०८ गणेशादिमन्त्रपुरश्चरणविवेचनम्

अथ गणेशादिमन्त्रास्तत्पुरश्चरणविशेषाश्च

प्रदर्श्यते ।

तत्रादौ विघ्नराजमन्त्र उक्तो (मेरुतन्त्रे)  
	  
असिद्धगुरुणा दत्तो मन्त्रः स्याद्बहुविघ्नदः ।  
तत्रादौ साधयेद्विघ्नराजमन्त्रं ततः पुनः ॥ ८-१ ॥  
	  
निष्पापस्य पुरश्चर्याबलात् सिद्ध्येन्मनूत्तमः ।  
तत्राम्नायविभेदेन सर्वतन्त्रेषु गोपिताम् ॥ ८-२ ॥  
	  
एकबीजात्मकं वक्ष्ये विघ्नमन्त्रं सुसिद्धिदम् ।  
तत्रादौ वैदिकाना तु गकारः केवलो मतः ॥ ८-३ ॥  
	  
दक्षिणानां बिन्दुयुक्तो द्विबिन्दुः पूर्वमार्गिणाम् ।  
एतद्द्वययुतः पश्चादूर्ध्वाम्नाये च गौमिति ॥ ८-४ ॥  
	  
ग्लौमुत्तरे गोमति च पातालाम्नायमीरितम् ।  
गणपोऽस्य मुनिश्छन्दो निवृद्विघ्नोऽस्य देवता ॥ ८-५ ॥  
	  
गणं जपाय स्वाहा हृत्मेकदंष्ट्राय हु।फट् ।  
अचलकर्णिने नमः शिखा प्रोक्ताऽथ वर्म तु ॥ ८-६ ॥  
	  
गजवक्त्राय च नमो नेत्रमस्त्रमुदीर्यते ।  
महादशमचण्डाय हु। फडेतच्च वैदिकैः ॥ ८-७ ॥  

षड्दीर्घयुक्तबीजेन तान्त्रिको न्यासमाचरेत् ।  
	  
अथ ध्यानम् ।  
	  
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ॥ ८-८ ॥  
	  
रक्तपुष्पैः पूज्यमानं तुन्दिलं चन्द्रमौलिनम् ।  
त्रिनेत्रं वामनं बिभ्रद्बीजपूरं च शुण्डया ॥ ८-९ ॥  
	  
वामदक्षोर्ध्वयोः पाशाङ्कुशो चक्रं वरस्त्वधः ।  
पद्मासनं सर्पभूषं ध्यायेद्विघ्नविनायकम् ॥ ८-१० ॥  

प्। ६३१) (शारदायाम्)

सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं
दन्तं पाशाङ्कुशेष्टान्युरुकरविलसद्बीजपूराभिरामम् ।
बालेन्दुद्योतिमौलिं करिपतिवदनं दानपूरार्धगण्डं
भोगीन्द्राबद्धमौलिं भजत् गणपतिं रक्तवस्त्राङ्गरागम् ॥ ८-११ ॥

अस्य मन्त्रस्य पुरश्चरणमुक्तं (मेरुतन्त्रे)  
	  
लक्षमेकं मनुं जप्त्वा जुहुयात् तद्दशांशतः ।  
	  
(शारदायां तु)  
	  
वेदलक्षं जपेन्मन्त्रं दशाशं जुहुयात् ततः � इत्युक्तम् ।  
	  
तथा �  
	  
मोदकैः पृथुकैर्लाजैः सक्तुभिश्चेक्षुपर्वभिः ॥ ८-१२ ॥  
	  
नारिकेलैस्तिलैर्मोचैर्होमं कुर्यात् पृथक् पृथक् ।  
सहस्रमेकं द्विशतं पञ्चाशत्प्रमितं तथा ॥ ८-१३ ॥  
	  
दलैस्त्रिमधुराक्तैः स्याद्धोमः काम्योऽथ कथ्यते ।  
दौग्धान्नेन घृताक्तेन होमोऽभीष्टफलप्रदः ॥ ८-१४ ॥  
	  
लक्ष्मीकामो नारिकेलैश्चतुर्थ्यां जुहुयात् तथा ।  
	  
मोचं कदलीफलम् ।  
अथ लक्ष्मीगणेशमन्त्रस्तथैव ।  
	  
वक्ष्येऽथ दक्षिणाम्नाये लक्ष्मीगणपतिं सुराः ॥ ८-१५ ॥  
	  
गजलक्ष्मीसमायुक्तमयं योगोऽतिदुर्लभः ।  
श्रीग। सौम्याय वोच्चार्य महागणपतिं तथा ॥ ८-१६ ॥  
	  
ङेऽन्तमुक्त्वा वरवरदोक्त्वा सर्वजनं वदेत् ।  
मे वशमानय स्वाहेत्येकोनत्रिंशदक्षरः ॥ ८-१७ ॥  
	  
अन्तर्यामी मुनिश्छन्दो गायत्री निवृदन्विता ।  
देवो लक्ष्मीगणेशोऽत्रायाद्यबीजद्वयेन तु ॥ ८-१८ ॥  

प्। ६३२) षड्दीर्घयुक्तेनाङ्गानि जातियुक्तानि कारयेत् ।

अथ ध्यानम् ।  
	  
हेमाभं पीतवसनं चक्रशङ्खरदाभयान् ॥ ८-१९ ॥  
	  
दक्षोर्ध्वकरमारभ्य दक्षिणाधःकरावधि ।  
दधतं शुण्डया स्वर्णघटं पद्मोपरि स्थितम् ॥ ८-२० ॥  
	  
वामाङ्काविष्टलक्ष्म्या चाश्लिष्टं दक्षभुजेन च ।  
	  
अस्य पुरश्चरणं तत्रैवोक्तम् ।  
	  
लक्षं जपो हुनेद्विल्वसमिधो मधुरप्लुताः ॥ ८-२१ ॥  
	  
तर्पणादि ततः कृत्वा काम्यकर्मादि साधयेत् ।  
हुनेच्चतुस्सहस्राणि श्रीफलिर्मधुराप्लुतैः ॥ ८-२२ ॥  
	  
महालक्ष्मीकरो होमः पुत्रमित्रकलत्रदः ।  
	  
अथ शक्तिगणेशमन्त्रस्तन्त्रान्तरे ।  
	  
पञ्चान्तको वह्निसंस्थो वामनेत्रार्धचन्द्रवान् ॥ ८-२३ ॥  
	  
मायासम्पुटितस्त्र्यर्णो मन्त्रः शक्तिगणेशितुः ।  
	  
(मेरुतन्त्रे)  
	  
अक्षरोऽयं विराट् छन्दो मुनिर्भार्गव ईरितः ॥ ८-२४ ॥  
	  
देवता शक्तिगणपः षडङ्गानि समाचरेत् ।  
षड्दीर्घयुग्गकारेण ततो ध्यायेद्गजाननम् ॥ ८-२५ ॥  
	  
ध्यानं यथा �  
	  
दक्षोर्ध्वे चाङ्कुशं वामे पाशं वामे त्वधःकरे ।  
बीजपूरं स्वदन्तं तु दक्षिणे स्वर्णवर्णकम् ॥ ८-२६ ॥  
	  
पुष्करे मोदकं बिभ्रत् कर्णयोर्दीर्घचामरे ।  
	  
अस्य मन्त्रस्य पुरश्चरणं तत्रैवोक्तम् ।  
	  
लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥ ८-२७ ॥  
	  
तद्दशांशं प्रजुहुयादपूपैर्घृतसम्प्लुतैः ।  

प्। ६३३) एवं सिद्धमनुर्मन्त्री काम्यकर्माणि साधयेत् ॥ ८-२८ ॥

अथ क्षिप्रप्रसादनगणेशमन्त्रो (निबन्धे)  
	  
संवर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः ।  
प्रसादनाय हृन्मन्त्रः स्वबीजाढ्यो दशाक्षरः ॥ ८-२९ ॥  
	  
(मेरुतन्त्रे)  
	  
ऋषिर्गणक आख्यातश्छन्दः प्रोक्तं विराडिति ।  
देवता कथितः क्षिप्रप्रसादनविनायकः ॥ ८-३० ॥  
	  
षड्दीर्घभाजा बीजेन कुर्यादङ्गक्रियां मनोः ॥ ८-३०एफ़् ॥  
	  
अथ ध्यानं (शारदायाम्)  

पाशाङ्कुशौ कल्पलतां विषाणं
दधत् सुतुण्डाहितबीजपूरः ।
रक्तस्त्रिनेत्रस्तरुणेन्दुमौलि -
र्हारोज्ज्वलो हस्तिमुखोऽवताद्वः ॥ ८-३१ ॥

अस्य पुरश्चरणं (मेरुतन्त्रे)  
	  
लक्षमेकं जपेन्मन्त्रं त्रिस्वाद्वक्तैस्तिलैर्हुनेत् ।  
पूर्वोदिताष्टद्रव्यैर्वा तर्पणादि ततश्चरेत् ॥ ८-३२ ॥  
	  
अथ वक्रतुण्डमन्त्रस्तत्रैव ।  
	  
वक्रतुण्डाय हु। चेति प्रोक्तो मन्त्रः षडक्षरः ।	  
ह्रस्वं तु कवचं स्त्रीभिर्जप्तव्यं सर्वसिद्धिदम् ॥ ८-३३ ॥  

भार्गवो मुनिराख्यातोऽनुष्टुप्छन्द उदाहृतम् ।	  
देवता वक्रतुण्डोऽस्य सुरासुरनमस्कृतः ॥ ८-३४ ॥  

षड्भिर्मन्त्रगतैर्वर्णैः षडङ्गानि प्रकल्पयेत् ।  
	  
अथ ध्यानम् ।  
	  
उद्यद्दिनेश्वररुचिं पाशाङ्कुशवराभयान् ॥ ८-३५ ॥  

हस्तैर्दधानं स्मेरास्यमरुणं चिन्तयेद्धृदि ।  

प्। ६३४) पुरश्चरणमाह

वर्णलक्षं जपेन्मन्त्रं जुयात् तद्दशांशतः ॥ ८-३६ ॥  

अष्टद्रव्यैः पुरा प्रोक्तैर्मधुराक्तैर्यथाविधि ।  
	  
अथ हेरम्बमन्त्रः (शारदायाम्)  
	  
पञ्चान्तको विन्दुयुतो वामकर्णविभूषितः ॥ ८-३७ ॥  

तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ।  
चतुर्वर्णात्मको नॄणां चतुर्वर्गफलप्रदः ॥ ८-३८ ॥  
	  
(मेरुतन्त्रे)  
	  
मुनिर्गणाक आख्यातो गायत्री छन्द ईरितम् ।  
पञ्चवक्त्रोऽस्य हेरम्बो देवता सिंहवाहनः ॥ ८-३९ ॥  

षड्दीर्घबीजयुक्तेन षडङ्गविधिरीरितः ॥ ८-३९एफ़् ॥  
	  
ध्यान तु (शारदायाम्)  

मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रान्वितै-
र्नागास्यैर्हरिवाहनं शशधरं हेरम्बमर्कप्रभम् ।
दृप्तं दानमभीतिमोदकरदान् टङ्कं शिरोऽक्षात्मिकां
मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्धानं भजे ॥ ८-४० ॥

अस्य पुरश्चरणमुक्तं (मेरुतन्त्रे)  
	  
लक्षत्रयं जपित्वा तं तिलैर्हुत्वा दशांशतः ।  
मधुरत्रयसंयुक्तैस्तर्पणादि समाचरेत् ॥ ८-४१ ॥  
	  
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत् ततः ।  
	  
अथ हरिद्रागणेशमन्त्रस्तन्त्रान्तरे ।  
	  
पञ्चान्तको धरासंस्थो विन्दुभूषितमस्तकः ॥ ८-४२ ॥  
	  
एकाक्षरो महामन्त्रः सर्वकामफलप्रदः ।  
	  
यद्वा मन्त्रान्तरम् ।  
	  
मन्त्रोद्धारं प्रवक्ष्यामि शृणुष्व कमलानने ॥ ८-४३ ॥  
	  
इन्द्रबीजं समुद्धृत्य निजबीजं समुद्धरेत् ।  

प्। ६३५) चतुर्दशस्वरेणाट्यं बिन्दुभूषितमस्तकम् ॥ ८-४४ ॥

एकाक्षरी महाविद्या कथिता पद्मयोनिना ।  
बीजेन दीर्घयुक्तेन कराङ्गन्यासकल्पना ॥ ८-४५ ॥  
	  
मन्त्रान्तराणि विस्तरभयादुपेक्षितानि ।  
अथ ध्यानम् ।  
	  
हरिद्राभं चतुर्बाहुं हारीतवसनं विभुम् ॥ ८-४६ ॥  
	  
पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ।  
	  
अस्य पुरश्चरणमुक्तं (मेरुतन्त्रे)  
	  
वेदलक्षं जपित्वाऽन्ते हरिद्राचूर्णमिश्रितैः ॥ ८-४७ ॥  
	  
दशांशं तण्डुलैर्हुत्वा ब्राह्मणानपि भोजयेत् ।  
	  
अथमहागणपतिमन्त्रो (मेरुतन्त्रे) ।  
	  
ऊर्ध्वाम्नाये प्रवक्ष्यामि गणेशान् सिद्धिदायकान् ॥ ८-४८ ॥  
	  
भुक्तिमुक्तिप्रदं तत्र महागणपतिं शृणु ।  
तारः श्रीबीजहृल्लेखा कामो भूबीजमेव च ॥ ८-४९ ॥  
	  
गणेशबीजं गणपतये वरवरेति च ।  
दसर्वजनं मे वशमानयाग्निवधूरिति ॥ ८-५० ॥  
	  
अष्टाविंशतिवर्णोऽयं गणकोऽस्य मुनिर्मतः ।  
निवृद्गायत्रिका छन्दो महागणपतिः सुरः ॥ ८-५१ ॥  
	  
ग। बीजं ह्री। च शक्तिः स्याद्दीर्घषट्कयुतस्तु गः ।  
तारादिबीजषट्केन पृथग्युक्तेन कारयेत् ॥ ८-५२ ॥  
	  
षडङ्गानि मनोरस्य जातियुक्तान्यथाचरेत् ।  
अथवा तारपूर्वेण दीर्घषट्कयुतेन च ॥ ८-५३ ॥  
	  
स्वबीजेनाङ्गुलिन्यासं षडङ्गानि समाचरेत् ।  
	  
अथ ध्यानम् ।  
	  
ऐक्षवे जलधौ द्वीपे नवरत्नम्ये शुभे ॥ ८-५४ ॥  

प्। ६३६) तत्तरङ्गलसर्तोयैर्धौते शीतमहीतले ।
तत्तोयगणसम्पृक्तगन्धावाहनिषेविते ॥ ८-५५ ॥

कल्पपादपसंशोभिभूभागे समलङ्कृते ।  
नानाकुसुमसङ्कीर्णे नानापक्षिविराजिते ॥ ८-५६ ॥  
	  
अनेकफलसङ्कीर्णे सेविते चाऽप्सरोगणैः ।  
उद्यद्बालातपज्योतिश्चन्द्रज्योत्स्नासमाकुले ॥ ८-५७ ॥  
	  
विलसत्पद्मरागौघकुट्टिमारुणभूतले ।  
कल्पपादपपुष्पस्यषट्पदस्वनमञ्जुले ॥ ८-५८ ॥  
	  
पारिजातं कल्पतरुं तस्य मध्ये विचिन्तयेत् ।  
युगपट्टतुषट्केन खचितं पुष्पशोभितम् ॥ ८-५९ ॥  
	  
नवरत्नमयं तस्याधस्तात् सिहासनं स्मरेत् ।  
तन्मध्ये लिपिपद्मं च षडारं तस्य मध्यतः ॥ ८-६० ॥  
	  
कर्णिकायां गणेशं च तत्संस्थं च महागणम् ।  
	  
(शारदायाम्)  
	  
षट्कोणान्तस्त्रिकोणस्थं महागणपतिं स्मरेत् ॥ ८-६१ ॥  

हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा �
श्लिष्टं स्वप्रियया सुपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदाधनुस्त्रिशिखयुक्चक्राज्ञपाशोत्पल �
व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ॥ ८-६२ ॥

गण्डपालीगलद्दानपानलालसमानसान् ।  
द्विरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहुः ॥ ८-६३ ॥  
	  
कराग्रधृतमाणिक्यकुम्भवक्त्रविनिःसृतैः ।  
रत्नवर्षैः प्रीणयन्तं साधकान् मदविह्वलम् ॥ ८-६४ ॥  
	  
माणिक्यमुकुटोपेतं रत्नाभरणभूषितम् ।  

प्। ६३७) अस्य मन्त्रस्य पुरश्चरणमुक्तं (मेरुतन्त्रे)

एकादशायुतं जप्त्वा सहस्रोत्तरमादरात् ॥ ८-६५ ॥  
	  
दशांशं जुहुयादष्टद्रव्यैरेकाक्षरोदितैः ।  
तर्पयित्वा दशांशेन चाभिषिक्तोऽणुना ततः ॥ ८-६६ ॥  
	  
ब्राह्मणान् भोजयेत् सम्यक् षड्रसैर्भूरिदक्षिणाम् ।  
दत्वा प्रणम्य विसृजेदेवं सिद्धो भवेन्मनुः ॥ ८-६७ ॥  
	  
(शारदायां तु)  
	  
ध्यायेन्मन्त्रं जपेन् मन्त्री चतुर्लक्षं समाहितः ।  
	  
चतुस्सहस्रसंयुक्तं चत्वारिंशत्सहस्रकम् � इत्युक्तम् ॥  
	  
अथ विरिञ्चिगणनायकमन्त्रो (मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि पूर्वाम्नायगणेश्वरान् ॥ ८-६८ ॥	  

विरञ्चिविघ्नेशमुक्ता �  
	  
अथान्यत् सम्प्रवक्ष्यामि ब्रह्मणा समुपासितम् ।  
काश्यां ब्रह्मेशसौम्यस्थं विरिञ्चिगणनायकम् ॥ ८-६९ ॥  
	  
ह्री। विरिञ्चिपदं प्रोक्त्वा ङेऽन्तं गणपतिं ततः ।  
प्राग्वद्वरवरेत्यादि षड्विंशत्यक्षरो मनुः ॥ ८-७० ॥  
	  
वेदपञ्चेषुपञ्चेषुद्व्यर्णैरुक्तं षडङ्गकम् ।  
	  
तथा �  
	  
अस्य ध्यानं प्रवक्ष्यामि ह्युर्ध्वमूर्ध्वकरेषु च ॥ ८-७१ ॥  
	  
बीजपूरं गदां चापं चक्रं मालां च दक्षिणे ।  
वामे पद्मं पाशबाणान् दन्तं रत्नाढ्यकुम्भकम् ॥ ८-७२ ॥  
	  
पद्मद्वयकरां पुष्टिमङ्कस्थामरुणप्रभाम् ।  
आलिङ्गयन्तमरुणं स्रवन्मदकपोलकम् ॥ ८-७३ ॥  
	  
त्रिनेत्रं पीतवसनं दृढमुत्थापितध्वजम् ।  
किरीटिनं कुण्डलिनं ध्यायेद्देवं गजाननम् ॥ ८-७४ ॥  

प्। ६३८) अस्य पुरश्चरणम् ।

वेदलक्षमिता प्रोक्ता सर्वेषां तु पुरस्क्रिया ।  
मधुरत्रयसंयुक्तैः पूर्वोक्तैरष्टभिर्हुनेत् ॥ ८-७६ ॥  
	  
सर्वेषामिति । अत्र विस्तरभयादुपेक्षितानां विरिञ्चिविघ्नेशादिमन्त्राणाम् ।  
अथ विघ्नगणेशमन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि पश्चिमाम्नायसिद्धिदान् ।  
नानाश्चर्यकरान् काशीसंस्थितान् गणनायकान् ॥ ८-७७ ॥  
	  
महागणपतेरंशाश्चतुःषष्टिविनायकाः ।  
एकैकान्ते गृहीत्वा तु योगिनीं चेटिकामपि ॥ ८-७८ ॥  
	  
स्वर्णभूमिं समासाद्य यावदन्तर्गृहं मम ।  
अष्टावरणकैरष्टौ संस्थिताः सिद्धिदायकाः ॥ ८-७९ ॥  
	  
तत्राष्टौ काशिकाबाह्ये स्वर्गभूमौ समास्थिताः ।  
योजनैकं बहिः काश्यां कीर्त्तितः परिधिस्तु सः ॥ ८-८० ॥  
	  
ग। विघ्नाय नमः प्रोक्तो मन्त्र एव षडक्षरः ।  
क्षिप्रप्रसादनसममष्टानां साधनं स्मृतम् ॥ ८-८१ ॥  
	  
पुरश्चरणे विशेषमाह तत्रैव ।  
	  
वेदायुतं जपेन्मन्त्रं होमश्च घृतपायसै ।  
प्रयोगाः क्षिप्रमेवात्र क्षिप्रमेव च सिद्धयः ॥ ८-८२ ॥  
	  
अथोच्छिष्टगणेशमन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि उत्तराम्नायसिद्धिदान् ।  
वदेद्धस्तिपिशाचीति लिखेत् स्वाहा नवाक्षरः ॥ ८-८३ ॥  
	  
कङ्कालोऽस्य मुनिश्च्छन्दो विराडुच्छिष्टनामकः ।  
गणेशो देवता प्रोक्तः सर्वसम्पत्प्रदायकः ॥ ८-८४ ॥  
	  
द्वित्रिद्विद्विद्विभिश्चास्य पञ्चाङ्गविधिरीरितः ।  

प्। ६३९) अस्य ध्यानं तन्त्रान्तरे ।

रक्तमूर्तिं गणेशानं सर्वाभरणभूषितम् ॥ ८-८५ ॥  
	  
रक्तवस्त्रं त्रिनेत्रं च रक्तपद्मासनस्थितम् ।  
चतुर्भुजं महाकायं द्विदन्तं सस्मिताननम् ॥ ८-८६ ॥  
	  
इष्टं च दक्षिणे वामे दधन्तमभयं करे ।  
पाशाङ्कुशौ च हस्ताभ्यां जटामण्डलमण्डितम् ॥ ८-८७ ॥  
	  
ललाटं चन्द्रेरेखाढ्यं सर्वालङ्कारभूषितम् ।  
सर्वाभीष्टप्रदं ध्यायेदुच्छिष्टगणनायकम् ॥ ८-८८ ॥  
	  
अस्य पुरश्चरणं (मेरौ)  
	  
नवलक्षं जपः प्रोक्तः काम्यकर्माण्यथ ब्रुवे ।  
	  
मन्त्रान्तरमाह तत्रैव ।  
	  
अथान्यमस्य वक्ष्यामि द्वादशार्णं महामनुम् ॥ ८-८९ ॥  
	  
ॐ ह्री। ग। हस्तिपिशाचि लिखेत् स्वाहेति मन्त्रकः ।  
नवार्णमन्त्रवत् सर्वं ध्यानपूजाजपादिकम् ॥ ८-९० ॥  
	  
पुरश्चरणामाह ।  
	  
पुरश्चर्याऽर्कलक्षं स्यात् प्रयोगादि च पूर्ववत् ।  
	  
इति गणेशप्रकरणम् ।  

अथ सूर्यमन्त्रः ।

(शारदायाम्)  
	  
तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः ॥ ८-९१ ॥  
	  
वह्न्यासनो मरुच्छेषः सनेत्रोऽद्रिस्त्य पश्चिमः ।  
अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतप्रदः ॥ ८-९२ ॥  
	  
देवभागो मुनिः प्रोक्तो गायत्री छन्द ईरितम् ।  
आदित्यो देवता प्रोक्तो दृष्टादृष्टफलप्रदः ॥ ८-९३ ॥  
	  
सत्याय हृदयं प्रोक्तं ब्रह्मणे शिर ईरितम् ।  

विष्णवे स्याच्छिखा वर्म रुद्राय परिकीर्तितम् ॥ ८-९४ ॥

प्। ६४०) अग्नये नेत्रमाख्यातं सर्वायास्त्रमुदाहृतम् ।
तेजो ज्वाला मणिं हु। फट् द्विठान्ताः पृथगीरिताः ॥ ८-९५ ॥

न्यासान्तराणि तत्रैव द्रष्टव्यानि ।  
अथ ध्यानम् ।  

रक्ताब्जयुग्माभयदानहस्तं
केयुरहाराङ्गदकुण्डलाढ्यम् ।
मणिक्यमौलिं दिननाथमीडे
बन्धूककान्तिं विलसत्त्रित्रेनत्रम् ॥ ८-९६ ॥

अस्य पुरश्चरणं तत्रैवोक्तम् ।  
	  
वसुलक्षं जपेन्मन्त्रं समिद्भिः क्षीरशाखिनाम् ।	  
तत्सहस्रं प्रजुहुयात् क्षीराक्ताभिर्जितेन्द्रियः ॥ ८-९७ ॥  
	  
अथ मन्त्रातरं तत्रैव ।  
	  
आकाशमग्निदीर्घन्दुसंयुतं भुवनेश्वरी ।  
सर्गान्वितो घृगुर्भानोस्त्र्यक्षरो मनुरीरितः ॥ ८-९८ ॥  

आधारादिपदाग्रान्तं कण्ठादाधारकावधि ।	  
मूर्धादिकण्ठपर्यन्तं क्रमाद्बीजत्रयं न्यसेत् ॥ ८-९९ ॥  

षड्दीर्घस्वरयुक्तेन मध्येनाङ्गानि कल्पयेत् ॥ ८-९९एफ़् ॥  
	  
अथ ध्यानम् ।  
	  
रक्ताम्बुजासनमशेषगुणैकसिन्धुं  
	भानुं समस्तजगतामधिपं भजामि ।  
पद्मद्वयाभयवरान् दधतं कराब्जै �  
	र्माक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥ ८-१०० ॥  
	  
अथास्य पुरश्चरणम् ।  
	  
भानुलक्षं जपेन्मन्त्रमन्नाज्येन दशांशतः ।  
तिलैर्वा मधुरासिक्तैर्जुहुयाद्विजितेन्द्रियः ॥ ८-१०१ ॥  

प्। ६४१) (मेरुतन्त्रे)

अथ मन्त्रान्तरं वक्ष्ये दिनशस्य षडक्षरम् ।  
ह। ख। खखोल्काय वाऽथ खखोल्कायाग्निगेहिनी ॥ ८-१०२ ॥  
	  
