावधि ॥ १०-५५६ ॥  

अक्षयाण्यस वासांसि भवन्ति च तथा तथा ।  

प्। ९२७) याते रुद्र � इत्यादि ।

उर्णा ग्राह्या जीवदवेस्तनूस्तनूर्विहाय च ॥ १०-५५७ ॥  

एकादशशरं कुर्यात् सूत्रमेकैकसूत्रकम् ।  
सहस्रमभिमन्त्र्याथैकादश ग्रन्थयः स्मृताः ॥ १०-५५८ ॥  

एवं सम्पूज्य तां रज्जुं धूपं दत्वा च बन्धयेत् ।  
वामहस्ते तु गर्भिण्या बद्धं सा सुखतः सुवेत् ॥ १०-५५९ ॥  

दक्षे बालकहस्ते तु सुखं तिष्ठति बालकः ।  
धनिको बाहुमूले वा कण्ठे वा धारयेदिदम् ॥ १०-५६० ॥  

कदा चिदुत्तमर्णस्य भयं तस्य न जायते ।  

इमा(चित्र)रुद्राय � इत्यादि ।

अष्टोत्तरसहस्रं तु प्रत्यहं जुहुयात् तिलान् ॥ १०-५६१ ॥  

अयाचितं धनं तेन लोकेभ्य उपलभ्यते ।  
यश्च दूर्वाप्रवालानां घृताक्तमयुतं हुनेत् ॥ १०-५६२ ॥  

महाज्वरोप्रघातेऽपि मृतकल्पः स जीवति ।  
माक्षिकपायसाज्याशी अयुतं जुहुयाच्छुचिः ॥ १०-५६३ ॥  

महाग्रहज्वरादिभ्योऽभिचाराच्च प्रमुच्यते ।  
वैकङ्कतानामयुतं समिधानां घृतैर्हुनेत् ॥ १०-५६४ ॥  

ज्वरादिकभवा पीडा सद्य एव विनश्यति ।  
द्रव्याद्यर्थं यदा केचिन्मृदुभिरभिभूयते ॥ १०-५६५ ॥  

तदा तुषान् प्रजुहुयादयुतं सुखमेधते ।  
वैकङ्कतीश्च समिध औदुम्बरीस्तिला।स्तथा ॥ १०-५६६ ॥  

अनेन जुहुयाल्लक्षं सर्वशान्तिकरं स्मृतम् ।  
गवां वाऽन्यपशूनां वा ह्युपघाते तु तत्स्थले ॥ १०-५६७ ॥  

प्। ९२८) अग्निं संस्थाप्य जुहुयाद्वैकङ्कतीर्दधिप्लुताः ।
अयुतं तस्य शान्तिः स्यात् पालाशानां तथाऽयुतम् ॥ १०-५६८ ॥

घृताक्तानां प्रजुहुयान्महाज्वरमुखा ग्रहाः ।  
राक्षसा भूतवेतालाः प्रेताश्चापि पिशाचकाः ॥ १०-५६९ ॥  

जनं चापि गजं चाश्वं मुक्त्वा गच्छन्ति दूरतः ।  
जनानां जननं यस्मिन् गेहे भवति भूरिशः ॥ १०-५७० ॥  

मरणं वाऽथ हानिर्वा तत्र शान्तिरुदीर्यते ।  
घृताक्तानां तिलानां तु जुहुयादयुतं द्विजः ॥ १०-५७१ ॥  

यस्मिन् देशे महामारी व्याघ्रादीनां भयं च वा ।  
देवरक्षोभयं यत्र तत्र शान्तिं वदाम्यहम् ॥ १०-५७२ ॥  

पुरस्य मध्यभागे तु वह्निस्थापनमाचरेत् ।  
चतुर्दिक्षु च सन्नद्धा गुप्ताश्चत्वार एव हि ॥ १०-५७३ ॥  

नराः स्थाप्यास्ततः कर्म सावधानः समाचरेत् ।  
अष्टोत्तरसहस्रं तु घृताक्तान् जुहुयात् तिलान् ॥ १०-५७४ ॥  

ततोऽर्धरात्रसमये चौदनं सघृतं तिलान् ।  
पिष्टं माषौदनं चापि कृशरं परमान्नकम् ॥ १०-५७५ ॥  

सुप्ते जनपदे दद्यात् स्थाने स्थाने ततो वलिम् ।  
पलाशपत्रे रुद्रेभ्यो रक्षोभ्यस्तदनन्तरम् ॥ १०-५७६ ॥  

कुर्यादेवं पक्षमेकं सर्वोपद्रवनाशनम् ।  

मृडानो रुद्र � इत्यादि ।

सहस्रं प्रजपेत् तोये तीरे सम्पूजयेच्छिवम् ॥ १०-५७७ ॥  

यावद्दुरे भवेदिष्टस्त्रिधाहार्वाङ्मिलिष्यति ।  

मानो महान्तम् � इत्यादि ।

प्। ९२९) परिजनस्य बालानामारोग्यार्थं तिलान् हुनेत् ॥ १०-५७८ ॥

अयुतं शीतलादिभ्य आरोग्यं जायते द्रुतम् ।  

मानस्तोके � इत्यादि ।

मानस्तोकं महाकल्पं सर्वतन्त्रेषु गोपितम् ॥ १०-५७९ ॥  

कथयिष्यामि मुनये देवानां कार्यसिद्धये ।  
अतिकृच्छ्रेण कृच्छ्रेण तथा चान्द्रायणेन च ॥ १०-५८० ॥  

आदौ संशोध्य चात्मानं पूतकायो जपं चरेत् ।  
जपन्नेतत् तु भुञ्जीत शाकं वा यावकं पयः ॥ १०-५८१ ॥  

भिक्षां वा जपतस्तस्य भवेदयुतसङ्ख्यकम् ।  
सहस्रमात्रं होमः स्यात् प्रयोगार्हो भवेन्मनुः ॥ १०-५८२ ॥  

प्रयोगान्ते त्वहोरात्रं जपः कार्यो निरन्तरम् ।  
तद्दशांशेन जुहुयादौदुम्बरीर्घृतान्विताः ॥ १०-५८३ ॥  

महाव्याहृतिभिः पश्चात् तावदेवं घृतं हुनेत् ।  
संस्रावभागं सम्प्राश्य प्रयोगैर्न क्षयं व्रजेत् ॥ १०-५८४ ॥  

पुनः कर्म प्रकुर्वीत प्रायश्चित्तं पुनः पुनः ।  
स्नायाच्च तीक्ष्णतैलेन सप्तधा मन्त्रितेन च ॥ १०-५८५ ॥  

मारणादिप्रयोगानां भवेत् पातकमोचनम् ।  
ब्रह्मवर्चसकामस्तु हुनेदष्टसहस्रकम् ॥ १०-५८६ ॥  

घृताक्तानां च समिधामसाध्यः सर्वकर्मसु ।  
पद्मानां तु घृताक्तानां दशरात्रमुपोषितः ॥ १०-५८७ ॥  

