०७ मन्त्रसिद्धिलक्षणोपायपुरश्चरणभेदनिरूपणम्

मन्त्रसिद्धिलक्षणम् ।

अथ पुरश्चरणभेदमन्त्रसिद्धिलक्षणादिषु नीरूपणीयेषु सूचीकटाहन्यायेन मन्त्रसिद्धिलक्षणमादौ निरूप्यते ।
तदुक्तं (पञ्चरात्रे)

अथातः सम्प्रवक्ष्यामि मन्त्रसिद्धेस्तु लक्षणम् ।  
मनोरथानामक्लेशे सिद्धेरुत्तमलक्षणम् ॥ ७-१ ॥  
	  
मृत्यूनां हरणं तद्वद्देवतादर्शनं तथा ।  
प्रयोगानां क्लेशसिद्धिः सिद्धेस्तु लक्षणं तथा ॥ ७-२ ॥  
	  
तथा ।  
	  
परकायप्रवेशश्च पुरप्रवेशनं तथा ।  
ऊर्ध्वोत्क्रमणमेवं हि चराचरपुरे गतिः ॥ ७-३ ॥  
	  
खेचरीमेलनं चैव तत्कथाश्रवणादिकम् ।  
भूछिद्राणि प्रपश्येत् तु तस्मादुत्तमलक्षणम् ॥ ७-४ ॥  
	  
स्मरणे कीर्त्तने विष्णोरानन्दाश्रुविमोचनम् ।  
रोमाञ्चोद्गद्गदालापश्चित्तस्यैकाग्रता तथा ॥ ७-५ ॥  
	  
विषयेषु च वैराग्यं प्रीतिश्च परमेश्वरे ।  
तत्कथाश्रवणौत्सुक्यं तत्पादसेवने रतिः ॥ ७-६ ॥  
	  
तद्गुणस्तुतिकाव्यानामविलम्बितकर्त्तृता ।  
तत्पादाम्बुजचिह्नानां दर्शनं पूजनादिषु ॥ ७-७ ॥  
	  
अनाहतस्य शब्दस्य भवेदाकस्मिकी श्रुतिः ।  
विनाऽपि योगाभ्यसनं चैतदुत्तमलक्षणम् ॥ ७-८ ॥  
	  
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ।  
प्। ५५४) नृपाणां तद्गतानां च वशीकरणमुत्तमम् ॥ ७-९ ॥  

सर्वत्र सर्वलोकेषु चमत्कारकरः शुचिः ।
रोगापहरणं दृष्ट्या विषापहरणं तथा ॥ ७-१० ॥

पाण्डित्यं लभते मन्त्री चतुर्विधमयत्नतः ।  
वैराग्यं च मुमुक्षुत्वं त्यागिता सर्ववश्यता ॥ ७-११ ॥  
	  
अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जितम् ।  
सर्वभूतेष्वनुकम्पा सार्वज्ञादिगुणोदयः ॥ ७-१२ ॥  
	  
इत्यादिगुणसम्पत्तिर्मध्यसिद्धेस्तु लक्षणम् ।  
ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ॥ ७-१३ ॥  
	  
नृपाणामङ्गनानां च वात्सल्यं लोकवश्यता ।  
महैश्वर्यं घनित्वं च पुत्रादिधनसम्पदः ॥ ७-१४ ॥  
	  
अधमाः सिद्धयः प्रोक्ता मन्त्रिप्रथमभूमिकाः ।  
सिद्धमन्त्रस्तु यः साक्षात् स शिवो नात्र संशयः ॥ ७-१५ ॥  
	  
(साधनसमुच्चये)  
	  
सिद्धो यस्य महामन्त्रः साधनेन बलीयसा ।  
देवानामपि दुष्प्रापाः सिद्धयस्तत्करे स्थिताः ॥ ७-१६ ॥  
	  
दिक्चरी खेचरी सिद्धिः पादुकासिद्धिरेव च ।  
अन्तर्द्धिसिद्धिर्वेतालसिद्धिः कायप्रवेशनम् ॥ ७-१७ ॥  
	  
यक्षणी भैरवीसिद्धिः खड्गसिद्धिस्तथैव च ।  
आज्ञासिद्धिर्धातुवादगुटिकाञ्जनसिद्धयः ॥ ७-१८ ॥  
	  
आकर्षणवशीकारौ द्रावणं मोहनं तथा ।  
उच्चाटनं स्तम्भनं च द्वेषणं मारणं तथा ॥ ७-१९ ॥  
	  
उन्मादनं शोषणं च मूर्छनं क्षोभणं तथा ।  
ग्रहाणां च गतिस्तम्भं वेगस्तम्भं नभस्वतः ॥ ७-२० ॥  

प्। ५५५) नदीमहार्णवस्तम्भं वाक्स्तम्भं प्रतिवादिनाम् ।
गन्धर्वोरगदैत्यानां कीन्नराणां च रक्षसाम् ॥ ७-२१ ॥

सिद्धविद्याधरादीनां कन्यकाकर्षणं तथा ।  
नृपाणां देवतानां च क्षणादाकर्षणं भवेत् ॥ ७-२२ ॥  
	  
शीतलीकरणं वह्नेः सर्पाणां निर्विषीक्रिया ।  
शोषणं सागरस्यापि त्रैलोक्यस्य वशीकृतिः ॥ ७-२३ ॥  
	  
अमोघवचनत्वं च शापे चानुग्रहे तथा ।  
कामरूपं कामगतिः कामदातृत्वमेव च ॥ ७-२४ ॥  
	  
अणिमा महिमा चैव गरिमा लघिमा तथा ।  
ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च ॥ ७-२५ ॥  
	  
इत्याद्याः सिद्धयः सर्वा जायन्ते नात्र संशयः ।  
बहुनाऽत्र किमुक्तेन सिद्धमन्त्रस्य मन्त्रिणः ॥ ७-२६ ॥  
	  
यद्यदिष्टं च तत्सर्वं करामलकवद्भवेत् ।  
	  
(नारदपञ्चरात्रे)  
	  
मन्त्राराधनशक्तस्य प्रथमे वत्सरत्रये ॥ ७-२७ ॥  
	  
जयान्ते बहवो विघ्ना नियमस्थस्य नारद ।  
नोद्वेगं साधको याति कर्मणा मनसा यदि ॥ ७-२८ ॥  
	  
तृतीयवत्सरादूर्ध्वं राजानश्च महीभृतः ।  
प्रार्थयन्तेऽनुरोधेन गर्विता अपि मानिनः ॥ ७-२९ ॥  
	  
प्रसादः क्रियतां नाथ ममोद्धारणकारणम् ।  
प्रज्वलन्तं च पश्यन्ति तेजसा विभवेन च ॥ ७-३० ॥  
	  
अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमाः ।  
नवमाद्वत्सरादूर्ध्वं स्वयं सिद्ध्यति मन्त्रराट् ॥ ७-३१ ॥  

प्। ५५६) नानाश्चर्याणि हृदये मन्त्रसिद्धिमयानि वै ।
अत्यानन्दप्रदान्याशु प्रत्यक्षेण बहिस्तथा ॥ ७-३२ ॥

जडधीस्तु क्षणं विप्रः क्षणमस्ति प्रहर्षितः ।  
क्षणं दुन्दुभिनिर्घोषं शृणोत्यप्यन्तरिक्षगम् ॥ ७-३३ ॥  
	  
क्षणं च मधुरं वाद्यं नानागीतसमन्वितम् ।  
आजिघ्रति क्षणं गन्धान् कर्पूरमृगनाभिजान् ॥ ७-३४ ॥  
	  
उत्पतन्तं क्षणं वाऽपि पश्यत्यात्मानमात्मना ।  
चन्द्रार्ककिरणाकीर्णं क्षणमालोकयन् नभः ॥ ७-३५ ॥  
	  
गजगोवृषनादा।श्च शृणुयाच्च क्षणं द्विजः ।  
निर्भराम्बुदसङ्क्षोभं क्षणमाकर्षयत्यपि ॥ ७-३६ ॥  
	  
तारकाणि विचित्राणि योगिनो नभसि स्थितान् ।  
पश्यत्युद्ग्राहयन्तं च क्षणं मन्त्रवतां सदा ॥ ७-३७ ॥  
	  
क्षणं किलिकिलारावं हंसवर्हिरवं तथा ।  
क्षणं मेघोदयं पश्येत् क्षणं रात्रिं दिने सति ॥ ७-३८ ॥  
	  
रात्रौ च दिवसालोकं ससूर्यं क्षणमीक्षते ।  
बलेन परिपूर्णश्च तेजसा भास्करोपमः ॥ ७-३९ ॥  
	  
पूर्णेन्दुसदृशः कान्त्या गमने विहगोपमः ।  
शमेन युक्तः प्रौढेन गाम्भीर्येण सुखेन च ॥ ७-४० ॥  
	  
स्वल्पाशनेनाकृशता बहुनाऽपि निखिद्यते ।  
विण्मूत्रयोरल्पता हि भवेन्निद्राक्षयस्तथा ॥ ७-४१ ॥  
	  
जपध्यानगतो मन्त्री न खेदमधिगच्छति ।  
विना भोजनपानाभ्यां पक्षमासादिकं मुने ॥ ७-४२ ॥  
	  
इत्येवमादिभिश्चिह्नैर्महाविस्मयकारिभिः ।  

प्। ५५७) बौद्धायनः ।

सिद्धेस्तु त्रिणि चिह्नानि दाता भोक्ता अयाचकः ।  
	  
(भैरवीतन्त्रे)  
	  
ज्योतिः पश्यति सर्वत्र शरीरं वा प्रकाशयुक् ॥ ७-४४ ॥  

निजं शरीरमथ वा देवतामयमेव हि ॥ ७-४४एफ़् ॥  
	  
(वक्रतुण्डकल्पे)  
	  
चित्तप्रसादो मनसश्च तुष्टि-  
	रल्पाशिता स्वप्नपराङ्मुखत्वम् ।  
स्वप्नेषु यानाद्युपलम्भनं तु  
	सिद्धस्य चिह्नानि भवन्ति सद्यः ॥ ७-४५ ॥  
	  
(मेरुतन्त्रे)  
	  
एवं सिद्धे मनौ देवा मोक्षमार्गनिरोधकाः ।  
तपःक्षयकराश्चैव जायन्तेऽनेकसिद्धयः ॥ ७-४६ ॥  
	  
स्वल्पसिद्धौ निमग्नश्चेन्न जायन्तेऽणिमादयः ।  
अणिमादिनिमग्नश्चेन्मोक्षवार्त्ताऽतिदुर्लभा ॥ ७-४७ ॥  
	  
(नारसिंहेऽपि)  
	  
यथा स्वल्पसुखे मग्नो न प्राप्नोति महत् सुखम् ।  
तथा सिद्धौ निमग्नस्य मुक्तिर्दूरे प्रवर्त्तते ॥ ७-४८ ॥  
	  
तस्मात् सिद्धिस्तृणीकृत्य भजेन्नृहरिपादुकाम् ।  
अखण्डैकरसानन्दं ततः प्राप्नोति नान्यथा ॥ ७-४९ ॥  
	  
पुरश्चरणसामर्थ्यात् सर्वसिद्ध्याश्रयोऽपि सन् ।  
न त्याज्या भगवद्भक्तिः साधकैर्मुक्तिकामुकैः ॥ ७-५० ॥  
	  
बुभुक्षवः सन्त्येनेके केचित् सन्ति मुमुक्षवः ।  
भोगमोक्षनिराकाङ्क्षी विरलो भजते हरिम् ॥ ७-५१ ॥  
	  
स एव जीवनमुक्तः स्यान्नारायणमनामयम् ।  

प्। ५५८) सिद्धौ सत्यामसत्यां च भजते योगनिस्पृहः ॥ ७-५२ ॥

(मेरुतन्त्रे)  

अल्पं तपः क्षणान्नश्येन्मध्यमं चापि गर्वतः ।  
सिद्धिद्वारा महत् तस्य चिह्नं लक्षणमुच्यते ॥ ७-५३ ॥  
	  
स्प्ने वाऽक्षिसमक्षं वा आश्चर्यमिति हर्षदम् ।  
अकस्माद्यदि जायेत नाख्यातव्यं गुरोर्विना ॥ ७-५४ ॥  
	  
प्रकाशनीयं न क्वापि ऐहिकीं सिद्धिमिच्छता ।  
प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् ॥ ७-५५ ॥  
	  
निकटस्थाश्च तास्तस्य सिद्धयो यान्ति दूरतः ।  
आविर्भवन्ति दुःखानि शोकाश्च विविधा अपि ॥ ७-५६ ॥  
	  
अल्पाशनं स्वल्पनिद्रा सदा चित्तप्रसन्नता ।  
प्रकाशयुक् शरीरं च वाक्यं सत्यं प्रजायते ॥ ७-५७ ॥  
	  
तथा ।  
	  
वाङ्मनोरथसंसिद्धो दाता भोक्ता अयाचकः ।  
	  
(प्रपञ्चसारे)  
	  
ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतो मनुम् ॥ ७-५८ ॥  
	  
अधिष्ठितं निश्यदीपं निस्तमिश्रं गृहं भवेत् ॥ ७-५८एफ़् ॥  

अर्काभस्तेजसाऽसौ भवति नलिनजा सन्ततं किङ्करी स्याद् �
रोगानश्यन्ति दृष्ट्या द्रुतमथ धनधान्याकुलस्तत्समीपम् ।
देवा नित्यं नमोऽस्मै विदधति फणिनोनैव दंशन्ति पुत्रान्
पौत्रान् मित्राणि वृद्धा।स्तनुविपदि परं धाम विष्णोः प्रयाति ॥ ७-५९ ॥

इति सिद्धिचिह्नानि ।  
(फेत्कारिणीतन्त्रे)  
	  
कर्मणा प्रबलेन प्रतिबन्धाविरोधिना ।  
यदि सिद्धिं न लभते द्विस्त्रिर्वा पुनराचरेत् ॥ ७-६० ॥  
	  
अथ द्वित्रैरपि पुरश्चरणैर्मन्त्राणामसिधौ तत्सिद्ध्यर्थमुपायानाह ।   
(मेरुतन्त्रे)  
	  
असिद्धत्वाद्गुरोर्दैवात् शिष्ये सिद्धिर्न जायते ।  
तदोपायं प्रकुर्याद्धि यद्गोप्यमधुनोच्यते ॥ ७-६१ ॥  

अनुलोमविलोमेन विन्दुवन्मातृकाक्षरैः ।
जपेत् सम्पुटितं मन्त्रं प्रत्यहं शतसङ्ख्यया ॥ ७-६२ ॥

एकमासं ततो होमादिकात् सिद्धो भवेन्मनुः ।  
पुरश्चर्योक्तमखिलमाह्निकं च समाचरेत् ॥ ७-६३ ॥  
	  
वैदिकमन्त्रे तु विशेष उक्तस्तत्रैव ।  
	  
एवं वैदिकमन्त्रस्य सिद्धयेऽद्रिरसार्णकाः ।	  
वर्णा देया विन्दुयुक्ताः क्रमतश्चोत्क्रमेण च ॥ ७-६४ ॥  

ह्रस्वदीर्घप्लुतैर्भेदैर � इ � उ - ऋ त्रिधा मताः ।  
ह्रस्वः प्लुतो ऌद्विविध एचोऽपि द्विविधा मताः ॥ ७-६५ ॥  

दीर्घप्लुतविभेदेन ह्यनुस्वारो विसर्गकः ।  
चतुर्विंशतिराख्याताः स्वरा एवं यमैः सह ॥ ७-६६ ॥  

चत्वारः कादिका वर्णा जिह्वामूलीययुक् च कः ।	  
एवं कवर्गो दशधा चाद्याः पञ्चदश स्मृताः ॥ ७-६७ ॥  

उपध्मानीयसंयुक्तः पकारस्तेन तत्र षट् ।  
याद्यष्टाविति सम्प्रोक्ता यजुर्वेदे तु मातृकाः ॥ ७-६८ ॥  

लक्षौ द्वावधिकौ ऋक्षु ज्ञोऽधिकोऽथर्वणि स्मृतः ।	  
जपश्चाष्टोत्तरशतं प्रत्यहं मासमात्रकम् ॥ ७-६९ ॥  

अनध्यायं वर्जयित्वा चत्वारिंशद्दिनं तथा ।	  
होमादिसकलं प्राग्वन्नित्यमेवं प्रकल्पयेत् ॥ ७-७० ॥  

प्। ५६०) उपायन्तरमाह तत्रैव ।

कुलदैवतमन्त्रं तु भूतलिप्या पुटीकुरु ।  
क्रमोत्क्रमाछतावृत्तिं कुर्यात् सिद्धिस्तु मासतः ॥ ७-७१ ॥  
	  
तथा ।  
	  
अत्युग्रदेवताजप्यस्त्वष्टोत्तरसहस्रकम् ।  
त्रिकालं गन्धपुष्पाद्यैर्निशीथे पञ्चमैः पुनः ॥ ७-७२ ॥  

षण्मासं कौलिकाद्यैश्चेदर्चिता सुप्रसीदति ।  
	  
भूतलिपिरग्रे वक्ष्यते ।  
अथोपायान्तराणि ।  
(गन्धर्वतन्त्रे)  
	  
अनुष्ठितो यथान्यायं यदि मन्त्रो न सिद्ध्यति ॥ ७-७३ ॥  

पुनस्तावत् प्रजप्तव्यस्ततः सिद्धो भवेत् पुनः ।  
पुनश्चानुष्ठितो मन्त्रो यदि सिद्धो न जायते ॥ ७-७४ ॥  

उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः ।  
	  
(मेरुतन्त्रे)  
	  
ब्रह्मद्वेषाद्गुरोर्दोषात् स्त्रीद्वेषाच्चेन्न जायते ॥ ७-७५ ॥  

शापतो वाऽकीलितत्वात् तत्रोपायाष्टकं भवेत् ।  
सम्पाताप्यायनं द्रावो बोधनं च वशीकृतिः ॥ ७-७६ ॥  

पीडनं पोषशोषौ च दहनं तत्क्रियोच्यते ।  
भूर्जपत्रं समानीय पद्ममष्टदलं लिखेत् ॥ ७-७७ ॥  

अष्टगन्धेन देवस्य रोचनाचन्दनेन वा ।  
साधकस्य तु नामार्णैर्मन्त्रसन्दर्भितं लिखेत् ॥ ७-७८ ॥  

यावद्द्वयोः समाप्तिः स्यात् तस्य चाद्यन्तयोर्लिखेत् ।  
तारादिकं साधकस्य नामाथाष्टदलेषु तु ॥ ७-७९ ॥  

द्वौ द्वौ लेख्यौ स्वरौ तच्च सम्यक् ध्यायन् सुधात्मकम् ।	  
तत् संवेष्ट्य मृदा सम्यग्वेष्टयेद्ब्राह्मणादिकम् ॥ ७-८० ॥  

प्। ५६१) शुक्लादिवर्णया पश्चात् सिक्थकेन च वेष्टयेत् ।
क्षिपेत् त्रिमधुरे तत् तु मृण्मये लघुभाजने ॥ ७-८१ ॥

क्षीरपूर्णे नवे कुम्भे तत् क्षिपेल्लघुभाजने ।  
अग्निं संस्थापितं कृत्वा सन्निधौ तस्य तं घटम् ॥ ७-८२ ॥  

संस्थापयेत् त्रिमधुरैर्मूलमन्त्रेण होमयेत् ।  
अष्टादिकसहस्रं तु सम्पातं कलशे क्षिपेत् ॥ ७-८३ ॥  

होमं समाप्य तं कुम्भं निःक्षिपेच्च जलाशये ।  
स्वगुरुं ब्राह्मणा।श्चान्या।स्तोषयेद्दक्षिणादिभिः ॥ ७-८४ ॥  

सम्पाताप्यायनं चैतदुक्तं सिद्धिर्न चेद्भवेत् ।  
द्रावणं तु तदा कुर्यात् तत्प्रकार इहोच्यते ॥ ७-८५ ॥  

व। बीजेन ग्रन्थयित्वा भूर्जपत्रे लिखेन्मनुम् ।  
उशीररोचनाभ्यां च शिलाकर्पूरकुङ्कुमैः ॥ ७-८६ ॥  

क्षीराज्यमधुतोयानां मध्ये तं लिखितं क्षिपेत् ।  
पूजनाच्च जपाद्धोमाद्रावितः फलदो भवेत् ॥ ७-८७ ॥  

द्रावितोऽपि न सिद्धश्चेद्बोधनं तस्य कारयेत् ।  
वाग्भवेन च बीजेन सम्पुटीकृत्य तं जपेत् ॥ ७-८८ ॥  

एवं बुद्धो भवेत् सिद्धो नो चेत् कुर्यात् वशीकृतिम् ।	  
कुचन्दनमहादारुहरिद्रामदनीशिलाः ॥ ७-८९ ॥  

एतैस्तु लिखितो मन्त्रो भूर्जपत्रे सुशोभने ।  
कण्ठे धृतो भवेद्वश्यो नो चेत् कुर्यात् प्रपीडनम् ॥ ७-९० ॥  

अनुदात्तस्वरेणाद्यमुदात्तेन द्वितीयकम् ।  
तृतीयमनुदात्तेन पठेत् तुर्यमुदात्ततः ॥ ७-९१ ॥  

एवं पदानि सर्वाणि पठेन्मन्त्रस्य साधकः ।	  

प्। ५६२) अनुदात्तपदोच्चारे देवं ध्यायेदधःस्थितम् ॥ ७-९२ ॥

ऊर्ध्वस्थितमुदात्तस्योच्चारेऽष्टाधिसहस्रकम् ।  
जपेन्मन्त्रं ततो भूर्जे भानुदुग्धेन लेखयेत् ॥ ७-९३ ॥  

मन्त्रं तमाक्रमेद्वामपादेनाथ च होमयेत् ।  
अष्टोत्तरशतं मन्त्रं पीडितः सन् प्रसीदति ॥ ७-९४ ॥  

न सिधश्चेत् तदा पोष्यः प्रोच्यते तत्क्रियाऽधुना ।	  
ह्रसौ। बीजपुटितं मन्त्रं विलिखेद्भ्रर्जपत्रके ॥ ७-९५ ॥  

रोचनाकुङ्कुमाभ्यां च धारयेद्दधिदुग्धयोः ।	  
इदं पोषणमित्युक्तं दोषशोषणमुच्यते ॥ ७-९६ ॥  

यज्ञस्य भस्मना लेख्यं वायुबीजविदर्भितम् ।	  
भूर्जपत्रे स्वेष्टमन्त्रं तत् कण्ठे धारयेदिति ॥ ७-९७ ॥  

एतच्छोषणमित्युक्तं दहनं प्रोच्यतेऽधुना ।  
पृथक् पृथक् च मन्त्राणां चतुर्दिक्षु समावृतान् ॥ ७-९८ ॥  