मुनिर्ब्रह्मा च गायत्री छन्दः सवितृदैवतम् ।  
सूक्ष्मरूपायाग्निवधूमन्त्रेण हृदयं मतम् ॥ ८-१०३ ॥  
	  
सूक्ष्माकारायाग्निवधूरिति मन्त्रेण शीर्षकम् ।  
सूक्ष्मबालाय स्वाहेति कवचं च सनेत्रकम् ॥ ८-१०४ ॥  
	  
सूक्ष्मकाय हु। फडिति शस्तं पञ्चाङ्गमीरितम् ।  
मन्त्रवर्णैः षडङ्गं स्याद्ध्यानमस्योच्यतेऽधुना ॥ ८-१०५ ॥  
	  
रक्तपद्मद्वयं हस्तैर्विभ्राणं वरदाभये ।  
बन्धूकाभं त्रिनेत्रं च रविं ध्यायेत् सुभूषितम् ॥ ८-१०६ ॥  
	  
अथास्य पुरश्चरणं तत्रैव ।  
	  
लक्षमेकं जपेन्मन्त्रं नियतात्मा जितेन्द्रियः ।  
जुहुयात् तद्दशांशेन विल्वाश्वत्थपलाशजैः ॥ ८-१०७ ॥  
	  
उदुम्बरसमुद्भूतैस्त्रिमध्वक्तैः समिद्वरैः ।  
तर्पणादि ततः कुर्यात् प्राक्प्रोक्तविधिना सुधीः ॥ ८-१०८ ॥  
	  
अथ मन्त्रान्तरं (शारदायाम्)  
	  
वियदर्धेन्दुलसितं तदादिः सर्गसंयुतः ।  
अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः ॥ ८-१०९ ॥  
	  
ऋषिर्ब्रह्मा स्मृतो देवी गायत्री छन्द इरितम् ।  
देवता जगतामादिः सम्प्रोक्तो गिरिजापतिः ॥ ८-११० ॥  
	  
हसा षड्दीर्घयुक्तेन कुर्यादङ्गक्रियां मनोः ॥ ८-११०एफ़् ॥  
	  
ध्यानम् ।  

उद्यद्भानुस्फुरिततडिदाकारमूर्धाम्बिकेशं
पाशाभीती वरदपरशू सन्दधानं कराब्जैः ।
प्। ६४२) दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं
सौम्याग्नेयं वपुरवतु वश्चन्द्रचूडं त्रिनेत्रम् ॥ ८-१११ ॥

अथ पुरश्चरणम् ।  
	  
भानुलक्षं जपेन्मन्त्रं पायसेन ससर्पिषा ।  
दशांसं जुहुयात् सम्यक् ततः सिद्धो भवेन्मुनुः ॥ ८-११२ ॥  
	  
अथ मार्त्तण्डभैरवमन्त्रस्तत्रैव ।  
	  
आकाशमग्निपवनसाद्यान्तार्घीशविन्दुमत् ।  
मार्त्तण्डभैरवं नाम बीजमेतदुदाहृतम् ॥ ८-११३ ॥  

पुटितं बिम्बबीजेन सर्वकामफलप्रदम् ।  
ठान्तं दहननेत्रेन्दुसहितं तदुदाहृतम् ॥ ८-११४ ॥  

पञ्चह्रस्वाद्यबीजेन पञ्चमूर्तीः प्रविन्यसेत् ।	  
मध्यमादिकनिष्ठान्तमङ्गुलीषु क्रमादिमाः ॥ ८-११५ ॥  

सूर्याख्यो भास्करो भानुस्ततो रविदिवाकरौ ।	  
शिरोवदनहृद्गुह्यपाददेशेषु ताः पुनः ॥ ८-११६ ॥  

दीर्घयुक्तेन बीजेन नेत्राङ्गानि प्रविन्यसेत् ।  
व्यापकं मूलबीजेन कुर्वीत तदनन्तरम् ॥ ८-११६ ॥  
	  
ध्यानम् ।  

हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ
चक्रं शक्तिंसपाशं शृणिमतिरुचिरामक्षमालां कपालम् ।
हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं
मार्त्तण्डं वल्लभार्घं मणिमयमुकुटं हारदीप्तं भजामः ॥ ८-११७ ॥

अथ पुरश्चरणम् ।  
	  
लक्षत्रयं जपेन्मन्त्री बीजं विम्बपुटीकृतम् ।  
दशांशं कमलैः फुल्लैर्जुहुयान्मधुरोक्षितैः ॥ ८-११८ ॥  
	  
इति सूर्यप्रकरणम् ।  

अथ विष्णुमन्त्राः ।

प्। ६४३) (शारदायाम्)

अथ वक्ष्ये महामन्त्रान् विष्णोः सर्वार्थसाधकान् ।  
येषां संस्मरणात् सन्तो भवाब्धेः पारमाश्रिताः ॥ ८-११९ ॥  
	  
तारं नमःपदं पश्चान्नरौ दीर्घसमन्वितौ ।  
पवनो णायमन्त्रोऽयं प्रोक्तो वस्वक्षरात्मकः ॥ ८-१२० ॥  
	  
साध्यो नारायणः प्रोक्तो मुनिश्छन्द उदाहृतम् ।  
मन्त्रस्य देवी गायत्री देवता विष्णुरव्ययः ॥ ८-१२१ ॥  
	  
क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् ।  
वीरोल्काय शिखा प्रोक्ता व्युल्काय कवचं मतम् ॥ ८-१२२ ॥  
	  
सहस्रोक्लायास्त्रमुक्तमङ्गकॢप्तिरियं मता ।  
भूयोवर्णैर्मनोः षड्भिः षडङ्गानि समाचरेत् ॥ ८-१२३ ॥  
	  
अवशिष्टु पुनर्वर्णौ विन्यसेत् कुक्षिपृष्ठयोः ॥ ८-१२३एफ़् ॥  
	  
अथ ध्यानम् ।  

उद्यत्कोटिदिवाकराभमनिशं शङ्खं गदां पङ्कजं
चक्रं बिभ्रतमिन्दिरावसुमतीसंशोभि पार्श्वद्वयम् ।
कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभो �
द्दीप्तं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचिह्नं भजे ॥ ८-१२४ ॥

अथ पुरश्चरणम् ।  
	  
विकारलक्षं प्रजपेन्मनुमेनं समाहितः ।  
तद्दशांशं सरसिजैर्जुहुयान्मधुराप्लुतैः ॥ ८-१२५ ॥  
	  
विकारलक्षं षोडशलक्षम् ।  
अथ मन्त्रान्तरं तत्रैव ।  
	  
प्रणवो हृद्भगवते वासुदेवाय कीर्त्तितः ।  

प्रधानं वैष्णवे तन्त्रे मन्त्रोऽयं द्वादशाक्षरः ॥ ८-१२६ ॥

ऋषिः प्रजापतिश्छन्दो गायत्री परिकीर्तिता ।  

प्। ६४४) देवताऽस्य मनोः प्रोक्तो वासुदेवो मनीषिभिः ॥ ८-१२७ ॥

तारेण हृदयं प्रोक्तं नमसा शिर ईरितम् ।  
चतुर्वर्णैः शिखा प्रोक्ता पञ्चार्णैः कवचं मतम् ॥ ८-१२८ ॥  

समस्तेन भवेदस्त्रमङ्गकल्पनमीरितम् ॥ ८-१२८एफ़् ॥  
	  
अथ ध्यानम् ।  

विष्णुं शारदचन्द्रकोटिसदृशं शङ्खं रथाङ्गं गदा �
मम्भोजं दधतं सिताब्जनिलयं कान्त्या जगन्मोहनम् ।
आबद्धाङ्गदहारकुण्डलमहामौलिं स्फुरत्कङ्कणं
श्रीवत्साङ्कमुदारकौस्तुभधरं वन्दे मुनीन्द्रैः स्तुतम् ॥ ८-१२९ ॥

अथ पुरश्चरणम् ।  
	  
वर्णलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ।  
तत्सहस्रं प्रजुहुयात् तिलैराज्यपरिप्लुतैः ॥ ८-१३० ॥  
	  
अथ लक्ष्मीवासुदेवमन्त्रस्तत्रैव ।  
	  
हृल्लेखाबीजयुगलं रमाबीजयुगं ततः ।  
लक्ष्म्यन्ते वासुदेवाय हृदन्तः प्रणवादिकः ॥ ८-१३१ ॥  
	  
चतुर्दशाक्षरैः प्रोक्तो मन्त्रोऽयं सुरपदयः ।  
हृदयं शक्तिबीजाभ्यां रमाभ्यां शिर ईरितम् ॥ ८-१३२ ॥  
	  
लक्ष्म्या प्रोक्ता शिखा वर्म वासुदेवाय ईरितम् ।  
नमः सास्त्रं समादिष्टं सर्वं तारादि कल्पयेत् ॥ ८-१३३ ॥  
	  
ध्यानम् ।  

विद्युच्चन्द्रनिभं वपुः कमलजावैकुण्ठयोरेकतां
प्राप्तं स्नेहवशेन रत्नविलसद्भूषाभरालङ्कृतम् ।
विद्यापङ्कजदर्पणान् मणिमयं कुम्भं सरोजं गदां
शङ्खं चक्रममूनि विभ्रदमितां दिश्याच्छ्रियं वः सदा ॥ ८-१३४ ॥

प्। ६४५) अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं सरोरुहैः ।  
होमं कुर्याद्विकसितैर्मधुरत्रयसंयुतैः ॥ ८-१३५ ॥  
	  
पूजा स्याद्वैष्णवे पीठे द्वादशाक्षरवर्त्मना ।  
पायसेन कृतो होमो लक्ष्मीवश्यप्रदायकः ॥ ८-१३६ ॥  
	  
मधुराक्तैस्तिलैर्हुत्वा सर्वकार्याणि साधयेत् ।  
	  
(विष्वक्सेन्याम्)  
	  
अथ मन्त्रान्तरं वक्ष्ये विष्णोः सर्वार्थसाधकम् ॥ ८-१३७ ॥  
	  
ङेऽन्तं विष्णुं समुद्धृत्य हृदयं बाणवर्णकः ।  
भवाब्धेः सेतुभूतोऽयमव्यक्ताद्यः षडक्षरः ॥ ८-१३८ ॥  
	  
अव्यक्तः प्रणवः ।  
	  
नारदोऽस्य मुनिश्छन्दो गायत्री विष्णुरव्ययः ।  
देवता मन्त्रवर्णैस्तु षडङ्गानि प्रकल्पयेत् ॥ ८-१३९ ॥  
	  
ध्यानम् ।  
	  
शङ्खचक्रगदापद्मधरं लक्ष्मीसमावृतम् ।  
पीताम्बरं घनश्यामं ध्यायेद्विष्णुं सनातनम् ॥ ८-१४० ॥  
	  
अथ पुरश्चरणम् ।  
	  
वर्णलक्षं जपेन्मन्त्रं त्रिमध्वक्तैस्तिलैर्हुनेत् ।  
तर्पणादि ततः कुर्यादेवं सिद्धो भवेन्मनुः ॥ ८-१४१ ॥  
	  
अथ मत्स्यमन्त्रो (मेरुतन्त्रे)  
	  
एक एवाभवन्मत्स्यावतारः कल्प आदिमे ।  
तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ॥ ८-१४२ ॥  
	  
तारो नमो भगवते म। मत्स्याय रमां वदेत् ।  
द्वादशाक्षरमन्त्रोऽयं मुनिर्ब्रह्मा समीरितः ॥ ८-१४३ ॥  
	  
गायत्री छन्द उद्दिष्टं देवता मीनविग्रहः ।  

प्। ६४६) भगवान् स रमानाथो बीजं श्रीम। च कीलकम् ॥ ८-१४४ ॥

मन्त्रपदैः कराङ्गन्यासौ कार्यौ ।  
अथ ध्यानम् ।  
	  
नाभ्याधो रोहितसम आकण्ठं च नराकृतिः ।  
घनश्यामश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ८-१४५ ॥  
	  
शृङ्गीमत्स्यनिभो मूर्धा लक्ष्मीवक्षोविराजितः ।  
पद्मचिह्नितसर्वाङ्गः सुन्दरश्चारुलोचनः ॥ ८-१४६ ॥  
	  
पुरश्चरणमाह ।  
	  
जपेद्द्वादशसाहस्रं त्रिमध्वक्तैस्तिलैर्हुनेत् ।  
प्रत्यहं तद्दशांशेन वैशाखे कार्तिके तथा ॥ ८-१४७ ॥  
	  
माघे च मार्गशीर्षे च हविष्याशी जितेन्द्रियः ।  
आरभ्य भाद्राबहुलमष्टमीषोडशाहकम् ॥ ८-१४८ ॥  
	  
लक्ष्मीमनुं जपेन्नित्यमिदं चापि कलाशतम् ।  
तथैव होमः कर्त्तव्यस्तथाऽन्यदिवसेषु तु ॥ ८-१४९ ॥  
	  
तर्पयेद्द्वादशशतं तिलतण्डुलचन्दनैः ।  
आद्यन्तयोः शतं चाष्टौ तर्पयेच्च तथा श्रियम् ॥ ८-१५० ॥  
	  
रक्तोत्पलैर्वा पद्मैर्वा मालत्याद्यैः सुगन्धिभिः ।  
एवं कृते वर्षमेकं मन्त्रसिद्धिः प्रजायते ॥ ८-१५१ ॥  
	  
नित्यं द्वादशविप्रा।श्च श्रीरूपां च सुवासिनीम् ।  
भोजयेत् पूजनं चास्य चरेत् तोयाशये सदा ॥ ८-१५२ ॥  
	  
तथा �  
	  
एवं सिद्ध मनुर्मन्त्री जायते सिद्धिभाजनम् ।  
एतद्युक्तं शतं मन्त्रं जपेदष्टोत्तरं शतम् ॥ ८-१५३ ॥  
	  
तद्देवतादिने सिद्धः पुस्तकादेव जायते ।  
अकुण्ठितप्रयोगेषु न पुनस्तस्य संस्कृतिः ॥ ८-१५४ ॥  

प्। ६४७) एतत्पल्लविता मन्त्रा मम सिध्यन्ति पार्वति ।
एतत्सम्पुटिताः सर्वे वैदिकाः सिद्धिदाः कलौ ॥ ८-१५५ ॥

अनेन ग्रथिता जप्ताः कौले स्युर्द्रुतसिद्धिदाः ।  
गाणेशा वैष्णवाः सौराः सिद्धिं दद्युर्विदर्भिताः ॥ ८-१५६ ॥  
	  
यद्बलात् सर्वमन्त्राणां स्वयं सिद्धिः प्रजायते ।  
तस्मान्नोक्तो नान्यतन्त्रे मेरुतन्त्रे प्रकाशितः ॥ ८-१५७ ॥  
	  
अथ कूर्ममन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि कूर्ममन्त्रं महाद्भुतम् ।  
एकः कूर्मावतारोऽभून्मध्यमाने महोदधौ ॥ ८-१५८ ॥  
	  
तारो नमो भगवते कु। कूर्माय धराधर ।  
धुरन्धराय णस्यान्ते सिद्धवर्णो मतो मनुः ॥ ८-१५९ ॥  
	  
प्रकृतिश्छन्द उदितं कश्यर्पोऽस्य मुनिर्मतः ।  
देवता भगवान् विष्णुर्मतः कच्छपरूपधृक् ॥ ८-१६० ॥  
	  
धराधरेत्यादिशक्तिः कु। बीजं स्वेष्टसिद्धये ।  
नियोगो देवता ध्यानं शङ्खचक्रगदाधरम् ॥ ८-१६१ ॥  
	  
पीताम्बरं कूर्मपृष्ठं न्यस्तलाङ्गूलशोभितम् ।  
दीर्घग्रीवं महाग्राहं गिलन्तं रक्तलोचनम् ॥ ८-१६२ ॥  
	  
मन्त्रवर्णैः षडङ्गानि जपो लक्षचतुष्टयम् ।  
आज्यहोमस्तर्पणं तु चन्दनोत्पलवारिभिः ॥ ८-१६३ ॥  
	  
अथ वराहमन्त्रस्त्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि वराहस्य मनून् शुभान् ।  
कल्पे जाताश्चतुर्वर्णा अवतारा रमापतेः ॥ ८-१६४ ॥  
	  
तारो नमो भगवते वराहेति च संवदेत् ।  

प्। ६४८) रूपाय भूर्भुवः सुवः पतये भूपतीति च ॥ ८-१६५ ॥

त्वं मे देहि दापयेति स्वाहान्तः सुरवर्णकः ।  
	  
(शारदायाम्)  
	  
भार्गवो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ॥ ८-१६६ ॥  
	  
देवताऽदिवराहोऽस्य मन्त्रस्य कथितो बुधैः ।  
एकदंष्ट्राय हृदयं व्योमोल्काय शिरः स्मृतम् ॥ ८-१६७ ॥  
	  
शिखा तेजोऽधिपतये विश्वरूपाय वर्म च ।  
महादंष्ट्राय अस्त्रं स्यात् पञ्चाङ्गमिति कल्पयेत् ॥ ८-१६८ ॥  
	  
अथ ध्यानम् ।  

आपादं जानुदेशाद्वरकनकनिभं नाभिदेशादधस्तान्-
मुक्ताभं कण्ठदेशात् तरुणरविनिभं मस्तकान्नीलभासम् ।
ईडे हस्तैर्दधानं रथचरणदरौ खड्गखेटौ गदाख्यां
शक्तिं दानाभये च क्षितिधरणलसद्दंष्ट्रमाद्यं वराहम् ॥ ८-१६९ ॥

अस्य पुरश्चरणं तत्रैव ।  
	  
लक्षमेकं जपेन्मन्त्रं मधुराक्तैः सरोरुहैः ।  
जुहुयात् तद्दशांशेन पीठे विष्णोः प्रपूजयेत् ॥ ८-१७० ॥  
	  
अथ मन्त्रान्तराणि (मेरुतन्त्रे)  
	  
अथान्यं सम्प्रवक्ष्यामि वराहाष्टाक्षरं परम् ।  
ॐ भूर्वराहाय नमो मुनिर्ब्रह्मा समीरितः ॥ ८-१७१ ॥  
	  
जगती छन्द उद्दिष्टं वराहो देवता स्मृतः ।  
पदैः समस्तमन्त्रेण पञ्चाङ्गानि प्रकल्पयेत् ॥ ८-१७२ ॥  
	  
ध्यानम् ।  
	  
कृष्णाङ्गं नीलवक्त्रं च मलिनं पद्मसंस्थितम् ।  
पृथ्वीशक्तियुतं ध्यायेच्छङ्खं चक्राम्बुजं गदाम् ॥ ८-१७३ ॥  
	  
भूलक्ष्मीकान्तिरतिभिः समन्तात् परिवारितम् ।  

प्। ६४९) वर्मासिवद्भिश्च कलौ द्रुतसिद्धिप्रदायकम् ॥ ८-१७४ ॥

जपपूजादिकं सर्वमस्य पूर्ववदाचरेत् ।  
एतं मनुं यः प्रभजेत् स भवेच्च धरापतिः ॥ ८-१७५ ॥  
	  
इमित्येकाक्षरो मन्त्रो वराहस्य प्रकीर्त्तितः ।  
हयग्रीवो मुनिः प्रोक्तश्छन्दोऽनुष्टुप् च देवता ॥ ८-१७६ ॥  
	  
वराहो दीर्घयुक्तेन बीजेनैवाङ्गकल्पनम् ।  
प्राग्वद्ध्यायेद्रक्तवर्णं पूजाद्यं पूर्ववद्भवेत् ॥ ८-१७७ ॥  
	  
भूरित्येकाक्षरं बीजं सर्वं प्राग्वत् समीरितम् ।  
पीतवर्णं सदा ध्यायेद्द्वापरे द्रुतसिद्धिदम् ॥ ८-१७८ ॥  
	  
अथ धरणीमन्त्रः (शारदायाम्)  
	  
हृदयं भगवत्यै स्याधरण्यै तदनन्तरम् ।  
धरण्यन्ते धरेद्वन्द्वं द्विठान्तोऽयं ध्रुवादिकः ॥ ८-१७९ ॥  
	  
एकोनविंशत्यर्णाढ्यं धराहृदयमीरितम् ।  
वराहोऽस्य मुनिः प्रोक्तश्च्छन्दो निवृदुदाहृतम् ॥ ८-१८० ॥  
	  
देवता सर्वभूतानां प्रकृतिर्वसुधा मता ।  
हृदयं त्रिभिराख्यातं चतुर्भिः शिर ईरितम् ॥ ८-१८१ ॥  
	  
त्रिभिः शिखा समुद्दिष्टापञ्चभिः कवचं मतम् ।  
द्वाभ्यां नेत्रं समाख्यातं द्वाभ्यामस्त्रं पुनर्भवेत् ॥ ८-१८२ ॥  
	  
मन्त्रवर्णैः षडङ्गानि कुर्यादेवं विधानवित् ॥ ८-१८२एफ़् ॥  
	  
ध्यानम् ।  

श्यामां विचित्रांशुकरत्नभूषणां
पद्मासनां तुङ्गपयोधराननाम् ।
इन्दीवरं द्वे नवशालिमञ्जरीं
शुकं धानां वसुधां भजामः ॥ ८-१८३ ॥

प्। ६५०) पुरश्चरणमाह ।

लक्षमेनं जपेन्मन्त्री धराहृदयमादरात् ।  
ससर्पिषा पायसेन जुहुयात् तद्दशांशतः ॥ ८-१८४ ॥  

तां विष्णोः पूजयेत् पीठे वक्ष्यमाणविधानतः ।	  
स जपति जगतां नाथः करुणावरुणालयो नृहरिः ॥ ८-१८५ ॥  

शरणीकृतयच्चरणा भवजलधिं तुलयन्ति गोप्पदेन ।  
अथ दुस्तरसंसारसागरोत्तारसेतवः ॥ ८-१८६ ॥  

चतुर्णां पुरुषार्थानामसाधारणहेतवः ।  
उच्यन्ते चन्द्रचूडेन तन्त्रेषु प्रकटीकृताः ॥ ८-१८७ ॥  

मन्त्राः श्रीदिव्यसिंहस्य ब्रह्माद्यैः समुपासिताः ।  
	  
(मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि नृसिंहस्य मनून् शुभाम् ॥ ८-१८८ ॥  

प्रतिमन्वन्तरं चाऽयमवतारो हरेर्भवेत् ।  
द्वीपान्तरे नृसिंहस्तु चतुर्दशसु मूर्त्तिषु ॥ ८-१८९ ॥  

आकल्पं वसते तत्र भक्तानुग्रहकारकः ।  
आदिमन्वन्तरे जातो नृसिंहो वक्ष्यतेऽधुना ॥ ८-१९० ॥  

द्वात्रिंशद्वर्णको गोप्यो भुक्तिमुक्तिप्रदो यतः ।  
	  
(वैष्वक्सेन्यां) ब्रह्मनारदसंवादे ।  
	  
मन्त्रराजं प्रवक्ष्यामि शृणुष्वाबहितो मुने ॥ ८-१९१ ॥  

यत्प्रसादादविकलं सृजामि सकलं जगत् ।  
आदौ विष्णुं समुद्धृत्य शार्ङ्गिणं बलिसंस्थितम् ॥ ८-१९२ ॥  

प्रद्युम्नसहितं पश्चादुद्धरेद्भूमिबालकम् ।  
सगोविन्दं ततः प्रीतियुक्तं बलिनमुद्धरेत् ॥ ८-१९३ ॥  

प्। ६५१) वैकुण्ठान्ते वराहं च नारायणसमन्वितम् ।
समाधववृषघ्नाख्यं वृषं नरकजिद्गतम् ॥ ८-१९४ ॥

शङ्कर्षणान्तमधुसूदनादिभ्यां समन्वितम् ।  
बालस्थं च मुशल्यन्तमुद्धरेच्च बलानुजम् ॥ ८-१९५ ॥  

वीरभागनिरुद्धाद्यसंयुतं हरिमुद्धरेत् ।  
हंसान्ते बलिनाऽक्रान्तं भूधरं च ततो हरिम् ॥ ८-१९६ ॥  

वासुदेवान्वितं विश्वमूर्त्त्यन्तं विष्णुसंयुतम् ।  
सानिरुद्धं च गदिनं शूलाढ्यं सत्रिविक्रमम् ॥ ८-१९७ ॥  

बिन्दुमाधवसंयुक्तं हंसहंसान्तमिन्दुकम् ।  
गोविन्दयुग्विश्वमूर्तिं वृषहर्याद्यमिन्दुकम् ॥ ८-१९८ ॥  

भूधरान्तं ततः सत्यं बलिं प्रद्यम्नसंयुतम् ।  
सधामेनाद्यं वैकुण्ठं हरिं सपुरुषोत्तमम् ॥ ८-१९९ ॥  

सविष्णुमेतदुभयं द्विरुद्धृत्यान्तिमे शिरः ।  
दद्यात् ततः सात्त्वतान्तं पुरुषोत्तमपूर्वजम् ॥ ८-२०० ॥  

सकेशवान्त्यमुद्धृत्य वैकुण्ठपुरुषोत्तमौ ।  
योगिनौ विश्वमूर्तेश्च दशमं सेन्दुमुद्धरेत् ॥ ८-२०१ ॥  

द्वात्रिंशदक्षरात्माऽयं मन्त्रराजः सुरद्रुमः ।  
धर्मार्थकाममोक्षाणां बीजभूतोऽयमद्भुतः ॥ ८-२०२ ॥  

अद्यस्तूलौघदहनो भवतीति विनाशनः ।  
यन्महावैष्णवं धाम परब्रह्मेति गीयते ॥ ८-२०३ ॥  

स्वप्रकाशं जगद्व्यापि सच्चिदानन्दलक्षणम् ।  
तदेव त्वं विजानीहि मन्त्ररूपमिदं मुने ॥ ८-२०४ ॥  

न नृसिंहात् परो देवो नैतन्मत्रात् परो मनुः ।  

प्। ६५२) न तद्ध्यानात् परं ध्यानं संसारभयनाशनम् ॥ ८-२०५ ॥

भगवद्भक्तितत्त्वज्ञैरुपास्योऽयं महामनुः ।  
न प्रकाश्यस्त्वया वत्स देवानामपि दुर्लभः ॥ ८-२०६ ॥  

