०९ दशमहाविद्यापुरश्चरणनिरूपणम्

दशमहाविद्यास्तपुरश्चरणविशेषाश्च

प्रदर्श्यन्ते ।

तथा च (मुण्डमालायाम्)

काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥ ९-१ ॥

वगला सिद्धिविद्या च मातङ्गी कमलात्मिका ।
एता दश महाविद्याः सिद्धिविद्याः प्रकीर्तिताः ॥ ९-२ ॥

तत्रादौ प्रथमविद्या प्रोक्ता (कुमारीतन्त्रे)

भैरव उवाच ।

अस्ति गुह्यतमं ह्येतज्ज्ञानमेकं सनातनम् ।
अतीव हि सुगोप्यं च कथितुं नैव शक्यते ॥ ९-३ ॥

अतीव मत्प्रियाऽसीति कथयामि तव प्रिये ।
सर्वं ब्रह्ममयं ह्येतत् संसारं स्थूलसूक्ष्मकम् ॥४ ॥

प्रकृतिं तु विना नैव संसारमुपद्यते ।
तस्माच्च प्रकृतेर्मूलकारणं नैव दृश्यते ॥ ९-५ ॥

रूपाणि बहुसङ्ख्यानि प्रकृतेरस्ति भामिनि ।
एषां मध्ये महेशानि कालीरूपं मनोहरम् ॥ ९-६ ॥

विशेषतः कलियुगे नराणां भुक्तिमुक्तिदम् ।
तस्या उपासकाश्चैव ब्रह्मविष्णुशिवादयः ॥ ९-७ ॥

इन्द्रः सूर्यश्च वरुणः कुवेरोऽग्निस्तथाऽपरः ।
दुर्वासाश्च वशिष्टश्च दत्तात्रेयो बृहस्पतिः ॥ ९-८ ॥

बहुना किमिहोक्तेन सर्वे देवा उपासकाः ।
कालीकायाः प्रसादेन भुक्तिमुक्त्यादिभागिनः ॥ ९-९ ॥

तस्या मन्त्रं प्रवक्ष्यामि यतो रक्षेज्जगत्त्रयम् ।
ककारं वह्निसंयुक्तं रतिविन्दुसमन्वितम् ॥ ९-१० ॥

त्रिगुणं च ततः कूर्चयुग्मं लज्जायुगं ततः ।
दक्षिणे कालिके चेति पूर्वबीजानि चोच्चरेत् ॥ ९-११ ॥

वह्निजायावधिः प्रोक्तो कालिकाया मनुः शिवे ।
द्वाविंशत्यक्षरी सिद्धिविद्येयमीरिता ॥ ९-१२ ॥

मन्त्रार्थमाह (सङ्केततन्त्रे)

ककाराद्विश्वमुत्पन्नं तेन सृष्टिस्वरूपिणी ।
रेफः कालाग्निरुद्रात्मा तेन संहाररूपिणी ॥ ९-१३ ॥

ईकारश्च महालक्ष्मीर्लोकत्रयविभाविनी ।
तेनेयं पालिनी शक्तिः सामरस्यं च विन्दुना ॥ ९-१४ ॥

(कालीतन्त्रे)

ककाराच्छिवरूपत्वात् सर्वेश्वर्यप्रदायिनी ।
ज्वलनार्णसमायोगात् सर्वतेजोमयी शुभा ॥ ९-१५ ॥

विन्दुमाली केवलं तु सर्वततत्त्वप्रकाशिका ।
विन्दुना निष्कलत्वाच्च कैवल्यफलदायिनी ॥ ९-१६ ॥

कूर्चबीजं केवलं तु सर्वबोधप्रकाशकम् ।
चैतन्यरूपं संसारभीषणं मुक्तिदायकम् ॥ ९-१७ ॥

व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ।
तयोर्विसर्ग ईकारो विन्दुना * तान्त्रिकी मता ॥ ९-१८ ॥

दक्षिणा सिद्धसाध्यादिरहिता क्षिप्रसिद्धिदा ।
प्। ७२५) कालसङ्कलनात् काली कालग्रासं करोत्यतः ॥ ९-१९ ॥

स्वाहेति विषयाः सर्वे देवतायां समर्पिताः ।
एवं समस्तरूपेण केवलं चित्कलाऽपरा ॥ ९-२० ॥

सर्वदेवमयी साक्षाच्छब्दब्रह्मस्वरूपिणी ।
एवं ध्यायेद्विशुद्धात्मा जीवन्मुक्तः स्वयं शिवः ॥ ९-२१ ॥

विद्यामाहात्म्यमाह (भैरवीतन्त्रे)

नात्र चित्ताविशुद्धिः स्यान्नारिमित्रादिदूषणम् ।
न वा प्रयासबाहुल्यं समयासमयादिकम् ॥ ९-२२ ॥

न वित्तव्ययबाहुल्यं कायक्लेशकरं न च ।
देवैर्देवत्वविधये सिद्धैः खेचरसिद्धये ॥ ९-२३ ॥

पन्नगै राक्षसैर्मत्त्यैर्मुनिभिश्च मुमुक्षुभिः ।
कामिभिर्धर्मिभिश्चार्थमीप्सुभिः सेव्यते सदा ॥ ९-२४ ॥

य एनां चिन्तयेन्मन्त्री सर्वकामसमृद्धिदाम् ।
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ॥ ९-२५ ॥

तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ।
राजानोऽपि च दासत्वं भजन्ते किं परे जनाः ॥ ९-२६ ॥

वह्नेः शैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः ।
दिवारात्रिव्यत्ययं च स कर्तुं भवति क्षमः ॥ ९-२७ ॥

अन्ते च लभते देव्या गणत्वं दुर्लभं नरः ।
चन्द्रसूर्यसमो भूत्वा वसेत् कल्पायुतं दिवि ॥ ९-२८ ॥

न तस्य दुर्लभं किञ्चिद्यः स्मरेद्घोरकालिकाम् ।

(कालीतन्त्रे)

अस्याः स्मरणमात्रेण सिद्धयोऽष्टौ भवन्ति हि ॥ ९-२९ ॥

प्। ७२६) एवं समस्तविद्यानां राज्ञी स्तोतुं न शक्यते ।
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ॥ ९-३० ॥

सर्वसिद्धिदा देवी अनिरुद्धसरस्वती ।
तस्मादस्या ज्ञानमात्रात् सिद्धयः सम्भवन्ति हि ॥ ९-३१ ॥

तथा ।

अपि चेत् त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् ।
अनिरुद्धसरस्वत्याः समो मन्त्रः सदा भवेत् ॥ ९-३२ ॥

तन्त्रान्तरे ।

कलौ काली कलौ काली कलौ काली तु केवला ।
साधिता कालनाथेन प्रत्यक्षा कालिका कलौ ॥ ९-३३ ॥

कलौ कालीं विहायाथ यः कश्चिन्मोक्षकामुकः ।
स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥ ९-३४ ॥

कलौ कालीं विहायाथ यः कश्चिच्छान्तिमिच्छति ।
स हि शीनिवृत्त्यर्थं हिमशैलं विषेवते ॥ ९-३५ ॥

कलौ कालीं विहायाथ यः कश्चित् काव्यमिच्छति ।
स तु दुःखनिवृत्त्यर्थं पापानि कुरुते सदा ॥ ९-३६ ॥

श्रीमहाकालिका विद्या कलौ पूर्णफलप्रदा ।
कलिर्हि यस्या दासस्य पादपूजां करोति हि ॥ ९-३७ ॥

अज्ञानाज्ज्ञानति वाऽपि सलीलं वा सहेलया ।
स्मृताऽपि सिद्धिदा काली सकृदेव महेश्वरि ॥ ९-३८ ॥

महाविद्या सिद्धिविद्या विद्याभेदैः प्रतिष्ठिता ।
उपविद्यादिभेदैश्च कालिका संस्थिता भुवि ॥ ९-३९ ॥

ताराद्याः सकला विद्याः कालिकायाः प्रजज्ञिरे ।
सर्वा विद्याः कालिकायां संस्थिता एव पार्वति ॥ ९-४० ॥

प्। ७२७) अथ ऋष्यादिन्यासः (कालीतन्त्रे)

भैरवोऽस्य ऋषिः प्रोक्तः उष्णिक्छन्दः उदाहृतम् ।
देवता कालिका प्रोक्ता लज्जाबीजं तु बीजकम् ॥ ९-४१ ॥

शक्तिस्तु कूर्चबीजं स्यादनिरुद्धसरस्वती ।

(कालीक्रमे)

कीलकं चाद्यबीजं तु चतुर्वर्गार्थसिद्धिदम् ॥ ९-४२ ॥

(कालीतन्त्रे)

कवित्वार्थे नियोगः स्यादेवमृष्यादिकल्पना ।
अङ्गन्यासकरन्यसौ यथावदभिधीयते ॥ ९-४३ ॥

षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ।

(वीरतन्त्रेऽपि)

दीर्घषट्कयुताद्येन प्रणवाद्येन कल्पयेत् ॥४४ ॥

न्यासान्तराणि तत्रैव द्रष्टव्यानि ।

अथ ध्यानं (मेरुतन्त्रे)

करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषणाम् ॥ ९-४५ ॥

खड्गाभयवरा।श्छिन्नं मुण्डं च दधतीं करैः ।
महामेघप्रभां श्यामां तथा चैव दिगम्बराम् ॥ ९-४६ ॥

कण्ठावसक्तमुण्डालीं गलद्रुधिरचर्चिताम् ।
कर्णावतंसतानीतशवयुग्मविराजिताम् ॥ ९-४७ ॥

घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ।
शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् ॥ ९-४८ ॥

सृक्कद्वयगलद्रक्तधाराविच्छुरिताननाम् ।
घोररूपां महारौद्रीं श्मशानालयवासिनीम् ॥ ९-४९ ॥

दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ।
प्। ७२८) शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥ ९-५० ॥

शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् ।
महाकालसमायुक्तां शवोपरिरतान्विताम् ॥ ९-५१ ॥

सुखप्रसन्नवरदां स्मेराननसरोरुहाम् ।
एवं सञ्चिन्तयेत् कालीं श्मशानालयवासिनीम् ॥ ९-५२ ॥

तथा ।

कपिलारत्नसम्पूर्णपृथ्वीदानस्य यत् फलम् ।
कोटिहोमसहस्रस्य देव्या ध्यानेन तत् फलम् ॥ ९-५३ ॥

एतन्मन्त्रजपान्मन्त्री मुच्यते ब्रह्महत्यया ।
पितृमातृवधाद्यैश्च किमन्यैः * क्षुद्रघातकैः ॥ ९-५४ ॥

अथ शापोद्धारस्तत्रान्तरे ।

शापोद्धारं प्रवक्ष्यामि वशिष्ठमुनिना कृतम् ।
चतुर्विंशतिलक्षाणि जप्त्वा कोपेन शप्तवान् ॥ ९-५५ ॥

अद्य प्रभृति देवेशि कालिके कालरूपिणि ।
तव मन्त्रेषु संसिद्धिः कष्टेनैव भविष्यति ॥ ९-५६ ॥

इति श्रुत्वा महादेवी प्रादुर्भूता प्रसाद्य तम् ।
उवाच पुत्र किमिदं शापदानं वृथा कृतम् ॥ ९-५७ ॥

एवं फलं यथा न स्यात् तथा कुरु मुनीश्वर ।
ज्ञानं दत्तं दुराराध्यं दुर्लभं यत् सुरैरपि ॥ ९-५८ ॥

ततः प्रीत्या वरं लब्ध्वा ज्ञानविज्ञानसंयुतम् ।
उवाच प्रीतमनसा शाप्तान्तं मन्त्रसङ्कटे ॥ ९-५९ ॥

मातः क्रोधेन कथितं तत्रोपायमहं ब्रुवे ।
प्रणवं पूर्वमुद्धृत्य घोररूपे च दक्षिणे ॥ ९-६० ॥

प्। ७२९) सिद्धिं कुरुद्वयं प्रोच्य कालिकेति पदं ततः ।
ममाभीष्टफलं शीघ्रं देहि द्रविणसम्पदम् ॥ ९-६१ ॥

जपादौ मन्त्रमुच्चार्य जपान्तं च पुनः पठेत् ।
भविष्यति ततः सिद्धिरचिरात् परमेश्वरि ॥ ९-६२ ॥

अथासनभेदा उक्ता मत्स्यसूक्ते ।
मृद्वचूडकमासीनश्चान्येषु कोमलेषु च ॥ ९-६३ ॥

विष्टरे वा समासृत्य साधयेत् सिद्धिमुत्तमाम् ।

एषा लक्षणानि तत्रैव

अर्वाक् षण्मासतो गर्भच्युतमाहुर्मृदुं बुधाः ॥ ९-६४ ॥

चूडोपनयनैर्हीनमेतच्चाचूडकं विदुः ।
निवृत्तचूडको बालो हीनोपनयनः पुमान् ॥ ९-६५ ॥

यो मृतः पञ्चमे वर्षे तमेव कोमलं विदुः ।

तथा ।

मृतासनं विना देवि यो जपेत् कालिकां नरः ॥ ९-६६ ॥

तावत् स नारकी ज्ञेयो यावदाहूतसम्प्लवम् ।
यो वीर इत्यर्थः । पशोस्तु तादृशासननिषेधात् ॥ ९-६७ ॥

मृद्धासनाद्यभावेऽनुकल्प उक्तो (वीरतन्त्रे)

शवाभावे विष्टरं तु शवरूप प्रकल्पयेत् ।
पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्धेन तु विष्टरम् ॥ ९-६८ ॥

(कालीतन्त्रादौ)

मृताभावे कुशरूपं विष्टरं परिकल्पयेत् ।
विष्टरः साधकस्याथ कथ्यते शृणु साम्प्रतम् ॥ ९-६९ ॥

भूतपत्राणि यस्मिन् वै स कुशेत्यभिधीयते ।
हस्ते पादे दश दशमिता दिग्युगं हृत्सरोजे ॥ ९-७० ॥

प्। ७३०) विंशत्सङ्ख्याः सकलवरदे मस्तके कीर्तिताश्च ।
गुह्ये जिह्वावदनरदने घ्राणकर्णस्तनेषु ॥ ९-७१ ॥

लिङ्गे चाण्डे युगपरिमिता योजनीयाः कुशाश्च ।
इत्येष विष्टरः प्रोक्तः सर्वसिद्धिप्रदायकः ॥ ९-७२ ॥

कुशैर्वा बन्धनं कार्यं नाड्या वा परमेश्वरि ।
रक्तमिश्रितसूत्रेण पट्टसूत्रेण वा पुनः ॥ ९-७३ ॥

विष्टरं परिकल्प्याथ तस्योपरि जपं चरेत् ।
विधिविष्टरपद्मस्य विधिः प्रोक्तो मया तव ॥ ९-७४ ॥

शवरूपं प्रकल्प्याथ कविर्वाग्मी भवेन्नरः ।
स्वयम्भुवाक्तं सूत्रं च कर्तव्यं सर्वसिद्धये ॥ ९-७५ ॥

शवाभावे विष्टरस्तु शवरूपः प्रकीर्तितः ।
विष्टरः शिवरूपः स्यात् स्वस्य शक्तित्वकल्पना ॥ ९-७६ ॥

शिवशक्तिसमायोगात् किं न सिध्यति भूतले ।

अथ विष्टरसंस्कारः (शक्तिसङ्ङ्गमे)

गायत्र्या त्रोटनं कार्यं मूलेन ग्रथनं चरेत् ॥ ९-७७ ॥

कृतसङ्कल्पको मन्त्री कोमलं वामपाणिना ।
कूर्चबीजेन सङ्गुह्य अस्त्रमन्त्रेण प्रोक्षणम् ॥ ९-७८ ॥

प्रणवं भुवनेशीं च समुच्चार्य तु तं वदेत् ।
शवरूप महाप्रेत चाष्टसिद्धिं प्रयच्छ मे ॥ ९-७९ ॥

इति स्तुत्वा तु तं सम्यक् कुशमध्ये निधापयेत् ।
तस्य देहे त्रिकोणं तु रक्तचन्दनकेन वै ॥ ९-८० ॥

मायां तन्मध्यगां लिख्य बहिर्मण्डलकं चरेत् ।
प्रणवम् - आः सुरेखे च वज्ररेखे ततः परम् ॥ ९-८१ ॥

प्। ७३१) कूर्चं चास्त्रं वह्निवधूरयं च मण्डले मनुः ।
आ।कारं च ततो मायां क्रो।कारं हंस एव च ॥ ९-८२ ॥

वह्निजायां समुच्चार्य शवप्राणाः पदं वदेत् ।
इह प्राणाः पदं चोक्त्वा शवजीव इह स्थितः ॥ ९-८३ ॥

शवस्य सर्वेन्द्रियाणि वाङ्मनश्चक्षुरेव च ।
क्षोत्रघ्राणानीहागत्य सुखं च चिरमेव च ॥ ९-८४ ॥

तिष्ठन्तु स्वाहया युक्तः प्राणसंस्थापने मनुः ।
प्रणवं पूर्वमुच्चार्याधारशक्तिपदं ततः ॥ ९-८५ ॥

कोमलासनपदं ङेऽन्तं नमोऽन्तेन तमर्चयेत् ।
प्रणवं कामपीठाय नमः शब्दान्नमस्क्रिया ॥ ९-८६ ॥

स्वर्णैर्माषत्रयैः पट्टे कार्या मूर्तिः शवस्य तु ।
संस्थाप्य विस्तरस्यान्ते सर्वं पूर्ववदाचरेत् ॥ ९-८७ ॥

मृताभाव इति वचनात् पशोः शवानुकल्पकुशविष्टरमपि नास्ति मुख्येऽधिकारिण एवानुकल्पेऽधिकारादिति सुधार्णवकृतः ।
आसनान्तरसंस्कारोऽप्युक्तो (भैरवतन्त्रे)

कुशं व्याघ्राजिनं वाऽपि कम्बलं लोहितं तथा ।
कोमलाद्यासनं वाऽपि पीतवस्त्रेण वेष्टयेत् ॥ ९-८८ ॥

आसनं सम्यगापाद्य ततः शोधनमाचरेत् ।
कल्पोक्तेन विधानेन पूजां सम्यक् समाचरेत् ॥ ९-८९ ॥

पूजार्थमासनमहं शोधयामि महेश्वरि ।
देव्याज्ञामेवमादाय मूलहृन्मनुनाऽपि च ॥ ९-९० ॥

जलेनासनमभ्युक्ष्य कवचेनावगुण्ठ्य च ।
अस्त्रमन्त्रेण संरक्ष्य सदाशिवनिभं स्मरेत् ॥ ९-९१ ॥

तत्र पीठमनुं भक्त्या जपेदष्टोत्तरं शतम् ।
प्। ७३२) यथा विभवसम्भारैः पूजयित्वा सदाशिवम् ॥ ९-९२ ॥

सिद्धिश्वर महादेव सर्वसिद्धिप्रदायक ।
देहि मेऽभीष्टसिद्धिं त्वमेतदासनरूपतः ॥ ९-९३ ॥

इदं मन्त्रं समुच्चार्य उपविष्यासने ततः ।
यथाविधि विधायाथ गुरवे दक्षिणां ददेत् ॥ ९-९४ ॥

इत्यासनसंस्कारः ।

अथ देशाः (फेत्कारिणीये)

एकलिङ्गे श्मशाने च शून्यागारे चतुष्टये ।
तत्रस्थः साधयेद्योगी विद्यां त्रिभवमोचिनीम् ॥ ९-९५ ॥

एकलिङ्गलक्षणमुक्तं तत्रैव ।

पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्षते ।
तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा ॥ ९-९६ ॥

श्मशानादिलक्षणमुक्तं (त्रिशक्तिरत्नाकरे)

दह्यन्ते व्यसवो यत्र शवकीलकसङ्कुले ।
गृध्रगोमायुकाकाद्यैर्मांसंलुब्धैर्यदावृतम् ॥ ९-९७ ॥

तत् श्मशानमिति ख्यातं पिशाचगणसेवितम् ।
काकादिनीडसंयुक्तं कृत्तिच्छत्रादिसंयुतम् ॥ ९-९८ ॥

नागरैर्दूरनिर्मुक्तं साध्यसोद्वेगकारकम् ।
सौधसंरूढघासाट्यं शून्यागारं तदुच्यते ॥ ९-९९ ॥

चतुर्णां च यथा यत्र संयोगो युगपद्भवेत् ।
तच्चतुष्पथमित्युक्तं रजन्यामिष्टदायकम् ॥ ९-१०० ॥

पूर्वपूर्वमिदं शस्तं जघन्यश्चोरतोत्तरम् ।
उज्जटे पर्वते वाऽपि निर्जने वा चतुष्पथे ॥ ९-१०१ ॥

देवागारे देवशून्ये विल्वमूले नदीतटे ।

प्। ७३३) स्वगृहे निर्जनारामे तथा चाश्वत्थसन्निधौ ॥ ९-१०२ ॥

(कुमारीतन्त्रे)

तद्भावे दिव्यगेहे सिन्दूरादिभिरङ्किते ।
खड्गशूलगदाकर्त्त्रीचामरव्यजनादिभिः ॥ ९-१०३ ॥

वितानधूपसङ्ङ्कीर्णे कृष्णागुरुसुवासिते ।
युवतीनां सुरापीनां वेश्यानां लास्यशोभिते ॥ ९-१०४ ॥

शङ्खघण्टारवाकीर्णे दीपावलिविराजिते ।
एवम्भूते गृहे पूजा कालिकायाः सुशोभना ॥ ९-१०५ ॥

अथ पुरश्चरणविधिः (वीरतन्त्रे)

आदौ मन्त्रस्य सिद्ध्यर्थं पुरश्चरणमाचरेत् ।
ततः सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् ॥ ९-१०६ ॥

(स्वतन्त्रतन्त्रे)

दिवा लक्षं शुचिर्भूत्वा हविष्याशी जपेन्नरः ।
ततस्तु तद्दशांशेन होमयेद्धविषा प्रिये ॥ ९-१०७ ॥

तर्पयेत् तीर्थतायेन पयसा सर्पिषाऽपि वा ।
मधुना वा सितामिश्रतोयेन परमेश्वरीम् ॥ ९-१०८ ॥

देवीं चाभिषिञ्चेत् तोयैस्तर्णस्य दशांशतः ।
तद्दशांश हविष्यान्नैर्भोजयेद्भक्तितः प्रिये ॥ ९-१०९ ॥

कालीमन्त्रविदो विप्रान् दक्षिणां गुरवे ददेत् ।
पाशवं कठिनं कल्पं शृणु वैरं ततः प्रिये ॥ ९-११० ॥

रात्रौ मांसाशवैर्देवीं पूजयित्वा विधानतः ।
ततो नग्नां स्त्रियं नग्नो रमन् क्लेदयुतोऽपि वा ॥ ९-१११ ॥

जपेल्लक्षं ततो देवीं होमयेज्ज्वलितेऽनले ।
योनिकुण्डे स्थिते सर्पिर्मांसमद्ययुतं तथा ॥ ९-११२ ॥

प्। ७३४) दशांशं तर्पयेन्मद्यैर्मांसमिश्रैस्तु साधकः ।
तर्पणस्य दशांशेन अभिषिञ्च्य जगन्मयीम् ॥ ९-११३ ॥

दशांशं भोजयेत् वा साधु साधकं कालिकाप्रियम् ।
मद्यं मांसं च मत्स्यं च चर्वणं च प्रदापयेत् ॥ ९-११४ ॥

ततस्तु तोषयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये ।
एतत्कल्पद्वयाद्देवि मन्त्रः सिध्यति वै ध्रुवम् ॥ ९-११५ ॥

(कालीतन्त्रे)

आदौ पुरस्क्रियां कुर्यान्नियमेन यथाविधि ।
लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः ॥ ९-११६ ॥

रात्रैः ताम्बूलपूर्णास्यः शय्यायां लक्षमानतः ।
ततः सिद्धमनुर्मन्त्री प्रयोगार्हो न चान्यथा ॥ ९-११७ ॥

(साधनसमुच्चये)

नित्यकर्म दिवा कृत्वा रात्रौ पूजां समाचरेत् ।
पूजान्ते तु जपं कुर्यात् कारणास्वादमोदितः ॥ ९-११८ ॥

जपेन लक्षमात्रेण काली विद्या प्रसिध्यति ।

(भैरवतन्त्रे)

लक्षं जपेद्धविष्याशी दिनेनैव जितेन्द्रियः ॥ ९-११९ ॥

ब्रह्मचर्यपरो भूत्वा पुरश्चरणकर्मणि ।
तथा रात्रौ जपेल्लक्षं मन्त्री मैथुनतत्परः ॥ ९-१२० ॥

कृत्वाऽचारक्रमेणैवं साधयेन्मन्त्रमात्मनः ।
विधानेनाथ सिद्धिः स्यान्मनुरेव न संशयः ॥ ९-१२१ ॥

(भैरवयामले)

दीक्षाविधानमधिगम्य गुरोः सकाशा-
ल्लब्ध्वा मनुं जपति लक्षमितं दिवा यः ।
प्। ७३५) रात्रौ हविष्यभुगमत्सरकामकोप-
लोभाद्यचञ्चलमनाः स तु साधकेन्द्रः ॥ ९-१२२ ॥
लक्षं निशि स्ववनितासु रतावसाने
नग्नो विमुक्तचिकुरस्त्वयि दत्तचित्तः ।

(महाकालस्तुतौ)

वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो
दिवा मातर्युष्मच्चरणयुगलध्याननिरतः ॥ ९-१२३ ॥
परं नक्तं नग्नो निधुवनविनोदेन च मनुं
जनो लक्षं स स्यात् स्मरहरसमानः क्षितितले ॥

(मेरुतन्त्रे)

लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः ॥ ९-१२४ ॥

अशुचिश्च तथा रात्रौ लक्षमेकं जपेन्मनुम् ।
दशांशं होमयेदाज्यैस्तर्पयेदभिषेचयेत् ॥ ९-१२५ ॥

होमं च तर्पणं पूजा कर्तव्या तु विशेषतः ।
ततः प्रयोगान् कुर्वीत काम्यानिष्टफलाप्तये ॥ ९-१२६ ॥

(वीरचूडामणौ)

साधनस्य विधिं वक्ष्ये सङ्केतपरमाद्भुतम् ।
येन विज्ञातमात्रेण खेचरत्वं च जायते ॥ ९-१२७ ॥

होमं कुर्यात् प्रयत्नेन पायसेन तिलेन वा ।
स्नातः शुक्लाम्बरधरो नित्यकर्मदिवाशुचिः ॥ ९-१२८ ॥

रात्रौ पूजां प्रकुर्वीत पञ्चमुद्राविधानतः ।
अनेनैव विधानेन लक्षमेकं जपेद्बुधः ॥ ९-१२९ ॥

स्वस्वकर्म पुरस्कृत्य सर्वसिद्धीश्वरो भवेत् ।
हावभावादिकं कुर्यान्महाचीनलतां हरेत् ॥ ९-१३० ॥

प्। ७३६) (श्रुतिसिद्धान्ततन्त्रे)

तेनैव तर्पणं कुर्यात् स्नानपानादिकं सदा ।
दक्षिणे पाशवः कल्पो वीरकल्पस्तु वामिनाम् ॥ ९-१३१ ॥

कल्पद्वयं समाश्रित्य मन्त्रं सिध्यति सत्वरम् ।
गुरोराज्ञां समादाय स्नातः शुक्लाम्बरः शुचिः ॥ ९-१३२ ॥

दिवा लक्षं जपेद्विद्यां ब्रह्मचर्यं समाश्रितः ।
रात्रौ च देवदेवेशीमिष्ट्वा वामोपचारकैः ॥ ९-१३३ ॥

शक्तीः सम्पूज्य विधिवत् कृत्वा निधुवनोत्सवम् ।
कोमलाद्यासनासीनो मुक्तदेशी दिगम्बरः ॥ ९-१३४ ॥

ताम्बूलपरिपूर्णास्यः सिन्दूराङ्कितभालकः ।
रहस्यमालामादाय जपेल्लक्षमनन्यधीः ॥ ९-१३५ ॥

कुलमार्गप्रपन्नानां विधिरेषः प्रकीर्तितः ।

अत्र ब्राह्मणस्य पशोर्वा दक्षिणोपचारेण दिवकलक्षजपः । शूद्रस्य वीरस्य च रात्रौ वामोपचारेणैकलक्षणजप इति राघवभट्टादयः ।

तेषामयमाशयः ।

भैक्ष्यादिनियमाहारः सकृद्रात्रौ विधियते ॥ ९-१३६ ॥

दिवा चैव जपं कुर्यात् पौरश्चरणिको द्विजः ।

इति (फेत्कारिणी-)तन्त्रवचनात् ।

स्नातः शुक्लाम्बरधरः शुचिः प्रयतमानसः ॥ ९-१३७ ॥

दिवा सर्वं प्रकर्तव्यं धर्मकामार्थसिद्धये ।
द्विजानामत्र सर्वेषां विधिरेषः प्रकीर्तितः ॥ ९-१३८ ॥

इति (मेरुतन्त्र-)वचनाच्च विप्रादिकर्तृकपुरश्चरणे ।

त्रिसन्ध्यं देवपूजां च त्रिसन्ध्यं जपमाचरेत् ।
रात्रौ मन्त्रं च मालां च स्पृशेन्नैव कदाचन ॥१३९ ॥

प्। ७३७) इति पशुभावप्रकरणीय-(भावचूडामणि-) वचनात् । पशुकर्तृकपुरश्चरणे च दिवस एव कालः ।

एवं च ।

द्विजानां चैव सर्वेषां दिवाविधिरिहोच्यते ।  
शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् ॥१४० ॥  

इति (महाकालसंहिता-) वचनोत्तराधात् ।
शूद्रकर्तृकपुरश्चरणे ।

गते तु प्रथमे यामे तृतीयप्रहरावधि ।  
निशायामेव जप्तव्यं रात्रिशेषे जपेन्न च ॥१४१ ॥  

वीरपुरश्चरणप्रकरणीय-(मुण्डमाला-) वचनाद्वीरकर्तृकपुरश्चरणे च रात्रिरेव काल इति व्यवस्थितौ ।

पशुर्गुरुमुखाल्लब्धां विद्यां कालघनप्रभाम् ।  
पाशवेन तु कल्पेन लक्षं जपति साधकः ॥१४२ ॥  

दिव्यगुरुमुखाल्लब्ध्वा कालिकां दिव्यरूपिणीम् ।  
लक्षं जप्यात् सदा मन्त्रं वीरकल्पेन साधकः ॥१४३ ॥  

इति (कालीकुलार्णव-)वचनात् ।

स्वाचारनिरतो नित्यं दिवा लक्षं जपेत् पशुः ।
दिव्यो वाऽप्यथ वा वीरो रात्रौ लक्षं जपं चरेत् ॥१४४ ॥

इति (कालीक्रम-)वचनाच्च सर्वेषामेकलक्षजपात्मकमेव पुरश्चरणं सिध्यतीति । अस्मिन् मते ।

लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः ।  
रात्रौ ताम्बूलपूर्णास्यः शय्यायां लक्षमानतः ॥१४५ ॥  

एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् ।  
अयुतं होमयेद्देवि दिवारात्रिप्रभेदतः ॥१४६ ॥  

इति सर्वेषां भिन्नभिन्नेति कर्त्तव्यताकसमुचितलक्षद्वयजपात्मकपुरश्चरणादिविधायक(कुमारीतन्त्र-)विरोधो दुर्वारः ।

प्। ७३८) (निरुत्तरतन्त्रेऽपि) लक्षद्वयपरिमित एव जप उक्तः ।

लक्षद्वयं जपेद्विद्यां दिवारात्रिप्रभेदतः � इति ।  

सुधार्णवकृतस्तु �

एवं लक्षद्वयं जप्त्वा इत्या � (कुमारीतन्त्रा-)दिवचनाद्दिवारात्र्योर्भिन्नभिन्नाचारेणैकैकलक्षजपात्मकसमुचितलक्षद्वयजपः सर्वस्यैव प्राप्तः ।

स्वाचारनिरतो नित्यं दिवा लक्षं जपेत् पशुः ॥१४७ ॥  

दिव्यो वाऽप्यथ वा वीरो रात्रौ लक्षं जपं चरेत् ।  

इति (कालीक्रम-)वचनेनापवाद्यते ।
एवं वीरब्राह्मणस्यापि रात्रौ मैरेयाद्युपादानपुरःसरः ।

ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते ॥ ९-१४८ ॥  

इत्यादिवाक्यविरुद्धो वीरभावप्रकरणीयब्राह्मणकर्तृकक्षीरोपादानविधायक-(भावचूडामणि-) विरुद्धश्च जपः प्राप्तः ।

तत्र

द्विजानां चैव सर्वेषां दिवाविधिरिहेष्यते ।  

इत्यपवादकं वाक्यम् । तेन वीरस्यापि ब्राह्मणस्य मैरेयाद्युपादानपूर्वकं दिवालक्षजपः पर्यवसन्नो भवति ।
एवं च राजन्यवैश्ययोरपि रात्रिमात्रजपापवादक ।

शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् ॥ ९-१४९ ॥  

इत्युत्तराधम् । तेन (कुमारीकल्प-)वचनं राजन्यवैश्यविषयं पर्यवस्यति ।
अपवादविसयपरिहारेणोत्सर्गस्य व्यवस्तितैः पशूनां रात्रजपश्च पशुभावप्रकरणीय �(भावचूडामणि-)वचनपरास्त एवेति सर्वमनवद्यम् ।

वस्तुतस्तु �

पशुर्गुरुमुखाल्लब्ध्वा इत्यादि (कालीकुलार्णव-)वचनात् पशोर्लब्धमन्त्रस्य पशुभावेन वीराल्लब्धमन्त्रस्य वीरभावेन च साधने एकलक्षजपो वैपरीत्ये च लक्षद्वयजप इत्याहुः अत्र वैपरोत्ये (कुमारीतन्त्रो-)क्तरीत्या लक्षद्वयजपस्य कर्तव्यतया वीराल्लब्धमन्त्रस्य पशुभावेन साधनासम्भवात् पशोर्लब्धमन्त्रस्य वीरभावेन साधनमेव वैपरीत्यमिति ध्येयम्
अत्र कृष्णभट्टपादाः ।
एवं लक्षद्वयं जप्त्वा इत्यादि-(कुमारीतन्त्रा-)दिवचनात् सर्वेषामपि लक्षद्वयपरिमित एव जपः । पशुदिव्यवीराणामेकैकलक्षजपविधायक-(कालीकुलार्णवकालीक्रमा-)दिवचनं तु सिद्धमन्त्रविषयम् ।

प्। ७३९) अत एवोक्तं (यामलादैः)

गुरुणा साधितो मन्त्रो यदि भाग्येन लभ्यते ।  
लक्षमात्रं तदा जप्त्वा सर्वकर्णाणि साधयेत् � इति ॥१५० ॥  

तत्र विशेषस्तु ।

रात्रौ मांसासवैर्देवीं पूजयित्वा विधानतः ।  
ततो नग्नां स्त्रियं नग्नो रमन् � इत्यादि (स्वतन्त्रतन्त्रा-)दिवचनात् ।  
ब्राह्मणो मदिरां दत्वा � इत्यादिमहाकालोक्तविरुद्धमैरेयदानादिकम् ।  
अज्ञानात् स्वस्त्रियम् गत्वा � इत्यादिसामान्यपुरश्चरणप्रकरणीय � (सिद्धान्तसम्प्रदाया-)दिवचनविरुद्धरात्रिजपप्राक्कालीनसुरतादिकं ब्राह्मणस्यापि प्राप्तम् ।  

तदुभयमपि ।

द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम् ॥ ९-१५१ ॥  

स्वकीयां परकीयां वा सामान्यवनितां तथा ।  
जपेयुस्ताः समाकृष्य क्षत्रविदशूद्रजातयः ॥ ९-१५२ ॥  

इति (महाकालसंहिता)-वचनेनापवाद्यते ।

एवं च ।

स्वजातकुसुमं चैव हेतुद्रव्यं च भैरव ।  
स्पृष्ट्वा तथा समाघ्राय पञ्चगव्येन शुद्ध्यति ॥१५३ ॥  

ऋतुकालं विना चापि न गच्छेत् स्त्रियमादरात् ।  

इत्यादिभिः पशुभावप्रकारेण � (भावचूडामणि -)वचनैर्विप्रेतरपशोरपि तदुभयं निरस्तमेव ।
पशुमात्रस्य रात्रिजपनिषेधक � (भावचूडामणि-)वचनं तु एतद्देवताद्यतिरिक्तदेवतोपासकपशुपरम् ।

रात्रावपि जपेत् तावत् प्रत्यवायोपशान्तये ॥ ९-१५४ ॥  

इति पशुकर्तृककाम्यप्रकरणीय �(श्रुतिसिद्धान्ततन्त्र)-वचनेन एतद्देवतोपासकपशो रात्रिजपस्यापि विहितत्वात् ।

शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलम् ।  

प्। ७४०) इति वचनं तु शूद्राणां रात्रिजपे फलातिशयबोधकं न तु शूद्रकर्तृकदिवातनजपप्रतिषेधकम् ।

तथा च ।

वीरदिव्ययोर्दिवापाशवकल्पेनैकलक्षजपो वीरकल्पेन रात्रावेकलक्षजपरतत्रापि साक्षन्मैरेयाद्युपादानं शूद्रस्यैव न तु वीरस्यापि त्रैवर्णिकस्य तदुपादानम् ।

क्षीरेण ब्राह्मणैस्तर्प्या घृतेन नृपवंशजैः ॥ ९-१५५ ॥  

माक्षिकैर्वैश्यवर्णैस्तु आसवैः शूद्रजातिभिः ।  

इति (भैरवतन्त्र-)वचनात् ।

अत एवोक्तं (महाकालसंहितायाम्)

श्रूयते यत् फलाधिक्यं तत्रादौ मद्यदानतः ॥ ९-१५६ ॥  

तद्धि शूद्रपरं ज्ञेयं न तु द्विजपरं प्रिये � इति ।  

पशोस्तु दक्षिणचारेण दिवैकलक्षजपस्तेनैवाचारेण रात्रावेकलक्षजप इति सर्वेषामपि लक्षद्वयजपात्मकमेव पुरश्चरणं पर्यवसन्नमिति पाहुः ।

मम त्वेवं प्रतिभाति ।

दक्षिणे पाशवः कल्पो वीरकल्पस्तु वामिनाम् ॥ ९-१५७ ॥  

इत्यादि (श्रुतिसिद्धान्त-) तन्त्रवचनाद्दक्षिणमर्गिणः पाशवकल्प एव वाममार्गिणो वीरकल्प एवाधिकारित्वे सिद्धे पाशवकल्पेन च पुरश्चरणमुक्त्वा �

कुलमार्गप्रपन्नानां विधिरेष प्रकीर्तितः ।  

इति तत्रैवोक्तत्वात् ।

कुलाचारक्रमेणैवं साधयेन्मन्त्रात्मनः ॥ ९-१५८ ॥  

इति (भैरवतन्त्र-)वचनात् ।

दक्षवामक्रियायुक्तः कौलश्चोभयमिश्रितः ।  

इत्याचारप्रकरणीय �(वाडवानल-)वचनाच्च एतत्कल्पद्वयाश्रयणे कौलिकस्यैवाधिकारः प्रतीयते ।

तथा च ।

पाशवकल्पेन दिवैकलक्षजपरूपपुरश्चरणं दक्षिणमार्गिणः । वीरकल्पेन रात्रावेकलक्षजपरूपपुरश्चरणं वाममार्गिणः । एतदुभयात्मकपुरश्चरणं कौलिकस्येति मार्गभेदेन पुरश्चरणस्यापि भेदः ।

प्। ७४१) द्विजानां चैव सर्वेषाम् � इत्यादौ द्विजपदं पशुपरं न तु विप्रमात्रपरम् । तस्य त्रैवर्णिकवाचकत्वात् । अत एव क्षत्रियवैश्ययोः सङ्ग्रहाय सर्वेषामिति पदमुपात्तम् । उत्तरार्धे तु नोपात्तम् । अन्यथा राजन्यवैश्यविषयकाकाङ्क्षाया अनिवृत्तिप्रसङ्ग इति तु सुधार्णवकृतैवोक्तम् । पशुश्च दक्षिणमार्गो । एवमुत्तरार्धे शूद्रपदं वाममार्गिपरम् ।

अत एवोक्तं (मेरुतन्त्रे)  


	शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता �इति ॥ ९-१५९ ॥  

	दिव्यो गुरुमुखात् � इत्यत्र दिव्यो वाऽप्यथ वा वीरः � इत्यत्र च दिव्यवीरौ वाममार्गिणो अ तु कौलिकौ । कौलिकवाममार्गिभेदेन तयोः प्रत्येके द्वैविध्यस्य वक्ष्यमाणत्वात् तथा च दिवैकलक्षजपविधायकानि (कालिकुलार्णवा)- दिवचनानि दक्षिणमार्गपरतया रात्रावेकलक्षजपविधायकानि (साधनसमुच्चया-)दिवचनानि वाममार्गपरतया दिवारात्रिभेदेन समुचितलक्षद्वजपविधायकानि-)दिवचनानि वाममार्गपरदिवचनानि च कुलमार्गपरतया सङ्गमनीयानीति सकलमकलङ्कम् ।  

किञ्च  

	लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः ।  
	अशुचिश्च तथा रात्रौ लक्षमेकं जपेन्मनुम् ॥१६० ॥  

इत्यादावपि त्रिविधमार्गोपयुक्तं त्रिविधपुरश्चरणं सुधीभिराकलनीयम् । ननु पशूनामेतद्देवताराधने कथमधिकारः ।

