०६ सामान्यपुरश्चरणविधिः

अथ पुरश्चरणविधिर्निरूप्यते ।

तत्र पुरश्चरणपदार्थ उक्तो (यामले)

वेदादिशावरान्तानां मन्त्राणां सिद्धिहेतवे ।
पुरतश्चरणीयत्वात् पुरश्चरणमुच्यते ॥ ६-१ ॥

(मेरुतन्त्रेऽपि)

धर्मार्थकाममोक्षाणां साधनं मन्त्र उच्यते ।
तत्सिद्धये पुरो यच्च चर्यते तत् प्रकीर्तितम् ॥ ६-२ ॥

पुरश्चरणकर्माख्यं वेदादौ शावरान्तके ।

मन्त्रे यन्त्रे तथाऽवश्यम् � � � � � � � � � इति ॥

एतेन पुरश्चरणप्रयोजनमप्युक्तं भवति ।
(वायवीयसंहितायाम्)

साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ ६-३ ॥

(वीरचूडामणौ)

पुरश्चरणहीनस्य मन्त्रसिद्धिर्न जायते ।
आदौ पुरस्क्रियां कुर्यान्नियमेन यथाविधि ॥ ६-४ ॥

(योगिनीहृदयेऽपि)

गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ।
ततः पुरस्क्रियां कुर्यान्मन्त्रसंसिद्धिकाम्यया ॥ ६-५ ॥

जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ।
पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्त्तितः ॥ ६-६ ॥

तस्मादादौ स्वयं कुर्याद्गुरुं वा कारयेद्बुधः ।
गुरोरभावे विप्रं वा सर्वप्राणिहिते रतम् ॥ ६-७ ॥

प्। ४१४) स्निग्धं शास्त्रमिदं मित्रं नानागुणसमन्वितम् ।
स्त्रियं वा सद्गुणोपतां सपुत्रां विनियोजयेत् ॥ ६-८ ॥

पुरश्चरणस्वरूपमुक्तम् (कुलचूणामणौ)

पचाङ्गानि महादेवि जपो होम"च तर्पणम् ।
अभिषेकश्च विप्राणामाराधनमपीश्वरि ॥ ६-९ ॥

पूर्वपूर्वदशांशेन पुरश्चरणमुच्यते ।

(कुलमूलावतारे)

संसारे दुःखभूयिष्ठे यदिच्छेछ्रेय आत्मनः ॥ ६-१० ॥

पञ्चाङ्गोपासनेनैव मन्त्रजापी सुखं व्रजेत् ।

(मुण्डमालायाम्)

यावद्यस्मिन् जपः प्रोक्तो मन्त्रं तावज्जपेत् पुरः ॥ ६-११ ॥

ततस्तु तद्दशांशं हि होमं कुर्याद्विचक्षणः ।
तस्यापि च दशांशेन तर्पणं समुदाहृतम् ॥ ६-१२ ॥

तद्दशांशं ततः कुर्यान्मार्जनं तु विशेषतः ।
तस्यापि च दशांशेन प्रोक्तं ब्राह्मणभोजनम् ॥ ६-१३ ॥

कुमारीभोजनं तद्वद्गुरवे दक्षिणां तथा ।
एवं गुरुप्रसादेन पुरश्चरणकर्मकृत् ॥ ६-१४ ॥

मन्त्रसिद्धिमवाप्नोति परमार्थं हि साधकः ।

(मेरुतन्त्रे)

जपो होमस्तर्पणं च मार्जनं विप्रभोजनम् ॥ ६-१५ ॥

पञ्चाङ्गकर्मरूपं तदाहुः के चन तत्र तु ।
चतुरङ्गास्तथा त्र्यङ्गा द्व्यङ्गा एकाङ्गिनोऽपि च ॥ ६-१६ ॥

मन्त्रास्तिष्ठन्ति वेदेशु तथा मन्त्रेऽपि शावरे ।
केचित् षडङ्गा मन्त्राः स्युस्तदङ्गानां जपादिति ॥ ६-१७ ॥

अघमर्षणसूर्यार्घजलपानप्रणामकैः ।
प्। ४१५) देवार्चया पञ्चभिश्च तैरेवं स्युर्दशाङ्गकाः ॥ ६-१८ ॥

दूतीयागात् तथा चौलीकर्मतश्चक्रपूजनात् ।
भगलिङ्गसमायोगजपाच्च बलिदानतः ॥ ६-१९ ॥

महावलिप्रदानाच्च भवन्त्येकादशाङ्गकाः ।
षोडशाङ्गाः कौलिकानां वामिकानां द्विकोनिताः ॥ ६-२० ॥

अमर्यश्मरिसेवातोऽष्टादशाङ्गास्त्वघोरिणाम् ।

(वैष्ववसेन्याम्)

पञ्चाङ्गोऽयं महायागः पुरश्चरणसञ्ज्ञकः ॥ ६-२१ ॥

साधनं पुरुषार्थानामन्ये यागाः सहस्रशः ।
अस्य पञ्चागयागस्य कलां नार्हन्ति षोडशीम् ॥ ६-२२ ॥

विशेषतः कलियुगे जपयागः प्रशस्यते ।

(मेरुतन्त्रे)

अयुताब्दे कलेर्याते त्यजेद्विष्णुशिला महीम् ॥ ६-२३ ॥

तदर्धे जाह्नवीतोयं तदर्धे देवताशिला ।
प्राप्ते कलियुगे घोरे वामाचारविमिश्रिते ॥ ६-२४ ॥

भक्ष्याभक्ष्यविचारादिरहिते म्लेच्छसङ्कुले ।  

कामक्रोधादिभिर्व्याप्ते जने स्त्रीभिर्विनिर्जिते ॥ ६-२५ ॥

क्व शिष्यः क्व गुरुर्मन्त्रः क्व तपः क्व च सिद्धयः ।
जप एव कलौ श्रेयान् शालग्रामार्चनं तथा ॥ ६-२६ ॥

(यामले)

साङ्गो जपो महादेवि पुरश्चर्येति गीयते ।
तस्यामाचरितायां च मन्त्रः सिद्ध्यति नान्यथा ॥ ६-२७ ॥

(पुरश्चरणचन्द्रिकायाम्)

विना येन न सिद्धिः स्यान्मन्त्रो वर्षशतैरपि ।
कृतेन येन लभते साधको वाञ्छितं फलम् ॥ ६-२८ ॥

प्। ४१६) पुरश्चरणसम्पन्नो मन्त्रो हि फलदायकः ।
अतः पुरस्क्रियां कुर्यान्मन्त्रवित् सिद्धिकाङ्क्षया ॥ ६-२९ ॥

सम्यक्सिद्धैकमन्त्रस्य नासाध्यं विद्यते क्वचित् ।
बहुमन्त्रवतः पुंसः का कथा शिव एव सः ॥ ६-३० ॥

किं होमैः किं जपैश्चैव किं मन्त्रन्यासविस्तरैः ।
रहस्यानां हि मन्त्राणां यदि न स्यात् पुरस्क्रिया ॥ ६-३१ ॥

पुरस्क्रिया हि मन्त्राणां प्रधानं बीजमुच्यते ।

(आदियामले)

अकृत्वा तु पुरश्चर्यां यो यत् कर्म समाचरेत् ॥ ६-३२ ॥

तत् तस्यैवाभिचाराय जायते नात्र संशयः ।
तस्मादादौ पुरश्चर्यां कृत्वा कर्माणि साधयेत् ॥ ६-३३ ॥