अनेकमन्त्रकोटीनां चूडामणिरयं मनुः ।	  
यथा नृसिंहो भगवान् देवतानां शिरोमणिः ॥ ८-२०७ ॥  

यन्नामस्मरणादेव न पुनर्जायते भवः ।  
किं पुनः श्रद्धया भक्त्या भजतां तत्पदाम्बुजम् ॥ ८-२०८ ॥  

सकृदुच्चरितं येन नृसिंहेत्यक्षरत्रयम् ।  
धर्मराजभटैस्तस्य किमर्थ दृश्यते मुखम् … ८-२०९ ॥  

चतुर्णामपि वेदानां सारांशस्त्वेक एव हि ।  
नृसिंहेति नृसिंहेति नृसिंहेति च कीर्त्तनम् ॥ ८-२१० ॥  
	  
(मेरुतन्त्रे)  
	  
लोभाधिक्यात् कलियुगे न गुरुर्न च देवता ।  
एकं श्रेयस्करं प्रोक्तं नृहरेर्नामगर्जनम् ॥ ८-२११ ॥  
	  
(संहितायाम्)  
	  
अथोक्तमन्त्रराजस्य ऋष्यादीन् शृणु नारद ।  
ऋषिर्ब्रह्माऽहमुद्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् ॥ ८-२१२ ॥  

देवता श्रीनृसिंहोऽस्य देवदेवो जगद्गुरुः ।  
ध्रुवमाये बीजशक्ती नारसिंहस्तु कीलकम् ॥ ८-२१३ ॥  

उदात्तस्तु स्वरः प्रोक्तो वर्णः शुक्ल उदाहृतः ।  
धर्माथकाममोक्षार्थे विनियोगः प्रकीर्त्तितः ॥ ८-२१४ ॥  

(मेरुतन्त्रे)  

वेदवेदाष्टषट्षट्कं वेदार्णैः स्यात् षडङ्गकम् ।  
	  
अथ ध्यानम् (संहितायाम्)  
	  
क्षीरार्णवे सितद्वीपे कल्पवृक्षवनं स्मरेत् ॥ ८-२१५ ॥  

प्। ६५३) नानापुष्पफलाकीर्णं मुक्तारत्नौघवर्षणम् ।
विकसद्बालमन्दारपुष्पामोदमनोहरम् ॥ ८-२१६ ॥

कुसुमान्तर्मधुस्वादमनालिकुलसङ्कुलम् ।	  
कोकिलालापमुखरं नानापक्षिगणान्वितम् ॥ ८-२१७ ॥  

ऋतुषट्केन युगपत् सेव्यमानं सुखास्पदम् ।  
उत्फुल्लाम्बुजकह्लारकुमुदोत्पलशालिभिः ॥ ८-२१८ ॥  

हंसकारण्डवाकीर्णैः सरोभिरुपशिभितम् ।
तस्य मध्ये स्फुरद्दीप्ति चिन्तद्येन्मणिमण्डपम् ॥ ८-२१९ ॥

तदन्तःपद्मरागौघकुट्टिमारक्तभूतले ।  
नानारत्नप्रभोद्भासिस्वर्णसिंहासनोपरि ॥ ८-२२० ॥  

भोगीन्द्रभोगतल्पे च पद्ममष्टदलं स्मरेत् ।  
तत्कर्णिकासमासीनं श्रीनृसिंहं विचिन्तयेत् ॥ ८-२२१ ॥  

चन्द्रकोटिप्रतीकाशं भास्वत्पीताम्बरावृतम् ।  
ज्वलत्कालानलप्रख्यज्वालामालिदुरासदम् ॥ ८-२२२ ॥  

चक्रं सुदर्शनं चापं सबाणं वरमुद्रिकाम् ।  
अभयाख्यां तथा मुद्रां निजभक्तेषु सार्थिकाम् ॥ ८-२२३ ॥  

धारयन्तं महाबाहुं चतुर्भिः करपल्लवैः ।  
सोमसूर्याग्निनयनमीषद्ध्यानाननाम्बुजम् ॥ ८-२२४ ॥  

स्फुरत्सौदामिनीजिह्वं दंस्ट्राद्भुतमुखाम्बुजम् ।	  
तप्तचामीकरप्रख्यजटामण्डलमण्डितम् ॥ ८-२२५ ॥  

हैमं किरीटं बिभ्राणं भास्वन्मणिगणोज्ज्वलम् ।  
श्रीवत्सकौस्तुभोरस्कं स्फुरन्मकरकुण्डलम् ॥ ८-२२६ ॥  

योगपट्टपिनद्धाङ्गं वनमालाविराजितम् ।  

प्। ६५४) हारकेयूरमञ्जीरस्फुरत्काञ्चीगुणादिभिः ॥ ८-२२७ ॥

भूषितं भूषणैर्दिव्यैर्नानारत्नोपकल्पितैः ।  
ज्वलन्मणिशिखादीप्तफणीन्द्रफणपङ्क्तिभिः ॥ ८-२२८ ॥  

कृतच्छत्रं स्वतेजोभिर्भासयन्तं दिशो दश ।  
कल्पान्तकालदहनज्वालजालविडम्बिभिः ॥ ८-२२९ ॥  

ललाटनयनज्वालैर्दुर्निरीक्ष्ये सुरैरपि ।  
स्ववामाङ्कगतां लक्ष्मीं तप्तजाम्बुनदप्रभाम् ॥ ८-२३० ॥  

शुद्धक्षौमपरीधानां नानालङ्कारभूषिताम् ।  
वराभयं पद्मयुग्मं बिभ्राणां करपङ्कजैः ॥ ८-२३१ ॥  

शरत्पूर्णेन्दुवदनां मन्दस्मितमुखाम्बुजाम् ।  
आश्लिप्यन्तं कृताश्लेषामानन्दोत्फुल्ललोचनाम् ॥ ८-२३२ ॥  

भारत्या दक्षिणे देशे स्तूयमानं हि सर्वदा ।  
शङ्खचक्रगदापद्मवारिभिर्वनमालिभिः ॥ ८-२३३ ॥  

इन्द्रनीलनिभैर्वीरैः पार्षदैः परितो वृतम् ।  
ब्रह्मादिभिः सुरगणैः सनकाद्यैर्महर्षिभिः ॥ ८-२३४ ॥  

योगिभिः सिद्धगन्धर्वैरप्सरोभिश्च सेवितम् ।  
अतिप्रसन्नवदनं भक्ताभीष्टवरप्रदम् ॥ ८-२३५ ॥  

एवंविधमनिर्देश्यमवाङ्मनसगोचरम् ।  
दिव्यसिंहं हृदिं ध्यायेत् परमात्मानमच्युतम् ॥ ८-२३६ ॥  

एवं ध्यात्वा महाविष्णुं दिव्यकेशरिणं विभुम् ।  
कर्मबन्धाद्विनिर्मुक्तः प्राप्नुयाद्वैष्णवीं तनुम् ॥ ८-२३७ ॥  

सान्द्रानन्दमयं शान्तं नित्यविज्ञानविग्रहम् ।  
हृत्पद्मे नृहरिं ध्यात्वा साक्षान्नारायणो भवेत् ॥ ८-२३८ ॥  
	  
प्। ६५५, ६५६) ब्लन्च्क्  

प्। ६५७) आदिषोडशचक्रस्थमथवा बिन्दुवर्जितम् ।
अनादिमपरिच्छिन्नं योगिगम्यमतीन्द्रियम् ॥ ८-२३९ ॥

परात्परतरं नित्यं निरुपाधिमनाविलम् ।  
स्वतःप्रकाशं जगतः साक्षीभूतं निरञ्जनम् ॥ ८-२४० ॥  
	  
ज्योतिर्मयं नरहरिं ध्यात्वा ब्रह्ममयो भवेत् ।  
अथवा विश्वमखिलं भावयेन्नृहरेस्तनुम् ॥ ८-२४१ ॥  
	  
जीवन्मुक्तो भवेत् सद्यो निराधिरकुतोभयः ॥ ८-२४१एफ़् ॥  
	  
ध्यानान्तरमुक्तं (शारदायाम्)  

माणिक्याद्रिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणं
जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् ।
बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्रोग्रवक्त्रोल्लस �
ज्ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे नृसिंहं विभुम् ॥ ८-२४२ ॥

(मेरुतन्त्रे)

वामे शङ्खमरिं दक्षे जानुविन्यस्तबाहुकम् ।  
ग्रसन्तं दैत्यराजानं कृशानूपमतेजसा ॥ ८-२४३ ॥  

द्रंष्टाप्रदीप्तवदनं ललज्जिह्वं त्रिलोचननम् ।  
सुरैश्च मुनिभिर्लक्ष्म्या कृताञ्जलिकया स्तुतम् ॥ ८-२४४ ॥  
	  
कामनाभेदेन ध्यानभेदा उक्तास्तत्रैव ।  
	  
काम्यप्रयोगसिद्ध्यर्थं ध्यानभेदान् वदाम्यहम् ।  
उद्यत्सहस्रार्कभासं त्रिनेत्रं भीषणाकृतिम् ॥ ८-२४५ ॥  

वज्रतुल्येक्षणं वह्निकान्तिं नानाभुजैर्वृतम् ।  
नखैर्दारितदैत्यैशं रक्तधाराक्तकायकम् ॥ ८-२४६ ॥  

क्रूरकर्मादिविषये स्मरेद्देवं भयानकम् ।  
विश्वरूपमयं ध्यानं नहरेः प्रोच्यतेऽधुना ॥ ८-२४७ ॥  

प्। ६५८) नृसिंहं तं महाभीमं कालानलसमप्रभम् ।
अक्षमालाधरं रौद्रं कण्ठं हारेण शोभितम् ॥ ८-२४८ ॥

नागयज्ञोपवीतं च पञ्चाननसुशोभितम् ।  
चन्द्रमोलिं नीलकण्ठं प्रतिवक्त्रं त्रिलोचनम् ॥ ८-२४९ ॥  

भुजैः परिघसङ्काशैर्दशभिश्चोपशोभितम् ।  
अक्षसूत्रं गदां पद्मं शङ्खं गोक्षीरसन्निभम् ॥ ८-२५० ॥  

धनुश्च मुशलं चैव विभ्राणं चक्रमुत्तमम् ।  
खड्गं शूलं च बाणं च नृहरिं रुद्रगोपनम् ॥ ८-२५१ ॥  

इन्द्रनीलकनीलाभं चन्द्राभं स्वर्णसन्निभम् ।  
पूर्वोदयोत्तरज्वालदूर्ध्वास्यं सर्ववर्णकम् ॥ ८-२५२ ॥  

एवमुग्रहरिं ध्यायेत् सर्वव्याधिनिवृत्तये ।  
ध्येयो यदा महत् कर्म तदा षोडशहस्तवान् ॥ ८-२५३ ॥  

नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ।  
द्वौ विदारणकर्मार्हौ द्वौ चात्रोद्धरणक्षमौ ॥ ८-२५४ ॥  

चक्रशङ्खधरावन्यावन्यौ वाणधनुर्धरौ ।  
खड्गखेटधरावन्यौ द्वौ गदापद्मधारिणौ ॥ ८-२५५ ॥  

पाशाङ्कुशधरावन्यौ द्वौ रिपोर्मुकुटार्पितौ ।  
इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम् ॥ ८-२५६ ॥  

ध्यायेदम्बुजनीलाभमुग्रकर्मण्यनन्यधीः ।  
ध्येयो महत्तमे कार्ये तदा षड्विंशहस्तवान् ॥ ८-२५७ ॥  

नृसिंहः सर्वभूषाढ्यः सर्वसिद्धिकरः प्रभुः ।  
दक्षिणे खड्गचक्रे च परशुं पाशमेव च ॥ ८-२५८ ॥  

हलं च मुशलं सम्यगभयं चाङ्कुशं तथा ।  

प्। ६५९) पट्टिशं भिन्दिपालं च खेटतोमरमुद्गरान् ॥ ८-२५९ ॥

वामभागकरैः शङ्खं खड्गं पाशं च शूलकम् ।  
हुताशनं वरं शक्तिं सम्यग्मृण्मयकुण्डिकाम् ॥ ८-२६० ॥  

कार्मुकं जर्जनीमुद्रां गदां डमरुसर्पकान् ।  
करद्वन्द्वैः क्रमाच्छत्रोर्जानुमस्तकपत्तलम् ॥ ८-२६१ ॥  

ऊर्ध्वीकृताभ्यां हस्ताभ्यां मन्त्रमालाधरम् ।  
अधःस्थिताभ्यां हस्ताभ्यां हिरण्यकविदारणम् ॥ ८-२६२ ॥  

प्रियङ्करं च भक्तानां देत्यानां च भयङ्करम् ।  
नृसिंहं संस्मरेद्दिव्यं महामृत्युभयापहम् ॥ ८-२६३ ॥  

अथोच्यते ध्यानमन्यन्मुखरोगहरं परम् ।  
विषरोगहरं मृत्युहरं शत्रुभयावहम् ॥ ८-२६४ ॥  

स्वर्णौघतुल्ये गरुडे स्थितं पूर्णेन्दुवर्णकम् ।  
सुमुखं विद्युदाभासनेत्रत्रयविराजितम् ॥ ८-२६५ ॥  

सुभूषं पीतवसनं सङ्खचक्रवराभयान् ।  
धारयन्तं चतुर्भिश्च करैः क्ष्वेडादिनाशकम् ॥ ८-२६६ ॥  

अपमृत्युमहाकृत्यानाशकं नृहरिं स्मरेत् ॥ ८-२६६एफ़् ॥  
	  
(शारदायाम्)  

उद्यत्कोटिरविप्रभं नरहरिं कोटीरहारोज्ज्वलं
दंष्ट्राभीममुखं लसन्नखमुखैर्दीर्घैरनेकैर्भुजैः ।
निर्भिन्नासुरनाथमग्निशशभृत्सूर्यात्मनेत्रत्रयं
विद्युत्पुञ्जजटाकलापभयदं वह्निं वमन्तं भजे ॥ ८-२६७ ॥

सौम्ये सौम्यं स्मरेत् कार्यक्रूरे क्रूरमिमं भजेत् ।  
	  
पुरश्चरणमाह (मेरौ)  
	  
अष्टलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ॥ ८-२६८ ॥  

प्। ६६०) तत्सहस्रं प्रजुहुयाद्घृताक्तहविषाऽनले ।
तर्पणं मार्जनं कृत्वा ब्राह्मणाराधनं तथा ॥ ८-२६९ ॥

कुर्यात् संसिद्धमन्त्रस्तु प्रयोगानाचरेत् ततः ।  
	  
(शारदायां तु)  
	  
वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं घृतप्लुतैः ॥ ८-२७० ॥  
	  
पायसान्नैः प्रजुहुयाद्विधिवत्पूजितेऽनले ।  
	  
एवं कृते भवेन्मन्त्री सिद्धमन्त्रः प्रतापवान् � इत्युक्तम् ।  
	  
अथ मन्त्रभेदा (मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि द्वितीयं नृहरिं विभुम् ॥ ८-२७१ ॥  
	  
(संहितायाम्)  
	  
अथ वक्ष्ये नृसिंहस्य बीजरूपं मनूत्तमम् ।  
संवर्तो वह्निमारूढो मनुस्वरविभूषितः ॥ ८-२७२ ॥  
	  
बिन्दुनादकलाक्रान्तो भुक्तिमुक्तिप्रदो मनुः ।  
अत्रिरस्य मुनिः प्रोक्तो गायत्री छन्द ईरितम् ॥ ८-२७३ ॥  
	  
देवता नृहरिः प्रोक्तः सुरासुरनमस्कृतः ।  
षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् ॥ ८- २७४ ॥  
	  
ध्यानपूजादिकं सर्वं मन्त्रराजोदितं चरेत् ।  

असय पुरश्चरणमुक्तं (मेरुतन्त्रे)

एकलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥ ८-२७५ ॥  
	  
तद्दशांशं हुनेत् सम्यग्घृताक्तैः पायसैः शुभैः ।  
तर्पयेच्छुद्धसलिलैः कृत्वा चात्माभिषेचनम् ॥ ८-२७६ ॥  
	  
ब्राह्मणान् सम्यगाराध्य सिद्धमन्त्रः समाचरेत् ।  
मन्त्रराजोदितान् सर्वान् प्रयोगानन्त्र साधकः ॥ ८-२७७ ॥  
	  
तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि तृतीयं नृहरेर्मनुम् ।  

प्। ६६१) (शारदायाम्)

पाशः शक्तिर्नरहरिरङ्कुशो वर्म फड्मनुः ॥ ८-२७८ ॥  
	  
षडक्षरो नरहरेः कथितः सर्वकामदः ।  
ऋषिर्ब्रह्मा समुद्दिष्टः पङ्क्तिश्छन्द उदाहृतम् ॥ ८-२७९ ॥  
	  
देवता नरसिंहोऽस्य षड्बीजैरङ्गकल्पना ॥ ८-२७९एफ़् ॥  
	  
अथ ध्यानम् ।  

कोपादालोलजिह्वं विवृतनिजमुखं सोमसूर्याग्निनेत्रं
पादादानाभिरक्तप्रभमुपरिसितं भिन्नदैत्येन्द्रगात्रम् ।
शङ्खं चक्रं सपाशाङ्कुशकुलिशगदादारणान्युद्वहन्तं
भीमं तीक्ष्णाग्रदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ॥ ८-२८० ॥

पुरश्चरणमाह ।  
	  
ऋतुलक्षं जपेदेनं घृतेन जुहुयात् ततः ।  
तत्सहस्रं समिद्धेऽग्नौ तोषयेद्द्रविणैर्गुरुम् ॥ ८-२८१ ॥  

(मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि तुर्यमन्वन्तरोद्भवम् ।  

ज्वालामालिनृसिंहस्य मनुं भूतादिनाशकम् ॥ ८-२८२ ॥

(शारदायाम्)  
	  
बीजं नमो भगवते नरसिंहाय तत्परम् ।  
स्याज्ज्वालामालिने पश्चाद्दीप्तदंष्त्राय तत्परम् ॥ ८-२८३ ॥  
	  
अग्निनेत्राय सर्वादिरक्षोघ्नाय पदं वदेत् ।  
सर्वभूतविनाशान्ते नकारो दीर्घवान्मरुत् ॥ ८-२८४ ॥  
	  
एवं ज्वरविनाशान्ते नायार्णो दहयुग्मकम् ।  
पचद्वयं रक्षयुग्मं हु। फट्स्वाहा ध्रुवादिकः ॥ ८-२८५ ॥  
	  
सप्तषष्ट्यक्षरैः प्रोक्तो ज्वालामालिमहामनुः ।  
हृत् त्रयोदशभिः प्रोक्तं शिरो दशभिरीरितम् ॥ ८-२८६ ॥  

प्। ६६२) शिखैकादशभिः प्रोक्ता वर्माष्टादशभिर्मतम् ।
वर्णैर्द्वादशभिर्नेत्रमस्त्रं स्यात् करणाक्षरैः ॥ ८-२८७ ॥

एवमङ्गानि विन्यस्य चिन्तयेन्मन्त्रदेवताम् ।  
	  
ध्यानम् ।  
	  
प्रज्वलन् प्रलयानलाभमयुग्मनेत्रमनारतम् ॥ ८-२८८ ॥  
	  
भासुरं शिखिनः शिखाभिरुपदंष्ट्रमुखाम्बुजम् ।  
रक्षसां भयदं विकीर्ण सटाकलापविभीषणम् ॥ ८-२८९ ॥  
	  
अथ पुरश्चरणम् ।  
	  
लक्षमेकं जपेन्मन्त्रं तद्दशाशं समाहितः ।  
कपिलाज्येन जुहुयात् समिद्धे हव्यवाहने ॥ ८-२९० ॥  
	  
(मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि यो जातः पञ्चमे विभुः ।  
मन्वन्तरे स लक्ष्मीकः सेव्यते यो गृहस्थितैः ॥ ८-२९१ ॥  
	  
(संहितायाम्)  
	  
अथ लक्ष्मीनृसिंहस्य मन्त्रं वक्ष्ये सुदुर्लभम् ।  
तारेन्दिराशक्तिरमाः शूलिनं पुरुषोत्तमम् ॥ ८-२९२ ॥  
	  
लक्ष्मीप्रियपदं ङेऽन्तं नित्यमामुदितोत्तरम् ।  
चेतसं तादृशं प्रोक्त्वा लक्ष्मीश्रितपदोत्तरम् ॥ ८-२९३ ॥  
	  
अर्धदेहपदं ङेऽन्तं रमा माया च हृत् ।  
सुरवर्णो मनुः प्रोक्तश्चतुर्वर्गफलप्रदः ॥ ८-२९३ ॥  
	  
मुनिः प्रजापतिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ।  
लक्ष्मीनृसिंहो भगवान् देवताऽस्य प्रकीर्त्तितः ॥ ८-२९४ ॥  
	  
स्वबीनेन षडङ्गानि कृत्वा न्यासान्तरं चरेत् ।  

प्। ६६३) तदुक्तं (मेरुतन्त्रे)

पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः ॥ ८-२९५ ॥  
	  
पश्चान्नारायणः शङ्खी नीलजीमुतसन्निभः ।  
इन्दीवरदलश्यामो माधवोर्ध्वगदाधरः ॥ ८-२९६ ॥  
	  
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ।  
उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः ॥ ८-२९७ ॥  
	  
आग्नेय्यामरविन्दाक्षो मुशली मधुसूदनः ।  
त्रिविक्रमः खड्गपाणिर्नैर्-ऋत्यां ज्वलनप्रभः ॥ ८-२९८ ॥  
	  
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान् ।  
ऐशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः ॥ ८-२९९ ॥  
	  
विद्युत्प्रभो हृषीकेशो वायव्यां दिशि मुद्गरी ।  
हृत्पद्मं पद्मनाभो मे सहस्रार्कसमप्रभः ॥ ८-३०० ॥  
	  
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतो मुखः ।  
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः ॥ ८-३०१ ॥  
	  
सवाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः ।  
एवं सर्वत्र निश्छिद्रं नामद्वादशपञ्जरम् ॥ ८-३०२ ॥  
	  
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति कदाचन ।  
इति न्यासं विधायादौ लक्ष्मीनरहरिं स्मरेत् ॥ ८-३०३ ॥  
	  
ध्यानं यथा ।  
	  
सर्पेन्द्रभोगशयनः सर्पेन्द्रफणच्छत्रवान् ।  
आलिङ्गितश्च रमया दीप्तया चन्द्रसन्निभः ॥ ८-३०४ ॥  
	  
पद्मचक्रवराभीतिधरस्त्र्यक्षेन्दुशेखरः ।  
	  
(संहितायां) तु मन्त्रराजोक्तमेव ध्यानमुक्तम् ।  
पुरश्चरणमाह ।  
	  
षष्ट्युत्तरं त्रिलक्षं तु प्रजपेत् तत्सहस्रकम् ॥ ८-३०५ ॥  
	  
मध्वक्तमल्लिकापुष्पैर्जुहुयान्मन्त्रवित्तमः ।  
अभ्यर्च्य सलिले देवं तर्पयेन्मनुना ततः ॥ ८-३०६ ॥  
	  
अभिषिञ्चेत् स्वमूर्धानं ब्राह्मणान् भोजयेत् ततः ।  
ततः प्रयोगान् कुर्वीत् साधको निजवाञ्छितान् ॥ ८-३०७ ॥  
	  
तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि षष्ठमन्वन्तरेऽभवत् ।  
लक्ष्म्या सह नृसिंहोऽयस्तन्मन्त्रः सर्वकामदः ॥ ८-३०८ ॥  
	  
ॐ श्री। लक्ष्मीनृसिंहाय मनुरष्टाक्षरो मतः ।  
मुनिः प्रजापतिश्छन्दोऽनुष्टुब्लक्ष्मीहरिः सुरः ॥ ८-३०९ ॥  
	  
षड्दीर्घयुक्तं क्ष्रौ। बीजैः षडङ्गविधिरीरितः ।  
ध्यानपूजादिकं सर्वं षडक्षरवदीरितम् ॥ ८-३१० ॥  
	  
अथ पुरश्चरणम् ।  
	  
वर्णलक्षं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ।  
पायसैर्जुहुयान्मन्त्री तर्पणादि ततश्चरेत् ॥ ८-३११ ॥  
	  
अथातः सम्प्रवक्ष्यामि यो जातः सप्तमे हरिः ।  
जय जय श्रीनृसिंह मनुरष्टाक्षरो मतः ॥ ८-३१२ ॥  
	  
ऋष्याद्यष्टार्णवत् प्रोक्तं पूजा चास्य षडर्णवत् ।  
एकार्णवत् प्रयोगा।श्च गृहस्थः साधयेच्छुचिः ॥ ८-३१३ ॥  

अथातः सम्प्रवक्ष्यामि त्वष्टमे यस्तु जायते ।  
दशावतारनृहरिर्दक्षसावर्णिकान्तरे ॥ ८-३१४ ॥  

ॐ क्ष्रौ। नमो भगवते नृसिंहाय संवदेत् ।  
ॐ क्ष्रौ। च मत्स्यरूपाय कूर्मरूपाय तद्द्वयात् ॥ ८-३१५ ॥  

प्। ६६५) ॐ क्ष्रौ। वराहरूपाय ततो बीजद्वयं वदेत् ।
नृसिंहरूपाय ततो वेदादि क्ष्रौ। वदेत् ततः ॥ ८-३१६ ॥

प्रोक्त्वा वामनरूपाय त्रिधा बीजद्वयं वदेत् ।  
रामाय तच्च कृष्णाय तद्वयं कल्किने वदेत् ॥ ८-३१७ ॥  

जयशब्दद्वयान्ते तु शालग्रामनिवासिने ।  
दिव्यसिंहायेति चोक्त्वा वदेत् पश्चात् स्वयम्भुवे ॥ ८-३१८ ॥  

पुरुषाय नमस्तारः क्ष्रौमेकोनशतार्णकः ।  
अद्विजेन तु बुद्धाय वक्तव्यं बीजपूर्वकम् ॥ ८-३१९ ॥  

तदा मन्त्रः समाख्यातश्चतुरूर्ध्वशताक्षरः ।	  
छन्दोऽतिजगती प्रोक्तमृषिरत्रिः प्रकीर्त्तितः ॥ ८-३२० ॥  