दिव्यभावं वीरभावं विना कालीं न पूजयेत् ।  
पूजयेन्नरकं याति दुःखं तस्य पदे पदे ॥१६१ ॥  

पशुभावाश्रितो देवि यदि कालीं प्रपूजयेत् ।  
रौरवं नरकं याति यावदाहूतसम्प्लवम् ॥१६२ ॥  

इति (निरुत्तरतन्त्र-)वचनेन निषेधादिति चेन्न । दिव्यभावमित्यादिवचनानां वामाचारप्रकरणीयतया वाममार्गिणां पशुभावाश्रयणनिषेधपरत्वात् ।
तथा च ।

	वाममार्गी दिव्यभावं विना कालीं न पूजयेत् ।  

पशुभावाश्रितः सन् यदि पूजयेत् तदा रौरवं नरकं यातीति तदर्थः ।

तदुक्तमन्यत्रापि ।  

	दिव्यभावं वीरभावं वाममार्गी समाश्रयेत् ॥ ९-१६३ ॥  

प्। ७४२) पशोः संसर्गमात्रेण रौरवं नरकं व्रजेत् � इति ॥
तथा च ।

पशुभावो हि विप्राणां श्रेयस्करतो मतः ॥ ९-१६४ ॥  

तस्मात् पाशवकल्पेन विप्रः कालीं प्रपूजयेत् ।  

इति (श्रुतिसिद्धान्ततन्त्र-)वचनात् ।

विप्रो दक्षिणमार्गेण मयामायां प्रपूजयेत् ॥१६५ ॥  

इत्यादि (सिद्धान्तसार-)वचनाच्च पशूनामेतद्देवतोपासनाधिकारित्वमक्षतमेव । अन्यथा ।

पशुर्गुरुमुखाल्लब्ध्वा � इत्यादिपूर्वोक्त �(कालोकुलार्णव-)वचनस्य ।  
स्वाचारनिरतो निरतं दिवा लक्षं जयेत् पशुः ।  

इत्यादि (काली क्रम-)वचनस्य चासङ्गत्यापत्तेः ।
एवं च ।

साधके क्षोभमापन्ने देवीक्षोभः प्रजायते ॥ ९-१६६ ॥  

तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् ।  
विना पीत्वा सुरां भुक्त्वा मांसं गत्वा रजस्वलाम् ॥ ९-१६७ ॥  

यो जपेद्दक्षिणां कालीं तस्य दुःखं पदे पदे ।  
कलावासवयोगेन तर्पयेत् कालिकां प्रिये ॥ ९-१६८ ॥  

इत्यादि �(निरुत्तरतन्त्र-)वचनानामपि वीरपरत्वमवगन्तव्यम् । वीरस्यापि ब्राह्मणस्य मैरेयाद्युपादाननिषेधाद्ब्राह्मणेतरवीरपरत्वमुक्तवचनानामिति बहवः ।
वस्तुतो ब्राह्मणस्य वीरादिभाव एव निषिद्धः ।

	पशुभावो हि विप्राणाम् � इत्युक्तत्वात् ।  

ननु ।

	मद्यं मत्स्यं तथा मांसं मुद्रां च मैथुनं ततः ।  
	ब्राह्मणो वीरभावेन कालिकायै निवेदयेत् ॥१६८ ॥  

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुलयोगतः ।
पञ्चमैः पूजयेत् कालीं मोक्षार्थी यः कलौ भवेत् ॥१६९ ॥

प्। ७४३) इत्यादि (निरुत्तरतन्त्र-)वचनाद्ब्राह्मणस्य वीरभावे कथं नाधिकार इति चेन्मैवम् ।

ब्राह्मं वीर्यं तथा क्षेत्रं संस्कारा ब्रह्मसम्भवाः ।  
ब्रह्मणाचरणाद्ब्रह्मविद्याभिर्ब्राह्मणो भवेत् ॥१७० ॥  

इति (मेरुतन्त्रो)-क्तेषु पञ्चसुलक्षणेषु निर्देशक्रमप्रातिलोम्येन लक्षणचतुष्टयहीनस्य शूद्रतुल्यस्यैव ब्राह्मणस्य वामाचाराधिकारितया सर्वाचारपरिभ्रष्टस्य तादृशस्यैव ब्राह्मणस्य कुलाचाराधिकारितया च तदितरस्य विप्रस्य तदुभयानधिकारित्वेन वीरभावनिषेधात् ।
तदुक्तं (मेरुतन्त्रे)

	उक्तेषु लक्षणेष्वेकं यस्मिन् विप्रे प्रदृश्यते ।  
	तस्यैव ब्राह्मणस्यात्र वामे स्यादधिकारिता ॥१७१ ॥  

तथा ।

	चतुर्लक्षणहीनानां मार्गाः स्यु कौलिकादयः ।  

तथा ।

	सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् ॥ ९-१७२ ॥  

	कुलाचारपरिभ्रष्टो रौरवं नरकं व्रजेत् � इति ।  

अत एवोक्तं (भावनिर्णये)

	वृषलः पशुभावं तु न कदाऽपि समाश्रयेत् ॥ ९-१७३ ॥  

	ब्राह्मणो वीरभावं च मनसाऽपि न भावयेत् ।  

इति च शब्दाद्दिव्यभावमपि ।
एवं च ब्राह्मणकर्तृकमदिराद्युपादानविध्यायकं वाक्यं यत्र यत्रोपलभ्यते तत्र तत्र ब्राह्मणपदस्य पूर्वोक्तलक्षणचतुष्टयहीनवीरब्राह्मणपरत्वमवधेयम् । तान्त्रिकमते तादृशोऽपि ब्राह्मणपदप्रयोगात् । अत एव तस्यैव ब्राह्मणस्येत्युक्तं (मेरुतन्त्रे)

ब्राह्मणैस्तु सदा पेयं क्षत्रियैस्तु रणागमे ॥ ९-१७४ ॥  

वैश्यैर्धनप्रयोगे च शूद्रेर्नैव कदाचन ।  

इति �(कुलार्णव-)वचनं तु सदा पेयमित्यत्र सदा अपेयमित्यकारप्रलेषादपि सङ्गच्छते । एवं च कलिधर्मप्रकरणे गृह्यपरिशिष्टे हरिनाथोपाध्यायैः सौत्रामण्यां सुराग्रहणनिषेधस्योक्तत्वात् ।
कुलाचाराधिकारिब्राह्मणस्यास्माभिरुपदर्शितत्वाच्च ।

	सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिवेत् सुराम् ॥ ९-१७५ ॥  

प्। ७४४) इति (समयाचार-)वचनं सङ्गच्छत एव ।
यत् तु ।

त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः ।  
मधुभिः सर्ववर्णैस्तु पूजिता द्वापरे युगे ॥१७६ ॥  

पूजनीया कलौ देवी केवलैरासवैः � (यामल-)वचनम् । तत्र सर्ववर्णशब्दो ब्राह्मणेतरपरः ।  

त्रय्यध्वरोणो भूदेवस्त्रिपदायज्ञसूत्रधृक् ।  
न कदाऽपि स्पृशेद्बालां न च देव्यै निवेदयेत् ॥१७७ ॥  

इति (महाकालसंहिता-)वचनेन ब्राह्मणस्य सर्वदा मैरेयदाननिषेधात् ।
इत्थं च ।

यत्रावश्यं विनिर्दिष्टं मदिरादानमुमुत्तमम् ।  
ब्राह्मणस्ताम्रपात्रे तु गव्यं मद्यं प्रल्पयेत् ॥१७८ ॥  

इति (भैरवतन्त्रो-)क्तोऽनुकल्पविधिरपि पूर्वोक्तवीरब्राह्मणपर एव । तदितरस्य तत्रापि नाधिकारः ।

ब्राह्मणस्त्वनुकल्पं न कृत्वा चाण्डालतामियात् ।  

इति तन्त्रान्तरवचनात् ।
(महाकालसंहितायाम्)

कदा चिदनुकल्पोक्तां दद्याद्देव्यै द्विजः सुराम् ॥ ९-१७९ ॥

उपमद्यानि ते वच्मि तानि देव्यवधारय ।
आर्द्रकस्य गुडस्यापि समभागे भवेत् सुरा ॥ ९-१८० ॥

ताम्रपात्रे तथा क्षौद्रं पयो गव्यं तथाऽत्र च ।
नारिकेलोदकं कांस्ये रीतौ तालरसोऽपि च ॥ ९-१८१ ॥

रसालश्च रसो रङ्गे वा पानसो द्रवः ।
मधूकपुटके द्राक्षा तत्पुष्पं तद्दलेऽपि च ॥ ९-१८२ ॥

चिञ्चारसं पद्मपत्रेऽश्वत्थे कारकपानकम् ।
उपमद्यानि चैतानि द्वादश स्युर्वरानने ॥ ९-१८३ ॥

प्। ७४५) द्विजो दित्सति चेन्मद्यं दद्यादेतानि नो सुराम् ।
एतान्यपि न देयानि सात्त्विकैर्धर्मभीरुभिः ॥ ९-१८४ ॥

मद्यं वाऽप्युपमद्यं वा मद्यनाम न गच्छति ।
पातित्यं किन्तु नामीभिस्तथैव पतितो भवेत् ॥ ९-१८५ ॥

अत्र द्विजपदं ब्राह्मणेतरद्विजपरं न तु ब्राह्मणपरम् । अत एवोक्तं तत्रैव ।

नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु ।
राजन्यवैश्ययोर्दानं न विप्रस्य कदाचन ॥ ९-१८६ ॥

एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् � इति ।
एवं च ।

नानोपचारसम्भारैर्भक्तितः पूजिताऽपि च ॥ ९-१८७ ॥
विना मकारयोगेन नैव तुष्यति कालिका ।

इत्यादि (कुलरत्नावली-) वचनमपि शूद्रादिकर्तृकाराधनपरं बोद्धव्यम् ।
विप्रादिकर्तृकोपासनायां न सात्त्विकैरेवोचारैस्तस्यास्तुष्टिश्रवणात् । एतत् सर्वं (महाकालसंहितायां) स्पष्टम् ।

तथा हि ।

वस्तुष्वन्येषु तिष्टत्सु देवीप्रीतिकरेषु च ॥ ९-१८८ ॥

किमेतया वै सुरया कदन्नमलरूपया ।
भूतप्रेतपिशाचार्थं पूयमिश्रं * सुरामिषम् ॥ ९-१८९ ॥

तद्ब्राह्मणेन नो देयं देव्यै नात्तव्यमेव च ।
न चैतया तुष्यति सा बहु वाऽपि घृणायते ॥ ९-१९० ॥

उद्विग्ना च भवेत् तस्माद्दद्यान्नैव द्विजः सुराम् ।
हतो वेदो हतो धर्मः परलोको हतः स्वकः ॥१९१ ॥

कुलं हतं हता जातिर्हतं ब्राह्मण्यमेव च ।
प्राज्ञम्मन्येन मूर्खेण पिवताऽज्ञानतः सुराम् ॥१९२ ॥

प्।७४६) किं कृतं साधितं किं वा किं च वा समुपार्जितम् ।
यदयं हृतवान् स्वस्य सर्वं मद्योपसेवनात् ॥ ९-१९३ ॥

एवमेवाज्ञानमग्नो मामप्याशु हनिष्यति ।
उद्विग्नैव महामाया भवेत् तदवलोकनात् ॥ ९-१९४॥

कैवर्त्तपुक्कशम्लेच्छरजकान्त्यावसायिनाम् ।
चर्मकारनटप्रोथमेदोवेणूपजीविनाम् ॥ ९-१९५॥

सिद्धदुर्गन्धिशुष्कान्नं द्रव्यं मह्यं निवेद्य हि ।
सुधावत् पिवतां पुसां कथं विदसु न हि स्पृहा ॥ ९-१९६ ॥

अन्ये न सन्ति वस्त्वाद्या नैवेद्यकरणाय किम् ।
अस्पृश्यं यत् तदानीय मह्यं ददति कुअलिकाः ॥ ९-१९७ ॥

ऋचो यजूंषि सामानि ह्यथर्वाङ्गिरसस्तथा ।
वेदेभ्यः कोटिगुणिता महामन्त्रास्तथैव च ॥ ९-१९८ ॥

ये पावयन्ति देहस्थान् मद्यैराकण्ठपूरितैः ।
मामपि प्लावयिष्यन्ति किमाश्चर्यं हि ते जनाः ॥ ९-१९९ ॥

सात्त्विकैरेव निअवेद्यैः कन्दैः पुष्पैः पलैर्दलैः ।
अभावे भावभक्तिभ्यां सत्यं तुष्टा भवाम्यहम् ॥ ९-२०० ॥

न मद्यमांसविस्तारैः प्रेतराक्षसभोजनैः ।
ब्राह्मणो मानसाः पुत्रा मरीच्यत्र्यङ्गिरोमुखाः ॥ ९-२०१ ॥

एतेषामन्वयोद्बूताः पुनरन्ये सहस्रशः ।
कश्यपश्चैव दुर्वासा दत्तात्रेयश्च चन्द्रमाः ॥ ९-२०२ ॥

बृहस्पतिर्विश्रवाश्च शक्तिर्दक्षो मृकण्डुजः ।
नारदः कपिलो व्यासः कालाग्निर्जमदग्निजः ॥ ९-२०३ ॥

दाक्षः कविरथर्वा च शाण्दिल्यो गौतमो मनुः ।
नाचिकेता भरद्वाजः श्वेताश्वतर एव च ॥ ९-२०४ ॥

प्। ७४७) और्वो दधीचिश्च्यवन ऋचीकश्च पराशरः ।
शातातपो लोमशश्च जैगीषव्यश्च देवलः ॥ ९-२०५ ॥

पैठीनसिर्वीतिहव्यः संवर्तोऽगस्तिरासुरिः ।
उपमन्युर्मतङ्गश्च तथा वाजस्रवाः कठः ॥ ९-२०६ ॥

उद्दालकश्चारुणेय आश्वलायन एव च ।
उत्तङ्कश्च यवक्रीतः कात्यायन ऋतश्रवाः ॥ ९-२०७ ॥

एते चान्ये च मुनयो वेदवेदाङ्गपारगाः ।
ईजानाः ऋतुभिः सर्वैः समाप्तवदक्षिणैः ॥ ९-२०८ ॥

गृणन्ती निगमं सर्वं कुर्वन्तो दुश्चरं तपः ।
ध्यायन्तो निष्कलं ब्रह्म जपन्तो मामकं मनुम् ॥ ९-२०९ ॥

सर्वदा सात्त्विकैरेवीपचारैः पूजयन्ति माम् ।
सदा मय्यर्पितहृदः सदा सद्भावभाविताः ॥ ९-२१० ॥

सदा मच्छरणं प्राप्ताः शान्ताः दान्ता जितेन्द्रियाः ।
वाय्वाहारा निराहारा ऊर्ध्वरेतस एव च ॥ ९-२११ ॥

तपोबलाद्भ्रंसयितुं शक्रमप्यलमीदृशाः ।
न निवेदितवन्तस्ते किमर्थं मदिरां मयि ॥ ९-२१२ ॥

विज्ञायास्यां महादोषं निन्द्यतां पापहेतुताम् ।
गर्हाकरत्वं पातित्यकारित्वं पूतितामपि ॥ ९-२१३ ॥

परलोकविनाशित्वं तथा नरकहेतुताम् ।
विप्रत्वजातिहन्तृत्वं म्लेच्छतुल्यत्वकारिताम् ॥ ९-२१४ ॥

अतस्तत्यजुरेवैनां सङ्गृह्य श्रुतिपद्धतिम् ।
यद्यस्यां दोषराहित्यं पुण्यकारित्वमेव च ॥ ९-२१५ ॥

स्यात् तदा ते कथं मह्यं ददुर्नैव सुरां द्विजाः ।
धर्मव्यवस्थां ज्ञात्वेत्थमन्येऽपि द्विजजातयः ॥ ९-२१६ ॥

प्। ७४८) निवेदयिष्यन्ति नैव मह्यं मद्यं कथं चन ।
बोधिता अपि शास्त्रार्थैरनादृत्य वचो मम ॥ ९-२१७ ॥

मोहाद्व्यवहरिष्यन्ति लोभोपहतचेतसः ।
ये के चित् तां धर्मराजः शासिष्यति न संशयः ॥ ९-२१८ ॥

तीव्रैर्दण्डैर्महाघोरनरकादिनिपतनैः ।
इति सत्यं पुरा मह्यं प्रोवाच जगदम्बिका ॥ ९-२१९ ॥

तत्राहमवदं देवि देवीवक्क्रोत्थिताक्षरैः ।
अत परं श्रुत्यदितं धर्ममद्वाक्यमेव च ॥ ९-२२० ॥

देव्याज्ञां च समुल्लाङ्घ्य ये दास्यन्ति सुरां द्विजाः ।
तेषां शास्त्री महामाया श्रोतव्यं शृण्वतः परम् ॥ ९-२२१ ॥

द्विजेतरः सम्प्रदद्याद्देव्यै मद्यं सदा रहः ।
स्वयं महाप्रसादं च युञ्जीत प्रत्यहं प्रिये ॥ ९-२२२ ॥

मांसानि दग्धमीना।श्चसर्वदैव निवेदयेत् ।
शुद्रादीनामथैतेषां सद्यस्तुष्यति कालिका ॥ ९-२२३ ॥

द्विजानां यावती निन्दा कथिता मद्यदानतः ।
शूद्राणां तावती ज्ञेया प्रशस्तिर्वरवर्णिनि ॥ ९-२२४ ॥

अतः शूद्रः प्रयत्नेन देव्यै मद्यं निवेदयेत् ।
दीर्घायुष्ट्वमरोगित्वं वाग्मित्वं राजमान्यताम् ॥ ९-२२५ ॥

पुत्रक्षेत्रकलत्रार्थपरिपूर्णत्वमेव च ।
अन्ते स्वर्गादिगमनं शूद्रः प्राप्नोति मद्यतः ॥ ९-२२६ ॥

श्रूयते यत् फलाधिक्यं तन्त्रादौ मद्यदानतः ।
तद्धि शूद्रपरं ज्ञेयं नैव द्विजपरं प्रिये ॥ ९-२२७ ॥

स्वयं यदन्नो भवति तदन्ना तस्य देवता ।
पितरश्च तदन्नाः स्युरित्येवं वैदिकी स्थितिः ॥ ९-२२८ ॥

प्। ७४९) प्राणिजातिषु सर्वासु मानुष्यमतिदुर्लभम् ।
मानुष्येष्वपि देहेषु शूद्रः श्रेष्ठोऽन्त्यजातितः ॥ ९-२२९ ॥

शूद्राच्छतगुणो वैश्यो वेश्यात् साहस्रिको नृपः ।
नृपात् कोटिगुणो विप्रो ज्ञेयः स्वाध्यायतत्परः ॥ ९-२३० ॥

अत एव हि सर्गादौ जगत् सृष्ट्वा चराचरम् ।
यद्यत् सारतरं वस्तु तद्ब्रह्माऽदाद्द्विजातये ॥ ९-२३१ ॥

वेदाः षडङ्गशास्त्राणि क्षमा सत्यं तपो धृतिः ।
शौचं दान्तं दया धर्मो विवेकः कलभाषिता ॥ ९-२३२ ॥

त्यागः शान्तिश्च मर्यादा स्वाध्यायोऽध्यात्मचिन्तनम् ।
यज्ञाः सर्वहविर्गव्यं पयो मेध्यान्नमेव च ॥ ९-२३३ ॥

एतेषां विपरीतानि ददौ शूद्रेभ्य एव च ।
त्रयाणामपि वर्णानां दासभावमदात् ततः ॥ ९-२३४ ॥

सर्वशिल्पोपजीवित्वं मन्त्रराहित्यमेव च ।
अनाशीस्त्वमशौचत्वमपाङ्क्तेयत्वमेव च ॥ ९-२३५ ॥

अस्पृश्यत्वमपाठित्वमसम्हाष्यत्वमेव च ।
मद्यमांसोपयोगित्वं तद्विक्रेतृत्वमेव च ॥ ९-२३६ ॥

देवेभ्यस्तत्प्रदातृत्वं तदुत्पादित्वमेव च ।
म्लेच्छादिदेशगमनं तत्सम्पर्कित्वमेव च ॥ ९-२३७ ॥

महासाहसकारित्वं वेदाश्रोतृत्वमेव च ।
एतस्मात् कारणाद्देवि वेदमर्यादयाऽनया ॥ ९-२३८ ॥

ब्रवीमि मदिरादानेष्वेषामेवाधिकारिता ।
दोषोऽणुरपि नैतेषां देवेभ्यो मद्यदानतः ॥ ९-२३९ ॥

फलातिरेकता वाऽपि श्रूयते निगमादिषु ।
अतः प्रयत्नतः शूद्रो दद्याद्देव्यै परिश्रुतम् ॥ ९-२४० ॥

प्। ७५०) तामेव वर्जयेद्विप्रः सदा प्राणात्ययेऽपि हि ।
निशम्यापीदृशान् दोषानथ चेद्दातुमिच्छति ॥ ९-२४१ ॥

स च सा च विजानाति धर्मं वा पापमेव वा ।

(अगस्त्यसंहितायामपि)

आवां तु पिशितै रक्तैः सुरयाऽपि सुरेश्वरि ॥ ९-२४२ ॥

वर्णाश्रमोचितं धर्ममविचार्य यजन्ति ये ।
भूतप्रेपिशाचास्ते भवन्ति ब्रह्मराक्षसाः ॥ ९-२४३ ॥

(मेरुतन्त्रे)

अमृतेन सहोत्पन्नं स्थाने मद्यं सुधायते ।
विषेणापि सहोत्पन्नं तेन मद्यं विषायते ॥ ९-२४४ ॥

तथा ।

गौडी पैष्ठी च माध्वी च सुरा इत्यभिधीयते ।
सा क्षत्रवैश्योर्नेष्टा ब्राह्मणस्य तु का कथा � इति ॥ ९-२४५ ॥

अथ विद्याभेदः (कालीतन्त्रे) ।

कलीहृदयाविद्या च सिद्धिविद्या महोदया ।
पुरा येन यथा जप्त्वा सिद्धिमायुर्दिवौकसः ॥ ९-२४६ ॥

कामाक्षरं वह्निसंस्थामिन्दिरानादविन्दुभिः ।
मन्त्रराजमिदं ख्यातं दुर्लभं पापचेतसाम् ॥ ९-२४७ ॥

त्रिगुणा तु विशेषेण सर्वशास्त्रप्रबोधिका ।
अनया सदृशी विद्या न हि सारस्वतप्रदा ॥ ९-२४८ ॥

आकर्षणवशीकारमारणोच्चाटनं तथा ।
शान्तिपुष्ट्यादिकर्माणि साधयेदनयाऽचिरात् � इत्यादि ॥ ९-२४९ ॥

तथा ।

ध्यानपूजादिकं सर्वं साधनं च पुरस्क्रिया ।
अनिरुद्धसरस्वत्याः समानं सर्वमीरितम् ॥ ९-२५० ॥

प्। ७५१) (मेरौ)

जपपूजादिकं प्राग्वद्दिशेषाद्भोगमोक्षदम् ।

(श्रुतिसिद्धान्ते)

स्वबीजं पूर्वमुद्धृत्य कालिके वह्निगोहिनी ॥ ९-२५१ ॥

एषा षडक्षरी विद्या भुक्तिमुक्तिफलप्रदा ।

(मेरुतन्त्रे)

न्यासपूजादिकं प्राग्वद्विशेषाद्भोगदो मतः ॥ ९-२५२ ॥

तत्रैव ।

क्री। हू। ह्री। त्र्यक्षरात्माऽयं मन्त्रः काल्याः प्रकीर्तितः ।
प्राग्वज्जपादिकं चास्य विशेषात् सन्ततिप्रदः ॥ ९-२५३ ॥

कालीबीजं च हू। मायां हु। फट् पञ्चक्षरो मनुः ।
न्यासध्यानादिकं प्राग्वद्विशेषाद्भूतनाशनम् ॥ ९-२५४ ॥

क्री। हू। ह्री। हु। फडत्युक्त्वा स्वाहान्तः सप्तवर्णकः ।
मायाद्वन्द्वं कूर्चयुग्ममैन्द्रान्तं मदनत्रयम् ॥ ९-२५५ ॥

मायाविन्द्विश्वरयुतं दक्षिणे कालिके पदम् ।
संहारक्रमयोगेन बीजसप्तकमुद्धरेत् ॥ ९-२५६ ॥

एकविंशत्यक्षरात्मा ताराद्यः कालिकामनुः ।

(मेरुतन्त्रेऽपि)

अथान्यं सम्प्रवक्ष्यामि एकविंशतिवर्णकम् ॥ ९-२५७ ॥

ॐ ह्री। ह्री। हू। शक्तियुग्ममस्य न्यासादि पूर्ववत् ।
विल्वमूले शवारूढो वटमूले तथैव च ॥ ९-२५८ ॥

लक्षं मनुमिमं जप्त्वा सर्वसिद्धीश्वरो भवेत् ।
पञ्चमं प्रतिनिध्यायं दक्षिणाम्नायसिद्धिदम् ॥ ९-२५९ ॥

तथा ।

दक्षिणे कालिके स्वाहा मनुरष्टाक्षरः परः ।
प्। ७५२) न्यासः प्राग्वद्ध्यानमन्त्रशवरूपशिवस्थिताम् ॥ ९-२६० ॥

महाकालरतासक्तां शिवाभिर्दिक्षु वेष्टिताम् ।

तथा ।

अथातः सम्प्रवक्ष्यामि शक्रवर्णमनूत्तमम् ॥ ९-२६१ ॥

क्री। हू। ह्री। दक्षिणे कालिके क्री। हु। ह्री। दहनप्रिया ।
यजनं पूर्ववत् प्रोक्तं न्यासध्यानजपादिकम् ॥ ९-२६२ ॥

विशेषान्नृसुरादीनामयमाकर्षणक्षमः ।
हू। हू। त्रिः क्री। द्विश्च लज्जां स्वाहेत्याकृतिवर्णवान् ॥ ९-२६३ ॥

न्यासपूजादिकं प्राग्वद्विशेषेण वशीकृतिः ।
जपादेतस्य भवति सर्वमन्यत् तु पूर्वत् ॥ ९-२६४ ॥

क्री। क्री। क्री। हू। समुच्चार्य हू। लज्जाद्वयमुच्चरेत् ।
दक्षिणे कालिके स्वाहा तिथिवर्णः प्रकीर्तितः ॥ ९-२६५ ॥

मन्त्रराजोऽयमाख्यातः पूर्ववत् स्यादुपासना ।
विशेषाद्गतराज्यानामयं राज्यप्रदो भवेत् ॥ ९-२६६ ॥

अथैतद्गात्र्याः पुरश्चरणमुक्तं (सिद्धान्तसङ्ग्रहे)

एवं ध्यात्वा महाकलीं जपेल्लक्षचतुष्टयम् ।
रक्ताक्तैर्विल्वपत्रैश्च तद्दशांशेन होमयेत् � इति ॥ ९-२६७ ॥

अथ महाकालमन्त्रः (शक्तिसङ्गमे )

श्रीशिव उवाच ।

महाकालं समारभ्य नित्यानां निर्णयं शृणु ।
महाकाली महाभीमः प्रलयानलसन्निभः ॥ ९-२६८ ॥

कालीमायासमुद्भूतः कालीमानसिकः शिवः ।
महाकालः परः शम्भुः परातीतगुणाकरः ॥ ९-२६९ ॥

तस्य मन्त्रं प्रवक्ष्यामि येन रक्षेज्जगत्त्रयम् ।
कूर्चयुगमं महाकाल प्रसीदेति पदद्वयम् ॥ ९-२७० ॥

लज्जायुग्मं वह्निजायासंयुक्तं षोडशार्णकः ।
षोडशार्णा यथा मुख्याः सर्वशीचक्रमण्डले ॥ ९-२७१ ॥

तथाऽयं सर्वकालीषु महाकालः प्रकीर्तितः ।
कालिकाऽस्य ऋषिः प्रिक्तो विराट् छन्दः प्रकीर्तितम् ॥ ९-२७२ ॥

देवता तु महाकालः सर्वरूपी निरञ्जनः ।
कूर्चबीजं तथा माया शक्तिरस्य प्रकीर्तिता ॥ ९-२७३ ॥

स्वाहाकीलकमुद्दिष्टं काल्यर्थे विनियोगता ।
मायया तु षडङ्गानि ध्यानं शृणु वरानने ॥ ९-२७४ ॥

अथ ध्यानम् ।

कोटिकालानलाभासं चतुर्बाहुं त्रिलोचनम् ।
श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् ॥ ९-२७५ ॥

पञ्चप्रेतस्थितं देवं त्रिशूलं डमरूं तथा ।
खड्गं च खर्परं चैव वामदक्षिणयोगतः ॥ ९-२७६ ॥

विभ्रतं सुन्दरं देहं श्मशानम्भस्मभूषितम् ।
नानाशवैः क्रीडमानं कालिकां हृदयस्थिताम् ॥ ९-२७७ ॥

लालयन्तं रतासक्तं घोरचुम्बनतत्परम् ।
गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् ॥ ९-२७८ ॥

जटापटलशोभाढ्यं सर्वशून्यालये स्थितम् ।
सर्वशून्य मुण्डभूषं प्रसन्नवदनं शिवम् ॥ ९-२७९ ॥

भावयेदिति शेषः ।

अथ पुरश्चरणम् ।

एवं पूजा विधायाथ लक्षसङ्ख्य जपेच्छिवे ।
प्। ७५४) तद्दशांशेन हवनं करवीरप्रसूनकैः ॥ ९-२८० ॥

स्वयम्भूवाऽक्तैर्बीजाक्तैः कारणाक्तैश्च वा हुनेत् ।
नित्यं नैमित्तिकं काम्यं कालीवत् सर्वमाचरेत् ॥ ९-२८१ ॥

अथ महाकालीमन्त्रो (मेरुतत्रे)

अथातः सम्प्रवक्ष्यामि महाकालीमहामनुम् ।
ॐ क्ष। क्ष्रे। क्ष्रे। क्रे। ततः क्रे। च पशुं गृहाण चोच्चरेत् ॥ ९-२८२ ॥

हु। फट् स्वाहा शक्रवर्णः सिद्धमन्त्र उदाहृतः ।
नास्य मुन्यादिकं न्यासः सिद्धमन्त्रस्य विद्यते ॥ ९-२८३ ॥

कृष्णतोयेन सम्पूर्णे घटे चाहूय कालिकाम् ।
ब्राह्म्यादिभिश्च दूतीभिर्युक्तां सम्पूज्य भक्तः ॥ ९-२८४ ॥

अष्टमीं चण्डिकां त्वत्र देवीं ध्यायेद्गृहे पुनः ।

ध्यान यथा ।

पञ्चवक्क्रां महारौद्रीं प्रतिवक्रं त्रिलोचनाम् ॥ ९-२८५ ॥

शक्तिशूलधनुर्बाणखेटखड्गवराभयान् ।
दक्षादक्षभुजैर्देवीं बिभ्राणां भोगिबूषणाम् ॥ ९-२८६ ॥

अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं वामाचारेण साधकः ।
पिचुमर्दस्य समिधो घृताक्ता जुहुयात् ततः ॥ ९-२८७ ॥

रज्ज्वा प्रज्वलिते वह्नौ तर्पणादि ततश्चरेत् ।
एवं सिद्धमनुर्मन्त्री मारयेदचिराद्रिपुन् ॥ ९-२८८ ॥

अथ भद्रकालीमन्त्रस्तत्रैव ।

अथातः सम्प्रवक्ष्यामि भद्रकाल्याः परं मनुम् ।
हौ। कालीति महाकाली द्विः किणिः फड्वसुप्रिया ॥ ९-२८९ ॥

चतुर्दशाक्षरी मन्त्रो भद्रकाल्या उदाहृतः ।
पदैः षद्भिः षडङ्गानि जातियुक्तानि कल्पयेत् ॥ ९-२९० ॥

प्। ७५५) अथ ध्यानम् ।

ध्यातव्येयं सदा देवी भद्रकाली भयावहा ।
क्षुत्क्षामा कोटराक्षी च नाहं तृप्तेति वादिनि ॥ ९-२९१ ॥

मसीमुखी मुक्तकेशी जगद्ग्रसनलालसा ।
जम्बूफलाभदशना लोलजिह्वा भयङ्करी ॥ ९-२९२ ॥

शूलं कपालं च शृणिं ज्वलत्पाशं च बिभ्रती ।
अशेषं कालिकातन्त्रे यत् प्रोक्तं तदिहापि च ॥ ९-२९३ ॥

जपन्यासप्रयोगाद्यं यो विशेषः स उच्यते ।
आराध्य प्रजपेन्मन्त्रं नित्यमष्टोत्तरं शतम् ॥ ९-२९४ ॥

रिष्टमाला विधातव्या जपार्थं सिद्धिमिच्छता ।
इयं देवी महादेवी शत्रुनिग्रहकारिणी ॥ ९-२९५ ॥

यथेष्टचेष्टया चिन्त्या धर्मकामार्थसिद्धिदा ।
अथ मन्त्रान्तरं वक्ष्ये भद्रकाल्याः सुगोपितम् ॥ ९-२९६ ॥

गृध्रकर्णि विरुपाक्षि लम्बस्तनि महोदरि ।
उत्पादयोत्पारयेति द्विधोपरि पदं भवेत् ॥ ९-२९७ ॥

द्विधा वेत्ति पदं हु। फट् स्वाहा सप्तग्निवर्णकः ।
पिप्पलादो मुनिः प्रोक्तो निवृच्छन्द उदाहृतम् ॥ ९-२९८ ॥

भद्रकाली देवता स्याद्द्विरुत्पादय हृत् स्मृतम् ।
उपरिभ्यां शिरः प्रोक्तं वेत्तिभ्यां तु शिखा स्मृता ॥ ९-२९९ ॥

हु। फड्भ्यां कवचं स्वाहयाऽस्त्रमुदीरितम् ।

अथ ध्यानम् ।

अतिरौद्रा महादंष्ट्रा भृशं दीर्घा कृशोदरी ॥ ९-३०० ॥

सुवृत्तनयना शूरा दीर्घघोणा मदातुरा ।
स्निग्धगम्भीरनिर्घोषा नीलजीमूतसन्निभा ॥ ९-३०१ ॥

प्। ७५६) भृगुद्यघटसन्दीप्ता महारदनभीषणा ।
दंष्ट्रोष्ठकोपताम्राक्षी रक्तदीर्घशिरोरुहा ॥ ९-३०२ ॥

त्रिशूलव्यग्रदोर्दण्डा नरकीटपलाशिनी ।
अतिरक्ताम्बरा देवी रक्तमांसासवप्रिया ॥ ९-३०३ ॥

शिरोमाला भूषिताङ्गी पिवन्ती शोणितासवम् ।
नृत्यन्ति च हसन्ति च पिशाचगणसेविता ॥ ९-३०४ ॥

पिशाचस्कन्धमारूह्य भ्रमन्ती वसुधातलम् ।
शङ्करस्य मुखोत्पन्ना योगिनी योगवल्लभा ॥ ९-३०५ ॥

इत्थम्भूता भद्रकाली मातृभिः परिवारिता ।

अथ पुरश्चरणम् ।

ध्यात्वा सम्यक् समाराध्य ततो मन्त्रं जपेद्बुधः ॥ ९-३०६ ॥

अयुतं मन्त्रसिद्ध्यर्थं मातृकान्यासतत्परः ।
घृतहोमस्तथा कार्यस्तर्पणादि समाचरेत् ॥ ९-३०७ ॥

धूमावत्यां च यत् प्रोक्तमनयाऽपि तदाचरेत् ।

अथ सिद्धिकालीमन्त्रः (कालीतन्त्रे)

अथ वक्ष्ये महादेवि सिद्धविद्यां महोदयाम् ॥ ९-३०८ ॥

ईश्वरेण पुरा प्रोक्ता देवीं हृदीशसञ्ज्ञिताम् ।
प्रणवं पूर्वसुच्चार्य हृल्लेखाबीजमुद्धरेत् ॥ ९-३०९ ॥

ठद्वयेन समायुक्तं विद्या राज्ञी प्रकीर्तिता ।
भैरवोऽस्य ऋषिः प्रोक्तो विराट् छन्द उदाहृतम् ॥ ९-३१० ॥

सिद्धिकाली ब्रह्मरूपा देवता भुवनेश्वरी ।
रतीबीजं बीजमस्या हृल्लेखा शक्तिरुच्यते ॥ ९-३११ ॥

हृल्लेखया षड्दीर्घेण प्रणवाद्येन कल्पयेत् ।
प्। ७५७) अङ्गषट्कं ततो न्यस्य ध्यात्वा देवीं शिवो भवेत् ॥ ९-३१२ ॥

ध्यानं यथा ।

खड्गोद्भिन्नेन्दुविम्बस्रवदमृतरसाप्लाविताङ्गो त्रिनेत्रा
सव्ये पाणौ कपालाद्गलदमृतमयं मुक्तकेशी पिवन्ती ।
दिग्वस्त्रा बद्धकाञ्ची मणिमयमुकुटाद्यैर्युता दीप्तजिह्वा
पायान्नीलोत्पलाभा रविशशिविलसत्कुण्डलालीधपादा ॥ ९-३१३ ॥

अथ पुरश्चरणम् ।

जपेद्द्विंशतिसाहस्रं सहस्रैरेव संयुतैः ।
होमयेत् तद्दशांशेन मृदुपुष्पेण मन्त्रवित् ॥ ९-३१४ ॥

अथ श्मशानकालीमन्त्रः (स्वतन्त्रतन्त्रे)

श्मशानकालिकामन्त्रं शृणुष्वावहिता शिवे ।
वाणीं मायां तओ लक्ष्मीं कामबीजं ततः परम् ॥ ९-३१५ ॥

कालिके सम्पुटत्वेन चतुष्कं बीजमालिखेत् ।
एकादशार्णा देवेशि चतुर्वर्गफलप्रदा ॥ ९-३१६ ॥

ऋषिर्भृगुर्निवृच्छन्दो देवता कालिका परा ।
श्मशानाद्या च वाङ्माया बीजं शक्तिर्महेश्वरि ॥ ९-३१७ ॥

कीलकं कामाबीजं तम्�����������������इति ।
चतुश्चतुस्त्रिचतुस्तु विद्यामन्त्रैः षडङ्गकम् ॥ ९-३१८ ॥

विन्यस्य ध्यानं कुर्वीत कालिकायां समाहितः ।
अञ्जनाद्रिनिभां देवीं श्मशानालयवासिनीम् ॥ ९-३१९ ॥

त्रिनेत्रां मुक्तकेशीं च शुष्कमांसातिभीषणाम् ।
पिङ्गाक्षीं वामहस्तेन मध्यपूर्णं कपालकम् ॥ ९-३२० ॥

सद्यः कृत्तशिरो दक्षहस्तेन दधतीं शिवाम् ।
स्मितवक्त्रां सदा वाममांसतर्पणतत्पराम् ॥ ९-३२१ ॥

नानालङ्कारभूषाङ्गीं नग्नां मत्तां सदा शवैः ।

७५८) एवं ध्यायेदिति शेषः ।

अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं तद्दशांशेन � इति ॥३२२ ॥  

अथ सिद्धिलक्ष्मीमन्त्रः (कालानलतन्त्रे)

ॐ ह्री। हु। हा। फ्रे। क्षो। क्रो। नमः ।  
श्रुतिश्चटी च दोग्ध्री च शोषिणी शिरया सह ॥ ९-३२३ ॥  

दोला तदनु मालूरः सामरश्च निरत्ययः ।  
शेषे दण्डः परिज्ञेय इयमुक्ता नवाक्षरी ॥ ९-३२४ ॥  

नैतस्य सदृशो मन्त्रस्त्रिषु लोकेषु विद्यते ।  

अथ मन्त्रान्तरण् तत्रैव ।

अथोद्धरिष्ये देवेशीं षोडशार्णां मनूत्तमाम् ॥ ९-३२५ ॥  

यामेकवारमुच्चार्य मुच्यते जन्मसङ्कटात् ।  

ह्री। हू। फ्रे। छ्री। ह्सौ।ः ह्री। क्रो। फ्रे। स्त्री। श्री। हो। जू। ब्लौ। व्री। स्वाहा ॥ ९-३२६ ॥

चटी दोग्ध्री शिरोसिद्धिभूमर्द्धिः प्रोत एव च ।  
फली पुनः शिरो रेतः प्रातरान्त्रे ततः परम् ॥ ९-३२७ ॥  

पुरश्चरणहोमाः स्युर्मलिनाह्रदपर्यटाः ।  
मन्त्रीऽयमपि सर्वेषां मनूनामुत्तमः स्मृतः ॥ ९-३२८ ॥  

अनयोर्-ऋष्यादिन्यास उक्तस्तत्रैव ।

श्रीसिद्धिलक्ष्मीमन्त्रस्य ऋषीर्नारद ईरितः ।  
गायत्री छन्द आख्यातं सिद्धिलक्ष्मीश्च देवता ॥ ९-३२९ ॥  

चटीबीजं तथाऽख्यातं समीहा शक्तिरिष्यते ।  
प्रबन्धः कीलकं विद्यात् पुरुषार्थचतुष्टये ॥ ९-३३० ॥  

विनियोगोऽस्य मन्त्रस्य कथितस्त्वयि नारद ।  

अथ कराङ्गन्यासौ ।

षड्दीर्घभाजा बीजेन कराङ्गन्यासमीरितम् ॥ ९-३३१ ॥  

प्। ७५९) इदानीं ते सुगमेन कथयामि द्विजर्षभ ।  
श्रुतिपूर्वं बीजमुक्त्वा अङ्गुष्ठाभ्यां पदं ततः ॥ ९-३३२ ॥  