र। बीजेन पलाशस्य बीजतैलेन संलिखेत् ।  
भूर्जपत्रेऽथ तद्धार्यं कण्ठे दाहक्रिया त्वियम् ॥ ७-९९ ॥  
	  
उपायान्तराण्युक्तानि (यामलेश्वरगन्धर्वादौ ।)  
	  
प्रणवो मातृका देवी हृल्लेखेत्यमृतत्रयम् ।  
अमृतत्रयसंयोगाद्दुष्टमन्त्रोऽपि सिद्ध्यति ॥ ७-१०० ॥  

सुवर्णमर्कतैलं च पिष्टं मन्त्राम्भ एव च ।  
एताल्लिप्ताङ्गसञ्जप्तो मन्त्रः कुण्ठोऽपि सिध्यति ॥ ७-१०१ ॥  
	  
(गौतमीये)  
	  
सुवर्णसूर्यतैलेन पिष्टेन निजवारिणा ।	  
तल्लिप्ताङ्गहुतः कुण्ठो मनुः सद्यः प्रसीदति ॥ ७-१०२ ॥  

इति मन्त्रसिद्ध्युपायाः  

प्। ५६३) आदावन्ते च मन्त्रस्य हृल्लेखा कामबीजकम् ।
श्रीबीजं च विनिःक्षिप्य जपेन्मन्त्रं तु सिद्धये ॥ ७-१०३ ॥

तारसम्पुटितं वाऽथ कृत्वा मन्त्रं तु साधकः ।  
लक्षमात्रं प्रजप्तव्यं दुष्टमन्त्रोऽपि सिद्ध्यति ॥ ७-१०४ ॥  
	  
इत्युपायाः ।  
अथ पुरश्चरणभेदाः (वाडवानलीये)  
	  
पुरश्चर्यां विना मन्त्रा न सिद्ध्यन्ति कदाचन ।	  
न ते मन्त्राः प्रयोगार्हा न ते मन्त्राः फलप्रदाः ॥ ७-१०५ ॥  

ये च मन्त्राः पुरश्चर्यावर्जिता वीरवन्दिते ।  
कीर्त्तिता यस्य मन्त्रस्य जपसङ्ख्या तु भूयसी ॥ ७-१०६ ॥  

तावत्सङ्ख्याजपं कर्त्तुमसमर्थश्च साधकः ।  
समुद्रगनदीकूले देवतायतनेऽथ वा ॥ ७-१०७ ॥  

माघे मासि हविष्याशी लक्षमात्रं जपेन्मनुम् ।	  
भक्त्या सम्पूजयेद्देवीं त्रिसन्ध्यं विविधार्हणैः ॥ ७-१०८ ॥  

होमादीनि ततः कुर्यात् तदङ्गानि विधानतः ।	  
एवं कृते महादेवि भवेन्मन्त्रः फलप्रदः ॥ ७-१०९ ॥  

दीक्षा हि विफला ज्ञेया पुरश्चर्यामकुर्वताम् ।  
	  
(मुण्डमालायाम्)  
	  
कृष्णाष्टमीं समारभ्य यावत् कृष्णाष्टमी भवेत् ॥ ७-११० ॥  

सहस्रसङ्ख्ये जप्ते तु पुरश्चरणमिष्यते ।  
	  
तत्रैव ।  
	  
कृष्णां चतुर्दशीं प्राप्य तपस्यन्तं महोत्सवे ॥ ७-१११ ॥  

अष्टमीनवमीरात्रौ पूजां कुर्याद्विशेषतः ।  
दशम्यां पारणं कुर्यान्मत्स्यमांसादिभिर्युतम् ॥ ७-११२ ॥  

प्। ५६४) षट्सहस्रं जपेन्नित्यं भक्तिभावपरायणः ।

तथा ।  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-११३ ॥  

चतुर्दशीं समारभ्य यावदन्या चतुर्दशी ।	  
तावज्जप्ते महेशानि पुरश्चरणमिष्यते ॥ ७-११४ ॥  

केवलं जपमात्रेण मन्त्राः सिद्धा भवन्ति हि ।	  
बलिहोमादिदानेन विशेषात् पीठपूजने ॥ ७-११५ ॥  

योनिपीठं महापीठं कामरूपं तथाऽपरम् ।	  
तयोरेकतमं पूज्यं रुद्रदेह इवापरः ॥ ७-११६ ॥  
	  
(चन्द्रपीठं)  
	  
महालक्ष्मीं समारभ्य आमहानवमीश्वरि ।	  
कृष्णाष्टम्या आनवमी मधौ शाक्ते मनौ स्मृतम् ॥ ७-११७ ॥  

ऊर्जे तपसि राधे वा शुक्लपक्षस्तु वैष्णवे ।  
एकादश्यन्त ऐशे तु भूतान्तः फाल्गुने स्मृतः ॥ ७-११८ ॥  

भाद्रेऽपि वैघ्नराजे तु माघभाद्रौ स्ववासरात् ।  
अन्येष्वपि च मन्त्रेषु पूर्वोक्तं नवरात्रकम् ॥ ७-११९ ॥  

जपो मातृकया प्रातःकालान्मध्यन्दिनावधि ।	  
रात्रौ याममितः कार्यः पयोमूलफलाहृतिः ॥ ७-१२० ॥  

चतुर्थयामे कर्त्तव्या मालामन्त्रे दशांशतः ।  
विंशांशाद्वा दशांशाद्वा अन्येष्वपि हुतं मतम् ॥ ७-१२१ ॥  

दक्षिणा च यथोक्ता च वित्तशाठ्यं न कारयेत् ।  
एवं मन्त्रः प्रयोगार्हो भवत्येव न संशयः ॥ ७-१२२ ॥  
	  
(साधनसमुच्चये)  
	  
तद्देवतिथिमारभ्य यावत् तद्देवतातिथिः ।	  

प्। ५६५) ऊर्जे कृष्णेतरे पक्षे आरभ्य प्रतिपत्तिथिम् ।
प्रजपेद्वैष्णवं मन्त्रं यावदेकादशीतिथिः ॥ ७-१२४ ॥

होमादिभिः प्रभोज्यान्तं विदध्याद्द्वादशीदिने ।  
विधिनाऽनेन सिद्ध्यन्ति मनवो मुरवैरिणः ॥ ७-१२५ ॥  
	  
(कालिकाकल्पे)  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।	  
शरत्काले चतुर्थ्यादिनवम्यन्तं विशेषतः ॥ ७-१२६ ॥  

भक्तितः पूजयित्वा तु रात्रौ तावत्सहस्रकम् ।  
जपेदेकस्तु विजने केवलं तिमिरालये ॥ ७-१२७ ॥  

अष्टम्यादिनवम्यन्तमुपवासपरो भवेत् ।	  
स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा ॥ ७-१२८ ॥  
	  
शरत्काले देवीपक्षे । तावत्सहस्रं षट्सहस्रम् ।  
(मुण्डमालायाम्)  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।	  
शरत्काले महापूजा क्रियते या च वार्षिकी ॥ ७-१२९ ॥  

तस्मिन् पक्षे विशेषेण पुरश्चरणतत्परः ।  
अष्टम्यादिनवम्यन्तमुपवासपरो भवेत् ॥ ७-१३० ॥  

पूजयेद्भक्तितो रात्रौ षट्सहस्रं जपं चरेत् ।  

अत्र प्रतिपदादिनवम्यन्तं जपो बोध्यः ।
(विश्वसारे)

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-१३१ ॥  

पूजास्थाने विनिक्षिप्य नरमुण्डं तदूर्ध्वके ।  
कोमलासनमास्तीर्य पूजयेत् परदेवताम् ॥ ७-१३२ ॥  

षट्सहस्रप्रमाणेन प्रत्यहं किं न सिद्ध्यति ।  

प्। ५६६) (कालीतन्त्रे)

अथवाऽन्यप्रकारेण पुरश्चरणमिष्यते ॥ ७-१३३ ॥  

कुजे वा शनिवारे वा नरमुण्डं समाहृतम् ।  
पञ्चगव्येन मिलितं चन्दनाद्यैर्विशेषतः ॥ ७-१३४ ॥  

निःक्षिप्य भूमौ हस्तार्धमानतः काननान्तरे ।  
तत्र तद्दिवसे रात्रौ सहस्रं यदि साधकः ॥ ७-१३५ ॥  

एकाकी प्रजपेन्मन्त्रं स भवेत् कल्पपादपः ।  
	  
तत्रैव ।  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-१३६ ॥  

शवमानीयं तद्वारे तेनैव परिखन्येत ।  
तद्दिनान्तदिनं यावत् तावदष्टोत्तरं शतम् ॥ ७-१३७ ॥  

जपेदिति शेषः ।  
	  
स भवेत् सर्वसिधीशो नात्र कार्या विचारणा ।  
	  
तद्वारे इति । पूर्वोक्तशनिभौमवारे । तेनैवेति । हस्तार्धमानेनैवेत्यर्थः ।  
तत्रैव ।  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमिष्यते ॥ ७-१३८ ॥  

अष्टम्यां वा चतुर्दश्यां पक्षयोरुभयोरपि ।  
सूर्योदयात् समारभ्य यावत् सूर्योदयान्तरम् ॥ ७-१३९ ॥  

तावज्जप्त्वा निरातङ्कं सर्वसिद्धीश्वरो भवेत् ।  

अत्र होमादिकमपि कर्त्तव्यं पुरश्चरणत्वश्रुतेः ।  
तन्त्रान्तरे ।  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-१४० ॥	  

सूर्योदयं समारभ्य यावत् सूर्योदयान्तरम् ।  
तावज्जप्त्वा निरातङ्कं सर्वसिद्धीश्वरो भवेत् ॥ ७-१४१ ॥  

अत्र तिथिनियमो नोक्त इति पूर्वस्माद्विशेषः ।	  

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  

प्। ५६७) सूर्यास्तं च समारभ्य सूर्यास्तं यावदेव तु ॥ ७-१४२ ॥

तावज्जप्त्वा निरातङ्कं सर्वसिद्धिश्वरो भवेत् ।  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-१४३ ॥  

सूर्योदयं समारभ्य यावदस्तमयो भवेत् ।  
तावद्भक्त्या जपेद्देवि सर्वसिद्धीश्वरो भवेत् ॥ ७-१४४ ॥  

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  
सूर्यास्तं च समारभ्य यावत् सूर्योदयो भवेत् ॥ ७-१४५ ॥  

तावज्जपेन्महेशानि सर्वसिद्धीश्वरो भवेत् ।  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-१४६ ॥  

शरत्काले चतुर्थ्यादिनवम्यन्तं महेश्वरि ।  
होमरूपां पुरश्चर्यां कुर्यात् सिद्धीश्वरो भवेत् ॥ ७-१४७ ॥  

अथ तर्पणरूपां च पुरश्चर्यां ब्रवीमि ते ।  
दुग्धेनाशवतोयेन रक्तैर्मज्जाभिरेव च ॥ ७-१४८ ॥  

मधुना गन्धतोयेन रक्तधाराभिरेव च ।  
केवलं शुद्धतोयस्य तर्पणेन महेश्वरि ॥ ७-१४९ ॥  

अत्राधिकारिभेदेन तर्पणद्रव्यभेदो बोध्यः ।  
(साधनसमुच्चये)  
	  
प्रतिपद्दिनमारभ्य नवम्यन्तं महोत्सवे ।  
दिवा वा यदि वा रात्रौ षट्सहस्रं जपं चरेत् ॥ ७-१५० ॥	  

देवीं सम्पूज्य विधिवत् सर्वसिद्धीश्वरो भवेत् ।  
	  
तन्त्रान्तरे ।  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-१५१ ॥  

दिवा जपेत् षट्सहस्रं रात्रावपि तथैव च ।  

प्। ५६८) एवं क्रमेण देवेशि सर्वसिद्धीश्वरो भवेत् ॥ ७-१५२ ॥

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  
दिवा जपेत् षट्सहस्रं तावद्धोमं चरेन्निशि ॥ ७-१५३ ॥  

सर्वसिद्धीश्वरो भूयादतोऽन्यं शृणु पार्वति ।  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-१५४ ॥  

नित्यकृत्यं दिवा कृत्वा केवलं तिमिरालये ।	  
रात्रौ जपेद्गानपरः सर्वसिद्धीश्वरो भवेत् ॥ ७-१५५ ॥  

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  
गानमण्डलगो जप्त्वा त्रैलोक्याधिपतिर्भवेत् ॥ ७-१५६ ॥  

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  

दिवा जपेद्दिक्सहस्रं रात्रौ पूजां चरन् जपेत् ॥ ७-१५७ ॥

सहस्रमात्रं प्रजपेदामिषान्नपरायणः ।
सर्वसिद्धीश्वरो भूयोद्वेतालसिद्धिमाप्नुयात् ॥ ७-१५८ ॥

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  
प्रतिपद्विनमारभ्य नवम्यन्तं महेश्वरि ॥ ७-१५९ ॥  

एकान्ते पर्वते शून्ये केवलं तिमिरालये ।  
उदयास्तमयं जप्त्वा सर्वसिद्धीश्वरो भवेत् ॥ ७-१६० ॥  

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  
पर्वते विपिने शून्ये नवरात्रं जितेन्द्रियः ॥ ७-१६१ ॥  

मुण्डोपरि भवेन्मुण्डकपालं च ततोपरि ।  
तत्र दीपं च प्रज्वाल्य दीपालोकनतत्परः ॥ ७-१६२ ॥  

प्। ५६९) नवरात्रं जपेद्देवि दीपालोकनतत्परः ।
मूलमन्त्रं कपालेषु कौमार्या बीजमुत्तमम् ॥ ७-१६३ ॥

सिन्दूरेण कृतं यन्त्रं सर्वसिधीश्वरो भवेत् ।  
	  
(कालीतन्त्रे)  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-१६४ ॥  

अष्टमीसन्धिवेलायामष्टोत्तरलतागृहम् ।  
प्रविश्य मन्त्री विधिवत् ताः समभ्यर्च्य यत्नतः ॥ ७-१६५ ॥  

पूर्वोक्तकल्पमासाद्य पूजादिकं समाचरेत् ।  
केवलं कामदेवोऽसौ जपेदष्टोत्तरं शतम् ॥ ७-१६६ ॥  

तासां च पत्रमूले च जप्त्वा सङ्गृह्य मस्तके ।  
महासिद्धिर्भवेत् सद्यो लतापूजनदर्शनात् ॥ ७-१६७ ॥  

अष्टमीसन्धिवेलायामष्टमीनवम्योः सन्धिवेलायाम् । अष्टोत्तरलतागृहं यथासम्भवमष्टपर्यन्तानां शक्तीनां गृहं मदनमन्दिरम् । पूर्वोक्तकल्पं दूतीयागाख्यम् । पत्रमूले वराङ्गेजप्त्वा बीजं निरस्य तदेव बीजं मस्तके सङ्गृह्य तिलकं कृत्वेत्यर्थः । इदं वीरपरम् । एवमन्येषामपि तत्तन्मार्गपरत्वं सकलसाधारणत्वं च क्रियाविशेषाद्बोद्धव्यम् ।  
	  
तथा �  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  
आकृष्टायाः कुलागारे लिखित्वा मन्त्रमेव च ॥ ७-१६८ ॥  

सम्पूज्य तत्र संस्कारं कृत्वा तस्यै निवेद्य च ।  
किञ्चिज्जप्त्वा मनुं नीत्वा देवताभावतत्परः ॥ ७-१६९ ॥  

तां विसृज्य नमस्कृत्य स्वयं सुप्त्वा सुसंयतः ।	  
प्रातः स्त्रीभ्यो वलिं दत्वा मन्त्रसिद्धिर्न संशयः ॥ ७-१७० ॥  

	  
अत्र पूजनमात्रं न तु सम्भोगोऽपीति ठक्कुराः ।  
तत्रैव ।  
	  
गुरुमानीय संस्थाप्य देववत्पूजनं विभोः ।	  

प्। ५७०) वस्त्रालङ्कारहेमाद्यैः सन्तोष्य गुरुमेव च ॥ ७-१७१ ॥

तत्सुतं तत्सुतां चैव तत्पत्नीं चैव पूज्य च ।  
पूजयित्वा मनुं जप्त्वा स्वयं सिद्धीश्वरो भवेत् ॥ ७-१७२ ॥  
	  
(मेरुतन्त्रे)  
	  
वाममार्गीयमन्त्राणामेवमेवान्यदुच्यते ।	  
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी ॥ ७-१७३ ॥  

देवं ध्यात्वा जपेन्मन्त्रमयुतानां चतुष्टयम् ।	  
दशांशं होमयेत् पश्चात् तर्पयेदभिषेचयेत् ॥ ७-१७४ ॥  
	  
(कल्पलता - ) धृतवचनानि ।  
	  
अष्टम्यां च चतुर्दश्यां नवम्यां च विशेषतः ।	  
रात्रियोगेन देवेशि गत्वा च पितृकानने ॥ ७-१७५ ॥  

दिगम्बरो मुक्तकेशो भूत्वा च सुरसुन्दरि ।	  
प्रजपेदयुतं मन्त्री देवताभावतत्परः ॥ ७-१७६ ॥  

मन्त्रसिद्धिर्भवेत् तस्य देवीपुत्रस्य भूतले ।  
	  
(मुण्डमालायाम्)  
	  
यद्गुह्यं परमं देवि गोप्याद्गोप्यतरं प्रिये ॥ ७-१७७ ॥  

तदेतत् कथयिष्यामि प्रकाशश्च प्रजायते ।  
गोप्तव्यं तु महादेवि रहस्यं यत् तु गद्यते ॥ ७-१७८ ॥  

मनोहरे शुभे गेहे कर्पूरादिसुवासिते ।  
रक्तभित्तिसमालिप्ते रक्तचन्दनमालया ॥ ७-१७९ ॥  

रक्तासनोपविष्टः सन् रक्तपुष्पाणि धारयेत् ।	  
रक्तचन्दनसंलिप्तो रक्तवस्त्रावृतः सदा ॥ ७-१८० ॥  

जपेदयुतमेकं तु रक्तां ध्यायेत् सुरेश्वरीम् ।	  

प्। ५७१) पश्चाद्रक्तवलिं दद्याद्रक्तपुष्पैः समर्चयेत् ॥ ७-१८१ ॥

दशांशं जुहुयाद्रक्तकुमुमैर्वज्रसञ्ज्ञकैः ।  
मधुरत्रयसंसिक्तैः सिन्दूरारुणविग्रहः ॥ ७-१८२ ॥  

कुमारीं भोजेत् पश्चाद्रक्तपुष्पासवादिभिः ।	  
लभते वाञ्छितां सिद्धिमेवं कृत्वा हि साधकः ॥ ७-१८३ ॥  
	  
पुरश्चरणान्तरमाह ।  
	  
अथवा कल्पयेद्गेहे सुधादिधवलीकृते ।	  
शुभ्रासने समाविश्य शुद्धस्फटिकमालया ॥ ७-१८४ ॥  

कर्पूरचन्दनालिप्ते शुभ्राम्बरधरः शुचिः ।  
श्वेतपुष्पैः समभ्यर्च्य ध्यायन् शुभ्रां सुरेश्वरीम् ॥ ७-१८५ ॥  

जपेत् सहस्रदशकं पश्यन्नुद्योतितं जगत् ।  
होमयेत् तद्दशांशेन पुण्डरीकदलैः शुभैः ॥ ७-१८६ ॥  

शर्करामधुसंयुक्तैः सर्पिःसंलोलितैस्तथा ।  
श्वेताम्बरं सितां मालां श्वेतपुष्पादिभूषणम् ॥ ७-१८७ ॥  

श्वेतानुलेपनं तद्वद्दद्याद्विप्राय दक्षिणाम् ।  
कुमारीभ्यस्तथा दद्याद्भोजयेत् ताश्च भक्तितः ॥ ७-१८८ ॥  

स्वयं त्रिमधुरोपेतैः पश्चाद्भुञ्जीत साधकः ।  
निवेद्य पुरतो देव्यै भक्त्या विशुद्धभावतः ॥ ७-१८९ ॥  

एवं कृत्वा पुरश्चर्या ज्ञानवृद्धिकरी परा ।	  
यशोवृद्धिकरी तद्वद्राज्यवश्यकरी तथा ॥ ७-१९० ॥  

प्रसन्नहृदयं तद्वत् साधकं परिकल्पयेत् ।  
अथवाऽन्यप्रकारेण पुरश्चरणकर्मकृत् ॥ ७-१९१ ॥  

लभते वाञ्छितां सिद्धिं तु गुरुभक्तिपरायणः ।	  

प्। ५७२) सिन्दूरेण पुरस्कृत्य मण्डले मन्दिरोदरे ॥ ७-१९२ ॥

तत्राष्टपत्रकमलं लिप्तं सिन्दूररेणुभिः ।	  
पत्राणि पीतहरितसितनीलं क्रमाल्लिखेत् ॥ ७-१९३ ॥  

कर्णिकां च हरिद्रायाश्चूर्णैरालिख्य निर्मलाम् ।	  
तत्रेष्टदेवतां मध्ये पूर्णकुम्भात्मिकां चरेत् ॥ ७-१९३ ॥  

निवेश्य पञ्चरत्नानि पञ्चामृतजलं तथा ।  
रक्तवस्त्रावृतं कुम्भं कृत्वा साधकसत्तमः ॥ ७-१९४ ॥  

नमस्कृत्य गुरुं कुर्यादयुतं जपमुत्तमम् ।  
होमं कुर्यात् प्रयत्नेन विल्वपत्रैः सहस्रकम् ॥ ७-१९५ ॥  

रक्तचन्दनसंसिक्तैः स्फुरत्रिमधुराप्लुतैः ।  
वलिमष्टदले दद्याच्छागरक्तोक्षितैर्नरः ॥ ७-१९६ ॥  

सगुडैः पायसैर्मध्ये मधुलालितमस्तकम् ।	  
छागस्यैवार्चितं पूर्वं रक्तपुष्पस्य मालया ॥ ७-१९७ ॥  

वलिमुत्तममुत्सृज्य निरीक्षेत दिशस्ततः ।  
पलायन्ते वैरिणस्ते भीता एव द्रुतं निशि ॥ ७-१९८ ॥  

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।  
भौमवारे चतुर्दश्यां वलिमादाय मन्दिरात् ॥ ७-१९९ ॥  

श्मशानं समुपागत्य वलिपूजां समाचरेत् ।  
पूर्वोक्तमण्डपं कृत्वा ततो दद्याद्बलिं निशि ॥ ७-२०० ॥  

भैरवं पूजयित्वाऽदौ ततो देवीं समर्चयेत् ।  
व्याघ्राजिनोपविष्तः सन् मुक्तकेशो जपेत् सुधीः ॥ ७-२०१ ॥  