अयुतं जुहुयाल्लक्ष्मीकामो वा शिवदर्शने ।  
अपामार्गोद्भवानां च तण्डुलानां तथाऽयुतम् ॥ १०-५८८ ॥  

हुनेद्दधिघृताक्तानां सर्वार्थस्य समृद्धये ।  

प्। ९३०) गोसहस्रस्य लाभाय जुहुयाद्गोसफेन च ॥ १०-५८९ ॥

आज्याहुतीनां च तथा सहस्राष्टकमादरात् ।  
उपोषितो दशाहानि हुनेद्विल्वफलानि च ॥ १०-५९० ॥  

अयुतं च घृताक्तानि लभेदष्टसहस्रकम् ।  
सिद्धे मन्त्रे सुवर्णानि न सिद्धे रजतानि तु ॥ १०-५९१ ॥  

भार्याऽमुको मे भवतु एतदर्थं हुनेच्छुचिः ।  
जातीपुष्पाणि चाज्येन मधुना संयुतानि च ॥ १०-५९२ ॥  

कपिला तु यदाऽसूतवृषभा वा सिताऽपि गौः ।  
आद्यं दुग्धं गृहीत्वाऽस्याः श्रपयेत् तेन वै चरुम् ॥ १०-५९३ ॥  

अष्टोत्तरशतं हुत्वा तथा वाऽष्टसहस्रकम् ।  
मन्त्रयित्वा चरुं तच्च सपत्नीकः प्रभक्षयेत् ॥ १०-५९४ ॥  

आयुष्मतो दृढान् पुत्रान् जनयेन्नात्र संशयः ।  
दूर्वाप्रवालान् जुहुयाद्दधिक्षौद्रघृतान्वितान् ॥ १०-५९५ ॥  

आयुःकामोऽष्टसाहस्रं चिरमायुः स विन्दति ।  
दधिक्षौद्रघृताक्तानां पुष्पाणां कुशकाशयोः ॥ १०-५९६ ॥  

सहस्राण्यष्ट जुहुयादिच्छेत् क्षुद्रान् यदा पशून् ।  
त्रिरात्रोपोषितो भूत्वा गच्छेन्महाचतुष्पथे ॥ १०-५९७ ॥  

लिप्त्वा भूमिं गोमयेन तद्वदेव घृतं मुखे ।  
पूजयित्वा हुनेद्भूमावष्टोत्तरसहस्रकम् ॥ १०-५९८ ॥  

कर्मणाऽनेन नृपतिर्भवेद्वश्यो न संशयः ।  
सप्ताभिमन्त्रितं तीक्ष्णतैलं तेन करद्वयम् ॥ १०-५९९ ॥  

सम्यक् प्लुतस्तेन स्पृष्टो यो ह्यसौ वशगो भवेत् ।  
ब्रह्मवर्चसकामस्तु दधिक्षौद्रघृतान्विताः ॥ १०-६०० ॥  

प्। ९३१) विल्वस्य समिधो हुत्वा लक्षं तेजोनिधिर्भवेत् ।
औदुम्बरीश्च जुहुयाद्दधिक्षौद्रघृतान्विताः ॥ १०-६०१ ॥

अयुतं चान्नकामस्तु लभेदन्नं तथा बहु ।  
अर्थकामः पलाशस्य समिधो घृतसंयुताः ॥ १०-६०२ ॥  

लक्षं हुनेत् तस्य धनमक्षयं जायते सदा ।  
अपामार्गस्य समिधः कटुतैलसमन्विताः ॥ १०-६०३ ॥  

हुनेदष्टौ सहस्राणि शत्रोरुच्चाटनं भवेत् ।  

उच्चाटनं तु देशादिभ्यः प्रवासनम् ।

सर्वोपद्रवनाशार्थं गृहीत्वा सप्तशर्कराः ॥ १०-६०४ ॥  

मन्त्रयित्वा सहस्रं तु चतुर्दिक्षु क्षिपेत् ततः ।  
ऊर्ध्वाधस्तस्य निकटे सर्वोपद्रवनाशनम् ॥ १०-६०५ ॥  

एवं कृत्वा व्रजेन्मार्गे चौरव्याघ्रभयं हरेत् ।  

आरात् ते गोघ्न � इत्यादि ।

महाभये समुत्पन्ने व्याघ्रचौरभयादिषु ॥ १०-६०६ ॥  

चतस्रर्चः स्मरेच्चित्ते तत्तद्भयविनाशकाः ।  

विकिरि � इत्यादि ।

जपेदयुतसङ्ख्याकं विरोधे तु महाजनैः ॥ १०-६०७ ॥  

राज्ञा वोपशमं याति प्रीतिश्चापि प्रजायते ।  

सहस्राणि � इत्यादि ।

यदा तु महतां मृत्युर्नृपतेर्वा उपद्रवः ॥ १०-६०८ ॥  

तदा होमं प्रकुर्वीत वैकङ्कतसमिद्वरैः ।  
ओदुम्बरीभिः शाल्मल्या तिलैर्वाऽपि यवैरपि ॥ १०-६०९ ॥  

प्रत्येकमेकादशधा चाभिमन्त्र्य ततो वलिम् ।  
कृशरं वा पायसं वा ततो भूतानि चार्चयेत् ॥ १०-६१० ॥  

प्। ९३२) दद्याद्विडालमांअसस्य वलिं नश्यन्त्युपद्रवाः ।

सहस्राणि सहस्रशो यो रुद्रा � इत्यादि ।

जपेदेता नव ऋचः परिशिष्टसमन्विताः ॥ १०-६११ ॥  

भवन्ति भोगदास्तेन हीना ज्ञानप्रदा मताः ।  

नमो रुद्रेभ्य � इत्यादि ।

मध्याह्ने चायुतं साज्यान् जुहुयात् तु सकण्टकान् ॥ १०-६१२ ॥  

प्रत्यङ्गिराया मन्त्रस्य कर्म कुर्यादयं मनुः ।  
मृत्युञ्जयेन मन्त्रेण नमस्तेऽस्य समापनम् ॥ १०-६१३ ॥  

तैत्तिरीयेऽन्यशाखायां परिशिष्टानि सप्त च ।  
सद्योजातादयः पञ्च त्र्यम्बकं च यजामहे ॥ १०-६१४ ॥  

तथा च त्वरितो रुद्र एतन्नमकमुच्यते ।  

अग्नाविष्णू � इत्यादि ।

नित्यं सन्ध्यावन्दनान्ते तिष्ठन् कालत्रये जपेत् ॥ १०-६१५ ॥  

अष्टोत्तरसहस्रं तु षण्मासं सत्यवाग्भवेत् ।  

वाजश्च मे प्रसवश्च मे � इत्यादि ।

एतैः सप्तानुवाकैस्तु एवमानादिपञ्चभिः ॥ १०-६१६ ॥  

आज्याहुतिसहस्रं तु हुत्वा तोये प्रविश्य च ।  
शतं जपेदक्षिरोगः कदा चिन्नैव जायते ॥ १०-६१७ ॥  