शेषे दण्डः समाख्यातः पुनर्बीजद्वयं वदेत् ।  
तर्जनीभ्यां यदा तत्र दण्ड इत्यभिधीयते ॥ ९-३३३ ॥  

पुनर्बीजद्वयं यत्र भ्यामन्त्रा मध्यमा ततः ।  
दण्डः शेषे च विज्ञेयः पुनस्तद्बीजमेव च ॥ ९-३३४ ॥  

अनामिका भ्यामन्ता च ततो दण्डः प्रकीर्तितः ।  
बीजद्वयात् कनिष्ठाभ्यां पदाद्दण्डबीजं स्मृतम् ॥ ९-३३५ ॥  

बीजद्वयं करतलपृष्ठाभ्यां दण्ड इत्यपि ।  
इति करन्यासं कृत्वा अङ्गन्यासं चरेत् सुधीः ॥ ९-३३६ ॥  

क्रमेणानेन वै ब्रह्मन् सम्भवन्यासमाचरेत् ।  
श्रुतिचट्यौ समाभाष्य हृदयाय पदं ततः ॥ ९-३३७ ॥  

दण्डस्तदनु विप्रर्षे बीजद्वयं तथा परम् ।  
शिरसे पदतश्चैव दोग्ध्रीबीजं स्मृतं तदा ॥ ९-३३८ ॥  

तद्बीजद्वयमुच्चार्य शिखायै पदमेव च ।  
इन्द्रबीजं समाख्यातं पुनर्बीजद्वयं वदेत् ॥ ९-३३९ ॥  

कवचाय पदाच्चैव दोग्ध्रीबीजं हि नारद ।  
बीजे तथा समुच्चार्य नेत्रत्रयाय वौषडिति ॥ ९-३४० ॥  

षडङ्गन्यासमित्युक्तमर्चयां कायशोधनम् ।  

अथ ध्यानम् ।

ध्यानमस्याः प्रवक्ष्यामि तन्निबोध अजात्मज ॥ ९-३४१ ॥  

श्वेतां श्वतशवारूढां नृमुण्डकृतकुण्डलाम् ।  
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रं त्रिलोचनाम् ॥ ९-३४२ ॥  

व्याघ्रचर्मावृतकटीं शुष्कावयभूषिताम् ।  
प्। ७६०) आबद्धयोगपट्टां च नरास्थिकृतभूषणाम् ॥ ९-३४३ ॥  

हस्तैः षोडशभिर्दीप्तां विस्रस्तघनकुन्तलाम् ।  
खड्गं बाणं तथा शूलं चक्रं शक्तिं गदामपि ॥ ९-३४३ ॥  

जपमालां कर्तृकां च बिभ्रतीं दक्षिणैर्भुजैः ।  
फलकं कार्मुकं नागपाशं परशुमेव च ॥ ९-३४४ ॥  

डमरुं फेरुपोतं च नरमुण्डकपालकम् ।  
उद्वहन्तीं करैर्वामैर्दीघसर्वाङ्गभूषणाम् ॥ ९-३४५ ॥  

एत ध्यानं नवाक्षर्याः । षोडसार्णविद्यायास्तु ध्यानान्तरमुक्तं तत्रैव ।

महातेजोमयी लक्ष्मि रश्मिकोट्युयुतप्रभा ।  
पञ्चवक्त्रा दशभुजा त्रिपञ्चनयनैर्युता … ९-३४६ ॥  

श्वेतवर्णनिभा देवी महाप्रेतोपरिस्थिता ।  
मातृकाष्टकमध्यस्था सिद्धियोगनिषेविता ॥ ९-३४७ ॥  

दारितास्या लेलिहाना ज्वालालुप्तजगत्त्रयी ।  
उच्छ्रासोच्छ्वासवेगेन चालयन् कुलपर्वतान् ॥ ९-३४८ ॥  

क्व चिद्देशे क्वचित् कूटे क्वचित् संहरते क्षणात् ।  
क्वचित् सृजेत् पालयच्च स्वतन्त्राद्वा प्रवर्तते ॥ ९-३४९ ॥  

गोनासाभरणैर्युक्ता उरगेन्द्रविभूषिता ।  
पाशाङ्कुशधरा देवी वराभयकराम्बुजा ॥३५० ॥  

सव्यहस्ते धृतं खड्गं त्रैलोक्यक्षोभकारकम् ।  
वामे खट्वाङ्गमत्युग्र दक्षिणे शूलमुत्तमम् ॥३५१ ॥  

वामे तु कलशं दिव्यं महारत्नप्रपूरितम् ।  
एषा प्रत्यङ्गिरा देवी उन्मत्ता व्योमदेहजा ॥३५२ ॥  

एकात्मा नैकभेदेन विश्वं व्याप्य व्यवस्थिता ।  
प्रत्यङ्गिरा महादेवी सिद्धिलक्ष्मीर्जयप्रदा ॥३५३ ॥  

प्। ७६१) (पद्धतौ)

खट्वाङ्गाङ्कुशपाशशूलवरकृद्भीत्राणपात्र शिरः  
कुम्भासिज्वलितोद्भटैर्भुजवरैराभासमानां शिवाम् ।  
रुद्रस्कन्धगतां शरच्छशिनिभां पञ्चाननां सुन्दरीं  
पञ्चत्र्यक्षविराजितां भगवतीं श्रीसिद्धिलक्ष्मीं भजे ॥३५४ ॥  

उक्तयोः श्रीसिद्धिलक्ष्मीमन्त्रयोः पुरश्चरणं तु वक्ष्यमाण-(महाकालसंहितो-)क्तगुह्यापुरश्चरणवज्ज्ञेयम् ।
तदुक्तं (कालानलतन्त्रे)

यथा कामकला काली गुह्यकाली यथा द्विज ।  
यथा छिन्ना यथा तारा वज्रकापलिनी यथा ॥ ९-३५५ ॥  

सिद्धिलक्ष्मीस्तथा देवी विशेषो नास्ति कश्चन ।  
एकैव पूजा विज्ञेया प्रयोगाश्च तथा द्विज ॥ ९-३५६ ॥  

अत्रानुक्तं हि यत् किञ्चित् संहितायां च तद्बिदुः ।  
ग्रन्थगौरवभीत्या च नोक्तमन्यत् त्वयि द्विज ॥ ९-३५७ ॥  

सङ्क्षेपेण सिद्धिलक्ष्म्यास्त्वयि सर्वं प्रकीर्तितम् ।  
विस्तृतं च महाकालसंहितायां दिनो?त्तम ॥ ९-३५८ ॥  

जपः पुरश्चरणं च आचारश्च * प नारद ।  
महाकालसंहितायां कामकलाभ्यासे प्रकीर्तितः ॥ ९-३५९ ॥  

तेनैव वर्त्मना विप्र सिद्धिलक्ष्म्याऽखिलं * विदुः ।  
पौनरुक्त्यभयेनात्र निगदामि न नारद ॥ ९-३६० ॥  

अथ गुह्यकालीमन्त्रः (महाकालसंहितायाम्)

गुह्यकाल्यास्तु मन्त्राणामष्टादश भिदाः प्रिये ।  
सर्वागमेषु गोप्यास्ते न प्रकाश्याः कदा चन ॥ ९-३६१ ॥  

मन्त्राणां भेदतो ध्यानभेदाः स्युर्विविधास्तथा ।  

प्। ७६२) यन्त्रभेदा अपि तथा वाहनानां भिदास्तथा ॥ ९-३६२ ॥

यो मन्त्रो येन चाभ्यस्तस्तत्राम्नायः प्रकीर्तितः ।  
ब्रह्मणा च वशिष्ठेन रामेण च तथा प्रिये ॥ ९-३६३ ॥  

हिरण्याक्षाउजेनापि कुवेरेण यमेन च ।  
भरतेन दशास्येन वलिना वासवेन च ॥ ९-३६४ ॥  

विष्णुनाऽन्यैश्च देवैश्च दैत्येन्द्रैर्विविधैरपि ।  
उपासिता सिद्धिहेतोर्लब्ध्वा सिद्धिश्च भूयसी ॥ ९-३६५ ॥  

शतवक्त्राऽशीतिवक्त्रा षष्टिवक्त्रा तथैव च ।  
षट्त्रिंशदानना विंशदानना परिकीर्तिता ॥ ९-३६६ ॥  

तथा विंशतिवक्त्रा च दशवक्त्रा च कालिका ।  
पञ्चवक्त्रा त्रिवक्त्रा च द्विवक्त्रा चैकवक्त्रिका ॥ ९-३६७ ॥  

या गुह्यकाली तन्मध्ये भरतोपासिता प्रिये ।  
दशवक्त्रा षोडशार्णा चतुष्पञ्चशद्दोर्युता ॥ ९-३६८ ॥  

सर्वासां गुह्यकालीनां सा वै मुख्यतमा स्मृता ।  
तामेवादौ व्याहरामि व्याहरिष्ये ततः पराः ॥ ९-३६९ ॥  

षोडशाक्षरको म *? कीलितश्चाप्यकीलितः ।  
तत्रादौ कीलितं वच्मि ततो वक्ष्याम्यकीलितम् ॥ ९-३७० ॥  

कीलकाकीलकध्यानमेकमेव हि पार्वति ।  

मन्त्रोद्धारमाह ।

आदौ वेदादिमुद्धृत्य ततः पस्य द्वितीयकम् ॥ ९-३७१ ॥  

एकारयुक्तं तदधो रेफं विन्दुं च योजयेत् ।  
सिद्धिशब्दं ततः प्रोच्य करालिं च विनिर्दिशेत् ॥ ९-३७२ ॥  

लज्जां क्रोधमनुस्मृत्य कफोणिं वाममुद्धरेत् ।  
वामदृग्विन्द्वधोवह्नियुक्तं कुर्यात् ततश्च तम् ॥ ९-३७३ ॥  

प्। ७६३) वधूबीजं पुनर्मन्त्रद्वितीयं बीजमुद्धरेत् ।
हृन्मन्त्रो वह्निजाया च मन्त्रोऽयं षोडशाक्षरः ॥ ९- ३७४ ॥

प्रकारान्तरमाह ।

अथ वा कामिनीबीजात् पूर्वं क्रोधमनुस्मरेत् ।  
इयं हि भरतोपास्या कीलिताऽपि च शापतः ॥ ९-३७५ ॥  

भरतोपासिता षोडशाक्षरी द्विविधा । तत्राद्या कीलिता द्वितीया त्वकीलितेत्यर्थः । सप्तदशाक्षरीमाह ।

रामोपास्यामतो वक्ष्येऽक्षरसप्तदशान्विताम् ।  
साऽपि हारीतमुनिना कीलिता तपसो बलात् ॥ ९-३७६ ॥  

आदौ तस्यैव मन्त्रस्य चतुरोऽर्णान् समुद्धरेत् ।  
द्वितीयबीजोपरि च हसखं विनियोजयेत् ॥ ९-३७७ ॥  

एवं तु पञ्चमं बीजं षष्ठं खेन च वर्जितम् ।  
सप्तां हसहीनं च करालि तदनन्तरम् ॥ ९-३७८ ॥  

त्रयोदशैकादशके स्थाने सप्तममक्षरम् ।  
पञ्चमं द्वादशस्थाने द्वितीयं च चतुर्दशे ॥ ९-३७९ ॥  

आद्यं पञ्चदशे कुर्याद्वह्निजया * *? मनुः ।  
हारीतोपासिता ह्येषा च्यवनोपासितां शृणु ॥ ९-३८० ॥  

षष्ठपञ्चमयोरस्य व्यत्ययः समुदीरितः ।  
एतावतैव भवति च्यावनी सुमहाफला ॥ ९-३८१ ॥  

अत्रा रामोपासिता सप्तदशाक्षरी द्विधा हारीतोपासिता च्यवनोपासिता चेति । तयोर्मध्ये हारीतोपासितैव कीलिता च्यवनोपासिता तु न कीलितेति बोध्यम् ।
ऋष्यादिकमाह ।

षोडशाक्षरयोर्मन्त्रभेदयोरधुना ब्रुवे ।  
ऋष्यादिकं ततः सप्तदश्याश्च कथयामि ते ॥ ९-३८२ ॥  

अथर्वा ऋषिरुद्दिष्टो जगती छन्द उच्यते ।  
प्। ७६४) देवता गुह्यकाली च द्वितीयार्णं तु कीलकम् ॥ ९-३८३ ॥  

शक्तिस्तु दशमं बीजं द्वितीये नवमं भवेत् ।  
पुरुषार्थचतुष्कस्य सिद्धये कामनास्थितिः ॥ ९-३८४ ॥  

सप्तदश्यास्तु मन्त्रस्य परमेष्ठी ऋषिर्मतः ।  
छन्दश्च सप्रतिष्ठाख्यं देवता गुह्यकालिका ॥ ९-३८५ ॥  

पञ्चमार्णं कीलकं स्यात् सप्तमं शक्तिरुच्यते ।  
तदेव विपरीतं हि च्यावनीसमुदीरितम् ॥ ९-३८६ ॥  

प्रयोगः सर्वसिद्ध्यर्थं जपे प्रोच्चारितो भवेत् ।  
अन्येषां मन्त्रभेदानां यदुद्धारं वदामि ते ॥ ९-३८७ ॥  

तदा ऋष्यादिकं तेषां कथयिष्यामि पार्वति ।  

अथ षडङ्गन्यासस्तत्रैव ।

द्वे पञ्च त्रीणि च द्वि च द्वे पुनर्द्वे पुनस्तथा ॥ ९-३८७ ॥  

वर्णाक्षराणां भारत्यास्तत्तत्स्थाने प्रविन्यसेत् ।  
तावन्तोऽर्णाः सप्रणवास्तत्र तत्र स्थले न्यसेत् ॥ ९-३८८ ॥  

यादृशी च्यावनी मन्त्रवर्णावल्यनुतिष्ठति ।  
तारयोर्मध्यवर्तीनि *?वीवर्णानि तानि हि ॥ ९-३८९ ॥  

न्यस्येत् स्थानेषु तेष्वेव हारीतोपसिते मनौ ।  

ध्यानमाह ।

भरतोपासिता या च रामोपास्या च या स्मृता ॥ ९-३९० ॥  

ध्यानं तयोरेकमेव कथ्यमानं मया शृणु ।  
ध्यायेद्देवीप्रभावोत्थप्रोच्छलद्रक्तवारिधिम् ॥ ९-३९१ ॥  

उत्तुङ्गोत्तुङ्गकल्लोलप्रपूरितदिगन्तरम् ।  
तत्र द्वीपं रक्तमांसपूरितं रक्तवालुकम् ॥ ९-३९२ ॥  

नवकोटिकचामुण्डाकोटिभैरववेष्टितम् ।  

प्। ७६५) तन्मध्ये मण्डलं ध्यायेद्योजनायुतविस्तृतम् ॥ ९-३९३ ॥

भैरवीकोटिघटितं प्राकारं तत्र चिन्तयेत् ।  
एकं श्मशानं तन्मध्ये शतयोजनविस्तृतम् ॥ ९-३९४ ॥  

चिन्तयेत् प्रोच्छलद्वह्निज्वालाव्याप्तर्क्षमण्डलम् ।  
योगिनीकोटिविहितकरतालिकचेष्टितम् ॥ ९-३९५ ॥  

नारान्त्रनद्धमुण्डस्रक्कृततोरणमालिकम् ।  
तदन्तःस्थापिनीं कालीं ध्यायेन्निश्चलमानसः ॥ ९-३९६ ॥  

रत्नसिंहासनं दिव्यं हीरमुक्तादिनिर्मितम् ।  
धारयन्तं चतुष्कोणे युगं वेदं विचिन्तयेत् ॥ ९-३९७ ॥  

सत्ययुगं च ऋग्वेदं शुक्लवर्णं च पूर्वगम् ।  
त्रेतायुगं यजुर्वेदं पीतवर्णं च दक्षगम् ॥ ९-३९८ ॥  

द्वापरं सामवेदं च रक्तं पश्चिमदिग्गतम् ।  
अथर्ववेदं च कलिं श्याममुत्तरदिग्गतम् ॥ ९-३९९ ॥  

उपवेदस्य शुभ्रस्य मूर्ध्नि सिंहासनं स्थितम् ।  
तस्य सिंहासनस्योर्ध्वमन्यत् सिंहासनं महत् ॥ ९-४०० ॥  

स्वस्वास्त्रवाहनयुतैर्दिगष्टपरि * *?भर्वृतम् ।  
देव्याः सिंहासनधरा।स्ता।श्च ध्यायेदतन्द्रितः ॥ ९-४०१ ॥  

स्वा स्वां दिशमवष्टभ्य स्थितान् परमशोभितान् ।  
इन्द्रं पीतं सवज्रं च स्थितमैरावतोपरि ॥ ९-४०२ ॥  

पावकं रक्तवर्णं च छागस्थं शक्तिपाणिकम् ।  
यमं कृष्णं कासरस्थं दण्डहस्तं तुरङ्गम् ॥ ९-४०३ ॥  

वरुणं पाशहस्तं च शुभ्रं मकरवाहनम् ।  
श्यामं वायुं ध्वजधरं हरिणोपरि संस्थितम् ॥ ९-४०४ ॥  

प्। ७६६) गदाधरं कुवेरं च कुङ्कुमाभं नरे स्थितम् ।
ईशानं शुभ्रवर्णं च शूलहस्तं वृषे स्थितम् ॥ ९-४०५ ॥

सिंहासनं तृतीयं च पञ्चप्रेतैर्घृतं प्रिये ।  
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ९-४०६ ॥  

एते पञ्चमहाप्रेताः स्थिताः सिंहासनादधः ।  
पीतः श्यामस्तथा रक्तो दूम्रः श्वेतः क्रमादिमे ॥ ९-४०७ ॥  

दण्डं चक्रं च शक्तिं च शूलं खट्वाङ्गमेव च ।  
धारयन्तो मुखे न्यस्ततर्जनीकास्त्रिलोचनाः ॥ ९-४०८ ॥  

केशरिद्विपकोलाश्च फेत्काररवभीषणाः ।  
ऊर्ध्वं पीठं ततो ध्यायेद्भैरवाख्यं भयानकम् ॥ ९-४०९ ॥  

खर्वं स्थूलतरं घोरं कृष्णवर्णं चतुर्भुजम् ।  
पञ्चवक्क्रं त्रिनेत्रं च कीकशाभरणान्वितम् ॥ ९-४१० ॥  

खट्वाङ्गं कर्तृकां दक्षे कपालं डमरुं तथा ।  
धारयन्तं मुण्डमालायुतं दंष्द्राग्रभीषणम् ॥ ९-४११ ॥  

तदूर्ध्वं षोडशदलं पद्मं यज्ञोपकल्पितम् ।  
ज्योतिष्टोमोऽग्निष्टा * ? वाजपेयश्च षोडशी ॥ ९-४१२ ॥  

चयनं पुण्डरीकं च राजसूयोऽश्वमेधकः ।  
बार्हस्पत्यं विश्वजिच्च गोमेधो नरमेधकः ॥ ९-४१३ ॥  

सौत्रामण्यर्धसावित्री सूर्यकान्तोऽचलम्भिदः ।  
एतादृशैः षोडशभिर्दलैः पद्मं प्रकल्पितम् ॥ ९-४१४ ॥  

तस्योपरि ततो ध्यायेच्छिवासनमनुत्तमम् ।  
विन्दुनादयुतं नीलं शशाङ्ककृतलाञ्छनम् ॥ ९-४१५ ॥  

महार्घरत्नाभरणं त्रिनेत्रं भीमदर्शनम् ।  
वज्रदंष्ट्रानखस्पर्शं पद्मपृष्ठे शिवोत्तमम् ॥ ९-४१६ ॥  

प्। ७६७) पिङ्गोग्रैकजटाभारं द्विभुजं नागहारिणम् ।
वसानं चर्म वैयाघ्रं शूलखट्वाङ्गधारिणम् ॥ ९-४१७ ॥

अष्टपत्राम्बुजं तस्योपरिष्टान्नवमासनम् ।  
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुर्दिशि ॥ ९-४१८ ॥  

यशो विवेकः कामश्च मोक्षश्चेति विदिग्दिशि ।  
एवमष्टदलाम्भोजोपविष्टां गुह्यकालिकाम् ॥ ९-४१९ ॥  

ध्यायेन्नीलोत्पलश्यामामिन्द्रनीलसमद्युतिम् ।  
घनाघनतनुद्योतां स्निग्धदूर्वादलद्युतिम् ॥ ९-४२० ॥  

ज्ञानरश्मिच्छटाटोपज्योतिर्मण्डलमध्यगाम् ।  
दशवक्त्रां गुह्यकालीं सप्तविंशतिलोचनाम् ॥ ९-४२१ ॥  

द्विद्विनेत्रयुतां वक्त्रे वामदक्षिणसम्मुखे ।  
सप्तस्वन्येषु वक्त्रेषु त्रित्रिलोचनसंयुताम् ॥ ९-४२२ ॥  

ऊर्ध्ववक्त्रं द्विपकाख्यं चण्डयोगेश्वरीति हि ।  
तस्याधः केशरिमुखं श्वेतवर्णं विभीषणम् ॥ ९-४२३ ॥  

तस्याधः फेरुवक्त्रं च कृष्णं त्रैलोक्यडामरम् ।  
वानरास्यं ततो वामे रक्तव *?महोज्ज्वलम् ॥ ९-४२४ ॥  

नरास्यं तधो ज्ञेयं किर्मीराभं महोत्कटम् ।  
ऋक्षवक्त्रं भवेद्दक्षे धूम्रवर्णं भयानकम् ॥ ९-४२५ ॥  

गारुडास्यं ततो वामे पिङ्गवर्णं सुचञ्चुकम् ।  
दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितम् ॥ ९-४२६ ॥  

गजास्यं वातः प्रोक्तं गौरवक्त्रं स्रवन्मदम् ।  
हयास्यं दक्षिणे काल्याः श्यामवर्णं विचिन्तियेत् ॥ ९-४२७ ॥  

महादंष्ट्राकरालानि दारुणस्वनवन्ति च ।  
अट्टाट्टहासयुक्तानि स्रवद्रक्तानि सर्वदा ॥ ९-४२८ ॥  

प्। ७६८) लेलिहानविनिष्क्रान्तललज्जिह्वान्वितानि च ।  
अहर्निशं कम्पमानान्यास्यानि दधतीं शिवाम् ॥ ९-४२९ ॥  

भीमनिर्ह्रादिनीं भीमां भ्रूङ्गङ्गकुटिलाननाम् ।  
पिङ्गलोर्ध्वजटाजूटां चन्द्रार्धकृतशेखराम् ॥ ९-४३० ॥  

नानारत्नविनिर्माणसमुण्डस्वर्णभूषणाम् ।  
स्रवद्रक्रनृमुण्डास्रक्कृतनक्षत्रमालिकाम् ॥ ९-४३१ ॥  

आकण्ठगुल्फलम्बिन्याऽलङ्कृतां मुण्डमालया ।  
श्वेतास्थिगुलिकाहारग्रैवेयकमहोज्जवलाम् ॥ ९-४३२ ॥  

शवदीर्घाङ्गुलीपङ्क्तिमण्डितोरःस्थलस्थिराम् ।  
कठोरपिङ्गलोत्तुङ्गवक्षोजयुगलान्विताम् ॥ ९-४३३ ॥  

महामारकतग्राववेदिश्रोणिपरिष्कृताम् ।  
विशालजघनाभोगामतिक्षिणकटिस्थलाम् ॥ ९-४३४ ॥  

अत्त्रनद्धार्भकशिरोवलत्किङ्किणिमण्डिताम् ।  
चतुष्पञ्चाशता दोष्णां भूषितां जगदम्बिकाम् ॥ ९-४३५ ॥  

रत्नमालां कपालं च चर्म पाशं तथैव च ।  
शक्तिं खट्वाङ्गमुण्ड च भुशुण्डीं धनुरेव च ॥ ९-४३६ ॥  

चक्रं घण्टां ततो बालप्रेतं शैलमतः परम् ।  
नरकं कालनकुलौ सर्पमुन्मादवंशिकाम् ॥ ९-४३७ ॥  

मुद्गरं वह्निकुण्डं च डमरुं डिण्डिमं तथा ।  
भिन्दिपालं च मुशलं पाशं पट्टिशमेव च ॥ ९-४३८ ॥  

शतघ्नीं च शिवापोतं वामहस्तेषु बिभ्रतीम् ।  
अथ दक्षभुजे रत्नमालां तर्त्त्रीमसिं तथा ॥ ९-४३९ ॥  

तर्जनीमङ्कुशं दण्डं रत्नकुम्भं त्रिशूलकम् ।  
पञ्चपाशुपतान् बाणान् शोषकोन्मादमूर्छकान् ॥ ९-४४० ॥  

प्। ७६९) संहारकान् मृत्युकरानेव नामप्रधारिणः ।
कुन्तं च पारिजातं च छुरिकां तोमरं तथा ॥ ९-४४१ ॥

पुष्पमालां डिण्डिभं च गृध्रं चैव कमण्डलुम् ।  
मांसखण्डं श्रुवं बीजपूरं श्रुचं तथैव च ॥ ९-४४२ ॥  

परशुं च गदां यष्टीं मुष्टिं कुणपलालनम् ।  
धारयन्तीं महारौध्रीं जगत्संहारकारिणीम् ॥ ९-४४३ ॥  

जवापुष्पाभनागेन्द्रकृतनूपरयुग्मकाम् ।  
पाटलोरगनिर्माणलसदङ्गदशोभिताम् ॥ ९-४४४ ॥  

धूसराहिकृतस्फीतकटिसूत्रावलम्बिनीम् ।  
सुपाण्डुरभुजङ्गेन्द्रकृतताटङ्कशोभिताम् ॥ ९-४४५ ॥  

श्वेतदर्वीकरानद्धजटामुकुटङ्कशोभिताम् ।  
वैयाघ्रचर्मवसनां द्वीपिचर्मोत्तरीयकाम् ॥ ९-४४६ ॥  

किङ्किणीजालशोभाढ्यां वीरघण्टानिवादिनीम् ।  
नूपुरारवललितां घर्घराशब्दभीषणाम् ॥ ९-४४७ ॥  

कटकाङ्गदकेयूरनरास्थिकृतशोभनाम् ।  
रक्तपद्ममयीं मालां पादपद्मावलम्बिनीम् ॥ ९-४४८ ॥  

काञ्चीकट्टारकप्रेङ्खतकटिमध्यविराजिताम् ।  
ब्रह्मसूत्रोज्ज्वलत्कण्ठयोगपट्टोत्तरीयकाम् ॥ ९-४४९ ॥  

सौम्योग्रभूषणैर्युक्तां नागाष्टकविराजिताम् ।  
रत्नकुण्डलकर्णश्रीपञ्चकालानलस्थिताम् ॥ ९-४५० ॥  

पद्मोपरिस्थितां देवीं नृत्यमानां सदोदिताम् ।  
पद्मासनसुखासीनां सर्वदेवाधिदेवताम् ॥ ९-४५१ ॥  

मुक्तहु।कारजिह्वाग्रं चालयन्तीं विचिन्तयेत् ।  
त्रिकोटिशक्तिचामुण्डानवकोटिभिरन्विताम् ॥ ९-४५२ ॥  

७७०) महायोगिनीकोटोनामष्टादशभिरूर्जिताम् ।
चरन्तीं च हसन्तीं च डाकिनी षष्टिकोटिभिः ॥ ९-४५३ ॥

भैरव्यशीतिकोटीभिः परिवारैश्च वेष्टिताम् ।  
कोटिकालानलज्वालान्यक्कारोद्यत्कलेवराम् ॥ ९-४५४ ॥  

महाप्रलयकोट्यर्कविद्युदर्वुदसन्निभाम् ।  
दुर्निरीक्षां महाभीमां सेन्द्रैरपि सुरासुरैः ॥ ९-४५५ ॥  

शत्रुपक्षक्षयकरीं देत्यदानवसूदिनीम् ।  
निर्विकारां निराभासां कूटस्थां चिद्विलासिनीम् ॥ ९-४५६ ॥  

अद्वितां परमानन्दां नित्यां शुद्धां निरञ्जनाम् ।  
सृष्टिः स्थितिश्च संहारोऽनाख्या भासा पदाभिदाम् ॥ ९-४५७ ॥  

वेदान्तवेद्यां कैवल्यरूपां निर्वाणकारिणीम् ।  
गुणातीतामात्मरूपप्रबोधातीतगोचराम् ॥ ९-४५८ ॥  

एवं ध्येया महाकाली प्रोद्भिन्ननवयुवना ।  
पञ्चवक्त्रस्य मध्यस्थां गुह्यकाली परश्वरी ॥ ९-४५९ ॥  

अथ पुरश्चरणं तत्रैव ।

पर्वते वा नदी कू *? शून्यागारे शिवालये ।  
पीठे चतुष्पथे कुर्यात् पुरश्चरणमुत्तमम् ॥ ९-४६० ॥  

नियमास्तत्र भूयांसः प्रकर्तव्याः प्रयत्नतः ।  
अवैधकरणात् सिद्धिहानिः स्यान्नात्र संशयः ॥ ९-४६१ ॥  

त्रिकालमाचरेत् स्नानं हविष्यं भक्षयेन्निशि ।  
स्वमन्त्रं चाक्षसूत्रं च गुरोरपि न दर्शयेत् ॥ ९-४६२ ॥  

त्यजेद्दुष्टप्रवादं च परीवादं च वर्जयेत् ।  
तथा दुर्जनसंसर्गान् स्त्रीशूद्रालापनं तथा ॥ ९-४६३ ॥  

वस्त्रं कुशाशनं व्याघ्रचर्म चापि नृमुण्डकम् ।  
आसनं च महादेवि प्रशस्तश्चोत्तरामुखः ॥ ९-४६४ ॥  

शुद्धस्फटिकरुद्राक्षनृमुण्डास्थिविनिर्मिताम् ।  
जपमालां शुभां विद्धि प्रशस्तामुत्तरोत्तराम् ॥ ९-४६५ ॥  

अनेनोक्तविधानेन लक्षसङ्ख्यं जपेन्मनुम् ।  
होमं दशांशतः कुर्यात् तर्पण् चाभिषेचनम् ॥ ९-४६६ ॥  

ततः सिद्धमनुर्मन्त्री प्रयोगानाचरेत् प्रिये ।  

(महाथर्वणसंहितायाम्)

षोडशार्णां महाविद्या देवानामपि दुर्लभा ॥ ९-४६७ ॥  

कोटिजन्मार्जितैः पुण्यैर्महद्भिर्भक्तिनोदितैः ।  
येन लब्धा कुलेशानि सद्गुरोर्मुखपङ्कजात् ॥ ९-४६८ ॥  

स धन्यः सर्वलोकेषु पूज्यस्त्रिभुवनौकसाम् ।  
नातः परतरा विद्या त्रिषु लोकेषु विद्यते ॥ ९-४६९ ॥  

अतः सर्वप्रयत्नेन विद्येयं षोडशाक्षरी ।  
जप्तव्या साधश्रेष्ठैर्ध्यातव्या गुयकालिका ॥ ९-४७० ॥  

येनेयं साधिता विद्या स एव सा *? सदाशिवः ।  

(महाकालसंहितायाम्)

दशवक्त्रा तु या प्रोक्ता गुह्यकाली मया तव ॥ ९-४७१ ॥  

प्रकृतिः स परिज्ञेया कालीनां जगदम्बिका ।  
अन्या विकृतयः प्रोक्ताः कार्यकारणभेदतः ॥ ९-४७२ ॥  

तथा ।

सैव ज्ञेया वरारोहे निर्गुणब्रह्मरूपिणी ।  
जगत् सर्वं वशे तस्या वश्या कस्यापि सा न च ॥ ९-४७३ ॥  

विश्वं सर्वं सृजति सा कोऽपि सृजति तां न हि ।  
सा पालयति संसारं तां पालयति कोऽपि न ॥ ९-४७४ ॥  

प्। ७७२) तां न संहरते कोऽपि सा सर्वं सहरत्यदः ।
तदाज्ञयाऽनिलो वाति सूर्यस्तपति तद्भयात् ॥ ९-४७५ ॥

तद्भीत्याऽग्निः पचत्यन्नं मृत्युश्चरति तद्भयात् ।  

(म्हाथर्वणसंहितायाम्)

श्रीदेव्युवाच ।

परात् पर परेशान शशाङ्ककृतशेखर ॥ ९-४७६ ॥  

योगादियोगिन् सर्वज्ञ सर्वभूतदयापर ।  
त्वत्तः श्रुता मया मन्त्राः सर्वतन्त्रेषु गोपिताः ॥ ९-४७७ ॥  

विधिवत् पूजनं चापि न्यासावरणकक्रमैः ।  
तारा च च्छिन्नमस्ता च तथा त्रिपुरसुन्दरी ॥ ९-४७८ ॥  

बाला च वगला चापि त्रिपुरा भैरवी तथा ।  
काली दक्षिणकाली च कुब्जिका विवरेश्वरी ॥ ९-४७९ ॥  

अघोरा राजमात * *? सिद्धिलक्ष्मीस्त्वरुन्धती ।  
अश्वारूढा भोगवती नित्यक्लिना च कुक्कुटी ॥ ९-४८० ॥  

कौमारी चापि वाराही चामुण्डा चण्डिकाऽपि च ।  
भुवनेशी तथोच्छिष्टचाण्डाली चण्डघण्टिका ॥ ९-४८१ ॥  

कालसङ्कर्षिणी चापि गुह्यकाली तथाऽपरा ।  
एताश्चान्याश्च वै देव्यः समन्त्राः कथितास्त्वयाः ॥ ९-४८२ ॥  

किन्तु कामकलाकालीं नोक्तवानसि मे प्रभो ।  
तत् किं मय्यपि गोप्यं ते प्रायशः परमेश्वर ॥ ९-४८३ ॥  

न हीदृशं त्रिलोकेषु तत किं चन विद्यते ।  

प्। ७७३) यदकथ्यं मयि भवेदपि प्राणाधिकाधिकम् ॥ ९-४८४ ॥

तत् किं गोपयसि प्राज्ञ मयीदं दैवतं महत् ।  
यद्यस्मि ते दयापात्रं मान्याऽस्मि स्नेहभाजनम् ॥ ९-४८५ ॥  

अनुग्राह्याऽस्मि कान्ताऽस्मि तदेमां वद साम्प्रतम् ।  
देवीं कामकलाकालीं समन्त्रध्यानपूर्विकाम् ॥ ९-४८६ ॥  

श्रीमहाकाल उवाच ।

धन्याऽस्यनुगृहीताऽसि तया देव्यैव सर्वथा ।  
यत् ते बुद्धिः समुत्पन्ना तां देवीं प्रति भामिनि ॥ ९-४८७ ॥  

विधाय शपथं देवि कथयामि तवाग्रतः ।  
न हीदृशं भुक्तिमुक्तिसाधनं भुवि विद्यते ॥ ९-४८८ ॥  

यथार्थमात्थ देवि त्वं गोप्यत्वं चापि सर्वथा ।  
किन्तु भक्तिविशेषात् ते कथयामि न संशयः ॥ ९-४८९ ॥  

राज्यं दद्याद्धनं दद्यात् स्त्रियं दद्याच्छिरस्तथा ।  
न तु कामकलाकालीं दद्यात् कस्यापि न क्वचित् ॥ ९-४९० ॥  

इन्द्रेणोपासिता पूर्वं देवराज्यमभीसिता ।  
वरुणेन कुवेरेण् ब्रह्मणा च * या? तथा ॥ ९-४९१ ॥  

रामेण रावणेनापि यमेनापि विवस्वता ।  
चन्द्रेण विष्णुना चापि तथाऽन्यैश्च महर्षिभिः ॥ ९-४९२ ॥  

सहेलं वा सलीलं वा यस्याः स्मरणमात्रतः ।  
विद्यालक्ष्मीः राज्यलक्ष्मीः कीर्तिलक्ष्मीर्वशे स्थिता ॥ ९-४९३ ॥  

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।  
राज्यार्थि लभते राज्यं कान्तार्थी कामिनीं शुभाम् ॥ ९-४९४ ॥  

यशोऽर्थी कीर्तिमाप्नोति मुक्त्यर्थी मुक्तिमाप्नुयात् ।  
अणिमाद्यष्टसिद्ध्यर्थी सिद्ध्यष्टकमवाप्नुयात् ॥ ९-४९५ ॥  

प्। ७७४) तथा ।

द्विसप्ततितमं यावत् पुरुषाः पूर्वजाः स्थिताः ।
तेषां भाग्योदयैः पूर्णैर्विद्येयं यदि लभ्यते ॥ ९-४९६ ॥

तदा सर्वस्वदानेन गृह्णीयादविचारयन् ।  
कृतकृत्यं मन्यमानो गुरोः पादावभिस्पृशन् ॥ ९-४९७ ॥  

तथा ।

एकतः प्राणदानं स्यादेकतश्चैतदर्पणम् ।  
तुलया विधृतं चेत् स्यादेतद्दानं विशिष्यते ॥ ९-४९८ ॥  

तथा ।

कोटिजन्मार्जितैः पुण्यैर्लभ्यते वा न लभ्यते ।  
शपथं कुरु देवेशि प्रकाश्येयं न कुत्र चित् ॥ ९-४९९ ॥  

सत्यं सत्यं त्रिसत्यं मे ततो वक्ष्यामि पार्वति ।  
नो चेत् तेऽपि न वक्ष्यामि प्रमाणं तत्र सैव मे ॥ ९-५०० ॥  

देव्युवाच ।

शपे त्वच्चरणाब्जाभ्यां हिमाद्रिं शिरसा शपे ।  
शपे स्कन्दैकद * * *? यद्येनामन्यतो ब्रुवे ॥ ९-५०१ ॥  

शपेऽथ वा तया देव्या यां मे त्वं कथयिष्यसि ।  
प्रकाशयामि यद्येनां सैव मे विमुखी भवेत् ॥ ९-५०२ ॥  

महाकाल उवाच ।

साधु साधु महाभागे प्रतीतिर्मेऽधुना त्वयि ।  
अकार्षीः शपथं यस्मात् तस्माद्वक्ष्याम्यसंशयम् ॥ ९-५०३ ॥  

समाहिता सावधाना भव देवि वरानने ।  
विधेहि चित्तमेकाग्रं बद्ध्वाऽञ्जलिपुटं प्रिये ॥ ९-५०४ ॥  

कालीं कामकलापूर्वां शृणुष्वावहिता मम ।  

प्। ७७५) तथा ।

या गुह्यकाली सैवेयं काली कामकलाऽभिधा ॥ ९-५०५ ॥  

मन्त्रभेदाद्ध्यानभेदाद्भवेत् कामकलात्मिका ।  
यथा त्रिभेदा तारा स्यात् सुन्दरी सप्तसप्ततिः ॥ ९-५०६ ॥  

दक्षिणा पञ्चभेदा स्यात् तथेयं गुह्यकालिका ।  
सप्तधा ध्यानमन्त्राभ्यां जायते भिन्नरूपिणी ॥ ९-५०७ ॥  

यथा पञ्चाक्षरो मन्त्रो देवी चैकजटा स्मृता ।
द्वाविं�सत्यक्षरो मन्त्रो देवी दक्षिणकालिका ॥ ९-५०८ ॥

तथाऽन्येष्वपि देवेषु मुख्यासु बहुषु प्रिये ।  
देवि कामकलाकाली मनुरष्टादशाक्षरः ॥ ९-५०९ ॥  

षोडशार्णा यथा मुख्या सर्वश्रीचक्रमध्यगा ।
तथेयं नवकालीषु सदा मुख्यतमा स्मृता ॥ ९-५१० ॥

त्रैलोक्याकर्षणो नाम मन्त्रोऽस्याः परिकीर्तितः ।
तस्योद्धारं प्रवक्ष्यामि शृणु यत्नेन पार्वति ॥ ९-५११ ॥

श्रुत्वाऽवधारयस्वेमां सर्वकल्याणहेतवे ।

मन्त्रोद्धारमाह ।

आद्यवर्गाद्यवर्णोऽक्ष्णा वामेन परिशीलितः ॥ ९-५१२ ॥  

मूर्ध्नि मूर्ध्ना यतृतीययुगधः परिकर्तितः ।  
विन्दुवामाक्षिसंयुक्तो वह्निः खपरमस्तकः ॥ ९-५१३ ॥  

वामश्रुत्यर्धचन्द्रेण तृतीयः सपरो भवेत् ।  
दक्षस्कन्धोर्ध्वदन्ताभ्यां चाक्षरो विन्दुमस्तकः ॥ ९-५१४ ॥  

ओष्ठवर्गद्वितीयो हपूर्वाधरोष्ठविन्दुयुक् ।  
षडक्षराणि सम्बोध्य यथानामस्थितिक्रमात् ॥ ९-५१५ ॥  

प्रतिलोमेन चोद्धृत्य तानि बीजानि पञ्च वै ।  

प्। ७७६) भूतबीजाद्यमारभ्य मारबीजान्तमेव हि ॥ ९-५१६ ॥

वैश्वानरवधूयुक्तो मन्त्रो ह्यष्टादशाक्षरः ।  
अस्याः स्मरणमात्रेण यावन्त्यः सन्ति सिद्धयः ॥ ९-५१७ ॥  

स्वयमायान्ति पुरतो जपादीनां च का कथा ।  
सप्त कामकलाकाल्या मनवः सन्ति गोपिताः … ९-५१८ ॥  