सहस्रदशकं देवि निर्भयोः वीरसत्तमः ।  
ततो नरकपालस्थं वलिं दद्यात् सुरादिकम् ॥ ७-२०२ ॥  

प्। ५७३) भैरवाय नस्कृत्य देव्यै रक्तं सुरां तथा ।
पायसं दधि भक्तं च गुडोदनमथापि वा ॥ ७-२०३ ॥

प्रणमेन्निर्भयो भूत्वा सानन्दो मन्दिरं व्रजेत् ।  
महापातकनिर्मुक्तो जायते राज्यभाजनम् ॥ ७-२०४ ॥  

दुःसहो वैरिवृन्देन व्याख्यावागीश्वरो भवेत् ।  
दृष्ट एव मनोहारी स्त्रीणां काम इवापरः ॥ ७-२०५ ॥  

अथ वा मन्दिरे शून्ये सिन्दूरारुणमण्डले ।  
नारीं चतुर्दशीरात्रौ कृष्णपक्षे निशान्तरे ॥ ७-२०६ ॥  

आनीय रूपसम्पन्नामलङ्कृत्य विभूषणैः ।  
वस्त्रैर्माल्यैरङ्गरागैः समभ्यर्च्य विशेषतः ॥ ७-२०७ ॥  

न्यासं विधाय तस्यां तु यजेदानन्दनन्दिनीम् ।  
भुञ्जन् सौगन्धिकं वस्तु सहस्रं तु शतोत्तरम् ॥ ७-२०८ ॥  

सदुग्धं तु वलिं दद्यात् सुरामधुरमिश्रीतम् ।  
निवेदयेत् तु नैवेद्यं तस्यै भक्तिसमन्वितम् ॥ ७-२०९ ॥  

ततो लभेत त्रैलोक्ये वशीकरणमुत्तमम् ।  
कविताकौशलं सम्यगाकर्षणकरं तथा ॥ ७-२१० ॥  

तस्यामनिन्दितायां तु प्रसन्ना परमेश्वरि ।  
पूर्णानन्दो भवेदस्मान्नियतं साधकोत्तमः ॥ ७-२११ ॥  

एतद्गुह्यतरं देवि न प्रकाश्यं कथं चन ।  
साधकेन महासिद्धिमिच्छता दुर्लभं भुवि ॥ ७-२१२ ॥  

अथवा शृणु देवेशि पुरश्चरणमुत्तमम् ।  
हविष्याशी मुक्तकेशो जपेदयुतमादरात् ॥ ७-२१३ ॥  

प्।५७४) गद्यपद्यमयी वाणी तस्य सर्वविधा भवेत् ।
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-२१४ ॥

दिवा परिस्कृते देवि रात्रौ दीपान् प्रदापयेत् ।  
चतुःषष्टिं चतुर्दिक्षु मध्ये मण्डलमालिखेत् ॥ ७-२१५ ॥  

सिन्दूरैः पटवासैश्च पुनः षोडशपत्रकम् ।  
ततोऽष्टदलमालिख्य मध्ये कुर्याच्च कर्णिकाम् ॥ ७-२१६ ॥  

त्रिकोणद्वयमालिख्य तत्र कुम्भं निधापयेत् ।  
पुनः पञ्चामृतैः पूर्णं दूर्वाम्रादिदलान्वितम् ॥ ७-२१७ ॥  

आच्छाद्य मृदुवस्त्रेण लोहितं च विशेषतः ।  
ततो दिग्बन्धनं कृत्वा द्वीपिचर्मासनस्थितः ॥ ७-२१८ ॥  

उपविश्यावाहयेद्देदीमिष्टां तत्रार्चयेत् ततः ।  
पञ्चोपचारविधिना ततस्तु जपमारभेत् ॥ ७-२१९ ॥  

प्रथमं प्रहरं हित्वा तुरीयं च विवर्जयेत् ।  
मध्ययोर्यामयोर्जप्यादङ्गन्यासादिपूर्वकम् ॥ ७-२२० ॥  

जपान्ते तु वलिं दद्यात् कृष्णच्छागं प्रयत्नतः ।  
ततो जपानुक्रमेण होमादि प्रातराचरेत् ॥ ७-२२१ ॥  

तर्पणं मार्जनं कृत्वा तथा ब्राह्मणभोजनम् ।  
ततः कुमारीं सम्पूज्य साधका।स्तोषयेत् ततः ॥ ७-२२२ ॥  

एवं कृत्वा पुरश्चर्या महासिद्धिकरी सदा ।  
पुरश्चरणकर्तॄणां वश्यगा भैरवी स्वयम् ॥ ७-२२३ ॥  

सिद्धमन्त्रप्रभावेण त्रैलोक्यं वशमानयेत् ।  
अपरं तु प्रवक्ष्यामि पुरश्चरणमुत्तमम् ॥ ७-२२४ ॥  

प्। ५७५) शृणु शैलसुते देवि शीघ्रं शीघ्रफलप्रदम् ।
कृष्णां चतुर्थीमारभ्य यावच्छुक्लचतुर्थिका ॥ ७-२२५ ॥

प्रयतस्तु जपेन्मन्त्रं योषिन्नियमपूर्वकम् ।  
ततो होमादिकं कार्यं ततः पूर्णं भवेदिदम् ॥ ७-२२६ ॥  

सोत्साहं तु ततो देवीं ध्यात्वा सुस्थो जपं चरेत् ।  
ततः सिद्धिमवाप्नोति वाञ्छितां मन्त्रसाधकः ॥ ७-२२७ ॥  

अथवा पुष्पशय्यानां मृदुवासाः सुभूषणः ।  
कृत्वाऽङ्गरागं सानन्दस्त्रयोदश्यां कुजे दिने ॥ ७-२२८ ॥  

व्यभिचारवतीं नारीं विभूष्यानीय सन्निधिम् ।  
पुष्पेण तां समालम्ब्य जपेदेकान्तमन्दिरे ॥ ७-२२९ ॥  

प्रवालमालया धीमान् मौक्तिकस्याक्षमालया ।	  
यथाशक्ति जपेन्मन्त्रं ततो देव्यै वलिं ददेत् ॥ ७-२३० ॥  

पायसं मधुसर्पिर्भ्या सितावलितमुत्तमम् ।  
सुगन्धकुसुमैर्मालां निर्माय नवपल्लवैः ॥ ७-२३१ ॥  

निवेद्य देव्यै तां मालां तस्याः केशे निधाय च ।	  
न काचित् कामचेष्टां च विदध्यात् साधकोत्तमः ॥ ७-२३२ ॥  

तस्यै भूषादिकं दत्वा पुरो देव्यै निवेदयेत् ।  
देव्यै दत्वा विशेषेण ततस्तां तु विसर्जयेत् ॥ ७-२३३ ॥  

रात्रिशेषं ततो विद्वान् जागरेण समापयेत् ।  
कृतमेवंविधं कर्म देव्या हर्षविवर्द्धकम् ॥ ७-२३४ ॥  

साधको लभते सिद्धिमेवं कृत्वा तु मन्त्रतः ।  
एतत् तु सुकरं कर्म धैर्याधीनं सुरेश्वरि ॥ ७-२३५ ॥  

प्। ५७६) कथितं ते सुगोप्यं हि न प्रकाश्यं कथञ्चन ।
कौतुकार्थं किञ्चिदन्यत् कथयिष्यामि पार्वति ॥ ७-२३६ ॥

साधकः करणाद्यस्य सर्वलोकप्रियो भवेत् ।  
मण्डलं पुरतः कृत्वा हरिद्राचूर्णनिर्मितम् ॥ ७-२३७ ॥  

चतुर्द्वारि शुभां रम्भां स्थापयेत् तां दलान्विताम् ।	  
तासु दीपावलिं दत्वा कौशलेन विशेषतः ॥ ७-२३८ ॥  

अष्टम्यां प्रातरारभ्य तदहोरात्रकं जपेत् ।	  
बलिं च विधिवद्दत्वा होमाद्यन्तं समाचरेत् ॥ ७-२३९ ॥  

विधायोपोषणं प्रातर्दक्षिणान्तां क्रियां चरेत् ।	  
महासिद्धिं लभेन्मन्त्री हरितालकरः परः ॥ ७-२४० ॥  

सुगोप्यमेतत् सर्वं हि कथितं तव भामिनि ।  
	  
(कालीतन्त्रे)  
	  
अथवा विजने रम्ये अस्थिशय्यासने नरः ॥ ७-२४१ ॥  

उभयास्तं मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् ।  
निजे क्रोडे बिल्वमूले शवमारोप्य यत्नतः ॥ ७-२४२ ॥  

नृसिंहमुद्रया वीक्ष्य जपेन्मातृकया नरः ।  
सहस्रं तत्र जप्त्वा तु सर्वसिद्धीश्वरो भवेत् ॥ ७-२४३ ॥  
	  
(भैरवतन्त्रे)  
	  
अष्टाधिकं च साहस्रं कृत्वा प्रतिदीनं जपेत् ।	  
षण्मासात् सिद्धिसंयुक्तः कविर्विद्यानिधिर्भवत् ॥ ७-२४४ ॥  
	  
तन्त्रान्तरे ।  
	  
महापितृवने नक्तं शवशय्यासनस्थितः ।	  
षट्सहस्रं जपेन्मन्त्री सर्वसिद्धीश्वरो भवेत् ॥ ७-२४५ ॥  

प्। ५७७) एतत् त्रितयनपि प्रथमविद्याविषयम् ।
(साधनमुच्चये)

या तिथिर्यस्य देवस्य तस्यां वा साधकोत्तमः ।	  
सूर्योदयं समारभ्य यावदस्तमयो भवेत् ॥ ७-२४६ ॥  

सूर्यास्तं वा समारभ्य यावत् सूर्योदयो भवेत् ।	  
तवत्कालं जपेन्मन्त्रं पुरश्चर्येयमीरिता ॥ ७-२४७ ॥  

होमादिविप्रभोज्यान्तं कर्त्त्व्यं पूर्ववद्बुधैः ।  
	  
(अगस्त्यसंहितायाम्)  
	  
चैत्रे मासि नवम्यां तु जातो रामः स्वयं हरिः ॥ ७-२४८ ॥  

पुनर्वस्वृक्षसंयुक्ता सा तिथिः सर्वकामदा ।  
	  
तथा �  
	  
तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ॥ ७-२४९ ॥  

जपेदेकान्त आसीनो यावत् स्याद्दशमीदिनम् ।  
तेनैव स्यात् पुरश्चर्या दशम्यां भोजयेद्द्विजान् ॥ ७-२४० ॥  

भक्ष्यभोज्यैर्बहुविधैर्भक्त्या दद्याच्च दक्षिणाम् ।	  
कृतकृत्यो भवेत् तेन सद्यो रामः प्रसीदति ॥ ७-२४१ ॥  
	  
तिथिनिर्णयमाह ।  
	  
चैत्रे शुद्धा तु नवमी पुनर्वसुयुता यदि ।	  
सैव मध्यान्हयोगेन महापुण्यतमा भवेत् ॥ ७-२४३ ॥  

नवमी चाष्टमी विद्धा त्याज्या विष्णुपरायणैः ।	  
उपोषणं नवम्यां वै दशम्यामेव पारणम् ॥ ७-२४४ ॥  
	  
(वाडवानलीये)  
	  
वक्ष्ये तत्राप्यशक्तानां पुरश्चरणमुत्तमम् ।  

प्। ५७८) पक्षाद्यां तिथिमारभ्य यावत् तद्देवतातिथिः ॥ ७-२४६ ॥

तावज्जपेद्वर्णमय्या मालया प्रहरद्वयम् ।	  
जपान्ते पूजनं कुर्यात् प्रत्यहं हवनादिकम् ॥ ७-२४७ ॥  

यस्य कस्यापि मन्त्रस्य पुरश्चरणमिष्यते ।  

तत्रेति पूर्वोक्तलक्षजपरूपपुरश्चरण इत्यर्थः ।  
अथ ग्रहणकालीनपुरश्चरणम् । तदुक्तं (मेरुतन्त्रे)  
	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-२४८ ॥  

ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ।	  
नद्यां समुद्रगामिन्यां नाभिमात्रे जले स्थितः ॥ ७-२४९ ॥  

स्पर्शाद्विमुक्तिपर्यन्तं जपेन्मन्त्रं समाहितः ।  
तावत्कालं जपित्वेत्थं ततो होमादिकं चरेत् ॥ ७-२५० ॥  

ब्राह्मणान् भोजयेत् पश्चात् पुरश्चर्यासमं त्विदम् ।	  
प्रायश्चित्ते प्रयोगस्य प्रत्यवायस्य नाशने ॥ ७-२५१ ॥  

येषां जपे च होमे च सङ्ख्या तन्त्रेषु नोदिता ।	  
तत्र सेयं पुरश्च्र्या सर्वतन्त्रेषु गोपिता ॥ ७-२५२ ॥  
	  
तन्त्रान्तरेऽपि ।  
	  
ग्रहणे चन्द्रसूर्यस्य शुचिः पूर्वमुपोषितः ।	  
नद्यां समुद्रगामिन्यां नाभिमात्रे जले स्थितः ॥ ७-२५३ ॥  

यद्वा शुद्धोदके स्नात्वा शुचौ देशे समाहितः ।	  
स्पर्शाद्विमुक्तिपर्यन्तं जपं कुर्यादनन्यधिः ॥ ७-२५४ ॥  

अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ।  
तदन्ते महतीं पूजां कुर्याद्ब्राह्मणभोजनम् ॥ ७-२५५ ॥  

ततो मन्त्रस्य सिद्ध्यर्थं गुरुं सम्पूज्य तोषयेत् ।  
ततः प्रयोगान् कुर्वीत मन्त्रवित् कल्पनोदितान् ॥ ७-२५६ ॥  

प्। ५७९) (कालीतन्त्रे)

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।	  
चन्द्रसूर्यग्रहे चैव ग्रासावधि विमुक्तितः ॥ ७-२५७ ॥  

यावत्सङ्ख्यं मनुं जप्त्वा तावद्धोमादिकं चरेत् ।  
	  
(सनत्कुमारसंहितायाम्)  
	  
अथवाऽन्यप्रकारेण पौरश्चरणिको विधिः ॥ ७-२५८ ॥  

चन्द्रसूर्योपरागे च स्नात्वा प्रयतमानसः ।	  
संस्पर्शादिविमोक्षान्तं जपेन्मन्त्रमनन्यधीः ॥ ७-२५९ ॥  

दृष्ट्वा स्नात्वा च सङ्कल्प्य विमोक्षान्तं जपं चरेत् ।	  
तावद्धोमादिकं कुर्याद्ग्रहणान्ते शुचिः पुमान् ॥ ७-२६० ॥  

एवं जपान्मन्त्रसिद्धिर्भवत्येव न संशयः ।  
	  
तावदिति यावान् जपो जात इत्यर्थः ।  
तदुक्तं (सिद्धेश्वरीमतेऽपि)  
	  
चन्द्रसूर्यग्रहे देवि ग्रासावधि विमुक्तितः ॥ ७-२६१ ॥  

यावत्सङ्ख्यमनुर्जप्तस्तावद्धोमादिकं चरेत् ।	  
पञ्चाङ्गं तावदेव स्याज्जपहोमौ समौ स्मृतौ ॥ ७-२६२ ॥  

सिद्धेश्वरीमतं प्रोक्तं सर्वसिद्धिप्रदायकम् ।  
	  
(चन्द्रपीठमन्त्रदेवप्रकाशिकरत्नावल्ल्यादौ)  
	  
उपवासत्रयं कृत्वा एवं वा शक्त्यपेक्षया ॥ ७-२६३ ॥  

श्राद्धादि चातिसङ्क्षेपाद्ग्रहणे स्पर्शमात्रतः ।	  
समुद्रगायां सरिति कण्ठमात्रे जले स्थितः ॥ ७-२६४ ॥  

जपं कुर्यादुद्ग्रहान्तं होमाद्यं तद्दशांशतः ।	  
सम्पूर्णां दक्षिणां दत्वा मन्त्रसिद्धिमवाप्नुयात् ॥ ७-२६५ ॥  

ततः प्रयोगान् कुर्वीत मन्त्रवित् कल्पनोदितान् ।  

प्। ५८०) (तन्त्रचिन्तामणि) धृततन्त्रान्तरवचनानि ।

अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-२६६ ॥  

सूर्यचन्द्रोपरागे तु नाभिमात्रोदके स्थितः ।  
ग्रासाद्विमुक्तपर्यन्तं जपं कुर्यान्महेश्वरि ॥ ७-२६७ ॥  

तद्दशांशं होमयेद्धि तद्दशांशैस्त्रयं क्रमात् ।	  
अनेन क्रमयोगेन सङ्गमे सञ्जपेच्च वा ॥ ७-२६८ ॥  

एकाङ्गुष्ठोपरि स्थित्वा ग्रासावधि विमुक्तितः ।	  
पञ्चाङ्गं चाथ वाऽष्टाङ्गं दशाङ्गाख्यपुरस्क्रियाम् ॥ ७-२६९ ॥  

कुर्याद्यत्नेन देवेशि सर्वसिद्धीश्वरो भवेत् ।	  
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ७-२७० ॥  

ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ।	  
घटिकार्धं पूर्वमेव ग्रहणं परिवर्त्तते ॥ ७-२७१ ॥  

तदा स्नानं विधातव्यं ग्रस्ते सङ्कल्पमाचरेत् ।	  
जाताशौचं मृताशौचं ग्रहणे नास्ति पार्वति ॥ ७-२७२ ॥  

विमोक्षान्तं जपं कुर्यात् सम्यग्ज्ञाते समापनम् ।	  
सूर्ये छन्ने अनायातघटिकार्धं विचारयेत् ॥ ७-२७३ ॥  

ततः समापनं कुर्यात् सिद्धमन्त्रो भवेद्ध्रवम् ।	  
प्रमादाद्गलिते यागे बहुविप्रान् प्रभोजयेत् ॥ ७-२७४ ॥  

यद्यदङ्गं विहीयेत तत्साङ्गे द्विजभोजनम् ।	  
दशांशं हवनं कुर्यात् तर्पणं तद्दशांशतः ॥ ७-२७५ ॥  

मार्जनं तद्दशांशेन दशांशेनाभिषेचनम् ।	  
दशांशं विप्रभोज्यं च देवरूपो नरो भवेत् ॥ ७-२७६ ॥  

यद्यदङ्गं विहीयेत तत्सङ्ख्याद्विगुणो जपः ।  

प्। ५८१) द्वित्रिवेदबाणभेदैर्विप्रदीनां क्रमः स्मृतः ॥ ७-२७७ ॥

(वाडवानलीये)  
	  
चन्द्रसूर्योपरागे च जपेन्मन्त्रमनन्यधीः ।	  
स्पर्शाद्विमुक्तपर्यन्तं तावद्धोमादिकं चरेत् ॥ ७-२७८ ॥  

अथवा तद्दशांशेन पुरश्चरणमुच्यते ।  
	  
अत्र स्पर्शपदं स्पर्शज्ञानपरम् ।  
	  
चक्षुषा दर्शनं राहोर्यत् तद्ग्रहणमुच्यते ॥ ७-२७९ ॥  

तत्र कर्माणि कुर्वीत गणनामात्रतो न हि ।  
	  
इति स्मार्त्तवचनात् ।  
तथा च ।  
	  
सूर्यग्रहणकालादिर्नान्यः कालः प्रशस्यते ॥ ७-२८० ॥  

यस्तु श्राद्धानुरोधेन ग्रहणे चन्द्रसूर्ययोः ।  
न करोति पुरश्चर्यां नरके स विपच्यते ॥ ७-२८१ ॥  
	  
इत्यादिवचनान्मन्त्रिणां ग्रहणपुरश्चरणमावश्यकम् ।  
	  
सर्वस्वेनापि कर्त्तव्यं श्राद्धं वै राहुदर्शने ।	  
अकुर्वाणस्तु नास्तिक्यात् पङ्के गौरिव सीदति ॥ ७-२८२ ॥  
	  
श्राद्धकरणे स्मार्त्तनिन्दार्थवादस्तु दीक्षितान्यपर इति सुधार्णवकृतः ।  
तदुक्तं सनत्कुमारेणापि ।  
	  
जपयज्ञं परित्यज्य पितृयज्ञं करोति यः ।	  
स भवेद्देवताद्रोही पितॄन् सप्त नयत्यधः ॥ ७-२८३ ॥  
	  
इति केचित् प्रतिनिधिद्वारा श्राद्धमामनन्ति ।  
अन्ये तु ।  
	  
अन्नाभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।	  
हेमश्राद्धं सग्रहे च शूद्रः कुर्यात् स एव हि ॥ ७-२८४ ॥  
	  
इति वचनाद्धेमश्राद्धं विधाय पुरश्चरणमाचरन्ति । हेमश्राद्धं च पित्रुद्देशेन यथाशक्तिसुवर्णदानम् ।  

प्। ५८२) कल्पलताकृतस्तु �
जपयज्ञं परित्यज्येत्यादिसनत्कुमारवचनमारब्धपुरश्चरण-मध्ये मध्याह्नपतितसूर्यग्रहणविषयमित्याहुः ।
वस्तुतः स्मार्त्तानां श्राद्धं तान्त्रिकाणां तु पुरश्चरणमावश्यकम् ।

तान्त्रिकस्तु जपं कुर्यात् स्मार्त्तः श्राद्धं समाचएत् ।  
	  
इति (सिद्धान्तसार)वचनात् ।  
ग्रहणपुरश्चरणसङ्कल्पस्तु-  

ॐ अद्येत्यादिराहुग्रस्ते दिवाकरे निशाकरे वाऽमुकगोत्रोऽमुक-शर्माऽमुकदेवताया अमुकमन्त्रसिद्धिकामो ग्रासाद्विमुक्तिपर्यन्तं जपरूपपुरश्चरणमहं करिष्ये � इति ।  
अत्र केचित् ।  
	  
जपो होमस्तर्पणं च मार्जनं विप्रभोजनम् ॥ ७-२८५ ॥  

पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते ।  
	  
तथा �  
	  
सिद्धिकामोऽस्य मन्त्रस्य यावत्सङ्ख्यं जपं ततः ॥ ७-२८६ ॥  

दशांशं हवनं कुर्यात् तद्दशांशं तु तर्पणम् ।  
दशांशं मार्जनं कुर्याद्दशांशं विप्रभोजनम् ॥ ७-२८७ ॥  
	  