जातस्य च प्रशान्तिः स्यान्नेत्रतेजोऽभिवर्धते ।  

इध्मश्च मे बर्हिश्च म � इत्यादि ।

एतावान्रुद्र आख्यातः सर्वकामफलप्रदः ॥ १०-६१८ ॥  

विस्वरोऽनक्षरः पाठः कृतस्तद्दोषशान्तये ।  

इडादेबहूः � इत्यादि ।

परिशिष्टं जपेदेतदेष रुद्रविधिः स्मृतः ॥ १०-६१९ ॥  

प्। ९३३) अभिषिञ्चेत् पौष्टिकार्थं शान्तिकामस्तु होमयेत् ।
सिद्धिकामो जपेदेवमक्षराणां तु सङ्ख्यया ॥ १०-६२० ॥

इहैव वज्रदेहोऽसौ शिव एव न चापरः ।  
पद तुल्यावृत्तिजपाद्वाक्सिद्धिरुपजायते ॥ १०-६२१ ॥  

वाक्यतुल्यावृत्तिजपात् पापं सर्वं विनश्यति ।  
ऋचां सङ्ख्याजपात् सर्वं क्षुद्रपापं विनश्यति ॥ १०-६२२ ॥  

अनुवाकसमं जप्त्वा दुष्टग्रहरुजं जयेत् ।  

इति रुद्राध्यायपुरश्चरणप्रयोगः ।

अथ गणेशसूक्तपुरश्चरणम् ।

तत्रैव ।

अथ विष्णो प्रवक्ष्यामि सूक्तं गणपतेः परम् ॥ १०-६२३ ॥  

यत् साधनं विना सर्वमन्त्रा विघ्नैस्तु विघ्निताः ।  
तस्मादादौ गणेशानं प्रसाद्य पुनराचरेत् ॥ १०-६२४ ॥  

निद्राऽलस्यं क्षुधा क्रोधो लोभो मोहो मनोभवः ।  
गणनाथानर्चकानामेते विघ्नकराः स्मृताः ॥ १०-६२५ ॥  

विधानपूर्वकं तस्मात् तत्सूक्तमुपदिश्यते ।  
तज्जापकानां कार्याणि स्युरप्रतिहतानि च ॥ १०-६२६ ॥  

द्वादशार्चस्य सूक्तस्य गणेशस्य महात्मनः ।  
ऋषिर्गृत्समदाख्यो हि गणकः परिकीर्तितः ॥ १०-६२७ ॥  

आद्यानां त्रि - ऋचानां तु छन्दस्त्रिष्टुप् प्रकीर्तितम् ।  
उत्तराणां नवानां च गायत्रं छन्द उच्यते ॥ १०-६२८ ॥  

महागणपतिश्चास्य दैवतं परिकीर्तितम् ।  
विनियोगः कीर्त्तनीयो यथाकार्यानुसारतः ॥ १०-६२९ ॥  

गणानां त्वा गणपति(चित्र) � इत्यादि ।

प्। ९३४) गणानां त्वा निषुसीद त्वेषं गणं तथैव च ।
अनून इन्द्र विद्महि न हित्वा शूलमेव च ॥ १०-६३० ॥

अङ्गुष्ठाग्रात् समारभ्य करपृष्ठादिषु न्यसेत् ।  
गणानां त्वेति षड्भिश्च हृदयादिषडङ्गकम् ॥ १०-६३१ ॥  

एवं न्यासद्वयं कृत्वा षड्डग्भिर्व्यापकं चरेत् ।  

न्यासान्तराणि पूजाविधानं चोक्त्वा पुरश्चरणमाह ।

एकविन्त्सहस्रं तु सूक्तस्यैषा पुरस्क्रिया ॥ १०-६३२ ॥  

जपाद्दशांशहोमस्तु पायसेन घृतेन तु ।  
शर्करापञ्चखाद्यैश्च कुसुमैः करबीजैः ॥ १०-६३३ ॥  

विल्वपत्रैरिक्षुदण्डैर्दाडिमीकदलीफलैः ।  
मोदकैर्लड्डुकैश्चैव घृतपक्वैर्मनोहरैः ॥ १०-६३४ ॥  

अलाभे सर्वद्रव्याणां जुहुयात् तिलसर्पिषा ।  
होमस्य दशमांशेन गोपयोभिश्च तर्पयेत् ॥ १०-६३५ ॥  

अथ वेक्षुरसेनैव तदभावे गुडोदकम् ।  
तर्पणस्य दशांशेन मार्जयेच्छुद्धवारिभिः ॥ १०-६३६ ॥  

मार्जनस्य दशांशेन ब्राह्मणान् भोजयेद्बहून् ।
पायसैः पञ्चखाद्यैश्च मोदकैः सिद्धलड्डुकैः ॥ १०-६३७ ॥

अपूपमण्डकाद्यैश्च सघृतैः शर्करान्वितैः ।  
सहकाररसैः सार्धं तथा च कदलीफलैः ॥ १०-६३८ ॥  

एवं सिद्धे तु सूक्ते तु यत् फलं तन्निगद्यते ।  
महदैश्वर्यमतुलं प्रज्ञां विद्यां यशो बलम् ॥ १०-६३९ ॥  

वाक्सिद्धिं समवाप्नोति चान्ते ब्रह्मपदं व्रजेत् ।  

इति गणेशसूक्तपुरश्चरणविधिः ।

प्। ९३५) अथ पुरुषसूक्तविधिः ।

(मेरुतन्त्रे)

वक्ष्ये पुरुषसूक्तस्य विधिं तत्रैव गोपितम् ॥ १०-६४० ॥  

आनुष्टुबस्य सूक्तस्य त्रिष्टुबं तस्य दैवतम् ।  
पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः ॥ १०-६४१ ॥  

स्नात्वा यथोक्तविधिना प्राङ्मुखः शुद्धमानसः ।  
प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे ॥ १०-६४२ ॥  

तृतीयां वामपादे तु चतुर्थीं दक्षिणे न्यसेत् ।  
वामजानौ पञ्चमीं च षष्ठीं जानुनि दक्षिणे ॥ १०-६४३ ॥  

सप्तमीं वामकद्यां तु अष्टमीं दक्षिणे कटौ ।  
नवमीं नाभिदेशे तु दशमीं हृदये न्यसेत् ॥ १०-६४४ ॥  

एकादशीं कण्ठदेशे द्वादशीं वामबाहुके ।  
त्रयोदशीं दक्षभुजे मुखदेशे चतुर्दशीम् ॥ १०-६४५ ॥  

अक्ष्णोः पञ्चदशीं चैव षोडशीं मूर्ध्नि विन्यसेत् ।  
एवं न्यासविधिं कृत्वा पश्चात् पूजां समाचरेत् ॥ १०-६४६ ॥  

अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ।  
षट्स्वेतेषु हरेः सम्यगर्चने योग्यतोच्यते ॥ १०-६४७ ॥  

आपो ह्यायतनं तस्य तस्मात् तासु सदा हरिः ।  
अग्नौ क्रियावतां विर्ष्णुयोगिनां हृदये हरिः ॥ १०-६४८ ॥  