दशावतारनृहरिर्देवता सर्वकामदः ।  
षड्दीर्घयुक्तबीजेन सडङ्गानि प्रकल्पयेत् ॥ ८-३२१ ॥  

मन्त्रराजवदेवास्य ध्यानपूजादिकं भवेत् ।  
यजेत् षडङ्गपूजान्ते मत्स्यादीनवतारकान् ॥ ८-३२२ ॥  
	  
अथ पुरश्चरणम् ।  
	  
अयुतं प्रजपेन्मन्त्रं साज्येन हविषा ततः ।  
जुहुयात् तद्दशांशेन तर्पणादि ततश्चरेत् ॥ ८-३२३ ॥  

काम्यकर्माणि सर्वाणि मन्त्रराजवदेव हि ।  
अस्य संसेवनाद्विप्रा ब्रह्मचर्यादिविच्युताः ॥ ८-३२४ ॥  

नृसिंहरूपतां प्राप्य जाताः स्थाननृसिंहकाः ।  
आविंशति च ते देहे सम्यक् कुर्वन्ति पूजिताः ॥ ८-३२५ ॥  

अथातः सम्प्रवक्ष्यामि जायते नवमे तु यः ।  
नरसिंहो वीरनामा शृणु तत्साधनं प्रिये ॥ ८-३२६ ॥  

प्। ६६६) बाले च तरुणे वृद्धे प्रयोगार्थं मनुत्रयम् ।
प्रोक्तं संसाधिके वक्त्रशुद्धे सिद्धास्त्रयोऽपि च ॥ ८-३२७ ॥

तारो नमो भगवते बीजान्ते नरपदं वदेत् ।  
सिंहायेति ततः प्रोक्त्वा ज्वालामालापदं वदेत् ॥ ८-३२८ ॥  

पिनद्धाङ्गाय इत्युक्त्वा अग्निनेत्राय संवदेत् ।  
सर्वभूतविनाशेति नायेत्युक्त्वा द्विधा दह ॥ ८-३२९ ॥  

पच युग्मं रक्षयुग्मं ह्री। श्री। रक्षाग्निगेहिनी ।  
चतुष्पञ्चाशदर्णोऽयं मन्त्रः प्रथम ईरितः ॥ ८-३३० ॥  

वर्णाः षोडशपूर्वस्य लिने दीप्तपदं वदेत् ।  
दंष्ट्राय चाग्निनेत्राय सर्वरक्षो-पदं ततः ॥ ८-३३१ ॥  

घ्नायोक्त्वा सर्वभूतेति ङेऽन्तं विनाशनं वदेत् ।  
सर्वज्वरविनाशाय हनद्वन्द्वं दहद्वयम् ॥ ८-३३२ ॥  

पचयुग्मं बन्धयुग्मं हु। फट् स्वाहा क्वगार्णकः ।  
तृतीयमथ वक्ष्यामि पूर्वार्णा गजबाहवः ॥ ८-३३३ ॥  

विनाशनाय चान्ते स्यात् पूर्वसर्वपदं त्रिधा ।  
मध्ये भूतज्वरदोषपदानि त्रीणि योजयेत् ॥ ८-३३४ ॥  

हनादिचतुरन्ते तु रक्षयुग्मं च मां च माम् ।  
हु। फट्स्वाहा नवकृतिवर्णतुल्यो मतो मनुः ॥ ८-३३५ ॥  

मन्त्रराजोक्तवच्चास्य पूजाध्यानजपादिकम् ।  
मालामन्त्रा इमे ख्याता द्रुतसिद्धिविधायकाः ॥ ८-३३६ ॥  

अथातः सम्प्रवक्ष्यामि दशमे जायते तु यः ।  
ॐ क्ष्रौ। महानृसिंहाय नमोऽन्तो दशवर्णकः ॥ ८-३३७ ॥  

वामदेवो मुनिश्छन्दो विराड्देवो नृसिंहकः ।  

प्। ६७०) षड्दीर्घयुक्स्वबीजेन षडङ्गन्यासमाचरेत् ॥ ८-३३७ ॥

ध्यानपूजापुरश्चर्या होमो लक्ष्मीनृसिंहवत् ।  
वर्णलक्षं जपेन्मन्त्रं प्रयोगोऽष्टाक्षरोदितः ॥ ८-३३८ ॥  

अथातः सम्प्रवक्ष्यामि मन्त्रमेकादशस्य तु ।  
ॐ क्ष्रौ। नमो भगवते नरसिंहाय मन्त्रकः ॥ ८-३३९ ॥  

त्रयोदशार्ण उद्दिष्टो भुक्तिमुक्तिप्रदायकः ।  
वामदेवो मुनिः प्रोक्तो जगती छन्द ईरितम् ॥ ८-३४० ॥  

देवतानरसिंहोऽत्र स्वबीजेनाङ्गकल्पनम् ।	  
ध्यानपूजाप्रयोगादि षडक्षरवदीरितम् ॥ ८-३४१ ॥  

अथातः सम्प्रवक्ष्यामि द्वादशे जायते तु यः ।  
काश्यां स वसते नित्यं दुष्टबुद्धिप्रचालकः ॥ ८-३४२ ॥  

तारं सहस्रारज्वालावर्त्तिने क्ष्रौ। हनद्वयम् ।  
हु। फट्स्वाहा चोनविंशवर्णो मन्त्र उदाहृतः ॥ ८-३४३ ॥  

मुनिर्जयन्त आख्यतश्छन्दो गायत्रमुच्यते ।  
सुदर्शननृसिंहोऽस्य देवता परिकीर्त्तितः ॥ ८-३४४ ॥  

चक्रराजाय हृत् प्रोक्तं ज्वालाचक्राय वै शिरः ।  
गजचक्राय च शिखा कवचं त्वस्य सम्मतम् ॥ ८-३४५ ॥  

असुरान्तकचक्राय ह्यस्त्राय फडितीरितम् ।  
सुदर्शनायेति मनुः पञ्चाङ्गमेतदीरितम् ॥ ८-३४६ ॥  
	  
अथ ध्यानम् ।  
	  
चक्राणां तु सभामध्ये कालाग्निसदृशप्रभम् ।	  
चतुर्भुजं विवृत्तास्यं चतुश्चक्रधरं हरिम् ॥ ८-३४७ ॥  

तप्तकाञ्चनसङ्काशं त्रिनेत्रं चाद्यविग्रहम् ।  

प्। ६६८) ध्यायेत् समस्तदुःखघ्नं तादृग्लक्ष्म्या समन्वितम् ॥ ८-३४८ ॥

अथ पुरश्चरणम् ।  
	  
रविलक्षं जपेन्मन्त्रं तद्दशांशं तिलैः शुभैः ।	  
हुनेत् पुष्पैस्ततश्चापि चत्वारिंशत्सहस्रकम् ॥ ८-३४९ ॥  

पुनराज्येन जुहुयात् सहस्रं च नमस्क्रियाः ।	  
तर्पणादि ततः कृत्वा प्रयोगानाचरेत् ततः ॥ ८-३५० ॥  

अथातः सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ।	  
जातं त्रयोदशे देवं नृहरिं क्षौ। तु सम्पुटः ॥ ८-३५१ ॥  

मायया भोगदाता स्यात् प्रणवेन च मोक्षदः ।  
अस्य पूजाप्रयोगाद्यमेकाक्षरसमं भवेत् ॥ ८-३५२ ॥  

अथातः सम्प्रवक्ष्यामि जातं मन्वन्तरे विभुम् ।  
अभयाख्यो नृसिंहोऽयं समस्तभयनाशनः ॥ ८-३५३ ॥  

तारो नमो भगवते नरसिंहाय हृद्वदेत् ।  
तेजस्तेजस इत्युक्त्वा आविराविर्भवेति च ॥ ८-३५४ ॥  

वज्रनख वज्रदंष्ट्र कर्माशयान् द्वी रन्धय ।	  
तमोर्द्विग्रस वह्निस्त्री वदेदभयमात्मनि ॥ ८-३५५ ॥  

भूयिष्ठा ॐ क्ष्रौमिति च द्विषष्ट्यर्णो मनुर्मतः ।  
मुनिः शुकोऽतिजगती छन्दः प्राग्वदिवाखिलम् ॥ ८-३५६ ॥  

चतुर्दशनृसिंहानां साधनं वेदबोधितम् ।  
तदत्र कथितं देवा भुक्तिमुक्तिप्रदायकम् ॥ ८-३५७ ॥  
	  
अथ वामनमन्त्रो (मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि वामनस्य शुभान् मनून् ।  
मन्वन्तरं तपत्येकं सरेशं बाधते परम् ॥ ८-३५८ ॥  

प्। ६६९) पुनर्ददाति हरये त्रैलोक्यं स वलिर्नृपः ।
एकं मन्वन्तरं शक्रः स्वयमेवाभवद्वलिः ॥ ८-३५९ ॥

एवं षड्वामनाः कल्पे तेषां मन्त्रान् वदाम्यहम् ।  
	  
षड्वामनाश्च तन्त्रान्तरे ।  
	  
दधिवामनयज्ञेशवामनु भोगवामनः ॥ ८-३६० ॥  

बालको वामनो विश्वरूपोऽन्यो वलिवामनः ।  

तत्र दधिवामनमन्त्रः (शारदायाम्)  
	  
तारो हृद्विष्णवे पश्चाद्ङेन्तः सुरपतिर्भवेत् ॥ ८-३६१ ॥  

महाबलाय ठद्वन्द्वं मनुरष्टादशाक्षरः ।  
ऋषिरिन्दुर्विराट्छन्दो देवता दधिवामनः ॥ ८-३६२ ॥  

हृदेकेन शिरो द्वाभ्यां शिखा त्रिभिरुदाहृतम् ।	  
कवचं पञ्चभिः प्रोक्तं नेत्रं तावद्भिरक्षरैः ॥ ८-३६३ ॥  

द्वाभ्यामस्त्रमिति प्रोक्तः प्रकारोऽङ्गस्य सूरिभिः ॥ ८-३६३एफ़् ॥  
	  
अथ ध्यानम् ।  

मुक्तागौरं नवमणिलसद्भूषणं चन्द्रसंस्थं
भृङ्गाकारैरलकनिकरैः शोभिवक्त्रारविन्दम् ।
हस्ताग्राभ्यां कनककलशं शुद्धतोयाभिपूर्णं
दध्यन्नाढ्यं कनकचषकं धारयन्तं भजामः ॥ ८-३६४ ॥

अथ पुरश्चरणम् ।  
	  
गुणलक्षं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ।  
पायसान्नैः प्रजुहुयाद्दध्यन्नैर्वा यथाविधि ॥ ८-३६५ ॥  
	  
वामनमन्त्रभेदास्तु (मेरौ) द्रष्टव्याः ।  
अथ त्रिविक्रममन्त्रा (मेरौ)  
	  
अथातः सम्प्रवक्ष्यामि मन्त्रं त्रैविक्रमं परम् ।  
तारो नमो भगवते व्याहृतित्रितयं वदेत् ॥ ८-३६६ ॥  

प्। ६७०) व्यापकाय परं पश्चाद्ङेऽन्तं चापि त्रिविक्रमम् ।
विंशत्यर्णो महामन्त्रो गतराज्यप्रदायकः ॥ ८-३६७ ॥

पदपञ्चकसर्वेण षडङ्गविधिरीरितः ।  
मुनयो वालिखिल्याः स्युश्छन्दो गायत्रमीरितम् ॥ ८-३६८ ॥  
	  
देवता विश्वरूपोऽयं त्रिविक्रम उदाहृतः ।  
	  
ध्यानम् ।  
	  
दक्षाङ्घ्रिव्याप्तपातालं वामाङ्घ्रिव्याप्तभूतलम् ॥ ८-३६९ ॥  
	  
दक्षिणं पुनरुत्थाप्य स्वर्गव्याप्तिकरं हरिम् ।  
वलिदत्तैः कुशतिलतोयैः सम्प्रस्रवत्करम् ॥ ८-३७० ॥  
	  
अभयं वामहस्तेन कुर्वन्तं च सुरेश्वरम् ।  
गङ्गौघधौतपादाब्जं ध्यायेद्ब्रह्मादिकस्तुतम् ॥ ८-३७१ ॥  
	  
अथ पुरश्चरणम् ।  
	  
विंशल्लक्षं जपेन्मन्त्रं तिलतण्डुलसर्षपैः ।  
त्रिमध्वक्तैर्हुनेत् पश्चात् तर्पणाद्यं च कारयेत् ॥ ८-३७२ ॥  
	  
एवं सिद्धमनुर्मन्त्री लभते वाञ्छितं फलम् ।  
	  
अथ परशुरामन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि रामन्त्रं महाद्भुतम् ॥ ८-३७३ ॥  
	  
आकल्पमेकम् एवायं जामदग्न्यो महाबलः ।  
ब्रह्मक्षेत्राय विर्महे क्षत्रियान्ताय धीमहि ॥ ८-३७४ ॥  
	  
तन्नो रामः प्रचोदयात् - - - - - - - - - - - - - - - - - ।  
	  
तथा ।  
	  
श्रीमत्परशुरामस्य गायत्र्येषा महाद्भुता ॥ ८-३७५ ॥  
	  
राज्यकृत् कलिभूषानां सर्वतन्त्रेषु गोपिता ।  
भरद्वाजो मुनिः प्रोक्तो गायत्री छन्द ईरितम् ॥ ८-३७६ ॥  

प्। ६७१) श्रीमान् परशुरामोऽस्य देवता भक्तवत्सलः ।
अष्टेषुत्रिद्विबाह्वब्धिवर्णैः प्रोक्तं षडङ्गकम् ॥ ८-३७७ ॥

अथ ध्यानम् ।  
	  
सात्त्विकं श्वेतवर्णं च भश्मोद्धूलितविग्रहम् ।  
अग्निहोत्रस्थलासीनं नानामुनिगणावृतम् ॥ ८-३७८ ॥  
	  
कम्बलासनमारूढं स्वर्णतारकुशाङ्गुलिम् ।  
श्वेतवस्त्रद्वयोपेतं जुह्वन्तं शान्तमानसम् ॥ ८-३७९ ॥  
	  
ध्यायेच्च राजसं रामं कुङ्कुमारुणविग्रहम् ।  
किरीटिनं कुण्डलिनं परश्वब्जवराभयान् ॥ ८-३८० ॥  
	  
करैर्दधन्तं तरुणं विप्रक्षत्रौघसंवृतम् ।  
पीताम्बरधरं कामरूपं बालनिरीक्षितम् ॥ ८-३८१ ॥  
	  
ध्यायेच्च तामसं क्षत्ररुधिराक्तेपरश्वघम् ।  
आरक्तनेत्रं कर्णस्थब्रह्मसूत्रं यमप्रभम् ॥ ८-३८२ ॥  
	  
धनुष्टङ्कारसङ्घोषसन्त्रस्तभुवनत्रयम् ।  
चतुर्बाहुं मुशलिनं सङ्क्रुद्धभ्रातृसंयुतम् ॥ ८-३८३ ॥  
	  
अथ पुरश्चरणम् ।  
	  
वर्णलक्षं जपेन्मन्त्रं सिताज्यघृतपायसैः ।  
हुनेद्ब्राह्मणभोज्यान्तं कृत्वा सिद्धो भवेन्मनुः ॥ ८-३८४ ॥  
	  
ब्रह्मकर्मरतो नित्यं गायत्रीजपतत्परः ।  
स एव जायते सिद्धो नान्यो विप्रः कदाचन ॥ ८-३८५ ॥  
	  
तथा �  
	  
फिरङ्गा यवनाश्चीनाः खुरासानाश्चलेन्धुजाः ।  
रामभक्तं ग्रदृष्ट्वैते त्रसन्ति प्रणमन्ति च ॥ ८-३८६ ॥  
	  
अथ श्रीरघुनाथमन्त्रा (वशिष्ठसंहितायाम्)  
	  
कृष्णं द्वैपायनं व्यासं गुरुं सत्यव्रतीसुतम् ।  

प्। ६७२) समाधिस्थं मुनिं शान्तं प्रसन्नादित्यतेजसम् ॥ ८-३८७ ॥

गङ्गातीरे महापुण्ये समासीनं तपोनिधिम् ।  
शौनकः परिपप्रच्छ साष्टाङ्गं प्रणिपत्य च ॥ ८-३८८ ॥  
	  
श्रीशौनक उवाच ।  
	  
अयि प्रसादसुमुख कुरुष्व मयि मानसम् ।  
तत्प्रासादान्महामन्त्रा विहिता बहवो मया ॥ ८-३८९ ॥  
	  
करुणारसपूर्णाभ्यां नेत्राभ्यां मां विलोकय ।  
सच्चिदानन्दमात्मानं ज्ञातवान् ब्रह्मशास्वतम् ॥ ८-३९० ॥  
	  
इदानीं श्रोतुमिच्छामि मन्त्रं साङ्गं सहार्चनम् ।  
रामात्मनाऽवतीर्णस्य विष्णोरमिततेजसः ॥ ८-३९१ ॥  
	  
ब्रूहि मे भगवन् सर्वं श्रोतुं योग्योऽस्म्यहं यदि ।  
असौ भाग्येन लोकोऽयं दारिद्र्येण च पीडितः ॥ ८-३९२ ॥  
	  
येन सौभाग्यमतुलं महदैश्वर्यसम्भवम् ।  
शास्त्रज्ञानं कवित्वं च सर्वज्ञत्वं लभेन्नरः ॥ ८-३९३ ॥  
	  
श्रीव्यास उवाच ।  
	  
साधु पृष्टं त्वया ब्रह्मन् कथये सकलं तव ।  
ब्रह्मणा कथितं पूर्वं वशिष्ठाय महात्मने ॥ ८-३९४ ॥  
	  
वशिष्ठोऽपि स्वपुत्राय मत्पित्रे दत्तवान्मनुम् ।  
प्रसन्नहृदयः शुद्धः पिता मे करुणानिधिः ॥ ८-३९५ ॥  
	  
कुरुक्षेत्रे महापुण्ये सूर्यपर्वणि दत्तवान् ।  
मया च साधितो मन्त्रो जपहोमार्चनादिभिः ॥ ८-३९६ ॥  
	  
इतः पूर्वं मया नोक्तो मन्त्रराजस्तु कस्यचित् ।  
एवं परम्पराप्रोक्तं भक्त्या मन्त्रं शृणुष्वमे ॥ ८-३९७ ॥  

प्। ६७३) अयोग्याय न दातव्यो मन्त्रराजस्त्वया मुने ।
यत्नेन गोपय त्वं च रहस्यं श्रीप्रसिद्धिदम् ॥ ८-३९८ ॥

शिष्यलक्षणमुक्त्वा �  
	  
ईदृग्विधाय शिष्याय मन्त्रं दद्यात् तु नान्यथा ।  
यदन्यथा वदेत् तस्मिन् देवता शापदा भवेत् ॥ ८-३९९ ॥  
	  
मन्त्रोद्धारमाह ।  
	  
मान्तान्तं विन्दुसंयुक्तं नारायणविभूषितम् ।  
बीजमेतत् समुद्धृत्य विन्दुहीनं पुनश्च तत् ॥ ८-४०० ॥  
	  
भान्तं चाकारसंयुक्तं मान्तान्तां नतिमुद्धरेत् ।  
एतत् षडक्षरं मन्त्रं सर्वैश्वर्यप्रदायकम् ॥ ८-४०१ ॥  
	  
सर्वसुभाग्यजननं सर्वलोकवशङ्करम् ।  
विद्यासिद्धिकरं नॄणां महदाञ्ज्ञाकरं मुने ॥ ८-४०२ ॥  
	  
ऋषिर्ब्रह्माऽस्य मन्त्रस्य गायत्रं छन्द उच्यते ।  
रामाख्यं वैष्णवं धाम देवता परिकीर्त्तिता ॥ ८-४०३ ॥  
	  
जानीयात् प्रथमं वर्णं बीजं शक्तिं नतिं तथा ।  
	  
मन्त्रार्थमाह (रामार्चनचन्द्रिकायाम्)  
	  
श्रीराममन्त्रराजस्य सम्यगर्थोऽभिधीयते ॥ ८-४०४ ॥  
	  
रकारो वह्निवचनः प्रकाशे पर्यवस्यति ।  
सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते ॥ ८-४०५ ॥  
	  
व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः ।  
व्यञ्जनैः स्वरसंयोगो विद्धि तत्प्राणयोजनम् ॥ ८-४०६ ॥  
	  
रेफे ज्योतिर्मये तस्मात् कृतमाकारयोजनम् ।  
मकारोऽभ्युदयार्थत्वान्मायात्मेति च कथ्यते ॥ ८-४०७ ॥  
	  
तस्मादनेन बीजेन समायं ब्रह्म उच्यते ।  

प्। ६७४) (रामोपनिषदि)

स्वप्रकाशः स्वयं ज्योतिः स्वानुभूत्येकचिन्मयः ॥ ८-४०८ ॥  
	  
तदेव मन्त्रराजस्य मनुराड्द्व्यक्षरः स्मृतः ।  
अखण्डैकरसानन्दस्तारको ब्रह्मवाचकः ॥ ८-४०९ ॥  
	  
रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ।  
नमःपदं सुविज्ञेयं पूर्णानन्दैकविग्रहम् ॥ ८-४१० ॥  
	  
सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ।  
	  
आद्यबीजभेदात् षड्विधोऽयं मन्त्रस्तदुक्तं (मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकान् ॥ ८-४११ ॥  
	  
राममन्त्रान् स भगवान् प्रतिमन्वन्तरे ह्यभूत् ।  
युगानां परिवर्तेन कल्पे शक्रावतारकः ॥ ८-४१२ ॥  
	  
तत्राद्यस्य प्रवक्ष्यामि मन्त्रराजं षडक्षरम् ।  
रामाय नम इत्येष रा। क्ली। ह्री। ऐ। तु पूर्वकः ॥ ८-४१३ ॥  
	  
श्रीताराद्यश्च षड्वर्णः षड्विधः परिकीर्त्तितः ।  
ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्त्तिरेव च ॥ ८-४१४ ॥  
	  
अगस्त्यः श्रीशिवः प्रोक्तो मुनयोऽनुक्रमादिमे ।  
छन्दो गायत्रसञ्ज्ञं च श्रीरामो देवता मतः ॥ ८-४१५ ॥  
	  
षडक्षरस्यैव भूयांसः प्रभेदास्तत्रैवोक्ताः ।  
	  
पञ्चाशन्मातृकामन्त्रवर्णः प्रत्येकपूर्वकः ।  
लक्ष्म्यादिर्वाग्भवादिश्च मन्मथादिर्ध्रुवादिकः ॥ ८-४१६ ॥  
	  
रामचन्द्रस्तथा भेदाः शतद्वयमिता अमी ।  
रामभद्रेति शब्देन चैवं भेदाः शतद्वयम् ॥ ८-४१७ ॥  
	  
रमाबीजादिकानां तु विश्वामित्रो मुनिर्मतः ।  
वाग्बीजपूर्वकाणां तु दक्षिणामूर्त्तिरुच्यते ॥ ८-४१८ ॥  

प्। ६७५) कामबीजादिपूर्वेषां मुनिः सम्मोहनो मतः ।
तारादिपूर्वकाणां तु श्रीशिवः प्रोच्यते मुनिः ॥ ८-४१९ ॥

श्रीमायामन्मथैकैकबीजाद्यन्तगतो यदा ।  
रामभद्रो रामचन्द्रः षोढा षड्वर्ण उच्यते ॥ ८-४२० ॥  
	  
षोढा नमोऽन्तः प्राक् प्रोक्तः फट्कारान्तः स एव हि ।  
षोढा स्याद्वह्निजायान्तः स एवं षड्विधो मतः ॥ ८-४२१ ॥  
	  
चतुःशतं चतुर्विंशभेदास्तेन निरूपिताः ।  
	  
तथा ।  
	  
तारादिर्मुक्तये ह्येष रमादिर्भुक्तये भवेत् ॥ ८-४२२ ॥  
	  
वाक्सिद्धये च वागादिः सर्ववश्याय मान्मथः ।  
ताराद्यैः पुटितान् मन्त्रान् सर्वार्थं विनियोजपेत् ॥ ८-४२३ ॥  
	  
तथा ।  
	  
ब्रह्मरन्धे भ्रुवोर्मध्ये हृन्नाभ्यन्धुषु पादयोः ।  
बीजैः षड्दीर्घसंयुक्तैः षडङ्गविधिरीरितः ॥ ८-४२४ ॥  
	  
(वशिष्ठसंहितायाम्)  
	  
आधारे भावयेच्छक्तिं चिदानन्दस्वरूपिणीम् ।  
उद्यदादित्यसङ्काशमाधारं तत्प्रभामयम् ॥ ८-४२५ ॥  
	  
आधारभावनामेवं सम्भाव्य मुनिसत्तम ।  
ततः समुत्थितं तेजः शिखारूपं च चिन्तयेत् ॥ ८-४२६ ॥  
	  
विद्युत्कोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।  
सुषुम्नामुखमुन्मील्य प्रापयेदुपदेशतः ॥ ८-४२७ ॥  
	  
ब्रह्माध्वनाऽनयेदूर्ध्वं द्वादशान्तेन्दुमण्डलम् ।  
प्रापय्य विधिना बुद्ध्या स्रावयेत् तत् सुधामृतम् ॥ ८-४२८ ॥  
	  
ततः परिगलच्छुद्धसुधाधाराभिरावृतम् ।  

प्। ६७६) निजदेहं जगत् सर्वमेकीभूतं विचिन्तयेत् ॥ ८-४२९ ॥

निष्प्रपञ्चं निराकारं निरवद्यं निरञ्जनम् ।  
अशून्यशून्योपरमं सदसद्भाववर्जितम् ॥ ८-४३० ॥  

अखण्डानन्दमात्मानं भावयेन्मुनिसत्तम ।
देवतागुरुमन्त्राणां भावयेदैक्यमात्मनः ॥ ८-४३१ ॥

एवं सञ्चिन्तयेन्मन्त्री मन्त्रं प्रतिदिनं जपेत् ।  
ऐहिकानखिलान् भोगान् भुक्त्वा चान्ते पदं व्रजेत् ॥ ८-४३२ ॥  
	  
उपसंहृत्य तत् तेजो यद्वा हृदयपङ्कजे ।  
रामं ज्योतिर्मयं ध्यायेत् सर्वलोकैकसाक्षिणम् ॥ ८-४३३ ॥  
	  