कर्माणीति षट् कर्माणि ।
तथा ।

हेतुरप्यङ्कुरोत्पत्तौ जलसेकं विना यथा ।
नाङ्कुरं जनयेद्बीजं तथा मन्त्रोऽपि कीर्तितः ॥ ६-३४ ॥

पुरश्चर्याविहीनो हि सिद्धिहेतुर्न सिद्ध्यति ।
तस्मात् तत्सिद्धये मन्त्रो पुरश्चरणमाचरेत् ॥ ६-३५ ॥

तत्रादौ पुरश्चरणकाला (वैष्वक्सेन्याम्)

माधवे मार्गशीर्षे वा मकरस्थे दिवाकरे ।
आरभेत पुरश्चर्यां शुक्लपक्षे शुभेऽहनि ॥ ६-३६ ॥

(दक्षिणामूर्तिकल्पे)

आरभेत् प्रवरो विद्वान् पूर्वपक्षं समाश्रितः ।
पुण्ये मुहूर्ते नक्षत्रे तिथौ स्नात्वा यथाविधि ॥ ६-३७ ॥

पूर्वपक्षः शुक्लपक्षः । शाक्तादौ तु पक्षद्वयमपि प्रशस्तमेव ।

अष्टम्यां वा चतुर्दश्यां पक्षयोरुभयोरपि ।

आरभेत पुरश्चर्यां काले दीक्षोक्त एव हि - इति (यामल-) वचनात् ।

प्। ४१७) (सुधार्णव-) धृतवचनम् ।

यस्मिन् काले भवेद्दीक्षा तस्मिन् काले भवेदिदम् ॥ ६-३८ ॥

(मुण्डमालायाम्)

गुरोरनुज्ञां सम्प्राप्य विशेषेण शुभे दिने ।
समारभ्य पुरश्चर्यां विधिपूर्वं समापयेत् ॥ ६-३९ ॥

(वैशम्पायनसंहितायाम्)

चन्द्रतारानुकूले च शुक्लपक्षे शुभेऽहनि ।
आरभेन्मकरादौ तु सुप्ते विष्णौ जपेन्न च ॥ ६-४० ॥

(श्रीनृसिंह पादार्चनपद्धतावपि)

प्रसुप्ते तु महावुष्णौ पुरश्चर्यां न चाचरेत् ।
मुह्यन्ति सकला मन्त्राः सुप्ते तस्मिन् जगद्गुरौ ॥ ६-४१ ॥

मुह्यन्तीति । सर्वेषां मन्त्राणां नारायणात्मकतया तस्मिन् योगरूपनिद्रामाश्रिते सर्वे मन्त्रास्तदीययोगनिद्रया व्यामोहिता भवन्तीत्यर्थः । तथा च मन्त्राणां व्यामोहकाले पुरश्चरणादिना सिद्धिर्न भवतीति भावः । न च तत्तत्मन्त्राणां तत्तदेवतात्मकतया तन्मन्त्राणामेव तदात्मकत्वेन तन्मन्त्रातिरिक्तमन्त्राणामपि कथं तदात्मकत्वमरतीति वाच्यम् । सर्वदेवमयो हरि रित्यादिना भगवतः सकलदेवात्मकत्वे सिद्धे तत्तद्देवतात्मकतत्तन्मन्त्राणां तदात्मकत्वस्य सुवचत्वात् । एतेन हरिशयनकालिकपुरश्चरणनिषेधो विष्णुमन्त्रमात्रविषयो वैशम्पायनवचनस्य तत्प्रकरणीयत्वादित्यपास्तम् । मुह्यन्ति सकला मन्त्रा इत्यत्र सकलपदमहिम्ना मन्त्रशब्दस्य वैष्णवावैष्णवमन्त्रपरत्वावगमात् । एवं च ब्राह्मणेभ्यो दधि दातव्यं न कौणिन्याये त्यादौ ब्राह्मणादिपदस्य कौण्डिन्येतरब्राह्मणपरत्वदर्शनात् पुरश्चरणप्रकरणीयवैशम्पायनादिवचनविषिद्धकालातिरिक्तो दीक्षाप्रकरणीयसिद्धान्तशेखरादिवचनविहितश्च यः काल स एव यस्मिन् काले भवेद्दीक्षा तस्मिन् काले भवेदिदमिति सामान्यवचनेन गृह्यते । तेन दीक्षायां विहितोऽपि श्रावणादिः पुरश्चरणे निषिद्ध एव । हरिशयनकाले पुरश्चरणमेव निषिद्धम् । तदतिरिक्तजपपूजादेस्त्वावश्यकत्वमुक्तम् ।
तत्रैव ।

अर्चया स्त्रोत्रपाठेन जपेन नियमन च ।
तत्प्रीतिकामुकैर्भक्तैः सेव्यः सुप्तो जनार्दन ॥ ६-४२ ॥

यः प्रसूप्तोऽपि जागर्त्ति विश्वसाक्षी चिदात्मकः ।

स भक्त्या तोषितो येन तस्यैव सफलं जनुः - इति ॥

प्। ४१८) शक्तिविषयेऽपि (वाडवानलीये)

घनागमे घनान्ते च पुष्पकाले च शाम्भवि ॥ ६-४३ ॥

आराधयेज्जगद्धात्रीं दिवा वा यदि वा निशि ।
एकैकदिवसे देव्याः प्रीतिः सांवत्सरी भवेत् ॥ ६-४४ ॥