पण्डितानां हरिः सूर्यः स्थण्डिले भावितात्मनाम् ।  
प्रतिमास्वल्पबुद्धीनां षट्प्रकाराश्च ताः स्मृताः ॥ १०-६४९ ॥  

अकृत्रिमाः कृत्रिमाश्च अचलाश्च चलाचलाः ।  
निर्जीवाश्च सजीवाश्च तासां वक्ष्यामि लक्षणम् ॥ १०-६५० ॥  

अकृत्रिमा च द्विविधा शालग्रामोऽतिपावनः ।  

प्। ९३६) तदभावे द्वारकायाश्चक्रं तद्वच्च पावनम् ॥ १०-६५१ ॥

कृत्रिमा दशध प्रोक्ता श्रेष्ठास्ताः पूर्वपूर्वतः ।  
स्याद्रत्नखचिता त्वाद्या स्वर्णजा रूप्यजाऽपि च ॥ १०-६५२ ॥  

ताम्रजा पीत्तलोजाता स्फाटिका रक्तशीतजा ।  
कोष्ठजा मृत्तिकाजाता चित्ररूपेति च क्रमात् ॥ १०-६५३ ॥  

अचलाः क्षेत्ररूपास्तु हरिद्वारं यथा गया ।  
देवताभिः कृत्वा यास्तु मूर्त्तयस्ताश्चलाचलाः ॥ १०-६५४ ॥  

जगन्नाथो वेङ्घटेशः पाण्डुरङ्गादयस्तु ते ।  
सजीवा ब्राह्मणा गावो निर्जीवः पिप्पलः स्मृतः ॥ १०-६५५ ॥  

मन्त्रन्यासं पुरा कुर्यात् स्वदेहे देवतासु च ।  
गायत्र्योङ्कारन्यस्ताङ्गः पूजयेद्विष्णुमव्ययम् ॥ १०-६५६ ॥  

आद्ययाऽवाहयेद्देवमृचा तु पुरुषोत्तमम् ।  
द्वितीययाऽसनं दाद्यात् पाद्यं दद्यात् तृतीयया ॥ १०-६५७ ॥  

अर्घ्यं चतुर्थ्या दातव्यं पञ्चम्याऽचमनीयकम् ।  
षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च ॥ १०-६५८ ॥  

यज्ञोपवीतमष्टम्या नवम्या चानुलेपनम् ।  
पुष्पं दशम्या दातव्यमेकादश्या तु धूपकम् ॥ १०-६५९ ॥  

द्वादश्या दीपिकं दद्यात् त्रयोदश्या निवेदनम् ।  
चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् ॥ १०-६६० ॥  

स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ।  
दक्षिणां च यथाशक्त्या षोडश्या तु प्रदापयेत् ॥ १०-६६१ ॥  

ततः प्रदक्षिणं कृत्वा जपं कुर्वन् समाहितः ।  
यथाशक्तिं जपित्वा तु सूक्तं तस्मै निवेदयेत् ॥ १०-६६२ ॥  

प्। ९३७) देवस्य दक्षिणे पार्श्वे कुण्डं स्थण्डिलमेव च ।
कारयेत् प्रथमेनैव द्वितीयेन तु प्रोक्षणम् ॥ १०-६६३ ॥

तृतीयेनाग्निमादद्याच्चतुर्थेन समिन्धनम् ।
पञ्चमेनाज्यश्रयणं चरोश्च श्रयणं तथा ॥ १०-६६४ ॥

षष्ठेनैवाग्निमध्ये तु कल्पयेत् पद्ममासनम् ।
चिन्तयेद्देवदेवेशं कालानलसमप्रभम् ॥ १०-६६५ ॥

ततो गन्धं च पुष्पं च धूपदीपनिवेदनम् ।
अनुज्ञाप्य ततः कुर्यात् सप्तम्यादि यथाक्रमम् ॥ १०-६६६ ॥

समिधस्तावतीः पूर्वं जुहुयादभिघारिताः ।
ततो घृतेन जुहुयाच्चरुणा च ततः पुनः ॥ १०-६६७ ॥

एवं हुत्वा ततश्चैनमनुज्ञाप्य यथाक्रमम् ।
अग्नेर्भगवतस्तस्य समीपे स्तोत्रमुच्चरेत् ॥ १०-६६८ ॥

नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमोऽस्तु ते हृषीकेश महापुरुषपूर्वज ॥ १०-६६९ ॥

देवानां दानवानां च सामन्यमधिदैवतम् ।
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ १०-६७० ॥

एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा ।
अव्यक्तश्चानुमन्ता च गुणमायासमावृतः ॥ १०-६७१ ॥

संसारसागरं घोरमनन्तक्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥ १०-६७२ ॥

न ते रूपं न चाकारो नायुधानि च नास्पदम् ।
तथाऽपि पुरुषाकारो भक्तानां च प्रकाशने ॥ १०-६७३ ॥

नैव किञ्चित् परोक्षं ते न प्रत्यक्षोऽसि कस्यचित् ।

प्। ९३८) न च किञ्चिदसाध्यं ते न च साध्योऽसि कस्य चित् ॥ १०-६७४ ॥

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।  
योगिनां परमा सिद्धिः परमं ते पदं विदुः ॥ १०-६७५ ॥  

अहं भूतोऽस्मि देवेश संसारेऽस्मिन् महाभये ।  
त्राहि मां पुण्डरीकाक्ष न जाने परमं पदम् ॥ १०-६७६ ॥  

कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।  
शरीरे च गतश्चासि वर्त्तते मे महद्भयम् … १०-६७७ ॥  

त्वत्पादकमलादन्यन्न मे जन्मान्तरेष्वपि ।  
विज्ञानं यदिदं प्राप्य यदिदं स्थानमर्जितम् ॥ १०-६७८ ॥  

जन्मान्तरेऽपि मे देव माभूदस्य परीक्षयः ।  
दुर्गतावपि जातस्य त्वं गतो मे मनोरथः ॥ १०-६७९ ॥  

यदि नाशं न विन्देत तावताऽस्मि कृती सदा ।  
कामये विष्णुपादौ तु सर्वजन्मसु केवलम् ॥ १०-६८० ॥  

पुरुषस्य हरेः सूक्तं स्वर्ग्यं धन्यं यशस्करम् ।  
आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् ॥ १०-६८१ ॥  

एवं स्तुत्वा हव्यवाहं ततः पश्चाद्विसर्जयेत् ।  
अनेनैव न निष्पापो जायते मनुजो यदा ॥ १०-६८२ ॥  

प्राग्वद्धुत्वा पावयेत प्रयोगानारभेत् ततः ।  
शुक्लपक्षे शुभे वारे सुनक्षत्रे सुगोचरे ॥ १०-६८३ ॥  

दम्पत्योरुपवासः स्यादेकादश्यां सुरालये ।  
द्वादश्यां पुत्रकामाय चरुं कुर्वीत वैष्णवम् ॥ १०-६८४ ॥  

ऋग्भिः षोडशभिः सम्यगर्चयित्वा जनार्दनम् ।  
चरुं पुरुषसूक्तेन प्राशयेत् पुत्रकाम्यया ॥ १०-६८५ ॥  