जगदुद्भूतिसम्भूतिपरिहूतिकरं हरिम् ।  
देवासुरमनुष्यैश्च योगिवृन्दैश्च सेवितम् ॥ ८-४३४ ॥  
	  
अथ ध्यानम् ।  
	  
चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् ।  
किरीटहारकेयूररत्नकुण्डलमण्डितम् ॥ ८-४३५ ॥  
	  
एवं ध्यात्वा जपेन्मन्त्रं षट्सहस्रं दिने दिने ।  
वाचः श्रियः पतिर्भूत्वा कविर्भवति वत्सरात् ॥ ८-४३६ ॥  
	  
ध्यानान्तरमाह ।  
	  
ध्यायेत् कल्पतरोर्मूले सौवर्णमण्डपं मुने ।  
तन्मध्ये पुष्पकाख्यं च विमानं दिव्यमुत्तमम् ॥ ८-४३७ ॥  
	  
मध्ये सिंहासनं तस्य नानारत्नविभूषितम् ।  
तन्मध्येऽष्टदलम्पद्ममुद्यदादित्यसन्निभम् ॥ ८-४३८ ॥  
	  
श्रीराममेनं तन्मध्ये समासीनं महामुने ।  
सम्यग्ज्ञानमयीं मुद्रां दधानं दक्षिणे करे ॥ ८-४३९ ॥  

प्। ६७७) तेजःप्रकाशनं वामं जानुमूर्धनि चापरम् ।
जानकीवल्लभं देवमिन्द्रनीलसमप्रभम् ॥ ८-४४० ॥

उद्याननिरतं देव द्विभुजं रघुनन्दनम् ।  
वशिष्ठवामदेवादिमुनिभिः परिवारितम् ॥ ८-४४१ ॥  
	  
वामभागे समासीनां सीतां काञ्चनसन्निभाम् ।  
भजतां कामदां नित्यं रक्तोत्पलकराम्बुजाम् ॥ ८-४४२ ॥  
	  
लक्ष्मणं पश्चिमे भागे धृतच्छत्रसुचामरम् ।  
पार्श्वे भरतशत्रुघ्नौ तालवृन्तकरावुभौ ॥ ८-४४३ ॥  
	  
एवं ध्यात्वा जपेन्मन्त्रं ज्ञानलक्ष्म्योश्च भाजनम् ॥ ८-४४३एफ़् ॥  
	  
(शारदायामपि)  

कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासिनं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ ८-४४४ ॥

(मेरुतन्त्रे)  
	  
वीरासनसमारूढं व्याख्यामुद्रोपशोभितम् ।	  
वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ८-४४५ ॥  
	  
तन्त्रान्तरे पूर्वोक्तध्यानमुक्त्वा �  
	  
एवं तद्द्यानमात्रेण सर्वपापैः प्रमुच्यते ।  
राममिन्दीवरश्यामं पद्मपत्रायतेक्षणम् ॥ ८-४४६ ॥  

ध्यात्वा तु हृदयाम्भोजे ये जपन्ति षडक्षरम् ।  
करामलकवज्ज्ञेया मुक्तिस्तेषां महात्मनाम् ॥ ८-४४७ ॥  
	  
(वशिष्ठसंहितायाम्)  
	  
शास्त्रज्ञानं कवित्वं च षण्मासाज्जायते मुने ।  

प्। ६७८) जपतां मन्त्रिणामेवं जपयोगेन धीमताम् ॥ ८-४४८ ॥

पुरश्चरणकृत्येन विनाऽपि फलदो मनुः ।  
	  
अस्य पुरश्चरणमुक्तं (मेरुतन्त्रे)  
	  
वर्णलक्षं जपेन्मन्त्रं दशांशं मधुरप्लुतैः ॥ ८-४४९ ॥  
	  
विल्वपत्रैः फलैः पुष्पैस्तिलैर्वा पङ्कजैर्हुनेत् ।  
	  
अथ मालामन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि लक्ष्मणोपासितं मनुम् ॥ ८-४५० ॥  
	  
तारो नमो भगवेते ङेऽन्तः स्याद्रघुनन्दनः ।  
रक्षोघ्नविशदायेति मधुरेति पदं ततः ॥ ८-४५१ ॥  
	  
प्रसन्नवदनायेति ततश्चामिततेजसे ।  
बलायेति च रामाय विष्णवे नम इत्ययम् ॥ ८-४५२ ॥  
	  
सप्तचत्वारिंशदर्णो मालामन्त्र उदाहृतः ।  
मुनिः पितामहश्छन्दः स्यादनुष्टुप् च देवता ॥ ८-४५३ ॥  
	  
राज्याभिषिक्तो रामश्चो। बीजं शक्तिर्नमोऽस्त्विति ।  
सप्तर्त्तुसप्तदशषड्रससङ्ख्यैः षडङ्गकम् ॥ ८-४५४ ॥  
	  
तथा ।  
	  
ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् ।  
विल्वैः प्रसूनैः पत्रैर्वा तिलैस्त्रिमधुना युतैः ॥ ८-४५५ ॥  
	  
मधुरत्रययुक्तेन पायसेनाथ वाऽम्बुजैः ।  
होमं दशांशतः कुर्यात् तथा सर्वत्र तर्पणम् ॥ ८-४५६ ॥  
	  
मार्जनं भोजयेद्विप्रान् प्रयोगादि च पूर्ववत् ।  
	  
दशाक्षरमन्त्रो वक्ष्यते ।  
मन्वन्तरभेदेन श्रीराममन्त्रभेद उक्तस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि स्वारोचिषसमुद्भवम् ॥ ८-४५७ ॥  

प्। ६७९) रामस्यैकाक्षरं मन्त्रं कीर्त्त्यते स तु रामिति ।
ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामोऽस्य देवता ॥ ८-४५८ ॥

मूर्त्तिपञ्जरनामानं तत्त्वन्यासं च कारयेत् ।	  
षड्दीर्घार्धेन्दुयुक्तेन बीजेनैव षडङ्गकम् ॥ ८-४५९ ॥  

ध्यानपूजादिकं प्राग्वद्भानुलक्षं जपेन्मनुम् ।  
अथातः सम्प्रवक्ष्यामि तृतीयान्तर्मनोर्विधिम् ॥ ८-४६० ॥  

राम एत्येष कथितो द्व्यक्षरो भुक्तिमुक्तिदः ।  
एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् ॥ ८-४६१ ॥  

ध्यानपूजाप्रयोगादि सर्वं ज्ञेयं षडर्णवत् ।  
	  
एवं पुरश्चरणमपि ज्ञेयम् ।  
	  
अथातः सम्प्रवक्ष्यामि चतुर्थान्तर्मनोर्विधिम् ॥ ८-४६२ ॥  

तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ।  
द्व्यक्षरो मन्त्रराजस्तु त्र्यक्षरः परिजायते ॥ ८-४६३ ॥  

न्यासपूजाप्रयोगादि सर्वं पूर्ववदाचरेत् ।	  
अथातः सम्प्रवक्ष्यामि पञ्चमान्तर्मनोर्विधिम् ॥ ८-४६४ ॥  

द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ।  
ऋषिन्यासार्चनाद्यं तु सर्वं पूर्ववदाचरेत् ॥ ८-४६५ ॥  

विशेषतश्चतुर्वर्गफलदोऽयं मतो मनुः ।	  
अथातः सम्प्रवक्ष्यामि षष्ठमन्वन्तरोद्भवम् ॥ ८-४६६ ॥  

रामाय नम इत्येष मनुः पञ्चाक्षरो मतः ।  
विश्वामित्रो मुनिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता ॥ ८-४६७ ॥  

रामभद्रो बीजशक्ती प्रथमार्णनती क्रमात् ।	  
भ्रूमध्ये हृदि नाभ्यधो पादयोर्विन्यसेन्मनुम् ॥ ८-४६८ ॥  

षडङ्गं पूर्ववद्यद्वा मन्त्रार्णैर्मनुनाऽस्त्रकम् ।  

प्। ६८०) ध्यानमाह ।

मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥ ८-४६९ ॥  

लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् ।  
भवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ ८-४७० ॥  

जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् ।  
लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि ॥ ८-४७१ ॥  

दशास्यमथनं शान्तं ससुग्रीवविभीषणम् ।  
विजयार्थी विशेषेण वर्णलक्षं जपेन्मनुम् ॥ ८-४७२ ॥  

प्राग्वद्धोमस्तर्पणादि प्रयोगाद्यं च साधयेत् ।	  
अथातः सम्प्रवक्ष्यामि मन्त्रं सावर्णिकोद्भवम् ॥ ८-४७३ ॥  

तारादिषड्भिः संयुक्तो द्वेधा सप्ताक्षरो मनुः ।  
अष्टाक्षरो द्वादशधा कीर्त्तिर्तो राज्यदायकः ॥ ८-४७४ ॥  

सर्वं षडर्णवज्ज्ञेयं ध्यानपूजाजपादिकम् ।  
अथातः सम्प्रवक्ष्यामि मन्त्रान् नवमसम्भवान् ॥ ८-४७५ ॥  

तारो रामश्चतुर्थ्यन्तः क्रोधोऽस्त्रं वह्निवल्लभा ।  
अष्टार्णोऽयं परो मन्त्रो मुन्यादिः स्यात् षडर्णवत् ॥ ८-४७६ ॥  

नाशकः सर्वदोषाणां सङ्ग्रामविजयप्रदः ।  
अथातः सम्प्रवक्ष्यामि मन्त्रान् दशमसम्भवान् ॥ ८-४७७ ॥  

ॐ ह्री। नमश्च रामाय ह्रीमित्यष्टाक्षरः परः ।  
ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते ॥ ८-४७८ ॥  

शिवोमारामचन्द्रोऽस्य देवता परिकीर्त्तितः ।  
दीर्घया माययाऽङ्गानि तारपञ्चार्णयुक्तया ॥ ८-४७९ ॥  
	  
ॐ नमो रामाय ह्री। हृदयाय नमः � इत्यादि ।  

प्। ६८१) ध्यानपुरश्चरणे प्राह ।

रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं वरम् ।  
भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ॥ ८-४८० ॥  

रामाभिरामां सौन्दर्यसीमां सोमावतंसिनीम् ।  
पाशाङ्कुशधनुर्बाणधरां ध्यायेत् त्रिलोचनाम् ॥ ८-४८१ ॥  

रामशक्तिं तु सीताख्यां वर्णलक्षं जपेन्मनुम् ।  
होमपूजादिकं सर्वं षडक्षरवदीरितम् ॥ ८-४८२ ॥  

विशेषतो भोगदाता सङ्ग्रामविजयप्रदः ।  
अथैकादशसम्भूतान् राममन्त्रान् वदाम्यहम् ॥ ८-४८३ ॥  

सप्तार्णैर्यौ मनू प्रोक्तौ षड्भिस्तारादिकैः पृथक् ।  
सम्पुटौ ते द्वादशधा नवार्णा मनवः सुराः ॥ ८-४८४ ॥  

ध्यानपूजादिकं सर्वं तेषां सप्तार्णवद्भवेत् ।  
अथातः सम्प्रवक्ष्यामि द्वादशान्तरसम्भवम् ॥ ८-४८५ ॥  

जानकीवल्लभो ङेऽन्तः स्वाहान्तश्च हुमादिकः ।  
दशाक्षरोऽयं मन्त्रः स्याद्वशिष्थोऽस्य मुनिश्चराट् ॥ ८-४८६ ॥  

छन्दश्च देवता रामः सीतापाणिपरिग्रहः ।	  
आद्यं बीजं द्विठः शक्तिरङ्गं षड्दीर्घको मतः ॥ ८-४८७ ॥  

शिरोललाटभ्रूमध्यतालुकण्ठेषु हृद्यपि ।	  
नाभ्यन्धुजानुपादेषु दशार्णान् विन्यसेन्मनोः ॥ ८-४८८ ॥  
	  
ध्यानमाह ।  
	  
अयोध्यानगरे रत्नचिते सौवर्णमण्डपे ।  
मन्दारपुष्पैराबद्धविताने तोरणान्विते ॥ ८-४८९ ॥  

सिंहासनसमारूढं पुष्पकोपरि राघवम् ।  
रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥ ८-४९० ॥  

प्। ६८२) संस्तुयमानं मुनिभिः प्रहृष्टैरुपसेवितम् ।
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम् ॥ ८-४९१ ॥

श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ।  
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥ ८-४९२ ॥  

जपपूजाप्रयोगादि सर्वमस्य षडर्णवत् ।	  
अथ त्रयोदशे जातं राममन्त्रं वदाम्यहम् ॥ ८-४९३ ॥  

रामो ङेऽन्तो धनुष्पाणिस्तथा स्याद्वह्निसुन्दरी ।  
दशाक्षरो मुनिर्ब्रह्मा विराट् छन्दोऽस्य देवता ॥ ८-४९४ ॥  

राक्षसान्तकरो रामो रा। बीजं परिकीर्त्तितम् ।  
स्वाहा शक्तिश्च बीजेन षडङ्गानि समाचरेत् ॥ ८-४९५ ॥  

वर्णन्यासं तथा ध्यानं पौरश्चरणिकं विधिम् ।  
दशाक्षरोक्तवत् कुर्याच्चापबाणधरं स्मरेत् ॥ ८-४९६ ॥  

विशेषाज्जयदश्चायं भ्रष्टराज्यप्रदायकः ।  
	  
एवं हनुमदाद्युपासिता मन्त्रा (मेरौ) द्रष्टव्याः ।  
अथ रामगयत्री तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि शत्रुघ्नोपासितां पराम् ॥ ८-४९७ ॥  

जयदां रामगायत्रीमुपास्यां सूर्यवंशजैः ।  
	  
दाशरथयो विद्महे सीतावल्लभाय धीमहितन्नोरामः प्रचोदयात् ।  
	  
एषा स्याद्रामगायत्री भक्तानां भुक्तिमुक्तिदा ॥ ८-४९८ ॥  

जन्मप्रभृति यत् पापं दशभिर्यातिमक्षयम् ।	  
पुरा कृतं शतेनैव सहस्रेण जपेन वा ॥ ८-४९९ ॥  

पुरश्चरणमस्याश्च चतुर्लक्षजपो विधिः ।	  
यच्च यावच्च पूजादि सर्वं पूर्ववदाचरेत् ॥ ८-५०० ॥  

तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ।  

प्। ६८३) मायादिरपि वैश्वर्यं रमादिश्च श्रियं पराम् ॥ ८-५०१ ॥

मदनेनापि संयुक्तो सम्मोहयति मेदिनीम् ।  
	  
अथ सीतामन्त्रो (वशिष्ठसंहितायाम्)  
	  
श्रीबीजं पूर्वमुच्चार्य सीतायै पदमुद्धरेत् ॥ ८-५०२ ॥  

वह्निजायान्वितो मन्त्रो भजतां कल्पभूरुहः ।	  
जनकोऽस्य ऋषिः प्रोक्तो गायत्री छन्द उच्यते ॥ ८-५०३ ॥  

सीताख्या या जगधात्री देवता सा जगन्मयी ।  
	  
(मेरुतन्त्रे)  
	  
सीता भगवती प्रोक्ता श्रीबीजं शक्तिरन्त्यकौ ॥ ८-५०४ ॥  

दीर्घस्वरयुजाऽद्येन षडङ्गानि प्रकल्पयेत् ।  
पूजयेद्वैष्णवे पीठे ध्यायेद्राघवसंयुताम् ॥ ८-५०५ ॥  

स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् ।  
	  
अथ बलरामन्त्रस्तन्त्रान्तरे ।  
	  
तारान्ते बलभद्राय हृदयं वसुवर्णवान् ॥ ८-५०६ ॥  

मनिस्तु जैमिनिश्छन्दो गायत्रं देवताऽस्य च ।  
बलरामो मन्त्रवर्णैर्द्विरावृत्त्या षडङ्गकम् ॥ ८-५०७ ॥  
	  
अथ ध्यानम् ।  
	  
शुभ्राभ्रगौरं नीलाभं वसनं रेवतीप्रीयम् ।	  
दधानं सीरमुशले बलरामं समाश्रये ॥ ८-५०८ ॥  
	  
अथ पुरश्चरणम् ।  
	  
वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः � इति ।  
	  
अथ श्रीकृष्णमन्त्राः (मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि कृष्णमन्त्रान् महाद्भुतान् ।  
कृष्णः स एव भगवान् कलिद्वापरसन्धिगः ॥ ८-५०९ ॥  

प्। ६८४) वर्धयेत् कलिधर्माणां भक्तानां तारणाय सः ।
एकसप्ततिरूपोऽसौ प्रतिमन्वन्तरे भवेत् ॥ ८-५१० ॥

तदुक्ताचरणान्मोक्षस्तत्कृताचरणाच्च्युतिः ।  
इति तत्त्वं समाख्यातं विभवस्य भवस्य च । । ५११ ॥  

जातश्चाद्ये कलियुगे नानागोपीरते रतः ।  
तत्कर्म कुर्वतां पातस्तत्सामर्थ्यं विभाविना ॥ ८-५१२ ॥  

स्वधर्मनिरतानां तु कलौ जन्म प्रजायते ।  
तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रसाधनम् ॥ ८-५१३ ॥  

गोपीजनवल्लभाय स्वाहामन्त्रो दशाक्षरः ।  
	  
(गीतमीये )  
	  
गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः ॥ ८-५१३ ॥  

अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ।  
बीजपूर्वो जपश्चास्य रहस्यं कथितं मुने ॥ ८-५१४ ॥  

लुप्तबीजस्वभावत्वाद्दशाक्षरमिहोच्यते ।  
	  
(बृहद्गौतमीये)  
	  
भोगमोक्षैकनिलयो लुप्तबीजो दशाक्षरः ॥ ८-५१५ ॥  

उद्धारे तु पृथक् तेन कामबीजं महामुने ।	  
मद्योगात् फलदो मन्त्रो नान्यथा कल्पकोटिभिः ॥ ८-५१६ ॥  
	  
(मेरुतन्त्रे)  
	  
नारदोऽस्य मुनिः प्रोक्तो विराट् छन्द उदाहृतम् ।  
देवता नन्दपुत्रः क्ली। बीजं शक्तिः शिखिप्रिया ॥ ८-५१७ ॥  

आविशुः पूर्वपदकैस्त्रैलोक्यरक्षणादिकैः ।  
असुरान्तादिकैश्चक्रशब्दैः स्वाहान्तकैश्चरेत् ॥ ८-५१८ ॥  

जातियुक्तैश्च पञ्चाङ्गं तथा पञ्चाङ्गुलीष्वपि ।	  

प्। ६८५) हृदये शीर्षके चैव शिखायां कवचे तथा ॥ ८-५१९ ॥

अस्त्रे पार्श्वद्वये कट्यां पृष्ठे मूर्धनि च क्रमात् ।  
	  
न्यासान्तराण्युक्ता ध्यानमाह ।  
	  
एवं कृत्वा विधानेन मन्त्री मन्त्रकलेवरम् ॥ ८-५२० ॥  

त्रय्यन्तबोधितं नित्यं कृष्णं ध्यायेज्जगत्पतिम् ।  
पूर्वं वृन्दावनं रम्यं स्मरेत् पूर्वं विराजितम् ॥ ८-५२१ ॥  

नवीनपल्लवोद्रेकफलसम्पत्तिसंयुतम् ।  
मधुपैः कृतझङ्कारैः कीराद्यैश्च निनादितम् ॥ ८-५२२ ॥  

आदित्यतनयापार्श्वलहरीकणशीतलम् ।  
तस्मिन् वने कल्पतरुं नवपल्लवशोभितम् ॥ ८-५२३ ॥  

स्वर्णशाखाग्रसंयुक्तं नवरत्नफलान्वितम् ।	  
दिव्यामृतौघवर्षेण स्रवन्तं विश्वमुच्छ्रितम् ॥ ८-५२४ ॥  

ज्वलद्रत्नसमाबद्धां पुष्परेणुविभूषिताम् ।  
षडूर्मिरहितां मन्त्री तस्याधस्ताद्भुवं स्मरेत् ॥ ८-५२५ ॥  

माणिक्यकुट्टिमं तत्र योगपीठं विचिन्तयेत् ।  
पद्ममष्टदलं तत्र यथोक्तं रक्तवर्णकम् ॥ ८-५२६ ॥  

तस्य मध्ये सुखासीनं कृष्णं ध्यायेदनन्यधीः ।	  
उद्यदादित्यसङ्काशं प्रसन्नवदनं विभुम् ॥ ८-५२७ ॥  

इन्द्रनीलमणिप्रख्यं स्निग्धदीर्घशिरोरुहम् ।  
मायूरेण सुपिच्छेन राजमानोत्तमाङ्गकम् ॥ ८-५२८ ॥  

भ्रमराक्रान्तकल्पद्रुपुष्पसंशोभिमस्तकम् ।  
कुटिलालकविभ्राजद्भालं कर्णकृतोत्पलम् ॥ ८-५२९ ॥  

गोरोचनाक्ततिलकं पूर्णचन्द्रनिभं स्मरेत् ।  
पद्मनेत्रं दीप्तमणिमकराकृतिकुण्डलम् ॥ ८-५३० ॥  

प्। ६८६) कपोलस्थललावण्यविजितस्वच्छदर्पणम् ।
अत्यद्भुतोन्नासिकं च पक्वविम्बफलाधरम् ॥ ८-५३१ ॥

दाडिमीबीजरदनं कम्बुसुन्दरकन्धरम् ।  
आरण्यपल्लवैः पुष्पैः कृतग्रैवेयसम्पदम् ॥ ८-५३२ ॥  

कौस्तुभप्रभया दीप्तविशालोन्नतवक्षसम् ।	  
श्रीवत्सकाङ्कितोरस्कं वृषस्कन्धं च हारिणम् ॥ ८-५३३ ॥  

आजानुलम्बिदोर्दण्डं बलित्रययुतोदरम् ।  
क्षुद्रघण्डिकया बद्धकटिं ग्रैवेयराजितम् ॥ ८-५३४ ॥  

चक्रशङ्खलसत्पद्मपीतांशुकपटादिभिः ।  
कुलिशप्रमुखैश्चिह्नैरङ्कितस्वच्छपत्तलम् ॥ ८-५३५ ॥  

मुखाम्बुजसमासक्तवंशच्छिद्रार्पिताङ्गुलिम् ।	  
तदुत्थदिव्यसद्रागश्रवणाहृतमानसम् ॥ ८-५३६ ॥  

अपाङ्गैः प्राणिजातं तु मोहयन्तमनारतम् ।  
परमानन्दसन्दोहसम्पूर्णीकृतमानसम् ॥ ८-५३७ ॥  

मुखपद्मसमासक्तस्वान्तनेत्राभिरावृतम् ।  
गोभिरूध्नभराक्रान्तमन्दयानाभिरेव च ॥ ८-५३८ ॥  

कवलीकृतसन्त्यक्तघासलेशाभिरप्यलम् ।	  
प्रस्तुतस्तनपानेन सम्भृतानननिर्गतैः ॥ ८-५३९ ॥  

डिण्डीरपिण्डसंयुक्तैर्दुग्धैर्दृष्टिमनोहरैः ।	  
वंशवादनसोद्भीतगीताकर्णनलालसैः ॥ ८-५४० ॥  

उत्तम्भिनीकृतश्रोत्रपुटयुग्मैश्च तर्णकैः ।  
किंविषाणान्तरोद्भूतिजातकण्डूतिमस्तकैः ॥ ८-५४१ ॥  

परस्परविमदार्थं खुरस्पर्शमहीतलैः ।	  

प्। ६८७) स्निग्धैर्गुरुभिरुत्पुच्छैः सुशोभिगलकम्बलैः ॥ ८-५४२ ॥

वत्सवत्सासमूहैश्च संवृतं तदनन्तरम् ।  
कृतहुम्भाष वज्जालैर्गुरुदीर्घककुद्वरैः ॥ ८-५४३ ॥  

उच्चकर्णपुटापीतवेणुशब्दसुधारसैः ।  
सवयस्कैश्च गायद्भिर्नृत्यद्भिस्तुल्यभूषणैः ॥ ८-५४४ ॥  

नानावेषधरैर्गोपैः संस्तुवद्भिः समावृतम् ।  
मधुराकृतिभिर्बालैरस्पष्टाद्भुतभाषणैः ॥ ८-५४५ ॥  

शार्दूलनखसङ्कॢप्तगलाकल्पैस्तथाऽवृतम् ।  
ततो गोपपुरन्ध्रीणां स्मरेद्वृन्दं समाहितः ॥ ८-५४६ ॥  

तद्भावभावकल्लोलसञ्जीवितमनोभवम् ।  
वल्लवीवल्लवगवां देवव्ण्दं बहिः स्मरेत् ॥ ८-५४७ ॥  

सम्मुखे देवदेवस्य काङ्क्षन्तं धनसञ्चयम् ।  
ऋषिसङ्घं तथा दक्षे वेदाध्ययनतत्परम् ॥ ८-५४८ ॥  

धर्मार्थिभिः स्मरेत् पश्चात् सनकप्रमुखा।स्तथा ।  
वामे सस्त्रीकयोगीन्द्रान् यक्षगन्धर्वकिन्नरान् ॥ ८-५४९ ॥  

सिद्धिविद्याधरा।श्चापि चारणानप्सरोगणान् ।  
अनेकश्रुतिसम्पूर्णवीणावादनतत्परम् ॥ ८-५५० ॥  

आकाशे नारदं ध्यायेन्मुनिवर्यं गतस्मयम् ।  
	  
अथ पुरश्चरणम् ।  
	  
ततः पूर्वोक्तविधिना दीक्षितः प्रजपेन्मनुम् ॥ ८-५५१ ॥  

मन्त्रार्थं चिन्तयेन्मन्त्री नियमस्थो जितेन्द्रियः ।	  
चत्वारिंशत् सहस्राणि श्वेतपद्माक्षमालया ॥ ८-५५२ ॥  

पश्चान्मन्त्रस्य सिद्ध्यर्थं दशलक्षं जपेत् सुधीः ।  

प्। ६८८) लक्षं हुनेद्रक्तपद्मैः सितासर्पिर्मधुप्लुतैः ॥ ८-५५३ ॥

शर्कराघृतयुक्तेन हविर्द्रव्येण वा हुनेत् ।	  
तर्पयेत् सलिलैः शुद्धैश्चन्द्रचन्दनवासितैः ॥ ८-५५४ ॥  