विशेषादेषु कालेषु येन नाराधिताऽम्बिका ।

स दरिद्रो भयग्रस्तः क्षीणायुः साधको भवेत् - इति ।
केचन शाक्तास्तु ।

शिशिरश्च वसन्तश्च शरत्काल इति त्रयः ॥ ६-४५ ॥

उत्तमा ऋतवो देव्याः पुरश्चरणकर्मणि ।

इत्यादि - (यामल-) वचनेन हरिशयनकालान्तःपातिनि शरत्काले देवीमन्त्रपुरश्चरणविधानाद् विष्णौ सुप्ते जपेन्नचेत्यादि-वैशम्पायनीयवचनं देवीमन्त्रातिरिक्तमन्त्रपरमिति सङ्कोचं परिकल्प्य हरिशयनकालेऽपि पुरश्चरणमाचरन्ति । अत्र शरत्कालशब्दःशरत्कालान्तःपातिदुर्गोत्सवकालपरः । तन्त्रोक्तवचनेन शरत्काले चतुर्थ्यादिनचम्यन्तं विशेषत इत्यादिवक्ष्यमाण(-कालीकल्प-मुण्डमाला-)दिवचनेन च शक्तिमन्त्रपुरश्चरणविधानेऽपि तस्य हरिशयनाधिकरणीभूतयावत्कालं कर्त्तव्यताकत्वे प्रमाणाभावः । अन्यथा ऊर्जे तपसि राधे वा शुक्लपक्षस्तु वैष्णवे इत्यादि (चन्द्रपीठादि) वचनेन वैशाखे कार्त्तिके तथेत्यादिमत्स्य-पुरश्चरणप्रकरणीय - (मेरुतन्त्र -)वचनेन च वैष्णवस्यापि मन्त्रस्य हरिशयनकालान्तःपातिनि कार्त्तिकादौ पुरश्चरणविधानाद्वैशम्पायनादिवचनस्य निर्विषयत्वापत्तेः । यदि च तन्त्रोपतन्त्राणामनन्तत्वेन चातुर्मास्येऽपि शक्तिमन्त्रपुरश्चरणविधायैकवचनानन्तरमुपलभ्येत तदा तु सङ्कोचकल्पना न दुष्टा । अन्यथा दुष्टैवेति पुरश्चरणपद्धतिकृतः ।
प्राञ्चस्तु । निषिद्धमासपतितेऽपि ग्रहणादौ सकलमन्त्राणां विशेषपुरश्चरणविधानात् सामान्यपुरश्चरणमेव हरिशयनकाले निषिद्धम् । विशेषपुरश्चरणे तु नायं निषेध इत्याहुः ।
वस्तुतस्तु । दुर्गोत्सवकालादौ शाक्तादिमन्त्रस्य कार्त्तिकादौ वैष्णवादिमन्त्रस्य भाद्रपदार्दौ गणशादिमन्त्रस्य ग्रहणादौ मन्त्रमात्रस्य च पुरश्चरणविधानादनुक्तकालस्य विशेषपुरश्चरणस्याप्यनिषिद्धकाल एवाचरणाञ्च निषिद्धकालान्तर्गतं यद्यत्कालावच्छेदेन यद्यद्देवतामन्त्रपुरश्चरणं विशेषवचनैर्विधीयते तत्तत्कालावच्छदेन तत्तद्देवतामन्त्रपुरश्चरण कर्तव्यमेव । समान्यवचनेन निषिद्धोविशेषवचनेनविहितश्च यः कालस्तत्र कस्यापि मन्त्रस्य पुरश्चरणमात्रं नाचरकार्तिके प्। ४१९) तु मन्त्रमात्रस्य पुरश्चरणं कर्तव्यम् ।

सर्वेषामपि मन्त्राणां कुर्यादूर्जे पुरस्क्रियाम् - इति (साधनसमुच्चय-) वचनाद्वक्ष्यमाणमहाचीनादिक्रमेण पुरश्चरणे तु न कालादिनियमः ।
तदुक्तं (सारसङ्ग्रहे)

सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् ॥ ६-४६ ॥

तथा ।

दिग्देशनियमो नात्र स्थित्यादिनियमो न हि ।
न जपे कालनियमो नार्चादिषु विलिष्वपि ॥ ६-४८ ॥

स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने ।

इत्यादिमहामन्त्रशब्दस्तु मन्त्रमात्रोपलक्षकः । अन्यथा महाचीनक्रमेणोपमन्त्रपुरश्चरणे नियमपरिपालनापत्तेरवापि कालपदमहारात्रान्तर्गततत्तत्कालपरं न तु विहितनिषिद्धमासदिवसादिपरम् ।
तथा च ।

प्रातःकालं समारभ्य जपेन्मध्यं दिनावधि - इति ।

पाशवकल्पोक्तौ ।

गते तु प्रथमे यामे तृतीयप्रहरावधि ॥ ६-४९ ॥

निशायामेव जप्तव्यं रात्रिशेषे जपेन्न च - इति वीरकल्पोक्तश्च यः कालनियमः स चास्मिन् महाचीनक्रमेणास्तीति तदर्थः ॥

न विशेषो दिवारात्रौ सन्ध्यायां वा महानिशि ।
सर्वकाले यजेद्देवीमस्नातः कृतभोजनः ॥ ६-५० ॥

इति तत्रैवोक्तत्वात् ।
कथमन्यथा ।

वीराणां जपकालस्तु सर्वकालः प्रशस्यते ।

इति (भावचूडामणि-) वचनं सङ्गमनीयम् ।

अष्टम्यां वा चतुर्दश्यां पक्षयोरुभयोरपि ॥ ६-५१ ॥

आरभेत् पुरश्चर्यां काले दीक्षोक्त एव हि ।

इत्यादिवीरपुरश्चरणप्रकरणीय - (यामलादि-) वचनविरोधादुक्तयुक्त्या तु कालशब्दस्योक्तकालपरतया वीरशब्दस्य च कौलिकपरतया तदीयकल्पे दिचमस्यरात्रेश्च? पुरश्चरणकालतया वक्ष्यमाणत्वान्न कश्चिद्विरोधः ।

प्। ४२०) एवं महानीलक्रमेण पुरश्चरणेऽपि नोक्तकालनियमः । उक्तवचनानां तत्राप्युपलम्भात् ।

अत्र केचित् ।

न जपे कालनियमो महामन्त्रस्य साधने ॥ ६-५२ ॥

इत्यादि-(सिद्धान्तसङ्ग्रह-) वचनान्महामन्त्रपुरश्चरणे कालनियमो नास्तीति वदन्ति ।
तन्मते ।

न देशकालनियमो भक्ष्यादिनियमो न हि ।
शौचादिनियमो नास्ति महामन्त्रस्य साधने ॥ ६-५३ ॥

इति तस्य वचनात् ।

न शौचादिक्रियाः कार्याः स्मृतिशास्त्रप्रचोदिताः ।
एकं लिङ्गे गुदे पञ्च इत्याद्या याः प्रकीर्तिताः ॥ ६-५४ ॥

इति स्वच्छन्दभैरवादिवचनाच्च ।
महामन्त्रपुरश्चरणे नियमसामान्याभावापत्त्या-

नियमास्तत्र भूयांसः प्रकर्तव्याः प्रयत्नतः ।
अवैधकरणात् सिद्धिहानिः स्यान्नात्र संशयः ॥ ६-५५ ॥

इत्यादिमहाविद्यापुरश्चरणप्रकरणीयमहाकालवचनविरोधः स्पष्ट एवेति सङ्क्षेपः ।
अथ देशाः (योगिनीतन्त्रे) ।

आदौ पुरस्क्रियां कर्तुं स्थाननिर्णय उच्यते ।
पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् ॥ ६-५६ ॥

तीर्थप्रदेशः सिन्धूनां सङ्गमः पावनं वनम् ।
उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ॥ ६-५७ ॥

तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् ।
अश्वथामलकीमूलं गोशाला जलमध्यतः ॥ ६-५८ ॥

देवतायतनं कूलं समुद्रस्य निजं गृहम् ।

तथा ।

गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत् ॥ ६-५९ ॥

प्। ४२१) कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ।
म्लेच्छदुष्टमृगव्याधशङ्कातङ्कविवर्जिते ॥ ६-६० ॥

एकान्तोपवने निन्दारहिते भक्तिसंयुते ।
सुदेशे धार्मिके देशे सुभिक्षे निरुपद्रवे ॥ ६-६१ ॥

रम्ये भक्तजनस्थाने निवसेत् तापसप्रिये ।
गुरूणां सन्निधाने च चित्तैकाग्रस्थले तथा ॥ ६-६२ ॥

एषामन्यतमं स्थानमाश्रित्य जपमारभेत् ।

(महाकपिलपञ्चरात्रे)

क्षेत्रतीर्थगृहारामदेवालयनदीह्रदाः ॥ ६-६३ ॥

कुटी विविक्तमित्येते देशाः स्युर्मन्त्रसिद्धिदाः ॥ ६-६३एफ़् ॥

(प्रपञ्चसारे)

समुद्रतीरेऽप्यथ वाऽद्रिशृङ्गे
समुद्रगानां सरितां च तीरे ।
जपेद्विविक्ते निज एव गेहे
विष्णोर्गृहे वा पुरुषो मनस्वी ॥ ६-६४ ॥

(मामले)

म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्जिते ।
एकान्ते पावने चिन्तारहिते भक्तिसंयुते ॥ ६-६५ ॥