प्। ९३९) प्राप्नुयाद्वैष्णवं पुत्रमचिरात् सन्ततिक्षमम् ।
द्वादशीं द्वादशीं सम्यक् पयसा निर्वपेच्चरुम् ॥ १०-६८६ ॥

यो जुहोति सहस्रं स याति विष्णोः परं पदम् ।  
मार्गशीर्षादिमासेषु क्रमात् पूज्यश्चतु?केशवः ॥ १०-६८७ ॥  

नारायणो माधवश्च गोविन्दो विष्णुरेव च ।  
मधुसूदन उक्तस्त्रिविक्रमो दामनस्तथा ॥ १०-६८८ ॥  

श्रीधरश्च हृषीकेशः पद्मनाभो जनार्दनः ।  
पूजयित्वा जपेत् सूक्तं शतमष्टाधिकं ततः ॥ १०-६८९ ॥  

होमं च पूर्वत् कुर्यात् सर्वान् कामानवाप्नुयात् ।  
अपुत्रा मृतपुत्रा या या च कन्याप्रसूर्भवेत् ॥ १०-६९० ॥  

तस्या यथा सुपत्रः स्यात् तमुपायं ब्रवीम्यहम् ।  
समिधोऽश्वत्थवृक्षस्य प्रत्यर्चं जुहुयाच्छतम् ॥ १०-६९१ ॥  

अष्टाधिकं च सघृतमुपतिष्ठेद्धुताशनम् ।  
पुनर्विष्णुं पूजयित्वा घृतहोमं समाचरेत् ॥ १०-६९२ ॥  

अष्टोत्तरशतं कुर्यात् प्रत्यर्चं वाग्यतः शुचिः ।  
सम्पाताज्यं स्थापयित्वा तन्नार्यै प्राशनाय च ॥ १०-६९३ ॥  

दद्यात् सा च पतिं विष्णुं नमस्कृत्य प्रभक्षयेत् ।  
तर्पयेच्च द्विजान् सम्यग्लघ्वाशी संविशेत् क्षपाम् ॥ १०-६९४ ॥  

परं सप्तप्रवर्तेनावश्यं गर्भवती भवेत् ।  

अथ पुरश्चरणम् ।

अरण्ये निवसेन्नित्यं त्रिकालं स्नानमाचरेत् ॥ १०-६९५ ॥  

जपेदष्टोत्तरशतं सूक्तमेतत् त्रिकालकम् ।  
मासमेकं फलाहारो मासमद्भिश्च तर्पयेत् ॥ १०-६९६ ॥  

प्। ९४०) आदित्यमुपतिष्ठेत मूलेनानेन नित्यशः ।
आज्यं हुत्वा दशशतं त्रिर्भिर्वर्षैर्जपेद्दिने ॥ १०-६९७ ॥

तद्भक्तस्तन्मना युक्तो दशवर्षाण्यनन्यभाक् ।  
साक्षात् पश्यति देवं तं नारायणमनामयम् ॥ १०-६९८ ॥  

इति पुरुषसूक्तपुरश्चरणम् ।

अथ श्रीसूक्तविधिः ।

तत्रैव ।

अथ सर्वोत्तमं वक्ष्ये श्रीसूक्तं सविधानकम् ।  
कलौ दारिद्र्यनाशाय नान्यत् किञ्चिन्नृणां तथा ॥ १०-६९९ ॥  

हिरण्यवर्णाम् � इत्यादि ।

हिरण्यवर्णामित्यस्य ऋचो लक्ष्मीमुनिर्मतः ।  
चतुर्दशानां शेषाणामानन्दः कर्दमस्तथा ॥ १०-७०० ॥  

चिक्लीतलक्ष्मीतनयाश्चत्वारो मुनयो मताः ।  
हृदयादितिसृणां च छन्दोऽनुष्टुबुदाहृतम् ॥ १०-७०१ ॥  

कांसोऽस्मितर्चो बृहती चन्द्रावादित्यवर्णयोः ।  
त्रिष्टुप्छन्द उपैतु मां देवाद्यष्ट - ऋचामपि ॥ १०-७०२ ॥  

छन्दोऽनुष्टुप् समाख्यातं ताम्म आहव इत्यृचः ।  
प्रस्तारः पङ्क्तिरुद्दिष्टो देवते श्रीविभावसू ॥ १०-७०३ ॥  

व्यञ्जनानि तु बीजानि स्वराः शक्तय ईरिताः ।  
विन्दवः कीलकं प्रोक्तमङ्गुष्ठादिषडङ्कम् ॥ १०-७०४ ॥  

हिरण्या च तथा तन्द्रा तृतीया रजतप्रभा ।  
हिरण्यस्रक् हिरण्याक्षा तथा हिरण्यवर्णिका ॥ १०-७०५ ॥  

एताभिर्ङेनमोऽन्ताभिः प्रकुर्यादङ्गकल्पनम् ।  

प्। ९४१) अथ ध्यानम् ।

अरुणनलिनसंस्था तद्रजःपुञ्जवर्णा  
	करकमलधृतेष्टाभीतियुग्माम्बुजा च ॥ १०-७०६ ॥  

मणिमुकुटविचित्रालङ्कृताकल्पजालै �  
	र्भवतु भुवनमाता सन्ततं श्रीः श्रिये नः ।  

अथ पुरश्चरणम् ।

परिषिञ्चेत् त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि ॥ १०-७०७ ॥  

आदित्याभिमुखो जप्याद्यावत् तावच्च तर्पयेत् ।  
शुक्लाद्यां तिथिमारभ्य यावदेकादशी भवेत् ॥ १०-७०८ ॥  

तावद्द्वादशसाहस्रं जपेन्निश्चलमानसः ।  
ब्रह्मचर्यरतः शुद्धवस्त्रदन्तादिकः सुधीः ॥ १०-७०९ ॥  

पद्मैस्त्रिमधुरोपेतैर्घृताक्तेन पयोऽन्धसा ।  
श्रीसमिद्भिः सर्पिषा च प्रत्येकं त्रिशतं हुनेत् ॥ १०-७१० ॥  

द्वादश्यां द्वादशैवाऽथ सद्विप्रा।श्चापि भोजयेत् ।  
तेन सिद्धो भवेन्मन्त्रो नात्र कार्या विचारणा ॥ १०-७११ ॥  

कुन्दमन्दारकुमुदमालतीपद्मकेतकम् ।  
नन्द्यावर्त्ताह्वयं जाती कल्हारं चम्पकं तथा ॥ १०-७१२ ॥  

रक्तोत्पलादिपुष्पाणि लक्ष्म्याश्चातिप्रियाणि हि ।  
त्रिवारमन्वहं मन्त्री जुहुयाच्च यथाविधि ॥ १०-७१३ ॥  

षण्मासं यः करोत्येवं स स्याल्लक्ष्मीपतिः स्वयम् ।  

इति श्रीसूक्तपुरश्चरणम् ।

अथ नवग्रहाणां वैदिकमन्त्राः ।

तत्रैव ।

तत्र भास्करमन्त्रस्य हिरण्यस्तूयको मुनिः ॥ १०-७१४ ॥  

प्। ९४२) त्रिष्टुप् छन्दो देवता च सविता परिकीर्तितः ।

आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यं च हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् ।