आत्माभिषेकं कृत्वाऽथ भूदेवान् पूजयेत् ततः ।	  
नानाविधैर्भक्ष्यभोज्यैस्ताम्बूलैश्च सदक्षिणैः ॥ ८-५५५ ॥  

ततो निजगुरुं सम्यक् प्रणिप्रत्य यथाविधि ।  
धनधान्याम्बराद्यैश्च वित्तशाठ्यविवर्जितः ॥ ८-५५६ ॥  

तोषयेत् परया भक्त्या निजकार्यस्य सिद्धये ।	  
ततः सिद्धमनुर्मन्त्री प्रयोगान् निजवाञ्छितान् ॥ ८-५५७ ॥  

कुर्याद्भक्तियुतः सम्यङ्नित्यनैमित्तिके रतः ।  
तत्काले देवकीजातं शङ्खचक्रगदाबुजान् ॥ ८-५५८ ॥  

दधतं पीतवसनं सुन्दरं गगनप्रभम् ।  
निशायामे चतुर्थ्यां तु ध्यात्वा लक्षं जपेन्मनुम् ॥ ८-५५९ ॥  

त्रिमध्वक्तैस्तद्दशांशं किंशुकप्रसवैर्हुनेत् ।	  
वीर्यं प्रज्ञां स्मृतिं प्राप्य कवीनामग्रणीर्भवेत् ॥ ८-५६० ॥  
	  
अथ मन्त्रान्तरं (शारदायाम्)  
	  
कृष्णाय पदमाभाष्य गोविन्दाय ततः परम् ।  
गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः ॥ ८-५६१ ॥  

कामबीजादिराख्यातो मनुरष्टादशाक्षरः ।  
नारदोऽस्य मुनिः प्रोक्तो गायत्रं छन्द उच्यते ॥ ८-५६२ ॥  

देवता कथितः कृष्णः सर्वकामफलप्रदः ।	  
चतुष्करणवेदाब्धिनेत्रसङ्ख्याक्षरक्रमात् ॥ ८-५६३ ॥  

पञ्चाङ्गानि मनोः कुर्यान्मन्त्रविज्ज्ञातिसंयुतैः ।  
	  
ध्यानम् ।  
	  
स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् ॥ ८-५६४ ॥  

प्। ६८९) गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ।
आत्मनो वदनाम्भोजप्रेषिताक्षिमधुव्रताः ॥ ८-५६५ ॥

पीडिताः कामबाणेन चिरमालिखनोत्सुकाः ।	  
मुक्ताहारलसत्पीनतुङ्गस्तनभराननाः ॥ ८-५६६ ॥  

स्रस्तधम्मिल्लवस्ना मन्दस्खलितभाषणाः ।  
दन्तपङ्क्तिप्रभोद्भासिस्यन्दमानाधराञ्चिताः ॥ ८-५६७ ॥  

विलोभयन्तीर्विविधैर्विभ्रमैर्भावगर्वितैः ॥ ८-५६८एफ़् ॥  

फुल्लेन्दीवरकान्तिमिन्दुवदनं वर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं करवेणुवादनपरं दिव्याङ्गबूषं भजे ॥ ८-५६९ ॥

अथ पुरश्चरणम् ।  
	  
मन्त्रमेनं यथान्यायमयुतद्वितयं जपेत् ।  
जुहुयादरुणाम्भोजैर्दशांशं सुसमाहितः ॥ ८-५७० ॥  
	  
अथ मन्त्रान्तराण्युक्तानि (मेरुतन्त्रे)  
	  
अथातः सम्प्रवक्ष्यामि क्रमाज्जाता युगत्रये ।  
ये मन्त्रा दशवर्णस्य भेदाः सिद्धिविधायकाः ॥ ८-५७१ ॥  
	  
काममायेन्दिरापूर्वो मायाश्रीकामपूर्वकः ।  
लक्ष्मीमायास्मराद्यश्च मन्त्रराजो दशाक्षरः ॥ ८-५७२ ॥  
	  
त्रयोदशाक्षरो मन्त्रस्त्रय एते युगत्रये ।  
मुन्याद्यन्तविधिस्तेषां पङ्क्त्यामुक्तविधानतः ॥ ८-५७३ ॥  
	  
पङ्क्त्यामिति दशाक्षर इत्यर्थः ।  
	  
ध्यानं तृतीयमन्त्रे तु दशार्णवदुदाहृतम् ।  
विंशार्णोक्तं द्वितीये तु प्रथमेऽथ निगद्यते ॥ ८-५७४ ॥  

प्। ६९०) दरारिचापसद्बाणमुद्गराब्जकराम्बुजम् ।
वेणुमादाय हस्ताभ्यां वादयन्तं मुदाऽन्वितम् ॥ ८-५७५ ॥

रविमण्डलगं कृष्णं ध्यायेदिष्टफलाप्तये ।  
	  
अथ पुरश्चरणम् ।  
	  
बाणलक्षं जपित्वाऽग्नौ दशांशं हविषा हुनेत् ॥ ८-५७६ ॥  
	  
तर्पणादि ततः कृत्वा सिद्धमन्त्रः समाचरेत् ।  
	  
अथ मन्त्रान्तरं तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि सप्तविंशतिके कलौ ॥ ८-५७७ ॥  
	  
तारो नमो भगवते वासुदेवाय वै वदेत् ।  
द्वादशार्णो मनुः प्रोक्तो नारदोऽस्य मुनिर्मतः ॥ ८-५७८ ॥  
	  
गायत्री छन्द इत्युक्तं श्रीकृष्णो देवता मतः ।  
चन्द्रनेत्राब्धिबाणार्णैः सम्पूर्णेनाङ्गकल्पना ॥ ८-५७९ ॥  
	  
ध्यानमाह ।  
	  
कल्पद्रुमतले रम्ये रत्नसिंहासने शुभे ।  
सर्वलक्षणसम्पूर्णं निविष्टं नन्दनन्दनम् ॥ ८-५८० ॥  
	  
प्रस्तुतस्तनभारेण गोवृन्देन युतं स्मरेत् ।  
मेघश्यामं करे दण्डौ हस्ताभ्यां बिभ्रतं तथा ॥ ८-५८१ ॥  
	  
पद्मायताक्षं शक्नस्य हस्तिकुम्भामृतस्य तु ।  
धारया सिच्यमानं तु ध्यातव्यो विष्णुरव्ययः ॥ ८-५८२ ॥  
	  
पुरश्चरणमाह ।  
	  
एवं सञ्चिन्त्य देवेशं वर्णलक्षं जपेन्मनुम् ।  
तत्सहस्राणि गोक्षीरैर्जुहुयात् तर्पयेत् ततः ॥ ८-५८३ ॥  
	  
अथ मन्त्रान्तरं तन्त्रान्तरे ।  
	  
तारंहृद्भगवते रुक्मिणीवल्लभाय ठद्वयम् ।  
नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुप् प्रकीर्त्तितम् ॥ ८-५८४ ॥  

प्। ६९१) रुक्मिणीवल्लभो देवः पञ्चाङ्गं मान्त्रिकैः पदैः ॥ ८-५८४एफ़् ॥

ध्यानम् ।  

तापिच्छच्छविरङ्कगां प्रियतमां स्वर्णप्रभामम्बुज �
प्रोद्यद्वामभुजांस्वबाहुलतयाऽश्लिष्यत्सचित्तास्मयाम् ।
श्लिष्यन्तीं स्वयमन्यहस्तविलसत्सौवर्णवेत्रश्चिरं
पायाद्वोऽशनसूनपीतवसनो नानाविभूषो हरिः ॥ ८-५८५ ॥

अथ पुरश्चरणम् ।  
	  
ध्यात्वैवं रुक्मिणीनाथं जपेल्लक्षममुं मनु ।	  
अयुतं जुहुयात् पद्मैररुणैर्मधुराप्लुतैः ॥ ८-५८६ ॥  
	  
अथ मन्त्रान्तरं (मेरौ)  
	  
अथातो नगवेदाख्ये क्ली। कृष्णायाग्निगेहिनी ।  
षडक्षरो मन्त्रराजो जपध्यानादि पूर्ववत् ॥ ८-५८७ ॥  
	  
दशार्णवदित्यर्थः । एवं भूयांशो मन्त्रभेदा विस्तरभयादुपेक्षिताः ।  
अथ बुद्धमन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि बौद्धमन्त्रं महाफलम् ।	  
सत्यत्वान्न द्विजादीनामधिकारो हि कर्हिचित् ॥ ८-५८८ ॥  

वाममार्गरता विप्राः कुण्डका जातिविच्युताः ।  
हीना वैदिकसंस्कारैः प्रमादात् स्वेच्छतां गताः ॥ ८-५८९ ॥  

गोलकाश्च तथा जात्या कायस्थादय एव च ।  
बौद्धं विष्णुं समाराध्य भुक्तिं मुक्तिं प्रयान्ति ते ॥ ८-५९० ॥  

नमो बगवते बुद्ध संसारार्णवतारक ।	  
कलिकालादहं भीतः शरण्यं शरणं गतः ॥ ८-५९१ ॥  

आद्यैः पदैश्चतुर्भिश्च चरणद्वितयेन च ।  
षडङ्गविधिराख्यातः पूर्णेन व्यापकं त्रिशः ॥ ८-५९२ ॥  
	  
अथ ध्यानम् ।  
	  
पद्मे पद्मासनस्थं तमूर्वोर्न्यस्तकरद्वयम् ।  

प्। ६९२) गौरं मुण्डितसर्वाङ्गं ध्यानस्तिमितलोचनम् ॥ ८-५९२ ॥

पुस्तकासनहस्तैश्च नानाशिष्यैश्च शोभितम् ।	  
इन्द्रादिलोकपालैश्च नुतं श्वेताम्बरावृतम् ॥ ८-५९३ ॥  
	  
अथ पुरश्चरणम् ।  
	  
वर्णलक्षं जपेन्मन्त्रं होमयेच्च घृतोदनम् ।  
तुलसीमिश्रीतोयैश्च भगवन्तं प्रतर्पयेत् ॥ ८-५९४ ॥  
	  
अथ कल्किमन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि कल्किमन्त्रं महाफलम् ।  
क। कल्किने हृदन्तोऽयं प्रोक्तो मन्त्रः षडक्षरः ॥ ८-५९५ ॥  

मन्त्रार्णैश्च षडङ्गानि पूर्णेन व्यापकं चरेत् ।  
	  
अथ ध्यानम् ।  
	  
ध्यायेन्नीलसमारूढं श्वेतोष्णीषविराजितम् ॥ ८-५९६ ॥  

महाप्रतोदहस्तं च कौस्तुभोद्दामकञ्चुकम् ।  
मर्दयन्तं म्लेच्छगणं क्रोधघूर्णितलोचनम् ॥ ८-५९७ ॥  

अन्तर्हितैर्देवमुनिगन्धर्वैः संस्तुतं हरिम् ।  
	  
अथ पुरश्चरणम् ।  
	  
षड्लक्षं तु जपेन्मन्त्रं ससितैः पायसैर्हुनेत् ॥ ८-५९८ ॥  

तर्पयेत् सलिलै शुद्धैः प्रीणयेद्भूसुरानपि ।  
एवमाराधितो मन्त्रः सङ्ग्रामे विजयप्रदः ॥ ८-५९९ ॥  

एतत्साधनमालोक्य दूरतो दुःक्षितीश्वराः ।  
प्रणमन्ति तथा स्वेच्छाच्छत्रवो यान्ति संशयम् ॥ ८-६०० ॥  

दिने दिने वर्द्धते श्रीर्मृतो वैकुण्ठमाप्नुयात् ।  

अथ हयग्रिवमन्त्रो (मेरुतन्त्रे)

अथोच्यते हयग्रीवमन्त्रः सर्वसमृद्धिदः ॥ ८-६०१ ॥  

हसावुकारसंयुक्तौ विन्दुना परिशोभितो ।  

प्। ६९३) विप्रसेव्यो बीजमन्त्रो हयग्रीवस्य चादिमः ॥ ८-६०० ॥

हसावौकारसंयुक्तौ सविन्दू क्षत्रियस्य तु ।  
हसावेकारसंयुक्तौ सविन्दुर्वैश्यजन्मनः ॥ ८-६०१ ॥  

त्रिष्टुप् छन्दो मुनिर्ब्रह्मा हयग्रीवोऽस्व देवता ।  
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ ८-६०२ ॥  
	  
अथ ध्यानम् ।  
	  
कमलं जपमालां च भयं पुस्तकमेव च ।  
श्वेतपद्मस्थितं गौरं श्वेतवस्त्रानुलेपनम् ॥ ८-६०३ ॥  

भक्तप्रियं हयग्रीवं वन्देऽहं दानवान्तकम् ।  
	  
अथ पुरश्चरणम् ।  
	  
वेदलक्षं जपेदन्ते दशांशं जुहुयाद्घृतैः ॥ ८-६०४ ॥  

सुगन्धाद्यैस्तर्पणं स्यान्मार्जनाद्विप्रभोजनात् ।  
सिद्धो मन्त्रः प्रयोगार्हो जायते भुक्तिमुक्तिदः ॥ ८-६०५ ॥  
	  
अथ मन्त्रान्तरं (शारदायाम्)  
	  
उद्गिरत्पदमाभाष्य प्रणवोद्गीथशब्दतः ।  
सर्ववागीश्वरेत्यन्तं प्रवदेदीश्वरेत्यथ ॥ ८-६०६ ॥  

सर्ववेदमयाचिन्त्यपदान्ते सर्वमुच्चरेत् ।  
बोधय द्वितयान्तोऽयं मन्त्रस्तारादिरीरितः ॥ ८-६०७ ॥  

ऋषिर्ब्रह्माऽस्य सन्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् ।  
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः ॥ ८-६०८ ॥  

तारेण पादैर्मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् ॥ ८-६०८एफ़् ॥  
	  
अथ ध्यानम् ।  

शरच्छशाङ्कप्रभमश्ववक्त्रं
मुक्तामयैराभरणैरुपेतम् ।
रथाङ्गशङ्खार्चितबाहुयुग्मं
जानुद्वयन्यस्तकरं भजामः ॥ ८-६०९ ॥

प्। ६९४) अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं कुन्दपु।ष्पैर्मधुप्लुतैः ।  
दशांशं वैष्णवे वह्नौ जुहुयान्मन्त्रसिद्धये ॥ ८-६१० ॥  
	  
अथ मन्त्रान्तरं (मेरुतन्त्रे)  
	  
अथ मन्त्रान्तरं वक्ष्ये तीक्ष्णबुद्धिकरं वरम् ।  
विश्वोत्तीर्णस्वात्मरूपचिन्मयानन्दरूपिणे ॥ ८-६११ ॥  
	  
तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे ।  
स्वाहा सोऽहं च हंसादिरष्टत्रिंशाक्षरो मनुः ॥ ८-६१२ ॥  
	  
तारमन्त्रपदैश्चात्र पचाङ्गविधिरीरितः ।  
	  
ध्यानं पूर्ववत् ।  
अथ पुरश्चरणम् ।  
	  
पुरश्चर्या तु षट्त्रिंशल्लक्षोऽन्यत् पूर्ववन्मतम् ॥ ८-६१३ ॥  
	  
अथ चक्रमन्त्रः (शारदायाम्)  
	  
तारो भृगुर्वियद्भूयस्तदाद्यं वह्निदीर्घयुक् ।  
पावकः कवचास्त्रान्तो मनुः सप्ताक्षरः स्मृतः ॥ ८-६१४ ॥  
	  
अहिर्बुध्न्यो मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ।  
देवता मुनिभिः प्रोक्ता चक्ररूपी हरिः स्वयम् ॥ ८-६१५ ॥  
	  
आचक्राय हृदाख्यातं विचक्राय शिरः स्मृतम् ।  
सुचक्राय शिखा प्रोक्ता धीचक्राय तनुच्छदम् ॥ ८-६१६ ॥  
	  
सञ्चक्राय स्मृतं नेत्रं ज्वालाचक्राय तत्परम् ।  
षडङ्गमन्त्राः प्रत्येकं द्विठान्ता यान्ति संयुताः ॥ ८-६१७ ॥  
	  
अथ ध्यानम् ।  

कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पुरयन्तं
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्ट-हासम् ।
चक्रं शङ्खं गदाब्जे पृथुतरमुशलं चापपाशाङ्कुशान् वै
विभ्राणं दोर्भिराद्यं मनसि सुररिपुं भावयेच्चक्र-सञ्ज्ञम् ॥ ८-६१८ ॥

प्। ६९५) अथ पुरश्चरणम् ।

अर्कलक्षं जपेन्मन्त्रं जुहुयात् तत्सहस्रकम् ।  
तिलैः ससर्षपैः पद्मैर्विल्वैर्दुग्धोदनैः क्रमात् ॥ ८-६१९ ॥  
	  
अथानन्तमन्त्रस्तत्रैव ।  
	  
अथान्यं सम्प्रवक्ष्यामि विष्णोः प्रीतिकरं मनुम् ।  
अनन्ताय नमश्चेति षडर्णोऽयमुदाहृतः ॥ ८-६२० ॥  
	  
व्यासो मुनिश्च गायत्री छन्दोऽनन्तश्च देवता ।  
नियोगो रोगनाशार्थमन्यद्गोविन्दवद्भवेत् ॥ ८-६२१ ॥  
	  
अथ गोपालसुन्दरीमन्त्रस्तत्रैव ।  
	  
अथ मार्गद्वयोपास्यां वक्ष्ये गोपालसुन्दरीम् ।  
मायाश्रीकामबीजानि कृष्णायेति ततो वदेत् ॥ ८-६२२ ॥  
	  
एकोनत्रिंशकं वर्णं रुद्रदेवस्वरौ तथा ।  
पञ्चमं च त्रपाबीजमेभिः सप्तमकूटकम् ॥ ८-६२३ ॥  
	  
गोविन्दाय पदं पश्चाच्चित्रैश्वर्याद्यकूटकम् ।  
गोपीजनवल्लभाय ततश्च सकलत्रपाम् ॥ ८-६२४ ॥  
	  
कूटरूपां समुच्चार्य वदेद्वह्नेश्च गेहिनी ।  
त्रयोविंशाक्षरो मन्त्रो भुक्तिमुक्तिफलप्रदः ॥ ८-६२५ ॥  
	  
मुनिर्विधाता दक्षे स्याद्वामे त्वानन्दभरवः ।  
छन्दस्तु देवी गायत्री देवो गोपालसुन्दरी ॥ ८-६२६ ॥  
	  
त्रित्रिवेदाब्धिवेदाब्धिवर्णैः कूटविहीनितैः ।  
षडङ्गविधिरुद्दिष्टो मन्त्रवर्णान् न्यसेत् तनौ ॥ ८-६२७ ॥  
	  
न्यासान्तराण्युक्त्वा ध्यानमाह ।  
	  
कमलावसुधायुक्तं ध्यायेच्छ्रीचक्रगं हरिम् ।  
क्षीराम्भोधौ सितद्वीपे वने कल्पद्रुमादिभिः ॥ ८-६२९ ॥  
	  
व्याप्ते तस्मिन् स्वर्णमयं चिन्तयेद्रत्नमण्डपम् ।  

प्। ६९६) तत्र श्रीपीठमध्ये तु स्थितं विधिमुखैः स्तुतम् ॥ ८-६३० ॥

पद्ममष्टदलं शङ्खं वर्णान् वंशीश्च दक्षिणैः ।  
भुजैर्दधन्तं वामैस्तु चापं पाशं तथाऽङ्कुशम् ॥ ८-६३१ ॥  
	  
विपञ्चीं चारक्तवर्णं नानाभरणभूषितम् ।  
पीताम्बरधरं गोपीसमूहैः परितो वृतम् ॥ ८-६३२ ॥  
	  
अथ पुरश्चरणम् ।  
	  
लक्षमेकं जपेन्मन्त्रं जुहुयात् पायसाऽन्धसा ।  
तर्पणादि ततः कुर्यान्मन्त्रसिद्धिः प्रजायते ॥ ८-६३३ ॥  
	  
अथ श्रीधरमन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि श्रीधरस्य मनुं परम् ।  
रमारुढं कामबीजं श्रीधराय ततो वदेत् ॥ ८-६३४ ॥  
	  
त्रैलोक्यमोहनायेति नमोऽन्तः षोडशाक्षरः ।  
ऋषिर्ब्रह्मा भवेच्छन्दो गायत्रं श्रीधरः सुरः ॥ ८-६३५ ॥  
	  
श्रीबीजेन षडङ्गानि कुर्यात् षड्दीर्घसंयुजा ।  
	  
अथ ध्यानम् ।  
	  
उद्घाट्ये च सिते द्वीपे सर्वर्त्तुफलितद्रुमे ॥ ८-६३६ ॥  
	  
तत्र कल्पद्रुमाधस्तात् पक्षीन्द्ररचितासने ।  
शङ्खचक्रगदापद्मपाणिं चामीकरद्युतिम् ॥ ८-६३७ ॥  
	  
किरीटिनं कुण्डलिनं श्रीवत्साङ्कितवक्षसम् ।  
हृदि लक्ष्मीधरं ध्यायेच्छ्रीधरं पुरुषार्थदम् ॥ ८-६३८ ॥  
	  
अथ पुरश्चरणम् ।  
	  
लक्षमेकं जपेन्मन्त्रं तद्दशांशं र्घृतैर्हुनेत् ।  
तर्पणादि ततः कुर्यात् पूर्ववत् साधकोत्तमः ॥ ८-६३९ ॥  
	  
तर्पणादि ततः कुर्यात् पूर्ववत् साधकोत्तमः ।  
	  
इति विष्णुप्रकरणम् ।  

अथ शैवमन्त्राः ।

प्। ६९७) (शारदायाम्)

अथ वक्ष्ये महेशस्य मन्त्रान् सर्वार्थसिद्धिदान् ॥ ८-६४० ॥  
	  
यैः पूर्वमृषयः प्रोक्ताः शिवसायुज्यमञ्जसा ।  
हृदयं वपरं साक्षि लान्तोऽनन्तान्वितो मरुत ॥ ८-६४२ ॥  
	  
पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ।  
	  
एतन्मन्त्रार्थ उक्तो (वामदेवसंहितायाम्)  
	  
ओङ्कारः परिपूर्णस्य ब्रह्मणो वाचकः स्मृतः ॥ ८-६४३ ॥  
	  
नमःशब्दो नमस्कारवाचकः परिकीर्त्तितः ।  
प्रह्वत्वलक्षणः प्रोक्तो नमस्कारः पुरातनैः ॥ ८-६४४ ॥  
	  
प्रह्वता नाम जीवस्य शिवात् सत्यादिलक्षणात् ।  
भेदेन भासमानस्य मायया सर्वरूपतः ॥ ८-६४५ ॥  
	  
सम्बन्धं नम इत्याह शिवतादात्म्यलक्षणम् ।  
सत्यज्ञानपरानन्दस्वरूपा चित् कलाऽपरा ॥ ८-६४६ ॥  
	  
अतिव्यक्ततया ज्ञेया शिवशब्देन शाम्भवि ।  
वाचकोऽयं ततः शब्दो ब्रह्मणश्चित्कलात्मनः ॥ ८-६४७ ॥  
	  
ऋष्यादिन्यासमाह ।  
	  
वामदेवो मुनिश्छन्दः पङ्क्तिरीशोऽस्य देवता ।  
षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रस्य देशिकः ॥ ८-६४८ ॥  
	  
अथ ध्यानम् ।  

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
प्रमासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ८-६४९ ॥

प्। ६९८) अथ पुरश्चरणम् ।

तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना ।  
तावत्सङ्ख्यासहस्राणि जुहुयात् पायसैः शुभैः ॥ ८-६५० ॥  
	  
ततः सिद्धो भवेन्मन्त्रः साधकाभीष्टसिद्धिदः ।  
	  
अथ मन्त्रान्तरं तत्रैव ।  
	  
षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ॥ ८-६५१ ॥  
	  
ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः ।  
अङ्गानि पूर्वमुक्तानि सोममीशं विचिन्तयेत् ॥ ८-६५२ ॥  
	  
अथ ध्यानम् ।  

बन्धूकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तं
हस्तैः शूलं कपालं वरदमभयदं चारुहारं भजामि ।
वामोरुस्तम्भगायाः करतलविलसच्चारुरक्तोत्पलाया
हस्तेनाश्लिष्टदेहं मणिमयविलसद्भूषणायाः प्रियायाः ॥ ८-६५३ ॥

अथ पुरश्चरणम् ।  
	  
मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि ।  
जुहुयान्मधुरासिक्तैरारग्बधसमिद्वरैः ॥ ८-६५४ ॥  
	  
मन्त्रान्तरमाह ।  
	  
सान्तः सद्यान्तसंयुक्तो विन्दुभूषितमस्तकः ।  
प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः ॥ ८-६५५ ॥  
	  
षडदीर्घयुक्तबीजेन षडङ्गविधिरीरितः ।  
वामदेवो मुनिश्छन्दः पङ्क्तिर्देवः सदाशिवः ॥ ८-६५६ ॥  
	  
इशानादीर्न्यसेन्मूर्तीरङ्गुठादिषु देशिकः ।  
ईशानाख्यं तत्पुरुषमघोरं तदनन्तरम् ॥ ८-६५७ ॥  
	  
वामदेवाह्वयं सद्यमाद्यं बीजं क्रमाद्विदुः ।  

प्। ६९९) अथ ध्यानम् ।

ततः समाहितो भूत्वा ध्यायेद्देवं सदाशिवम् ॥ ८-६५८ ॥  

मुक्तापीतपयोदमौक्तिकजपावर्णैर्मुखैः पञ्चभि-
स्त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णेन्दुकोटिप्रभम् ।
शूलं टङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान्
पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ॥ ८-६५९ ॥

अथ पुरश्चरणम् ।  
	  
एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः ।  
प्रसूनैः करवीरोत्थैर्जुहुयात् तद्दशांशकम् ॥ ८-६६० ॥  
	  
मन्त्रान्तरमाह ।  
	  
तारो माया वियद्विन्दुमनुस्वरसमन्वितम् ।  
पञ्चाक्षरसमायुक्तो वसुवर्णोमनुर्मतः ॥ ८-६६१ ॥  
	  