तेषु सर्वेषु मन्त्रेषु मुख्योऽयं परिकीर्तितः ।  
स्मरणादस्य मन्त्रस्य मूर्च्छिताः सर्वदेवताः ॥ ९-५१९ ॥  

स्तम्भिता वेपमानाश्च उत्तिष्ठन्त्यतिविह्वलाः ।  
निदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव ॥ ९-५२० ॥  

किं बहूक्तेन देवेशि सत्यपूर्वं ब्रवीम्यहम् ।  
सहस्रवदनेनापि लक्षकोट्याननेन वा ॥ ९-५२१ ॥  

महिमा वर्णितुं शक्यो नास्य वर्षायुतैर्मया ।  
सामान्यतो विजानीहि यद्यदिच्छति साधकः ॥ ९-५२२ ॥  

तत् तत् करोति सकलं प्रजापतिरिवापरः ।  
त्रैलोक्याकर्षका * * नाम? मन्त्रः सर्वार्थसाधकः ॥ ९-५२३ ॥  

ऋष्यादिन्यासमाह ।

अतः परं प्रवक्ष्यामि छन्दश्चर्षिं च बीजकम् ।  
अस्य कामकलाकालीमन्त्रस्याहमृषिर्मतः ॥ ९-५२४ ॥  

छन्दश्च बृहतीख्यातं देवी चेयं प्रकीर्तिता ।  
आद्यबीजं तु बीजं स्यात् क्रोधार्णं शक्तिरेव च ॥ ९-५२५ ॥  

विनियोगोऽस्य सर्वस्य सर्वदा सर्वसिद्धये ।  
षडङ्गं पञ्चबीजैस्तैर्नाम्नाऽप्येकं च कारयेत् ॥ ९-५२६ ॥  

नामाक्षराणि प्रत्येकं तत्र देयानि पार्वति ।  

प्। ७७७) अथ ध्यानम् ।

ध्यानमस्याः प्रवक्ष्यामि कुरु चित्तैकतानताम् ॥ ९-५२७ ॥  

उद्यद्धनाघनाश्लिष्यज्जपाकुसुमसन्निभाम् ।  
मत्तकोकिलनेत्राभां पक्वजम्बूफलप्रभाम् ॥ ९-५२८ ॥  

सुदीर्घप्रबलालम्बिविस्रस्तघनमूर्धजाम् ।  
ज्वलदङ्गारवच्छोणनेत्रत्रितयभूषिताम् ॥ ९-५२९ ॥  

उद्यच्छारदसम्पूर्णचन्द्रकोकनदाननाम् ।  
दीर्घदंष्ट्रायुगोदञ्चद्विकरालमुखाम्बुजाम् ॥ ९-५३० ॥  

वितस्तिमात्रनिष्क्रान्तललज्जिह्वाभयानकाम् ।  
व्यात्ताननतया दृश्यद्वात्रिंशद्दन्तमण्डलाम् ॥ ९-५३१ ॥  

निरन्तरं वेपमानोत्तमाङ्गां घोररूपिणीम् ।  
अंसासक्तनृमुण्डासृक्पिवन्तीं वक्त्रकन्दरात् ॥ ९-५३२ ॥  

सृक्वद्वन्द्वस्रवद्रक्तस्नापितोरोजयुग्मकाम् ।  
उरोजाम्भोजसंसक्तसम्पतद्रुधिरोच्चयाम् ॥ ९-५३३ ॥  

सश्वीत्कृतिं धयन्तीं तल्लेलिहानरसज्ञया ।  
ललाटे घननारासृग्विहित * *? चित्रकाम् ॥ ९-५३४ ॥  

सद्यश्छिन्नगलद्रक्तनृमुण्डकृतकुण्डलाम् ।  
श्रुतिनद्धकचालम्बिवतंसलसदंसकाम् ॥ ९-५३५ ॥  

स्रवदस्रौघया शश्वन्मानव्या मुण्डमालया ।  
आकण्ठगुल्फलम्बिन्याऽलङ्कृतां केशबद्धया ॥ ९-५३६ ॥  

श्वेतास्थिगुलिकाहारग्रैवेयकमहोज्ज्वलाम् ।  
शवदीर्घाङ्गुलिपङ्क्तिमण्डितोरःस्थलस्थिराम् ॥ ९-५३७ ॥  

कठोरपीवरोत्तुङ्गवक्षोजयुगलान्विताम् ।  
महामारकतग्राववेदिश्रोणिपरिष्कृताम् ॥ ९-५३८ ॥  

प्। ७७८) विशालजघनाभोगामतिक्षीणकटिस्थलाम् ।
अन्त्रनद्धार्भकशिरोवलत्किङ्किणीमण्डिताम् ॥ ९-५३९ ॥

सुपीनषोडशभुजां महाशङ्खाञ्चदङ्गदाम् ।  
शवानां धमनीपुञ्जैर्वेष्टितैः कृतकङ्कणाम् ॥ ९-५४० ॥  

ग्रथितैः शवकेशैः स्रग्दामभिः कटिसूत्रिणीम् ।  
शवपोतकरश्रेणीग्रथनैः कृतमेखलाम् ॥ ९-५४१ ॥  

शोभमानाङ्गुलीमांसमेदोमज्जाङ्गुलीयकैः ।  
असिं त्रिशूलं चक्रं च शरमङ्कुशमेव च ॥ ९-५४२ ॥  

ललानं च तथा कर्त्त्रीमक्षमालां च दक्षिणे ।  
पाशं च परशुं नागं चापं मुद्गरमेव च ॥ ९-५४३ ॥  

शिवापोतं खर्परं च वसासृङ्मेदसाऽन्वितम् ।  
लम्बत्कचं नृमुण्डं च धारयन्तीं स्ववामतः ॥ ९-५४४ ॥  

विलसन्नूपुरां देवीं ग्रथितैः शवपञ्जरैः ।  
श्मशानप्रज्वलद्घोरचिताग्निज्वालमध्यगाम् ॥ ९-५४५ ॥  

अधोमुखमहा?दीर्घप्रसुप्तशवपृष्ठगाम् ।  
वमन्मुखानलज्वालाजालव्याप्तदिगन्तराम् ॥ ९-५४६ ॥  

प्रोत्थायैव हि तिष्ठन्तीं प्रत्यालीढपदक्रमात् ।  
वामदक्षिणसंस्थाभ्यां नदन्तीभ्यां मुहुर्मुहुः ॥ ९-५४७ ॥  

शिवाभ्यां घोररूपाभ्यां वमन्तीभ्यां महानलम् ।  
विद्युदङ्गारवर्णाभ्यां वेष्टितां परमेश्वरीम् ॥ ९-५४८ ॥  

सर्वदैवानुलग्नाभ्यां प�स्यन्तीभ्यां महे�स्वरीम् ।
अतीव भीषमाणाभ्यां शिवाभ्यां शोभितां मुहुः ॥ ९-५४९ ॥

कपालसंस्थं मस्तिष्कं ददतीं च तयोर्द्वयोः ।
दिगम्बरां मुक्तकेशीमट्टहासभयानकाम् ॥ ९-५५० ॥

प्। ७७९) सप्तधा बद्धनारान्त्रयोगपट्टविभूषिताम् ।
संहारभैरवेणैव सार्धं सम्भोगमिच्छतीम् ॥ ९-५५१ ॥

अतिकामातुरां कालीं हसन्तीं खर्वविग्रहाम् ।  
कोटिकालानलज्वालान्यक्कारोद्यत्कलेवराम् ॥ ९-५५२ ॥  

महाप्रलयकोट्यर्कविद्युदर्वुदसन्निभाम् ।  
कल्पान्तकारिणीं कालीं महाभैरवरूपिणीम् ॥ ९-५५३ ॥  

महाभीमां दुर्निरीक्षां सेन्द्रैरपि सुरासुरैः ।  
शत्रुपक्षक्षयकरीं दैत्यदानवसूदनीम् ॥ ९-५५४ ॥  

चिन्तयेदीदृशीं देवीं कालीं कामकलाभिधाम् ।  

अथ पुरश्चरणं तत्रैव ।

अतः परं प्रवक्ष्यामि पौरश्चरणिकं विधिम् ॥ ९-५५५ ॥  

एकस्मिन् पत्रविहिते सिद्धिस्तात्कालिकी भवेत् ।  
भूमिशुद्धिर्द्रव्यशुद्धिः पूर्वैव कथिता मया ॥ ९-५५६ ॥  

यमाश्च नियमा ये स्युः पुरश्चरणकर्मणि ।  
सर्वानेव प्रयुञ्जीत सततं भक्तितत्परः ॥ ९-५५७ ॥  

कृतनित्यक्रियः प्रातः कृतपूजाविधिः शुचिः ।  
नरास्थि निखनेद्भूमावस्त्रमन्त्रमुदीरयन् ॥ ९-५५८ ॥  

तारं क्रोधोऽनु ह्री। पाशस्मरभूतान् समुद्धरेत् ।  
सिद्धिमुच्चार्य देहीति युग्मं वह्न्यङ्गनां वदेत् ॥ ९-५५९ ॥  

भूतबीजं फ्रोमिति ।
तथा ।

तदुपर्येव चास्तीर्य स्वासनं सुष्ठु कल्पितम् ।  
नृमुण्डमग्रतः कृत्वा नरास्थिजपमालाया ॥ ९-५६० ॥  

लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः ।  

प्। ७८०) अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च ॥ ९-५६१ ॥

दशांशं होमयेन्मन्त्री तर्पयेदभिषेचयेत् ।  
होमे सन्तर्पणे चैव पूजावत् कथितो विधिः ॥ ९-५६२ ॥  

पूजायां वा प्रयोगे वा होमे वा तर्पणेऽथ वा ।  
गुह्यकालीविधानेन सर्वं कार्यं शुचिस्मिते ॥ ९-५६३ ॥  

अत्रानुक्तं विधानं यत् तत्रत्यं तत् प्रकल्पयेत् ।  
तत्राप्यनुक्तं यत् किञ्चित् तत्रोक्तो दक्षिणाविधिः ॥ ९-५६४ ॥  

इति प्रथममहाविद्याप्रकरणम् ।

अथ द्वितीयविद्यायाः (फेत्कारिणीतन्त्रे)

कैलाशशिखरासीनं चन्द्रखण्डविराजितम् ।  
वक्षःस्थले समासीना पृच्छति स्म नगात्मजा ॥ ९-५६५ ॥  

कथमीशान सार्वज्ञ मलभ।स्ते तपोधनाः ।  
कां विद्यां प्राप्य कवयो भारतादि प्रचक्रिरे ॥ ९-५६६ ॥  

श्रुत्वा नगात्मजावाक्यं विहस्य परमेश्वरः ।  
प्राह प्रियां परिष्वज्य साधु साध्विति पूजयन् ॥ ९-५६७ ॥  

शृणु साध्वि महाविद्यामज्ञानेन्धनदाहिनीम् ।  
यामवाप्य महात्मानो धर्मकामार्थमुक्तिषु ॥ ९-५६८ ॥  

नासाध्यं मेनिरे किञ्चित् कवयः शुद्धबुद्धयः ।  
वादे सदसि या वाचः स्तम्भिनी प्रतिवादिनाम् ॥ ९-५६९ ॥  

विद्याहानिकरी देवि विदुषां वलिदानतः ।  
हास्याय या सदस्यानामशुद्धमपि जल्पयेत् ॥ ९-५७० ॥  

वादिनं चापि राजानं मन्त्रिणं वशमानयेत् ।  

जल्पयेद्वादिनमित्यन्वयः ।

मन्त्रस्य ज्ञानमात्रेण जपात् सर्वज्ञतां नयेत् ॥ ९-५७१ ॥  

प्। ७८१) मन्त्रोद्धारणमाह ।

सपरं प्रथमं दत्वा चतुर्थस्वरभूषितम् ।  
रेफारूढं स्फुरद्दीप्तमिन्दुविन्दुसमन्वितम् ॥ ९-५७२ ॥  

त्रकारं च ततो दद्याच्चतुर्थेनैव भूषितम् ।  
दीर्घोकारसमायुक्तं हकारं योजयेत् ततः ॥ ९-५७३ ॥  

फट्कारं च ततो दद्यात् सम्पूर्णः सिद्धमन्त्रतः ।  

(मत्स्यसूक्ते)

अथ वक्ष्ये महादेव्या मन्त्रोद्धारमनुत्तमम् ॥ ९-५७४ ॥  

यच्च ज्ञात्वा नरो भाति वाचस्पतिरिवापरः ।  
मायाबीजं समुद्धृत्य तवर्गप्रथमं तथा ॥ ९-५७५ ॥  

रतिविन्दुवह्नियुतं द्वितीयं बीजमुत्तमम् ।  
कूर्चबीजं तृतीयं तु फट्कारस्तदनन्तरम् ॥ ९-५७६ ॥  

सम्पूर्णसिद्धमन्त्रस्तु रश्मिपञ्चकसंयुतः ।  

पञ्चरश्मिः प्रणवः ।
तदुक्तं (तारार्णवे)

अनन्तरं समुद्धृत्य मायोत्तरमनुं ततः ॥ ९-५७७ ॥  

पपञ्चमः समायुक्तं पञ्चरश्मिः प्रकीर्तितः ।  

अनुत्तरमकारः । मायोत्तरमुकारः । पपञ्चमो मकारः ।
(तत्त्वबोधे)

तारं लज्जां न्त्रकामेशीं हु। फडित्युग्रतारिका ॥ ९-५७८ ॥  

माया त्त्री। हूमथास्त्रान्तमित्येकजटयाऽर्चयेत् ।  
अस्त्रहीनमिदं नीलसरस्वत्या विनिर्दिशेत् ॥ ९-५७९ ॥  

कामेशी ईकारः ।

त्र्यक्षरोऽसौ महामन्त्रः फट्कारान्तौ हृदि स्थितः ।  
पञ्चरश्मिसमायुक्तोऽथाज्ञानेन्धनदाहकः ॥ ९-५८० ॥  

प्। ७८२) (मत्स्यसूक्ते)

लज्जाबीजं बधूबीजं कूर्चबीजं तथा हि फट् ।  
एवं पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी ॥ ९-५८१ ॥  

तथा ।

तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती ।  
कुल्लुकेति समाख्याता त्रिषु लोकेषु गोपिता ॥ ९-५८२ ॥  

(तारार्णवे)

वशिष्ठाराधिता चोग्रा न शीघ्रफलदा यतः ।  
अतस्तेनैव मुनिना शापो दत्तः सुदारुणः ॥ ९-५८३ ॥  

ततः प्रभृति विद्येयं फलदात्री न कस्य चित् ।  
शक्तिबीजं त्रपान्तस्थबीजोपरि नियोजितम् ॥ ९-५८४ ॥  

ततः पभृति विद्येयं वधूरिव यशस्विनी ।  
फलिनी सर्वविद्यानां जयिनी जयकाङ्क्षिणाम् ॥ ९-५८५ ॥  

विषक्षयकरी विद्या अमृतत्वप्रदायिनी ।  
मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते ॥ ९-५८६ ॥  

मूको भवति वागीशो गीष्पतिर्जायते नरः ।  

शक्तिबीजमिति । शक्तिबीजं सकारः । त्रपान्तस्थबीजं त्रोङ्कारः । तेन स्त्रीमिति वधूबीजं भवति । शापस्तु कृष्णावतारपर्यन्तमेव ।

जाते कृष्णावतारे तु पुनः शापात् प्रमुच्यते ॥ ९-५८७ ॥

इति तन्त्रान्तरवचनात् ।
मन्त्रार्थमाह (साधनसमुच्चये)

प्रणवाद्ब्रह्मरूपा सा सोऽहं तत्त्वस्वरूपिणी ।  
व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ॥ ९-५८८ ॥  

तयोर्विसर्ग ईकारो विन्दुना तान्त्रिकी मता ।  
तकारः सर्वपापघ्नो रेफस्तत्त्वप्रकाशकः ॥ ९-५८९ ॥  

प्। ७८३) विन्दुमाली महाबीजं शब्दब्रह्मप्रकाशकम् ।
कूर्चं प्रबोधरूपं स्यादस्त्रं जाड्यविनाशकम् ॥ ९-५९० ॥

एवं यो वेत्ति शुद्धात्मा स तु साक्षान्महेश्वरः ।

(मत्स्यसूक्ते)

श्रीबीजाद्या यदा विद्या तदा श्रीः सर्वतो मुखी ॥ ९-५९१ ॥  

एषैव हि महाविद्या मायाद्या सकलेष्टदा ।  
वाग्भवाद्या महावाक्यस्वरूपा सर्ववाङ्मयी ॥ ९-५९२ ॥  

तथा ।

गुटिकासिद्धिवेतालपातालवटयक्षिणी ।  
परपुरप्रवेशश्च आज्ञासिद्धिः प्रजायते ॥ ९-५९३ ॥  

जिह्वायां चिन्तनादेव त्रिकालज्ञो भवेद्ध्रुवम् ।  
यस्तु विद्यामभेदेन चिन्तयेत् साधकोत्तमः ॥ ९-५९४ ॥  

जीवन्मुक्तो विमुक्तश्च अन्ते सोऽपि भवेद्ध्रुवम् ।  

(ब्रह्मसंहितायां फेत्कारिण्यां ) च ।

क्षिप्रप्रसादाज्जगतां सदा नीलसरस्वती ॥ ९-५९५ ॥  

विशेषतः कलियुगे मत्प्रसादाद्भविष्यति ।  
सिद्धमन्त्रो यदा मन्त्री बालिशस्यापि मूर्धनि ॥ ९-५९६ ॥  

करं दत्वा दिशत्याशु सोऽपि श्लोकान् पठेत् पुनः ।  

दिशति श्लोकं कुर्वित्याज्ञापयति ।
तथा ।

मन्त्रस्य ज्ञानमात्रेण अनुभावद्वयं भवेत् ॥ ९-५९७ ॥  

तात्कालिकी च कविता परैरनविभाव्यता ।  

अथ ऋष्यादिन्यासः (मेरुतन्त्रे)

मुनिरक्षोभ्यसञ्ज्ञोऽस्या बृहतीछन्द ईरितम् ॥ ९-५९८ ॥  

तारादेवी ह्री। च बीजं हू। शक्तिश्चास्य कीर्तिता ॥  

प्। ७८४) (मन्त्रचूडामणौ)

अक्षोभ्य ऋषिरेतस्या बृहतीछन्द ईरितम् ॥ ९-५९९ ॥  

नीलसरस्वती देवी त्रिषु लोकेषु गोपिता ।  
हू। बीजमस्त्रं शक्तिः स्याच्चतुर्वर्गफलप्रदा ॥ ९-६०० ॥  

दामोदरमिश्रकृतसङ्ग्रहे ।

अक्षोभ्य ऋषिरेतस्या बृहतीच्छन्द ईरितम् ।  
नीलसरस्वती देवी त्रिषु लोकेषु गोपिता ॥ ९-६०१ ॥  

हू। बीजमन्त्रः शक्तिः स्यान्माया स्त्री। कीलकं स्मृतम् ।  
विनियोगो भवेद्देवि चतुर्वर्गफलाप्तये ॥ ९-६०२ ॥  

उग्रतारा देवतेति (मन्त्रचूडामणौ)
अथ कराङ्गन्यासौ । तत्रादौ उग्रतारायाः (ताराकल्पे)

षड्दीर्घमायाबीजेन षडङ्गविधिरीरितः ।  

नीलसरस्वत्यास्तु (सिद्धसारस्वते)

अखिलवाग्रूपिणीं प्रोच्य हृदाय नमो वदेत् ॥ ९-६०३ ॥  

अखण्डवाग्रूपिणीं च शिरसे वह्निवल्लभा ।  
ब्रह्मवाग्रूपिणीमुक्त्वा शिखायै वषडित्ययि ॥ ९-६०४ ॥  

विष्णुवाग्रूपिणीमुक्त्वा कवचाय हुमुच्चरेत् ।  
रुद्रवाग्रूपिणीं नेत्रत्रयाय वौषडित्यपि ॥ ९-६०५ ॥  

सर्ववाग्रूपिणीमुक्त्वा अस्त्राय फडिति स्मरेत् ।  
षड्दीर्घमायया बीजं बीजान्ते तानि योजयेत् ॥ ९-६०६ ॥  

एकजटायाः (तन्त्रचूडामणौ)

बीजान्ते एकजटायै हृदयं परिकीर्तितम् ।  
तारिण्यै शिरसे तद्वद्वज्रोदके शिखां तथा ॥ ९-६०७ ॥  

उग्रजटे च कवचं महापरिसरे तथा ।  

प्। ७८५) पिङ्गोग्रैकजटे तद्वन्नेत्रास्त्रे परिकीर्तिते ॥ ९-६०८ ॥

न्यासोऽयमुग्रतारैकजटयोर्विरुद्ध इति साम्प्रदायिकः ।
अथ ध्यानम् (गन्धर्वतन्त्रे)

श्मशानं तत्र सञ्चिन्त्य तत्र कल्पद्रुमं स्मरेत् ।  
तन्मूले मणिपीठं च नानामणिविभूषितम् ॥ ९-६०९ ॥  

शिवाभिर्बहुमांसास्थिमोदमानाभिरन्ततः ।  
चतुर्दिक्षु शवामुण्डाश्चिताङ्गारास्थिभूषिताः ॥ ९-६१० ॥  

तन्मध्ये भावयेद्देवीं यथोक्तध्यानयोगतः ।  

(नीलतन्त्रे)

प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् ॥ ९-६११ ॥  

खर्वां लम्बोदरीं भीमां व्याघ्रचर्मवृतां कटौ ।  
नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् ॥ ९-६१२ ॥  

चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् ।  
खड्गकर्त्त्रीधरां सव्ये वामे मुण्डोत्पलान्विताम् ॥ ९-६१३ ॥  

पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् ।  
बालार्कमण्डलाकारलोचनत्रयभूषिताम् ॥ ९-६१४ ॥  

प्रज्वलत्पितृभूमध्यगतां दंष्ट्राकरालिनीम् ।  
सावेशस्मेरवदनामस्थ्यालङ्कारभूषिताम् ॥ ९-६१५ ॥  

विश्वव्यापकतोयान्तः श्वेतपद्मोपरिस्थिताम् ।  

(श्यामारहस्यादौ)

खड्गकर्त्त्रीसमायुक्तसव्येतरभुजद्वयाम् ॥ ९-६१६ ॥  

कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् �इति पाठः ।  

(तन्त्रान्तरे)

खड्गकर्त्त्रीधरां देवीं कपालोत्पलधारिणीम् �इति पाठः ॥ ९-६१७ ॥  

प्। ७८६) (मन्त्रचूडामणौ)

तस्योपरिगृहे देवीं खर्वां नीलमणिप्रभाम् ।  
लम्बोदरीं व्याघ्रचर्मसमावृतनितम्बिनीम् ॥६१८ ॥  

पीनोन्नतपयोभारां रक्तवर्त्तुललोचनाम् ।  
ललज्जिह्वां महाभीमां दंष्ट्राकोटिसमुज्ज्वलाम् ॥ ९-६१९ ॥  

नीलोत्पललसन्मालां बद्धजूटां भयङ्करीम् ।  
श्वेतास्थिपट्टिकायुक्तकपालपञ्चशोभिताम् ॥ ९-६२० ॥  

ललाटे रक्तनागेन कृतकर्णावतंसकाम् ।  
अतिशुभ्रमहानागकृतहारमहोज्ज्वलाम् ॥ ९-६२१ ॥  

दूर्वादलश्यामनागकृतयज्ञोपवीतिनीम् ।  
चतुर्भुजां रक्तमांसखण्डमण्डितमुष्टिना ॥ ९-६२२ ॥  

जटाजूटाक्षसूत्रेण शोभितां तीक्ष्णधारया ।  
खड्गेन दक्षिणस्योर्ध्वे शोभितां वीरनादिनीम् ॥  

तदधःस्थाद्वीजवृन्तकर्त्त्रिकालङ्कृतां पराम् ।  
वामोर्ध्वे रक्तनालेन दिगम्बरमनोहराम् ॥ ९-६२३ ॥  

दधतीं नीलपद्मं च तदधःस्थात् कपालकम् ।  
जगतां जाड्यसंयुक्तं दधतीं कुन्दसन्निभम् ॥ ९-६२४ ॥  

धूम्राभनागसन्दोहकृतकेयूरसत्वराम् ।  
सुवर्णवर्णनागेन कङ्कणोज्ज्वलपाणिकाम् ॥ ९-६२५ ॥  

शुभ्रवर्णमहादेवकृतसद्विमलासनम् ।  
निर्यन्त्रणभिया तद्वत् सङ्कुचत्प्रपदात्मिकाम् ॥ ९-६२६ ॥  

शवपादद्वयारूढवामपादां महोन्मुखीम् ।  
कुन्दाभनागसंशोभिकटिसूत्रां त्रिलोचनाम् ॥ ९-६२७ ॥  

असृग्रक्तेन नागेन कृतनूपुरपल्लवाम् ।  

प्। ७८७) सद्यश्छिन्नगलतद्रक्तमुण्डै रक्तविभूषणैः ॥६२८ ॥

अन्योन्यकेशग्रथितैः पादपद्मविलम्बितैः ।  
पञ्चाशद्भिर्महामालाशोभितां परमेश्वरीम् ॥६२९ ॥  

ज्वलच्चितामध्यसंस्थां द्वीपिचर्मोत्तरांशुकाम् ।  
अक्षोभ्यनागसम्बद्धजटाजूटां वरप्रदाम् ॥६३० ॥  

एवम्भूतां महादेवीमात्मानं यागवस्तु च ।  
विज्ञापयेन्महादेवपण्डितोहे महाकविः ॥६३१ ॥  

(तारोपनिषदि)

विरुद्धवाक्यार्थशरीरमण्डले  
नवाम्बुदाभां गुरुमुन्नतोदरीम् ।  
अतीव खर्वां नवयौवनस्था �  
मधःस्थशार्दूलककृत्तिमूर्धजाम् ॥ ९-६३२ ॥  

अनैक्यमाहत्य शवोपरिस्थितां  
शवार्धमालीढपरीतमध्यमाम् ।  
विशीर्णवर्णां नृशिरःस्रजोद्भवां  
त्रयीविवर्त्तारुणलोचनत्रयाम् ॥ ९-६३३ ॥  

अभेदपिङ्गैकजटाविराजितां  
विभूषणाच्छिन्नसितास्थिभीषणाम् ।  
महाष्टसिद्धिप्रकराहिभूषणा �  
मट्टादृहासैर्जगतामभीतिदाम् ॥ ९-६३४ ॥  

जटास्वनन्तः श्रवसोश्च तक्षको  
महाहिपद्मो हृदि हारभूषणाम् ।  
तथैव कर्कोटकृतोपवीतिकां  
सुमेखलायामथ देववासुकिः ॥ ९-६३५ ॥  

प्। ७८८)

सशङ्खपालः किलकङ्कणो मतः  
पदेषु पद्मः किलनूपुरश्रियम् ।  
भुजेषु नागः कुलिकोऽङ्गदो मतो  
भुजोऽर्धमालामहता स्थितिः स्थिता ॥ ९-६३६ ॥  

सितश्च रक्तो धवलश्च मेचक �
स्तथैव नागोऽथ सितश्च पाण्डरः ।
भुजङ्गमानामिह वर्णजातयो
भवन्ति सर्वे मुनिभिर्ज्वलच्चिताम् ॥ ९-६३७ ॥

कपालकर्त्त्रीग्रथितोग्रमूर्द्धजां
सनालमिन्दीवरकान्तिमालाम् ।
विकोषखड्गं सततं च दक्षिणे
स्वपौरुषोत्थैर्दधतीं भुजैः सदा ॥ ९-६३८ ॥

पदार्थदंष्ट्राद्वयपञ्चमुद्रया  
विराजमानामसितोत्पलस्रजम् ।  
विचिन्तयेत् तां च कवित्वकारिणी-  
मन्यागतार्थं प्रजपेच्च तारिणीम् ॥ ९-६३९ ॥  

(फेत्कारिणीतन्त्रेऽपि)

प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा वरा  
ख�न्गेन्दीवरकर्त्तृखर्परभुजा हू।कारबीजोद्भवा ।  
खर्वा नीलविशालपिङ्गलजटाजूटोग्रनागैर्वृता  
जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ॥ ९-६४० ॥  

प्रत्यालीढलक्षणं तु (सङ्गीतरत्नाकरे)

वामो यत्र निषण्णोरुरन्तरे पूर्वमानतः ।  
दक्षिणं चरणं चाग्रे पञ्चतालप्रसारितम् ॥ ९-६४१ ॥  

प्। ७८९) अस्त्रौ द्वावपि तद्विन्द्यादालीढं तु सदैवतम् ।
आलाढाङ्गविपर्यासात् प्रत्यालीढमुदाहृतम् ॥ ९-६४२ ॥

तालं वितस्तिः । अस्रौ चक्रौ । मौलावक्षोभ्यभूषितामिति । अत्राक्षोभ्यो नागरूपः । अक्षोभ्यो देवीमूर्धन्यस्त्रीमूर्तिर्नागरूपधृगिति (भावचूडामणि-) वचनात् ।
अथ पुरश्चरणविधिः । तत्रादौ मन्त्रध्यानमुक्तं (साधनसमुच्चये)

मूलचक्रे च हृल्लेखां सूर्यकोटिसमप्रभाम् ।  
स्वाधिष्ठाने पीतवर्णं द्वितीयं च विभावयेत् ॥ ९-६४३ ॥  

नाभौ जीमूतसङ्काशं कूर्चबीजं महाप्रभम् ।  
अस्त्रबीजं हृदि ध्यायेत् कालाग्निसदृशप्रभम् ॥ ९-६४४ ॥  

मूलादिब्रह्मरन्ध्रान्तं विद्यां विभावयेत् ।  
सूर्यकोटिप्रतीकाशां योगिनां दृष्टिगोचराम् ॥ ९-६४५ ॥  

तदुक्तं (तारातन्रे)

स्वेच्छाचारपरो मन्त्री पुरश्चरणसिद्धये ।  
रहस्यमालामादाय लक्षमेकं जपेत् सदा ॥  

(सुरेन्द्रसंहितायाम्)

लक्षमात्रं जपेन्मन्त्रं दशांशमसितोत्पलैः ।  

आज्याक्तैर्जुहुयान्मन्त्री तद्दशांशेन तर्पयेत् ॥ ९-६४६ ॥

कालागुरुद्रवोपेतैर्विमलैर्गन्धवारिभिः ।  
तर्पयेच्च परां देवीं तत्प्रकारमिहोच्यते ॥ ९-६४७ ॥  

जले चावाह्य विधिवत् पाद्याद्यैरुपचारकैः ।
सन्तर्प्य विधिवद्देवीं परिवारान् सकृत् सकृत् ॥ ९-६४८ ॥

देवीबुद्ध्या स्वमान्मानं सम्पूज्य साधकोत्तमः ।
तारिणीं सिञ्चयामीति जलं मूर्ध्नि विनिःक्षिपेत् ॥ ९-६४९ ॥

कुम्भाख्यमुद्रया देवि नमोऽन्तेनाभिषेचनम् ।  

प्। ७९०) (वीरचूडामणौ)

चतुर्लक्षं जपेन्मन्त्रं दशांशं जुहुयात् सुधीः ॥ ९-६५० ॥

पद्मैस्त्रिमधुरोपेतैर्वाक्पतिर्जायते नरः ।  

(तारार्णवे)

एवं ध्यात्वा हविष्याशी जपेल्लक्षचतुष्टयम् ॥ ९-६५१ ॥  

रहस्यमालामादाय जपेद्वा लक्षमेव च ।  

(मेरुतन्त्रे)

रतं कुर्वन्नदन् भक्ष्यमनेकं दधि मध्वपि ॥ ९-६५२ ॥  

मधु मांसं च ताम्बूलं जपेल्लक्षचतुष्टयम् ।  
दशांशं जुहुयाद्रक्तपद्मैः क्षीराज्यलोलितैः ॥ ९-६५३ ॥  

शवमुण्डं पूरयित्वा जपस्थाने जपं चरेत् ।  
नारीं पश्यन् स्पृशन् गच्छन् महानिशि वलिं हरेत् ॥ ९-६५४ ॥  

न कार्यः सुभ्रुवां द्वेषो यत्नतः परिपूजयेत् ।  
जपे न कालनियमो न स्थितौ सर्वदा जपेत् ॥ ९-६५५ ॥  

श्मशाने शून्यसदने देवागारेऽथ निर्जने ।  
पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित् ॥ ९-६५६ ॥  

समरे शत्रुनिहतं यद्वा षण्मासिकं शिशुम् ।  
विद्यां संसाधयेच्छीघ्रं साधितैवं प्रसिध्यति ॥ ९-६५७ ॥  

एवं सिद्धमनुर्मन्त्री प्रयोगान् कर्त्तुमर्हति ।

अथैतद्विद्याभेदास्तत्रैव ।

अथातः सम्प्रवक्ष्यामि दैत्यानां वरसिद्धये ॥ ९-६५८ ॥  

ब्रह्मणोपासितां तारां वल्यादिभिरूपासितम् ।  
ॐ त्री। ह्री। हू। समुचार्य ह्री। हु। फड्नगवर्णकः ॥ ९-६५९ ॥  

मुनिर्ब्रह्मा च गायत्री छन्दस्तारा च देवता ।  
न्यासा।स्तु पूर्ववत् कुर्याद्ध्यानमस्या निरूप्यते ॥ ९-६६० ॥  

प्। ७९१) श्वेताम्बरां चन्द्रकान्तिं चन्द्रर्धकृतशेखराम् ।
कर्त्तरीं च कपालं च कराभ्यां दधतीं भजेत् ॥ ९-६६१ ॥

नानालङ्कारशोभाढ्यां त्रीक्षणां पद्मसंस्थिताम् ।  
जपपूजादिकं सर्वमस्याः पूर्ववदाचरेत् ॥ ९-६६२ ॥  

मधुयुक्परमान्नेन होमाद्विद्यानिधिर्भवेत् ।  
रक्तां वश्ये स्वर्णवर्णां स्तम्भने मारणेऽसिताम् ॥ ९-६६३ ॥  

उच्चाटने धूम्रवर्णां शान्तौ श्वेतां स्मरेदिमाम् ।  
अथातः सम्प्रवक्ष्यामि तारकस्य वराय तु ॥ ९-६६४ ॥  

ब्रह्मणोपासितां तारां द्वादशार्णां सुदुर्लभाम् ।  
वाचं लज्जां रमां कामं हसरा औसमन्विताः ॥ ९-६६५ ॥  

विसर्गाढ्याः पञ्चमं तु कूटमेतदुदीरितम् ।  
हु। उग्रतारे हु। फट् मन्त्रः प्रोक्तो जपादिकम् ॥ ९-६६६ ॥  

सर्वं पूर्ववदेवास्य कलौ प्रत्ययकारिणी ।  
अथातः सम्प्रवक्ष्यामि ब्रह्मणा समुपासिताम् ॥ ९-६६७ ॥  

हिरण्यकसिपोर्दातुं वरं सप्तार्णसम्मिताम् ।  
प्रणवं कवचं मायां क्ली। प्राक् कूटं च पञ्चमम् ॥ ९-६६८ ॥  

हु। फडन्तः सर्वमस्या न्यासाद्यं पूर्ववद्भवेत् ।  
अथातः सम्प्रवक्ष्यामि हरिणा या ह्युपासिता ॥ ९-६६९ ॥  

बौद्धमार्गप्रचारार्थं सिद्धिदा द्वादशाक्षरी ।  
उपासिता ब्रह्मणा या तस्याः कूटे तु पञ्चमे ॥ ९-६७० ॥  

सौरुक्त्वा साधिता विद्या द्वादशार्णाऽतिबुद्धिदा ।  
यत्प्रभावाद्दिवो दासः काश्या उच्चाटितः पुरा ॥ ९-६७१ ॥  

तस्यास्तु पूर्ववज्ज्ञेयं न्यासध्यानजपादिकम् ।  
अथातः सम्प्रवक्ष्यामि सप्तार्णां रामसेविताम् ॥ ९-६७२ ॥  

प्। ७९२) लक्ष्मीप्रभृति नाशार्थं तेन मत्तः सदा हली ।
ब्रह्मोपासितसप्तार्णा मध्ये कूटं तु पञ्चमम् ॥ ९-६७३ ॥

तत् त्यक्त्वा सौ।स्तत्र चोक्त्वा बलरामेण सेविता ।  
शत्रुक्षयकरी चेयं तथा वाक्सिद्धिकारिणी ॥ ९-६७४ ॥  

ध्यानपूजादिकं प्राग्वत् प्रयोगादिकमेव च ।  
अथातः सम्प्रवक्ष्यामि नारायणसुसेविता ॥ ९-६७५ ॥  

पञ्चार्णा यत्प्रभावेण दैत्यानां कदनं कृतम् ।  
त्री। हु। फट् क्ली। वाग्भवं च पञ्चार्णा सर्वसिद्धिदा ॥ ९-६७६ ॥  

असां त्रयाणां तु मुनिर्विष्णुः प्राग्वज्जपादिकम् ।  
अथातः सम्प्रवक्ष्यामि मया या समुपासिता ॥ ९-६७७ ॥  

दत्ता च रविणाऽदित्यै सा विद्या तु षडक्षरी ।  
ॐ ह्री। हू। ह्री। हु। फडिति मुनिः सोऽहं च पूर्ववत् ॥ ९-६७८ ॥  

ज्ञेयं न्यासादिकं सर्वं प्रयोगादि च पूर्ववत् ।  
अथान्यं सम्प्रवक्ष्यामि चास्याः पञ्चाक्षरं मनुम् ॥ ९-६७९ ॥  

जलन्धरवधार्थं तु मया सिद्धं कृतं सुराः ।  
स्त्री। हु। मायां हु। फडिति मनुः पञ्चाक्षरो मतः ॥ ९-६८० ॥  

तन्त्रान्तरेऽपि ।

वधूबीजं च कवचं मायां कूर्चं तथाऽस्त्रकम् ।  
सार्धम्पञ्चाक्षरो मन्त्रो द्वितीयः परिकीर्तितः ॥ ९-६८१ ॥  

(मेरुतन्त्रे)

मया पञ्चमुखैर्जप्तो दक्षमार्गेण भो सुराः ।  
देवांशेषु च विप्रेषु तथा धर्मपरेषु च ॥ ९-६८२ ॥  

यमानां नियमानां च तन्त्रस्था नान्यदेवताः ।  
वाममार्गाराधितास्तु कार्यं साधयितुं क्षमाः ॥ ९-६८३ ॥  

प्। ७१३) दक्षिणाराधिता देवा रणसाहाय्यकारकाः ।
तेजोनिधीन् रिपून् हत्वा नयन्ति ब्रह्मशाश्वतम् ॥ ९-६८४ ॥

क्षत्रियाणां क्षयार्थं तु मया रामाय चार्पिता ।
पञ्चामृतं सुरास्थाने मांसस्थाने च सूरणम् ॥ ९-६८५ ॥

मत्स्यस्थाने खण्डो बोध्यो धर्मपत्न्यां रतं रतम् ।
अन्यत् पूर्ववदेव स्याद्गुह्यमेतत् प्रकाशितम् ॥ ९-६८६ ॥

लुब्धस्तारां न सेवेत लोकद्वयपरिक्षयात् ।
अस्याः पूजादिकं प्राग्वद्विशेषोऽत्र निरूपितः ॥ ९-६८७ ॥

तारायाः सद्गुरोः सिद्धिः स्त्रीरते भ्रान्तता भवेत् ।
अथातः सम्प्रवक्ष्यामि महातारामनुं सुराः ॥ ९-६८८ ॥

सिद्धिर्मार्गद्वयेनापि वर्णावर्णाधिकारतः ।
त्री। ह्री। ह्रा। हु। नमस्तारायै महापदमुच्चरेत् ॥ ९-६८९ ॥

तारायै सकलेत्युक्त्वा उस्वरान् तारय द्वयम् ।
तारद्वयं वह्निजाया द्वात्रिंशार्णो मनुर्मतः ॥ ९-६९० ॥

न्यासपूजाजपाद्यं तु प्राग्वत् सर्वं समाचरेत् ।

(तारिणीतन्त्रे)

ईश्वर उवच ।

श्रूयतां शैलतनये जाड्यनाशकरि पूरा ॥ ९-६९१ ॥  

चतुर्वर्गफला विद्या मन्त्रसिद्धिप्रदायिका ।  
वर्गाद्यं वह्निसंयुक्तं वामाक्षिपरिभूषितम् ॥ ९-६९२ ॥  

नादविन्दुसमायुक्तं वसुसिद्धिप्रदायकम् ।  
पुनश्चतुर्मुखं देवि रकारेण विभूषितम् ॥ ९-६९३ ॥  

स्वरेणैव चतुर्थेन चन्द्रखण्डेन च प्रिये ।  
लाञ्छितं वै महाबीजं चतुर्वर्गफलप्रदम् ॥ ९-६९४ ॥  

प्। ७९४) ततः कृष्णे पदं चोक्त्वा ततो देवीपदं स्मृतम् ।
ह्री।कारं च ततो दद्यात् स्वपूर्वमुद्धरेत् ततः ॥ ९-६९५ ॥

इकारेण च रेफेण मकारेण च भूषितम् ।  
ततो वाग्भवमुच्चार्य मन्त्रमेनं समुद्धरेत् ॥ ९-६९६ ॥  

नवाक्षरो मनुर्देवि तारिण्याः समुदीरितः ।  
इयमेव महाविद्या स्वर्गे मर्त्ये सुदुर्लभा ॥ ९-६९७ ॥  