सुदेशे धार्मिके राष्ट्रे सुभिक्षे निरुपद्रवे ।
रम्ये भक्तगणस्थाने निवसेन्न पराश्रये ॥ ६-६६ ॥

देवताभेदेन पुरश्चरणस्थानभेदा उक्ता (मेरुतन्त्रे)

जपस्थानानि वक्ष्यामि कृत्तिमाकृत्तिमानि च ।
गुप्तानि सर्वतन्त्रेषु देवतानां पृथक् पृथक् ॥ ६-६७ ॥

महागणपतिक्षेत्रं मायूरं नर्मदातटम् ।
महाश्मानं मायूरं गणेशमनुसिद्धिदम् ॥ ६-६८ ॥

प्। ४२२) प्रभासं च कुरुक्षेत्रं पुष्करं भृगुपर्वतम् ।
यमुनायास्तटं काशीदिनेशमनुसिद्धिदम् ॥ ६-६९ ॥

अयोध्या मथुरा माया काशी वदरिकाश्रमः ।
गया च गण्डकीतीरं द्वारिका विष्णुसिद्धिदा ॥ ६-७० ॥

केदारस्त्र्यम्बकं काशी काञ्च्यवन्त्यौ वनानि च ।
गङ्गातीरं वैद्यनाथो रामेशः शिवसिद्धिकृत् ॥ ६-७१ ॥

ज्वालामुखी प्रयागश्च कामिनी मालिकापदम् ।
सरस्वत्यास्तथा तीरं शक्तिमन्त्रस्य सिद्धिकृत् ॥ ६-७२ ॥

तीरं च कमलेश्वर्या मेखला यक्षपर्वतः ।
अङ्गबङ्गकलिङ्गाश्च क्षुद्रदैवतसिद्धिदाः ॥ ६-७३ ॥

कामरूपं च नेपालं हिङ्गुला विन्ध्यवासिनी ।
जालन्धरं पूर्णगिरिर्वाममार्गेण सिद्धिदाः ॥ ६-७४ ॥

तटं पद्माकराणां च कदलीक्ष्वर्कवाटिका ।
विद्रुमाकुलितो ग्रामो गणेशस्यातिवल्लभः ॥ ६-७५ ॥

पद्माकरतटारण्यकरवारार्कवाटिका ।
गोधूमदूर्वाक्षेत्राणि शिलाभानुमतः प्रिया ॥ ६-७६ ॥

तुलस्यश्वत्थ धात्रीक्षुशालग्रामादिसन्निधौ ।
गोष्ठे श्रोत्रिययुग्ग्रामे हरेर्मुद्वैदिकान्तिके ॥ ६-७७ ॥

पश्चिमाभिमुखे लिङ्गे नन्दिवर्जे शिवालये ।
शिवतोषे वटस्यारात् सङ्गमे विपिने ह्रदे ॥ ६-७८ ॥

कदलीचूतचम्बेलीसेवन्तीवर्बरीवने ।
पञ्चख्यातनदीतीरे शक्तेः प्रीतिश्च निर्जने ॥ ६-७९ ॥

प्। ४२३) पल्वलारान्निम्बकोलशाखोटमधुकाकुले ।
वल्मीके शुष्कनद्यां च मोदन्ते क्षुद्रदेवताः ॥ ६-८० ॥

पितृगेहे श्मशाने च त्रिपथे च चतुष्पथे ।
शून्यालये शिवाकीर्णभुवि तुष्यन्ति वामगाः ॥ ६-८१ ॥

गृहे गोष्ठे तथोद्याने वने पर्वतमस्तके ।
नद्यां तत्सङ्गमे देवालये स्याद्वैदिकोऽधिकः ॥ ६-८२ ॥

यस्मिन् देशे न गोहत्या नापि ब्रह्मवधो भवेत् ।
न श्रावयन्ति शूद्राश्च सिद्धिस्तत्र तु वैदिकी ॥ ६-८३ ॥

म्लेच्छाः पाखण्डिनो धूर्ता राजानः सचिवादयः ।
युवत्यश्च न वर्त्तन्ते तत्र सिद्धिरदूरतः ॥ ६-८४ ॥

अथ निषिद्धस्थानानि तत्रैव ।

जीर्णदेवालयोद्यानगृहवृक्षतलेषु च ।
नदीकूलाद्रिकूटेषु भूच्छिद्रादिषु नो वसेत् ॥ ६-८५ ॥

जीर्णत्वं वृक्षपर्यन्तमन्वेति । नदीकूलनिषेधस्तु समुद्रगाकुलभिन्नपरः ।
(यामले)

राजानः सचिवा राजपुरुषाः प्रभवो जनाः ।
चरन्ति येन मार्गेण न वसेत् तत्र तत्त्ववित् ॥ ६-८६ ॥

(मेरौ)

एवं विचार्य मतिमान् कुर्याद्भूमिपरिग्रहम् ।

अथ पुरश्चरणे भक्ष्यादिनियमो (यामले)

शाकं मूलं फलं भक्ष्यं हविष्यं शक्तवोऽथ वा ॥ ६-८७ ॥

अथ वा क्षीरमात्रं स्यात् पुरश्चरणवृत्तये ।

हविष्याण्युक्तानि (स्मृतौ)

हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः ॥ ६-८८ ॥

प्। ४२४) कलायकङ्गुनीवारा वास्तुकं हिलमोचिका ।
षष्टिका कालशाकं च मूलकं केमुकेतरत् ॥ ६-८९ ॥

लवणे सैन्धवसामुद्रे गव्यं च दधि सर्पिषाम् ।
पयोऽनुद्धृतसारं च पनसाम्रहरीतकी ॥ ६-९० ॥

पिप्पली जीरकं चैव नागरङ्गकतिन्तिडी ।
कदलीलवलीधात्रीफलान्यगुडमैक्षवम् ॥ ६-९१ ॥

अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ।

(मेरुतन्त्रे)

सत्कन्दफलमूलाशी सद्भिक्षाशी हविष्यभुक् ॥ ६-९२ ॥

पयोव्रती भवेच्छ्रेष्ठस्तेषाम्- - - - - - - - - - - - - - - इति ॥

तत्रैव ।

श्रेष्ठं गवां दुग्धमुक्तं मध्यमं सुरभीभवम् ।
अधमं माहिषं चान्यद्व्रतस्थानां निषिध्यते ॥ ६-९३ ॥

(कुलार्णवे)

यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् ।
अन्नदातुः फलस्यार्धं कर्तुश्चार्धं न संशयः ॥ ६-९४ ॥

तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः ।
पुरश्चरणकाले तु सर्वकर्मसु शाम्भवि ॥ ६-९५ ॥

जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् ।
मनो दग्धं परस्त्रीभिः कथं सिद्धिर्वरानने ॥ ६-९६ ॥

परान्नमिति भिक्षेतराविषयम् । भिक्षायां तु विहितत्वान्न दोषः ।
तदुक्तं (मेरुतन्त्रे)

वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम् ।
सत्कुलस्थानजातानां भिक्षाशी चाग्रजन्मनाम् ॥ ६-९७ ॥

चरुमूलफलक्षीरदधिभिक्षान्नशक्तवः ।
प्। ४२५) एतत् सप्तविधं भीक्षालब्धं भक्ष्यं व्रतस्थितैः ॥ ६-९८ ॥

(अगस्त्यसंहितायाम्)