अङ्गुष्ठादिषडङ्गानि षड्दीर्घान्वितयोच्चरेत् ॥ १०-७१५ ॥  

भुवनेश्याऽथ मन्त्रस्य पदन्यासं समाचरेत् ।  
श्रीसूक्तोक्त - ऋचास्थाने ततो ध्यायेद्दिवाकरम् ॥ १०-७१६ ॥  

ध्यानं यथा ।

पद्मासनं पद्मकरं पद्मगर्भसमुद्युतिम् ।  
किरीटिनं सकेयूरं मण्डितं रक्तच्छत्रिणम् ॥ १०-७१७ ॥  

रथारूढं तस्य सव्ये त्वधिदेवाग्न्यधिष्ठितम् ।  
प्रत्यधिदेवेश्वरेण सव्ये युक्तं च प्राङ्मुखम् ॥ १०-७१८ ॥  

अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ।  
होमतुल्यो जपः कार्यस्त्वधिप्रत्यधिदैवतः ॥ १०-७१९ ॥  

करवीरादिकुसुमै रक्तचन्दनमिश्रितैः ।  
दूर्वाङ्कुरैरक्षतैश्च तर्पणं स्याद्दिनेशितुः ॥ १०-७२० ॥  

अथ चन्द्रमन्त्रः ।

अथ वक्ष्ये चन्द्रमन्त्रं गौतमोऽस्य मुनिर्मतः ।  
गायत्रीछन्द इत्युक्तं सोमो देवः प्रकीर्तितः ॥ १०-७२१ ॥  

अथायस्व समेतु विश्वतः सोमवृष्णियं भवावाजस्य सङ्गथे ।  
षड्दीर्घं विन्दुयुक्तेन सकारेण षडङ्गकम् । ७२२ ॥  

अथ ध्याअम् ।

किरीटिनं श्वेतवस्त्रं दशाश्वं श्वेतभूषणम् ।  
पाशपाणिं द्विबाहुं तमत्रिगोत्रसमुद्भवम् ॥ १०-७२३ ॥  

प्। ९४३) जातं यवनदेशे च श्वेतगन्धानुलेपनम् ।
अनुष्टुप् छन्दसं चात्रेयर्षं श्वेतातपत्रकम् ॥ १०-७२४ ॥

श्वेतध्वजपताकाढ्यं केयूरमणिशोभितम् ।  
स्थिरीकृतं रथारूढमधिदैवततोययुक् ॥ १०-७२५ ॥  

उमाप्रत्यधिदेवेन वायव्याभिमुखस्थितम् ।  

अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं सर्वश्वेतेष्वयं विधिः ॥ १०-७२६ ॥  

अथ भौममन्त्रः ।

भौममन्त्रं प्रवक्ष्यामि विरूपोऽस्य मुनिर्मतः ।  

अङ्गारको देवताऽत्र गायत्री छन्द ईरितम् ॥ १०-७२७ ॥

अग्निर्मूर्धादिवः कुकुत्पतिः पृथिव्या अयम् ।   

अपा(चित्र)रेता(चित्र)सिजिन्वति ॥ १०-७२८ ॥

अ। बीजेन षडङ्गानि चाङ्गुलीन्यास एव च ।  
रुद्रस्थानेषु कर्तव्यः पदन्यासो द्वितीयकः ॥ १०-७२९ ॥  

अथ ध्यानम् ।

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ।  
रक्तपुष्पैः पूज्यमानं चतुर्बाहुं किरीटिनम् ॥ १०-७३० ॥  

वराभयगदाशूलहस्तं मेषोपरिस्थितम् ।  
वशिष्ठगोत्रसम्भूतं यमदग्न्यार्षकं कुजम् ॥ १०-७३१ ॥  

जगतीछन्दसं रक्तं रक्तध्वजपताकिनम् ।  
अवन्तोदेशसम्भूतं ध्यात्वा देवं प्रपूजयेत् ॥ १०-७३२ ॥  

रक्तचन्दनसम्मिश्रतण्डुलैस्त्र्यस्रके कृते ।  
अङ्गुले क्ष्माधिदेवेन युक्ते षाण्मातुरेण च ॥ १०-७३३ ॥  

युते प्रत्यधिदेवेन तत्रावाह्य प्रपूजयेत् ।  

प्। ९४४) अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं मधुरत्रयसंयुताः ॥ १०-७३४ ॥  

स्वादिर्यः समिधो होमे तर्पणाद्यं च सूर्यवत् ।  

अथ बुधमन्त्रः ।

बुधमन्त्रं प्रवक्ष्यामि बौद्धस्तस्य मुनिर्मतः ॥ १०-७३५ ॥  

त्रिष्टुप्छन्दो देवताऽस्य बुधो बुद्धिप्रदो मतः ।  

उद्बुव्यस्वाग्ने प्रतिजागृह्येन मिष्ट्यापूर्त्ते स सृजेचामयं च ॥ १०-७३६ ॥

पुनःकृण्व(चित्र)स्त्वा पितरं युवानमन्वा ता(चित्र)सीत्वयितन्तुमेतम् ।
बु।बीजेन षडङ्गानि ध्यानमस्य निरूप्यते ॥ १०-७३७ ॥

पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।  
पीतपुष्पैः पुज्यमानं खड्गचर्मगदावरान् ॥ १०-७३८ ॥  

हस्तैर्दधन्तं सिंहस्थं चात्रिगोत्रसमुद्भवम् ।  
भारद्वाजार्षकं जातं मगधे च किरीटिनम् ॥ १०-७३९ ॥  

बृहतीछन्दसं पीतच्छत्रध्वजपताकिनम् ।  
केयूरमणिशोभाढ्यमधिदेवेन विष्णुना ॥ १०-७४० ॥  

तेन प्रत्यधिदेवेन युक्तं ज्ञं चिन्तयाम्यहम् ।  

अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं हुनेत् तस्य दशांशतः ॥ १०-७४१ ॥  

अपामार्गसमिद्भिश्च तर्पणादि ततश्चरेत् ।  

अथ बृहस्पतिमन्त्रः ।

मन्त्रं बृहस्पतेर्वक्ष्ये मुनिर्बृत्समदो मतः ॥ १०-७४२ ॥  

त्रिष्टुप्छन्दो देवपतिवन्दितस्तस्य देवता ।  

बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्छवस ऋतप्रजाततदस्मासु द्रविणं धेहि चित्रम् ।

प्। ९४५) बृ। बीजेन षडङ्गानि न्यासमन्त्रं समाचरेत् ॥ १०-७४३ ॥

ध्यानमस्य प्रवक्ष्यामि वरदण्डाक्षसूत्रकम् ।  
कमण्डलुं दधद्धस्तैः पीतवर्णं किरीटिनम् ॥ १०-७४४ ॥  