अष्टसिद्धिप्रदा देवि चतुर्वर्गफलप्रदा ।  

अथ ऋष्यादिन्यासः

शक्तिरस्य ऋषिः प्रोक्तो बृहतीछन्द ईरितम् ॥ ९-६९८ ॥  

तारिणी देवता प्रोक्ता ह्री।कारं बीजमुच्यते ।  
वाग्भवं शक्तिरित्युक्तमिति ऋष्यादिकं चरेत् ॥ ९-६९९ ॥  

अथ ध्यानम् ।

कृष्णां लम्बोदरीं भीमां नागकुण्डलशोभिताम् ।  
रक्तमुखीं ललज्जिह्वां रक्ताम्बरधरां कटौ ॥ ९-७०० ॥  

पीनोन्नतस्तनीमुग्रां महानागेन वेष्टिताम् ।  
शवस्योपरि देवेशि तस्योपरि कपालके ॥ ९-७०१ ॥  

नासाग्रध्याननिरतां महाघोरां वरप्रदाम् ।  
चतुर्भुजां दीर्घकेशीं दक्षिणस्योर्ध्वबाहुना ॥ ९-७०२ ॥  

बिभ्रतीं नलिनीमेकां वामोर्ध्वे पानपात्रकम् ।  
वराभयधरां देवीमधस्ताद्दक्षवामयोः ॥ ९-७०३ ॥  

पिवन्तीं रौधिरीं धारां पानपात्रे सदाशिवे ।  
सर्वसिद्धिप्रदां देवीं नित्यां गिरिनिवासिनीम् ॥ ९-७०४ ॥  

लोचनत्रयसंयुक्तां नागयज्ञोपवीतिनीम् ।  
दीर्घनासां दीर्घजङ्घां दीर्घाङ्गीं दीर्घजिह्विकाम् ॥ ९-७०५ ॥  

प्। ७९५) चन्द्रसूर्याग्निभेदेन त्रिलोचनसमन्विताम् ।
शत्रुनाशकरीं देवीं महाभीमां वरप्रदाम् ॥ ९-७०६ ॥

व्याघ्रचर्मशिरोबद्धां जगत्त्रयविभाविताम् ।
साधकानां सुखं कर्त्त्री सर्वलोकभयङ्करीम् ॥ ९-७०७ ॥

एवम्भूतां महादेवीं तारिणीं प्रणमाम्यहम् ।

अथ पुरश्चरणम् ।

एवं सम्पूजयित्वा च एभिर्द्रव्यैर्महेश्वरि ॥ ९-७०८ ॥  

लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।

अथाक्षोभ्यमन्त्रः । (ब्रह्मसंहितायाम्)

अक्षोभ्यस्य मनुं त्यक्त्वा देवीं तारां जपेद्यदि ॥ ९-७०९ ॥  

सिद्धिहानिर्भवेत् तस्य रौरवं नरकं व्रजेत् ।  
अक्षोभ्यस्य मनुं विप्र कवचं सारमुत्तमम् ॥ ९-७१० ॥  

अतिगुह्यं महाध्यानं सर्वध्यानेषु चोत्तमम् ।  
अग्रे मनुं प्रवक्ष्यामि ध्यानं चैव ततः परम् ॥ ९-७११ ॥  

कवचं च ततः पश्चात् कथयामि क्रमेण तु ।  
अनुत्तरं समुद्धृत्य पपञ्चमविभूषितम् ॥ ९-७१२ ॥  

अक्षोभ्येति? च स्वाहेति रमाद्यन्तं महामनुः ।  
स्वयम् - ऋषिश्च सम्प्रोक्तो विराट्छन्द उदीरितम् ॥ ९-७१३ ॥  

अक्षोभ्यो देवता प्रोक्तस्त्रिमूर्त्तिर्नागरूपधृक् ।  
विनियोगस्तु नियतं पुरुषार्थचतुष्टये ॥ ९-७१४ ॥  

अथ ध्यानं प्रवक्ष्यामि सर्वसौभाग्यदायकम् ।  
सहस्रादित्यसङ्काशं नागरूपधरं शुभम् ॥ ९-७१५ ॥  

विद्युत्कोटिसमं वक्त्रं वह्निभास्वरलोचनम् ।  
सार्धत्रिवलयोपेतं जटाकोट्यग्रसंस्थिताम् ॥ ९-७१६ ॥  

प्। ७९६) महालावण्यसंयुक्तं सुरासुरनमस्कृतम् ।
सूर्यविद्युत्समाभासं महामणिशिखोपरि ॥ ९-७१७ ॥

एतद्रूपं महाकायं देवैरपि सुपूजितम् ।  

तन्त्रान्तरे ।

अक्षोभ्यं पूजयित्वाऽदौ तारां सम्पूजयेत् सुधीः ॥ ९-७१८ ॥  

तथा ।

पुरश्चर्यादिकं चास्य तारिणीवत् समाचरेत् ।  

इति ताराप्रकरणम् ।

अथ श्रीविद्या ।

तत्रादौ कामराजविद्या (चन्द्रपीठे)

स्मरो भगं विन्दुमती लपरा वाग्भवं मतम् ॥ ९-७१९ ॥  

शिवो जीवः स्मरः शम्भुर्लपरा कामकूटकम् ।  
भृगुः कामः क्षमा माया कामराजाभिधा मता ॥ ९-७२० ॥  

कूटत्रयस्य वाग्भवादिसञ्ज्ञा च तत्रैवोक्ता ।

प्रथमं वाग्भवं कूटं द्वितीयं कामकूटकम् ।  
तृतीयं शक्तिकूटं स्यात् कूटत्रयतनुर्मनुः ॥ ९-७२१ ॥  

अथ लोपामुद्राख्या विद्या (ज्ञानार्णवे)

शृणु देवि प्रवक्ष्यामि लोपामुद्राभिधां पराम् ।  
कामराजाख्यविद्यायाः शक्तिं तुया चतु * *म् ॥ ९-७२२ ॥  

हित्वा मुखे शिवेन्द्वाढ्या लोपामुद्रा प्रकाशिता ।  

कामराजाख्यविद्याया वाग्भवे एकारमीकारं च विहायादौ हकारसकारौ दद्यादित्यर्थः । इयमगस्त्योपासिता ।

अथ षोडशी (योगिनीतन्त्रे)

श्रीबीजमाया स्मरयोनिशक्ति-  
स्तारं च माया कमलाऽथ विद्या ॥ ९-७२३ ॥  

शक्त्यादिबीजैश्च विलोमतोक्त्या
श्रीषोडशीयं च शिवोपदिष्टा ।

प्। ७१७) तन्त्रान्तरे ।

श्रीबीजं शक्तिबीजं च कामबीजं च वाग्भवम् ॥ ९-७२४ ॥  

बालान्तसंस्थितं बीजं प्रणवं च ततः परम् ।
शक्तिबीजं रमां चैव विद्यां च परमेश्वरि ॥ ९-७२५ ॥

लोपां वा कामराजं वा त्रिकूटामथ वा पराम् ।  
विन्यस्य प्रणवाद्यानि बीजानि पञ्च सुन्दरि ॥ ९-७२६ ॥  

विपरीतक्रमेणैव विन्यसेत् षोडशीं पराम् ।  

(मायातन्त्रेऽपि)

लक्ष्मीः परा मदनयोनियुता च शक्ति-  
स्तारः परा च कमलाऽप्यथ मूलविद्या ॥ ९-७२७ ॥  

शक्त्यादिभिश्च विपरीततया प्रदिष्टा  
श्रीमन्त्रराज उदितः परदेवतायाः ॥  

(महाकालसंहितायाम्)

अतः परतरा विद्या न भूता न भविष्यति ॥ ९-७२८ ॥  

केनापि नैव शप्तेयं न च केनापि कीलिता ।  

(ज्ञानार्णवे)

वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ॥ ९-७२९ ॥  

वर्णितुं नैव शक्येयं श्रीविद्या षोडशाक्षरी ।  
ब्रह्मविद्या स्वरूपा हि भुक्तिमुक्तिफलप्रदा ॥ ९-७३० ॥  

एकोच्चारेण देवेशि वाजपेयस्य कोटयः ।  
अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा ॥ ९-७३१ ॥  

काश्यादितीर्थयात्राः स्युः सार्धकोटित्रयान्विताः ।  
तुलां नायान्ति देवेशि नात्र कर्या विचारणा ॥ ९-७३२ ॥  

एकोच्चारेण गिरिजे किं पुनर्ब्रह्मकेवलम् ।  
षोडशार्णा महाविद्या न प्रकाश्या कदा चन ॥ ९-७३३ ॥  

प्। ७१८) गोपितव्या त्वया भद्रे स्वयोनिरिव पार्वति ।
अपि प्रियतमे देयं सुतदारधनादिकम् ॥ ९-७३४ ॥

राज्यं देयं शिरो देयं न देया षोडशाक्षरी ।  
सप्तलक्षं महाविद्यास्तन्त्रादौ कथिताः प्रिये ॥ ९-७३५ ॥  

सारात् सारतरा चेयं महाविद्या सुगोपिता ।  

अथ ऋष्यादिन्यासस्तत्रैव ।

ऋषिरस्य महेशानि दक्षिणामूर्तिरव्ययः ॥ ९-७३६ ॥  

पङ्क्तिश्छन्दः समाख्यातं देवी त्रिपुरसुन्दरी ।  
वाग्भवं बीजमित्युक्तं शक्तिस्तु शक्तिकूटकम् ॥ ९-७३७ ॥  

कामराजः कीलकं स्यादृष्यादिन्यास ईरितः ।  

वाग्भवादीनां बीजादिरूपत्वे हेतुरुक्तो (दक्षिणामूर्तिसंहितायाम्)

निःसरन्ति महामन्त्रा महाग्नेर्विष्फुलिङ्गवत् ॥ ९-७३८ ॥  

तथैव मातृका वर्णा निःसृता वाग्भवा प्रिये ।  
अत एवास्य देवस्य वाग्भवं बीजमुच्यते ॥ ९-७३९ ॥  

योषित् पुरुषरूपेण स्फुरन्ती विश्वमातृका ।  
महामोहेन देवेशि कीलयन्ती जगत्त्रयम् ॥ ९-७४० ॥  

अतस्तत्कीलकं देवि तेन सौभाग्यगर्भिता ।
पालयन्ती जगत् सर्वं तेनेयं शक्तिरुच्यते ॥ ९-७४१ ॥

अथ कराङ्गन्यासस्तन्त्रान्तरे ।

अ। आ। सौ। रिति प्रोक्तं बीजं त्रिविधमुत्तमम् ।  
एतद्बीजं द्विरावृत्य मध्यमाद्यङ्गुलीषु च ॥ ९-७४२ ॥  

शुद्धिं करस्य कुर्वीत तलयोः पृष्ठयोरपि ।  
चतुर्थी नतिसंयुक्ता नाममन्त्रैः पृथक् प्र्ठक् ॥ ९-७४३ ॥  

मध्यमाऽनामिका चैव कनिष्ठाङ्गुष्ठतर्जनी ।  

प्। ७१९) क्रमेण नाम चाख्यातमङ्गुलीनां महेश्वरि ॥ ९-७४४ ॥

(नवरत्नेश्वरे)

सर्वज्ञता नित्यसुतृप्तता च अनादिबोधश्च स्वतन्त्रता च ।  
अलुप्तशक्तित्वमनन्तता च षडाहुरङ्गानि शिवे शिवाद्याः ॥ ९-७४५ ॥  

अत्र बहुविधन्यासजालं (ज्ञानार्णवादौ) द्रष्टव्यम् ।
अथ ध्यानम् ।

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।  
पाशाङ्कुशधनुर्बाणधारयन्तीं शिवां श्रये ॥ ९-७४६ ॥  

(सिद्धान्तसङ्ग्रहे महाकालसंहितायां) च ।

उद्यच्चन्द्रोदयक्षुब्धरक्तपीयूषवारिधेः ।  
मध्ये हेममयी भूमी रत्नमाणिक्यमण्डिता ॥ ९-७४७ ॥  

तन्मध्येनन्दनोद्यानं मदनोन्मादनं महत् ।  
नित्याभ्युदितपूर्णेन्दुज्योत्स्नाजालविराजितम् ॥ ९-७४८ ॥  

सदा सह वसन्तेन कामदेवेन रक्षितम् ।  
कदम्बचूतपुन्नागनागकेशरचम्पकैः ॥ ९-७४९ ॥  

वकुलैः पारिजातैश्च सर्वर्त्तुकुसुमोज्ज्वलैः ।  
झङ्कारमुखरैर्भृङ्गैः कूजद्भिः कोकिलैः शुकैः ॥ ९-७५० ॥  

नानावर्णैरथान्यैश्च द्विजसङ्घैर्निषेवितम् ।  
शिखिकारण्डहंसाद्यैर्नानापक्षिभिरावृतम् ॥ ९-७५१ ॥  

नानापुष्पलताकीर्णैः शोभितं वृक्षखण्डकैः ।  
पर्यन्तदीर्घिकोत्फल्लकमलोत्पलसम्भवैः ॥ ९-७५२ ॥  

रजोभिर्धूसरैः सम्यक् सेवितं मलयानिलैः ।  
ध्यात्वैवं नन्दनोद्यानं तदन्तः प्राङ्गणं स्मरेत् ॥ ९-७५३ ॥  

शुद्धकाञ्चनसङ्काशवसुधाभिरलङ्कृतम् ।  
प्राङ्गणं चिन्तयित्वेत्थं सुरसिद्धनिषेवितम् ॥ ९-७५४ ॥  

प्। ८००) तन्मध्ये मण्डपं ध्यायेद्व्याप्तब्रह्माण्डमण्डलम् ।
सहस्रादित्यसङ्काशं चतुरस्रं सुशोभितम् ॥ ९-७५५ ॥

रत्नतेजःप्रभापुञ्जपिञ्जरीकृतदिङ्मुखम् ।  
मध्यस्तम्भविनिर्मुक्तं कोणस्तम्भसमन्वितम् ॥ ९-७५६ ॥  

महामाणिक्यवैदूर्यरत्नकाञ्चनभूषितम् ।  
मुक्तादामवितानाढ्यं रत्नसोपानमण्डितम् ॥ ९-७५७ ॥  

मन्दवायुसमाक्रान्तं गन्धधूपतरङ्गितम् ।  
रत्नचामरघण्टादिवितानैरुपशोभितम् ॥ ९-७५८ ॥  

जातीचम्पकपुन्नागकेतकीमल्लिकादिभिः ।  
रक्तोत्पलसिताम्भोजमाधवीभिः सुपुष्पकैः ॥ ९-७५९ ॥  

बद्धाभिश्चित्रमालाभिः सर्वत्र समलङ्कृतम् ।  
तिर्यगूर्ध्वलसद्रक्तपुत्तलीकोटिमण्डितम् ॥ ९-७६० ॥  

नानारत्नादिभिर्दिव्यैर्निर्मितं विश्वकर्मणा ।  
तन्मध्ये भावयेन्मन्त्री परिजातं मनोहरम् ॥ ९-७६१ ॥  

स्वर्णादिरत्नभूमिं च वालुकां काञ्चनप्रभाम् ।  
उद्यदादित्यसङ्काशं व्याप्तब्रह्माण्डमण्डपम् ॥ ९-७६२ ॥  

शतयोजनविस्तीर्णं ज्योतिर्मन्दिरमुत्तमम् ।  
चतुर्द्वारसमायुक्तं हेमप्राकारमण्डितम् ॥ ९-७६३ ॥  

रत्नोपकॢप्तिसंशोभिकपाटाष्टकसंयुतम् ।  
नवरत्नसमाकॢप्ततुङ्गगोपुरतोरणम् ॥ ९-७६४ ॥  

हेमदण्डशिखालम्बिध्वजावलिपरिष्कृतम् ।  
मध्यकोणस्थितस्तम्भनवरत्नसमन्वितम् ॥ ९-७६५ ॥  

महामाणिक्यवैदूर्यरत्नचामरशोभितम् ।  
कल्पवृक्षे गिरेः पार्श्वे छत्रं तन्मण्डपोपरि ॥ ९-७६६ ॥  

प्। ८०१)

सुवर्णसूत्रै रचितं तन्मध्ये रत्नमण्डपम् ।  
तन्मध्ये स्फुरितं ध्यायेत् त्रिशृङ्गं ज्योतिरुत्तमम् ॥ ९-७६७ ॥  

तस्य मध्ये महाचक्रं पीयूषपरिपूरितम् ।
रत्नसिंहासनं तस्या वेद्या मध्ये स्मरेच्छुभम् ॥ ९-७६८ ॥

विरिञ्चिविष्णुरुद्रेशरूपपादचतुष्टयम् ।  
सदाशिवमयं साक्षात् तस्मिन् परशिवात्मकम् ॥ ९-७६९ ॥  

पुष्पपर्यङ्कतन्मध्ये श्रीमदुद्यानपीठके ।  
पर्यङ्कबन्धविलसत्स्वस्तिकासनशालिनीम् ॥ ९-७७० ॥	  

ध्यायेत् परशिवाङ्कस्थां पद्ममध्योज्ज्वलाकृतिम् ।
त्रिपुरां सुन्दरीं देवीं बालार्ककिरणारुणाम् ॥ ९-७७१ ॥

जपाकुसुमसङ्का�सां दाडिमीकुसुमोपमाम् ।
पद्मरागप्रतीकाशां कुङ्कुमारुणसन्निभाम् ॥ ९-७७२ ॥

स्फुरन्मुकुटमाणिक्यकिङ्किणीजालमण्डिताम् ।  
कालालिकुलसङ्काशकुटिलालकपल्लवाम् ॥ ९-७७३ ॥  

प्रत्यगारुण सङ्काशवदनाम्भोजमण्डिताम् ।  
किञ्चिदर्धेन्दुकुटिलललाटमृदुपट्टिकाम् ॥ ९-७७४ ॥  

पिनाकधनुराकारभ्रूलतां परमेश्वरीम् ।  
आनन्दमुदितोल्लासलीलां दोलितलोचनाम् ॥ ९-७७५ ॥  

स्फुरन्मयूखसङ्घातविलसद्धेमकुण्डलाम् ।  
स्वगण्डमण्डलाभोगजितेन्द्वमृतमण्डलाम् ॥ ९-७७६ ॥  

विश्वकर्मविनिर्माणसूत्रविस्पष्टनासिकाम् ।  
ताम्रविद्रुमविम्बाभरक्तोष्ठीममृतोपमाम् ॥ ९-७७७ ॥  

दाडिमीबीजपङ्क्त्याभदन्तपङ्क्तिविराजिताम् ।  
स्मितमाधुर्यविजितमाधुर्यरससागराम् ॥ ९-७७८ ॥  

प्। ८०२) अनौपम्यगुणोपेतचिवुकोद्देशशोभिताम् ।
कम्बुग्रीवां महादेवीं मृणालसदृशैर्भुजैः ॥ ९-७७९ ॥

रक्तोत्पलदलाकारसुकुमारकरां भुजाम् ।  
कराम्बुजनखज्योतिर्विद्योतितनभस्तलाम् ॥ ९-७८० ॥  

मुक्ताहारलतोपेतसमुन्नतपयोधराम् ।  
त्रिवलीवलयामुक्तमध्यदेशसुशोभिताम् ॥ ९-७८१ ॥  

लावण्यसरिदावर्त्तनिम्ननाभिविभूषिताम् ।  
अनर्घ्यरत्नघटितकाञ्चीयुतनितम्बिनीम् ॥ ९-७८२ ॥  

नितम्बबिम्बद्विरदरोमराजिवराङ्कुशाम् ।  
कदलीललितस्तम्भसुकुमारोरुमीश्वरीम् ॥ ९-७८३ ॥  

लावण्यकुसुमाकारजानुमण्डलबन्धुराम् ।  

लावण्यकदलीतुल्यजङ्घायुगलमण्डिताम् ॥ ९-७८४ ॥

गूढगुल्फपदद्वन्द्वप्रपदाजितकच्छपाम् ।
तनुं दीर्घाङ्गुलीच्छन्ननखराजिविराजिताम् ॥ ९-७८५ ॥

ब्रह्मविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् ।  
शीतांशुशतसङ्काशकान्तिसन्तानहासिनीम् ॥ ९-७८६ ॥  

लौहित्यजितसिन्दूरजपादाडिमरागिणीम् ।  
रक्तवस्त्रपरीधानां पाशाङ्कुशकरोद्यताम् ॥ ९-७८७ ॥  

रक्तपद्मनिविष्टां तु रक्ताभरणभूषिताम् ।  
जगदाह्लादजननीं जगद्रञ्जनकारिणीम् ॥ ९-७८८ ॥  

चतुर्भुजां त्रिनेत्रां तु पञ्चबाणधनुर्धराम् ।  
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ॥ ९-७८९ ॥  

महामृगमदोद्दामकुङ्कुमारुणविग्रहाम् ।  
सर्वशृङ्गारवेशाढ्यां सर्वाभरणभूषिताम् ॥ ९-७९० ॥  

प्। ८०३) जगदानन्दजननीं जगद्रञ्जनकारिणीम् ।
जगदाकर्षणकरीं जगत्कारणरूपिणीम् ॥ ९-७९१ ॥

सर्वलक्ष्मीमयीं नित्यां सर्वशक्तिमयीं भजे ।  

अथ दीपिनीविद्या तत्रैव ।

वाङ्मायाकमलाबीजं वाग्भवाद्ये नियोजयेत् ॥ ९-७९२ ॥  

तारं लक्ष्मीं च वाग्बीजं मन्मथं भुवनेश्वरीम् ।
तज्जप्त्वा च ततः पश्चाद्वाग्भवाख्यं समुच्चरेत् ॥ ९-७९३ ॥

प्रणवं भुवनेशानीं रमां कामं च वाग्भवम् ।  
कामराजं ततो जप्त्वा त्रैलोक्यक्षोभकारकम् ॥ ९-७९४ ॥  

ओङ्कारं चापि वाग्बीजं रमां मन्मथमायया ।  
स्वप्नावतीं महादेवि जपेत् तत्र समाहितः ॥ ९-७९५ ॥  

प्रणवं चाधरं कामं रमां च भुवनेश्वरीम् ।  
मधुमतीं ततो जप्त्वा मायाश्रीकूर्चबीजकम् ॥ ९-७९६ ॥  

प्रणवाद्यं च देवेशि हंसबीजपुटीकृतम् ।  
एतद्बीजं समुच्चार्य शक्तिकूटं ततो जपेत् ॥ ९-७९७ ॥  

जपनियमस्तु ।

जपेदादौ जपेत् पश्चात् सप्त वाराननुक्रमात् ।  
कामराजादिबीजानां दीपनं चैव कारयेत् ॥ ९-७९८ ॥  

अथ पुरश्चरणविधिः (वामकेश्वरतन्त्रे)

तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपधृक् ।  
किंशुकैर्हवनं कुर्याद्दशांशं च वरानने ॥ ९-७९९ ॥  

कुसुम्भकुसुमैर्वाऽपि मधुरत्रयमिश्रितैः ।  

(सिद्धान्तसारेऽपि)

लक्षमात्रं जपेद्विद्यां हविष्याशी जितेन्द्रियः ॥ ९-८०० ॥  

होमं कुर्याद्दशांशेन किंशुकैर्मधुराप्लुतैः ।  

प्। ८०४) एवं सिद्धमनुर्मन्त्री प्रयोगान् कर्त्तुमर्हति � इति ॥ ९-८०१ ॥

अथ त्रिपुरभैरवमन्त्रः (वामकेश्वरे)

माया लक्ष्मीस्तथा हंसः प्रासादबीजमेव च ।  
वह्निजायान्तको मन्त्रो भवेत् त्रैपुरभैरवः ॥ ९-८०२ ॥  

षडङ्गमूलमन्त्रेण वलिपूजादिकं तथा ।  

अथ ध्यानम् ।

एकवक्क्रं त्रिनयनं चतुर्बाहुसमन्वितम् ॥ ९-८०३ ॥  

दक्षिणे चाङ्कुशं खड्गं वामे खेटकपाशकौ ।  
धारयन्तं रक्तवर्णं वृषासनगतं विभुम् ॥ ९-८०४ ॥  

उर्द्ध्वकेशं हारहारं कपालमालयाऽन्वितम् ।  
एवंविधं महादेवि ध्यायेत् त्रिपुरभैरवम् ॥ ९-८०५ ॥  

अस्य पुरश्चरणं षोडशीपुरश्चरणसमानम् ।
अथ बालामन्त्रः (त्रिपुरासारसमुच्चये)

अथ त्रिलोकार्चितशासनाया  
वक्ष्यामि बीजत्रयमम्बिकायाः ।  
गोप्तव्यमेतत् कुलधर्मविद्भि �  
रमुष्य हेतोर्निजसिद्धये च ॥ ९-८०६ ॥  

कान्तादिभूतपदगं कगतार्धचन्द्रं  
दन्तान्तपूर्वजलधिस्थितवर्णयुक्तम् ।  
एतज्जपं नरवरो भुवि वाग्भवाख्यं  
वाचां सुधारसमुचां लभते स सिद्धिम् ॥ ९-८०७ ॥  

कान्तान्तं कुलपूर्वपञ्चमयुतं नेत्रान्तदण्डान्वितं  
कामाख्यं गदितं जपान्मनुरयं साक्षाज्जगत्क्षोभकृत् ।  
दन्तान्तेन युतं सदण्डिसकलं सम्मोहनाख्यं कुलं  

प्। ८०५) सिध्यत्यस्य गुणाष्टकं खचरतासिद्धिश्च नित्यं जपात् ॥ ९-८०८ ॥

ऋषिर्दक्षिणामूर्तिसञ्ज्ञो महात्मा  
भवेच्छन्द एतस्य मन्त्रस्य पङ्क्तिः ।  
सरस्वत्यचिन्त्यप्रभावा प्रदिष्टा ।  
बुधैर्देवता देववृन्दार्चिताङ्घ्रिः ॥ ९-८०९ ॥  

अमुष्य मन्त्रस्य रदान्तयुक्तं बीजं सदण्डं नकुलीशपूर्वम् ।  
शक्तिस्तु सा खण्डलकर्णपूर्वसहार्धजैवातृकमाननान्तम् ॥ ९-८१० ॥  

(मेरुतन्त्रे तु)

बालाबीजं वाग्भवं स्यात् तार्त्तीयं शक्तिरुच्यते ।  
कीलकं कामराजः स्याद्द्विरावृत्या षडङ्गकम् � इत्युक्तम् ॥ ९-८११ ॥  

(त्रिपुरासारसमुच्चये)

वर्णः शुक्लो मुनिभिस्त्रिभुवनमहितस्य मन्त्रराजस्य ।  
आगमपारगमतिभिर्गान्धारोऽस्य स्वरो गदितः ॥ ९-८१२ ॥  

विद्यामूलोत्पत्तिरेषा मयोक्ता  
ज्ञातव्येयं सर्वथा सिद्धिकामैः ।  
देव्या शप्ता येन विद्येयमाद्या  
पूर्वं तेन प्राणहीनाऽभवत् सा ॥ ९-८१३ ॥  

ज्ञातव्येत्यनेन तु जप्तव्येति सूचितम् ।
देव्या शष्तेत्यनेन च निषेधहेतुर्दर्शितः । शापनिर्मुक्तिप्रकारस्तु तत्रैवोक्तः ।

शिवशक्तिबीजमत एव शम्भुना  
निहितं तयोरुपरि पूर्वबीजयोः ।  
अकुलं कुलोपरि च मध्यसाधरे  
दहनं ततः प्रभृति सोर्जिताऽभवत् ॥ ९-८१४ ॥  

सञ्ज्ञाभेदमाह ।

भैरवीयमुदिता कुलपूर्वा देशिकैर्यदि भवेत् कुलपूर्वा ।  

प्। ८०६) सैव शीघ्रफलदा भुवि विद्येत्युच्यते पशुजनेष्वतिगोप्या ॥ ९-८१५ ॥

अकुलं हकारस्तत्पूर्वा चेद्भैरवी । कुलं सकारस्तत्पूर्ण चेद्विद्येत्युच्यत इत्यर्थः आद्यन्तबीजयोर्वह्निबीजाभावाद्वक्ष्यमाणत्रिपुरभैरवोविद्यावैल-क्षण्यमस्या बोद्धव्यम् ।
अस्या ध्यानमुक्तं (मेरुतन्त्रे)

अभयं पुस्तकं बालां वरं च दधतीं करैः ।  
अरुणामरुणाब्जस्थां रक्तवस्त्रां द्विजेशकाम् ॥ ९-८१६ ॥  

तन्त्रान्तरे तु ।

संस्मरेत् त्रिपुरां बालां शरच्चन्द्रसमप्रभाम् � इति ।  

शुक्लवर्णेयमुक्ता ।
(त्रिपुरासारसमुच्चये)

पाशाङ्कुशाभयवरोद्यतपाणिपद्माम्���-इत्यायुधविशेष उक्तः ॥ ९-८१७ ॥

अथ पुरश्चरणं (ज्ञानार्णवे)

वर्णलक्षं जपेन्मन्त्रं दशांशं हवनं चरेत् ।  
तर्पणादि ततः कुर्यात् सर्वसौभाग्यभाग्भवेत् � इति ॥ ९-८१८ ॥  

इति श्रीविद्याप्रकरणम् ।

अथ भुवनेश्वरोविद्या (शारदायाम्)

अथ वक्ष्ये जगद्धात्रोमधुना भुवनेश्वरीम् ।  
ब्रह्मादयोऽपि यां ज्ञात्वा लेभिरे श्रियमूर्जिताम् ॥ ९-८१९ ॥  

नकुलीशोऽग्निमारुढो वामनेत्रार्धचन्द्रवान् ।  
बीजं तस्याः समाख्यातं सेवितं सिद्धिकाङ्क्षिभिः ॥ ९-८२० ॥  

ऋषिः शक्तिर्भवेच्छन्दो गायत्री देवता मनोः ।  
कथिता सुरसङ्घेन सेविता भुवनेश्वरी ॥ ९-८२१ ॥  

षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् ।  

अथ ध्यानम् ।

उद्यदिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ॥ ९-८२२ ॥  

स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजेद्भुवनेशीम् ।  

प्। ८०७) अथ पुरश्चरणम् ।

प्रजपेन्मन्त्रविन्मन्त्रं द्वात्रिंशल्लक्षमानतः ॥ ९-८२३ ॥  

त्रिस्वादुयुक्तैर्जुहुयादष्टद्रव्यैर्दशांशतः ।  

अथ मन्त्रान्तरं तत्रैव ।

वाग्भवं शम्भुवनिता रमा बीजत्रयात्मकम् ॥ ९-८२४ ॥  

मन्त्रं समुद्धरेन्मन्त्री त्रिवर्गफलसाधनम् ।  
षड्दीर्घभाजा मध्येन वाग्भवाद्येन कल्पयेत् ॥ ९-८२५ ॥  

षडङ्गानि मनोरस्य जातियुक्तानि मन्त्रवित् ।  

अथ ध्यानम् ।

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् �  
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ॥ ९-८२६ ॥  

पाणिभ्यां मणिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं  
सौम्यां रत्नघटस्थसव्यचरणां ध्यायेत् परामम्बिकाम् ॥  

अब पुरश्चरणम् ।

रविलक्षं जपेन्मन्त्रं पायसैर्मधुराप्लुतैः ॥ ९-८२७ ॥  

दशांशं जुहुयान्मन्त्री पीठे प्रागीरिते यजेत् ।  

अथ मन्त्रान्तरं तत्रैव ।

वाग्बीजपुटिता माया विद्येयं त्र्यक्षरी मता ॥ ९-८२८ ॥  

मध्येन दीर्घयुक्तेन वाक्पुटेन प्रकल्पयेत् ।  
अङ्गानि जातियुक्तानि क्रमेण मनुवित्तमः ॥ ९-८२९ ॥  

अथ ध्यानम् ।

श्यामाङ्गीं शशिशेखरां निजकरैर्दानं च रक्तोत्पलं  
रत्नाढ्यं चषकं परं भयहरं सम्बिभ्रतीं शाश्वतीम् ।  
मुक्ताहारलसत्पयोधरनतां नेत्रत्रयोल्लासिनीं  
वन्देऽहं सुरपूजितां हरवधूं रक्तारविन्दस्थिताम् ॥ ९-८३० ॥  

प्। ८०८) अथ पुरश्चरणम् ।

तत्त्वलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ।  
पालाशपुष्पैः स्वाद्वक्तैः पुष्पैर्वा राजवृक्षकैः ॥ ९-८३१ ॥  

अथ मन्त्रान्तरं तत्रैव ।

अनन्तो विन्दुसंयुक्तो मायाब्रह्माग्नितारवान् ।  
पाशादिस्त्र्यक्षरो मन्त्रः सर्ववश्यफलप्रदः ॥ ९-८३२ ॥  

ऋष्याद्याः पूर्वमुक्ताः स्युर्बीजेनाङ्गक्रिया मता ।  

अथ ध्यानम् ।

वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ॥ ९-८३३ ॥  

बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां भुवनेश्वरीं ताम् ।  

अथ पुरश्चरणम् ।

हविष्यभुग्जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः ॥ ९-८३४ ॥  

षट्सहस्रं प्रजुहुयाज्जपान्ते मन्त्रवित्तमः ।  
दधिक्षौद्रघृताक्ताभिः समिद्भिः क्षीरभूरुहाम् ॥ ९-८३५ ॥  

तत्सङ्ख्यया तिलैः शुद्धैः पयोऽक्तैर्जुहुयात् ततः ।  

अस्याः पुमान्महादेवः । तन्मन्त्रः पञ्चाक्षरस्तत्प्रकरण एवोक्तः ।

इति भुवनेश्वरीविद्याप्रकरणम् ।

अथ भैरवीविद्या ।

तत्रादौ त्रिपुरभैरवीविद्या प्रोक्ता (शारदायाम्)

अथ वक्ष्ये परां विद्यां त्रिपुरामतिगोपिताम् ॥ ९-८३६ ॥  

यां ज्ञात्वा सिद्धसङ्घानामधिपो जायते नरः ।  
वियद्भृगुहुताशस्थो भौतिको विन्दुशेखरः ॥ ९-८३७ ॥  

वियत् तदादिकेन्द्राग्निस्थितं वामाक्षिविन्दुमत् ।  
आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् ॥ ९-८३८ ॥  

वाग्भवं प्रथमं बीजं कामबीजं द्वितीयकम् ।  

प्। ८०९) तृतीयं शक्तिबीजाख्यं त्रिभिर्बीजैरितीरिता ॥ ९-८३९ ॥

पञ्चकूटात्मिका विद्या वेद्या त्रैपुरभैरवी ।
ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पङ्क्तिः समीरितम् ॥ ९-८४० ॥

देवता देशिकैरुक्ता देवी त्रिपुरभैरवी ।  

तथा ।

षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मता ॥ ९-८४१ ॥  

न्यासान्तराणि विस्तरभयादुपेक्षितानि पुरश्चरणस्यैवात्र निरूपणीयत्वात् ।

अथ ध्यानम् ।

उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां  
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वराम् ।  
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्क्रारविन्दश्रियं  
देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम् ॥ ९-८४२ ॥  

अथ पुरश्चरणम् ।

दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः ।  
पुष्पिर्भानुसहस्राणि जुहुयाद्ब्रह्मवृक्षजैः ॥ ९-८४३ ॥  

त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः ।  

तत्त्वलक्षं लक्षत्रयम् ।
अथ चैतन्यभैरवीमन्त्रो (मेरुतन्त्रे)

चैतन्यभैरवीमन्त्रस्त्र्यक्षरः कथ्यतेऽधुना ॥ ९-८४४ ॥  

सहावैकारसंयुक्तौ प्रथमं बीजमीरितम् ।  
सकला ह्री। समायुक्ता द्वितीयं बीजमुच्यते ॥ ९-८४५ ॥  

सहारा औसमायुक्ता विसर्गान्तास्तृतीयकम् ।  

अत्र त्रिभिर्बीजैर्द्विरावृत्त्या षडङ्गन्यासः कार्यः ।
अथ ध्यानम् ।

उद्यद्भानुसहस्राभां नानालङ्कारभूषिताम् ॥ ९-८४६ ॥  

मुकुटोर्ध्वलसच्चन्द्ररेखां रक्ताम्बराञ्चिताम् ।  

प्। ८१०) पाशाङ्कुशधरां नित्यां वामहस्तकपालिनीम् ॥ ९-८४७ ॥

वरदाभयशोभाढ्यां पीनोन्नतघनस्तनीम् ।
एवं ध्यात्वा यजेद्देवीं पूर्वसिंहासने स्थिताम् ॥ ९-८४८ ॥

पुरश्चर्यादिकं प्राग्वत् प्रयोगा।श्चापि साधयेत् ।  

प्राग्वदिति त्रिपुरभैरवीवत् ।
अथ भुवनेश्वरभैरवीमन्त्रस्तत्रैव ।

अथातः सम्प्रवक्ष्यामि भुवनेश्वरभैरवीम् । ८४९ ॥  

हसावैकारसंयुक्तौ प्रथमं बीजमीरितम् ।  
हसकला ह्री। समेता द्वितीयं बीजमुच्यते ॥ ९-८५० ॥  

हसावौकारसंयुक्तौ विसर्गान्तं तृतीयकम् ।  
षड्दीर्घान्वितमध्येन बीजेनोक्तं षडङ्गकम् ॥ ९-८५१ ॥  

अथ ध्यानम् ।

जपाकुसुमसङ्काशां दाडिमीकुसुमप्रभाम् ।  
चन्द्ररेखाजटाजूटां त्रिनेत्रां रक्तवाससम् ॥ ९-८५२ ॥  

नानालङ्कारशुभगां पीनोन्नतघनस्तनीम् ।  
पाशाङ्कुशवराभीतीर्दधानां च शिवां श्रये ॥ ९-८५३ ॥  

चैतन्यभैरवीवत् स्याद्यद्यन्नोक्तमिहार्थवत् ।  

अस्याः पुरश्चरणं तु त्रिपुरभैरवीपुरश्चरणवद्बोध्यम् ।
अथ कमलेश्वरीभैरवी तत्रैव ।

अथातः सम्प्रवक्ष्यामि भैरवीं कमलेश्वरीम् ।  
हसस्थाने सहेत्युक्त्वा सर्वं मन्त्रादि पूर्ववत् ॥ ९-८५४ ॥  

राज्ञा ज्ञाता ततः शप्ता तुहिनागेऽभवन्नदी ।  
त्यक्तस्तया वाममार्गो राजभीत्या तु मत्कृते ॥ ९-८५५ ॥  

यतो लब्धं तया दुःखं कलौ ख्यातिं गमिष्यति ।  
प्रनष्टेषु च देवेषु प्रत्यक्षेयं भविष्यति ॥ ९-८५६ ॥  

प्। ८११) अवर्णाश्चापि वर्णाश्च भविष्यन्ति वरप्रदाः ।
त्यक्त्वा मपञ्चकं पूजां कृत्वा ये जपतत्पराः ॥ ९-८५७ ॥

अस्यास्तीरे पुरश्चर्या नवकात् सम्प्रसीदति ।  
भुवनेशी भैरवी तु कृत्वा रूपान्तरं मम ॥ ९-८५८ ॥  

कार्यार्थं बहवः शिष्याः कौलिका वामिनः कृताः ।  
तस्या ध्यानाद्यर्चनादि प्राग्वद्दक्षिणमार्गतः ॥ ९-८५९ ॥  

अथ सम्पत्प्रदाभैरवी (ज्ञानार्णवे)

यथाऽसौ त्रिपुरा बाला तथा त्रिपुरभैरवी ।  
सम्पत्प्रदा नाम तस्याः शृणु निर्मलमानसे ॥ ९-८६० ॥  

शिवश्चन्द्रो वह्निसंस्थो वाग्भवं तदनन्तरम् ।  
कामबीजं तथा देवि शिवचन्द्रान्वितं ततः ॥ ९-८६१ ॥  

पृथ्वीबीजं तु वह्न्याढ्यं तार्त्तीयं शृणु वल्लभे ।  
शक्तिबीजे महेशानि शिववह्नी नियोजयेत् ॥ ९-८६२ ॥  

कुमार्याः परमेशानि हित्वा सर्गं तु वैन्दवम् ।  
त्रिपुराभैरवी देवी महासम्पत्प्रदा प्रिये ॥ ९-८६३ ॥  

त्रिपुरभैरवी विसर्गरहिता सम्पत्प्रदा भवति ।

न्यासपूजादिकं सर्वं त्रिपुराभैरवीसमम् ।  

ध्यानं यथा ।

आताम्रार्कसहस्राभां स्फुरच्चन्द्रकलाजटाम् ॥ ९-८६४ ॥  

किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् ।  
गलद्रुधिरपङ्काढ्यमुण्डमालाविराजिताम् ॥ ९-८६५ ॥  

नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् ।  
मुक्ताहारलताराजत्पीनोन्नतघनस्तनीम् ॥ ९-८६६ ॥  

रक्ताम्बरपरीधानां यौवनोन्मत्तरूपिणीम् ।  

प्। ८१२) पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् ॥ ९-८६७ ॥

वरदानरतां नित्यां महासम्पत्प्रदां स्मरेत् ।  

अस्याः पुरश्चरणमपि पूर्ववद्बोध्यम् ।
अथ कौलेशभैरवी तत्रैव ।

सम्पत्प्रदाभैरवीवद्विद्धि कौलेशभैरवीम् ॥ ९-८६८ ॥  

हसराद्यैव देवेशि त्रिषु बीजेषु पार्वति ।  
इयं तु सहराद्या स्याद्ध्यानपूजादिकं तथा ॥ ९-८६९ ॥  