दधि क्षीरं घृतं गव्यमैक्षवं गुडवर्जितम् ।
तिलाश्चैवासिता मुद्गाः कन्दः केमुकवर्जितः ॥ ६-९९ ॥

(पद्धतौ)

कन्दाश्च पुण्डारुकसेरुकाद्या
गवां दधिक्षीरघृतानि सैन्धवम् ।
मुद्गा यवाः कृष्णतिलाः कलायाः
प्रियङ्गवः षष्टिकतण्डुलाश्च ॥ ६-१०० ॥

कदम्बजम्बूपनसाम्रनिम्बा
नारङ्गधात्रीकदलीफलानि ।
कपित्थमिष्टीमृदुदाडिमानि
भक्ष्याणि चैतानि पुरस्क्रियायाम् ॥ ६-१०१ ॥

मिष्टी मधुररसविशिष्टफलविशेषः । मृदुर्मृद्विका । इतराणि प्रसिद्धानि । एतद्भिन्नान्यप्यनिषिद्धानि यावकनारिकेलादीनि भक्ष्याण्येव ।
अथ निषिद्धानि ।

क्षारं च भौमं लवणं तथाऽढकी
माषा मसूराश्चणकाश्च कोद्रवाः ।
तैलं सितं मुद्गकमारनालकं
क्षौद्रं गुडं फाणितमामिषादिकम् ॥ ६-१०२ ॥

कूष्माण्डवृन्ताकपलाण्ड्वलाबु-
च्छत्राकनालं लशुनं करीरः ।
पटोलताम्बूलविभीतकाद्य
मन्यच्च सञ्जातरसान्तरं यत् ॥ ६-१०३ ॥

प्। ४२६) अन्धस्तथा पर्युषितं च दग्धं
त्याज्यानि चैतानि वदन्ति धीराः ।

पटोलं पडवर इति प्रसिद्धम् । अलाबुस्तुम्बीफलम् । करीरो वंशाङ्कुरः । अन्ध इत्यन्नम् । अन्यान्यपि निषिद्धानि गृञ्जरकरञ्जादीनि त्याज्यान्येव । गृञ्जरं च गाजर इति मध्यदेशीयभाषया प्रसिद्धा ।
अथासनानि (मेरुतन्त्रे)

आसनं तु द्विधा प्रोक्तं नित्यकामिकभेदतः ॥ ६-१०४ ॥

कुशाजिनाम्बरैर्युक्तं चतुरङ्गुलमूर्द्धतः ।
चतुरस्रं द्विहस्तं च सुन्दरं मृदुनिर्मलम् ॥ ६-१०५ ॥

इदं सुखासनं नित्यं जपसिद्धिविधायकम् ।
अथ काम्यानि वक्ष्यन्ते ज्ञानसिद्ध्यै मृगाजिनम् ॥ ६-१०६ ॥

सर्वसिद्ध्यै व्याघ्रचर्म त्वाविकं रोगनाशनम् ।
कौशेयं पौष्टिकं प्रोक्तं वेत्रजं श्रीविवर्द्धनम् ॥ ६-१०७ ॥

श्वेते तु कम्बले धर्मसिद्धी रक्तेऽर्थसिद्धयः ।
पीते कामो द्विजान्येषां मोक्षदः कृष्णकम्बलः ॥ ६-१०८ ॥

दुःखमुक्त्यै रञ्जितं तु नीलरङ्गो न शोभनः ।

(पुरश्चरणचन्द्रिकायाम्)

अभिचारे कृष्णवर्णं रक्तं वश्यादिकर्मणि ॥ ६-१०९ ॥

शान्तिके धवलं प्रोक्तं चित्रकं सर्वकर्मसु ।
स्तम्भने गजचर्म स्यान्मारणे माहिषं तथा ॥ ६-११० ॥

मैषीचर्म तथोच्चाटे खड्गिजं वश्यकर्मणि ।
विद्वेषे जाम्बुकं प्रोक्तं भवेद्गोचर्म शान्तिके ॥ ६-१११ ॥

अथ निषिद्धानि (मेरुतन्त्रे)

त्यजेन्निषिद्धमप्राप्तौ न निषिद्धे तु संविशेत् ।
निषिधान्यथ वक्ष्यन्ते शोकः स्याद्दारुजासने ॥ ६-११२ ॥

प्। ४२७) वंशासने दरिद्रः स्याद्वस्त्रे स्थानविनाशनम् ।
पाषाणे च तथोच्चाटो ज्वरी स्यान्मृण्मयासने ॥ ६-११३ ॥

क्षित्यासने भवेत् पीडा पल्लवे चित्तविभ्रमः ।
तृणासने भवेत् पीडा निषिद्धं त्विष्टिकासनम् ॥ ६-११४ ॥

चित्तक्षोभो गृहस्थस्य कृष्णसाराजिने भवेत् ।
वटुर्वनस्थः सन्न्यासी स्नातकः सिद्धिमाप्नुयात् ॥ ६-११५ ॥

(पुरश्चरणचन्द्रिकायाम्)

न दीक्षितो विशेज्जातु कृष्णसाराजिने गृही ।
विशेद्यतिर्वनस्थश्च ब्रह्मचारी च स्नातकः ॥ ६-११६ ॥

कुशाजिनाम्बरेणाढ्यं चतुरस्रं समन्ततः ।
एकहस्तं द्विहस्तं वा चतुरङ्गुलमुच्छ्रितम् ॥ ६-११७ ॥

स्वस्तिकादिक्रमेणाथ विशेत् तत्र निराकुलः ।
स्वस्तिकं भद्रकं वीरं कूर्मं चेति चतुष्टयम् ॥ ६-११८ ॥

जपेत् प्रशस्तमन्येषां प्रसाङ्गादेव कीर्तनम् ।
उद्देशानुक्रमेणैव वक्ष्याम्येषां तु लक्षणम् ॥ ६-११९ ॥

जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायः समासीनः स्वस्तिकं तदुदीरितम् ॥ ६-१२० ॥

गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
पार्श्वे पादौ तु पाणिभ्यां दृढं बध्वा सुनिश्चलम् ॥ ६-१२१ ॥

भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् ।
एकं पादमथैकस्मिन् विन्यस्योरुणि संस्थितः ॥ ६-१२३ ॥

प्। ४२८) इतरस्मि।स्तथा चोरौ वीरासनमुदाहृतम् ।

तन्त्रान्तरे तु ।

वामोरुन्यस्तदक्षाङ्घ्रि वीरासनमुदाहृतम् - इत्युक्तम् ।

गुदं निरुद्ध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ॥ ६-१२४ ॥

कूर्मासनं भवेदेतत् कूर्ममुत्तानकूर्मकम् ।
गोमुखं कुक्कुटं मात्स्यं धनुःपश्चिमतानकम् ॥ ६-१२५ ॥

मयूरं लावकं सिद्धं पद्मं सिंहं शवासनम् ।
स्वस्तिकं पद्मकं वीरमिति योगविदो विदुः ॥ ६-१२६ ॥

कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बध्य कन्धराम् ।
शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ ६-१२७ ॥

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे निवेशयेत् ।
दक्षिणे च तथा सव्यं गोमुखं गोमुखं यथा ॥ ६-१२८ ॥

पद्मासनं तु संयोज्य जानूर्वोरन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ ६-१२९ ॥

वामोरुमूलार्पितदक्षपादं
जानोर्बहिर्वेष्टितदक्षदोष्णा ।
प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः
श्रीमत्स्यनाथोदितमासनं तत् ॥ ६-१३० ॥