इत्यादिवचनादेकसङ्कल्पान्तरे तु पञ्चाङ्गोपासनमेव पुरश्चरणम् । ग्रहणपुरश्चरणादौ तु पुरश्चरणपदं भाक्तम् । तस्य जपमात्ररूपत्वादेकसङ्कल्पान्तरितपञ्चाङ्गोपासनत्वाभावात् । तत्र होमादिविधानं तु प्रधानीभूतपुरश्चरणतुल्यताबोधनायेत्याहुस्तच्चिन्त्यम् ।  
	(मेरुतन्त्रादौ) मुख्यपुरश्चरणेऽपि प्रथमतो जपमात्रसङ्कल्पोक्तत्वात् । मन्त्रमार्गादिभेदेन न्यूतातिरिक्ताङ्गस्य पुरश्चरणस्य च तत्रैवोक्तत्वादेव सङ्कल्पान्तरितपञ्चाङ्गोपासनस्यैव पुरश्चरणपदवाच्यत्वे प्रमाणाभावात् । पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यत इत्यादिवचनं च येषां मन्त्राणां पञ्चाङ्गमेव पुरश्चरणं तन्मन्त्रपुरश्चरणपरं न तु मन्त्रसामान्यपुरश्चरणपरम् । एकेनैव वाक्येन साङ्गजपसङ्कल्पस्तु लाघवार्थः ।  
(साधनसमुच्चये)  
	  
दोषादल्पाद्भयं हित्वा ज्योतिःशास्त्रनिरूपितम् ।	  

प्। ५८३) राहुं दृष्ट्वा जपं कुर्यात् कोटिपुण्यफलप्रदम् ॥ ७-२८८ ॥

ज्योतिःशास्त्रोक्तदोषप्रतीकारोऽप्युक्तस्तत्रैव ।  
	  
निम्राय राजतं चन्द्रं सौवर्णं च दिवाकरम् ।  
	  
पञ्चोपचारैरभ्यर्च्य दद्याद्विप्राय बुद्धिमान् � इति ॥  
	  
तथा �  
	  
ग्रासाद्विमुक्तिपर्यन्तं यदा सङ्कल्पितो जपः ॥ ७-२८९ ॥  

ग्रस्तास्ते शास्त्रतो ज्ञात्वा विमुक्तिं जपमुत्सृजेत् ।  
अदृष्ट्वा नैव भुञ्जित सूर्यं वा रजनीकरम् ॥ ७-२९० ॥  
	  
तथा �  
	  
यामत्रयं न भोक्तव्यं चन्द्रग्रहणपूर्वतः ।	  
सूर्यग्रहणतः पूर्वं प्रहराणां चतुष्टयम् ॥ ७-२९१ ॥  
	  
यत् तु (मत्स्यपुराणे)  
	  
अपराह्णे न मध्याह्ने मध्याह्ने न तु सङ्गवे ।	  
भुञ्जीत चेत् सङ्गवे स्यान्न पूर्वं भुक्तिमाचरेत् ॥ ७-२९२ ॥  
	  
इति वचनं तद्बालवृद्धातुरविषयम् ।  
तदुक्तं वृद्धवसिष्ठेन ।  
	  
सूर्यग्रहे तु नाश्नीयात् पूर्वं यामचतुष्टयम् ।  
	  
चन्द्रग्रहे तु यामा।स्त्रीन् बालवृद्धातुरैर्विना � इति ॥  

अथ वर्णौषधिपुरश्चरणम् ।

(मेरुतन्त्रे)  
	  
अयोग्यगुरुतो लब्ध्वा वार्यादिस्थानमाश्रिताः ॥ ७-२९३ ॥  

दुर्देशत्वात् पुरश्चर्यां कर्त्तुं चेच्छक्यते न हि ।	  
राज्ञो भाग्यमतो वाऽपि सुकुमारस्य वा यथा ॥ ७-२९४ ॥  

सिद्धिर्भवेत् तथा वक्ष्ये वर्णौषधिपुरस्क्रियाम् ।  
सप्तधा सा परिज्ञेया वर्णमासैस्तु सिद्धिदा ॥ ७-२९५ ॥  

मन्त्रवर्णौषधीकाष्ठै रचयेद्गुटिकाः शुभाः ।	  

प्। ५८४) वर्णक्रमेण ताः प्रोह्या अनुलोमविलोमतः ॥ ७-२९६ ॥

स्थूलादिकाश्च लघ्वन्ताः कर्त्तव्या मणयो यथा ।	  
सर्पद्वयाकृतिर्माला भवेन्नित्यं तया जपेत् ॥ ७-२९७ ॥  

मालया मणिसङ्ख्याकं प्रथमोऽयं जपः स्मृतः ।  
सर्वे समाना मणयः प्रोतव्याः स्वर्णसूत्रके ॥ ७-२९८ ॥  

कण्ठे धार्या कण्ठमाला नित्यमेष द्वितीयकः ।  
तथैव राजते सूत्रे प्रोह्यैताः परिपूजयेत् ॥ ७-२९९ ॥  

तद्देवकल्पमार्गेण प्रक्रमोऽयं तृतीयकः ।  
वर्णौषधीनां क्वाथेन नित्यस्नानं चतुर्थकः ॥ ७-३०० ॥  

वर्णौषधीरजो लिह्याद्गोघृतेन तु पञ्चमः ।  
तच्चूर्णोद्वर्त्तनं कुर्यादेष षष्ठः प्रकीर्त्तितः ॥ ७-३०१ ॥  

तद्भस्मधारणं नित्यं कुर्यादिति तु सप्तमः ।  
	  
वर्णौषध्यस्तु प्रागुक्ताः ।  

अथवीरपुरश्चरणम् ।

अत्र रात्रिरेव कालो न दिवसस्तदुक्तं (मुण्डमालायाम्)  
	  
गते तु प्रथमे यामे तृतीयप्रहरावधि ॥ ७-३०२ ॥  

प्रजप्तव्यं निशायां तु रात्रिशेषे जपेन्न च ।	  
हविष्यं भक्षयेन्नित्यमेकभक्तं सुसंयतः ॥ ७-३०३ ॥  
	  
(कुलचूडामणौ)  
	  
पुरश्चरणकाले तु परशक्तिं प्रपूजयेत् ।	  
दीक्षितो वस्त्रपुष्पाद्यैर्भोज्यैः पायससम्भवैः ॥ ७-३०४ ॥  

शून्यगेहे समानीय चार्घोदकविशोधितम् ।  
अमृतीकरणं कृत्वा शक्तीरभिमुखं नयेत् ॥ ७-३०५ ॥  
	  
समानीयशक्तिपूजोपयुक्तद्रव्याद्यमृतीकरणं तेषामेव ।  

प्। ५८५) तथा �

अर्घोदकेन सर्वास्ताः सम्प्रोक्ष्य विधिपूर्वकम् ।  
अमृतीकरणं कुर्यात् सकलीकरणं ततः ॥ ७-३०६ ॥  
	  
अत्रामृतीकरणादिकं शक्तीनाम् ।  
पूज्यशक्तीराह ।  
	  
अथाष्ट कन्यका वक्ष्ये देवीरूपधरा यतः ।	  
ब्राह्मणी क्षत्रीया वैश्या शूद्रा च कुलभूषणा ॥ ७-३०७ ॥  

वेश्या नापितकन्या च रजकी योगिनी तथा ।  
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः ॥ ७-३०८ ॥  

अष्टकन्यारुपभेदं विलोक्यामर्षचेष्टिताः ।  
ब्राह्मण्याद्यष्टशक्तीनां नामभिः कृतसञ्ज्ञकाः ॥ ७-३०९ ॥  

गौरकृष्णादिकं रूपं सौम्यत्वं च गुणादिकम् ।  

शक्तीनां नामानि वक्ष्यमाणस्तोत्र एव वक्तव्यानि ।  
पूजाप्रकारमाह ।  
	  
आसनं प्रथमं दत्वा स्वागतं च वदेत् पुनः ॥ ७-३१० ॥  

अर्घ्यं पाद्यं च पानीयं मधुपर्कं जलं ततः ।	  
स्नापयेद्गन्धपुष्पाद्भिः केशसंस्कारमाचरेत् ॥ ७-३११ ॥  

धूपयित्वा ततः केशं कौशेयं विनिवेदयेत् ।  
ततः स्नानान्तरे पीठमास्तीर्य पादुकाद्वयम् ॥ ७-३१२ ॥  

दत्वा तत्र समासीनां नानालङ्कारभूषणैः ।  
भूषयित्वाऽनुलेपं च गन्धमाल्यं निवेदयेत् ॥ ७-३१३ ॥  

तां तां शक्तिं समावाह्य मूर्ध्नि तासां समानयेत् ।  
भोज्यमण्डपमध्ये तु स्वर्णपात्रे सुशोभने ॥ ७-३१४ ॥  

चर्व्यं चोष्यं लेह्यपेयं भोज्यं चैव हि भक्षणम् ।  
अदिक्षिता यदा स्युस्तास्तदा मायां निवेदयेत् ॥ ७-३१५ ॥  
	  
तां तामिति । यस्य नाम्ना या सङ्केतिता तस्याः शिरसि तां शक्तिमावाह्य पूजयेदित्यर्थः । इदं चावाहनं मध्येऽप्युक्तमादावेवार्हति सर्वत्र तथा दर्शनात् ।  
	  
तत्रासां सव्यकर्णेषु ततः स्तोत्रं समाचरेत् ।	  
मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ॥ ७-३१६ ॥  

कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छमे ।  
माहेशी वरदे देवि परमानन्दरूपिणि ॥ ७-३१७ ॥  

कृपया ० � � � � � � � � � � � � � � � � � � � � ।	  
कौमारि सर्वविघ्नेशि कुमारक्रीडनेऽवरे ॥ ७-३१८ ॥  

कृपया० � � � � � � � � � � � � � � � � � � ।	  
विष्णुरूपधरे देवि महागरुडवाहिनि ॥ ७-३१९ ॥  

कृपया० � � � � � � � � � � � � � � � � � � � � ।  
वाराहि वरदे देवि दंष्ट्रोद्धृतवसुन्धरे ॥ ७-३२० ॥  

कृपया० � � � � � � � � � � � � � � � �� � ।  
शक्ररूपधरे देवि शक्रादिसुरपूजिते ॥ ७-३२१ ॥  

कृपया० � � � � � � � � � � � � � � � � � � � � � � ।	  
चामुण्डे मुण्डमालासृक्चर्चिते विघ्ननाशिनि ॥ ७-३२२ ॥  

कृपया०� � � � � � � � � � � � � � � � � � � � � �� ।	  
महालक्ष्मि महामोहक्षोभसन्तापनाशिनि ॥ ७-३२३ ॥  

कृपया० � � � � � � � � � � � � � � � � � ।  
पितृमातृमये देवि पितृमातृबहिस्कृते ॥ ७-३२४ ॥  

एके बहुतरे देवि विश्वरूपे नमोऽस्तु ते ।  

प्। ५८७) एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भे सु संयतः ॥ ७-३२५ ॥

विदग्धां वा समालोक्य तस्य विघ्नो न जायते ।  
यदि व्रीडापरास्तास्तु भोजने तद्गृहाद्बहिः ॥ ७-३२६ ॥  

स्थित्वा स्तोत्रं पठेत् तावद्यावत् तृप्तिः प्रजायते ।	  
आचम्य मुखवासादि ताम्बूलं च निवेदयेत् ॥ ७-३२७ ॥  
	  
तथा �  
	  
ततो दद्यात् पुनर्मालां चन्दनं पङ्कितं शुभम् ।	  
विसृज्य प्रदक्षिणीकृत्य वरं पार्थ्य सुखी भवेत् ॥ ७-३२८ ॥  

अन्या यदि न गच्छन्ति निजकन्या निजानुजा ।  
अग्रजा मातुलानी वा जननी तत्सपत्निका ॥ ७-३२९ ॥  

वयस्या ज्ञातिजा वाऽपि निःपतिर्वा सभर्तृका ।	  
पूर्वाभावे परा पूज्या मदंशा योषितो यतः ॥ ७-३३० ॥  

एका चेद्युवती तत्र पूजिता वा विलोकिता ।  
सर्वा एव तदा देव्यः पूजिताः कुलभैरव ॥ ७-३३१ ॥  
	  
इदं च पुरश्चरणस्यादौ मध्ये चान्ते च कर्त्तव्यम् ।  
तथा हि तत्रैव ।  
	  
आदावन्ते च मध्ये च लक्षपूर्तौ विशेषतः ।	  
न पूजयति चेत् कान्तां तदा विघ्नैर्विलुप्यते ॥ ७-३३२ ॥  
	  
(वीरचूडामणौ)  
	  
क्षेत्रमादौ तु संशोध्य समसूत्रं मनोहरम् ।	  
वेदिकां कारयेत् तत्र मध्ये मुण्डं विनिःक्षिपेत् ॥ ७-३३३ ॥  

अलिना लेपनं कुर्यान्मध्ये चाष्टदलं लिखेत् ।  
पूर्वादिक्रमतो ज्ञेयं स्वरयुग्मं लिखेत् क्रमात् ॥ ७-३३४ ॥  

वर्गाष्टकं लिखेत् तत्र मध्ये प्रासादमालिखेत् ।  

प्। ५८८) गगनं बिन्दुसंयुक्तं लाङ्गलीशं तथैव च ॥ ७-३३५ ॥

सविसर्गं वरारोहे केशरेषु लिखेत् ततः ।  
तत्राधारादि सम्पूज्य आसनं स्थापयेद्बुधः ॥ ७-३३६ ॥  

उपविश्यासने वीरो यत्र कुत्राप्यचूडके ।  
पार्ष्णिघातत्रयं कुर्याच्छोटिकात्रितयं ततः ॥ ७-३३७ ॥  

दिग्बन्धमस्त्रमन्त्रेण पूर्वादिक्रमतो बुधः ।
वकेशान्ते पिनाकीशं नादविन्दुविभूषितम् ॥ ७-३३८ ॥

पशुपदं समुच्चार्य रमान्तेऽस्त्रमनूत्तमम् ।	  
पाशुपताख्यविद्येयं सर्वविघ्नविनाशिनी ॥ ७-३३९ ॥  
	  
वकेशः शकारः । पिनाकीशो लकारः ।  
	  
भूतशुद्धिं विधायादौ न्यासपूर्वं विधानतः ।  
	  
तथा-  
	  
गोमयेन विलिप्तायां भूमौ मण्डलमालिखेत् ॥ ७-३४० ॥  

अलिना लेपनं कुर्याद्यक्षकर्दमकेन वा ।  
सूत्रेण सूत्रितं पद्मं समसूत्रं मनोहरम् ॥ ७-३४१ ॥  

रक्तं श्वेतं हरिद्वर्णं कृष्णपत्रं सुकेशरम् ।  
चतुरस्रं सुशोभाढ्ये तन्मध्ये योनियुग्मकम् ॥ ७-३४२ ॥  

त्रिकोणं चैव तन्मध्ये शून्ये शून्यं विचिन्तयेत् ।  
योजयेद्दीपितां नारीं तत्र सम्पूजयेन्मनुम् ॥ ७-३४३ ॥  

तत्रैव देवीं संस्थाप्य ईषद्धासां सुलोचनाम् ।	  
षोडशाब्देन युवतीमप्रसूतां तपस्विनीम् ॥ ७-३४४ ॥  

स्वाधीनां स्वच्छवस्त्रां च भीतिहीनादृहासिनीम् ।	  
तीव्रशुद्धिं दृढाचारां मुक्तकेशीं दिगम्बराम् ॥ ७-३४५ ॥  

योगमुद्राधरां वाऽपि योगाचारपरायणाम् ।  

प्। ५८९) ईदृशीं मन्त्रसंयुक्तां यागकाले प्रपूजयेत् ॥ ७-३४६ ॥

मातङ्गीं तन्तुकारीं च भवाब्धिभीतिनाशिनीम् ।  
षट्वाकारीं चर्मकारीं शिल्पिनीं नापिताङ्गनाम् ॥ ७-३४७ ॥  

हदृनारीं विशेषात् तु सुपुष्पकेण कोमलाम् ।  
सामान्यार्घं विशेषाघ स्वपात्रं शक्तिपात्रकम् ॥ ७-३४८ ॥  

तन्मध्य निःक्षिपेद्द्रव्यं सामरस्यामृतोद्भवम् ।  
तत्त्वपञ्चकमन्त्रेण एकैकं शोधयेद्बुधः ॥ ७-३४९ ॥  

वह्निसूर्यकलाचन्द्रकलान्ते हृदयं मनुम् ।  
त्रिकोणं विलिखेन्मध्ये त्रिकोणमकथादिकम् ॥ ७-३५० ॥  

खान्तं षान्तं तथा नान्तं यान्तं धान्तं सशत्रुकम् ।  
वामकर्णसमायुक्तं विन्दुनादैरलङ्कृतम् ॥ ७-३५१ ॥  

रत्नेश्वरीति विद्याख्यं पञ्चरत्नात्मकं मनुम् ।  
षडङ्गेनैव सम्पूज्य मूलमन्त्रेण मन्त्रयेत् ॥ ७-३५२ ॥  
	  
(स्वतन्त्रतन्त्रे)  
	  
रात्रौ मांसासवैर्देवीं पूजयित्वा विधानतः ।	  
ततो नग्नां स्त्रियं नग्नो रमन् क्लेदयुतोऽपि वा ॥ ७-३५३ ॥  

जपेल्लक्षं ततो देवीं होमयेज्ज्वलितानले ।  
योनिकुण्डे स्थितं सर्पिर्मत्स्यं मांसं फलं तथा ॥ ७-३५४ ॥  

दशांशं तर्पयेन्मद्यं मांसमिश्रैस्तु साधकः ।  
तर्पणस्य दशांशं तु अभिषिञ्च्य जगन्मयीम् ॥ ७-३५५ ॥  

दशांशं भोजयेत् साधु साधकं कालिकाप्रियम् ।	  
मद्यं मांसं च मत्स्यं च चर्वणं च प्रदापयेत् ॥ ७-३५६ ॥  

ततस्तु तोपयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये ।  

प्। ५९०) (तन्त्रशेखरे)

एवं प्रकुर्वतस्तस्य प्रथमे वत्सरत्रये ॥ ७-३५७ ॥  

भवन्ति बहवो विघ्नाः श्रद्धाभावादयोऽशुभाः ।  
अस्मिन्नर्थे भवेन्मन्त्री यदि नोद्विग्नमानसः ॥ ७-३५८ ॥  

सेत्स्यतीति च विश्वस्तस्तदाऽसौ सिद्धिभाग्भवेत् ।  
	  
(कालीकल्पे)  
	  
न नासो योषितां तत्र न पूजा नापि चिन्तनम् ॥ ७-३५९ ॥  

रात्रौ जपैकमात्रेण सिद्धिदा दक्षिणा भवेत् ।  
नवमाद्वत्सरादूर्ध्वं स्वयं सिद्ध्यति मन्त्रराट् ॥ ७-३६० ॥  
	  
इति वीरपुरश्चरणविधिः ।  
(मेरुतन्त्रे)  
	  
वाममार्गे द्रुतं सिद्धिः कर्मणा येन जायते ।  
तदहं सम्प्रवक्ष्यामि सूक्ष्मसाधनमद्भूतम् ॥ ७-३६१ ॥  

अष्टम्यां वा चतुर्दश्यां कृष्णायां भौमवासरे ।  
गृहीत्वा नृकपालं तु मद्यं मांसं तथोदनम् ॥ ७-३६२ ॥  

कुल्माषान् मिश्रितान् कृत्वा गच्छेदश्वत्थभूमिकाम् ।  
एकान्ते निर्जने तस्य तले संलिप्य भूमिकाम् ॥ ७-३६३ ॥  

दण्डमात्रानष्टदिक्षु कीलान्मूलेन पूरयेत् ।  
अष्टोत्तरसहस्रेण सप्ततन्तुकडोरकम् ॥ ७-३६४ ॥  

निबन्धयेत् तत्र पूजां देवतायाः समाचरेत् ।  
देवीं तु हृदि संस्थाप्य तस्मिन् स्थाने सुदीपकम् ॥ ७-३६५ ॥  

कुर्याच्च नरतैलेनाभावे कपिलहव्यकैः ।  
तदभावे तु तैलेन कुडवप्रमितेन च ॥ ७-३६६ ॥  

प्। ५९१) तस्योपरि कपालं तत्कज्जलार्थं निवेशयेत् ॥ ७-३६७ ॥

दीपं दृष्ट्वा जपेन्मन्त्रं नान्यतस्तु विलोकयेत् ।  
अर्घे प्रज्वलिते तैले भूतप्रेतपिशाचकाः ॥ ७-३६८ ॥  

नानारूपा भिन्नशब्दाः साधकं भीषयन्ति ते ।  
न भेतव्यं तदन्तं तु वामहस्तेन निःक्षिपेत् ॥ ७-३६९ ॥  

तेषामग्रे नान्यदृष्तिः प्रपश्येद्दीपमेव हि ।  
किञ्चिच्छेषे दीपतैले देवी सा वरदा भवेत् ॥ ७-३७० ॥  

तस्यै तत्र वलिं दत्वा श्रुत्वा संयाचयेद्वरम् ।  
पूर्वकर्मविपाकेन यदि नायाति देवता ॥ ७-३७१ ॥  

दीपान्ते कज्जलं ग्राह्यं तत्र देवीं प्रपज्य च ।  
आनयेत् तद्गृहे सिद्धं दत्वाऽक्ष्णोः स्याज्जगद्वशम् ॥ ७-३७२ ॥  

दत्वाऽक्ष्णोः कज्ज्जलं तच्च प्रयोगानाचरेत् ततः ।  
सर्व एवं प्रसिद्ध्यन्ति लोलुपे न गुरौ सति ॥ ७-३७३ ॥  

रक्षयेदञ्जनं सम्यङ्गो चेद्भक्षति भैरवः ।  
	  
तत्रैव ।  
	  
अथातः सम्प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् ॥ ७-३७४ ॥	  

सर्वसिद्धिकरं दीपं न वाच्यं यस्य कस्यचित् ।  
शक्त्याद्यर्हगणार्केषु भक्तो वर्णः प्रजायते ॥ ७-३७५ ॥	  

मन्त्रवर्णस्य दिवसे क्रमाद्दीपं प्रकल्पयेत् ।  
सायं तु कुडवाज्यस्य वर्त्तिर्भूपञ्चतन्तुभिः ॥ ७-३७६ ॥  

यावज्ज्वलति दीपोऽसौ तावत् पश्यन्मनुं जपेत् ।  
मन्त्रार्णसङ्ख्यदीपेषु ज्वलितेष्वथ तद्दिने ॥ ७-३७७ ॥  

प्। ५९२) पुनर्दीपे कृते सा तु दीपे सन्दृश्यते स्फुटा ।
इष्टं स्वकीयं कथयेद्याचयेन्मनसेप्सितम् ॥ ७-३७८ ॥

ददाति देवता तुष्टा गुह्यमेतत् प्रकाशितम् ।  

अथ दूतीयागविधिः ।

(रुद्रयामले)  
	  