पञ्चाक्षरोक्तवत् कुर्यादङ्गन्यासादिकं बुधः ॥ ८-६६१एफ़् ॥  
	  
ध्यानम् ।  

वन्दे सिन्दूरवर्णं मणिमुकुटलसच्चारुचन्द्रावतंसं
भालोद्यन्नेत्रमीशं स्मितमुखकमलं दिव्यभूषाङ्गरागम् ।
वामोरुन्यस्तपाणेस्तरुणकुवलयं सन्दधत्या प्रियाया
वृत्तोत्तुङ्गस्तनाग्रे निहितकरतलं वेदटङ्केष्टहस्तम् ॥ ८-६६२ ॥

अथ पुरश्चरण्म् ।  
	  
अष्टलक्षं जपेदेवं मनुं वेदविदां वरः ।  
तत्सहस्रं प्रजुहुयात् पायसान्नैर्घृतप्लुतैः ॥ ८-६६३ ॥  
	  
अथ मृत्युञ्जयमन्त्रस्तत्रैव ।  
	  
तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गविभूषितः   
अक्षरात्मा निगदितो मनुर्मृत्युञ्जयात्मकः ॥ ८-६६४ ॥  

ऋषिः कहोलो देव्यादिर्गायत्री छन्द ईरितम् ।  

प्। ७००) मृत्युञ्जयो महादेवो देवताऽस्य समीरितः ॥ ८-६६५ ॥

भृगुणा दीर्घयुक्तेन षडङ्गानि समाचरेत् ॥ ८-६६५एफ़् ॥  
	  
अथ ध्यानम् ।  

चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितं
मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटिरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं
कान्त्या विश्वमनोहरं पशुपतिं मृत्युञ्जयं भावयेत् ॥ ८-६६६ ॥

अथ पुरश्चरणम् ।  
	  
गुणलक्षं जपेन्मन्त्रं तद्दशांशं विशालधीः ।  
जुहुयादमृताखण्डैः शुद्धदुग्धाज्यलोलितैः ॥ ८-६६७ ॥  
	  
अथ दक्षिणामूर्तिमन्त्रस्तत्रैव ।  
	  
अथ वक्ष्ये मन्त्ररत्नं सम्स्तपुरुषार्थदम् ।  
अवापूर्येन जप्तेन दिव्यं ज्ञानं मुनीश्वराः ॥ ८-६६८ ॥  
	  
दक्षिणामूर्त्तये पूर्वं तुभ्यं पदमनन्तरम् ।  
वटमूलपदस्यान्ते पदं पश्चान्निवासिने ॥ ८-६६९ ॥  
	  
ध्यानैकनिरताङ्गाय पश्चाद्ब्रूयान्नमःपदम् ।  
रुद्राय शम्भवे तारशक्तिरुद्धोऽयमीरितः ॥ ८-६७० ॥  
	  
षट्त्रिंशदक्षरो मन्त्रः सर्वकामफलप्रदः ।  
मुनिः शुकः समुद्दिष्टश्छन्दोऽनुष्टुप् समीरितम् ॥ ८-६७१ ॥  
	  
दक्षिणामूर्तिनामाऽस्य देवता शम्भुरीरितः ।  
षड्भिर्वर्णैर्हृदाख्यातं द्वाभ्यां शिर उदीरितम् ॥ ८-६७२ ॥  
	  
शिखाऽष्टभिः समादिष्टा वस्वर्णैः कवचं मतम् ।  
पञ्चभिर्नेत्रमाख्यातं त्रिभिरस्त्रमुदाहृतम् ॥ ८-६७३ ॥  

प्। ७०१) षडेते तारशक्त्याद्यास्ताराद्यन्ताः सजातयः ।
अङ्गमन्त्राः समुद्दिष्टा यथावद्देशिकोत्तमैः ॥ ८-६७४ ॥

अथ ध्यानम् ।  
	  
हेमाचलतटे रम्ये सिद्धकिन्नरसेविते ।  
विविधद्रुमशाखाभिः सर्वतो वारितातपे ॥ ८-६७५ ॥  
	  
सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे ।  
शिलाविवरनिर्गच्छन्निर्झरानिलशीतले ॥ ८-६७६ ॥  
	  
गायद्भृङ्गाङ्गनासङ्घे नृत्यद्वर्हिकदम्बके ।  
कूजत्कोकिलसङ्घेन मुखरीकृतदिङ्मुखे ॥ ८-६७७ ॥  
	  
परस्परविनिर्मुक्तमात्सर्यमृगसेविते ।  
आद्यैः शुकाद्यैर्मुनिभिरजस्रं समुपस्थिते ॥ ८-६७८ ॥  

पुरन्दरमुखैर्देवैः सेवायातैर्विलोकितम् ।
वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्वलम् ॥ ८-६७९ ॥

गारुत्मतमयैः पत्रैर्निविडैरुपशोभितम् ।  
नवरत्नमयाकल्पैर्लम्बमानैरलङ्कृतम् ॥ ८-६८० ॥  
	  
जलजैः स्थलजैः पुष्पैरामोदिभिरलङ्कृतम् ।  
शृण्वद्भिर्वेदशास्त्राणि शुकवृन्दैर्निषेवितम् ॥ ८-६८१ ॥  
	  
संसारतापविच्छेदकुशलस्थलमद्भुतम् ।  
विचिन्त्य तस्य मूलस्थे सत्नसिंहासने शुभे ॥ ८-६८२ ॥  
	  
आसीनममिताकल्पं शरच्चन्द्रनिभाननम् ।  
स्तूयमानं मुनिगणैर्दिव्यज्ञानाभिलाषिभिः ॥ ८-६८३ ॥  
	  
संस्मरेज्जगतामाद्यं दक्षिणामूर्त्तिमव्ययम् ॥ ८-६८३एफ़् ॥  

कैलाशाद्रिनिभं शशाङ्कशकलस्फूर्जज्जटामण्डितं
प्। ७०२) नासालोकनतत्परं त्रिनयनं वीरासनाध्यासिनम् ।
मुद्राटङ्ककुरङ्गजानुविलसत्पाणिप्रसन्नाननं
कक्षाबद्धभुजङ्गमं मुनिवृतं वन्दे महेशं परम् ॥ ८-६८४ ॥

अथ पुरश्चरणम् ।  
	  
अयुतद्वयसंयुक्तं गुणलक्षं जपेन्मनुम् ।  
तद्दशांशं तिलैः शुद्धैर्जुहुयात् क्षीरसंयुतैः ॥ ८-६८५ ॥  
	  
अथ मन्त्रान्तरं तत्रैव ।  
	  
प्रणवो हृदयं पश्चात् ततो भगवते पदम् ।  
ङेयुतं दक्षिणामूर्त्तिं मह्यं मेधामुदीरयेत् ॥ ८-६८६ ॥  

प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः ।  
मुनिश्चतुर्मुखश्छन्दो गायत्री देवता मनोः ॥ ८-६८७ ॥  

दक्षिणामूर्त्तिराख्यातो वेदव्याख्यानतत्परः ।  
ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् ॥ ८-६८८ ॥  

अथवा मनुसम्भूतैः पदैर्वा कल्पयेत् क्रमात् ।  
पूर्वोक्तवटमूलस्थं चिन्तयेन्मन्त्रनायकम् ॥ ८-६८९ ॥  
	  
अथ ध्यानम् ।  

स्फटिकरजतवर्णं मौक्तिकीमक्षमाला �
ममृतकलशविद्याज्ञानमुद्राकराग्रैः ।
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्त्तिमीडे ॥ ८-६९० ॥

अथ पुरश्चरणम् ।  
	  
लक्षमेकं जपेन्मन्त्रं ब्रह्मचारिव्रते स्थितः ।  
जुहुयात् सघृतैः पद्मैर्दशांशं संस्कृतेऽनले ॥ ८-६९१ ॥  

प्। ७०३) अथ नीलकण्ठमन्त्रस्तत्रैव ।

लोहितोऽग्न्यासनः सद्यविन्दुमान् प्रथमं ततः ।  
द्वितीयं वह्निबीजस्था दीर्घाशान्तीन्दुभूषिता ॥ ८-६९२ ॥  

तृतीयं लाङ्गली सर्गी मन्त्रो बीजत्रयान्वितः ॥  
नीलकण्ठात्मकः प्रोक्तो विषद्वयहरः परः ॥ ८-६९३ ॥  

हरद्वयं वह्निजाया हृदयं परिकीर्त्तितम् ।  
कपर्दिने ठयुगलं शिरोमन्त्र उदाहृतः ॥ ८-६९४ ॥  

नीलकण्ठाय ठद्वयं शिखामन्त्र उदाहृतः ।  
कालकूटपदस्यान्ते विषभक्षणं ङेयुतम् ॥ ८-६९५ ॥  

हु। फट् कवचमादिष्टं विद्वद्भिर्नीलकण्ठिने । स्वाहान्तमस्त्रमेतानि पञ्चाङ्गानि मनोर्विदुः ॥ ८-६९६ ॥  
	  
अथ ध्यानम् ।  

बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं
नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः ।
खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं
व्याघ्रत्वक्परिधानमज्ञनिलयं श्रीनीलकण्ठं भजे ॥ ८-६९७ ॥

अथ पुरश्चरणम् ।  
	  
लक्षत्रयं जपेन्मन्त्रं तद्दशांशं ससर्पिषा ।	  
हविषा जुहुयात् सम्यक् संस्कृते हव्यवाहने ॥ ८-६९८ ॥  
	  
अथार्धनारीश्वरमन्त्रस्तत्रैव ।  
	  
अग्निः संवर्त्तकादित्यरानिलाः षष्ठविन्दुमत् ।	  
चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम् ॥ ८-६९९ ॥  

कश्यपो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ।  
अर्धनारीश्वरः प्रोक्तो देवता जगतां पतिः ॥ ८-७०० ॥  

रेफादिर्व्यञ्जनः षड्भिः कुर्यादङ्गानि षट्क्रमात् ॥ ८-७००एफ़् ॥  

प्। ७०४) अथ ध्यानम् ।

नीलप्रभातरुचिरं विलसत्त्रिनेत्रं
पाशारुणोत्पलकपालत्रिशूलहस्तम् ।
अर्धाम्बिकेशमनिशं प्रविभक्तभूषं
बालेन्दुबद्धमुकुटं प्रणमामि रूपम् ॥ ८-७०१ ॥

अथ पुरश्चरणम् ।  
	  
एकलक्षं जपेद्बीजमित्थं मन्त्री विचिन्तयेत् ।  
अयुतं मधुना सिक्तैर्जुहुयात् तिलतण्डुलैः ॥ ८-७०२ ॥  
	  
अथ शरभमन्त्रो (मेरुतन्त्रे)  
	  
ॐ ख। खा। ख। फडुच्चार्य द्विः प्राणान् ग्रसतीति च ।  
हु। फट् सर्वशस्त्रसंहरणाय शरभेति च ॥ ८-७०२ ॥  
	  
शाल्वाय पक्षिराजाय हु। फट् स्वाहान्तको मनुः ।  
एकचत्वारिंशदर्णो वासुदेवो मुनिः स्मृतः ॥ ८-७०३ ॥  
	  
कालाग्निरुद्रः शरभो देवता परिकीर्त्तितः ।  
छन्दस्तु जगती स्वाहा शक्तीर्बीजं खमुच्यते ॥ ८-७०४ ॥  
	  
वेदषट्सप्तनवषण्णवार्णैरङ्गकल्पनम् ।  
	  
अथ ध्यानम् ।  
	  
चन्द्रार्काग्नित्रिनयनं कालीदुर्गाद्विपक्षकम् ॥ ८-७०५ ॥  
	  
विद्युज्जिह्वं वज्रनखं वडवाग्न्युदरं तथा ।  
व्याधिमृत्युरिपुघ्नं च चण्डवातातिवेगिनम् ॥ ८-७०६ ॥  
	  
हृद्भैरवस्वरूपं च वैरिवृन्दनिषूदनम् ।  
मृगस्त्वर्धशरीरेण पक्षाभ्यां चञ्चुना द्विजः ॥ ८-७०७ ॥  
	  
अधोवक्त्रश्चतुष्पादस्तूर्ध्ववक्त्रश्चतुर्भुजः ।  
कालान्तदहनप्रख्यो नीलजीमूतनिःश्वनः ॥ ८-७०८ ॥  

प्। ७०५) अरिर्यद्दर्शनादेव विनष्टबलविक्रमः ।
सटाच्छटोग्ररूपाय पक्षविक्षिप्तभूभृते ॥ ८-७०९ ॥

अष्टपादाय रुद्राय नमः शरभमूर्त्तये ।  
	  
पुरश्चरणमाह ।  
	  
एवं ध्यायन् सहस्रं तु प्रजपेत् पायसं हुनेत् ॥ ८-७१० ॥  
	  
प्रत्यहं मासषट्केण मन्त्रसिद्धिः प्रजायते ।  
	  
अथ क्षेत्रपालमन्त्रः (शारदायाम्)  
	  
वर्णान्त्यमौविन्दुयुक्तं क्षेत्रपालाय हृन्मनुः ॥ ८-७११ ॥  
	  
ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य कीर्त्तितः ।  
षड्दीर्घभाजा बीजेन षडङ्गान्यस्य योजयेत् ॥ ८-७१२ ॥  
	  
अथ ध्यानम् ।  

नीलाञ्जनाद्रिनिभमूर्ध्वपिशङ्गकेशं
वृत्तोग्रलोचनमुपात्तगदाकपालम् ।
आशाम्बरं भुजगभूषणमुग्रदंष्ट्रम्
क्षेत्रेशमद्भुततनुं प्रणमामि देवम् ॥ ८-७१३ ॥

अथ पुरश्चरणम् ।  
	  
लक्षमेकं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ।  
चरुणा घृतसिक्तेन ततः क्षेत्रेशमर्चयेत् ॥ ८-७१४ ॥  
	  
अथापदुद्धारवटुकमन्त्रस्तत्रैव ।  
	  
उद्धरेद्वटुकं ङेऽन्तमापदुद्धारणं तथा ।  
कुरुद्वयं पुनर्ङेन्तं वटुकं तं समुद्धरेत् ॥ ८-७१५ ॥  
	  
एकविंशत्यक्षरात्मा शक्तिरुद्धो महामनुः ।  
अभीष्टफलसंसिद्ध्यै कीर्त्तितः सुरपादपः ॥ ८-७१६ ॥  
	  
बृहदारण्यक ऋषिश्छन्दोऽनुष्टुबुदाहृतम् ।  
आपादुद्धारणो देवो भैरवो देवता बुधैः ॥ ८-७१७ ॥  

प्। ७०६) अङ्गुलीदेहवक्त्रेषु मूर्त्तीर्न्यस्येद्यथा पुरा ।
सद्यादिपञ्चह्रस्वाढ्यं शक्तिबीजपुरःसरम् ॥ ८-७१८ ॥

वकारं पञ्चह्रस्वाढ्यमीशानादिषु योजयेत् ।  
षड्दीर्घयुक्तया शक्त्या वकारेण च तद्वता ॥ ८-७१९ ॥  
	  
अङ्गानि जातियुक्तानि प्रणवाद्यादि कल्पयेत् ।  
	  
अथ ध्यानम् ।  
	  
तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिविभेदतः ॥ ८-७२० ॥  

वन्दे बालं स्फटिकसदृशं कुण्डलोल्लासि वक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराढ्यैः ।
दीप्ताकारं विसदवसनं सुप्रसन्नं त्रिनेत्रं
हस्ताज्ञाभ्यां वटुकमनिशं शूलदण्डौ दधानम् ॥ ८-७२१ ॥

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणधरं शीतांशुचूडोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावयेत् ॥ ८-७२२ ॥

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं
दिग्वस्त्रं पिङ्गकेशं डमरुमथ शृणिं खड्गपाशाभयानि ।
नागं घण्टां कपालं करसरसिरुहैर्बिभ्रतं भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुराढ्यम् ॥ ८-७२३ ॥

सात्त्विकं ध्यानमाख्यातमपमृत्युनिवारणम् ।  
आयुरारोग्यजननमपवर्गफलप्रदम् ॥ ८-७२४ ॥  
	  
राजसं ध्यानमाख्यातं धर्मकामार्थसिद्धिदम् ।  
तामसं शत्रुशमनं कृत्याभूतग्रहापहम् ॥ ८-७२५ ॥  

प्। ७०७) अथ पुरश्चरणम् ।

वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।  
तद्दशांशं प्रजुहुयात् तिलैर्मधुरसंयुतैः ॥ ८-७२६ ॥  
	  
अथ पाशुपतास्त्रमन्त्रः (शारदायाम्)  
	  
तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः ।  
पार्श्वो वकः कर्णयुतो वर्मास्त्रान्तः षडक्षरः ॥ ८-७२७ ॥  
	  
मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः ।  
षड्भिर्वर्णैः षडङ्गानि हु। फडन्तैः सजातिभिः ॥ ८-७२८ ॥  
	  
अथ ध्यानम् ।  

मध्याह्नार्कसमप्रभं शशिधरं भीमादृहासोज्ज्वलं
त्र्यक्षं पन्नगभूषणं शिखिशिखाश्मश्रुस्फुरन्मूर्धजम् ।
हस्ताज्ञैस्त्रिशिखं समुद्गरमसिं शक्तिं दधानं विभुं
दंष्ट्राभीमचतुर्मुखं पशुपतिं दिव्यास्त्ररूपं स्मरेत् ॥ ८-७२९ ॥

पुरश्चरणम् ।  
	  
वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ।  
गव्येन सर्पिषा मन्त्री संस्कृते हव्यवाहने ॥ ८-७३० ॥  
	  
अथ हरिहरमन्त्रस्तन्त्रान्तरे ।  
	  
मायां पूर्वं समुद्धृत्य प्रासादं तत उद्धरेत् ।  
ततः शङ्करनारायणाय हृत्प्रणवादिकः ॥ ८-७३१ ॥  
	  
त्रयोदशाक्षरो मन्त्रश्चतुर्वर्गफलप्रदः ।  
नारदोऽस्य ऋषिः प्रोक्तश्छन्दोऽनुष्टुप् प्रकीर्त्तितम् ॥ ८-७३२ ॥  
	  
त्रैलोक्यवन्द्यपादाज्ञो देवता हरिशङ्करः ।  
षडङ्गानि प्रकूर्वीत दीर्घषट्काढ्यमायया ॥ ८-७३३ ॥  
	  
अथ ध्यानम् ।  
	  
शूलं चक्रं पाञ्चजन्यमभीतिं दधतं करैः ।  
स्वस्वभूषाच्छनीलार्धदेहं हरिहरं भजे ॥ ८-७३४ ॥  

प्। ७०८) अथ पुरश्चरणम् ।

लक्षमेकं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ।  
पायसैर्हवनं कुर्यात् संस्कृते हव्यवाहने ॥ ८-७३५ ॥  

इति शिवप्रकरणम् ।

अथ गौरीमन्त्रः (सिद्धन्तसङ्ग्रहे)  
	  
ह्री। गौरि रुद्रदयिते योगेश्वरि पदं वदेत् ।  
हु। फट् स्वाहा षोडशार्णो गौरीमन्त्रः प्रकीर्तितः ॥ ८-७३६ ॥  
	  
अजो मुनिस्तथाऽनुष्टुप् छन्दो गौर्यस्य देवता ।  
मायया तु षडङ्गानि कुर्यात् षड्दीर्घयुक्तया ॥ ८-७३७ ॥  
	  
ध्यानम् ।  
	  
हेमाभां बिभ्रतीं दोर्भिर्दर्पणाञ्जनसाधने ।  
पाशाङ्कुशौ दिव्यभूषां गौरीं देवीमुपास्महे ॥ ८-७३८ ॥  
	  
अथ पुरश्चरणम् ।  
	  
लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ।  
तर्पणाद्यं ततः कृत्वा काम्यकर्माणि साधयेत् ॥ ८-७३९ ॥  
	  
अथ मन्त्रान्तरं वक्ष्ये मायाबीजं समुद्धरेत् ।  
ङेऽन्तां भवानीमुच्चार्य नमः शेषे प्रकीर्त्तयेत् ॥ ८-७४० ॥  
	  
न्यासजालं पुरा प्रोक्तं देवीं ध्यायेत् समाहितः ।  
	  
ध्यानं यथा ।  
	  
बालार्काभां त्रिनयनां खड्गखेटवराभयान् ॥ ८-७४१ ॥  
	  
दोर्भिर्दधानां सिंहस्थां भवानीं भावयेत् सदा ।  
	  
अस्य पुरश्चरणं पूर्ववदेकलक्षजपः ।  

इति भवानीप्रकरणम् ।

अथ गरुडमन्त्रो (मेरुतन्त्रे)  
	  
वक्ष्येऽथ गारुडं मन्त्रं क्षिपतारोऽग्निगेहिनी ॥ ८-७४२ ॥  
	  
पञ्चाक्षरो मनुः पङ्क्तिश्छन्दोऽनन्तो मतो मुनिः ।  

प्। ७०९) देवता गरुडस्तारो बीजं शक्तिर्दहाङ्गना ॥ ८-७४३ ॥

स्वाहान्तो हृदये न्यस्यो ज्वलज्वल महामते ।  
रुद्रचूडानन स्वाहाऽङ्गस्यान्ते मस्तके न्यसेत् ॥ ८-७४४ ॥  
	  
गरुडान्ते शिखे स्वाहा शिखाया मनुरीरितः ।  
वर्ममन्त्रस्तु गरुड प्रभञ्जययुगं वदेत् ॥ ८-७४५ ॥  
	  
द्विः प्रभेदय वित्रासय दुष्टपङ्क्तिं विमर्दय ।  
स्वाहा सप्तत्रिंशदर्णो नेत्रमन्त्रोऽथ कथ्यते ॥ ८-७४६ ॥  
	  
उग्ररूपधरेत्युक्त्वा सर्वंविषहरेति च ।  
भीषय द्वितयं सर्वं दहयुग्मं ततो वदेत् ॥ ८-७४७ ॥  
	  
भस्मीकुरु कुरु स्वाहा दन्तवर्णो मतो मनुः ।  
अस्त्रमन्त्रोऽप्रतिहतबलाप्रतिहतेति च ॥ ८-७४८ ॥  
	  
शासनान्ते वदेद्धु। फट् स्वाहान्तोऽष्टादशाक्षरः ।  
	  
अथ ध्यानम् ।  
	  
चञ्च्वग्रप्रचलद्भोगी भोगं मुकुटमण्डितम् ॥ ८-७४९ ॥  
	  
पक्षोच्चारितसत्सामगानं विषहरं भजे ।  
	  
अस्य पुरश्चरणं पञ्चलक्षजपः ।  
	  
पञ्चलक्षं जपेन्मनुम् - - - - इति तत्रैवोक्तत्वात् ।  
	  
तथा ।  
	  
तिलैर्हुनेत् तर्पणादि कृत्वा सिद्धो मनुर्भवेत् ॥ ८-७५० ॥  
	  
दर्शनादुरगास्तस्य नष्टा नश्येद्विषद्वयम् ।  
विष्णुभक्तिपरो भूयात् स्वयमेवारिनाशनः ॥ ८-७५१ ॥  
	  
इह लोके सुखी दीर्घजीवी भूपतिपूजितः ।  
	  
परत्र याति वैकुण्ठम् - - - - - - - - - इत्यादि ।  
	  
अथ कार्त्तवीर्यमन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि विंशन्मन्त्रा।स्तु दक्षिणे ॥ ८-७५२ ॥  

प्। ७१०) आम्नाये यत्साधकानामक्लेशादष्टसिद्धयः ।
द्वाविंशत्तुर्यौ ताराद्यौ दक्षे वामे सतुर्यकौ ॥ ८-७५३ ॥

चतुर्दशस्वरोपेतौ शेषाम्नायेषु तद्भवेत् ।  
विन्दुयुक्तं त्वाद्यबीजं चतुर्थस्वरसंयुतम् ॥ ८-७५४ ॥  
	  
षट्त्रिंशत्तुर्यौ विन्द्वाढ्यौ द्वितीयं बीजमुच्यते ।  
कामबीजं तृतीयं स्याद्द्वादशार्णं चतुर्थकौ ॥ ८-७५५ ॥  
	  
षष्ठस्वरेन्दुसंयुक्तौ चतुर्थं बीजमुच्यते ।  
पाशो लज्जाऽङ्कुशो लक्ष्मीकवचास्त्रमिदं भवेत् ॥ ८-७५६ ॥  
	  
बीजानां दशकं ङेऽन्तः कार्त्तवीर्यार्जुनो नमः ।  
एकोनविंशत्यर्णोऽयं दत्तात्रेयो मुनिः स्मृतः ॥ ८-७५७ ॥  
	  
छन्दोऽनुष्टुप् कार्त्तवीर्यार्जुनो देवः प्रकीर्त्तितः ।  
फ्रा। ब्रामिति स्याद्धृदयं क्ली। भ्रीमिति शिरः स्मृतम् ॥ ८-७५८ ॥  
	  
ॐ हू। शिखा समाख्याता क्रे। श्रे। कवचमीरितम् ।  
हु। फडस्त्रं समाख्यातं शेषेण व्यापकं चरेत् ॥ ८-७५९ ॥  
	  
न्यासान्तराण्युक्त्वा ध्यानमाह ।  
	  
प्रभाकररुचिःस्वर्णकण्ठमालाविराजितः ।  
ध्येयो रक्तांशुकिष्णीषी नानाकल्पविभूषितः ॥ ८-७६० ॥  
	  
सहस्रार्धभुजैर्बाणान् सहस्रार्धैर्धनूंषि च ।  
दधट्टङ्कारशब्दैश्च त्रासिताखिलदुर्जनः ॥ ८-७६१ ॥  
	  
सम्यग्बाणासनारूढः सप्तद्वीपधरापतिः ।  
भूपालमुकुटाघृष्तपादपद्मोज्ञलोचनः ॥ ८-७६२ ॥  
	  
स्थूलकायोऽतिभीमश्च रथस्थो भक्तवत्सलः ।  

प्। ७११) अथ पुरश्चरणम् ।

चतुर्लक्षं जपेन्मन्त्रं होमः कार्यः पयोन्धसा ॥ ८-७६३ ॥  
	  
तिलाज्यतण्डुलैर्वाऽपि पुरश्चर्या सरित्तटे ।  
तर्पणादि ततः कुर्यान्मन्त्रसिद्धिः प्रजायते ॥ ८-७६४ ॥  
	  
अथ मन्त्रभेदाः ।  
	  
अथातः सम्प्रवक्ष्यामि कार्त्तवीर्यमनोर्भिदः ।  
एकानविंशत्यर्णोऽयं तारादिर्नखवर्णकः ॥ ८-७६५ ॥  
	  