वशिष्ठार्षं सिन्धुदेशभवं पीताम्बरावृतम् ।  
अनुष्टुप्छन्दसं चाङ्गिरसगोत्रं किरीटिनम् ॥ १०-७४५ ॥  

पीतध्वजपताकाढ्यं पीतच्छत्रानुलेपनम् ।  
केयूराङ्गदशोभट्यमधिदेवेन्द्रसंयुतम् ॥ १०-७४६ ॥  

ब्रह्मप्रत्यधिदेवेन युतं सञ्चिन्त्य चाह्वयेत् ।  

पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं होमस्त्रिमधुरान्वितैः ॥ १०-७४७ ॥  

पिप्पलस्य समिद्भिः स्यात् तर्पणं पीतपञ्चभिः ।  

अथ शुक्रमन्त्रः ।

शुक्रमन्त्रं प्रवक्ष्यामि भारद्वाजो मुनिर्मतः ॥ १०-७४८ ॥  

त्रिष्टुप्छन्दो निगदितं दैत्याचार्यस्तु देवता ।  

शुक्रं ते अन्यद्यजतं ते अन्यद्युपुरूषे अहनी द्यौरिवासि ॥ १०-७४९ ॥

विश्वाहि माया अवसि स्वधावो भद्रा ते पूषन्निहरातिरस्तु ।
शु। बीजेन षडङ्गानि कृत्वा ध्यानं समाचरेत् ॥ १०-७५० ॥

ध्यानमाह ।

शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् ।
शुक्लपुष्पैः पूज्यमानं शौनकाऋषं किरीटिनम् ॥ १०-७५१ ॥

चतुर्भुजं दण्डधरं च साक्षसूत्रकमण्डलुम् ।  
पङ्क्तिश्छन्दश्च वरदं तथा कीकरदेशजम् ॥ १०-७५२ ॥  

श्वेतच्छत्रध्वजपताकिनं भार्गवगोत्रजम् ।  
सकेयूरं रथारूढं श्वेताभरणभूषितम् ॥ १०-७५३ ॥  

प्। ९४६) अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं हुनेत् त्रिमधुरान्वितैः ।  
उदुम्बरसमिद्भिश्च तर्पणादि तु चन्द्रवत् ॥ १०-७५४ ॥  

अथ शनिमन्त्रः ।

शनिमन्त्रं प्रवक्ष्यामि सिन्धुद्वीपो मुनिर्मतः ।  
गायत्रीछन्द इत्युक्तं देवता तु शनैश्चरः ॥ १०-७५५ ॥  

शन्नो देवीरभीष्टये आपो भवन्तु पोतये शन्नोरभिस्रवन्तु नः ।

श। बीजेन षडङ्गानि कुर्याद्ध्यानं ततश्चरेत् ।  
बाणाशनं शूलधरमिन्द्रनीलसमद्युतिम् ॥ १०-७५६ ॥  

सौराष्ट्रदेशजं प्रोक्तं वरदं गृध्रवाहनम् ।  
भृग्वर्षं काश्यपे गोत्रे जातं चापि किरीटिनम् ॥ १०-७५७ ॥  

कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।  
गायत्रीछन्दसं कृष्णवर्णाभरणभूषितम् ॥ १०-७५८ ॥  

केयूरिणं मुकुटिनं कृष्णध्वजपताकिनम् ।  
प्रजापत्यधिदेवेन सहितं रथमास्थितम् ॥ १०-७५९ ॥  

पद्मप्रत्यधिदेवेन युक्तं ध्यात्वा समर्चयेत् ।  

अथ पुरश्चरणम् ।

सकस्तूर्यथ तैश्चायःकालद्व्यङ्गुलमण्डले ॥ १०-७६० ॥  

होमः समीसमिद्भिः स्यादायसार्घेन तर्पणम् ।  
कृष्णपुष्पैश्चन्दनं तु कालीयं चागुरुर्भवेत् ॥ १०-७६१ ॥  

अथ राहुमन्त्रः ।

राहोर्मन्त्रं प्रवक्ष्यामि वामदेवो मुनिर्मतः ।  
गायत्री छन्द इत्युक्तं सैंहिकेयश्च देवता ॥ १०-७६२ ॥  

कयानश्चित्र आभुवदुती सदा वृधः सखाकया सचिष्ठया वृता ।

प्।९४७) रा। बीजेन षडङ्गानि ध्यानमस्य निरूप्यते ।
करालवदनं खड्गचर्मशूलधरं वहन् ॥ १०-७६३ ॥

कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।  
कृष्णपुष्पैः पूज्यमानं केयूरमुकुटान्वितम् ॥ १०-७६४ ॥  

पूर्वदेशे समुत्पन्नं क्रूरमाङ्गिरसार्षकम् ।  
पाटलागोत्रसम्भूतमौष्टुप्छन्दसं ग्रहम् ॥ १०-७६५ ॥  

कृष्णच्छत्रं रथारूढं कृष्णध्वजपताकिनम् ।  
सर्पाधिदैवतं पैत्रकालप्रत्यधिदैवतम् ॥ १०-७६६ ॥  

अथ पुरश्चरणम् ।

इत्थं सञ्चिन्त्य नैरृत्ये सूर्पाकारे तु मण्डले ।  
द्वादशाङ्गुलविस्तीर्णे चाह्वयेच्छ्यामलाक्षतैः ॥ १०-७६७ ॥  

दूर्वाभिर्मधुराक्ताभिस्तस्य होमो विधीयते ।  
तर्पणीयादिभिर्द्रव्यैः कौलिका।स्तर्पयेद्द्विजान् ॥ १०-७६८ ॥  

अथ केतुमन्त्रः ।
तत्रैव ।

केतुमन्त्रं प्रवक्ष्यामि मधुच्छन्दो मुनिर्मतः ।  
देवताः केतवः प्रोक्ता गायत्रं छन्द ईरितम् ॥ १०-७६९ ॥  

केतु कृण्वन्नकेतवे पेशोमर्या अपेशसे समुषद्भिरजायथाः ।

क। बीजेन षडङ्गानि ध्यानमस्य निरूप्यते ।  
धूम्राक्षिबाहवः पाशधराश्च विकृताननाः ॥ १०-७८० ॥  

किरोटिनो गृध्रवाहा मध्यदेशोद्भवा दृढाः ।  
चित्राम्बराश्चित्रवर्णाश्चित्रगन्धानुलेपनाः ॥ १०-७८१ ॥  

नानाछन्दस्कका गौतमार्षा जैमिनिगोत्रजाः ।  
कृष्णपिङ्गध्वजपताकिनो मुकुटिनस्तथा ॥ १०-७८२ ॥  

प्। ९४८) केयूरिणो रथारूढाः शूरा ब्रह्मादिदेवताः ।
चित्रगुप्तप्रत्यधिदेवताश्चात्र विचिन्तयेत् ॥ १०-७८३ ॥

अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं कुशा होमे प्रकीर्तिताः ।  
मधुरत्रयसंयुक्ताश्चित्रद्रव्यैः प्रतर्पयेत् ॥ १०-७८४ ॥  