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
धनुराकर्षणं कुर्याद्धनुरासनमीरितम् ॥ ६-१३१ ॥

प्रसार्य पादौ भुवि दण्डरूपौ
दोर्भ्यां च पादद्वितयं गृहीत्वा ।
जानौ परिन्यस्तललाटदेशो

प्। ४२९) अवष्टभ्य धरां सम्यक् तलाभ्यां तु करद्वयम् ।
हस्तयोः कुर्परे चापि स्थापयेन्नाभिपार्श्वयोः ॥ ६-१३३ ॥

समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः ।
मयूरासनमेतत् तु सर्वरोगहरं परम् ॥ ६-१३४ ॥

भूमौ स्वमस्तकं स्थाप्यं हस्तयोः कुर्परे तथा ।
पादौ स्वे दण्डवत् कुर्यान्नरकासनमीरितम् ॥ ६-१३५ ॥

मेढ्रादुपरि निःक्षिप्य सव्यं गुल्फं ततोपरि ।
गुल्फान्तरं च निःक्षिप्य मुक्तासनमितिरितम् ॥ ६-१३६ ॥

एतत् सिद्धासनं प्राहुरन्ये वज्रासनं विदुः ।
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ ६-१३७ ॥

वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
याम्योरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये-
देतद्व्याधिविघातकारि यमिनां पद्मासनं प्रोच्यते ॥ ६-१३८ ॥

गुल्फौ च वृषणस्याधः सविन्याः पार्श्वयोर्न्यसेत् ।
दक्षिणे सव्यगुल्फं च दक्षगुल्फं च सव्यके ॥ ६-१३९ ॥

हस्तौ जान्वोस्तु संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च ।
व्यातवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ ६-१४० ॥

सिंहासनं भवेदेतत् पूजितं योगिभिः सदा ।
उत्तानशववद्भूमौ शयनं तु शवासनम् ॥ ६-१४१ ॥

शवासनं चार्तिहरं चित्तविश्रान्तिसाधनम् ।

(यामले)

ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुलीः ॥ ६-१४२ ॥

प्। ४३०) करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ॥ ६-१४२एफ़् ॥

(गोरक्षशतके)

योनिस्थानकमङ्घ्रिमलघटितं कृत्वा दृढं विन्यसेन्-
मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् ।
स्थाष्णुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरं
चैतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ६-१४३ ॥

तथा ।

आसनानि च तावन्ति यावन्तो जीवजन्तवः ।
एतेषामखिलान् भेदान् विजनामि महेश्वरः ॥ ६-१४४ ॥

अथ मालाभेदा (मेरुतन्त्रे)

अथ मालां प्रवक्ष्यामि द्विविधा सा स्थिरा चला ।
स्थिरा तु स्थिरचित्तानां चञ्चला चलचेतसाम् ॥ ६-१४५ ॥

(यामले)

माला तु त्रिविधा प्रोक्ता प्रथमा वर्णमालिका ।
द्वितीया चरमालोक्ता तृतीया करमालिका ॥ ६-१४६ ॥

(मेरुतन्त्रे)

अकारादिक्षकारान्तैर्विन्दुवन्मातृकाक्षरैः ।
अनुलोमविलोमस्थैः कॢप्तया वर्णमालया ॥ ६-१४७ ॥

प्रत्येकवर्णयुग्मन्त्राः जप्ताः स्युः सर्वसिद्धिदाः ।
आर्याद्या अपि किं चान्यत् प्रोक्तेयं स्थिरमालिका ॥ ६-१४८ ॥

(त्रिशक्तिरत्नेऽपि)

अथ वा मातृकामय्या मालया प्रजपेद्बुधः ।
एकैकं वर्णमुच्चार्य वर्णेनान्तरितं जपेत् ॥ ६-१४९ ॥

सुधीरेव लकारान्तं तत आन्तं समानयेत् ।
मेरुरूपं क्षकारं हि साधको नैव लङ्घयेत् ॥ ६-१५० ॥

प्। ४३१) (मुण्डमालायाम्)

मेरुहीना च या माला मेरुलङ्घ्या च या भवेत् ।
अशुद्धा तु भवेदत्र सा माला निष्फला भवेत् ॥ ६-१५१ ॥

विचित्रा विशतन्त्वाभा ब्रह्मनाडीगता तु या ।
तया सङ्ग्रथिता ध्येया सर्वकामफलप्रदा ॥ ६-१५२ ॥

अष्टोत्तरशतजपे त्वादौ क्लीवं समुच्चरेत् ।
ऋ-ॠ-ऌ-ॡ - वर्णचतुष्टयं क्लीवं प्रचक्षते ॥ ६-१५३ ॥

वर्गाणामष्टकं वाऽपि काम्यभेदक्रमेण तु ।
अ-क-च-ट-त-प-य-शा इत्येवं चाष्टवर्गकम् ॥ ६-१५५ ॥

अष्टोत्तरशतजपे कर्तव्ये क्लीवचतुष्टयमादावुच्चार्य विलोमसमाप्तौ चापि तच्चतुष्टयं विलोमेन जपेदित्येकः पक्षः ।
अनुलोमविलोमाभ्यां पञ्चाशद्वर्णमुच्चार्य शेषेऽष्टवर्गाक्षराण्युच्चरेदित्यपरः पक्ष इत्यर्थः । क्षकारश्च मेरुत्वेन सकृदेवोच्चार्यस्तदुत्तरं मन्त्रो नो च्चार्य इति तत्र विवेकः । प्रकारान्तरमुक्तं (साधनसमुच्चये)

श्रीमायाकामवाग्योगान्मातृकावर्णयोगतः ।
अनुलोमविलोमाभ्यामष्टोत्तरशतं जपेत् ॥ ६-१५६ ॥

तन्त्रान्तरे ।

त्रयं गुरो त्रयं देवि गणपाय प्रकीर्त्तितम् ।
न्यूनातिरिक्ते द्वितयं शिषमिष्टाय योजयेत् ॥ ६-१५७ ॥

(मेरुतन्त्रे)

चराऽथ कथ्यते मालाऽभिचारे तिथिसङ्ख्यकैः ।
मुक्त्यार्थं पञ्चविंशत्या सन्तुष्ट्यै सर्वदा जपेत् ॥ ६-१५८ ॥

त्रिंशद्भिर्धर्मवृद्धिः स्याच्चतुष्पञ्चाशतेप्सितम् ।
शतात् सौख्यं तथाऽष्टाभिः शतात् सफलसिद्धयः ॥ ६-१५९ ॥

प्। ४३२) समस्तसिद्ध्यै रुद्राक्षा मणयो धनदा मताः ।
गतप्राप्तिकरः शङ्खो भोगकृत् स्फाटिको मतः ॥ ६-१६० ॥

पुत्रप्रदाः पुत्रजीवाः पद्माक्षाः पुष्टिवर्द्धनाः ।
विद्रुमोत्था वश्यकरा मौक्तिका मुक्तिदा मताः ॥ ६-१६१ ॥

पापापहाः कुशमयाः स्वर्णजाः कामदायकाः ।
कामवृद्धिस्तारजातैरिन्द्राक्षैः स्याद्गतं पदम् ॥ ६-१६२ ॥

स्त्रीवश्यार्थं हरिद्राया दार्वी पुरुषवश्यकृत् ।
ज्वरहर्त्री तु लाक्षायाः खड्गस्य पितृतृप्तिकृत् ॥ ६-१६३ ॥