दूतीयागस्य विधिना रममाणो वरस्त्रिया ॥ ७-३७९ ॥  

जप्त्वा मन्त्रं साधकेन्द्रः सद्यः सिद्धिमवाप्नुयात् ।  
	  
तन्त्रान्त्ररे ।  
	  
पुरुषेण विना किञ्चित् प्रकृत्या क्रियते न हि ॥ ७-३८० ॥  
	  
तथा शक्तिं विना देवः फलं दातुं क्षमो न हि ।  
तस्मात् पुंशक्तिसंयोगं कृत्वा मन्त्रं प्रसाधयेत् ॥ ७-३८१ ॥  
	  
(कुमारीतन्त्रे)  
	  
नटी कपालिनी वेश्या रजकी नापिताङ्गना ।  
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ॥ ७-३८२ ॥  

मालाकारस्य कन्या च नव कन्याः प्रकीर्त्तिताः ।  
एतासु कां चिदानीय ततस्तद्योनिमण्डले ॥ ७-३८३ ॥  

पूजयित्वा महादेवीं ततो मैथुनमाचरेत् ।  
	  
(देवीयामले)  
	  
अथ पूजाफलं वक्ष्ये उत्तरोत्तरगोचरम् ॥ ७-३८४ ॥  

स्वशक्त्या अयुतं पुण्यं परशक्तिप्रपूजने ।  
ततो वेश्याऽधिका ज्ञेया रजकी च ततोऽधिका ॥ ७-३८५ ॥  

रजक्याः क्षुरकी श्रेष्ठा क्षुरक्याश्चर्मकारिणी ।  
ततोऽधिकतरा प्रोक्ता हेतुनारी वरानने ॥ ७-३८६ ॥  

ततोऽप्यन्तजसम्भूता चाण्डाली च ततोऽधिका ।  
ततो मातङ्गिनी श्रेष्ठा मातङ्ग्याः पुष्कशी तथा ॥ ७-३८७ ॥  

प्। ५९३) पुष्कश्या अन्त्यजा श्रेष्ठा ततोऽतिसुन्दरी स्मृता ।
सुन्दरी परतः प्रोक्ता प्रीतिमत्यनुरागिणी ॥ ७-३८८ ॥

तत्परा परमेशानि उन्मत्ता शुभलक्षणा ।  
समयाचारसम्पन्ना मन्त्रज्ञा भयवर्जिता ॥ ७-३८९ ॥  

विदग्धा त्वप्रसूता च धैर्यस्वातन्त्र्यसंयुता ।  
एवङ्गुणसमायुक्ताः पूजयेत् सर्वयोषितः ॥ ७-३९० ॥  
	  
(महाकालसंहितायाम्)  
	  
ऋषिकन्यां न चाकर्षेन्मद्यपानां च कन्यकाम् ।  
द्विजातीनां स्त्रियं चापि व्रतस्थानां स्त्रियं तथा ॥ ७-३९१ ॥  

गुर्वङ्गनां गुरोः पत्नीं सगोत्रां शरणागताम् ।  
शिष्ययोषां न चाकर्षेत् पापिनां वनितां तथा ॥ ७-३९२ ॥  

नापुष्पितां गुर्विणीं वा बालाम्पत्यां तथा पुनः ।  
	  
(देवीयामले)  
	  
आत्मीया च परा चैव शक्तिमात्रं महेश्वरि ॥ ७-३९३ ॥	  

मन्त्राधिदेवताबुद्ध्या पूज्याः सर्वोपचारकैः ।  
विविधैः फलताम्बूलैर्वस्त्रालङ्कारहेमभिः ॥ ७-३९४ ॥  

सम्पूज्य विधिवद्भक्त्या बहुहेतुं प्रदापयेत् ।  
सम्भोगवासनां कृत्वा यः कुर्याच्छक्तिपूजनम् ॥ ७-३९५ ॥  

स दारिद्र्यमवाप्नोति नारकी च भवेद्ध्रुवम् ।  
	  
(वीरचूडामणावपि)  
	  
आनीय युवतीं रम्यां कुलकर्मविलासिनीम् ॥ ७-३९६ ॥	  

षोडशाब्देन युवतीं पीतोन्नतपयोधराम् ।  
उन्मत्तां मत्तमातङ्गीं सदा घूर्णितलोचनाम् ॥ ७-३९७ ॥  

मृगशावकनेत्रां च सारङ्गीं मृदुहासिनीम् ।  

प्। ५९४) क्रोधलोभदयादम्भमोहमायाविवर्जिताम् ॥ ७-३९८ ॥

स्वामिधर्मरतां सत्यवादिनीं च सदा शुचिम् ।  
गणिकां नटीं चाण्डालीं जीविनीं जारजामथ ॥ ७-३९९ ॥  

योगमुद्राधरां गोपीं चर्मकारीं च चित्रिणीम् ।  
चतुर्वर्णसमायुक्तामुत्तमां पर्वतोद्भवाम् ॥ ७-४०० ॥  
	  
महाकालः ।  
	  
स्नातां दिव्याम्बरधरां नानालङ्कारभूषिताम् ।  
युवतीं पीनवक्षोजां तथा चाकृतिभोजनाम् ॥ ७-४०१ ॥  

हस्ते गृहीत्वा वामोरौ स्थापयेच्छक्तिमुत्तमाम् ।  
अशक्नुवानो वोढुं तां देवीं वामेऽथ वाऽसने ॥ ७-४०२ ॥  
	  
(वीरचूडामणौ)  
	  
वामभागे समालिख्य त्रिकोणं पद्मवर्त्तुलम् ।  
श्वेतरक्तसमायुक्तं नीलं सुन्दूरचर्चितम् ॥ ७-४०३ ॥	  

साधकः प्राङ्मुखो भूत्वा देवीं प्रत्यङ्मुखां जपेत् ।  
पीठशक्तिं विधानेन नवशक्तीः प्रपूजयेत् ॥ ७-४०४ ॥  

रतिः प्रीतिः प्रिया कान्तिः कामिनी काममालिनी ।  
कन्दर्पदलिनी दुर्गा भाविनी नव शक्तयः ॥ ७-४०५ ॥  

वियद्भृगुं समुच्चार्य मनुविन्दुकलान्वितम् ।  
महाप्रेतपदं पश्चाद्धृदयान्तमिमं मनुम् ॥ ७-४०५ ॥  

मूलं मन्त्रं समुच्चार्य सम्बुद्ध्या तारिणीपदम् ।  
एह्येहि च पदं पश्चात् पादुकाभ्यां पुनः पुनः ॥ ७-४०६ ॥  
	  
गृहित्वा वामहस्तेन आसने चोपवेशयेत् ।  
	  
तारिणीपदमित्युपलक्षणं स्वेष्टदेवतानामेत्यर्थः ।  
तथा �  
	  
रक्तचन्दनलिप्ताङ्गी रक्तपुष्पविभूषिताम् ॥ ७-४०७ ॥	  

प्। ५९५) सर्वालङ्कारसंयुक्तां विवस्त्रां पूजयेत् प्रिये ।
वारुणीमदमत्तां च हावभावसमावृताम् ॥ ७-४०८ ॥

यावदाकण्ठपर्यन्तं तावत् पानं प्रदापयेत् ।  
ध्यानं कुर्यान्महेशानि गह्वरे मकरानने ॥ ७-४०९ ॥  

ताम्रचूडसमाकारं गजवक्त्रसमप्रभम् ।  
तत्रस्थां चिन्तयेद्देवीं विद्यां भुवनमोहनीम् ॥ ७-४१० ॥  

तारं वै हृदयान्ते च पश्चान्मदनमन्दिरम् ।  
चतुर्थ्यन्तं जपेद्देवि भ्गे पुष्पं विनिःक्षिपेत् ॥ ७-४११ ॥  

प्रक्षाल्य कुलद्रव्येण गन्धपुष्पैः समर्चयेत् ।  
धूपदीपादिकं कृत्वा पश्चादावरणं यजेत् ॥ ७-४१२ ॥	  

इच्छा ज्ञाना क्रिया पश्चाद्वामा ज्येष्ठा च रौद्रिका ।  
रतिः प्रीतिस्तथा कामं पुष्पबाणधनुर्धरम् ॥ ७-४१३ ॥  

वसन्तं पूजयेत् पश्चात् पत्राङ्कुरसमन्वितम् ।  
चिकुरं पूजयेद् देवि अलिस्यन्दसमन्वितम् ॥ ७-४१४ ॥  

विरिञ्चिं पूजयेन्नाभौ हृदये च हरं हरिम् ।  
स्तने वक्त्रे महेशानि त्रिमूर्तिं पूजयेत् ततः ॥ ७-४१५ ॥  
	  
कामेशीं चैव विश्वेशीं परां तु भगमालिनीम् ।  
भ्रुवोर्मूले महेशानि पञ्चवाणान् प्रपूजयेत् ॥ ७-४१६ ॥  

द्रामाद्यां द्राविणीं मूर्ध्नि द्रीमाद्यां क्षोभिणीपदम् ।  
क्ली। वशीकरणीं वक्त्रे गुह्ये ब्लू। बीजपूर्विकाम् ॥ ७-४१७ ॥  

आकर्षिणीं हृदि पुनः सर्गान्तभृगुसंयुताम् ।  
सम्मौहिनीं क्रमादेवं बाणपूजनमीरितम् ॥ ७-४१८ ॥  

कर्णयोः पूजयेच्चक्रे भानुं चन्द्रं क्रमेण च ।  

प्। ५९६) रसनायां वह्निः पूज्यो नेत्रे नक्षत्रमालिनी ॥ ७-४१९ ॥

प्राणं सम्पूजयेद्घ्राणे आज्ञायां त्रिपथगामिनीम् ।  
अक्षोभ्यं पूजयेन्मूर्ध्नि गन्धपुष्पोपहारकैः ॥ ७-४२० ॥  

पुष्पमालां गले दद्यादथ शक्त्या जपेद्बुधः ।  

अक्षोभ्यं पूजयेदिति ताराविषये ।  
(ज्ञानार्णवे)  
	  
पञ्चमं गजदन्तस्य हेमरूप्यादिनिर्मितम् ॥ ७-४२१ ॥  

विशुद्धक्षौमरचितां तूलिकां तत्र योजयेत् ।  
पुष्पाण्याकीर्य मध्ये तु कर्पूरस्य रजस्तथा ॥ ७-४२२ ॥  

मण्डूकादी।स्तत्र देवि उपर्पुपरि शैलजे ।  
मण्डूकं पूजयेदादौ रुद्रं कालाग्निसन्निभम् ॥ ७-४२३ ॥  

आधारशक्तिं कूर्मं च तथाऽनन्तं वराहकम् ।  
पृथिवीं च तथा कन्दं नालं पद्मं दलं तथा ॥ ७-४२४ ॥  

केशरालीश्च सम्पूज्य कर्णिकां पूजयेत् ततः ।  
मञ्चकं च समभ्यर्च्य तत्र पादचतुष्टये ॥ ७-४२५ ॥  
	  
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमाद्यजेत् ।  
अपूर्वान् पूजयेदेता।स्तत्पादानां समीपके ॥ ७-४२६ ॥  

आत्मान्तरात्मपरमज्ञानात्मनः प्रपूजयेत् ।  
मञ्चकाग्रेषु सम्पूज्य गुणत्रयमथार्चयेत् ॥ ७-४२७ ॥  
	  
दूतीं सुलक्षणां रम्यां सर्वलक्षणलक्षिताम् ।  
नानालङ्कारसुभगां स्ववशां शारदामिव ॥ ७-४२८ ॥  

पूजयेत् परमेशानि पञ्चकामशरैस्तथा ।  
वटुकादी।श्चतुर्दिक्षु पूजयेत् सिद्धिहेतवे ॥ ७-४२९ ॥  

मातृकां विन्यसेत् तस्माद्देहे कामशरान्विताम् ।  

प्। ५९७) त्रिकोणं विन्यसेन्मूर्ध्नि तत्र पूजां यजेत् क्रमात् । । ४३० ॥

त्रिकोणमध्ये बालाख्यां कामेशीं परिपूजयेत् ।  
गणेशं च कुलाध्यक्षं तथा लक्ष्मीं सरस्वतीम् ॥ ७-४३१ ॥  

त्रिकोणेषु च सम्पूज्य वसन्तं मदनं प्रिये ।  
स्तनयोः पूजयेत् पश्चान्मुखे तस्याः कलाधरम् ॥ ७-४३२ ॥  

वाग्भवं कामराजं च स्त्रीबीजं कामराजकम् ।  
हसक्लेमात्मकं दत्वा आधारशक्तिमुच्चरेत् ॥ ७-४३३ ॥  

श्रीपादुकां ततो दत्वा पूजयामि वदेत् ततः ।  
अनेन मनुना तस्य ललाटे सुमुनोहरम् । । ४३४ ॥  

त्रिकोणं तत्रं संलिख्य सिन्दूराद्यैर्विशेषतः ।  
वटुकं योगिनीं चैव क्षेत्रपालं गणेश्वरम् ॥ ७-४३५ ॥  
	  
लक्ष्मीं सरस्वतीं चैव पूजयेत् तत्र सुन्दरि ।  
कामबीजं समुच्चार्य कामराजं ततः परम् ॥ ७-४३६ ॥  

श्रीपादुकां ततो दत्वा पूजयामि वदेत् ततः ।  
दक्षपादतले देवि पूजयेन्मनुनाऽमुना ॥ ७-४३७ ॥  

व। वसन्तं समुच्चार्य नादहीनारमाततः ।  
पादुकां पूजयामीति तस्या वामकरे न्यसेत् ॥ ७-४३८ ॥  

शक्तिबीजं समुच्चार्य सोमपादपदं ततः ।  
श्रीपादुकां ततो दत्वा पूजयामि स्तनद्वये ॥ ७-४३९ ॥  

आरोहक्रमतः कामकलान्यासं चरेत् सुधीः ।  
	  
(स्मरदीपिकायाम्)  
	  
पादे गुल्फे तथोरौ च भगे नाभौ कुचे हृदि ॥ ७-४४० ॥  

कण्ठे कक्षे तथौष्ठे च गण्डे नेत्रे श्रुतावपि ।  

प्। ५९८) शीर्षे सर्वशरीर च वसेत् कामः स्थितिक्रमात् ॥ ७-४४१ ॥

इति स्थानान्युक्तानि ।  
कलानां नामानि तु तन्त्रे ।  
	  
श्रद्धा प्रीती रतिश्चैव धृतिः शान्तिर्मनोहरा ।  
मनोरमा मनोरामा मदनोन्मादिनीति च ॥ ७-४४२ ॥  

मोहिनी दीपनी चैव शिषिणी च वशङ्करी ।  
रञ्जिनी सुभगा देवी षोडशी प्रियदर्शना ॥ ७-४४३ ॥  

अकारादिस्वरैरर्च्याः कलाः कुसुमधन्वनः ।  
पूषाऽर्यमा सुमनसा रतिः प्रीतिस्तथा धृतिः ॥ ७-४४४ ॥  
	  
ऋद्धिः सौम्या मरीचिश्च दशमी चांशुमालिनी ।  
अङ्गिरा शशिनी चैव च्छाया सम्पूर्णमण्डला ॥ ७-४४५ ॥  

पुष्टिश्चैवामृता चेति कला सोमस्य षोडश ।  
अकारादिस्वरयुताः पूजनीया मनीषिभिः ॥ ७-४४६ ॥  

दक्षपादादि मूर्धान्तं वामे मूधादि सुन्दरि ।  
पादान्तं पूजयेत् सर्वाः कला वै कामसोमयोः ॥ ७-४४७ ॥  
	  
तन्त्रान्तरे ।  
	  
पृष्ठवंशात् समारभ्य शिरोऽन्तं कामवाचकम् ।  
विन्यस्य विधिवन्मन्त्री पूजयेत् तत् तु मूर्धनि ॥ ७-४४८ ॥  

धर्मात्मकं समुच्चार्य कामचापपदं ततः ।  
पादश्रीपादुकां दत्वा पूजयामीति पूजयेत् ॥ ७-४४९ ॥  

मूर्ध्नि पादे मुखे गुह्ये हृदये च यथाक्रमात् ।  
पञ्चबाणैः पञ्चबाणान् यथास्थानेषु पूजयेत् ॥ ७-४५० ॥  

द्रा। द्रावणपदं दत्वा बाणपादपदं ततः ।  
श्रीपादुकां वदेत् पश्चात् पूजयामीति पूजयेत् ॥ ७-४५१ ॥  

प्। ५९९) द्रीमात्मकं समुच्चार्य उन्मादबाणमुच्चरेत् ।
पादश्रीपादुकां दत्वा पूजयामीति पूजयेत् ॥ ७-४५२ ॥

कामबीजं ततो दत्वा मोहबाणपदं ततः ।  
पादश्रीपादुकां दत्वा पूजयामीति पूजयेत् ॥ ७-४५३ ॥  

ब्रह्मात्मकं समुच्चार्य सन्दीपनपदं ततः ।  
बाणपादपदं दत्वा श्रीपादुकां ततो वदेत् ॥ ७-४५४ ॥  

पूजयामीति सम्पूज्य शेषे बाणं समुच्चरेत् ।  
शोषणं च समालिख्य बाणपादपदं ततः ॥ ७-४५५ ॥  
	  
श्रीपादुकां ततो दत्वा पूजयामीति पूजयेत् ।  
ललाटमण्डले पश्चात् त्रिकोणं पूजयेत् ततः ॥ ७-४५६ ॥	  

वाग्भवं शुभपादं च श्रीपादुकां ततो वदेत् ।  
पूजयामि ततो दत्वा दक्षरेखासु पूजयेत् ॥ ७-४५७ ॥  

द्रीमात्मकं समुच्चार्य भगपादपदं ततः ।  
श्रीपादुकां ततो दत्वा पूजयामीति पश्चिमे ॥ ७-४५८ ॥  

कामबीजं समुच्चार्य भगसर्पिःपदं ततः ।  
श्रीपादश्रीपदं दत्वा पादुकां च ततो वदेत् ॥ ७-४५९ ॥	  

पूजयामीति चोच्चार्य पूजयेद्वामपार्श्वके ।  
ह्सौ।रात्मकमालिख्य भगावहपदं ततः ॥ ७-४६० ॥  

पादश्रीपादुकां दत्वा पूजयेन्मध्यदेशतः ।  
श्री-उड्डीशपदं दत्वा देवीमुड्डीश्वरीं ततः ॥ ७-४६१ ॥  

नाथदेवपदं दत्वा श्रीरक्ताम्बां ततो वदेत् ।  
श्रीचर्यानाथमालिख्य पादश्रीपादुकां ततः ॥ ७-४६२ ॥  

पूजयामीत्युड्डियाने पूजयेद्धृदि सुव्रते ।  

प्। ६००) श्रीपादं च समालिख्य जालन्धरपदं ततः ॥ ७-४६३ ॥

महापीठं समालिख्य नादहीना रमा ततः ।  
जालेश्वरीपदं दत्वा देवीजालीशमालिखेत् ॥ ७-४६४ ॥  

नाथदेवपदं दत्वा श्रीजालाम्बापदं ततः ।  
श्रीषष्ठीशपदं दत्वा नाथदेवपदं ततः ॥ ७-४६५ ॥  

पादश्रीपादुकां दत्वा पूजयामीति पूजयेत् ।  
अनेन मनुना देवि पूजयेन्नाभिमण्डले ॥ ७-४६६ ॥  

श्रीपदं च ततो दत्वा पूर्णेश्वरीं वदेत् ततः ।  
देवीश्रीपादश्रीपूर्णनाथदेवपदं तथा ॥ ७-४६७ ॥  
	  
श्रीचामुण्डापदमाभाष्य देवीश्रीपदमालिखेत् ।  
उड्डीशनाथमालिख्य देवपादपदं ततः ॥ ७-४६८ ॥  

श्रीपादुकां ततो दत्वा कामेश्वरीपदं ततः ।  
देवीश्रीपदमाभाष्य कामेश्वरानन्दनाथ च ॥ ७-४६९ ॥  

श्रीमहापदमाभाष्य तुष्टाम्बाश्रीपदं ततः ।  
मित्रीशनाथमाभाष्य पादश्रीपादुकां ततः ॥ ७-४७० ॥  

पूजयामि ततो दत्वा पूजयेत् कामनाशने ।  
	  
तन्त्रान्तरे ।  
	  
शक्तेः सर्वशरीरं यत् पीठं पूर्णगिरिर्मतः ॥ ७-४७१ ॥  

तस्याः शिरश्चन्द्रभागे उद्यानं परिकीर्त्तितम् ।  
स्तनौ जालन्धरं प्रोक्तं कामरूपं भगं स्मृतम् ॥ ७-४७२ ॥  
	  
तन्त्रान्तरे ।  
	  
गुह्यपीठस्य वामे तु गुरुपङ्क्तिं जपेत् सुधीः ।  
अनङ्गकुसुमाद्येन हृत्सरोजे यजेत् पुनः ॥ ७-४७३ ॥  

वाग्भवं ब्लौ। समुच्चार्य ब्लीमात्मकं वदेत् ततः ।  

प्। ६०२) ब्ला। ब्ली। ब्लू।ः समुच्चार्य मन्त्रेणानेन साधकः ॥ ७-४७४ ॥

योनिमुद्रां प्रदर्श्याथ योनौ क्षोभं विचिन्तयेत् ।  
वाग्भवं कामराजं च स्त्रीबीजं तदनन्तरम् ॥ ७-४७५ ॥  

क्षोभिणी नाम विद्येयं स्तनयोः क्षोभमाचरेत् ।  
योनिमुद्रां प्रदर्श्याथ शनैरेव हि साधकः ॥ ७-४७६ ॥	  

वाग्भवं स्फ्रे। समुच्चार्य ब्ले। ब्ली। ब्ल। च ततो वदेत् ।  
क्लीमात्मकं समुच्चार्य ह्रीमात्मकं समुच्चरेत् ॥ ७-४७७ ॥  

क्षमात्मकं ततो दत्वा तस्याः क्षोभं विचिन्तयेत् ।  
द्राविणी नाम विद्येयं चिन्तयेद्योनिमध्यतः ॥ ७-४७८ ॥  

ततः परानन्दमयो भूत्वा निर्भरमानसः ।  
चिन्तयेन्निजविद्याया बीजं मूर्ध्नि सरोजके ॥ ७-४७९ ॥  

ततस्तस्या योनिमध्ये मूलमन्त्रैश्च साधकः ।  
पुष्पाञ्जलित्रयं दत्वा ततः क्षोभं विचिन्तयेत् ॥ ७-४८० ॥  
	  
(ज्ञानार्णवे)  
	  
दूतीदेहकृतान् न्यासान् स्रदेहेऽपि विचिन्तयेत् ।  
	  
(वीरचूडामणौ)  
	  