त्रिपुरभैरवीवदिति शेषः । आदिपदात् पुरश्चरणस्यापि सङ्ग्रहः ।
अथ कामेश्वरभैरवी तत्रैव ।

कामेश्वरी च रुद्रार्णा पूर्वसिंहासने स्थिता ।  
एतस्या एव विद्याया बीजद्वयमुदाहृतम् ॥ ९-८७० ॥  

तदन्ते परमेशानि नित्यक्लिन्ने मदद्रवे ।  
एतस्या एव तार्त्तीयं रुद्रार्णा परमेश्वरि ॥ ९-८७१ ॥  

ध्यानपूजादिकं देवि चैतन्यावत् समीरितम् ।  

एवं पुरश्चरणमपि ।
अथ षट्कूटाभैरवी (ज्ञानार्णवे)

डाकिनीराकिनीबीजे लाकिनीकाकिनीयुगम् ॥ ९-८७२ ॥  

शाकिनीहाकिनीबीजे आहृत्य सुरसुन्दरि ।  
आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् ॥ ९-८७३ ॥  

शक्रस्वरान्वितं देवि तार्त्तीयं बीजमालिखेत् ।  
विन्दुनादकलाक्रान्तं तृतीयं शैलसम्भवे ॥ ९-८७४ ॥  

द्विरावृत्त्या षडङ्गानि विधाय परमेश्वरि ।  

पुरश्चरणं तु पूर्ववत् ।
अथ नित्याभैरवी तत्रैव ।

एतस्या एव विद्यायाः षडर्णाः क्रमशः स्थिताः ॥ ९-८७५ ॥  

प्। ८१३) विपरीतान् वद प्रौढे विद्येयं भोगमोक्षदा ।
न्यासपूजादिकं सर्वमस्याः पूर्ववदाचरेत् ॥ ९-८७६ ॥

अथ रुद्रभैरवी तत्रैव ।

शिवचन्द्रौ मादनान्तं पान्तं वह्निसमन्वितम् ।  
शक्तिभिन्नं विन्दुनादकलाढ्यं वाग्भवं प्रिये ॥ ९-८७७ ॥  

सम्पत्प्रदाया भैरव्याः कामबीजं तदेव हि ।  
सदाशिवस्य बीजं तु महासिंहासनस्य च ॥ ९-८७८ ॥  

सदाशिवबीजं प्रेतबीजम्

एषा विद्या महेशानि वर्णितुं नैव शक्यते ।  

ऋष्यादिन्यासस्त्रिपुरभैरवीवत् ।
अथ ध्यानम् ।

उद्यद्भानुसहस्राभां चन्द्रचूडां त्रिलोचनाम् ।  
नानालङ्कारशुभगां सर्ववैरिनिकृन्तनीम् ॥ ९-८७९ ॥  

वमद्रुधिरमुण्डालीकलितां रक्तवाससम् ।  
त्रिशूलं डमरूं खड्गं तथा खेटकमेव च ॥ ९-८८० ॥  

पिनाकं च शरान् देवीं पाशाङ्कुशयुतं क्रमात् ।  
पुस्तकं चाक्षमालां च शिवसिंहासनस्थिताम् ॥ ९-८८१ ॥  

तन्त्रान्तरे ।

न्यासपूजादिकं सर्वं त्रिपुराभैरवीसमम् ।  

एवं पुरश्चरणमपि । अत्र भैरवो वटुकस्तन्मन्त्रपुरश्चरणं शिवप्रकरणे प्रोक्तम् ।

इति भैरवीप्रकरणम् ।

अथ छिन्नमस्ताविद्या ।

(विश्वसारे यामले च)

प्रचण्डचण्डिकां वक्ष्ये सर्वकामफलप्रदाम् ॥ ९-८८२ ॥  

यस्याः प्रसादमात्रेण शिव एव भवेन्नरः ।  
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ॥ ९-८८३ ॥  

प्। ८१४) कवित्वं च सुपाण्डित्यं लभते नात्र संशयः ।

मन्त्रोद्धारमाह ।

लक्ष्मीं लज्जां ततो मायां मात्राद्वादशिकामथ ॥ ९-८८४ ॥  

वज्रवैरोचनीये च माये फट्स्वाहया युते ।  
लक्ष्मीबीजं यदाऽद्यं स्यात् तदा श्रीः सर्वतोमुखी ॥ ९-८८५ ॥  

लज्जाबीजेन चाद्येन वश्यतां यान्ति योषितः ।  
मायाबीजेन चाद्येन महापातकनाशनम् ॥ ९-८८६ ॥  

मात्राद्वादशिकाबीजमाद्यं स्यान्मुक्तिदायकम् ।  

अत्र लज्जापदं कामबीजपरम् ।
तथा चोक्तम् ।

अत्र लज्जापदं देवि कामबीजपरं भवेत् ।  
महाकालमतं प्रोक्तं मन्त्रोद्धारं शुभावहम् � इति ॥ ९-८८७ ॥  

मन्त्रोद्धारश्लोकस्थलज्जापदस्य तु मायाबीजपरत्वेऽपि न क्षतिः ।
श्रीबीजानन्तरं क्वचित् कामबीजस्य क्वचिन्मायाद्वयस्य च दर्शनात् । मायापदस्य क्व चित् कूर्चपरत्वमपि दृश्यते ।

सविन्दुवामश्रुतियुग्वियन्माया प्रकीर्तिता � इति ।  

मात्राद्वादशिका वाग्भवम् ।
(विश्वसारे)

ताराद्या षोडशी चान्या भवेत् सप्तदशाक्षरी ।  
एषा विद्या महाविद्या भुक्तिमुक्तिकरी सदा ॥ ९-८८८ ॥  

तदुक्तं (मेरुतन्त्रे)

प्रणवं च रमां लज्जां बीजद्वन्द्वं च वाग्भवम् ।  
वज्रवैरोचनीये ह्री। ह्री। फट्स्वाहा घनाक्षरः ॥ ९-८८९ ॥  

भैरवोऽस्य मुनिः प्रोक्तः सम्राट्छन्द उदाहृतम् ।  
छिन्नमस्ता भवेद्देवी वाममार्गेण सिद्धिदा ॥ ९-८९० ॥  

प्। ८१५) (यामलादौ)

आसामृषिर्भैरवोऽहं नाम्ना तु क्रोधभूपतिः ।  
सम्राट्छन्दो देवता च छिन्नमस्ता प्रकीर्तिता ॥ ९-८९१ ॥  

मायाबीजं स्वाहा शक्तिः कथिता ब्रह्मयोनिना ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ९-८९२ ॥

(मेरौ)

आ। खड्गाय हृदाख्यातमी। सुखड्गाय मस्तकम् ।  
ॐ वज्राय शिखा प्रोक्ता ऐ। पाशाय तनुच्छदम् ॥ ९-८९३ ॥  

औमङ्कुशाय नेत्रं स्यादश्वासुरक्षयाय च ।  
हू। हू। नवार्णोऽस्त्रमन्त्रः सर्वे स्युः प्रणवादिकाः ॥ ९-८९४ ॥  

स्वाहान्ताः सर्व एवैते ततो ध्यानं समाचरेत् ।  

ध्यानं यथा ।

भास्वन्मण्डमध्यस्थां विपरीतरतस्थितौ ॥ ९-८९५ ॥  

रतिकामौ समारूढां विकीर्णसकलालकाम् ।  
वामे करे निजशिरश्छिन्नं सन्दधतीं पुनः ॥ ९-८९६ ॥  

गलान्निर्गतमस्रं च पिवन्तीं तन्मुखेन च ।  
डाकिनीवर्णिनीभ्यां च सखीभ्यां परिवारिताम् ॥ ९-८९७ ॥  

अथ मन्त्रान्तरम् (महाकालसंहितायाम्)

अथातश्छिन्नमस्ताया मन्त्रं ते व्याहराम्यहम् ।  
जिघृक्षयाऽपि यस्य स्युः साधकस्याष्ट सिद्धयः ॥ ९-८९८ ॥  

नातः परतरा का चिदुग्रा देवी भविष्यति ।  
तस्मादसक्तैर्मनुजैर्न ग्राह्येयं कथं चन ॥ ९-८९९ ॥  

सिद्धिर्वा मृत्युरपि वा द्वयोरेकतरं भवेत् ।  
प्रणवं च रमाबीजं लज्जां वाग्भवमेव च ॥ ९-९०० ॥  

वज्रवैरोचनीये च इत्येवं तत उद्धरेत् ।  

प्। ८१६)

क्रोधद्वयं ततश्चास्त्रं स्वाहान्तः षोडशाक्षरः ॥ ९-९०१ ॥  

अस्य न्यासादिकं पूर्ववत् कार्यम् ।
अथ ध्यानम्

ध्यानमस्याः प्रवक्ष्यामि तत्र चेतो निवेशय ।  
स्वनाभौ नीरजं ध्यायेत् शुद्धं विकशितं सितम् ॥ ९-९०२ ॥  

तत्पद्मकोशमध्ये तु मण्डलं चण्डरोचिषः ।  
जपाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् ॥ ९-९०३ ॥  

रजःसत्त्वतमोरेखायोनिमण्डलसन्निभम् ।  

मध्ये तस्या महादेवीं सूर्यकोटिसमप्रभाम् ॥ ९-९०४ ॥

छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ।
प्रसारितमुखीं भीमां लेलिहानोग्रजिह्विकाम् ॥ ९-९०५ ॥

पिवन्तीं रक्तधारां च निजकण्ठसमुद्भवाम् ।  
विकीर्णकेशपाशां तां नानापुष्पसमन्विताम् ॥ ९-९०६ ॥  

दक्षिणे च करे कर्त्त्री मुण्डमालाविभूषिताम् ।  
दिगम्बरां महाघोरां प्रत्यालीढपदस्थिताम् ॥ ९-९०७ ॥  

अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् ।  
सदा षोडशवर्षीयां पिनोन्नतपयोधराम् ॥ ९-९०८ ॥  

नागाङ्गदां नागकाञ्चीं नागनूपुरसंयुताम् ।  
नागकुण्डलसंयुक्तामष्टनागसमन्विताम् ॥ ९-९०९ ॥  

विपरीतरतासक्तरतिकामोपरिस्थिताम् ।  
डाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः ॥ ९-९१० ॥  

दक्षिणे वर्णिनीं ध्यायेद्वामपार्श्वे तु डाकिनीम् ।  
वर्णिनीं लोहितश्यामां मुक्तकेशीं दिगम्बराम् ॥ ९-९११ ॥  

कपालकर्त्त्रिकाहस्तां वामदक्षिणयोगतः ।  

प्। ८१७) देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् ॥ ९-९१२ ॥

अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् ।  
डाकिनीं वामपार्श्वे तु कल्पान्तज्वलनोपमाम् * ॥ ९-९१३ ॥  

विद्युच्छटाभनयनां दन्तपङ्क्तिवलाकिनीम् ।  
दंष्ट्राकरालवदनां पीनोत्तुङ्गपयोधराम् ॥ ९-९१४ ॥  

महाघोरां महादेवीं मुक्तकेशीं दिगम्बराम् ।  
लम्बोदरीं कालरात्रीं नागयज्ञोपवीतिनीम् ॥ ९-९१५ ॥  

लेलिहानमहाजिह्वां मुण्डमालाविभूषिताम् ।  
कपालकर्त्त्रिकाहस्तां वामदक्षिणयोगतः ॥ ९-९१६ ॥  

देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीम् ।  
करस्थितकपालेन भीषणेनातिभीषणाम् ॥ ९-९१७ ॥  

आभ्यां निषेव्यमाणां तु ध्यायेद्देवीं विचक्षणः ।  
दुर्निरीक्षां चेतसाऽपि सर्वकामफलप्रदाम् ॥ ९-९१८ ॥  

अथ मन्त्रान्तरं (यामले)

भुवनेशीं कामबीजं कूर्चबीजं च वाग्भवम् ।  
भुवनेशीं कूर्चबीजं वाग्भवं तदनन्तरम् ॥ ९-९१९ ॥  

वज्रवैरोचनीये च हु। फट् स्वाहा ततः परम् ।  

मन्त्रान्तरम् ।

हृल्लेखावाग्भवं कूर्चं वाग्भवं कूर्चमेव च ॥ ९-९२० ॥  

अस्त्रान्ता छिन्नमस्ता या महाविद्या प्रकीर्तिता ।  
यस्याश्च सदृशी विद्या जगत्स्वपि न विद्यते ॥ ९-९२१ ॥  

षड्वर्णोऽयं मनुः साक्षान्मोक्षदो नात्र संशयः ।  

एतदुभयस्य ऋष्यादिकरषडङ्गन्यासः पूर्ववत् कार्यः ।

प्। ८१८)

ध्याने विशेषो यथा ।

अस्या ध्यानमहं वक्ष्ये शृणुष्व कमलानने ॥ ९-९२२ ॥  

प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्त्रिकां  
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिवन्तीं मुदा ।  
नागाबद्धशिरोमणित्रिनयनां हृद्युत्पलालङ्कृतां   
रत्यासक्तमनोभवोपरिदृढां ध्यायेज्जपासन्निभाम् ॥ ९-९२३ ॥  

दक्षे चातिसिता विमुक्तचिकुरा कर्त्त्री तथा खर्परं  
हस्ताभ्यां दधती रजोगुणभवा नाम्नाऽपि सा वर्णिनी ।  
देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिवन्ती मुदा  
नागाबद्धशिरोमणिर्मनुविदा ध्येया तथा सा सुरैः ॥ ९-९२४ ॥  

वामे कृष्णतनुस्तथैव दधती खड्गं तथा खर्परं  
प्रत्यालीढपदा कबन्धविगलद्रक्तं पिवन्ती मुदा ।  
सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी  
शक्तिः साऽपि परात् परा भगवती नाम्ना परा डाकिनी ॥ ९-९२५ ॥  

अथ मन्त्रान्तरं तत्रैव ।

वज्रवैरोचनीये च कूर्चयुग्मं सफट् ठठः ।  
ताराद्यैषा महाविद्या सर्वतेजोऽपहारिणी ॥ ९-९२६ ॥  

न्यासध्यानादिकं सर्वं षोडशीवत् समाचरेत् ।  

मन्त्रान्तरम् ।

वियच्छ्रोत्रयुतं विन्दुनादयुक्तं ततः प्रिये ॥ ९-९२७ ॥  

एकाक्षरी महाविद्या त्रैलोक्यवशकारिणी ।  
द्विठान्तैषा महाविद्या त्रैलोक्यमोहकारिणी ॥ ९-९२८ ॥  

ताराद्या च भवत्येषा चतुवर्गफलप्रदा ।  
न्यासध्यानादिकं सर्वं पूर्ववत् परिकीर्तितम् ॥ ९-९२९ ॥  

प् ८१९) अथ पुरश्चरणं (विश्वसारे)

लक्षमेकं जपं कुर्यात् पुरश्चरणकर्मणि ।  
महाविद्याविषये च जपं लक्षप्रमाणकम् ॥ ९-९३० ॥  

सर्वत्र सर्वतन्त्रेषु कथितं पद्मयोनिना ।  

(रुद्रयामलेऽपि)

पुरश्चर्यां जपेल्लक्षं दशांशं जुहुयात् ततः ॥ ९-९३१ ॥  

घृताक्तैर्विल्वकाष्ठैश्च होमकर्म समाचरेत् ।  
उदुम्बरसमिद्भिर्वा पालाशैर्वा समाचरेत् ॥ ९-९३२ ॥  

अपामार्गसमिद्भिर्वा[ अपामार्गैः शमीभिर्वा इति २ पु० पा०।] होतव्यं मन्त्रसिद्धये ।  

(यामलान्तरेऽपि)

देवीं ध्यात्वा जपेन्मन्त्रं लक्षसङ्घ्यं हविष्यभुक् ॥ ९-९३३ ॥  

जुहुयात् तद्दशांशेन विल्वकाष्ठैर्घृतप्लुतैः ।  

(वाराहीतन्त्रे तु)

शून्यागारे श्मशाने च वृषशून्ये शिवालये ॥ ९-९३४ ॥  

त्रिलक्षं प्रजपेन्मन्त्रं ततः सिद्धिर्भवेद्ध्रुवम् � इत्युक्तम् ।  

(गन्धर्वतन्त्रेऽपि)

दिवसे ब्रह्मचर्येण रात्रौ तु स्त्रीसहायवान् ॥ ९-९३५ ॥  

मपञ्चकं पुरस्कृत्य महाशङ्खाक्षमालया ।  
जपेल्लक्षत्रयं देवि युगानुरूपतः कलौ ॥ ९-९३६ ॥  

शतसाहस्रकं चान्यज्जपेच्छ्रद्धापरो नरः ।  
समाप्ते च त्रिलक्षे तु होमकर्म समाचरेत् ॥ ९-९३७ ॥  

कलौ पापसमाकीर्णे सत्यधर्मविवर्जिते ।  
चतुर्गुणा क्रिया जप्या तेन सिद्धिर्न संशयः ॥ ९-९३८ ॥  

दिवसे दक्षिणाचारेण रात्रौ वामाचारेण च पुरश्चरणविधिः कौलिकविषयः ।

प्। ८२०) (मेरुतन्त्रे)

एवं पूजा प्रकर्तव्या जपेल्लक्षचतुष्टयम् ।  
पालाशैर्विल्वजैर्वाऽपि जुहुयात् कुसुमैः फलैः ॥ ९-९३९ ॥  

तर्पणादि तत कुर्यादेवं सिद्धो भवेन्मनुः ।  

अत्र (विश्वसारो-)क्तषोडशाक्षरमन्त्रस्य पुरश्चरणमेकलक्षजपस्तन्त्रान्तरोक्तमन्त्रान्तराणां लक्षत्रयजपः । (मेरुतन्त्रो-)क्तसप्तदशाक्षरमन्त्रस्य लक्षचतुष्टयपरिमितो जप इति वदन्ति ।

  (भूतभैरवे)  

आदौ जप्त्वा भैरवस्य क्रोधस्यास्य मनुं जपेत् ॥ ९-९४० ॥  

अस्थिमालां समादाय वज्रवैरोचनीमनुम् ।  

क्रोधभैरवमन्त्रस्तत्रैवोक्तः ।

अथ क्रोधमनुं वक्ष्ये असाद्यं येन सिध्यति ॥ ९-९४१ ॥  

बीजं हालाहलं गृह्य क्रोधबीजमतः परम् ।  
भयङ्करार्णमाभाष्यासिताङ्गं क्षतजत्विषम् ॥ ९-९४२ ॥  

प्रलयाग्निमहाज्वालामाभाष्य मनुमुद्धरेत् ।
एवमुच्चारितः क्रोधः स्वयमेव प्रसिध्यति ॥ ९-९४३ ॥

ततस्तु क्रोधमन्त्रेण षडङ्गन्यासमाचरेत् ।  
विषं वज्रयुतं बोधि महाकालं न्यसेद्धृदि ॥ ९-९४४ ॥  

विषं हरयुगं वज्रकूर्चाद्यं विन्यसेच्छिरः ।  
हालाहलं देहयुतं वज्रकालं न्यसेच्छिखाम् ॥ ९-९४५ ॥  

विषमस्त्रयुतं वज्रमायुधं कवचं न्यसेत् ।  
ताराबीजयुतं वज्रं महाकालाय नेत्रयोः ॥ ९-९४६ ॥  

विषं हनुयुतं गृह्य दहगृह्य परान्वितम् ।  
क्रोधं वज्रयुतं तद्वत् सर्वदुष्टानथापरम् ॥ ९-९४७ ॥  

ततो मारय वज्रास्त्रं दिग्बन्धान्तं षडङ्गकम् ।  

प्। ८२१) ध्यानमाह ।

तत्र मध्ये न्यसेद्भीमं तप्तज्वालासमाकुलम् ॥ ९-९४८ ॥  

साट्टहासं महारौद्रं भिन्नाञ्जनचयोपमम् ।  

प्रत्यालीढं चतुर्बाहुं दक्षिणे[वज्रधारिणम् इति ४ पु० पा०] चक्रधारिणम् ॥ ९-९४९ ॥

तर्जनीं वामहस्तेन तीक्ष्णदंष्ट्राकरालिनम् ।  
कपालरत्नमुकुटं त्रैलोक्यस्य विनायकम् ॥ ९-९५० ॥  

आदित्यकोटिसङ्काशमष्टनागविभूषितम् ।  
अपराजितपदाक्रान्तमुद्रावान् बलविष्टिभिः ॥ ९-९५१ ॥  

अनामिकाद्वयं बद्ध्वा आकुञ्च्य तर्जनीद्वयम् ।  
कनिष्ठां मध्यमां चैव ज्येष्ठाङ्गुष्ठेन च क्रमात् ॥ ९-९५२ ॥  

एवं मुद्राधरो भीमस्त्रैलोक्यासाध्यसाधकः ।  

अस्य मन्त्रस्य पुरश्चरणं तु प्रचण्डचण्डिकापुरश्चरणवत् ।

जपहोमविधानं च शिवशक्त्योः समं विदुः � इति वचनात्[रमाकामस्तथा लज्जा वाग्भवं वज्रवैपदम् ।  

रोचनीये लज्जाद्वन्द्वं मन्त्रं स्वाहासमन्वितः ॥
इयं सा षोडशी प्रोक्ता सर्वकामफलप्रदा ।
कथिताः सकला विद्याः सारात् सारतराः शुभाः ॥
२ पु० इदं श्लोकद्वयमधिकं दृश्यते ।] ॥ ९-९५३ ॥

इति छिन्नमस्ताप्रकरणम् ।

अथ धूमावतीविद्या ।

(महाथर्वणसंहितायाम्)

दान्तौ सवामकर्णेन्दुधूमावत्यग्निगेहिनी ।  
अष्टाक्षरी महाविद्या भजतां सर्वसिद्धिदा ॥ ९-९५४ ॥  

(मेरुतन्त्रे)

पिप्पलादो मुनिश्छन्दो निवृज्ज्येष्ठाऽस्य देवता ।  

प्। ८२२) षड्दीर्घविन्दुयुक्तेन धकारेण षडङ्गकम् ॥ ९-९५५ ॥

आद्यबीजद्वयान्तस्थैः षद्वर्णैर्न्यासमाचरेत् ।  
अङ्गुष्ठादौ षडङ्गेषु पुनर्देवीं विचिन्तयेत् ॥ ९-९५६ ॥  

ध्यानं तथा ।

विवर्णा चञ्चला कृष्णा दीर्घा च मलिनाम्बरा ।  
विमुक्तकुन्तला दीर्घा विधवा विरलद्विजा ॥ ९-९५७ ॥  

काकध्वजरथारूढा विलम्बितपयोधरा ।  
शूर्पहस्ताऽतिरुक्षाक्षी धूतहस्ता त्वरान्विता ॥ ९-९५८ ॥  

प्रवृद्धरोमा तु भृशं जटिला कुटिलेक्षणा ।  
क्षुत्पिपासार्दिता नित्यं सदा कलहतत्परा ॥ ९-९५९ ॥  

एवंविधां सदा ध्यायेत् ततः कर्म समाचरेत् ।  

अथ पुरश्चरणम् ।

जपेत् कृष्णचतुर्दश्यां शून्यागारे दिवा निशि ॥ ९-९६० ॥  

उपवासपरश्चैवमेकाहात् सिद्धिमाप्नुयात् ।  
यद्वा श्मशाने विपिने जपेल्लक्षं तु वाग्यतः ॥ ९-९६१ ॥  

सोष्णीष आर्द्रवासाश्च तेन मन्त्रः प्रसिध्यति ।  
होमश्चात्र घृतेनैव तर्पणादि ततश्चरेत् ॥ ९-९६२ ॥  

अथ वा प्रजपेल्लक्षं श्मशाने विगताम्बरः ।  
निशाभोजी दशांशेन तिलैर्हवनमाचरेत् ॥ ९-९६३ ॥  

अथ मन्त्रान्तरं तन्त्रान्तरे ।

धू। बीजत्रितयं प्रोच्य धुरयुग्मं समुच्चरेत् ।  
धूमावतीपदं प्रोच्य क्रो।स्वाहा फट्समन्विता ॥ ९-९६४ ॥  

मन्त्रः प्राथमिकः प्रोक्तो द्वितीयं शृणु सादरम् ।  
प्रणवं धूम्रबीजं च धूमावतिपदं वदेत् ॥ ९-९६५ ॥  

प्। ८२३) देवदत्तो धावतीति स्वाहान्तो मनुराडयम् ।
ऋषिः क्षपणकः ख्यातो गायत्री छन्द ईरितम् ॥ ९-९६६ ॥

धूमावती देवता च धू।बीजं बीजमीरितम् ।  
स्वाहा शक्तिः समुच्चाटे विनियोगः प्रकीर्तितः ॥ ९-९६७ ॥  

धा।षट्कैस्तु षडङ्गानि ध्यानं शृणु वरानने ।  
काकारूढाऽतिकृष्णाभा भिन्नदन्ता विरागिणी ॥ ९-९६८ ॥  

मुक्तकेशी सुधूम्राक्षी क्षुत्तृषार्त्ता रयातुरा ।  
चञ्चला चातिकामार्त्ता क्लिष्टा पुष्टा पिशङ्गिका ॥ ९-९६९ ॥  

मलिना श्रमणी रक्ता व्यक्तगन्धा विरोधिनी ।  
धूतशूर्पाग्रहस्ता च ध्येया धूमावती परा ॥ ९-९७० ॥  

पुरश्चरणमाह ।

लक्षं जपेन्महेशानि जगदुच्चाटनं चरेत् ।  

अथाघोरमन्त्रः (शारदायाम्)

अथाभिधास्ये विधिवदघोरास्त्रमनूत्तमम् ॥ ९-९७१ ॥  

यस्य संस्मरणादेव सर्वे नश्यन्त्युपद्रवाः ।  
हुमन्तः स्तम्भने मन्त्रः क्रोमाकृष्टौ समासने ॥ ९-९७२ ॥  

वषडन्तः संवरणे नमोऽन्तो विषमासने ।  
ग्रहचौररिपुध्वंसे हु। क्रोमन्तो विधीयते ॥ ९-९७३ ॥  

शक्तान्तश्चाखिलेष्टास्यै क्षौमन्तो मारणे भवेत् ।  
फडन्तो भूतसंहारे मन्त्रोऽयं कल्पपादपः ॥ ९-९७४ ॥  

(ईश्वरकल्पे) तु प्रस्फुरद्वयं बन्धद्वयं च । अयं मन्त्र एकचत्वारिंशदक्षर उद्धृतः (पदार्थादर्शटोकायाम्)

मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं ततः ।  
घोरघोरतरेत्यन्ते तनुरूपपदं पुनः ॥ ९-९७५ ॥  

प्। ८२४) चटयुग्मं तदन्ते स्यात् प्रचट द्वितयं ततः ।
कहयुग्मं वमद्वन्द्वं [वहयुग्मं वदद्वन्द्वम् इति २ पु० पा०] ततो बन्धयुगं पुनः ॥ ९-९७६ ॥

घातयद्वितयं वर्म फडन्तः समुदाहृतः ।  
एवं पञ्चाशदर्णोऽयमघोरास्त्रमहामनुः ॥ ९-९७७ ॥  

अघोरोऽस्य मुनिः प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् ।  
अघोररुद्रः सन्दिष्टो देवता मन्त्रवित्तमैः ॥ ९-९७८ ॥  

हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् ।  
शिखा दशभिराख्याता तावद्भिः कवचं मतम् ॥ ९-९७९ ॥  

वसुवर्णैः स्मृतं नेत्रमाशार्णैर्रस्त्रमीरितम् ।  

ध्यानम् ।

सजलघनसमाभं भीमदंष्ट्रं त्रिनेत्रं  
भुजगधरमघोरं रक्तवस्त्राङ्गरागम् ॥ ९-९८० ॥  

परशुडमरुखड्गाखेटकं बाणचापौ  
त्रिशिखनरकपाले बिभ्रतं भावयामि ॥  

अथास्य पुरश्चरणं तत्रैव ।

लक्षमेकं जपेन्मन्त्रं घृतसिक्तैस्तिलैः शुभैः ॥ ९-९८१ ॥  

तद्दशांशं प्रजुहुयान्मन्त्री मन्त्रस्य सिद्धये ।  

इति धूमावतीप्रकरणम् ।

अथ वगलामुखीविद्या ।

(मेरुतन्त्रे)

अथातः सम्प्रवक्ष्यामि स्तम्भनीं वगलामुखीम् ॥ ९-९८२ ॥  

तारं मायां समुच्चार्य वदेच्च वगलामुखि ।  
तदग्रे सर्वदुष्टानां ततो वाचं मुखं पदम् ॥ ९-९८३ ॥  

स्तम्भयेति पदं जिह्वां कीलयेति ततः परम् ।  

प्। ८२५) बुद्धिं विनाशय ह्री। ॐ स्वाहा षट्त्रिंशवर्णकः ॥ ९-९८४ ॥

नारायणो मुनिस्त्रिष्टुप्छन्दश्च वगलामुखी ।  
देवी बीजं तु हृल्लेखा स्वाहा शक्तिः समीरिता ॥ ९-९८५ ॥  

विनियोगोऽस्य विख्यातः पुरुषार्थचतुष्टये ।  
हृल्लेखा हृदयं प्रोक्तं शिरश्च वगलामुखी ॥ ९-९८६ ॥  

शिखा तु सर्वदुष्टानां ततो वाचं मुखं पदम् ।
स्तम्भयेति च वर्मोक्तं जिह्वां कीलय नेत्रकम् ॥ ९-९८७ ॥

बुद्धिं विनाश्यास्त्रं स्यात् षडङ्गन्यास ईरितः ।

अथ ध्यानम् ।

गम्भीरां च मदोन्मत्तां तप्तकाञ्चनसन्निभाम् ॥ ९-९८८ ॥  

चतुर्भुजां त्रिनयनां कमलासनसंस्थिताम् ।  
मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकम् ॥ ९-९८९ ॥  

पीताम्बरधरां सान्द्रवृत्तपीनपयोधराम् ।  
हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम् ॥ ९-९९० ॥  

पीतभूषणभूषां च स्वर्णसिंहासनस्थिताम् ।  

अथ पुरश्चरणम् ।

हरिद्राग्रथिता माला पीताम्बरधरः स्वयम् ॥ ९-९९१ ॥  

पीतासनः स्मरेत् पीतमयुतं जपमाचरेत् ।  
दशांशेन कृतो होमः पीतद्रव्यैः प्रतर्पयेत् ॥ ९-९९२ ॥  

सर्वं पीतोपचारेण मन्त्रः सिद्ध्यति मन्त्रिणः ।  

वज्रयोगिनीमिश्रकृतसङ्ग्रहे तु ।

पीताम्बरधरो भूत्वा पूर्वाशाभिमुखस्थितः ।  
लक्षमेकं जपेन्मन्त्रं हरिद्राग्रन्थिमालया ॥ ९-९९३ ॥  

ब्रह्मचर्ययुतो नित्यं प्रयतो ध्यानतत्परः ।  

प्। ८२६) प्रियङ्गुपायसेनापि पीतपुष्पैश्च होमयेत् � इत्युक्तम् ॥ ९- ९९४ ॥

अथ मन्त्रान्तरं (यामले)

वह्निहीनेन्द्रयुग्माया वगलामुखि सर्वयुक् ।  
दुष्टानां वाचमित्युक्त्वा मुखं स्तम्भय कीर्तयेत् ॥ ९- ९९५ ॥  

जिह्वां कीलय बुद्धिं च विनाशय पदं वदेत् ।  
पूर्वबीजं ततस्तारं वह्निजायावधिर्भवेत् ॥ ९- ९९६ ॥  

ताराधिका चतुस्त्रिंशदक्षरा वगलामुखी ।  
नारायणो [नारदोऽस्य मुनिरिति क्व चित् पाठः] मुनिश्छन्दः पङ्क्ति श्रीवगलामुखी ॥ ९- ९९७ ॥  

देवता मन्त्रगं बीजं शक्तिः पावकसुन्दरी ।  
सर्वशत्रुमुखस्तम्भे विनियोगः प्रकीर्तितः ॥ ९- ९९७ ॥  

षड्दीर्घभाजा बीजेन षडङ्गन्यास ईरितः ।  

अथ ध्यानम् ।

मध्ये सुधाब्धिमणिमण्डपरत्नवेदी �  
सिंहासनोपरिगतां परिपीतवर्णाम् ॥ ९- ९९८ ॥  

[पीताम्बराभरणमाल्यविभूषिताङ्गीम् इत्यपि पाठो बहुत्र श्रूयते । ] पिताम्बरां कनकभूषणमाल्यशोभां
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ।
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् ॥ ९- ९९९ ॥

[गदाभिघातेन इति २ पु० पा० ।] पदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभूजां नमामि ।

अथ पुरश्चरणं तत्रैव ।

जपमाला च देवेशि हरिद्राग्रन्थिसम्भवा ॥ ९- १००० ॥  

पीतासनसमारूढः पीतध्यानपरायणः ।  

प्। ८२७) पीतपुष्पार्चनं नित्यमयुतं जपमाचरेत् ॥ ९- १००१ ॥

तद्दशांशकृतो होमः पीतद्रव्यैः सुशोभनैः ।  

अस्याः पुमान् मृत्युञ्जयस्तन्मन्त्रपुरश्चरणं च शिवप्रकरण एवोक्तम् ।

इति वगलामुखीप्रकरणम् ।

अथ मातङ्गीविद्या ।

(यामले)

अथ वक्ष्ये महादेवीं मातङ्गीं सर्वसिद्धिदाम् ॥ ९- १००२ ॥  

अस्याः सेवनमात्रेण वाक्सिद्धिं लभते ध्रुवम् ।  
प्रणवं च ततो मायां कामबीजं च कूर्चकम् ॥ ९- १००३ ॥  

मातङ्गी ङेयुता चास्त्रं वह्निजायावधिर्मनुः ।  
ऋषिः स्याद्दक्षिणामूर्तिर्विराट्छन्द उदीरितम् ॥ ९- १००४ ॥  

मातङ्गी देवता देवी सर्वसिद्धिप्रदायिनी ।  
अङ्गन्यासकरन्यासौ कुर्यान्मन्त्री समाहितः ॥ ९- १००५ ॥  

षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ।  

अथ ध्यानम् ।

श्यामाङ्गीं शशिशेखरां त्रिनयनां सद्रत्नसिंहासने  
संस्थां रत्नविचित्रभूषणयुतां सङ्क्षीणमध्यस्थलाम् ॥ ९- १००६ ॥  

आपोनस्तनमण्डलां स्मितमुखीं ध्यायेद्दधन्तीं क्रमाद् �  
वेदैर्बाहुभिरङ्कुशासिलतिके पाशं तथा खेडकम् ।  

अथ पुरश्चरणम् ।

पुरश्चरणकाले तु षट्सहस्रं जपेन्मनुम् ॥ ९-१००७ ॥  

तद्दशांशं हुनेदाज्यैः शर्करामधुभिः सह ।  
ब्रह्मतरूद्भवैः काष्ठैः साधकः शक्तिभिः सह ॥ ९-१००८ ॥  

एवं पुरस्क्रियां कृत्वा प्रयोगविधिमाचरेत् ।  

प्। ८२८) अथ मन्त्रान्तरं (मेरुतन्त्रे)

अथोच्छिष्टां प्रवक्ष्यामि मातङ्गीं गोकुवर्णकाम् ॥ ९-१००९ ॥  

नम उच्छिष्टचाण्डालि मातङ्गीति पदं वदेत् ।  
सर्ववशङ्करि स्वाहा मन्त्रोऽयं मोहयेज्जगत् ॥ ९-१०१० ॥  

छन्दो निवृत् सगायत्रं मुनी नारदतुम्बुरौ ।  
देवता चात्र मातङ्गी द्वित्रित्रित्रिरसाक्षिभिः ॥ ९-१०११ ॥  

अङ्गानि स्युर्मन्त्रवर्णैस्ततो ध्यायेद्धृदम्बुजे ।  

ध्यानं यथा ।

कृष्णाम्बरां यावकार्द्रचरणामुन्नतस्तनीम् ॥ ९-१०१२ ॥  

मुक्ताप्रवालमालाढ्यां शङ्खकुण्डलधारिणीम् ।  

अथ मन्त्रान्तरं तत्रैव ।

अथान्यं सम्प्रवक्ष्यामि मातङ्गीमन्त्रमद्भुतम् ॥ ९-१०१३ ॥

कामिनी रञ्जिनी स्वाहाष्टाक्षरोऽयमुदीरितः ।
ऋषिः सम्मोहनश्छन्दो निवृत् प्रोक्ताऽस्य देवता ॥ ९-१०१४ ॥

सर्वसम्मोहिनी चाङ्गं द्विरावृत्तिपदैर्भवेत् ।  

अथ ध्यानम्

श्यामाङ्गी वल्लकों दोर्भ्यां वादयन्तीं सुभूषणाम् ॥ ९-१०१५ ॥  

चन्द्रावतंसां विविधैर्गायनैर्मोहतीं जगत् ।  

अनयोः पुरश्चरणम् ।

प्रजपेदयुतद्वन्द्वं दशांशं जुहुयात् ततः ॥ ९-१०१६ ॥  

मधूकजैस्त्रिमध्वक्तैः सर्वं सम्मोहयेज्जगत् ।  

अथ राजमातङ्गीमन्त्रस्तत्रैव ।

अथान्यं सम्प्रवक्ष्यामि चतुष्पञ्चाशदक्षरम् ॥ ९-१०१७ ॥  

ॐ ह्री। नमश्च ब्रह्मश्रीराजिते राजपूजिते ।  
जये च विजये गौर्यषे गान्धारिपदं वदेत् ॥ ९-१०१८ ॥  

प्। ८२९) त्रिभुवनवशङ्करि सर्वस्त्रीपुरुषेति च ।
वशङ्करि सुसु दुदु घेघे वावाऽग्निगेहिनी ॥ ९-१०१९ ॥

अजो मुनिस्तथा छन्दो निवृद्गायत्रमीरितम् ।  
देवता राजमातङ्गी षडङ्गादि तु मायया ॥ ९-१०२० ॥  

अथ ध्यानम् ।

[एतच्चिह्नान्तर्गतः पाठः ५ पुस्तकेऽधिक उपलभ्यते ।]  
अमृतोदधिमध्यस्थे रत्नद्वीपे मनोहरे ।  
स्वर्णप्राकारसंवीते मणिरत्नविनिर्मिते ॥ ९-१०२१ ॥  

कदम्बविल्वकद्वारे कल्पवृक्षोपशोभिते ।  
वेदिमध्ये सुखास्तीर्णे रत्नसिंहासने शुभे ॥ ९-१०२२ ॥  

अष्टपत्रं महापद्मं केशराढ्यं सकर्णिकम् ।  
तन्मध्ये तु त्रिकोणं स्यादष्टपत्रं ततो बहिः ॥ ९-१०२३ ॥  

पुनः षोडशपत्रं स्यात् तद्वाह्ये स्याच्चतुर्दलम् ।  
वेदास्रं सचतुर्द्वारं मण्डलं प्रोक्तमुत्तमम् ॥ ९-१०२४ ॥  

तस्य मध्ये सुखासीनां श्यामवर्णां शुचिस्मिताम् ।  
कदम्बमालाभरणां पूजितां च सुरासुरैः ॥ ९-१०२५ ॥  

प्रलम्बालकसंयुक्तां चन्द्ररेखावतंसिकाम् ।  
ललाटे तिलकोपेतामीषत्प्रहसिताननाम् ॥ ९-१०२६ ॥  

किञ्चित्स्वेदाम्बुमधुरललाटफलकोज्ज्वलाम् ।  
वलीतरङ्गमध्याभां रोमराजीविराजिताम् ॥ ९-१०२७ ॥  

सर्वाभरणसंयुक्तां मुक्ताहारविभूषिताम् ।  
नानामणिगणोन्नद्धकटिसूत्रैरलङ्कृताम् ॥ ९-१०२८ ॥  

वलयै रत्नखचितैः केयुरैर्मणिभूषितैः ।  

प्। ८३०) भूषितां द्विभूजां बालां मदाघूर्णितलोचनाम् ॥ ९-१०२९ ॥

आपीनमण्डलाभोगसमुन्नतपयोधराम् ।  
प्रलम्बवर्णाभरणां कर्णोत्तंसविराजिताम् ॥ ९-१०३० ॥  

तमालनीलां तरुणीं मधुमत्तां मतङ्गिनीम् ।  
चतुःषष्टिकलारूपां पार्श्वस्थशुकसारिकाम् ॥ ९-१०३१ ॥  

कोटिबालार्कसङ्काशां जपाकुसुमसन्निभाम् ।  
एवं वा पीतवर्णां वा ध्यायेन्मातङ्गिनीं पराम् ॥ ९-१०३२ ॥  

अथ पुरश्चरणम् ।

[एतच्चिह्नान्तर्गतः पाठ ५ पुस्तकेऽधिक उपलभ्यते ।]  
अयुतं प्रजपेन्मन्त्रं होमयेत् तद्दशांशतः ।  
बन्धूककुसुमैर्मन्त्री मधुरत्रयलोलितैः ॥ ९-१०३३ ॥  

अथ सुमुखीमन्त्रः (गुह्यातन्त्रे)

शृणु मन्त्रं महादेवि यथावत् कथयामि ते ।  
दद्यादुच्छिष्टशब्दं तु तथा चाण्डालिनीति च ॥ ९-१०३४ ॥  

सुमुखीति ततो देवीं कीर्तयेत् तदनन्तरम् ।  
महापिशाचिनी तस्मान्मायाबीजमनन्तरम् ॥ ९-१०३५ ॥  