अर्कस्योच्चाटने कार्या श्रीफलैर्ज्ञानसाधने ।
गजदन्तकस्य सर्वार्थं मोहने ताम्रजा मता ॥ ६-१६४ ॥

मारणे चायसी प्रोक्ता धनार्थं श्वेतपद्मजा ।
विषोत्तारे चन्दनोत्था शान्तिकृच्छ्वेतकाष्ठजा ॥ ६-१६५ ॥

रक्तचन्दनबीजोत्था यक्षिण्यादिकसाधने ।
पद्मकाष्ठोद्भवा तुष्ट्यै देवदारुभवैर्विरुक् ॥ ६-१६६ ॥

कृष्णकाष्ठसमुद्भूतैस्तामसं कर्म सिद्ध्यति ।
भूतस्तम्भे निम्बजाता जनस्तम्भे समीभवा ॥ ६-१६७ ॥

महानिम्बेन डाकिन्या भूनिम्बैः स्तम्भनं रुजाम् ।
इन्द्रवृक्षाद्रणस्तम्भोऽभिचारो वानरास्थितः ॥ ६-१६९ ॥

ऋक्षास्थितो वन्यसिद्धिः शार्दूलात् तस्य देवताः ।
नरास्थ्ना राक्षसा वश्या वीरा वश्या हयास्थिभिः ॥ ६-१७० ॥

रासभास्थ्ना क्षुद्रसिद्धिर्मान्यता तु गजास्थिभिः ।
मृत्तिका भृष्टमणिजा माला शावरसिद्धिदा ॥ ६-१७१ ॥

(पुरश्चरणचन्द्रिकायाम्)

रुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः ।
प्। ४३३) स्फाटिकैर्मणिरत्नैश्च हेमराजतवैद्रुमैः ॥ ६-१७२ ॥

कुशैः पूर्वोदितैः सर्वैः पर्वभिर्मातृकाक्षरैः ।
गर्दभाश्वनराणां वै दन्तैरप्यभिचारकैः ॥ ६-१७३ ॥

वैष्णवे तुलसी माला गजदन्तैर्गणेश्वरे ।
त्रिपुराया जपे शस्ता इन्द्राक्षै रक्तचन्दनैः ॥ ६-१७४ ॥

महाशङ्खमयी ज्ञेया नीलसारस्वते मनौ ।

(त्रिशक्तिरत्नेऽपि)

रहस्यमालया जप्ता तारिणी सिद्धिदा भवेत् ॥ ६-१७५ ॥

अतस्तया प्रजप्तव्या मालया सिद्धिमिच्छता ।
महाशङ्खमयी माला पञ्चाशन्मणिनिर्मिता ॥ ६-१७६ ॥

रहस्यमाला सम्प्रोक्ता गोपनीया प्रयत्नतः ।
कर्णनेत्रान्तरालस्थो महाशङ्खः प्रकीर्तितः ॥ ६-१७७ ॥

तदभावे तु कस्यापि कर्तव्याऽवयवस्य वै ।  

(यामले)

नरेभाश्वोष्ट्रमुण्डानां छिन्नानां रणसङ्कटे ॥ ६-१७८ ॥

मालां वै कारयेद्वृत्तां महाविद्यासु साधकः ।
तदभावे स्फाटिकी स्यान्माला सर्वसमृद्धिदा ॥ ६-१७९ ॥

(वीरतन्त्रे)

रहस्यमालया जप्ता कालिका सर्वसिद्धिदा ।
महाशङ्खास्थिमालोक्ता तारिणीकालिकाविधौ ॥ ६-१८० ॥

तदभावे स्फाटकी स्यात् तथा पद्माक्षसम्भवा ।

तन्त्रे ।

स्वयम्भूमालिका देवि भैरव्यां कालिकाविधौ ॥ ६-१८१ ॥

प्। ४३४) छिन्नमस्ताविधौ देवि महाशङ्खास्थिमालिका ।
बालायां भुवनेश्वर्यां स्फाटिकी परिकीर्त्तिता ॥ ६-१८२ ॥

गुञ्जामाला तु मातङ्ग्यां धूम्रायां खरदन्तजा ।
हरिद्रा वगलायां च कमलाक्षा रमाविधौ ॥ ६-१८३ ॥

तथा ।

पूर्वाम्नाये स्फाटिकजैर्दक्षिणे रुद्रनेत्रजैः ।
प्रवालैर्मौक्तिकैर्देवि पश्चिमाम्नायदैवते ॥ ६-१८४ ॥

उत्तराम्नायदेवीनां महाशङ्खास्थिमालिका ।
ऊर्ध्वाम्नाये स्वयम्भूत्था पाताले रत्नसम्भवा ॥ ६-१८५ ॥

प्रवालैः सूर्यमन्त्रे च मौक्तिकैः शक्तिमात्रके ।
शिवशक्तिमयी माला रौद्राक्षी स्फाटिकी तथा ॥ ६-१८६ ॥

रुद्राक्षस्वर्णसंयुक्ता मालां विद्धि शिवात्मिकाम् ।
सर्वतन्त्रेषु रुद्राक्षाः शक्तिमन्त्रे दिवा न हि ॥ ६-१८७ ॥

(यामले)

रुद्राक्षैर्विहिता माला सर्वकामप्रसाधनी ।
निर्मिता शङ्खमालाभिर्धनं कीर्तिं च यच्छति ॥ ६-१८८ ॥

पद्माक्षैः पुष्टिलक्ष्मीदा शत्रुनाशकरी तथा ।
पुत्रञ्जीवभवा पुत्रपशुश्रीधान्य-ऋद्धिदा ॥ ६-१८९ ॥

मुक्ताभी रचिता माला सौभाग्यं विपुलं श्रियम् ।
मन्त्रप्रत्यक्षदा सिद्धिं शान्तिकं चाथ पौष्टिकम् ॥ ६-१९० ॥

मुक्तिं च तनुते तद्वत् स्फाटिक्यप्यक्षमालिका ।
सारस्वते पद्मरागा पुष्कले च धने तथा ॥ ६-१९१ ॥

सौवर्णी राजती माला सर्वान् कामान् प्रयच्छति ।
सारस्वते प्रवालोत्था वश्येऽधिकधनागमे ॥ ६-१९२ ॥

प्। ४३५) पापक्षयकरी कौशी रुद्राक्षादिकुशान्तकैः ।
सर्वैरेतैर्विरचिता माला स्यान्मुक्तये नृणाम् ॥ ६-१९३ ॥

नित्यं जपं प्रकुर्वीत पर्वभिर्वर्णमालिका ।
स्थिरेण मनसा न्यस्ता सर्वान् कामान् प्रयच्छति ॥ ६-१९४ ॥

उच्चाटनेऽश्वदन्तानां माला प्रोक्ताऽश्ववालकैः ।
खरदन्तैरधोभूतैर्मनुष्यस्नायुतन्तुना ॥ ६-१९५ ॥

ग्रथितैर्निर्मिता माला शत्रूणां नाशिते मता ।
प्रेतदन्तैरधोभूतैः कर्तव्या जपमालिका ॥ ६-१९६ ॥

साध्यदेहभवैः केशैः प्रोतव्या द्वेषकर्मणि ।
अङ्गुलीजपसङ्ख्यानमेकमेवमुदाहृतम् ॥ ६-१९७ ॥