अथ न्यासं प्रवक्ष्यामि शिवात्मानं विभावयेत् ॥ ७-४८१ ॥  
	  
शिवात्मानमिति शिवमात्मानमित्यर्थः ।  
तथा ।  
	  
पञ्चवक्त्रं महादेवं कलायुक्तं न्यसेत् क्रमात् ।  
ईशानः सर्वविद्यानां शशिनी प्रथमा कला ॥ ७-४८२ ॥  

ईश्वरः सर्वभूतानामङ्गदा तदनन्तरम् ।  
ब्रह्माधिपतिशब्दान्ते ब्रह्मणोऽधिपतिः पुनः ॥ ७-४८३ ॥  

ब्रह्मा सदाशिवो मेऽस्तु मरीचिसम्पुटं न्यसेत् ।  
सदाशिवो। समुच्चार्य अंशुमालिन्यथापरा । । ४८४ ॥  

प्। ६०२) तत्पुरुषाय विद्महे कला शान्तेरितीरिता ।
महादेवाय धीमहि कलाविद्या तथैव च ॥ ७-४८५ ॥

तन्नो रुद्रपदं पश्चात् प्रतिष्ठा कथिता कला ।  
प्रचोदयात् समुच्चार्य निवृत्तिः स्यात् ततः परम् ॥ ७-४८६ ॥  
	  
पूर्वपश्चिमयाम्येषु उत्तरेष्वप्यनुक्रमात् ।  
हृदये विन्यसेद्देवि अघोरेभ्यस्तमःकलाम् ॥ ७-४८७ ॥  

अघोरेभ्यो मोहनां च ग्रीवायां विन्यसेत् ततः ।  
घोरान्ते स्यात् क्रियां पश्चाद्दक्षिणांसे प्रविन्यसेत् ॥ ७-४८८ ॥  

निद्रां घोरतरेभ्यो वै वामांसे विन्यसेत् ततः ।  
सर्वतः सर्वमुच्चार्य व्याधिं नाभौ प्रविन्यसेत् ॥ ७-४८९ ॥  

सर्वेभ्यस्तत्कलां मृत्युं कुक्षौ देशे प्रविन्यसेत् ।  
नमस्तेऽस्तु क्षुधां पश्चात् कलां पृष्ठे न्यसेत् क्रमात् ॥ ७-४९० ॥  

रुद्ररूपेभ्य इत्यन्ते तृषास्तारनमोऽन्तकाः ।  
वामदेवाय नमोऽन्ते विरजा स्याद्गुह्यदेशके ॥ ७-४९१ ॥  

मुष्के सव्ये प्रविन्यस्य रक्षां ज्येष्ठाय वै नमः ।  
रुद्राय नमो रतिं पश्चाद्वाममुष्के कलामिमाम् ॥ ७-४९२ ॥	  

कालाय नम इत्यन्ते पालिनी ऊरुदक्षिणे ।  
कलाकामां च देवेशि वामे विकरणाय च ॥ ७-४९३ ॥  

नमःपदं समुच्चार्य संयमनी दक्षजानुनि ।  
बलक्रिया समादिष्टा वामे विकरणाय च ॥ ७-४९४ ॥  

नमोऽन्ते वृद्धिमुच्चार्य दक्षिणे स्फिचि विन्यसेत् ।  
बलप्रमथनाय नमो रात्रिं वामे प्रविन्यसेत् ॥ ७-४९५ ॥	  

प्। ६०३) कटिदेशे प्रविन्यस्य नमोऽन्ते मोहिनीकलाम् ॥ ७-४९६ ॥

दक्षिणे पार्श्वके न्यस्य उन्मनाय मनोज्वराम् ।  
पादयोः स्तननासासु मूर्ध्नि बाहुयुगे न्यसेत् ॥ ७-४९७ ॥  

सद्योजातोद्भवाः सम्यगष्टौ मन्त्री कलाः क्रमात् ।  
सद्योजातं प्रपद्यामे सिद्धिः स्यात् प्रथमा कला ॥ ७-४९८ ॥  

सद्योजाताय वै भूयो नमः स्याद्वृद्धिरीरिता ।  
भवे द्युतिस्तृतीया स्यादभवे तदनन्तरम् ॥ ७-४९९ ॥  

लक्ष्मीश्चतुर्थी कथिता ततो नाभिभवेपदम् ।  
मेधाख्या पञ्चमी प्रोक्ता कला भूयो भवस्वमाम् ॥ ७-५०० ॥  

प्रजा समीरिता षष्ठी भवान्ते स्यात् प्रभा कला ।
उद्भवाय नमः पश्चात् स्वधा स्यादष्टमी कला ॥ ७-५०१ ॥

प्रणवाद्याश्चतुर्थ्यन्ता नमोऽन्ताश्च प्रविन्यसेत् ।  
एवं न्यासविधिं कृत्वा स्वयं शैवं विभावयेत् ॥ ७-५०२ ॥	  

पञ्चाक्षरं पुरस्कृत्य रुद्रध्यानपरायणः ।  
सामरस्यमयं कृत्वा रक्षार्थं कवचं पठेत् ॥ ७-५०३ ॥  

बद्ध्वा तु क्षोभिणीं मुद्रां यन्त्रमध्ये विनिःक्षिपेत् ।  
भगं कुण्डं स्रुवो लिङ्गमाज्यं चैव तु वीर्यकम् ॥ ७-५०४ ॥  

सर्वतत्त्वं समुत्सार्य सहस्रं जपमाचरेत् ।  

(ज्ञानार्णवे)

धूपादिकं समर्प्याथ स्वलिङ्गे तदनन्तरम् ॥ ७-५०५ ॥

तारं च भुवनेशानि महात्रिपुरसुन्दरी ।  
नमः शिवाय विद्येयं दशार्णा परिकीर्त्तिता ॥ ७-५०६ ॥  

प्। ६०४) महात्रिपुरसुन्दरी त्रिकूटात्मिका विद्या ।

यजेत् तत्पुरुषाघोरसद्योवामेशसञ्ज्ञकान् ।  
निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं तथैव च ॥ ७-५०७ ॥  

शान्त्यतीतां च सम्पूज्य षडङ्गावरणं यजेत् ।  
समग्रविद्यामुच्चार्य नन्दिकेशं प्रपूजयेत् ॥ ७-५०८ ॥  

मध्ये वृषणयोर्देवि गन्धपुष्पाक्षतादिभिः ।  
निवेद्यः धूपपुष्पादि विजितेन्द्रियमानसः ॥ ७-५०९ ॥  

सर्वसङ्क्षोभणा मुद्राः बद्ध्वा योनिं प्रचालयेत् ।
क्षोभिण्या वाऽथवा देवि गजतुण्डाख्ययाऽथवा ॥ ७-५१० ॥

उच्चरन् भगमालाख्यां द्राविणीबीजमुच्चरन् ।  
अक्षुब्धः सन् वरारोहे यावद्रेतः प्रवर्त्तते ॥ ७-५११ ॥  
	  
भगमालामन्त्रस्तु तत्रैव ।  
	  
वाग्भगं भगशब्दान्ते भगे भागिनि चालयेत् ।  
भगोदरि भगान्ते तु भगमाले भगावहे ॥ ७-५१२ ॥  

भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तके ।  
निपातिनि च सर्वान्ते ततो भगवशङ्करि ॥ ७-५१३ ॥  

भगरूपे ततो लेख्य नीरजायतलोचने ।  
नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्वमालिखेत् ॥ ७-५१४ ॥  

भगानिमेह्यानयान्ते वरदेऽथ समालिखेत् ।  
रेते सुरेते भग च क्लिन्ने क्लिन्नद्रवे ततः ॥ ७-५१५ ॥  

क्लेदय द्रावय चाथ सर्वसत्त्वान् भगेश्वरि ।  
अमोघे भगविच्चे च क्षुभ क्षोभय सर्व च ॥ ७-५१६ ॥  

सत्त्वान् भगेश्वरि ब्रूयाद्वाग्भवं ब्लू। जमादिकम् ।  
मे। ब्लू। मौ। ब्लू। च हे। ब्लू। च हे। क्लीन्ने च ततः परम् ॥ ७-५१७ ॥	  

प्। ६०५) सर्वाणि च भगान्यन्ते मे वशं चानयेति च ।
स्त्रीबीजं च हरप्रान्ते ब्ले। मायात्मकमक्षरम् ॥ ७-५१८ ॥

भुवनेशीं समालिख्य विद्येयं भगमालिनी ।  
	  
(वीरतन्त्रे)  
	  
धर्माधर्महविर्दीप्ते आत्मान्गौ मनसा स्रुचा ॥ ७-५१९ ॥  

षुषुम्णा वर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् ।  
स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्त्तितः ॥ ७-५२० ॥  
	  
ततो जपेत् प्रियां गच्छन् स्त्रियं त्रिभुवनेश्वरीम् ।  
	  
(भूतडामरयक्षडामरयोः)  
	  
क्षिप्त्वा शेफश्च प्रजपेद्ध्यात्वा देवीं यथोदिताम् ॥ ७-५२१ ॥  

दिक्सहस्रं सहस्रं वा विना रेतोविमोक्षणम् ।  
जप्त्वा तु विधिवद्दद्याद्वलिमभ्यर्च्य तां स्त्रियम् ॥ ७-५२२ ॥  
	  
भोजयित्वा नमस्कृत्य विसृज्य प्रापयेद्गृहम् ।  
एवं कृत्वा च तत्सिद्धिस्त्रिषु लोकेषु दुर्लभा ॥ ७-५२३ ॥  
	  
जायते नात्र सन्देहो ब्रह्मणा भाषितं पुरा ।  
नातः परतरोपायोः मन्त्राणां साधने त्रिषु ॥ ७-५२४ ॥  
	  
(कुलामृते)  
	  
स्वाहन्तो होममन्त्रोऽयं प्रतिद्याता हुतिः प्रिये ।  
पूर्णाहुतिं रतान्ते च जुहुयान्मनुनाऽमुना ॥ ७-५२५ ॥  

प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा ।  
धर्माधर्मौ कलास्नेहं पूर्णवह्नौ जुहाम्यहम् ॥ ७-५२६ ॥	  

स्वाहान्तोऽयं भवेन्मन्त्रो घोरपातकमुक्तिदः ।  
	  
(वीरतन्त्रे)  
	  
स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्त्तितः ॥ ७-५२७ ॥  
	  
यदि च शक्तिरदीक्षिता भवति तदा प्रथमतस्तच्छोधनं कुर्यात् ।  

प्। ६०६) तदुक्तं (कुलतन्त्रे)

अभिषेका भवेच्छुद्धिर्मन्त्रस्योच्चारणाच्छ्रुतौ ।  
रतिकाले महेशानि दीक्षाकाले च कन्यकाः ॥ ७-५२८ ॥  
	  
शुद्ध्यन्तीति शेषः ।  
	  
सुरया रेतसा चापि जलेन मनुनाऽमुना ।  
  	  
(यामले)  
	  
सुदीक्षिता तु या शक्तिः सैव शुद्धा भवेत् सदा ॥ ७-५२९ ॥  

अदीक्षिता तु या शक्तिर्मायां तस्यै निवेदयेत् ।  
	  
(मातङ्गीतन्त्रे-)ऽप्युक्तम् ।  
	  
दीक्षामात्रेण शुद्ध्यन्ति स्त्रियः सर्वत्र कर्मणि ॥ ७-५३० ॥  

(कुलामृतदीपिकायाम्)

अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते ।

तथा �  
	  
आदौ बालां समुच्चार्य त्रिपुरायै समुच्चरेत् ॥ ७-५३१ ॥  

नमःशब्दं समुच्चार्य इमां शक्तिं ततो वदेत् ।  
	  
नाद * * * क्षैर्देवि लोके भवति निन्दितः ॥ ७-५३२ ॥  
	  
तथा �  
	  
आलिङ्गने हरेद्रोगान् धनधान्यादि चुम्बने ।	  
नखदन्तक्षताद्यैश्च तदा मोक्षः प्रजायते ॥ ७-५३३ ॥  

सायुज्यं सङ्गमेन स्यात् सत्यमेव न संशयः ।  
	  
(रौद्रे)  
	  
तदङ्गस्पर्शनात् सौख्यं संयोगामृतलक्षणम् ॥ ७-५३४ ॥  

महाकामकलां ध्यायेत् संयोगामृतरूपिणीम् ।	  
संयोगाज्जायते सौख्यं परमानन्दलक्षणम् ॥ ७-५३५ ॥  

कुलद्रव्यामृतं यत्नाद्गृह्णीयाद्दुर्लभं नरः ।	  
कुण्डगोलप्रहरणप्रकारस्तु कुलामृते ॥ ७-५३६ ॥  

प्। ६०७) भावयेत् कामभावेन आत्मतत्त्वं न चोत्सृजेत् ।
शुद्धमन्त्रौषधेनैव योनेस्तु मथनं चरेत् ॥ ७-५३७ ॥

मथ्यमाने तु तस्याहिर्जायते तत्त्वमुत्तमम् ।	  
गृह्णीयात् तत्प्रयत्नेन द्रव्यं कुण्डोद्भवं शुभम् ॥ ७-५३८ ॥  
	  
मन्त्रौषधं यथा (कुलोड्डीशे)  
	  
मायाऽगच्छपदं शुक्रस्तम्भनकारिणि ठद्वयम् ।	  
अनेनार्कोपरागे च जातीमूलं समानयेत् ॥ ७-५३९ ॥  

एतत् कृत्वा साधकेन्द्रः शुक्रस्तम्भनमाचरेत् ।  

(ब्रह्मयामले)  
	  
तेनामृतेन दिव्येन त्रिपुरां तर्पयेत् सदा ॥ ७-५४० ॥  
	  
सान्निध्यात् तत्क्षणाद्वाऽपि प्रीता सिद्धिं प्रयच्छति ।  
समस्तदेवतानां च तर्पणं च सदाऽमृतैः ॥ ७-५४१ ॥  
	  
गुरुणां साधकानां च सर्वेषां तर्पणं चरेत् ।  
तेनामृतेन द्रव्येण सर्वे तुष्टा भवन्ति च ॥ ७-५४२ ॥  
	  
यत्कामं कुरुते मन्त्री तत्क्षणादेव सिद्ध्यति ।  
कुलामृतं समादाय तत्रार्घे निःक्षिपेद्बुधः ॥ ७-५४३ ॥  
	  
ततः सोमकलाः पूज्याः साधकैर्निर्मलाशयैः ।  
	  
(कौले)  
	  
मधुभाण्डसहस्रैस्तु मांसभारशतैरपि ॥ ७-५४४ ॥  
	  
नैव तुष्टा भवेद्देवी भगलिङ्गामृतादृते ।  
	  
(देवीयामले)  
	  
दूतीयागविधिं वक्ष्ये कौलधर्मोत्तमोत्तमम् ॥ ७-५४५ ॥  
	  
तस्यानुष्ठानमात्रेण स्वयं ब्रह्मत्वमाप्नुयात् ।  
	  
तथा �  
	  
दूतीयागे कृते मन्त्री सर्वज्ञो जायते ध्रुवम् ॥ ७-५४६ ॥  

प्। ६०८) न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।
यैः कृतं यजनं दूत्यास्तैरिष्टाः क्रतवोऽखिलाः ॥ ७-५४७ ॥

सर्वतीर्थमयः प्रोक्तः सर्वदेवमयो भवेत् ।  
पुरश्चर्यादिसकलं कृतं तेन न संशयः ॥ ७-५४८ ॥  
	  
अश्वमेधसहस्राणि वाजपेयशतानि च ।  
आसमुद्रा च धराणी दत्ता तेन सदक्षिणा ॥ ७-५४९ ॥  
	  
मेरुमण्डलतुल्यादिसुवर्णान्यर्पितानि वै ।  
गोकोटिदानाद्यत् पुण्यं तत्पुण्यं जायते प्रिये ॥ ७-५५० ॥  
	  
तस्मात् सर्वप्रयत्नेन दूतीयामं समाचरेत् ।  
पूजासम्पूर्णदं भद्रे सर्वारिष्टप्रशामकम् ॥ ७-५५१ ॥  
	  
योनिपूजां विना पूजा कृतमप्यकृतं भवेत् ।  
आयुरारोग्यविभवानमिता।ल्लभते नरः ॥ ७-५५२ ॥  
	  
अनेनैव विधानेन विषार्तो निर्विषो भवेत् ।  
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ ७-५५३ ॥  
	  
मातङ्गीशक्तिमभ्यर्च्य तया साकं समर्चयेत् ।  
मातङ्गी मन्मथोपेता सर्वकामार्थसिद्धये ॥ ७-५५४ ॥  
	  
शक्त्या साकं सदा पूज्या मातङ्गी मन्त्रदेवता ।  
सा देवी शक्तिहीना तु न ददाति मनोरथम् ॥ ७-५५५ ॥  
	  
(ब्रह्मयामले)  

नारद उवाच ।

सर्वज्ञ जगतां नाथ शाक्तं चेच्छ्रुतिचोदितम् ।  
मातङ्गीपूजनं तत्र कथं मुक्तिप्रदायकम् ॥ ७-५५६ ॥  
	  
अर्चने प्रथिता वेश्या वेश्या सा तु रजःस्वला ।  
रजःस्वला च मातङ्गी सा दूती सर्वमङ्गला ॥ ७-५५७ ॥  

प्। ६०९) इति प्रोक्तं त्वया पूर्वमिदानीं तद्विपर्ययः ।
तव वाक्यमनुब्रह्मन्नेतद्वद पितामह ॥ ७-५५८ ॥

ब्रह्मोवाच ।  
	  
मा कुरुष्वात्र सन्देहं वेदोक्तं शाक्तमुत्तमम् ।  
अस्ति सर्वज्ञकल्पोऽसौ मतङ्गो मुनिसत्तमः ॥ ७-५५९ ॥  
	  
वर्षाणामयुतं वत्स तप उग्रं चचार ह ।  
तेन प्रीता महादेवी देवानां हितकारिणी ॥ ७-५५९ ॥  
	  
वरं वृणुष्व भगवन् दास्यामि तव वाञ्छितम् ।  
तच्छ्रुत्वा द्विजवर्यस्तां ययाचे धर्मसाधनम् ॥ ७-५६० ॥  
	  
हे देवि जगतां मातः प्रीता चेद्यदि साम्प्रतम् ।  
अपत्यतां समासाद्य मत्कुलालम्बनं कुरु ॥ ७-५६१ ॥  
	  
इत्यभ्यर्च्य मुनिश्रेष्ठो जनयामास तां सुताम् ।  
श्यामलां चारुवदनां चीनांशुकसमन्विताम् ॥ ७-५६२ ॥  
	  
सारिकां ज्ञानसम्पन्नां जपमालां कराम्बुजैः ।  
धारयन्तीं विशालाक्षीं शङ्खताटङ्कशोभिनीम् ॥ ७-५६३ ॥  
	  
सा बभूव महादेवी मातङ्गकुलनन्दिनीम् ।  
मातङ्गीति तदा देवी विख्याता वरदायिनी ॥ ७-५६४ ॥  
	  
तां विलोक्य तदा शम्भुर्दूतीं चक्रे सुलक्षणाम् ।  
त्रिपुरं जेतुकामेन योनिपूजां तदा कृता ॥ ७-५६५ ॥  
	  
प्रत्यालीढा स्थिता देवी पूजां स्वीकृत्य निश्चला ।  
तदा दृष्टरजोभूतां तां बब्रे शङ्करः प्रियाम् ॥ ७-५६६ ॥  
	  
तदा प्रभृति सञ्जातो दूतीयागो मनोहरः ।  
प्रणयेन तदा शम्भुस्तया सार्धं रतं भवेत् ॥ ७-५६७ ॥  

प्। ६१०) प्रणवान्तर्गतं मन्त्रं मातङ्ग्याख्यं विनिर्गतम् ।
सर्वसौभाग्यजननं मालामन्त्रमभूत् तदा ॥ ७-५६८ ॥

रमा चापि पदं दिव्यमनिन्द्यं लोकरञ्जनम् ।  
मातङ्गी मन्त्रमत्यर्थं मन्मथप्रतिपादकम् ॥ ७-५६९ ॥  
	  
आद्यन्तशून्या सा देवी तस्मात् ख्याता तदन्त्यजा ।  
मातङ्गी अन्त्यवर्णस्था तदा सा अन्त्यजाऽभवत् ॥ ७-५७० ॥  
	  
अन्त्यजानां द्विजानां च चक्रे ऐक्यं प्रशस्यते ।  
सा देवी सर्ववर्णानां वरं दत्वा निरुत्तरम् ॥ ७-५७१ ॥  
	  
कृत्वा सङ्केतसमयं चक्रे मातङ्गमुत्तमम् ।  
न दोषः सर्ववर्णानामिति दत्वा वरं तदा ॥ ७-५७२ ॥  
	  
न दोषं तत्र विज्ञेयं सर्वते श्रुतिनोदितम् ।  
देवी मुद्दिश्य मोक्षार्थं कृतं यद्दोषवर्जितम् ॥ ७-५७३ ॥  
	  
एतच्छास्त्रस्मिदं दिव्यं न वाच्यं श्रुतिचोदितम् ।  
अन्तर्यागमिदं ज्ञेयं बहिर्यागं च वैदिकम् ॥ ७-५७४ ॥  
	  
मन्त्रतन्त्रसमायुक्तं तद्द्वयं ब्रह्मबोधकम् ।  
चक्रसङ्केतसमयं सर्वं तुभ्यं प्रकाशितम् ॥ ७-५७५ ॥  
	  
गोपनीयं प्रयत्नेन न वाच्यं पशुसन्निधौ ।  
त्यजं शङ्कां महाभाग सत्यमेतन्मयोदितम् ॥ ७-५७६ ॥  
	  
मातङ्गीपूजनं श्रेष्ठं दूतीयागे मनोहरम् ।  
	  
दूतीयागे च विप्राणां नाधिकारः ।  
तदुक्तं (बृहच्छ्रीक्रमसंहितायाम्)  
	  
	  
वामागमोऽपि विप्रस्तु मद्यमांसं न भक्षयेत् ॥ ७-५७७ ॥  
	  
स्वकीयां परकीयां वा नाकृष्य ब्राह्मणो यजेत् � इति ॥  
	  
(महाकालसंहितायामपि)  
	  
स्वयोषां परयोषां वा नैवाकृष्य द्विजो जपेत् ।  

प्। ६११) लोभाद्यदि चरेद्देवमधो याति द्विजस्तदा ॥ ७-५७८ ॥

इहामुत्र फलं नास्ति हीनायुरपि जायते ।  
	  
ब्राह्मणेतराणामपि योगिनामेवात्राधिकारः ।  
तदुक्तं (सिद्धिनाथसंहितायाम्)  
	  