विन्दुनादसमायुक्तं ठकारत्रितयं ततः ।  
सविसर्गं महादेवि सर्वसिद्धिप्रदायकम् ॥ ९-१०३६ ॥  

इयं विद्या महाविद्या सर्वपापप्रणाशिनी ।  
स्वर्गदा मोक्षदा विद्या सर्वसौभाग्यदा[राज्यसौभाग्यदा इति २- ४ पु० पा०] तथा ॥ ९- १०३७ ॥  

सदोच्छिष्टमुखो भूत्वा स्मरेद्देवीं जयप्रदाम् ।  
तदाऽचान्तो भवेद्देवि विनैवाचमने कृते ॥ ९-१०३७ ॥  

दुर्भगा सुभगा नूनं दुःखिता सुखिनी भवेत् ।  

प्। ८३१) बन्ध्याऽपि लभते पुत्रं शतहायनजीवनम् ॥ ९-१०३८ ॥

दुर्बलो बलमाप्नोति मूर्खो विद्यामवाप्नुयात् ।  
यां यां प्रार्थयते सिद्धिं हठात् तां तामवाप्नुयात् ॥ ९-१०३९ ॥  

विधानं चात्र वक्ष्यामि शृणु देवि वरानने ।  
नारिदोषो न वा विघ्नो नाशौचं नियमो न च ॥ ९-१०४० ॥  

यस्य तिष्ठति मन्त्रोऽयं न च विघ्नैः स वाध्यते ।  

तथा ।

अजो मुनिः समाख्यातश्छन्दो गायत्रमस्य तु ॥ ९-१०४१ ॥  

देवता सुमुखी प्रोक्ता मायया तु षडङ्गकम् ।  

अथ ध्यानम् ।

शवोपरिसमासीनां रक्ताम्बरपरिच्छदाम् ॥ ९-१०४२ ॥  

रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् ।  
षोडशाब्दां च युवतीं पीनोन्नतपयोधराम् ॥ ९-१०४३ ॥  

कपालकर्त्त्रिकाहस्तां परज्योतिःस्वरूपिणीम् ।  
वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः ॥ ९-१०४४ ॥  

उच्छिष्टेन वलिं दत्वा जपेत् तद्गतमानसः ।   
उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता ॥ ९-१०४५ ॥  

उच्छिष्टजपमानस्य जायन्ते सर्वसिद्धयः ।  

अस्य मन्त्रस्य पुरश्चरणमष्टसहस्रजपः ।

येषां जपे च होमे च �������������-इत्यादिपूर्वोक्तवचनात् ॥ ९-१०४६ ॥  

अथ वश्यामातङ्गीमन्त्रः (मेरुतन्त्रे)

अथातः सम्प्रवक्ष्यामि वश्यमातङ्गिकामनुम् ।  
ॐ राजमुखि राजाधिमुखि वश्यमुखीति च ॥ ९-१०४७ ॥  

मायां श्री। क्ली। देवदेवि महादेवि ततो वदेत् ।  
देवाधिदेवि सर्वेति जनस्य मुखमुच्चरेत् ॥ ९-१०४८ ॥  

प्। ८३२) मम वशं कुरु द्वन्द्वं स्वाहान्तोऽङ्गकृतार्णकः ।
दिक्सप्तकृतदेवेषुमन्त्रार्णैरङ्गकल्पनम् ॥ ९-१०४९ ॥

विज्ञेयं राजमातङ्गीतुल्यं पूजाजपादिकम् ।  
प्रयोगा।श्चापि जानीयाद्विशेषाद्वशकृत् त्वियम् ॥ ९-१०५० ॥  

मन्त्रान्तरमाह ।

माया नमो हिलिद्वन्द्वं चण्डमातङ्गिनीति च ।  
स्वाहेति तिथिवर्णोऽस्या न्यासपूजादिकं भवेत् ॥ ९-१०५१ ॥  

राजमातङ्गिकातुल्यं जपश्चायुतसङ्ख्यकः ।  
घृतपायसहोमश्च प्रयोगाद्यं च पूर्वत् ॥ ९-१०५२ ॥  

अथ कर्णमातङ्गीमन्त्रः ।

अथातः सम्प्रवक्ष्यामि कर्णमातङ्गिकामनुम् ।  
वाग्भवं हृदयं चाथ श्रीमातङ्गिपदं वदेत् ॥ ९-१०५३ ॥  

अमोघे सत्यवादिनि मम कर्णेपदं ततः ।  
अवतरपदं द्वेधा सत्यं कथय युग्मकम् ॥ ९-१०५४ ॥  

एह्येहि श्री। च मातङ्ग्यै नमस्त्र्यब्ध्यर्णको मनुः ।  
अङ्गानि वाग्भवेनात्र पूजाद्यं च कृताकृतम् ॥ ९-१०५५ ॥  

अथ पुरश्चरणम् ।

लक्षं जपः पायसाद्यैः होमः सिद्धो भवेन्मनुः ।  
कर्णे तु कथयेद्देवी पृच्छकस्य शुभाशुभम् ॥ ९-१०५६ ॥  

इति मातङ्गीप्रकरणम् ।

अथ लक्ष्मीविद्या ।

(शारदायाम्)

अथ वक्ष्ये श्रियो मन्त्रान् श्रीसौभाग्यफलप्रदान् ।  
यस्याः कटाक्षमात्रेण त्रैलोक्यमपि वर्धते ॥ ९-१०५७ ॥  

वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् ।  

प्। ८३३) बीजमेतच्छ्रियः प्रोक्तं चिन्तारत्नमिवापरम् ॥ ९-१०५८ ॥

ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता ।  
षड्दीर्घयुक्तबीजेन षडङ्गानि प्रकल्पयेत् ॥ ९-१०५९ ॥  

अथ ध्यानम् ।

कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजै-  
र्हस्तोत्क्षिप्तहिरण्मयामृतघटैराषिच्यमानां श्रियम् ।  
विभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां  
क्षौमाबद्धनितम्बविम्बललितां बन्देऽरविन्दस्थिताम् ॥ ९-१०६० ॥  

अथ पुरश्चरणम् ।

भानुलक्षं जपेन्मन्त्री दीक्षितो विजितेन्द्रियः ।  
श्रियमभ्यर्चयेन्नित्यं सुगन्धिकुसुमादिभिः ॥ ९-१०६१ ॥  

तत्सहस्रं च जुहुयात् कमलैर्मधुरोक्षितैः ।  
जपान्ते जुहुयान्मन्त्री तिलैर्वा मधुरान्वितैः ॥ ९-१०६२ ॥  

वैल्वैः फलैर्वा जुहुयात् त्रिभिर्वा साधकोत्तमः ।  

अथ मन्त्रान्तरं तत्रैव ।

वाग्भवं वनिता विष्णोर्माया मकरकेतनः ।  
चतुर्बीजात्मको मन्त्रश्चतुर्वर्गफलप्रदः ॥ ९-१०६३ ॥  

अङ्गानि कुर्याद्दीर्घाद्यै रमाबीजेन तन्त्रवित् ।  

अथ ध्यानम् ।

माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजै �  
र्हस्ताग्राहितरत्नकुम्भसलिलैराषिच्यमानां सदा ॥ ९-१०६४ ॥  

हस्ताब्जैर्वरदानमब्जयुगलाभीतीर्दधानां हरेः  
कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजाननाम् ।  

अथ पुरश्चरणम् ।

भानुलक्षं हविष्याशी जपेदन्ते सरोरुहैः ॥ ९-१०६५ ॥  

प् ८३४) जुहुयादरुणैः फुल्लैस्तत्सहस्रं जितेन्द्रियः ।

अथ मन्त्रान्तरं तत्रैव ।

दीर्घायादिर्विसर्गान्तो ब्रह्मा भानुर्वसुन्धरा ॥ ९-१०६६ ॥  

वान्ते सिन्यै प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः ।  
ऋषिर्दक्षो विराट् छन्दो देवता श्रीः समीरिता ॥ ९-१०६७ ॥  

देव्यै हृदयमाख्यातं पद्मिन्यै शिर ईरितम् ।  
विष्णुपत्न्यै शिखा प्रोक्ता वरदायै तनुच्छदम् ॥ ९-१०६८ ॥  

अस्त्रं कमलरूपिण्यै नमोऽन्ताः प्रणवादिकाः ।  
अङ्गमन्त्राः समुद्दिष्टा ध्यायेद्देवीमन्यधीः ॥ ९-१०६९ ॥  

अथ ध्यानम् ।

आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजैर्बिभ्रती  
दानं पद्मयुगाभयं च वपुषा सौदामिनीवल्लभा ।  
मुक्तादामविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी  
पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् ॥ ९-१०७० ॥  

अथ पुरश्चरणम् ।

दशलक्षं जपेदेनं मन्त्रविद्विजितेन्द्रियः ।  
दशांशं जुहुयान्मन्त्री मधुराक्तैः सरोरुहैः ॥ ९-१०७१ ॥  

अथ माहलक्ष्मीमन्त्रस्तत्रैव ।

वाग्भवं शम्भुवनिता रमा मकरकेतनः ।  
तार्त्तीयं च जगत्पार्श्वो वह्निबीजसमुज्ज्वलः ॥ ९-१०७२ ॥  

अर्घीशाढ्यो भृगुस्त्यै हृन्मन्त्रोऽयं द्वादशाक्षरः ।  
महालक्ष्म्याः समुद्दिष्टस्ताराद्यः सर्वसिद्धिदः ॥ ९-१०७३ ॥  

ऋषिर्विद्या समुद्दिष्टो गायत्री छन्द ईरितम् ।  
देवता जगतामादिर्महालक्ष्मीः समीरिता ॥ ९-१०७४ ॥  

हस्तौ संशोध्य मन्त्रेण तारादि हृदयान्तिकम् ।  

प्। ८३५) बीजानां पञ्चकं न्यस्येदङ्गुलीषु यथाक्रमम् ॥ ९-१०७५ ॥

मन्त्रशेषं न्यसेन्मन्त्री तलयोरुभयोरपि ।  
मूर्धादि चरणं यावन्मन्त्रेण व्यापकं चरेत् ॥ ९-१०७६ ॥  

मूर्धाक्षिवक्षोगुह्याङ्घ्यैः पञ्च बीजानि विन्यसेत् ।  
शेषान् न्यसेत् सप्तवर्णान् हृदये सप्तधातुषु ॥ ९-१०७७ ॥  

अङ्गानि पञ्चभिर्बीजैरस्त्रं शिष्टाक्षरैर्भवेत् ।  
ज्ञानैश्वर्यादिभिर्युक्तैश्चतुर्थ्यन्तैः सजातिभिः ॥ ९-१०७८ ॥  

ज्ञानमैश्वर्यशक्तिं च बलवीर्ये स्वतेजसा ।  
ज्ञानैश्वर्यादयः प्रोक्ताः षट् क्रमादङ्गयोजिताः ॥ ९-१०७९ ॥  

ध्यानमाह ।

एवं न्यस्तशरीरोऽसौ स्मरेदुद्यानमद्भुतम् ।  
चम्पकाशोकपुन्नागपाटलैरुपशोभितम् ॥ ९-१०८० ॥  

लवङ्गमाधवीविल्वदेवदारुनमेरुभिः ।  
मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः ॥ ९-१०८१ ॥  

चन्दनैः कर्णिकारैश्च मातुलुङ्गैः सवञ्जुलैः ।  
दाडिमीलकुचाङ्कोलैः पूगैः कुरवकैरपि ॥ ९-१०८२ ॥  

कदलीकुन्दमन्दारनारिकेलैरलङ्कृतम् ।  
अन्यैः सुगन्धिपुष्पाद्यैर्वृक्षखण्डैश्च मण्डितम् ॥ ९-१०८३ ॥  

मालतीमल्लिकाजातिकेतकीशतपत्रकैः ।  
यावन्तीतुलसीनन्द्यावर्तैर्दमनकैरपि ॥ ९-१०८४ ॥  

सर्वर्त्तुकुसुमोपेतैर्नमद्भिरुपशोभितम् ।  
मन्दमारुतसम्भिन्नं कुसुमामोददिङ्मुखम् ॥ ९-१०८५ ॥  

तस्य मध्ये सदा फुल्लैः कुसुमोत्पलपङ्कजैः ।  
सौगन्धिकैश्च कह्लारैर्नवैः कुवलयैरपि ॥ ९-१०८६ ॥  

प्। ८३६) हंससारसकारण्डभ्रमरैश्चक्रनामभिः ।
अन्यैः कलकलाराविविहङ्गैरुपशोभिते ॥ ९-१०८७ ॥

महासरसि तन्मध्ये पुलिनेऽतिमनोहरे ।  
परितः पारिजाताद्यमण्डितं मणिकुट्टिमम् ॥ ९-१०८८ ॥  

उद्यदादित्यसङ्काशभास्वरं शशिशीतलम् ।  
चतुर्द्वारसमायुक्तं हेमप्राकारशोभितम् ॥ ९-१०८९ ॥  

रत्नोपकॢप्तसंशोभिकपाटाष्टकसंयुतम् ।  
नवरत्नसमाकॢप्तं तुङ्गगोपुरतोरणम् ॥ ९-१०९० ॥  

हेमदण्डं शिखालम्वि ध्वजावलिपुरस्कृतम् ।  
नवरत्नसमाबद्धस्तम्भराजिविराजितम् ॥ ९-१०९१ ॥  

सहस्रदीपसंयुक्तदीपदण्डविराजितम् ।  
तप्तहाटकसङ्कॢप्तवातायनमनोहरम् ॥ ९-१०९२ ॥  

नानारत्नांशुकोद्बद्धसुवर्णशतकोटिभिः ।  
किङ्किणीमालिकायुक्तपताकाभिरलङ्कृतम् ॥ ९-१०९३ ॥  

जातरूपमयै रत्नविचित्रैरतिविस्तृतैः ।  
माणिक्यवज्रवैदूर्यस्वर्णमालावलीयुतैः ॥ ९-१०९४ ॥  

अन्तरान्तरसम्बद्धरत्नैर्दृष्टिमनोहरैः ।  
विचित्रैश्चित्रबद्धैश्च वितानैरुपशोभितम् ॥ ९-१०९५ ॥  

सर्वरत्नसमायुक्तं हेमकुट्टिममुज्ज्वलम् ।  
केतकोमालतीजातीचम्पकोत्पलकेसरैः ॥ ९-१०९६ ॥  

मल्लिकातुलसीवाशानन्द्यावर्त्तकदम्बकैः ।  
एतै रम्यैश्च कुसुमैरलङ्कृतमहीतलम् ॥ ९-१०९७ ॥  

अब्जकाश्मीरकस्तूरीमृगनाभितमालकैः ।  

प्। ८३७) चन्दनागुरुकर्पूरैरामोदितदिगन्तरम् ॥ ९-१०९८ ॥

एवं सञ्चिन्त्य मनसा मण्डपं सुमनोहरम् ।  
तन्मध्ये भावयेन्मन्त्री परिजातं मनोहरम् ॥ ९-१०९९ ॥  

तस्याधस्तात् स्मरेन्मन्त्री रत्नसिंहासनं महत् ।  
तस्मिन् सञ्चिन्तयेद्देवीं महालक्ष्मीं मनोहराम् ॥ ९-११०० ॥  

बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारोज्ज्वलां  
रत्नाकल्पविभूषितां कुचनतां शालैः करैर्मञ्जरीम् ।  
पद्मौ कौस्तुभरत्नमप्यविरतं सम्बिभ्रतीं सुस्मितां  
फुल्लाम्भोजविलोचनत्रययुतां ध्यायेत् परां देवताम् ॥ ९-११०१ ॥  

शिञ्जन्मञ्जीरसंशोभिपादाम्भोजविराजिताम् ।  
नवरत्नगणाकीर्णकाञ्चीदामविभूषिताम् ॥ ९-११०२ ॥  

मुक्तामाणिक्यवैदूर्यसम्बद्धोदरबन्धनाम् ।  
विभ्राजमानां मध्येन वलित्रितयशोभिताम् ॥ ९-११०३ ॥  

जाह्नवीसलिलावर्त्तशोभिनाभिविभूषिताम् ।  
पटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनीम् ॥ ९-११०४ ॥  

वारिवाहविनिर्मुक्तमुक्तादामगरीयसीम् ।  
बिभ्रतीमुत्तरासङ्गं दुकूलपरिकल्पितम् ॥ ९-११०५ ॥  

तप्तकाञ्चनसम्बद्धवैदूर्याङ्गदभूषणाम् ।  
पद्मरागस्फुरत्स्वर्णकङ्कणाढ्यकराम्बुजाम् ॥ ९-११०६ ॥  

माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृताम् ।  
तप्तहाटकसङ्कॢप्तमालाग्रैवेयशोभिताम् ॥ ९-११०७ ॥  

विचित्रविविधाकल्पां कम्बुसङ्काशकन्धराम् ।  
उद्यद्दिनकराकारमणिताटङ्कमण्डिताम् ॥ ९-११०८ ॥  

प्। ८३८) रत्नाङ्कितलसत्स्वर्णकर्णपूरोपशोभिताम् ।
जपाविद्रुमलावण्यललिताधरपल्लवाम् ॥ ९-११०९ ॥

दाडिमीफलबीजाभदन्तपङ्क्तिविभूषिताम् ।  
कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभाननाम् ॥ ९-१११० ॥  

पुण्डरीकदलाकारनयनत्रयशोभिताम् ।  
भ्रूलताजितकन्दर्पवरकार्मुकविभ्रमाम् ॥ ९-११११ ॥  

विकशत्तिलपुष्पश्रीविजयोद्यतनासिकाम् ।  
ललाटकान्तिविभवविजितार्धसुधाकराम् ॥ ९-१११२ ॥  

सान्द्रसौरभसम्पन्नकस्तूरीतिलकाङ्किताम् ।  
मत्तालिमालाविलसद्दलकाढ्यमुखाम्बुजाम् ॥ ९-१११३ ॥  

पारिजातप्रसूनश्रीवाहिधमिल्लबन्धनाम् ।  
अनर्घरत्नघटितमुक्ताटङ्कितमस्तकाम् ॥ ९-१११४ ॥  

सर्वलावण्यवसतिं भवनं विभ्रमश्रियः ।  
तेजसां जन्मभूमिं तां महालक्ष्मीं विचिन्तयेत् ॥ ९-१११५ ॥  

अथ पुरश्चरणम् ।

एवं ध्यात्वा ततो देवीं हविष्याशी जितेन्द्रियः ।  
भानुलक्षं जपेन्मन्त्री दशांशं जुहुयात् तिलैः ॥ ९-१११६ ॥  

जुहुयात् श्रीफलैः पद्मैः प्रत्येकमयुतं ततः ।  
तर्पयेत् सलिलैः शुद्धैः सुगन्धैरयुतद्वयम् ॥ ९-१११७ ॥  

(मेरुतन्त्रे)

जपेद्भास्करलक्षं च नियताशी यतव्रतः ।  
तद्दशांशं प्रजुहुयाद्घृतैस्त्रिस्वादुसंयुतैः ॥ ९-१११८ ॥  

पद्मैः रमाद्रुमफलैः प्रत्येकमयुतं हुनेत् ।  
सुशीतैः शुचिभिस्तोयैस्तर्पयेदयुतद्वयम् ॥ ९-१११९ ॥  

प्। ८३९) अथ मन्त्रान्तरं तत्रैव ।

शम्भुपत्नी श्रिया रुद्धा कमौ भगवती मही ।  
ब्रह्माऽदित्यो धरा दीर्घा लकारो भगवान् मरुत् ॥ ९-११२० ॥  

प्रसीदयुगलं भूयः श्रीरुद्धा भुवनेश्वरी ।  
महालक्ष्मी नमोऽन्तः स्यात् प्रणवादिरयं मनुः ॥ ९-११२१ ॥  

सप्तविंशत्यक्षराढ्यः प्रोक्तः सर्वसमृद्धिदः ।  
कमले हृदयं प्रोक्तं शिरः स्यात् कमलालये ॥ ९-११२२ ॥  

शिखा प्रसीद तेनैव कवचं चतुरक्षरैः ।  
अस्त्रमेतैः पदैः कुर्याच्छ्रीबीजपुटितैः पृथक् ॥ ९-११२३ ॥  

अथ ध्यानम् ।

सिन्दूरारुणकान्तिमब्जवसतीं सौन्दर्यवारां निधिं  
कोटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् ।  
हस्ताब्जैर्वसुपात्रमब्जयुगलादर्शौ वहन्तीं परा �  
मावीतां परिचारिकाभिरनिशं ध्यायेत् प्रियां शार्ङ्गिणः ॥ ९-११२४ ॥  

अथ पुरश्चरणम् ।

लक्षं जपेत् फलैर्विल्वैर्जुहुयान्मधुरोक्षितैः ।  
दशांशं संस्कृते वह्नौ प्राक्प्रोक्तेनैव वर्त्मना ॥ ९-११२५ ॥  

तत्रान्तरे ।

मन्दाक्षमिन्दिरारुद्धं त्र्यक्षरोऽयं महामनुः ।  
हृदन्तः पञ्चवर्णोऽस्य सर्वमेकार्णवद्भवेत् ॥ ९-११२६ ॥  

अथ साम्राज्यलक्ष्मीमन्त्रः (मेरुतन्त्रे)

अथ वक्ष्ये गणेशेन काशीराज्याप्तये मम ।  
शाम्बादित्यस्य रक्षोदिग्भागे लक्ष्मीरुपासिता ॥ ९-११२७ ॥  

साम्राज्यलक्ष्मीर्विख्याता गतराज्यप्रदायिनी ।  
लक्ष्मीविनायकस्तत्र प्रसिद्धोऽसौ गजाननः ॥ ९-११२८ ॥  

प्। ८४०) दक्षिणेनैव मार्गेण तस्याः सिद्धिर्न वामतः ।
सकारं च हकारं च कलरा वर्णपञ्चकम् ॥ ९-११२९ ॥

ईकारस्वरसंयुक्तं प्रथमं कूटमुच्यते ।  
ह। बीजं तु द्वितीयं स्यात् प्रोक्तोऽयं द्व्यक्षरी मनुः ॥ ९-११३० ॥  

ऋषिर्हरिश्च गायत्री छन्दो लक्ष्मिश्च मोहिनी ।  
साम्राज्यदा देवतोक्ता कूटं बीजं प्रकीर्तितम् ॥ ९-११३१ ॥  

शक्तिः श्री। च षडङ्गानि षड्भिर्दीर्घैः समाचरेत् ।  

अथ ध्यानम् ।

अतशीपुष्पसङ्काशां रत्नभूषणभूषिताम् ॥ ९-११३२ ॥  

शङ्खचक्रगदापद्मशार्ङ्गबाणधरां करैः ।  
षड्भिः कराभ्यां देवेशीं वरदाभयशोभिताम् ॥ ९-११३३ ॥  

एवमष्टभुजां ध्यात्वा त्रिलक्षं प्रजपेत् सुधीः ।  
तद्दशांशेन पद्मैस्तु हुनेत् साम्राज्यसिद्धये ॥ ९-११३४ ॥  

एवमाराधयेल्लक्ष्मीं साम्राज्यं स्यादसंशयम् ।  

नारायणमन्त्रस्तु तत्प्रकरण एवोक्तः ।

इति लक्ष्मीविद्याप्रकरणम् ।

अथ नीलक्रमादयः ।

(शक्तिसङ्गमवीरतन्त्रसारसङ्ग्रहेषु)

देव्युवाच ।

देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ॥ ९-११३५ ॥  

दशानामपि विद्यानां दश वै ये क्रमाः प्रभो ।  
पुरैव कथिताः स्वामि।स्तान् क्रमान् वद सम्प्रति ॥ ९-११३६ ॥  

शिव उवाच

रहस्यातिरहस्यं च कथ्यते तव भक्तितः ।  
महानीलक्रमेणैव कालिका सिद्धिदायिनी ॥ ९-११३७ ॥  

प्। ८४१) महानीलक्रमो देवि द्विविधः परिकीर्तितः ।
सकलो निष्कलश्चेति तं क्रमं शृणु पार्वति ॥ ९-११३८ ॥

खड्गहस्तः शिरोन्यस्तः सर्वदा मुक्तकुन्तलः ।  
सदा मांसासवोल्लासी विजयाघूर्णलोचनः ॥ ९-११३९ ॥  

सिन्दूरतिलकं भाले पाणौ तु मदिरारसम् ।  
रात्रौ पर्यटनं चैव रात्रौ शक्तेः प्रपूजनम् ॥ ९-११४० ॥  

योनिचुम्बनकं कर्म शक्तेरालिङ्गनं तथा ।  
न करोति नरो यस्तु स कथं तव पूजकः ॥ ९-११४१ ॥  

ताम्बूलयोनिचक्रं च मुण्डमालां शवासनम् ।  
सिन्दूरं खड्गकं चैव संविदासवयो रसम् ॥ ९-११४२ ॥  

एतान् विहाय यः कश्चित् कालीं साधितुमुद्यतः ।  
इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् ॥ ९-११४३ ॥  

कोट्यर्बुदयुगैर्देवि न हि सिध्यति कालिका ।  
सिन्दूरविन्दुर्भ्रूमध्ये स्वयम्भूमुनिपत्रकम् ॥ ९-११४४ ॥  

रक्तचन्दनकं वाऽपि त्रिपुण्ड्रं च ततोपरि ।  
कुर्वन् दले कज्जलस्य विन्दुर्देयो महेश्वरि ॥ ९-११४५ ॥  

महानीलक्रमे देवि तिलकः परिकीर्तितः ।  
श्मशानशायी मांसाशी संविदानन्दमानसः ॥ ९-११४६ ॥  

स्त्रियं पश्यन् स्पृशन् गच्छन् सर्वकालं जपं चरेत् ।  
वेश्यारतः श्मशानस्थो मृदुचूडकसंयुतः ॥ ९-११४७ ॥  

दन्ताक्षमालया देवि गजदन्तेन मेरुणा ।  
मालां कृत्वा जपेद्देवि सदा ताम्बूलचर्वकः ॥ ९-११४८ ॥  

कपालमालाभरणो रामाचुम्बनतत्परः ।  

प्। ८४२) शक्त्यानन्दो नेत्रयुगे मुखे हाला गृहाङ्गणे ॥ ९-११४९ ॥

वेश्या बालाकरे माला शक्तिलीला भगाम्बुजे ।  
योनिसञ्चुम्बनं कृत्वा सर्वकाले जपं चरेत् ॥ ९-११५० ॥  

शक्तेर्भर्गं नमस्कार्यं सर्वमेतच्चराचरम् ।  
अधिकारी प्रहृष्टात्मा स्त्रीभक्तो विजितेन्द्रियः ॥ ९-११५१ ॥  
	  
ईदृग्विधो नरो देवि महानीलक्रमो मतः ।  
राजदन्तमयी माला द्विरदोष्ट्राश्वसम्भवा ॥ ९-११५२ ॥  

अशक्तानां निष्कलः स्यात् तं क्रमं शृणु पार्वति ।  
पीताया दुग्धकं पित्वा सच्चिदान्दमानसः ॥ ९-११५३ ॥  

स्फाटिकीं मालिकां कृत्वा विहारे जपमाचरेत् ।  
दिक्कालनियमो नास्ति स्थित्यादिनियमो न च ॥ ९-११५४ ॥  

न जपे कालनियमो महामन्त्रस्य साधने ।  
यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः ॥ ९-११५५ ॥  

भ्रान्तिस्तत्र न कर्तव्या स्वर्गो वा मोक्ष एव वा ।  
मृदु कोमलकं देवि चूडकं वाऽप्यचूडकम् ॥ ९-११५६ ॥  

शवं वीरासनं कृत्वा योनित्वगासनं च वा ।  
कामरूपासनं देवि सुरतासनमेव च ॥ ९-११५७ ॥  

सिन्दूरासनकं देवि पर्वतासनमेव च ।  
प्रयोगासनकं देवि महाप्रयोगासनं तथा ॥ ९-११५८ ॥  

श्रीमुण्डसुरतं वाऽपि श्रीवीरसुरतं च वा ।  

पञ्चवीरासनं देवि सुरेन्द्रादिदिशां क्रमात् ॥ ९-११५९ ॥

इति नीलक्रमः ।

प्। ८४३) देव्युवाच ।

देवेश श्रोतुमिच्छामि महाचीनक्रमं परम् ।  

शिव उवाच ।

महाचीनक्रमो देवि कथ्यते साम्प्रतं मया ॥ ९-११६० ॥  

महाचीनक्रमेणैव तारा शीघ्रफलप्रदा ।  
ब्रह्मचीनो वीरचीनो दिव्यचीनस्तृतीयकः ॥ ९-११६१ ॥  

महाचीनो निष्कलश्च चीनः पञ्चविधो मतः ।  
महाचीनक्रमो देवि द्विविधः परिकीर्तितः ॥ ९-११६२ ॥  

सकलो निष्कलश्चेति सकलो बौद्धगोचरः ।  
निष्कलो ब्राह्मणानां च द्वितीयः परिकीर्तितः ॥ ९-११६३ ॥  

तथा ।

स्नानादि मानसं शौचं मानसः प्रवरो जपः ।  
पूजनं मानसं दिव्यं मानसं तर्पणादिकम् ॥ ९-११६४ ॥  

मानसो नियमः प्रोक्तो मानसं दन्तधावनम् ।  
सर्व एव शुभः कालो नाशुभो विद्यते क्व चित् ॥ ९-११६५ ॥  

न विशेषो दिवा रात्रौ न सन्ध्यायां महानिशि ।  
शुद्धिं न कारयेदत्र निर्विकल्पं मनश्चरेत् ॥ ९-११६६ ॥  

नात्र शुद्धेरपेक्षाऽस्ति न चामेध्यादि दूषणम् ।  
य एवं चिन्तयेन्मन्त्रं सर्वकामसमृद्धिदम् ॥ ९-११६७ ॥  

गद्यपद्यमयी वाणी सभायां तस्य जायते ।  
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ॥ ९-११६८ ॥  

राजानोऽपि च दासत्वं भजन्ते किं परे जनाः ।  
सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः ॥ ९-११६९ ॥  

प्। ८४४) महानिश्यशुचौ देशे बलिं मन्त्रेण दापयेत् ।
स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः ॥ ९-११७० ॥

जपस्थाने महाशङ्खं निवेश्योर्ध्वे जपं चरेत् ।  
स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्राप्यचूडके ॥ ९-११७१ ॥  

भुक्त्वा ताम्बूलमन्या।श्च भक्ष्यद्रव्यान् यथारुचि ।  
मांसं मत्स्यं दधि क्षौद्रं संविदासवयो रसम् ॥ ९-११७२ ॥  

भोज्यान्यशेषभक्ष्याणि दत्वा भुक्त्वाऽचरेज्जपम् ।  
दिक्कालनियमो नास्ति स्थित्यादिनियमो न च ॥ ९-११७३ ॥  

न जपे कालनियमो नार्चादिषु वलिष्वपि ।  
स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने ॥ ९-११७४ ॥  

वस्त्रासनं गेहदेहस्पर्शास्पर्शादिवारिणा ।  
तैलं संलाप्य देवेशि ताम्बूलं भक्षयन् सदा ॥ ९-११७५ ॥  

नानाम्बराणि सन्धार्य देहं वस्त्रेण मार्जयेत् ।  
एवं स्नानं चरेद्देवि सर्वदा तद्गताशयः ॥ ९-११७६ ॥  

केशान् सम्बर्धयेद्देवि सर्वदा तैलभूषितः ।  
नाधर्मो विद्यते सुभ्रु किं तु धर्मो महान् भवेत् ॥ ९-११७७ ॥  

स्वेच्छाचारोऽत्र कथितः प्रचरेद्धृष्टमानसः ।  
कृतार्थमन्यमानस्तु सन्तोष्य निजमानसम् ॥ ९-११७८ ॥  

हरेर्नाम न गृह्नीयान्न स्पृशेत् तुलसीदलम् ।  
वर्जयेद्बिल्वपत्रं च मरुं यत्नेन वर्जयेत् ॥ ९-११७९ ॥  

नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन ।  
नान्यमन्त्रं जपेद्देवि निर्विकल्पः सदा भवेत् ॥ ९-११८० ॥  

सद्यो मद्यं पिवेद्देवि मातङ्गीभिर्विहारवान् ।
योनिं चुम्बा।ल्लिहन् पश्यन् जपं कुर्यादनन्यधीः ॥ ९-११८१ ॥

प्।८४५) यनौ विचिन्त्य जप्तव्यं सिद्धिर्वत्सरमात्रतः ।
अन्यथा नैव सिद्धिः स्यात् प्रजप्तैरपि कोटिभिः ॥ ९-११८२ ॥

पुरश्चरणलक्षैश्च होमादीनां च कोटिभिः ।  
भ्रूयुग्मे कुन्तले देवि सिन्दूरं तदनन्तरम् ॥ ९-११८३ ॥  

कुचन्दनं त्रिपुण्ड्रं च पङ्कजं वा सकेशरम् ।  
मुण्डमाला गले धार्या कपालं पाणिसङ्गतम् ॥ ९-११८४ ॥  

इत्याचारपरो नित्यं महाचीनक्रमी भवेत् ।  
कर्णनेत्रान्तरस्थो यो महाशङ्खः प्रकीर्तितः ॥ ९-११८५ ॥  

पञ्चाशन्मणिभिर्माला गोनरेभास्थिसम्भवा ।  
मालां कुर्यान्महेशानि चाष्टसिद्धीश्वरो भवेत् ॥ ९-११८६ ॥  

सैव तारा महेशानि नात्र कार्या विचारणा ।  
यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः ॥ ९-११८७ ॥  

कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव वा ।  

(स्वच्छन्दभैरवतन्त्रे)

न शौचादिक्रियाः कार्याः स्मृतिशास्त्रप्रचोदिताः ॥ ९-११८८ ॥  

एका लिङ्गे गुदे पञ्च इत्याद्या याः प्रकीर्तिताः ।  
न ताः कार्याः साधकेन्द्रैः यदीच्छेच्चिरजीवितम् ॥ ९-११८९ ॥  

(सिद्धान्तसङ्ग्रहेऽपि)

न देशकालनियमो भक्ष्यादिनियमो न हि ।  
शौचादिनियमो नास्ति महामन्त्रस्य साधने ॥ ९-११९० ॥  

दिवसे वा तथा रात्रौ रात्रिशेषे निशामुखे ।  
मांसं भुक्त्वाऽसवं पीत्वा स्त्रियं गत्वा चरेज्जपम् ॥ ९-११९१ ॥  

(शक्तिसङ्गमे)

सकलस्तु मया प्रोक्तो निष्कलं शृणु पार्वति ।  

प्। ८४६) मणिबन्धादधः पाणिं पादौ गुल्फादधः शिवे ॥ ९-११९२ ॥

मुखं प्रक्षालयेद्देवि चीनस्नानमिदं भवेत् ।  
जानुभ्यामवनीं गत्वा भूमौ मस्तकमानयेत् ॥ ९-११९३ ॥  

चीनमार्गे नमस्कारः कीर्तितस्तु मया तव ।
पूर्वक्रमस्य देवेशि क्रमः प्रतिनिधिर्मया ॥ ९-११९४ ॥

स्नानदानादिकं कृत्वा तथा पूजादिकं प्रिये ।  
तथा म्लानो न मे देहो न च पापं ममास्ति वै ॥ ९-११९५ ॥  

किं स्नानां कस्यचित् स्नानमस्नातः कृतभोजनः ।  
सर्वमेव हृदम्भोजे मयि सर्वं प्रतिष्ठितम् ॥ ९-११९६ ॥  

मयि जाता मन्त्रसिद्धिर्मम देवा वरप्रदाः ।  
तेजोरूपं जगत्सर्वं तारिणी तत्स्वरूपधृक् ॥ ९-११९७ ॥  

तत्तेजसा स्वस्थदेहं सम्भाव्य जपमाचरेत् ।  
भावनावशमापन्नो भवेद्योगी महाकविः ॥ ९-११९८ ॥  

गुडार्द्रकरसेनैव सुरा तु ब्राह्मणस्य च ।  
तदभावे जलं देवि सम्भाव्य पूजनं चरेत् ॥ ९-११९९ ॥  

तद्भावहृदयासन्नः सदा तद्गतमानसः ।  
द्वन्द्वभावं परित्यज्य सर्वसिद्धीश्वरो भवेत् ॥ ९-१२०० ॥  

ब्रह्मा चैव वशिष्ठश्च तथाऽन्ये च ऋषीश्वराः ।  
निष्कलक्रममार्गेण भजन्ति सततं शिवे ॥ ९-१२०१ ॥  

ताराभक्ता महेशानि ब्राह्मणाः परिकीर्तिताः ।  
ब्रह्मविद्या महाविद्या सर्वत्र दुर्लभा कलौ ॥ ९-१२०२ ॥  

रहस्यातिरहस्यं च गोप्तव्यं पशुसङ्कटे ।  

इति महाचीनक्रमः ।

प्। ८४७) अथ दिव्यचीनक्रमस्तत्रैव ।
देव्युवाच ।

छिन्नमस्ताविधौ देवि क्रमं मे ब्रूहि सत्वरम् ॥ ९-१२०३ ॥  

शिव उवाच

दिव्यचीनक्रमेणैव छिन्नमस्ता वरप्रदा ।  
क्रमद्वयं महेशानि पूर्वमेव प्रकाशितम् ॥ ९-१२०४ ॥  

एतस्यास्तिलको देवि भ्रूमध्ये च कुचन्दनम् ।  
तदन्ते रोचनापत्रैस्त्रिपुण्ड्रं दिव्यवर्णकैः ॥ ९-१२०५ ॥  

श्मशानभस्मविन्दुं तु तन्मध्ये दापयेत् प्रिये ।  
मुखे मुखं प्रदत्वा तु सर्वकालं जपेच्छिवे ॥ ९-१२०६ ॥  

योनिचक्रं समालोक्य यत् किञ्चित् कुरुते नरः ।  
तत् तदक्षयमाप्नोति छिन्नाविद्याप्रसादतः ॥ ९-१२०७ ॥  

दिक्कालनियमो नास्ति स्थित्यादिनियमो न हि ।  
पाताले कुहरे दुर्गे पर्वते तटिनीतटे ॥ ९-१२०८ ॥  

अन्तरिक्षे तथा भूमौ सर्वत्र जपमाचरेत् ।  
विशेषः कथितो देवि शक्तितत्त्वस्य पालकः ॥ ९-१२०९ ॥  

इति दिव्यचीनक्रमः ।

अथ गन्धर्वक्रमः ।

देव्युवाच ।

गन्धर्वाख्यं क्रमं देव कथयस्व मयि प्रभो ।  

शिव उवाच ।

गन्धर्वाख्यक्रमेणैव सुन्दरी सिद्धिदायिनी ॥ ९-१२१० ॥  

गन्धर्वाख्यक्रमो देवि कथ्यते शृणु साम्प्रतम् ।  
भ्रूमध्ये कुङ्कुमं देवि तन्मध्ये मालयागुरु ॥ ९-१२११ ॥  

प्। ८४८) अष्टगन्धत्रिपुण्ड्रस्य मध्ये कस्तूरिकान्वितम् ।
सुगन्धिश्वेतलौहित्यपुष्पैः सम्भूषितो नरः ॥ ९-१२१२ ॥

अष्टगन्धस्य धूपेन नानासौगन्ध्यभूषितः ।  
रक्तमाल्याम्बरधरो मुक्ताहारोपशोभितः ॥ ९-१२१३ ॥  

पूर्णाभिषिक्ते शिरसि तेन तत्र न मुण्डनम् ।  
सदा चोष्णोदकैः स्नायात् तदभावे यथोदकैः ॥ ९-१२१४ ॥  

गृहं चित्रैस्तु सञ्चित्रं दर्पणोदरसन्निभम् ।  
वितानध्वजभूषाढ्यं घण्टानादोपशोभितम् ॥ ९-१२१५ ॥  

पञ्चवादित्रसंयुक्तं नानाघोषसमन्वितम् ।  
अन्तःसूक्ष्माम्बरैर्युक्तं स्वर्णपात्रादिरञ्जितम् ॥ ९-१२१६ ॥  

ग्रैवेयवलयाङ्गुल्यभूषणैर्भूषितः सदा ।
नानामधुरभोज्यैश्च दुग्धपानैरनेककैः ॥ ९-१२१७ ॥

नानाभोगेन युक्तोऽयं गन्धर्वाख्यक्रमो भवेत् ।  

इति गन्धर्वक्रमः ।

अथ भैरवक्रमः ।

इति सङ्क्षेपतः प्रोक्तं भैरवाख्यं शृणु क्रमम् ॥ ९-१२१८ ॥  

स्वपुष्पक्रमयोगेन भैरवी भुवि दुर्लभा ।  
स्वपुष्पाख्यक्रमो देवि कथ्यते शृणु साम्प्रतम् ॥ ९-१२१९ ॥  

तरुणीं सुन्दरीं रम्यां तारुण्यामृतविग्रहाम् ।  
सदा रते साभिलाषां मैथुनोद्यतमानसाम् ॥ ९-१२२० ॥  

मन्त्रयन्त्रसमायुक्तां समानीय महेश्वरि ।  
नग्नां तां च विधायादौ स्वयं नग्नो जपं चरेत् ॥ ९-१२२१ ॥  

परस्परालोकनं च कर्तव्यं च परस्परम् ।  

प्। ८४९) अविकारी यदा देवि साधनार्हो न चान्यथा ॥ ९-१२२२ ॥

विकारे भावमाने च साधको नश्यति क्षणात् ।  
साऽपि चेद्देवदेवेशि सविकारा यदा भवेत् ॥ ९-१२२३ ॥  