छन्दर्षिन्यासपूजादि सर्वं पूर्ववदीरितम् ।  
द्वितीयोऽयं भेद उक्तो भजतामिष्टदायकः ॥ ८-७६६ ॥  
	  
कार्त्तवीर्यार्जुनायेति नमो मूलं नवाक्षरम् ।  
फ्रो। पूर्वको दशार्णोऽयं विराट् छन्द उदीरितम् ॥ ८-७६७ ॥  
	  
सर्वार्थसिद्धये चास्य नियोगोऽन्यत् तु पूर्ववत् ।  
न्यासपूजादिकं सर्वं भेदोऽयं तु तृतीयकः ॥ ८-७६८ ॥  
	  
फ्रो। श्री। पूर्वो नवार्णस्तु भवेदेकादशाक्षरः ।  
प्राग्वन्मुन्यादिकं सर्वं छन्दस्त्रैष्टुभमुच्यते ॥ ८-७६९ ॥  
	  
नियोगस्तम्भनायास्य चौराणां वसुहारिणाम् ।  
प्राग्वत् पूजाप्रयोगादि तुर्यो भेदो निरूपितः ॥ ८-७७० ॥  
	  
फ्रो। क्ली। पूर्वो नवार्णस्तु भवेदेकादशाक्षरः ।  
नरनारीनृपाणां च मोहनाय नियोजनम् ॥ ८-७७१ ॥  
	  
मुनिश्छन्दोमुखं प्राग्वत् प्रयोगा।श्चापि साधयेत् ।  
एवं तु पञ्चमो भेदो मन्त्रस्य परिकीर्त्तितः ॥ ८-७७२ ॥  
	  
फ्रो। भ्रू। पूर्वो नवार्णस्तु षष्ठो भेदश्च पूर्ववत् ।  
मुन्यादि भ्रमणोच्चाटद्वेषमारणकर्मकृत् ॥ ८-७७३ ॥  

प्। ७१२) फ्रो। ह्रीमन्ते नवार्णस्तु भेदः सप्तमको भवेत् ।
वश्यं पापक्षयं मोहं शुभं च तनुते सदा ॥ ८-७७४ ॥

फ्रो। मा। नवाक्षरश्चेति ह्यष्टमोऽर्चादि पूर्ववत् ।  
आकर्षणाय चौराणां नियोगः परिकीर्त्तितः ॥ ८-७७५ ॥  
	  
फ्रो। क्रो। नवार्णो नवमो भेदः पूजादि पूर्ववत् ।  
वाक्स्तम्भे वा गतिस्तम्भे नियोगः परिकीर्त्तितः ॥ ८-७७६ ॥  
	  
फ्रो। श्री। नवाक्षरश्चेति दशमो भेद उच्यते ।  
त्रिष्टुप् छन्दोऽन्यदखिलमूनविंशतिवद्भवेत् ॥ ८-७७७ ॥  
	  
फ्रो। वाग्बीजं नवार्णश्च भेद एकादशः स्मृतः ।  
हु। फड्नवार्ण इति च द्वादशार्चादि पूर्ववत् ॥ ८-७७८ ॥  
	  
तृतीयभेदस्ताराद्यो मन्त्र एकादशाक्षरः ।  
त्रयोदशस्तु भेदोऽयं सर्वं पूर्ववदीरितम् ॥ ८-७७९ ॥  
	  
एवं भेदाश्चतुर्थाद्याः सप्त प्रणवपूर्वकाः ।  
द्वादशाद्याः सप्त मन्त्रा जगतीच्छन्दसो मताः ॥ ८-७८० ॥  
	  
प्राग्वन्मुन्यादिकं सर्वं प्रयोगः पूर्ववन्मतः ।  
दक्षिणाम्नायगाश्चैते विंशन्मन्त्राः प्रकीर्त्तिताः ॥ ८-७८१ ॥  
	  
अथोर्ध्वाम्नाये ।  
	  
ॐ नमः कार्त्तवीर्यार्जुनाय वर्मास्त्रठद्वयम् ।  
चतुर्दशार्णमन्त्रोऽयमष्टमः परिकीर्त्तितः ॥ ८-७८२ ॥  
	  
भूनेत्रसप्तनेत्राक्षिवर्णैरस्याङ्गपञ्चकम् ।  
एकोनविंसदर्णस्य मुन्याद्यमखिलं मतम् ॥ ८-७८३ ॥  
	  
अथ मालामन्त्रः ।  
	  
तारो नमो भगवते ततः श्रीपदमुच्चरेत् ।  
कार्त्तवीर्यार्जुनायेति हैहयेति पदं ततः ॥ ८-७८४ ॥  

प्। ७१३) नाथाय श्रीकार्त्तवीर्यार्जुनेति च सहस्रशः ।
करसदृशसर्वेति दुष्टान्तकपदात् पठेत् ॥ ८-७८५ ॥

सर्वशिष्टेष्टदपदं सर्वत उदधेः पदम् ।  
आगन्तुकामान् प्रवदेदस्मद्वसुविलुम्पकान् ॥ ८-७८६ ॥  
	  
चौरसमुह्हान् स्वकरसहस्रैश्च निवारय ।  
रुन्धस्व पाशसहस्रैर्बन्धयेति ततोऽङ्कुशः ॥ ८-७८७ ॥  
	  
सहस्रैराकर्षय स्वचापोद्भूतपदात् ततः ।  
वदेद्बाणसहस्रैश्च भिन्दि भिन्दीति संवदेत् ॥ ८-७८८ ॥  
	  
स्वहस्तोद्गतखड्गेति सहस्रैश्छिन्धियुग्मकम् ।  
स्वहस्तोद्भूतमुशलसहस्रैर्मर्दयद्वयम् ॥ ८-७८९ ॥  
	  
स्वशङ्खोद्भूतनादेति सहस्रैर्भीषयद्वयम् ।  
स्वहस्तोद्भूतचक्रेति सहस्रैद्विर्निकृन्तय ॥ ८-७९० ॥  
	  
परकृत्यां त्रासय द्विस्ततश्चाकर्षयद्वयम् ।  
भ्रामय द्विर्मोहय द्विरुद्वासययुगं वदेत् ॥ ८-७९१ ॥  
	  
उन्मादयद्वयं द्वेधा तापय द्विर्विनाशय ।  
द्वेधा विदारय स्तम्भयद्वयं जृम्भय द्वयम् ॥ ८-७९२ ॥  
	  
मारयद्वितयं प्रोच्य वशं कुरु वशं कुरु ।  
उच्चाटयोच्चाटयेति विनाशय विनाशय ॥ ८-७९३ ॥  
	  
दत्तात्रेयश्रीपदान्ते पादप्रियतमेति च ।  
श्रीकार्त्तवीर्यार्जुनेति सर्वगश्चोदधेर्वदेत् ॥ ८-७९४ ॥  
	  
आगन्तुकामान् प्रवदेदस्मद्वसुविलुम्पकान् ।  
चौरसमूहान् सम्यक् च वदेदुन्मूलयद्वयम् ॥ ८-७९५ ॥  

प्। ७१४) हु। फट् स्वाहेति मन्त्रोऽयं बाणाब्ध्यनलवर्णवान् ।
प्रोक्तः पञ्चदशश्छन्दो गायत्र्यन्यच्च पूर्ववत् ॥ ८-७९६ ॥

दत्तात्रेयप्रियतम् ङेऽन्तं हृदि तु विन्यसेत् ।  
माहिष्मतीति नाथाय शिरोमन्त्रो नगाक्षरः ॥ ८-७९७ ॥  
	  
रेवती च जलक्रीडासक्तायेति शिखा मता ।  
हैहयाधिपतिर्ङेऽन्तः कवचः परिकीर्त्तितः ॥ ८-७९८ ॥  
	  
सहस्रबाहवेऽस्त्रं स्यादेवं पञ्चाङ्गमीरितम् ।  
	  
अथ ध्यानम् ।  
	  
उदग्रबाणा।श्चापानि दधतं सूर्यसन्निभम् ॥ ८-७९९ ॥  
	  
प्रपूरयन्तं ब्रह्माण्डं धनुर्ज्यानिःस्वनैस्तथा ।  
कार्त्तवीर्यं नृपं ध्यायेद्गण्डशोभितकुण्डलम् ॥ ८-८०० ॥  
	  
एवं ध्यात्वा समभ्यर्च्य सर्वकर्माणि साधयेत् ।  
	  
अथ पुरश्चरणम् ।  
	  
त्रिसहस्रं जपः प्रोक्तः शेषं पूर्ववदाचरेत् ॥ ८-८०१ ॥  
	  
अथ प्रयोगः ।  
	  
दक्षोत्तरैः प्रतिशतैरेतान्यस्त्राणि सन्दधत् ।  
चक्रेषुखड्गमुशलकुठारान् पाशमेव च ॥ ८-८०२ ॥  
	  
प्रासचर्मधनुःशङ्खान् मध्यभास्करसन्निभम् ।  
बलाढ्यमरुणं घोरं तालमातङ्गसंस्थितम् ॥ ८-८०३ ॥  
	  
रक्ताम्बरं रक्तनेत्रं ध्यात्वैवं प्रजपेन्मनुम् ।  
निशीथेऽष्टोत्तरशतं नष्टद्रव्याप्तिसिद्धये ॥ ८-८०४ ॥  
	  
जपेन्निश्येकपादेन षण्मासानष्टयुक् छतम् ।  
सम्प्रार्थ्य मन्त्रिणं चौराः प्रयच्छन्त्यखिलं धनम् ॥ ८-८०५ ॥  

प्। ७१५) चौरैर्हृतपशून् मन्त्री यदा नेतुं समिच्छति ।
जपेदष्टोत्तरशतं ध्यायेद्देवं नृपाशितान् ॥ ८-८०६ ॥

कण्ठे सम्यक् सर्वपशून् गृहाभिमुखमागतान् ।  
ध्यात्वैवं द्वादशाहेन ते चायान्ति विमोचिताः ॥ ८-८०७ ॥  
	  
चैरैर्हृतं च वीह्यादि तच्छेषं होमयेन्निशि ।  
हृतं प्रकाश्यते भीतैश्चौरैर्झटिति नान्यथा ॥ ८-८०८ ॥  
	  
बाणान् प्रवेशयेद्रातौ धनुषा ध्यानतत्परः ।  
दशदिक्षु जपेन्मन्त्रं राष्ट्रादे रक्षणं भवेत् ॥ ८-८०९ ॥  
	  
मन्त्रेण परिजप्तानि पार्थिवानि रजांसि च ।  
क्षिप्तानि मन्त्रिणा यत्र तत्र रक्षा भवेन्निशि ॥ ८-८१० ॥  
	  
मन्त्रान्तरमाह ।  
	  
फ्रोमित्येकाक्षरो मन्त्रः कार्त्तवीर्यस्य षोडशः ।  
मुनिपूजादिकं प्राग्वल्लक्षमेकं पुरस्क्रिया ॥ ८-८११ ॥  
	  
षड्दीर्घयुक्तेनानेन षडङ्गविधिरीरितः ।  
प्राग्वत् प्रयोगा इत्येवमूर्ध्वाम्नायः प्रकीर्त्तितः ॥ ८-८१२ ॥  
	  
पश्चिमाम्यमन्त्रास्तु प्रोक्ताश्चारब्बभाषया ।  
अष्टौ शतान्यशीतिश्च येषां संसाधनात् कलौ ॥ ८-८१३ ॥  
	  
पञ्च खानाः सप्त मीराः नव शाहा महाबलाः ।  
हिन्दुधर्मप्रलोप्तारो जायन्ते चक्रवर्त्तिनः ॥ ८-८१४ ॥  
	  
पूर्वाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः ।  
फिरङ्गभाषया मन्त्रास्तेषां संसाधनाद्भुवि ॥ ८-८१५ ॥  
	  
अधिपा मन्दराणां च सङ्ग्रामेष्वपराजिताः ।  
इङ्ग्रेजा नवषट्पञ्च लन्द्रजाश्चापि भाविताः ॥ ८-८१६ ॥  

प्। ७१६) विद्या बौद्धनिदार्शिन्यां पञ्च प्रोक्तास्तु या मया ।
तद्बीजपूर्वाः सर्वेऽपि मनवो वामसिद्धिदाः ॥ ८-८१७ ॥

दक्षिणाचारफलदः कार्त्तवीर्यार्जुनो नृपः ।  
वामाचारेण शूद्राणामिह लोके फलप्रदः ॥ ८-८१८ ॥  
	  
न वामिनां हितार्थं तु कार्त्तवीर्यं प्रयोजयेत् ।  
सप्तजन्मसु दारिद्र्यं पैशाच्यं प्राप्नुयाद्बिजः ॥ ८-८१९ ॥  
	  
इति कार्त्तवीर्यप्रकरणम् ।  

अथ हनुमन्मन्त्रस्तत्रैव ।

अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टादशाक्षरम् ।  
नमो भगवते प्रोच्य आञ्जनेयाय संवदेत् ॥ ८-८२० ॥  
	  
महाबलाय स्वाहेति मुनिरस्येश्वरः स्मृतः ।  
छन्दोऽनुष्टुब्देवता तु हनुमान् ह। च बीजकम् ॥ ८-८२१ ॥  
	  
स्वाहा शक्तिश्चाञ्जनेयो रुद्रमूर्त्तिर्मरुत्सुतः ।  
अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारकः ॥ ८-८२२ ॥  
	  
एतैर्ङेऽन्तैः षडङ्गानि तथाऽङ्गुष्ठादिषु न्यसेत् ।  
	  
अथ ध्यानम् ।  
	  
तप्तकाञ्चनसङ्काशं हृदये निहिताञ्जलिम् ॥ ८-८२३ ॥  
	  
किरीटिनं कुण्डलिनं ध्यायेद्वानरनायकम् ।  
	  
अथ पुरश्चरणम् ।  
	  
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात् तिलैः ॥ ८-८२४ ॥  
	  
विप्रसन्तर्पणाद्यं तु प्राग्वत् सिद्धो भवेन्मनुः ।  
	  
अथ कान्यानि ।  
	  
जितेन्द्रियो नक्तभोजी प्रत्येकं साष्टकं शतम् ॥ ८-८२५ ॥  
	  
जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् ।  
भूतप्रेतपिशाचादिनाशायैवं समाचरेत् ॥ ८-८२६ ॥  

प्। ७१७) महारोगनिवृत्त्यै तु सहस्रं त्रिदिनं जपेत् ।
यताशनोऽयुतं नित्यं जपेद्ध्यायन् कपीश्वरम् ॥ ८-८२७ ॥

राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषः ।  
सुग्रीवेण समं रामं सन्दधानं स्मरन् कपिम् ॥ ८-८२८ ॥  
	  
प्रजप्यायुतमात्रं तु सन्धिं कुर्याद्विरुद्धयोः ।  
लङ्कादहन्तं तं ध्यायन्नयुतं प्रजपेन्मनुम् ॥ ८-८२९ ॥  
	  
शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ।  
प्रयाणसमये ध्यायन् हनुमन्तं मनुं जपेत् ॥ ८-८३० ॥  
	  
यो याति सोऽचिरात् स्वेष्टं साधयित्वा गृहं व्रजेत् ।  
यः कपीशं सदा गेहे पूजयेज्जपतत्परः ॥ ८-८३१ ॥  
	  
आयुर्लक्ष्म्यौ प्रवर्तेते तस्य नश्यन्त्युपद्रवाः ।  
शार्दूलतस्करादिभ्यो रक्षेन्मनुरयं स्मृतः ॥ ८-८३२ ॥  
	  
प्रस्थानकाले चौरेभ्यो दुष्टसर्पादपि ध्रुवम् ।  
पुच्छाकारे सुवसने लेखन्या कोकिलोत्थया ॥ ८-८३३ ॥  
	  
अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ।  
तन्मध्येऽष्टादशार्णं तु शत्रूणामयुतं लिखेत् ॥ ८-८३४ ॥  
	  
तेन मन्त्राभिजप्तेन शिरोबन्धेन भूमिपः ।  
जयत्यरिगणं सर्वं दर्शनादेव निश्चितम् ॥ ८-८३५ ॥  
	  
यद्वा जिगीषुर्नृपतिः पूर्वोक्तं लेखयेद्ध्वजे ।  
ध्वजमादायोपरागे संस्पर्शान्मोक्षणावधि ॥ ८-८३६ ॥  
	  
मान्त्रिकाज्जापयेत् पश्चाद्दशांशेन हुतं चरेत् ।  
सर्षपैस्तिलसम्मिश्रैः संस्कृते हव्यवाहने ॥ ८-८३७ ॥  
	  
गजस्थं तं ध्वजं दृष्ट्वा पलायन्तेऽरयोऽचिरात् ।  

प्। ७१८) अथ मन्त्रान्तरं तत्रैवोक्तम् ।

अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् ॥ ८-८३८ ॥  
	  
षड्दीर्घयुक्ता हृल्लेखा प्रणवेन च सम्पुटा ।  
अष्टार्णोऽयं हनुमतो मन्त्रराजः प्रकीर्त्तितः ॥ ८-८३९ ॥  
	  
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ।  
	  
अस्य ऋषिः श्रीरामः जगतो छन्दो हनुमान् देवता ।  
अथ ध्यानम् ।  
	  
बालार्काभं त्रिभुवनं क्षोभकान् सर्वराक्षसान् ॥ ८-८४० ॥  
	  
तादेनैव त्रासयन्तं सुग्रीवादिकसेवितम् ।  
सुन्दरं रामचरणध्यानं ध्यायेत् समीरजम् ॥ ८-८४१ ॥  
	  
अस्य पुरश्चरणं द्वादशसहस्रजपः सर्वमस्य द्वादशार्णवदित्युक्तत्वात् ।  
द्वादशार्णमन्त्रोऽपि तत्रैव ।  
	  
अथास्यान्यं प्रवक्ष्यामि द्वादशार्णं महामनुम् ।  
हौ। बीजं सम्यगुच्चार्य पूर्वोक्तं कूटपञ्चकम् ॥ ८-८४२ ॥  
	  
हनुमते नमो मन्त्रो रामचन्द्रो मुनिर्मतः ।  
जगती छन्द उद्दिष्टं हनुमान् देवता मतः ॥ ८-८४३ ॥  
	  
बीजं तु पञ्चमं कूटं शक्तिराद्यं तु कूटकम् ।  
षड्बीजैः प्रथमैर्न्यासः षडङ्गोऽस्य प्रकीर्त्तितः ॥ ८-८४४ ॥  
	  
कूटपञ्चकं तु ।  
	  
आद्यन्ताकृतिवेदार्णा विन्दुरुद्रस्वरान्विताः ।  
हनूमतस्त्वाद्यकूटमेतत् साधक उच्चरेत् ॥ ८-८४५ ॥  
	  
प्रकृत्याकृतिवेदार्णा विन्दुरुद्रस्वरान्विताः ।  
द्वितीयकूटमेतत् स्यादाद्यन्ताकृतिवर्णकाः ॥ ८-८४६ ॥  
	  
विसर्गेन्दुस्वरोपेतास्तृतीयं कूटमुच्यते ।  
आद्यन्तसिद्धाकृत्यब्धिवर्णैरीशस्वरान्वितैः ॥ ८-८४७ ॥  

प्। ७१९) सानुस्वारैस्तुर्यकूटं साद्यः सौः पञ्चमं मतम् ।

अथ ध्यानपुरश्चरणे ।  
	  
ध्यानं पूर्वोक्तमेवास्य जपेदर्कसहस्रकम् ॥ ८-८४८ ॥  
	  
दशांशं जुहुयाद्ब्रीहीन् पयोदध्याज्यसंयुतान् ।  
	  
अथ मालामन्त्रस्तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि मालामन्त्रं वदेद्ध्रुवम् ॥ ८-८४९ ॥  
	  
वज्रकाय वज्रतुण्ड वदेत् कपिलपिङ्गल ।  
ऊर्ध्वकेश महावेति ल रक्तमुख कीर्त्तयेत् ॥ ८-८५० ॥  
	  
तडिज्जिह्व महारौद्र दंष्ट्रोत्कटक हद्वयम् ।  
करालिने महा प्रोच्य दृढप्रति च हा वदेत् ॥ ८-८५१ ॥  
	  
हि लङ्केश्वर वेत्युक्त्वा धाय महावदेत् परम् ।  
शेतुबन्धमहाशैलप्रवाह गगनेचर ॥ ८-८५२ ॥  
	  
एह्येहि भगवन् प्रोच्य महाबलपराक्रम ।  
भैरवाज्ञापय प्रोच्य एह्येहीति पदं वदेत् ॥ ८-८५३ ॥  
	  
महारौद्रपदं प्रोच्य दीर्घपुच्छेन वेष्टय ।  
वैरिणं भञ्जय द्वन्द्वं हु। फड्बाणार्कवर्णवान् ॥ ८-८५४ ॥  
	  
मुन्याद्यर्चाप्रयोगादि सर्वं सूर्यार्णवन्मतम् ।  
	  
अथ मन्त्रान्तरम् । (साधनसमुच्चये)  
	  
नमः सविन्दुमुद्धृत्य हनुमन्तं च ङेऽन्तकम् ॥ ८-८५५ ॥  
	  
रुद्रात्मकाय कवचमस्त्रं चेत्येकवर्णकः ।  
मन्त्रोऽयं हरिणा पूर्वं दत्तो गाण्डीवधन्विने ॥ ८-८५६ ॥  
	  
एतस्य साधनं कृत्वा रणे विजयमाप्तवान् ।  
	  
मन्त्रान्तरम् ।  
	  
स्वबीजं पूर्वमुच्चार्य ङेऽन्तं पवननन्दनम् ॥ ८-८५७ ॥  

प्। ७२०) वह्निजायावधिः प्रोक्तो मन्त्रोऽयं सुरपादपः ।
षड्दीर्घभाजा बीजेन मन्त्रार्णैरङ्गकल्पना ॥ ८-८५८ ॥

स्वरैः काद्यैश्च पाद्यैश्च प्राणायामत्रयं चरेत् ।  
ध्यायेद्रणे हनूमन्तं कपिकोटिसमन्वितम् ॥ ८-८५९ ॥  
	  
धावन्तं रावणं जेतुं हष्ट्वा सत्वरमुत्थितम् ।  
लक्ष्मणं च महावीरं पतितं रणभूतले ॥ ८-८६० ॥  
	  
गुरुक्रोधं समुत्पाद्य गृहीत्वा गुरुपर्वतम् ।  
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ॥ ८-८६१ ॥  
	  
आब्रह्म च समाव्याप्य कृत्वा भीमकलेवरम् ।  
पूजा तु वैष्णवे पीठे लक्षमेकं जपं चरेत् ॥ ८-८६२ ॥  
	  
ततः सिद्धमनुर्मन्त्री साधयेत् सिद्धिमुत्तमाम् ।  
	  
तथा ।  
	  
ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियो द्विजः ॥ ८-८६३ ॥  
	  
गत्वा नदीं ततः स्नात्वा तीर्थमावाह्य चाष्टधा ।  
मूलमन्त्रं ततो जप्त्वा सिञ्चेदादित्यसङ्ख्यया ॥ ८-८६४ ॥  
	  
सम्पूज्य हनुमन्तं षट्सहस्रं जपमाचरेत् ।  
एवं सप्तदिनान्ते च समायाति कपीश्वरः ॥ ८-८६५ ॥  
	  
रात्रौ त्रिभागशेषायां ददाति वरमीप्सितम् ।  
विद्यां वाऽपि धनं राज्यं वा शत्रुनिग्रहम् ॥ ८-८६६ ॥  
	  
ददाति साधकेन्द्राय सत्यं सत्यं सुनिश्चितम् ।  
	  
इति हनुमत्प्रकरणम् ।  

अथ कामन्त्रः (शारदायाम्)

ब्रह्मा भूम्या समासीनः शान्तिविन्दुविभूषितः ॥ ८-८६७ ॥  
	  
बीजं मनोभुवः प्रोक्तं जगत्त्रितयमोहनम् ।  

प्। ७२१) ऋषिः सम्मोहनः प्रोक्तो गायत्रं छन्द ईरितम् ॥ ८-८६८ ॥

सर्वसम्मोहनः साक्षाद्देवता मकरध्वजः ।  
बीजेन दीर्घयुक्तेन षडङ्गविधिरीरितः ॥ ८-८६९ ॥  
	  
अथ ध्यानम् ।  

जपारुणं रत्नविभूषणाढ्यं
मीनध्वजं चारुकृताङ्गरागम् ।
कराम्बुजैरङ्कुशमिक्षुचापं
पुष्पास्त्रपाशौ दधतं भजामि ॥ ८-८७० ॥

अथ पुरश्चरणम् ।  
	  
लक्षत्रयं जपेन्मन्त्रं मधुरत्रयसंयुतैः ।  
पुष्पैः किंशुकजैः फुल्लैर्जुहुयात् तद्दशांशतः ॥ ८-८७१ ॥  
	  
अथ मन्त्रान्तरं तत्रान्तरे ।  
	  
मान्मथं बीजमुद्धृत्य ङेऽन्तं कामं समुच्चरेत् ।  
हृदयान्तः षडर्णोऽयं जगत्सम्मोहनक्षमः ॥ ८-८७२ ॥  
	  
अस्य मन्त्रस्य हृष्यादिध्यानपर्यन्तं पूर्ववत् कार्यम् ।  
पुरश्चरणे विशेषो यथा ।  
	  
वर्णलक्षं जपेन्मन्त्रं दशांशं मधुराप्लुतैः ।  
पलाशकुसुमैर्होमं कुर्याद्वा चूतपल्लवैः ॥ ८-८७३ ॥  
	  
इति काममन्त्रपुरश्चरणम् ।  

बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्रचित्रामृत �
स्रोतःशालिनिसन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
नेपालेन्द्रनरेन्द्रनिर्मितपुरश्चर्यार्णवेऽस्मिन्नगात्
सद्युक्तिस्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गोऽष्टमः ॥ ८-८७४ ॥

इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे गणेशादिमन्त्रपुरश्चरणविवेचनं नामाष्टमस्तरङ्गः ॥ ८ ॥  

ए-तेxत्स् मय् बे विएwएद् ओन्ल्य् ओन्लिने ओर् दोwन्लोअदेद् फ़ोर् प्रिवते स्तुद्य्।