इति नवग्रहाणां वैदिकमन्त्राः ।

अथाग्निदुर्गामन्त्रः ।

तत्रैव ।

सर्वार्थसाधकं वक्ष्ये सङ्ग्रामविजयप्रदम् ।  
जलन्धरवधायाहं यत् स्मरामि शृणुष्व तत् ॥ १०-७८५ ॥  

जातवेदसे सूनवामसोमम रातीयतो निदहाति वेदः स नः परिषदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः ।  

त्रिष्टुप् छन्दो मुनिश्चास्य मरीचिः काश्यपो मतः ।  
देवता जातवेदोऽग्निः षडङ्गानि समाचरेत् ॥ १०-७८६ ॥  

नवागषट्सप्तनागसप्तभिर्मन्त्रवर्णकैः ।  

अथ ध्यानम् ।

विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां  
कन्याभिः करवालखेटकलसद्धस्ताभिरासेविताम् ॥ १०-७८७ ॥  

हस्तैश्चक्रदरासिखेटविशिखान् पाशाङ्कुशौ तर्जनीं  
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरेत् ।  

अथ पुरश्चरणम् ।

मन्त्रवर्णसहस्राणि जपेद्धोमं पृथक् पृथक् ॥ १०-७८८ ॥  

वेदवेदाब्धिसङ्ख्याकं तिलसिद्धार्थचित्रजैः ।  
मूलैश्च समिधाभिश्च वटोदुम्बरपिप्पलैः ॥ १०-७८९ ॥  

अर्कप्लक्षोद्भवैश्चापि घृतेन हविषाऽन्नकैः ।

प्। ९४९) सर्वैर्घृताक्तैर्जुहुयात् तिलैश्चान्ते घृताहुतिः ॥ १०-७९० ॥

ततः सन्तर्प्य सतिलैः कृत्वा चात्माभिषेचनम् ।  
समाराध्य वरान् देवा।स्तीषयेद्गुरुमात्मनः ॥ १०-७९१ ॥  

इत्यग्निदुर्गामन्त्रपुरश्चरणम् ।
वैदिकमन्त्रपुरश्चरणोपयुक्तवैदिकहोमविधिस्तु विस्तरभयान्नेह लिख्यते ।

अथ होमद्रव्यप्रमाणानि ।

(शारदायाम्)

अथात्र होमद्रव्याणां प्रमाणमभिधीयते ।  
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ॥ १०-७९२ ॥  

उक्तानि पञ्च द्रव्याणि तत्समानि मनीषिभिः ।  
तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् ॥ १०-७९३ ॥  

दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः ।  
पृथुकास्तत्प्रमाणाः स्युः सक्तवोऽपि तथा मताः ॥ १०-७९४ ॥  

गुडं पलार्धमानं स्यच्छर्कराऽपि तथा मता ।  
ग्रासार्धं चरुमानं स्यादिक्षुः पर्वावधिर्मतः ॥ १०-७९५ ॥  

एकैकं पत्रपुष्पाणि तथाऽपूपानि कल्पयेत् ।  
कदलीफलनारङ्गफलान्येकैकशो विदुः ॥ १०-७९६ ॥  

मातुलुङ्गं चतुःखण्डं पनसं दशधा कृतम् ।  
अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः ॥ १०-७९७ ॥  

त्रिधा कृत्तं फलं वैल्वं कपित्थं खण्डितं त्रिधा ।  
फलान्यन्यान्यखण्डानि समिधः स्युर्दशाङ्गुलाः ॥ १०-७९८ ॥  

दूर्वात्रयं समुद्दिष्टं गुडुची चतुरङ्गुला ।  
व्रीहयो मुष्टिमानाः स्युर्मुद्गमाषयवा अपि ॥ १०-७९९ ॥  

ताण्डुलाः स्युश्चतुर्थांशाः कोद्रवा मुष्टिसम्मिताः ।  

प्। ९५०) गोधूमरक्तकलमा विहिता मुष्टिमानतः ॥ १०-८०० ॥

तिलाश्चुलुकमानाः स्युः सर्षपास्तत्प्रमाणतः ।  
शुक्तिप्रमाणं लवणं मरीचान्यपि विंशतिः ॥ १०-८०१ ॥  

पुरं वदरमानं स्याद्रामठं तत्समं स्मृतम् ।  
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमानि च ॥ १०-८०२ ॥  

तिन्तिडी बीजमानानि समुद्दिष्टानि देशिकैः ।  

कर्षादिलक्षणान्युक्तानि (स्कान्दे)

गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्टयम् ।  
द्वौ शाणौ वटकः कोलो वदरं क्षुद्रवस्तथा ॥ १०-८०३ ॥  

तौ द्वौ पाणितलं कर्षः सुवर्णः केवलं ग्रहः ।  
पिचुर्विडालपदकं तिन्दोऽक्षश्च तद्द्वयम् ॥ १०-८०४ ॥  

शुक्तिरष्टमिका ते द्वे पलं निष्कचतुर्थिका ।  
मुष्टिमात्रं प्रकुञ्चोऽथ द्वे पले प्रसृतिस्तथा � इति ॥ १०-८०५ ॥  

अगस्ये?न तु ।

गुञ्जाभिः पञ्चभिश्चैको माषकः परिकीर्तितः ।  
भवेत् षोदशभिर्माषैः सुवर्ण कर्ष एव च ॥ १०-८०६ ॥  

पलं सुवर्णाश्चत्वारः पञ्च वाऽपि प्रकीर्तितम् � इत्युक्तम् ।  

एतन्मतेऽशीतिगुञ्जाभिरेकः कर्षः स एव सुवर्णोऽपि । पृथुकाश्चिपीटकाः । गुडुची लताविशेषः । पुरं गुग्गुलुः । रामठं हिङ्गु । सोमः शम्भुः ।

अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते ॥ १०-८०७ ॥  

अनुक्ते चाञ्जतद्रव्ये घृतमेवाञ्जनं विदुः ।  
सङ्ख्यानुक्तौ सहस्रं स्याद्रव्यानुक्तौ घृतं तथा ॥ १०-८०८ ॥  

समिधानुक्तविषये पालाश्यः परिकीर्तिताः ।  

तथा ।

लाजादिहोमो हस्तेन साङ्गुलेन विधीयते ॥ १०-८०९ ॥  

प्। ९५१) समित्पुष्पफलादीनां होमः स्यान्मृगमुद्रया ।
द्रवद्रव्यैः श्रुवः प्रोक्तो मन्त्रतन्त्रविशारदैः ॥ १०-८१० ॥

इति होमद्रव्यप्रमाणानि ।

बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत �
स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
सन्मुक्तोपमयुक्तिभाजि दशमो रम्यस्तरङ्गोऽगमत्
सर्वोर्वीपतिनेतृनिर्मितपुरश्चर्यार्णवेऽस्मिन् नवे ॥ १०-८११ ॥

इति श्रीमन्महाराजधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे सरस्वत्यादि-मन्त्रपुरश्चरणपूर्वक-गायत्र्यादिवैदिक-मन्त्रपुरश्चरणनिरूपणं नाम दशमस्तरङ्गः ॥ १० ॥