पुष्पिणीमनुना देवि बलात् पुष्पं समानयेत् ।  

द्राविणीमनुना देवि बलाद्दृष्ट्या द्रवं नयेत् ॥ ९-१२२४ ॥

केलिदोषवशाद्देवि नायं योगो भविष्यति ।  
तस्मात् पाशवकल्पेन बाला शस्ताऽधुना शिवे ॥ ९-१२२५ ॥  

बालायामुभयाचारो दक्षिणो मुख्य एव हि ।  

तथा ।

शीघ्रं च सिद्धिकामश्चेद्गवाक्षं योगमभ्यसेत् ॥ ९-१२२६ ॥  

यत्र स्त्रीणां समूहोऽस्ति नदीनदसमुद्रके ।  
यत्र स्नानं प्रकुर्वन्ति गवाक्षं तत्र कारयेत् ॥ ९-१२२७ ॥  

तमालोक्य प्रयत्नेन जपं कुर्यान्निरन्तरम् ।  

इति सङ्क्षेपतः प्रोक्तं तिलकं शृणु पार्वति ॥ ९-१२२८ ॥

वामहस्ततले यन्त्रं विलिख्य यत्नतः शिवे ।  
अविशिष्टेन तिलकं कारयेत् परमेश्वरि ॥ ९-१२२९ ॥  

भाले कस्तूरिकाविन्दुं मुनिपत्रं कुचन्दम् ।  
तन्मध्ये श्वेतविन्दुं च केशादिपूर्ववद्भवेत् ॥ ९-१२३० ॥  

दशविद्याविधौ देवि केशवर्धनमीरितम् ॥  

इति भैरवक्रमः ।

अथ कमलाक्रमः ।

देव्युवाच ।

देवेश श्रोतुमिच्छामि कमलाक्रमनिर्णयम् ॥ ९-१२३१ ॥  

शिव उवाच ।

भ्रूमध्ये घुसृणं देवि सिन्दूरं तदनन्तरम् ।  

प्। ८५०) श्वेतं त्रिपुण्ड्रं देवेशि तन्मध्ये केशरं शिवे ॥ ९-१२३२ ॥

स्नातः शुक्लाम्बरधरस्त्रीसन्ध्यं स्नानमाचरेत् ।  
हविष्याशी भूमिशायी मधुरान्नप्रियो नरः ॥ ९-१२३३ ॥  

भृगुवासरपर्यन्तं द्वितीयं भृगुवासरम् ।  
प्रत्यहं पूजयेद् देवि नानावादित्रनिस्वनैः ॥ ९-१२३४ ॥  

दिनषोडशपर्यन्तं प्रत्यहं तु समाचरेत् ।  
पुनस्तद्दिनमारभ्य तद्दिनान्तं महेश्वरि ॥ ९-१२३५ ॥  

पूजयेत् प्रयतो नित्यं देवताभावतत्परः ।  
प्रदक्षिणा प्रकर्तव्या कलाभावक्रमेण च ॥ ९-१२३६ ॥  

दीपास्तत्र प्रदातव्याः कलावृद्धिक्रमेण च ।  
ब्रह्मणान् भोजयेन्नित्यं कलाभावक्रमेण च ॥ ९-१२३७ ॥  

इत्याचारपरः श्रीमान् विष्णुरूपो नरो भवेत् ।  
राजचिह्नानि सर्वाणि प्रयतः पूजयेत् सदा ॥ ९-१२३८ ॥  

सर्वसाम्राज्यलक्ष्म्यास्तु नाथो भूयान्न संशयः ।  
धनदा तस्य गेहस्था राजा च किङ्करो भवेत् ॥ ९-१२३९ ॥  

इति कमलाक्रमः ।

अथ ब्रह्ममार्गक्रमः ।

देव्युवाच ।

देवेश श्रोतुमिच्छामि ब्रह्ममार्गक्रमं शिव ।  

शिव उवाच ।

वेश्यायाः कज्जलं देयं सिन्दूरेण त्रिपुण्ड्रकम् ।  
हरिद्रा भ्रूयुगे देया श्वेतपत्रं समाचरेत् ॥ ९-१२४० ॥  

रक्तविन्दुं च तन्मध्ये सर्वदा तद्गतो भवेत् ।  
भोजने शयने रात्रौ मैथुनं सर्वदा भवेत् ॥ ९-१२४१ ॥  

प्। ८५१) उच्छिष्टहस्तो देवेशि उच्छिष्टेन वलिं हरेत् ।
शक्त्युच्छिष्टं परोच्छिष्टं भोजनं सार्वकालिकम् ॥ ९-१२४२ ॥

जपं कुर्यान्महेशानि रात्रावेव जपं चरेत् ।  
ताम्बूलभक्षी मांसाशी भुक्त्वा चार्चां च कारयेत् ॥ ९-१२४३ ॥  

उच्छिष्टहस्तः प्रजपेद्ब्रह्ममार्गः प्रकीर्तितः ।  

इति ब्रह्ममार्गक्रमः ।

अथ महाराजक्रमः ।

देव्युवाच ।

महाराजक्रमं देव कथयस्व मम प्रभो ॥ ९-१२४४ ॥  

शिव उवाच ।

महाराजक्रमो देवि कथ्यते शृणु साम्प्रतम् ।  
नानाविचित्रसोपानमण्डिते चित्रमण्डपे ॥ ९-१२४५ ॥  

सौधाट्टालकसंशोभिवितानध्वजशोभिते ।  
नानोपवनसंयुक्ते हंसमायूरशोभिते ॥ ९-१२४६ ॥  

नानाविचित्रशब्देन गजवाजिविराजिते ।  
सर्वतो भद्रसंयुक्ते नानाभरणभूषिते ॥ ९-१२४७ ॥  

धूपामोदसमायुक्ते चित्रदीपैरलङ्कृते ।  
रत्नसिंहासने रम्ये रत्नाभरणभूषिते ॥ ९-१२४८ ॥  

जातीचम्पकपुन्नागकेतकीगन्धशोभिते ।  
कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमैर्युते ॥ ९-१२४९ ॥  

जटामांस्यादिसौगन्धलेपनैः परिभूषितः ।  
घण्टादिनादसंयुक्तः सर्वदा शुद्धमानसः ॥ ९-१२५० ॥  

आनन्दमग्नहृदयो दिव्यवस्त्रैरलङ्कृतः ।
दिव्यमालाम्बरधरो दिव्यभूषाविभूषितः ॥ ९-१२५१ ॥

प्। ८५२) ताम्बूलपूर्णवदनो देवेन्द्र इव राजितः ।
वेदपात्रैर्नृत्यपात्रैर्भोगपात्रैर्निनादितः ॥ ९-१२५२ ॥

नृत्यगीतैश्च वादित्रैश्चतुर्विंशतिवादकैः ।  
सङ्गीतरागतालैश्च ध्वनिभिश्च निनादितः ॥ ९-१२५३ ॥  

नानादेशीयभाषाभिर्गद्यपद्यैरलङ्कृतः ।  
नानाविचित्रभूषाभिर्भूषितः साधकोत्तमः ॥ ९-१२५४ ॥  

समस्तराजचर्याभिर्मोहयन्राजनायिकाः ।  
श्रीमहाराजमातङ्गी सर्वदेवप्रमोहिनी ॥ ९-१२५५ ॥  

तस्यास्तु तिलकं देवि कथ्यते शृणु पार्वति ।  
कुचन्दनं च भ्रूमध्ये गुरुसारस्तदन्तरे ॥ ९-१२५६ ॥  

कस्तूरिकात्रिपुण्ड्रं च तन्मध्ये केशरं शिवे ।  
महाराजक्रमो देवि कथितस्तु मया तव ॥ ९-१२५७ ॥  

अथ वा देवदेवेशि स्वयं गानपरो भवेत् ।  

इति महाराजक्रमः ।

अथ दिव्यभावक्रमः ।

देव्युवाच ।

वद श्रीभुवनेशान्याः क्रमं परमदुर्लभम् ॥ ९-१२५८ ॥  

शिव उवाच ।

दिव्यभावक्रमेणैव भुवना शीघ्रसिद्धिदा ।  
हकारः शिवरूपः स्याद्रकारः पापनाशकः ॥ ९-१२५९ ॥  

ईकारः कामरूपः स्यान्माया तेन प्रकीर्तिता ।  
ब्रह्माण्डमेतद्देवेशि मायया वेष्टितं भवेत् ॥ ९-१२६० ॥  

यस्या मायां विना देवि न किञ्चित् प्रतिभासते ।  
यद्भासरहितं किञ्चिन्न च तद्भासते क्वचित् ॥ ९-१२६१ ॥  

प्। ८५३) यद्भासासहितं देवि जगदेतत् प्रभासते ।
यां विना तु महेशानि जगज्जडसमं भवेत् ॥ ९-१२६२ ॥

एवं क्रमेण देवेशि सदा तद्गतमानसः ।  
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥ ९-१२६३ ॥  

एतस्यास्तिलकं देवि कथ्यते यत्नतः शृणु ।  
श्वेतचन्दनविन्दुं तु भ्रूमध्ये तु प्रलापयेत् ॥ ९-१२६४ ॥  

गन्धसारं तदन्ते स्यात् त्रिपुण्ड्रं दिव्यवर्णकैः ।  
रक्ताक्षता।श्च तन्मध्ये तेन सिद्धीश्वरो भवेत् ॥ ९-१२६५ ॥  

इति दिव्यभावक्रमः ।

अथ धूम्रक्रमः ।

देव्युवाच ।

देवेश श्रोतुमिच्छामि धूमावत्याः क्रमं शिव ।  

शिव उवाच ।

धूमावत्याः क्रमो देवि कथ्यते शृणु पार्वति ॥ ९-१२६६ ॥  

भ्रूमध्ये कज्जलं देवि भस्मविन्दुस्तदन्तरे ।  
त्रिपुण्ड्रं च ललाटे स्याच्छवभस्म तदन्तरे ॥ ९-१२६७ ॥  

कृष्णवस्त्राम्बरधरः कृष्णगन्धविभूषितः ।  
गन्धपुष्पेण संयुक्तः श्मशानासनसङ्गतः ॥ ९-१२६८ ॥  

धूम्रवर्णं जगत् सर्वं मन्त्री धूम्रमयो भवेत् ।  
काकपिच्छं चासनं स्यात् कृष्णद्रव्यं प्रधारयेत् ॥ ९-१२६९ ॥  

ब्रह्मचारी मिताहारी निर्विकल्पो जितेन्द्रियः ।  
सत्यवादी दृढाचारो भूशायी कुशविष्टरः ॥ ९-१२७० ॥  

स्नानं त्रिषवणं कुर्यादुच्चाटनपरायणः ।
स्वचित्तं काकवत् कृत्वा जगदुच्चाटयेद्ध्रुवम् ॥ ९-१२७१ ॥

प्। ८५४) इत्याचारपरो भूयाद्धूम्रक्रमगतो भवेत् ।

इति धूम्रक्रमः ।

अथ सौभाग्यक्रमस्तत्रैव ।

सौभाग्यार्चाक्रमेणैव वगला शीघ्रसिद्धिदा ॥ ९-१२७२ ॥  

पीताम्बरधरो मन्त्री पीतभूषणभूषितः ।  
पीतमाल्याम्बरधरः पीतगेहे समास्थितः ॥ ९-१२७३ ॥  

पीतद्रव्योपभोगी च पीतासनसमन्वितः ।  
पीतहोमो पीतपुष्पी पीतसक्तिसमन्वितः ॥ ९-१२७४ ॥  

रोचनां भ्रुवि सन्दद्यात् कुङ्कुमं मुनिपत्रकम् ।  
हरिद्रया त्रिपुण्ड्रं च तन्मध्ये खादिरं शिवे ॥ ९-१२७५ ॥  

हरिचन्दनधूपेन धूपितः परमेश्वरि ।  
सर्वाङ्गसुन्दरीं रम्यां सर्वावयवशोभिताम् ॥ ९-१२७६ ॥  

नबोढां पुष्पिणीं चैव प्रार्थयेद्विप्रकन्यकाम् ।  
अष्टम्यां च चतुर्दश्यां पौर्णमास्यां कुमारिकाम् ॥ ९-१२७७ ॥  

अथ वा भौमवारे वा निशायां भृगुवासरे ।  
सुवासितेन तैलेन कुर्यादभ्यञ्जनं तथा ॥ ९-१२७८ ॥  

तूलिकातल्पमानीय आस्तीर्योदङ्मुखस्तदा ।  
तस्योपरि समास्तीर्य समन्त्रैर्जातिचम्पकैः ॥ ९-१२७९ ॥  

कर्पूरं चैव कस्तूरीमिश्रितं चन्दनं तथा ।  
सर्वाङ्गे लेपनं कुर्याल्लक्ष्मीसूक्तेन बुद्धिमान् ॥ ९-१२८० ॥  

पर्यङ्कोपरि तां कन्या चन्दनेन विलेपिताम् ।  
ध्रुवाद्यैरिति मन्त्रेण कन्यां दक्षिणतो मुखी ॥ ९-१२८१ ॥  

उन्मुखीं शयने कुर्याच्छ्रीसूक्तेन कुमारिकाम् ।  

प्। ८५५) तस्याः पादौ प्रसार्याथ गुप्तेनार्चनमाचरेत् ॥ ९-१२८२ ॥

न्यस्त्वा षोढाद्वयं चैव वगलापञ्चकं न्यसेत् ।  
कन्यां चैव न्यसेद्देवं तत्तदङ्गानि संस्मरेत् ॥ ९-१२८३ ॥  

अनन्यजपुरं चैव मार्जयेन्मूलविद्यया ।  
गन्धद्वारेति मन्त्रेण कुर्यात् कस्तूरिलेपनम् ॥ ९-१२८४ ॥  

मूलमन्त्रेण चैतन्यपुष्पमालां समर्पयेत् ।  
निवेदयेद्द्रव्यशुद्धिं ततश्च जपमाचरेत् ॥ ९-१२८५ ॥  

प्रयोगः सिद्धिदः पुंसां मन्त्रसिद्धिकरः परः ।  
एतत्क्रमं विना देवि प्रयोगो न भवेत् क्वचित् ॥ ९-१२८६ ॥  

तस्मात् सर्वप्रयत्नेन सिद्ध्यर्थी देवि भूतले ।  
अभिमानाष्टकं त्यक्त्वा त्यक्त्वा वै दूषणत्रयम् ॥ ९-१२८७ ॥  

त्यक्त्वा पञ्चेन्द्रियासक्तिं सौभाग्यक्रममाचरेत् ।  

इति सौभाग्यक्रमः ।

अथ दिव्यवीरपशुभावाः ।

(भावचूडामणौ)

देव्युवाच ।

भावस्तु त्रिविधो देव दिव्यवीरपशुक्रमात् ॥ ९-१२८८ ॥  

गुरवस्त्रिविधाश्चात्र तथैव मन्त्रदेवताः ।  
शक्तिमन्त्रो महादेव विशेषान्मन्त्रसिद्धिदः ॥ ९-१२८९ ॥  

आद्यभावो महादेव श्रेयान् सर्वसमृद्धिदः ।  
द्वितीयो मध्यमश्चैव तृतीयः सर्वनिन्दितः ॥ ९-१२९० ॥  

सर्वनिन्दित इति ब्राह्मणेतरविषयः । ब्राह्मणस्य तु पशुभावान्यभावश्रयणे निन्दाश्रवणात् ।

तथा ।  

लक्षजापात् तथा होमात् कायक्लेशादिविस्तरैः ।  

प्। ८५६) न भावेन विना देव तन्त्रमन्त्राः फलप्रदाः ॥ ९-१२९१ ॥

किं वीरसाधनेनैव विश्वदृष्टिकुलाकुलैः ।  
किं पीठपूजनेनैव किं कन्याभोजनादिभिः ॥ ९-१२९२ ॥  

स्वयोषित्प्रीतिदानेन किं परेषां तथैव च ।  
किं जितेन्द्रियभावेन किं कुलाचारकर्मणा ॥ ९-१२९३ ॥  

यदि भावविशुद्धात्मा न स्यात् कुलपरायणः ।  
भावेन लभते मुक्तिं भावेन कुलवर्धनम् ॥ ९-१२९४ ॥  

भावेन कुलवृद्धिः स्याद्भावेन कुलशोभनम् ।  
किं न्यासविस्तरेणैव किं तत्तच्छुद्धिविस्तरैः ॥ ९-१२९५ ॥  

किं तथा पूजनेनैव यदि भावो न जायते ।  
केन वा पूज्यते विद्या न चेत् केन न जप्यते ॥ ९-१२९६ ॥  

फलाभावश्च देवेश भावाभावात् प्रजायते ।  

तथा ।

प्रथमो दिव्यभावस्तु कथ्यते शृणु सादरम् ॥ ९-१२९७ ॥  

यद्वर्णदेवता यत्र तत्तेजःपुञ्जपूरितम् ।  
तेजोमयं जगत् सर्वं विभाव्य मूर्तिकल्पनम् ॥ ९-१२९८ ॥  

तत्तन्मूर्तिमये मन्त्रे स्वेन स्वेनैव वा पुनः ।  
आत्मानं तन्मयं दृष्ट्वा सर्वभावं तथैव च ॥ ९-१२९९ ॥  

तत्सर्वं योषिति ध्यात्वा चिन्तयेद्यतमानसः ।  
अशेषकुलसम्पन्ना नानाजातिसमुद्भवा ॥ ९-१३०० ॥  

नानादेशोद्भवा वाऽपि गुणलावण्यसंयुता ।  
द्वितीयवत्सरादूर्ध्वं यावत् स्यादष्टमाब्दकम् ॥ ९-१३०१ ॥  

तावत् कुमारी विज्ञेया मन्त्रयन्त्रफलप्रदा ।  
कुमारीपजनाच्चैव कुमारीभोजनादपि ॥ ९-१३०२ ॥  

प्। ८५७) एकद्वित्र्यादिबीजानां फलदा नात्र संशयः ।
ताभ्यः पुष्पं फलं वाऽपि अनुलेपादिकं तथा ॥ ९-१३०३ ॥

वलिप्रियं च नैवेद्यं दत्वा तद्भावपूरितः ।  
दत्वा तदङ्ग आत्मानं वलिभावे विचेष्टितम् ॥ ९-१३०४ ॥  

ताभिः प्रायः कथालापं क्रीडाकौतूहलादिकम् ।  
यथातथं तत्प्रियकृत् कृत्वा सिद्धीश्वरो भवेत् ॥ ९-१३०५ ॥  

तस्मात् षोडशपर्यन्तं युवतीति प्रवक्ष्यते ।  
तत्र भावप्रकाशश्चेत् सद्भावः परमो मतः ॥ ९-१३०६ ॥  

रक्षितव्याः प्रयत्नेन अक्षतास्ता न कारयेत् ।  
एष ते कथितो देव दिव्यभावः सुखावहः ॥ ९-१३०७ ॥  

न देयो यस्य कस्यापि पशोर्गोप्यः प्रयत्नतः ।  

इति दिव्यभावः ।

अथ वीरभावस्तत्रैव ।

देव्युवाच ।

वीरभावो महादेव कथ्यते शृणु भैरव ॥ ९-१३०८ ॥  

निर्द्वन्द्वमानसो भूत्वा हृदा कामकला तनुः ।  
निशासु पूजा प्रवरा हेतुयुक्ता तथैव हि ॥ ९-१३०९ ॥  

निजं कुलं समाधाय स्वयं भैरवरूपधृक् ।  
कुलं च भैरवीरूपं तद्गात्रे न्यासविस्तरम् ॥ ९-१३१० ॥  

विन्यसेत् केवलं न्यासं नवयोन्यात्मकं तथा ।  

नवयोन्यत्मकमिति श्रीविद्यापरम् ।

प्रसूनतूलिकामध्ये पुष्पप्रकरसंयुते ॥ ९-१३११ ॥  

नानागन्धसमाकीर्णे कुलद्रव्येण यन्त्रकम् ।  
लिखित्वा पूजयेच्छक्तौ घटस्थापनपूर्वकम् ॥ ९-१३१२ ॥  

प्। ८५८) स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् ।
लिखित्वा तत्र कुम्भं वै सौवर्णं राजतं तथा ॥ ९-१३१३ ॥

ताम्रं भूमिमयं वाऽपि महालोहविवर्जितम् ।  
स्थापयेत् कलशाधारं कुम्भं सुगन्धिवासितम् ॥ ९-१३१४ ॥  

हेतुद्रव्यं ब्राह्मणादिभेदतः सम्प्रपूरयेत् ।  

ब्राह्मणादिभेदत इति क्षीराज्यमध्वासवरूपं ब्राह्मणादिभिः पूरणीयमित्यर्थः । एवं च वीरब्राह्मणस्य हेतुस्थाने क्षीरमेव च । पशोस्तु तदपि नेति बोध्यम् ।

तत्र यन्त्रं विलिख्यादौ यद्यत् कुलसमुद्भवम् ॥ ९-१३१५ ॥  

ध्यात्वेष्टदेवतां तत्र जपेदष्टोत्तरं शतम् ।  
धेनुयोनी प्रदर्श्याथ प्रसृतं तद्विचेष्टितम् ॥ ९-१३१६ ॥  

दृष्ट्वाऽमृतं स्वपात्रं वै नृत्यन्ति योगिनीगणाः ।  
नृत्यन्ति भैरवाः सर्वे नृत्यन्ति मातरोऽपि च ॥ ९-१३१७ ॥  

इन्द्रादयः सुराः सर्वे नृत्यन्ति मधुलोलुपाः ।  
ब्रह्मविष्णुमहेशाद्या नृत्यन्ति हर्षतत्पराः ॥ ९-१३१८ ॥  

अर्घभाण्डं त्रिधा कृत्वा गुरवे चैकभागकम् ।  
एवं कुलाय वै दत्त्वा एकेन देवतर्पणम् ॥ ९-१३१९ ॥  

पीत्वा कुलरसं नानावस्त्रालङ्कारभूषणम् ।  
साक्षाद्यदि गुरुर्न स्यात् तदा तोये विसर्जयेत् ॥ ९-१३२० ॥  

आनन्दरूपवान् भूत्वा पूजयेत् परमेश्वरीम् ।  
तत्तत्कल्पविधानेन तत्तद्यत्नेन पूजयेत् ॥ ९-१३२१ ॥  

विसर्जनं विधायान्ते स्वकुले योजयेत् ततः ।  
तद्विम्बरसपानेन अमृतं भक्ष्यते मया ॥ ९-१३२२ ॥  

तच्चकोररसास्वादे सम्मदो मम जायते ।  
तत्फलग्रहणादेव मेरुशृङ्गावरोहणम् ॥ ९-१३२३ ॥  

प्। ८५९) लतालिङ्गनमात्रेण सुधाधौतकलेवरः ।
मूलयोगे कृते तत्र जपेदष्टसहस्रकम् ॥ ९-१३२४ ॥

नित्यजाप्ये च होमे च यत्र सङ्ख्या न चोदिता ।  
तत्रेयं गणना प्रोक्ता अष्टोत्तरसहस्रकम् ॥ ९-१३२५ ॥  

जलपूतं हविर्द्रव्यं गृहीत्वा तर्पयेत् ततः ।  
विधाय तर्पणं देव प्रदक्षिणमनुव्रजेत् ॥ ९-१३२६ ॥  

स्तुत्वा प्रणम्य कल्पोक्तस्तवेन स्तावयेत् ततः ।  
इति वीरकुलं देव देववन्द्यं मनोहरम् ॥ ९-१३२७ ॥  

(कालीकल्पे)

रात्रौ पर्यटनं चैव रात्रौ शक्तिं प्रपूजयेत् ।  
अकृत्वा कथमीशान मद्भक्तः कौलिको भवेत् ॥ ९- १३२८ ॥  

(मेरुतन्त्रे)

कुलं तु गोपयेद्देवि नारिकेलरसाम्बुवत् ।  
गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् ॥ ९-१३२९ ॥  

(कुलार्णावे)

वेदशास्त्रपुराणानि स्पष्टा वेश्याङ्गना इव ।  
इयं तु शाम्भवी विद्या गुप्ता कुलवधूरिव ॥ ९-१३३० ॥  

सुगुप्तं कौलिकाचारमनुगृह्णन्ति देवताः ।  
वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशनात् ॥ ९-१३३१ ॥  

(मेरौ)

न दिवा सेवयेन्नारीं तद्योनिं न निरीक्षयेत् ।  
स्त्रियं शतापराधां वा पुष्पेणापि न ताडयेत् ॥ ९-१३३२ ॥  

दोषान् न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् ।  

तथा ।

कन्याः कुमारिका नग्ना उन्मत्ता अपि योषितः ॥ ९-१३३३ ॥  

प्। ८६०) न निन्देत जुगुप्सेत न हसेन्नावमानयेत् ।
एकवृक्षं श्मशानं च समूहं योषितामपि ॥ ९-१३३४ ॥

नारीं च रक्तवसनां दृष्ट्वा वन्देत भक्तितः ।  

तथा ।

तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ॥ ९-१३३५ ॥  

तत्पत्रेषु न भोक्तव्यमर्कपत्रे विशेषतः ।  
न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् ॥ ९-१३३६ ॥  

दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन ।  
श्लेष्मान्तककरञ्जार्कनिम्बाश्वत्थकदम्बकाः ॥ ९-१३३७ ॥  

विल्वो वटोऽदुम्बरश्च चिञ्चा चेति दश स्मृताः ।  
प्रायश्चित्तं भृगोः पातं सन्यासं व्रतधारणम् ॥ ९-१३३८ ॥  

तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् ।  

प्रायश्चित्तादिकं तन्त्रोक्तभिन्नम् ।

(रौद्रे)

वीरभावं महेशानि सर्वथा न प्रकाशयेत् ॥ ९-१३३९ ॥  

(वीरचूडामणौ)

पूजाकाले महेशानि यदि कोऽप्यत्र गच्छति ।  
दर्शयेद्वेष्णावीं मुद्रां विष्णुन्यासं तथा स्तवम् ॥ ९-१३४० ॥  

अन्तः शाक्ता बहिः शैवाः सभायां वैष्णवा मताः ।  
नानारूपधरा वीरा विचरन्ति महीतले ॥ ९-१३४१ ॥  

(भावचूडामणौ)

यद्देशे विद्यते वीरस्तत्कुलं वाऽपि भैरव ।  
न च मारीभयं तत्र न च राजभयादिकम् ॥ ९-१३४२ ॥  

सुमङ्गलं सदा तत्र धनपुत्रविवर्धनम् ।  
लक्ष्मीस्तत्र महादेव सुस्थिरा भवति ध्रुवम् ॥ ९-१३४३ ॥  

प्। ८६१) मन्त्रः स्वप्नप्रबोधिन्या अवश्यं वृक्षमूलके ।
योजनीयः प्रयत्नेन न च विघ्नः प्रजायते ॥ ९-१३४४ ॥

नान्यवीरस्य तद्योग्यं ग्रहणैर्दैवतैरपि ।  
योगिनीभिर्न लुप्तं च तन्न पापेन लिप्यते ॥ ९-१३४५ ॥  

यत्र तत्र कुजे वारे श्मशानगमने कृते ।  
पूजाफलं भवेत् तत्र सप्तवासरसम्मितम् ॥ ९-१३४६ ॥  

चतुर्दश्यां गते तत्र पक्षपूजाफलं भवेत् ।  
न गच्छेन्नार्यतः स्थाने पशुरेव न संशयः ॥ ९-१३४७ ॥  

नास्त्यस्मादधिकं देव इति चिन्तापरायणः ।  
मदेन द्रव्यभोक्ता च भवेत् कुलपरायणः ॥ ९-१३४८ ॥  

साधके क्षोभमापन्ने मम क्षोभः प्रजायते ।  
तस्माद्यत्नाद्वीरवरो भवेद्भोगयुतः सुखी ॥ ९-१३४९ ॥  

भोगेन मोक्षमाप्रोति भोगेन कुलसाधनम् ।  
विना हेतुमनास्वाद्य क्षोभयुक्तो महेश्वर ॥ ९-१३५० ॥  

न पूजा मम सम्पर्कं न ध्यानमनुचिन्तनम् ।  
तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् ॥ ९-१३५१ ॥  

नात्र प्रच्युतिदोषोऽस्ति नापरं दोषभूषणम् ।  
यद्यद्वदति निद्राति यत् करोति यदर्चति ॥ ९-१३५२ ॥  

तत्सर्वं कुलरूपं च ध्यात्वा च विहरेत् सुखी ।  
एकाकी निर्जने देशे श्मशाने पर्वते वने ॥ ९-१३५३ ॥  

शून्यगेहे नदीतीरे निःसङ्गो विहरेन्मुदा ।  
वीराणां जपकालस्तु सर्वकालः प्रशस्यते ॥ ९-१३५४ ॥  

सर्वदेशे सर्वपीठे कर्तव्यं च न संशयः ।  

प्। ८६२) यदि विप्रो भवेद्भ्रष्टः कुलधर्मपरायणः ॥ ९-१३५५ ॥

तदा तेन विधानेन कर्तव्यं कुलतोषणम् ।  
अपरापुष्पगर्भे तु कुलस्थानं मनोहरम् ॥ ९-१३५६ ॥  

सर्वदेवमुखं तत्र महाकामकलात्मकम् ।  
हयारिकुसुमे देवः स्वयमस्ति सदाशिवः ॥ ९-१३५७ ॥  

तन्मध्ये लघुमादाय पुष्पमध्ये तु चन्दनम् ।  
रक्तं वा कुसुमं दत्वा ध्यात्वाऽत्मानं शिवात्मकम् ॥ ९-१३५८ ॥  

योजयेच्छिवशक्त्योस्तु ऐक्यं सम्भावयेद्धिया ।  
क्षणं विचिन्त्य तत्रैव सम्पूज्य परमेश्वरीम् ॥ ९-१३५९ ॥  

जप्त्वा तदेव कुण्डाख्यं द्रव्यं परमदुर्लभम् ।  
यत्रापराजितापुष्पं जपापुष्पं च भैरव ॥ ९-१३६० ॥  

करवीरे रक्तशुक्ले द्रोणपुष्पं च तिष्ठति ।
तत्र देवी वसेन्नित्यं तद्यन्त्रे पूजयेन्मम ॥ ९-१३६१ ॥

दत्ते चैव जपापुष्पे पट्टवस्त्रफलं लभेत् ।  
ब्रह्महत्यादिकं पापं क्षणान्नश्यति निश्चितम् ॥ ९-१३६२ ॥  

अपरायास्तु माहात्म्यं वक्तुं न हि महेश्वर ।  
वीरसाधनकार्यं च कर्तव्यं वीरपूरुषैः ॥ ९-१३६३ ॥  

दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः ।  

वरं पामरकार्यं च न पशोरिति निश्चितम् ॥ ९-१३६४ ॥

यद्यन्न मत् पुरा प्रोक्तं सङ्केतं मन्त्रसाधने ।  
अञ्जनं गुटिकादिं च कुर्याद्वीरो महाबलः ॥ ९-१३६५ ॥  

दिव्ये वीरे न भेदोऽस्ति यद्भेदं तत् तु कथ्यते ।  
शान्तो विनीतो मधुरः कलालावण्यसंयुतः ॥ ९-१३६६ ॥  

प्। ८६३) दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः ।

(कुलरत्नावल्याम्)

दिव्यवीरौ सुरेशानि शक्तिसेवापरायणौ ॥ ९-१३६७ ॥  

वामिकौलिकभेदाभ्यां प्रत्येकं द्विविधौ स्मृतौ ।  

(भावचूडामणौ)

विभूतिभूषणैर्वाऽपि चन्दनैर्वा विलेपितः ॥ ९-१३६८ ॥  

आकारगोपनो वाऽपि त्यक्तो वा कुलभैरव ।  
रक्तचन्दनदिग्धो वा वैष्णवो वाऽप्यवैष्णवः ॥ ९-१३६९ ॥  

अपमाने तु पूजायां हृष्टः पुष्टः सदा भवेत् ।  
देवनिन्दापरो वाऽपि तत्र पूजापरोऽपि वा ॥ ९-१३७० ॥  

पूजा च तत्तद्रहितः कुलाकुलमते स्थितः ।  
निजभावसमायुक्तो देववद्विरहेत् क्षितौ ॥ ९-१३७१ ॥  

स्वकुलान्ते पुरश्चर्या कार्या रात्रौ न चान्यथा ।  
वेदहीने द्विजे देव यथा न श्रुतिसङ्कथा ॥ ९-१३७२ ॥  

विष्णुभक्तिं विना देवीभक्तिर्न प्रभवेद्यथा ।  
शाक्तज्ञानं विना मुक्तौ यथा हास्याय कल्पते ॥ ९-१३७३ ॥  

गुरुं विना यथा तन्त्रे नाधिकारः कथं चन ।  
पतिहीना यथा नारी सर्वकर्मविवर्जिता ॥ ९-१३७४ ॥  

कुलं विना देवविधौ कदाऽपि मम साधने ।  
नाधिकारीति कौलेय तस्माद्भावपरो भवेत् ॥ ९-१३७५ ॥  

अविनीतं कुलं यस्य स क कथं मम पूजकः ।  
तस्माद्यत्नात् तथा कार्यं यथा स्याद्विनयान्वितम् ॥ ९-१३७६ ॥  

भावाभावे कुले शास्त्रे नाधिकारः कथं चन ।  
तेन भावविशुद्धश्च साधकः कौलिको भवेत् ॥ ९-१३७७ ॥  

इति वीरभावक्रमः ।

प्। ८६४) देव्युवाच ।

पशुभावं प्रवक्ष्यामि शृणु वत्स समाहितः ।  
यथाविधि पशोर्विद्यां गृहीत्वा भावतत्परः ॥ ९-१३७८ ॥  

प्रथमं पूर्वसेवार्थं यत्नतः शुद्धिमाचरेत् ।  
नमस्य भोजनं कुर्यान् न स्त्रियं मनसा स्मरेत् ॥ ९-१३७९ ॥  

न परद्रव्यलोभी स्यान्न भोगे मानसं भजेत् ।  
सिन्धुतीरे पर्वते वा कानने च सुरालये ॥ ९-१३८० ॥  

विल्वमूले विविक्ते च पुण्यक्षेत्रे च शोभने ।  
न शूद्रदर्शनं कुर्यात् कौटिल्यं यत्नतस्त्यजेत् ॥ ९-१३८१ ॥  

देवता शुभवर्णा तु ध्यातव्या सुसमाहितैः ।  
त्रिसन्ध्यं देवपूजा तु त्रिसन्ध्यं जपमाचरेत् ॥ ९-१३८२ ॥  

रात्रौ मन्त्रं च मालाश्च स्पृशेन्नैव कदा चन ।  
न मन्त्रमुच्चरेद्भुक्त्वा मौनी स्यात् सर्वकर्मसु ॥ ९-१३८३ ॥  

पर्वकाले स्त्रियं नैव गच्छेत् साधकसत्तमः ।  
पुष्पं गन्धं जलं चैव स्वयमानीप पूजयेत् ॥ ९-१३८४ ॥  

मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् ।  

ऋतुकालं विना चापि न गच्छेत् स्त्रियमादरात् ॥ ९-१३८५ ॥

पुराणश्रवणे श्रद्धा वेदवेदार्थतत्परः ।  
न रात्रौ भोजयेद्विद्वान् ताम्बूलं परमेश्वर ॥ ९-१३८६ ॥  

गुरुणा यद्यदादिष्टं तत्सर्वं यत्नतश्चरेत् ।  
स्वजातकुसुमं चैव हेतुद्रव्यं च भैरव ॥ ९-१३८७ ॥  

स्पृष्ट्वा तथा समाघ्राय पञ्चगव्येन शुध्यति ।  
रक्तवस्त्रं न गृह्णीयाद्देवीभक्तिपरायणः ॥ ९-१३८८ ॥  

प्। ८६५) विष्णुतन्त्रेषु कल्याणि तदनुष्ठानमेव च ।
कार्यं वीरकथालापं न कुर्याद्वीरवन्दिते ॥ ९-१३८९ ॥

नित्यश्राद्धं गयाश्राद्धं सन्ध्यावन्दनमेव च ।  
तीर्थस्नानं पीठदेशगमनं धर्मतत्परः ॥ ९-१३९० ॥  

(मेरुतन्त्रे)

देवस्थाने गुरुस्थाने श्मशाने च चतुष्पथे ।  
पादुकासनविण्मूत्रमैथुनानि विवर्जयेत् ॥ ९-१३९१ ॥  

प्रमत्तामन्त्यजां कन्यां पुष्पितां पतितस्तनीम् ।  
विरूपां वा मुक्तकेशीं कामार्तां च न निन्दयेत् ॥ ९-१३९२ ॥  

कन्यायोनौ पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् ।  
नालोकयेत् परद्रव्यं परदारा।श्च वर्जयेत् ॥ ९-१३९३ ॥  

धान्यगोगुरुदेवाग्निकुशपुस्तकसम्मुखम् ।  
नैव प्रसारयेत् पादौ न चैतानि विलङ्घयेत् ॥ ९-१३९४ ॥  

आलस्यमदसम्मोहशापपैशून्यविग्रहान् ।  
असूयामात्मसन्मानं परिनिन्दाश्च वर्जयेत् ॥ ९-१३९५ ॥  

(भावचूडामणौ)

भावस्तु मानसो धर्मः शाब्दः स हि कथं भवेत् ।  
तस्माद्भावो न वक्तव्यो दिङ्मात्रं समुदाहृतम् ॥ ९-१३९६ ॥  

यथेक्षुगुडमाधुर्यमशनैर्ज्ञायते प्रभो ।  
तथा भावविभावस्तु मनसा परिभाव्यते ॥ ९-१३९७ ॥  

तन्त्रान्तरे ।

उत्तमो दिव्यभावः स्याद्वीरभावस्तु मध्यमः ।  
पशुभावोऽवरः प्रोक्तो भावमेकं समाश्रयेत् ॥ ९-१३९८ ॥  

इति पशुभावक्रमः ।

प्। ८६६) (सिद्धान्तसङ्ग्रहे)

सम्प्रदायानथो वच्मि गौडकाश्मीरकेरलान् ।  
सर्वार्थसिद्धिसङ्कल्पपूजापुष्पार्पणादनु ॥ ९-१३९९ ॥  

नैवेद्यान्ते च हवनं ताम्बूलान्ते वलिर्मतः ।  
पूजनं वामहस्तेन दक्षहस्तेन तर्पणम् ॥ ९-१४०० ॥  

साक्षाद्दानं मकारणे हृदि देव्या विसर्जनम् ।  
गौडाक्षसप्रदायोऽयं सेवितो वामिभिः सदा ॥ ९-१४०१ ॥  

विनियोगादर्चनार्थं वलिः पीठार्चनादनु ।  
होमः पञ्चोपचारान्ते दक्षिणार्चनतर्पणे ॥ ९-१४०२ ॥  

गव्यं तु ताम्रपात्रस्थं वारुणी स्याद्घृतं विना ।  
लवणार्द्रकपिण्याकपलाण्डुमाषपञ्चकम् ॥ ९-१४०३ ॥  

लशुनं च महादेवि मांसप्रतिनिधिः स्मृतः ।  
मत्स्याभावे तु क्रमुकं ताम्बूलं यद्यदामिषम् ॥ ९-१४०४ ॥  

गुडाभावे तण्डुलं वा भर्जितं चणकादिकम् ।  
विलिखेत् पञ्चमाभावे शक्तिबीजं त्रिकोणकम् ॥ ९-१४०५ ॥  

वामोरौ साधको रक्तं चन्दनेन विधानवित् ।  
शक्तिं सम्पूज्य तत्रैव तद्गायत्रीं शतं जपेत् ॥ ९-१४०६ ॥  

स्वयम्भूकुसुमाभावे रक्तचन्दनकं क्षिपेत् ।  
हयारिकुसुमं शम्भुः शक्तिः प्रोक्ताऽपराजिता ॥ ९-१४०७ ॥  

तयोः समेलनोत्पन्नं गृह्णीयाच्च कुलामृतम् ।  

तथा ।

ताम्रे गव्यादिपिण्याकं गृञ्जनं पायसं पयः ॥ ९-१४०८ ॥  

एते तत्त्वानुकल्पाश्च सहस्रारे विसर्जनम् ।  

प्। ८६७) काश्मीरसम्प्रदायोऽसौ विज्ञेयः कौलिकप्रियः ॥ ९-१४०९ ॥

पिण्याकं तिलकल्कः । गृञ्जनं लशुनम् ।
तथा ।

सङ्कल्पो देवताप्रीत्यै तत्त्वानां भावनैव हि ।  
आत्मा विद्या शिवः सर्वः पूर्णश्चेति क्रमेण च ॥ ९-१४१० ॥  

पूजा पञ्चोपचारान्ते पूजान्ते च वलिर्भवेत् ।  
पूजनं दक्षहस्तेन वामहस्तेन तर्पणम् ॥ ९-१४११ ॥  

होमः समस्तकर्मान्ते हृद्येवोद्वासनं स्मृतम् ।  
केरलारव्यः सम्प्रदायो मुनिभिः समुपासितः ॥ ९-१४१२ ॥  

इति सम्प्रदायक्रमः ।

बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्रचित्रामृत �
स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
सन्मुक्तोपमयुक्तिभाजि नवमो रम्यस्तरङ्गोऽगमत्
सर्वोर्वीपतिनाथनिर्मितपुरश्चर्यार्णवेऽस्मिन् नवे ॥ ९-१४१३ ॥

इति श्रीमन्महाराजधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे दशमहाविद्यापुरश्चरणनिरूपणं नाम नवमस्तरङ्गः ॥ ९ ॥