अद्वैतज्ञाननिष्ठो यो योऽसौ संसारपारगः ॥ ७-५७९ ॥  
	  
स एव जगदे दूत्या नाधिकारी भवेदिति ।  
	  
इति दूतीगागविधिः ।  
	  
अथ शावरमन्त्रपुरश्चरणम् ।  
	  
(मेरुतन्त्रे)  
	  
अथ शावरमन्त्राणां पुरश्चरणमुच्यते ॥ ७-५८० ॥  
	  
कामरूपाख्यदेशे तु कामाख्या यत्र देवता ।  
कामशैलोऽस्ति यत्रासौ कामपीठं तदुच्यते ॥ ७-५८१ ॥  
	  
तत्र संलेख्य मन्त्रं हि वंशोपरि यथाक्रमम् ।  
गुरूणां वाचनीयः स स्वयं पश्चात् पठेन्मनुम् ॥ ७-५८२ ॥  
	  
गुरोरभावे तस्यैव मूले शैलस्य पर्वणि ।  
लिखित्वा प्रपठेन्मन्त्रं कामपीठं गुरुर्मतः ॥ ७-५८३ ॥  
	  
अथवा योगिनीशैले दक्षिणस्यां दिशि ध्रुवम् ।  
योगाम्बा यत्र देवी सा लिखित्वा प्रपठेन्मनुम् ॥ ७-५८४ ॥  
	  
ज्वालामुखी समीपे वा हिङ्गुलायाः समीपतः ।  
लिखित्वा प्रपठेन्मन्त्रं नान्यथैव प्रसिद्ध्यति ॥ ७-५८५ ॥  
	  
मुख्यतः स्त्रीसमीपे हि कामपीठे मनुग्रहः ।  
अथवा सर्वदेशेषु मन्त्रग्रहणमुच्यते ॥ ७-५८६ ॥  
	  
तालपत्रे मनुं वक्ष्ये पूर्णकुम्भे निधापयेत् ।  
भास्करं च गुरुं ध्यात्वा वाचयेत् त्रिगुरू रविः ॥ ७-५८७ ॥  
	  
एतावता शावरमन्त्राणां विधिवद्ग्रहणमेव पुरश्चरणमित्युक्तम् ।  

अथ वीरसाधनम् ।

प्। ६१२) तत्रादौ चितासाधनमुक्तं (योगिनीहृदये)

देव्युवाच ।  
	  
भगवन् सर्वमन्त्रज्ञ सर्वशास्त्र विशारद ।  
श्मशाने च पुरश्चर्या त्वया सम्पूजिता पुरा ॥ ७-५८८ ॥  
	  
कथयस्व तदेदानीं यदि स्नेहोऽस्ति मां प्रति ।  
	  
ईश्वर उवाच ।  
	  
यस्मिन् परिश्रमेणापि नॄणां सिद्धिः समीहिता ॥ ७-५८९ ॥  
	  
न जाता तत्र कर्त्तव्या साधकैर्वीरसाधना ।  
पुरा सिद्ध्यै नृपाणां च कर्त्तव्यो समुपस्थिते ॥ ७-५९० ॥  
	  
नान्यसिद्धिकरं शीघ्रं वीरसाधनवर्जितम् ।  
तस्मात् सर्वप्रयत्नेन विधेया वीरसाधना ॥ ७-५९१ ॥  
	  
भयमुक्तेन शुचिना सर्वसिद्धिमभीप्सिता ।  
नानया दुर्लभं किञ्चित् साधकस्य समीहितम् ॥ ७-५९२ ॥  
	  
गिरिजे तत् प्रयत्नेन याचनेयं प्रकाश्यते ।  
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ ७-५९३ ॥  
	  
कृष्णपक्षे विशेषेण साधयेदनया हितम् ।  
	  
(वीरतन्त्रे)  
	  
महावीरक्रमं देव सूचितं न प्रकाशितम् ॥ ७-५९४ ॥  
	  
कथयस्व महादेव सर्वसिद्धिप्रदं महत् ।  
  	  
भैरव उवाच ।  
	  
सर्वसिद्धिप्रदं साक्षात् सर्वदेवनमस्कृतम् ॥ ७-५९५ ॥  
	  
सर्वपापहरं देवि सर्वरोगविनाशनम् ।  
ब्रह्मविष्णुशिवादीनां दिक्पालानां च भाविनि ॥ ७-५९६ ॥  

प्। ६१३) भरवानां च सर्वेषां गन्धर्वाणां च योगिनाम् ।
शाश्वत् सिद्धिप्रदं देवि सर्वेषामालयं महत् ॥ ७-५९७ ॥

नान्यत् सिद्धिप्रदं देवि वीरसाधनवर्जितम् ।  
महाबलो महावीरो महासाहसिकः शुचिः ॥ ७-५९८ ॥  
	  
महास्वच्छो दयावा।श्च सर्वभूतहिते रतः ।  
तेषां कृते महादेवि कथितं वीरसाधनम् ॥ ७-५९९ ॥  
	  
तथा �  
	  
घटीबन्धनवस्त्रं वै मूलेन परिधाय च ।  
तद्बाह्ये च पुनर्वस्त्रं मूलेनाङ्गविलेपनम् ॥ ७-६०० ॥  
	  
कृतोष्णीषश्च मूलेन सिन्दूरेणोर्ध्वपुण्ड्रकम् ।  
इष्टदेवं गुरुं नत्वा यात्रा प्रहरमध्यतः ॥ ७-६०१ ॥  
	  
कार्या च साधकैः सार्धं हृदि मन्त्रं परामृशन् ।  
अक्षुब्धो भुक्तभोज्यश्च यदि स्याद्वीरसाधकः ॥ ७-६०२ ॥  
	  
दिव्यो वा न पशुस्तत्र भुक्त्वा साधनमाचरेत् ।  

अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ ७-६०३ ॥

भौमवारे तमिस्रायां साधयेत् सिद्धिमुत्तमाम् ।  
उपचारं समादाय कुलामृतरसं तथा ॥ ७-६०३ ॥  

सामिपान्नं गुडं छागं सुरा पिष्टकमेव च ।
नानाफलं च नैवेद्यं स्वस्वकल्पोक्तसाधनम् ॥ ७-६०४ ॥

चितास्थाने समानीय सुहृद्भिः शस्त्रपाणिभिः ।	  
समानगुणसम्पन्नैः साधको गतभीः स्वयम् ॥ ७-६०५ ॥  

न निरीक्षेच्चतुर्दिक्षु देवताध्यानतत्परः ।	  
भीतश्चेत् साधकस्तत्र चतुर्दिक्षु च साधकः ॥ ७-६०६ ॥  

स्वगुरुं भ्रातृवर्गं वा ब्राह्मणान् वाऽपि सुव्रतान् ।	  

प्। ६१४) सुहृदानपि रक्षार्थं कियद्दूरे निवेशयेत् ॥ ७-६०७ ॥

नो चेत् केवलमेवासौ भैरवः परिकीर्त्तितः ।	  
अक्षालितां चिताभूमिं गत्वा साधकसत्तमः ॥ ७-६०८ ॥  

प्रक्षातिलां यदि प्रायः कारयेदस्थिसञ्चयम् ।  
	  
(यामले)  
	  
असंस्कृता चिता ग्राह्या न तु संस्कारसंस्कृता ॥ ७-६०९ ॥  
	  
तथा �  
	  
सङ्कल्पं प्रथमं कुर्यात् स्वस्तिवाचनपूर्वकम् ।	  
सामान्यार्घं विधायैतत् ततः पूजां समारभेत् ॥ ७-६१० ॥  

वस्त्रालङ्काअरभूषाद्यैर्भूषितः पूर्वदिङ्मुखः ।  
	  
सङ्कल्पस्तु �  
	  
ॐ अद्येत्यादि अमुकगोत्रः श्रीमदमुकशर्माऽमुकमन्त्रसिद्धिकामः श्मशानसाधमनहं करिष्ये � इत्येवंरूपः ।  
	  
(वीरतन्त्रे)  
	  
अस्त्रान्तमूलमन्त्रेण प्रोक्षणं यागभूमिषु ॥ ७-६११ ॥  

गुरुपादयुगं ध्यात्वा गणेशं वटुकं तथा ।	  
योगिनीं मातृकां चैव वामपादपुरःसरम् ॥ ७-६१२ ॥  

ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः ।	  
पिशाचाः सिद्धयक्षाश्च गन्धर्वाप्सरसां गणाः ॥ ७-६१३ ॥  

योगिन्यो मातरो भूताः सर्वाश्च खेचरस्त्रियः ।  
सिद्धिदास्ता भवन्त्वत्र तथा च मम रक्षकाः ॥ ७-६१४ ॥  

प्रणम्य मनुनाऽनेन पुष्पाञ्जलीत्रयं क्षिपेत् ।	  
श्मशानाधिपतिं पश्चाद्भैरवं कालभैरवम् ॥ ७-६१५ ॥  

महाकालं यजेद्यत्नात् पूर्वादिदिक्चतुष्टये ।  

प्। ६१५) पाद्यादिभिश्च मन्त्रज्ञो वलिं पश्चान्निवेदयेत् ॥ ७-६१६ ॥

शब्दबीजं ततः पश्चात् श्मशानाधिपतत्परम् ।  
इममन्ते सामिषान्नं बलिं गृह्णपदं ततः ॥ ७-६१७ ॥  

गृह्ण गृह्णापय युगं विघ्ननिवारणं ततः ।	  
कुरु सिद्धिं मे समुक्त्वा प्रयछ स्वाहयाऽन्वितम् ॥ ७-६१८ ॥  

ताराद्यमनुना देवि प्रथमो वलिरीरितः ।
मायान्ते भैरवात् पश्चाद्भयानकपदं ततः ॥ ७-६१९ ॥

पूर्वे बलिं समुद्धृत्य दक्षिणे बलिमाहरेत् ।  
हूमन्ते तु महाकालात् पश्चात् पूर्ववदुद्धरेत् ॥ ७-६२० ॥  

पश्चिमे कालदेवाय प्रणवाद्येन कल्पयेत् ।  
शब्दान्ते कालशब्दान्ते भैरवेति पदं ततः ॥ ७-६२१ ॥  

श्मशानाधिप इत्येवं पूर्ववच्चान्तरे हरेत् ।	  
चितामध्ये ततो दयाद्वलित्रयमनुत्तमम् ॥ ७-६२२ ॥  

कालरात्रिमहाकालि कालिके घोरनिःस्वने ।	  
गृहाणेमं बलिं मातर्देहि मे सिद्धिमुत्तमाम् ॥ ७-६२३ ॥  

हू। कालिकायै स्वाहेति बलिं दत्वा भूतनाथाय दापयेत् ।	  
शब्दान्ते भूतनाथान्ते श्मशानाधिप इत्यपि ॥ ७-६२४ ॥  

प्रणवाद्येन मन्त्रेण दापयेद्वलिमुत्तमम् ।  
हू। सर्वगणनाथान्ते अधिपतिपदं तथा ॥ ७-६२५ ॥  

श्मशाने मस्तके दत्वा पूर्ववच्च समुद्धरेत् ।	  
ताराद्येन बलिं दत्वा पञ्चगव्येन सुन्दरि ॥ ७-६२६ ॥  

अस्थिसम्प्रोक्षणं कृत्वा पीठमन्त्रं न्यसेत् पुनः ।
प्। ६१६) भूर्जे वा वटपत्रे वा तत्र पीठमनुं न्यसेत् ॥ ७-६२७ ॥

तन्त्रान्तरे ।  
	  
ततश्चितापश्चिमत एकीकृत्यास्थिसञ्चयम् ।	  
ॐ ह्री। आधरशक्तये नम इत्यणुना पुनः ॥ ७-६२८ ॥  

पञ्चगव्येन सम्प्रोक्ष्य भूर्जे वा वटपत्रके ।	  
हसौरिति लिखेन्मन्त्रं स्थापयेत् तत्र तत् पुनः ॥ ७-६२९ ॥  

कम्बलाद्यासनं तत्र विन्यस्याधारशक्तये ।	  
नम इत्यणुना तत्र ह्रीमाद्यां च प्रपूजयेत् ॥ ७-६३० ॥  
	  
(वीरतन्त्रे)  
	  
पीठमास्तीर्य तस्मिन् वै बद्धवीरासनस्ततः ।	  
वीरार्दने देवेशि लोष्टान् दिक्षु विनिःक्षिपेत् ॥ ७-६३१ ॥  

कूर्चबीजद्वयं देवि मायायुग्मं ततः परम् ।	  
कालिके घोरदंष्ट्रे च प्रचण्डे चण्डनायिके ॥ ७-६३२ ॥  

दानवान् दारयेत्युक्त्वा हनेति द्वितयं ततः ।  
पर वीरं महाविघ्नं छेदयेति द्वयं ततः ॥ ७-६३३ ॥  

सर्वास्त्रान्तो द्विठान्तोऽयं वीरादनुमनुः स्मृतः ।	  
अनेन मन्त्रितं लोष्टं दशदिक्षु विनिःक्षिपेत् ॥ ७-६३४ ॥  

तन्मध्ये भैरवो देवो विघ्नैर्न परिभूयते ।  
यदि प्रमादाद्देवेशि साधको भयविह्वलः ॥ ७-६३५ ॥  

तैस्तैः सर्वैः सुहृद्भिश्च रक्षितो नाभिभूयते ।	  
अर्केन्दुसितवाद्यालतूलैर्निर्मितवर्त्तिकाम् ॥ ७-६३६ ॥  

प्रदीपं यत्र संस्थाप्य अस्त्रं तत्र प्रपूजयेत् ।	  
गते तस्मिन् महादीपे विघ्नैश्च परिभूयते ॥ ७-६३७ ॥  

तदधश्चास्त्रमन्त्रेण निखनेत् कुलदीपिकाम् ।	  

प्।६१७) तत्तत्कल्पविधानेन भूतशुद्ध्यादिकं चरेत् ॥ ७-६३८ ॥

षोधां वा तारकां वाऽपि विन्यस्य पूजयेत् ततः ।  
	  
देवतामिति शेषः ।  
अत एव (यामलादौ)  
	  
ततः पञ्चोपचारेण पुरतो देवतां यजेत् ॥ ७-६३९ ॥  

निमील्य चक्षुषी पश्चाद्देवं ध्यात्वा मनुं जपेत् ।	  
एकाक्षरी यदि भवेद्दिक्सहस्रं ततो जपेत् ॥ ७-६४० ॥  

द्व्यक्षरे चाष्टसाहस्रं त्र्यक्षरे ह्ययुतार्धकम् ।	  
ततः परं तु मन्त्रज्ञो गजान्तकसहस्रकम् ॥ ७-६४१ ॥  

निशार्धात् तु समारभ्य उदयान्तं समाचरेत् ।	  
यद्यसह्यं भयं कर्णनेत्रे वस्त्रेण बन्धयेत् ॥ ७-६४२ ॥  

ततोऽर्धरात्रपर्यन्तं यदि किञ्चिन्न दृश्यते ।	  
जयदुर्गामनुनाऽर्घं तेनैव सर्षपान् क्षिपेत् ॥ ७-६४३ ॥  

ॐ तिलोऽसि सोमदेवत्यो गोसवस्तृप्तिकारकः ।  
पितॄणां स्वर्गदाता त्वं मर्त्त्यानां मम रक्षकः ॥ ७-६४४ ॥  

भूतप्रेतपिशाचानां विघ्नेषु शान्तिकारकः ।  
इति क्षिप्त्वा तिला।स्तत्र चतुर्भागैः शिवादितः ॥ ७-६४५ ॥  

ततः सप्तपदं गत्वा पुनस्तत्रैव संविशेत् ।  
एवं तत्रापि सम्पूज्य प्रजपेन्मनुमुत्तमम् ॥ ७-६४६ ॥  

निर्भयः सन् जपेत् तावद्यावत् सिद्धिः प्रजायते ।	  
भयं तु स्वप्नवज्ज्ञेयं परेऽह्नि शेषमाचरेत् ॥ ७-६४७ ॥  
	  
(वामकेश्वरतन्त्रे)  
	  
जपान्ते च वलिं दद्याद्देवतायै यथाविधि ।	  
महिषं छागलं चापि गृहीत्वा वरमेव च ॥ ७-६४८ ॥  

प्। ६१८) गृहं गच्छेत् सुहृद्वर्गैः सार्धं सुहृष्टमानसः ।

इति चितासाधनाविधिः ।  

अथ शवसाधनविधिः ।

(भूतडामरे)  
	  
यदुक्तं भावसर्वस्वे सर्वतन्त्रेषु गोपितम् ॥ ७-६४९ ॥  

वीरसिद्धिविधानं हि देवदेवेन शम्भुना ।	  
यस्य विज्ञानमात्रेण मन्दभाग्योऽपि सिद्ध्यति ॥ ७-६५० ॥  
	  
तथा �  
	  
पुरश्चरणसम्पन्नो वीरसिद्धिं समाचरेत् ।	  
पुत्रदाराधनस्नेहलोभमोहाविवर्जितः ॥ ७-६५१ ॥  

मन्त्रं वा साधयिष्यामि देहं वा पातयाम्यहम् ।	  
प्रतिज्ञामीदृशीं कृत्वा वलिद्रव्याणि चिन्तयेत् ॥ ७-६५२ ॥  
	  
(वीरतन्त्रे)  
	  
पूर्वोक्तमुपहारादि समादाय तु साधकः ।	  
साधयेत् स्वहितां सिद्धिं साधनस्थानमाश्रयेत् ॥ ७-६५३ ॥  

गुरुध्यानादिकं सर्वं पूर्वोक्तमाश्रयेत् सुधीः ।	  
वीरार्दनान्तिके भूमौ मायामोहो न विद्यते ॥ ७-६५४ ॥  

ये चात्रेत्यादिमन्त्रेण भूमौ पुष्पाञ्जलित्रयम् ।	  
श्मशानाधिपतीनाम् तु पूर्ववद्वलिमाहरेत् ॥ ७-६५५ ॥  

अघोराख्येण मन्त्रेण वलिसाधनमाचरेत् ।  
सुदर्शनेन वा रक्षामुभाभ्यां वा प्रकल्पयेत् ॥ ७-६५६ ॥  

मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः ।  
घोरघोरतरेत्यन्ते तन्नो रूपपदं ततः ॥ ७-६५७ ॥  

वटयुग्मान्तरान्ते च प्रचट द्वितयं पुनः ।	  

प्। ६१९) हेयुग्मं रमयुग्मं च ततो बन्धयुगं ततः ॥ ७-५५८ ॥

पातय द्वितयं वर्म फडन्तः समुदाहृतः ।	  
एकपञ्चाशदर्णोऽयमघोरास्त्रमयो मनुः ॥ ७-६५९ ॥  

हालाहलं समुद्धृत्य सहस्रारस्वरूपकम् ।	  
वर्मास्त्रान्तं महामन्त्रं सुदर्शनस्य कीर्त्तितम् ॥ ७-६६० ॥  

भूतशूद्धिं ततः कृत्वा न्यासजालं प्रविन्यसेत् ।	  
जयदुर्गाख्यमन्त्रेण सर्षपान् दिक्षु निःक्षिपेत् ॥ ७-६६१ ॥  
	  
ॐ दुर्गे दुर्गे रक्षाणि स्वाहा � इति जयदुर्गाख्यमन्त्रः ।  
	  
तिलोऽसीति च मन्त्रेण तिलानपि विनिःक्षिपेत् ।  
यष्टिविद्धं शूलविद्धं खड्गविद्धं पयोमृतम् ॥ ७-६६२ ॥  

रज्जुविद्धं सर्पदष्टं चाण्डालैर्वाऽभिभूतकम् ।	  
तरुणं सुन्दरं शूरं रणे नष्टं समुज्ज्वलम् ॥ ७-६६३ ॥  

पलायनविशून्यं च सम्मुखे रणवित्तमम् ।  
स्वेच्छामृतं द्विवर्षं च वृद्धां स्त्रीं च द्विजं तथा ॥ ७-६६४ ॥  

अन्नाभावमृतं कुष्टं सप्तरात्रोर्ध्वगं तथा ।  
एवं चाष्टविधं त्यक्त्वा पूर्वोक्तान्यतमं शवम् ॥ ७-६६५ ॥  

गृहीत्वा मूलमन्त्रेण पूजास्थाने समानयेत् ।  
चाण्डालाद्यभिभूतं वा शीघ्रं सिद्धिफलप्रदम् ॥ ७-६६६ ॥  

प्रणवाद्यस्त्रमन्त्रेण शवस्य प्रोक्षणं चरेत् ।  
प्रणवं कूर्चबीजं च मृतकाय नमोऽस्तु फट् ॥ ७-६६७ ॥  

पुष्पाञ्जलित्रयं दत्वा प्रणमेत् स्पर्शपूर्वकम् ।	  
रे वीरपरमानन्द शिवानन्द कुलेश्वर ॥ ७-६६८ ॥  

आनन्दभैरवाकार देवीपर्यङ्कशङ्कर ।	  

प्। ६२०) वीरोऽहं त्वां प्रयच्छामि उत्तिष्ठ चन्द्रिकार्चने ॥ ७-६६९ ॥

प्रणम्यानेन मन्त्रेण स्वापयेत् तदनन्तरम् ।  
तारं शब्दं मृतकाय नमोऽन्तं मन्त्रमुच्यते ॥ ७-६७० ॥  

शवस्वापनमन्त्रोऽयं सर्वतन्त्रेषु देशितः ।  
दूपेन धूपितं कृत्वा गन्धादि वा प्रलिप्य च ॥ ७-६७१ ॥  

रक्ताक्तो यदि देवेश भक्षयेत् कुलसाधकम् ।  
गत्वा शवस्य सान्निध्यं धारयेत् कटिदेशतः ॥ ७-६७२ ॥  

यद्युपद्रावयेत् तस्य दद्यान्निष्ठीवनं मुखे ।  
पुनः प्रक्षालितं कृत्वा जपस्थानं समानयेत् ॥ ७-६७३ ॥  

कुशशय्यां परिस्तीर्य तत्र संस्थायेच्छवम् ।	  
एलालवङ्गकर्पूरजातीखदिरसार्द्रकैः ॥ ७-६७४ ॥  

ताम्बूलं तन्मुखे दत्वा शवं कुर्यादधोमुखम् ।	  
स्थापयित्वा तस्य पृष्ठं चन्दनेन विलेपयेत् ॥ ७-६७५ ॥  

बाहुमूलादिकट्यन्तं चतुरस्रं विभावयेत् ।  
मध्ये पद्मं चतुर्द्वारं दलाष्टकसमन्वितम् ॥ ७-६७६ ॥  

ततश्चैणेयमजिनं कम्बलान्तरितं न्यसेत् ।  
द्वादशाङ्गुलमानेन यज्ञकाष्ठानि दिक्षु च ॥ ७-६७७ ॥  

इमं वलिं गृह्ण युगं गृह्णापय युगं ततः ।	  
विघ्ननिवारणं कृत्वा सिद्धिं प्रयच्छेति द्वयम् ॥ ७-६७८ ॥  

अनेन मनुना पूर्वं वलिं दद्याच्च सामिषम् ।  
स्वस्वनामादिकं दत्वा पूर्वद्वलिमाहरेत् ॥ ७-६७९ ॥  

सर्वेषां लोकपालानां ततः साधकसत्तमः ।	  
शवाधिस्थानदेवेभ्यो वलिं दद्यात् सुरया सह ॥ ७-६८० ॥  

प्। ६२१) चतुःषष्टियोगिनीभ्यो डाकिनीभ्यो वलिं दिशेत् ।
पूजाद्रव्यं सन्निधौ च दूरे चोत्तरसाधकम् ॥ ७-६८१ ॥

संस्थाप्यासनमभ्यर्च्य स्वमन्त्रान्ते त्रपां ततः ।	  
फडित्यनेन मन्त्रेण तत्राश्वारोहणं विशेत् ॥ ७-६८२ ॥  

कुशान् पादतले दत्वा शवकेशान् प्रमार्ज्य च ।	  
दृढं निबन्ध्य जुटिकां कृतसङ्कल्पसाधकः ॥ ७-६८३ ॥  

शवोपरि समारूह्य प्राणायामं विधाय च ।  
वीरार्दनेन मन्त्रेण दिक्षु लोष्टान् समाक्षिपेत् ॥ ७-६८४ ॥  

ततो देवं समभ्यर्च्य उपचारैस्तु विस्तरैः ।	  
शवास्ये विधिवद्देवि देवताप्यायनं चरेत् ॥ ७-६८५ ॥  

उथाय सम्मुखे स्थित्वा पठेद्भक्तिपरायणः ।	  
यशो मे भव देवेश ममामुकपदं ततः ॥ ७-६८६ ॥  

सिद्धिं देहि महाभाग भूताश्रयपदाम्बरः ।	  
मूलं समुच्चरन्मन्त्री शवपादद्वयं ततः ॥ ७-६८७ ॥  

पट्टसूत्रेण बन्धीयात् तदोत्थातुं न शक्यते ।  
ॐ भीरुभीम भयाभाव भव्यलोचनभावुक ॥ ७-६८८ ॥  

त्राहि मां देवदेवेश शवानामधिपाधिप ।  
इति पादतले तस्य त्रिकोणं चक्रमालिखेत् ॥ ७-६८९ ॥  

तदोत्थातुं न शक्नोति शवोऽपि निश्चलो भवेत् ।	  
उपविश्य पुनस्तस्य बाहू निःसार्य पार्श्वयोः ॥ ७-६९० ॥  

हस्तयोः कुशमास्त्रीर्य पादौ तत्र निधापयेत् ।	  
ओष्ठौ तु सम्पुटौ कृत्वा स्थिरचित्तः स्थिरेन्द्रियः ॥ ७-६९१ ॥  

सदा देवीं हृदि ध्यात्वा मौनी तु जपमाचरेत् ।	  
श्मशाने प्रोक्तसङ्ख्यभिर्जपं कुर्यात् कुलेश्वरि ॥ ७-६९२ ॥  

प्। ६२२) अथवाऽरम्भकालात् तु यावच्चोदयते रविः ।
यद्यर्धरात्रिपर्यन्तं जप्ते किचिन्न लक्ष्यते ॥ ७-६९३ ॥

तदा पूर्ववदर्घादिसमयादागतानि च ।  
कृत्वोपविश्य तत्रैव जपं कुर्यादनन्यधीः ॥ ७-६९४ ॥  

चलासनाद्भयं नास्ति भये जाते वदेत् ततः ।  
यत् प्रार्थयसि देवेशि दातव्यं कुञ्जरादिकम् ॥ ७-६९५ ॥  

दिनान्तरे प्रदास्यामि स्वनाम कथस्व मे ।  
इत्युक्त्वा संस्कृतेनैव निर्भयस्तु पुनर्जपेत् ॥ ७-६९६ ॥  

ततश्चेन्मधुरं वक्ति वक्तव्यं मधुरं ततः ।	  
तदा सत्यं च संस्कार्यं नरं च प्रार्थयेत् ततः ॥ ७-६९७ ॥  

यदि सत्यं न कुर्याच्च वरं वा न प्रयच्छति ।  
तदा पुनर्जपेद्धीमानेकाग्रं मानसं भजन् ॥ ७-६९८ ॥  
	  
(यक्षडामरे)  
	  
न पश्येदद्भुते जाते न भाषेत च न स्पृशेत् ।	  
एकचित्तो जपं कुर्याद्यावत् प्रत्यक्षतां व्रजेत् ॥ ७-६९९ ॥  
	  
(वीरतन्त्रे)  
	  
नररूपो नात्र देवो यो नरो वोपसर्पति ।	  
यत्नतस्तेन बोद्धव्यं नरो वा देवयोनयः ॥ ७-७०० ॥  

माता वा तत्सुता वाऽपि मातुलानी तथाऽपि वा ।	  
आगत्य विघ्नं चरते माययाऽच्छाद्य विग्रहम् ॥ ७-७०१ ॥  

उत्तिष्ठ वत्स ते कार्यं सर्वं जातं न संशयः ।  
प्रभातसमयो जातस्त्वत्पिता क्रोशते गृहे ॥ ७-७०२ ॥  

प्रायेण सकला लोका राजानो दण्डधारिणः ।  
कदाचित् केनाप्यादिष्टस्तदा किं ते करिष्यति ॥ ७-७०३ ॥  

प्। ६२३) इत्यादिविविधैर्वाक्यैर्न जपं परिसन्त्यजेत् ।
मृताः पितृगणास्तत्र दूरदेशनिवासिनः ॥ ७-७०४ ॥

बान्धवास्तत्र आयान्ति देवरूपधरास्ततः ।	  
स्त्रीपुत्रसेवकादी।श्च गृहीत्वा नीयते परैः ॥ ७-७०५ ॥  

रुदन्ति पुत्रकाः सर्वे भ्रातरोऽनुजशिष्यकाः ।	  
निजकान्ताङ्गसंस्पर्शं वस्त्राद्याभरणादिकम् ॥ ७-७०६ ॥  

गृहीत्वा नीयते पत्नी पालकैस्तद्भयं त्यजेत् ।	  
यदि न क्षुभ्यते तत्र तदा किं वा न लभ्यते ॥ ७-७०७ ॥  

स्त्रीरूपधारिणी देवी द्विजरूपधरः पुमान् ।  
वरं गृह्णेति शब्दं वै त्रिवारान्ते वरं लभेत् ॥ ७-७०८ ॥  

साधुनाऽसाधुना वाऽपि योषिच्चेद्वरदायिनी ।  
तदा वीरपतेस्तस्य किं न सिद्ध्यति भूतले ॥ ७-७०९ ॥  

निष्पापः पुरुषश्चैव कुले चैव सुसंस्कृतः ।  
असंस्कृतवरा देवी पापयुक्ता न संशयः ॥ ७-७१० ॥  

सम्मुखेऽसम्मुखे वाऽपि संस्कृतं वक्ति चापरम् ।  
सैव देवी न सन्देहः स देवो भैरवः स्वयम् ॥ ७-७११ ॥  

न चेदेवं भवेच्चैव मायापुटितविग्रहात् ।  
वरयेन्न वरं तत्र न वरं प्रवदेत् क्वचित् ॥ ७-७१२ ॥  

स चेत् संस्कृतमाख्यातं वक्ति वक्तव्यमीदृशम् ।	  
न चेत् स्वयं कौलिकोक्त्या वरं ग्राह्यं निराकुलम् ॥ ७-७१३ ॥  

अथवा उत्कटं किञ्चिल्लभेताप्यात्मनो हितम् ।	  
शब्दो वा जायते सम्यगमृतं वाऽपि लभ्यते ॥ ७-७१४ ॥  

सर्वं विचार्य गृहीतव्यमेवं दिक् परिकीर्त्तिता ।	  

प्। ६२४) देव्याकृतयो बहुधा नराद्याकृतयः क्वचित् ॥ ७-७१५ ॥

अवश्यं तत्र भेतव्यं न तत्र प्रत्ययः क्वचित् ।	  
भैर्वा वटुकाश्चैव कुलशास्त्रपरायणाः ॥ ७-७१६ ॥  

एतच्छास्त्रप्रसङ्गेन कृत्या कुटिलविग्रहाः ।  
पुत्रो भूत्वा वरयेत् तं नारी भूत्वा विमोहयेत् ॥ ७-७१७ ॥  

तस्मात् तत्त्वपरो वीर आचारे यत्नमाचएत् ।  
	  
(बूतडामरे)  
	  
वदत्यागत्य चेष्टं वा देहस्फूरर्तिं करोति हि ॥ ७-७१८ ॥  

एतेन जायते वीरसिद्धिर्दद्यात् ततो वलिम् ।	  
देवतां च गुरुं नत्वा विसृज्य हृदयं पुनः ॥ ७-७१९ ॥  

स्थापयेत् तोषयेद्विद्वान् शवं तोये विनिःक्षिपेत् ।  
	  
(वीरतन्त्रे)  
	  
सत्ये कृते वरं लब्ध्वा सन्त्यजेच्च च जपादिकम् ॥ ७-७२० ॥  

जातं फलमिति ज्ञात्वा जूटिकां मोचयेत् ततः ।  
सम्प्रक्षाल्य च संस्थाप्य जूटिकां मोचयेत् पदे ॥ ७-७२१ ॥  

पदचक्रं मार्जयित्वा पूजाद्रव्यं जले क्षीपेत् ।  
शवं जलेऽथ गर्ते वा निःक्षिप्य स्नानमाचरेत् ॥ ७-७२२ ॥  

ततस्तु स्वगृहं गत्वा वलिं दत्वा दिनान्तरे ।  
अग्निमरात्रौ तु येषां देवानां यजमानोऽहम् ॥ ७-७२३ ॥  

ते गृह्णन्तु मया दत्तं वलिमिमं च सामिषम् ।  
अथ यैर्याचितश्चाश्वनरकुञ्जरशूकरान् ॥ ७-७२४ ॥  

दत्वा पिष्टमयानेव कर्त्तव्यं समुपोषणम् ।  
	  
तत्रान्तरे ।  
	  
यवक्षोदमयं वाऽपि शालिक्षोदमयं च वा ॥ ७-७२५ ॥  

प्। ६२५) चन्द्रहासेन विधिवत् तत्तन्मन्त्रेण पातयेत् ।
परेऽह्नि नित्यमाचर्य पञ्चगव्यं पिवेत् ततः ॥ ७-७२६ ॥

ब्राह्मणान् भोजयेत् तत्र पञ्चविंशतिसङ्ख्यकान् ।	  
पञ्च पञ्च गृहीतान् वा क्रमाच्चैव दशावधि ॥ ७-७२७ ॥  

ततः स्नात्वा च भुक्त्वा च निवसेदुत्तमस्थले ।  
यदि न स्याद्विप्रभोज्यं तदा निर्धनतां व्रजेत् ॥ ७-७२८ ॥  

तेन चेन्निर्धनत्वं स्यात् तदा देवः प्रकुप्यति ।  
त्रिरातं वाऽथ षड्रात्रं गोपयेत् कुलसाधनम् ॥ ७-७२९ ॥  

शय्यायां यदि गच्छेद्वा तदा व्याधी प्रजायते ।  
गीतं श्रुत्वा च वधिरो निश्चक्षुर्नृत्यदर्शनात् ॥ ७-७३० ॥  

यदि वक्ति दिने वाक्यं तदा स मूकतां व्रजेत् ।  
पञ्चदशदिनान्ता हि देहे देवस्य संस्थितिः ॥ ७-७३१ ॥  

गोब्राह्मणानां देवानां निन्दां कुर्यान्न कुत्रचित् ।  
देवगोब्राह्मणादी।श्च प्रत्यहं तु स्पृशेच्छुचिः ॥ ७-७३२ ॥  

प्रातर्नित्यक्रियान्ते तु विल्ल्वपत्रोदकं पिवेत् ।  
ततः स्नायात् तु तीर्थादौ प्राप्ते षोडशवासरे ॥ ७-७३३ ॥  

स्वाहान्तं मूलमुच्चार्य तर्पयामि नमःपदम् ।	  
एवं पदत्रयादूर्ध्वं देवानां तर्पणं जलैः ॥ ७-७३४ ॥  

मुनितर्पणशून्यस्य न स्याद्देवस्य तर्पणम् ।  
इत्यनेन विधानेन सिद्धिमाप्नोति निश्चितम् ॥ ७-७३५ ॥  

इह भुक्त्वा वरान् दिव्यानन्ते याति हरेः पदम् ।  
अनङ्गं साङ्गमपि वा निष्फलं सफलं च वा ॥ ७-७३६ ॥  

कृत्वा साधनमेवैतच्छक्तेः प्रियतमो भवेत् ।  

प्। ६२६) शवाभावे श्मशाने वा कर्त्तव्या वीरसाधना ॥ ७-७३७ ॥

ये भावा यस्य वै प्रोक्तास्तैर्भावैर्यदि नार्चयेत् ।  
ईदृशक्रमयोगेन भ्रष्टो भवति साधकः ॥ ७-७३८ ॥  

नोपदिशेत् तत्र भावं न पूजां तत्र सन्दिशेत् ।  
श्मशानान्तं गृहीत्वा तु तावच्छुद्धिः प्रजायते ॥ ७-७३९ ॥  
	  
(वीरचूडामणौ)  
	  
अथवाऽन्यप्रकारेण साधनं कथयामि ते ।	  
जपस्थानं तु संशोध्य खननादि प्रयत्नतः ॥ ७-७४० ॥  

तन्मध्ये च वलिं दद्याल्लिखेद्यन्त्रं त्रिकोणकम् ।  
तन्मध्ये च महाशङ्ङ्खं निवेश्य मुण्डपञ्चकम् ॥ ७-७४१ ॥  

तस्योपरि महाप्रेतमखण्डाङ्गं सुशोभनम् ।  
उद्वर्त्तनादिकं कुर्यात् स्नापयेद्विधिपूर्वकम् ॥ ७-७४२ ॥  

परिधाप्यं रक्तवस्त्रं नेत्राञ्जनसमीरितम् ।	  
ताम्बूलादि मुखे दद्याल्ललाटे रक्तचन्दनम् ॥ ७-७४३ ॥  

हृदये च लिखेद्यन्त्रं पद्ममध्ये त्रिकोणकम् ।  
पूजायन्त्रं ललाटे च शस्त्रेण विलिखेत् ततः ॥ ७-७४४ ॥  

मूर्ध्नि बाहौ तथा हस्ते पादे चैव तथा कटौ ।  
खदिरादीनि काष्ठानि कीलान्यारोपयेत् सुधीः ॥ ७-७४५ ॥  

बन्धकं वर्द्धयेत् तत्र दृढबन्धेन बन्धयेत् ।  
षट्पात्रेषु वलिं दद्यात् कीले कीले पृथक् पृथक् ॥ ७-७४६ ॥  

माषं मांसं तथा मत्स्यं पायसं त्रिविधाः सुराः ।  
मोदकं च महापूपं दुग्धान्नोत्सर्गमाचरेत् ॥ ७-७४७ ॥  

क्रोधीशवह्निमारूढं तूर्यस्वरसमन्वितम् ।	  
वर्मबीजं समुच्चार्य श्मशानकालिकेति च ॥ ७-७४८ ॥  

प्। ६२७) पूर्वबीजं समालिख्य अस्त्रान्तो मन्त्र उच्यते ।
मायाबीजं समुच्चार्य श्मशानभैरवाय च ॥ ७-७४९ ॥

महाकालाय देवाय सर्वविघ्नहरो भव ।  
वलिं गृह्ण द्विधा कुर्यात् त्रयोदशं सविन्दुकम् ॥ ७-७५० ॥  

श्मशानवासिनो रुद्रा अस्तिमांसवलिप्रियाः ।  
विघ्नं निवारय सम्यग्वलिं गृह्ण द्विधा पुनः ॥ ७-७५१ ॥  

विघ्नं निवारय युगं वरं चैव प्रयच्छ मे ।  
द्विठान्तो मन्त्र इत्युक्तो वलिरुक्तविधानतः ॥ ७-७५२ ॥  

माया लज्जा तया लक्ष्मीर्नन्दिनीशत्रयं लिखेत् ।  
नारायणस्तथा सूक्ष्मपरं तु मधुसूदनः ॥ ७-७५३ ॥  

योगिनीभ्यः परं पश्चात् श्मशानवासिनीति च ।  
प्रचण्डा चण्डरूपायै कर्त्तृखर्परधारिणी ॥ ७-७५४ ॥  

वलिं गृह्णापय युगं सर्वविघ्नं निवारय ।	  
वरं देहि पदं ब्रूयाद्द्विठान्तो योगिनीवलिः ॥ ७-७५५ ॥  

रौद्रं वह्निसमारूढं चतुर्दशस्वरान्वितम् ।  
विन्दुनादकलाक्रान्तं क्षेत्रपालं च ङेऽन्तम् ॥ ७-७५६ ॥  

श्मशानवासिने ब्रूयाच्छोणितास्थिप्रियाय च ।	  
द्विठान्तं मन्त्रमुच्चार्य क्षेत्रपालवलिं हरेत् ॥ ७-७५७ ॥  

वाराहीबीजमुद्धृत्य बीजं पञ्चान्तकं पुनः ।  
वक्रतुण्डायेति पदं वर्म चैव समुद्धरेत् ॥ ७-७५८ ॥  

वलिं गृह्णपदं ब्रूयाद्विघ्नं निवारयेति च ।	  
सिद्धिं प्रयच्छ मे चैव अस्त्रान्तो मनुरुत्तमः ॥ ७-७५९ ॥  

पादस्यापादनं कुर्यान्मदिरानन्दविग्रहः ।  

प्। ६२८) हृदयोपरि महावीरः शक्तिं चैव शवोपरि ॥ ७-७६० ॥

विवस्त्रा मुक्तकेशी च कर्त्तृखर्परधारिणी ।  
प्रक्षाल्य कुलद्रव्येण कुलचक्रं प्रपूजयेत् ॥ ७-७६१ ॥  

धूपदीपादिनैवेद्यैः पञ्चभूतबलिं हरेत् ।  
यथाशक्ति जपं कुर्यात् मूलमन्त्रं समर्पयेत् ॥ ७-७६२ ॥  

विपरीतपरा नीवी मथुनं च शवोपरि ।  
अयुतं च जपेत् तत्र सर्वसिद्धीश्वरो भवेत् ॥ ७-७६३ ॥  

यदा वै भयभीतोऽसौ भक्षयन्ति च तत्क्षणात् ।	  
देहि देहि यदा ब्रूयात् तदा छागवलिं हरेत् ॥ ७-७६४ ॥  

बलिदानं विना हिंसा न कर्त्तव्या कदाचन ।  
पुरश्चरणतो मन्त्रसिद्धिर्भवति निश्चितम् ॥ ७-७६५ ॥  

(मुण्डमालायाम्)  
	  
अथवाऽन्यप्रकारेण कुर्याद्वै वीरसाधनम् ।  
सङ्ग्रामे पतिवान् प्रेतानानीय विधिपूर्वकम् ॥ ७-७६६ ॥  

अष्टदिक्षु विधायाष्टौ नवमं मध्यसंस्थकम् ।  
रज्ज्वा रज्ज्वा रज्जुनाथ रोपिते दृढकीलके ॥ ७-७६७ ॥  

चन्दनादिभिरभ्युक्ष्य सुगन्धिकुसुमादिभिः ।	  
अलङ्कृत्य प्रयत्नेन मध्यस्याथ मस्तकम् ॥ ७-७६८ ॥  

ललाटे पूजयेद्देवीमुपचारैः समुज्जवलैः ।  
वलिं दद्यादष्टदिक्षु माषमांसैः सुराशवैः ॥ ७-७६९ ॥  

पायसैर्मधुसंयुक्तैः कुसुमैरक्षतैस्तथा ।  
ततो जपं प्रकूर्वीत शवस्य हृदि निर्भयः ॥ ७-७७० ॥  

उपविश्यासने शोणे व्याघ्रचर्मविनिर्मिते ।	  
पञ्चायुतं च जप्त्वाऽथ पूर्ववत् कल्पयेद्वलिम् ॥ ७-७७१ ॥  

प्। ६२९) व्याघ्रवानरभल्लूकशृगालोल्कामुखानथ ।
दृष्ट्वाऽथ न भयं कुर्यान्मायामेव विचिन्ययेत् ॥ ७-७७२ ॥

ततोऽनुभावं लब्ध्वाऽथ दद्याच्छागादिकं वलिम् ।  
तथाऽक्लिष्टमना भूत्वा शवं निःक्षिप्य वारिणि ॥ ७-७७३ ॥  

द्विजेभ्यो दक्षिणां दद्यात् साधकेभ्यो विशेषतः ।  
सुवेशाभ्यस्तथा स्त्रीभ्यः कुमारीभ्यः प्रयत्नतः ॥ ७-७७४ ॥  

वसनं भूषणं तद्वन्मधुरद्रव्यभोजनम् ।  
स्वयं तथैव भुञ्जीत नराणां तु विवर्जयेत् ॥ ७-७७५ ॥  

एतेन तु महासिद्धिर्जायते भुवि दुर्लभा ।  
राज्यं श्रियं परानन्दो वैरिराष्ट्रजयं तथा ॥ ७-७७६ ॥  

जगन्मोहनवश्यादि कविताकौशलं पुनः ।  
सङ्ग्रामे च तमुद्दिश्य साधकं वैरिवाहिनी ॥ ७-७७७ ॥  

पलायते प्रगल्भाऽपि कि पुनः क्षुद्रवैरिणः ।  
नानाविधाष्टसिद्धीनां साधको भाजनं भवेत् ॥ ७-७७८ ॥  

इदं मयोक्तं देवेशि न प्रकाश्यं कदाचन ।  
एतत् ते परमं गोप्यं विशेषात् पशुसंसदि ॥ ७-७७९ ॥  

रहस्यमेतत् परममागमस्यैकजीवितम् ॥ ७-७७९एफ़् ॥  
	  
इति वीरसाधनविधिः ।  
	  
विभ्रत्यद्भुतभूतिभूतपवचो वैचित्रचित्रामृत-  
	स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।  
नव्येऽस्मिन् नरदेवनिर्मितपुरश्चर्यार्णवे सप्तमः  
	सद्युक्तिस्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः ॥ ७-७८० ॥  

इति श्रीमन्महाराजाधिराजप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे मन्त्रसिद्धिलक्षणोपायपुरश्चरणभेदनिरूपणं नाम सप्तमस्तरङ्गः ॥ ७ ॥