पुत्रञ्जीवैर्दशगुणैः शतं शङ्खैः सहस्रकम् ।
प्रवालैर्मणिरत्नैश्च दशसाहस्रकं स्मृतम् ॥ ६-१९८ ॥

तदेव स्फादिकं प्रोक्तं मौक्तिकैर्लक्षमुच्यते ।
पद्माक्षैर्दशलक्षं स्याद्राजतैः कोटिरुच्यते ॥ ६-१९९ ॥

सौवर्णैर्द्विगुणा सैव सर्वैः शतगुणा स्मृता ।
कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणितं फलम् ॥ ६-२०० ॥

श्वेतपद्माक्षमालाभिरपि स्यादमितं फलम् ।
मातृकावर्णसम्भूतमालयाऽपि तदेव तु ॥ ६-२०१ ॥

(मेरुतन्त्रे)

कुशग्रन्थ्या जपेद्विप्रः सुवर्णमणिभिर्नृफः ।
पुत्रञ्जीवैर्जपेद्वैश्यः पद्माक्षैः सर्व एव हि ॥ ६-२०२ ॥

रुद्राक्षस्काटिकेन्द्राक्षमध्ये किञ्चिन्न दापयेत् ।
मध्ये दत्वा जपं कुर्वन् काममोक्षौ विनाशयेत् ॥ ६-२०३ ॥

प्। ४३६) रुद्राक्षप्रभेदकथनपूर्वकं तन्माहात्म्यमाह तत्रैव ।

धात्रीफलोपमश्रेष्ठो मध्यो वदरसन्निभः ।
अधमश्चणकाभः स्यात् ततो हीनो विपत्तिकृत् ॥ ६-२०४ ॥

श्वेतरक्तसुवर्णाभकृष्णवर्णा द्विजादितः ।
एतेषु ब्राह्मणः श्रेष्ठो जपमालाकृते भृशम् ॥ ६-२०५ ॥

अलाभे तु द्विजातीनामपि वा स्वस्वजातयः ।
कलौ तु दुर्लभा विद्या यथा विप्राः स्वधर्मगाः ॥ ६-२०६ ॥

अतिस्थूलोऽतिसूक्ष्मश्च स्फुटितो भङ्गुरो लघुः ।
भिन्नः पुराधृतो जीर्णो रुद्राक्षो न शुभप्रदः ॥ ६-२०७ ॥

तथो ।

एकवक्त्रैर्द्विवक्त्रैश्च चतुर्वक्त्रैश्च पञ्चभिः ।
षड्वक्त्रैर्वाऽथ कर्त्तव्या मिथो मिश्रा।स्तु वर्जयेत् ॥ ६-२०८ ॥

एकवक्त्रं शिवस्तस्य माला तु जपतो हरेत् ।
ब्रह्महत्यादिपापानि तथा राज्यादिकेष्टदा ॥ ६-२०९ ॥

उमाशङ्करनामा यो द्विमुखोऽयं व्यपोहति ।
गोहत्यादिकपापानि गार्हस्थाश्रमसौख्यदः ॥ ६-२१० ॥

त्रिमुखस्त्वग्निरूपः स्यात् स्त्रीहत्यादिकपापहा ।
धर्मार्थकामाः सिध्यन्ति धारणात् तज्जपादपि ॥ ६-२११ ॥

चतुर्मुखो भवेद्ब्रह्मा भ्रूणहत्यादिनाशकः ।
स्फुरन्ति सकला विद्या वाक्सिद्धिश्चापि जायते ॥ ६-२१२ ॥

पञ्चवक्त्रः शिवः साक्षात् सर्वपापहरः स्मृतः ।
शैवगाणेशशाक्तानां द्रुतं सिद्धिस्तु तज्जपात् ॥ ६-२१३ ॥

कार्तिकेयस्तु षड्वक्त्रं स्खलितव्रतपापहा ।
प्। ४३७) विधिना दक्षिणे बाहौ धारणात् समरे जयः ॥ ६-२१४ ॥

सप्तवक्त्रो महानागोऽनन्तो नामाथ तज्जपात् ।
अनन्ता सिद्धयः सर्पविषभीश्च न जायते ॥ ६-२१५ ॥

अष्टवक्त्रो गणेशः स्यात् सर्वविघ्ननिवारकः ।
नश्यन्ति तज्जपात् सर्वे कामक्रोधादिशत्रवः ॥ ६-२१६ ॥

नववक्त्रो भैरवः स्याद्वाममार्गस्थदेवताः ।
जपादेव प्रसीदन्ति वामबाहौ स्थितौघहा ॥ ६-२१७ ॥

जनार्दनो दशमुखो जपान्नश्यन्ति धारणात् ।
पिशाचग्रहवेतालब्रह्मराक्षसपन्नगाः ॥ ६-२१८ ॥

एकादशमुखः साक्षाद्रुद्र एवास्य धारणात् ।
जपाच्च हयमेधादियज्ञानां फलभाग्भवेत् ॥ ६-२१९ ॥

द्वादशास्यो भास्करः स्यात् तज्जपाद्धारणात् तथा ।
तेजस्वी च प्रतापी च गोमेधफलभाग्भवेत् ॥ ६-२२० ॥

त्रयोदशमुखः साक्षाद्विश्वेदेवात्मकः स्मृतः ।
श्राद्धकाले धृतो दद्यात् पितृणामक्षयां गतिम् ॥ ६-२२१ ॥

चतुर्दशमुखे जप्तं तदाऽनन्ताय जायते ।
पूज्यते देवमनुजैरक्षयां लभते गतिम् ॥ ६-२२२ ॥

तथा ।

देवान् पुष्णन्ति ये देवा पशवस्ते तु वैदिकाः ।
तान् पातयन्ति ये कौले तेषां शास्ता स्वयं यमः ॥ ६-२२३ ॥

तेषां संरक्षणार्थाय नान्यो रुद्राक्षतो भुवि ।
रुद्राक्षाः सर्वदेवानां मन्त्रसिद्धिविधायकाः ॥ ६-२२४ ॥

रुद्राक्षं कण्ठमाश्रित्य शुनको म्रियते यदि ।
प्। ४३८) सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः ॥ ६-२२५ ॥

उच्छिष्टो वा विकर्मस्तो युक्तो वा सर्वपातकैः ।
मुच्यते सर्वपापेभ्यो नरो रुद्राक्षधारणात् ॥ ६-२२६ ॥

रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः ।
पापकर्माऽपि यो नित्यं रुद्रलोके महीयते ॥ ६-२२७ ॥

अरुद्राक्षधरो भूत्वा यत्किञ्चित् कर्मवैदिकम् ।
कुर्याद्विप्रस्तु यो मौढ्यान्नासावाप्नोति तत्फलम् ॥ ६-२२८ ॥

रुद्राक्षधारणप्रकारस्तत्रैव ।

शिरोमाला तु षड्विंशद्द्वात्रिंशत्कण्ठमालिका ।
कुर्परे षोडश प्रोक्ता द्वात्रिंशन्मणिबन्धयोः ॥ ६-२२९ ॥

अष्टोत्तरशतैर्युक्तमुपवीतं विधीयते ।
तदर्धमुरसो माला शिखायामेकमुच्यते ॥ ६-२३० ॥

कर्णयोश्चापि षट्सङ्ख्या धारणक्रम ईरितः ।
सङ्ख्याहीनं न कर्त्तव्यमधिकं नैव दूष्यति ॥ ६-२३१ ॥

तन्त्रान्तरे ।

रुद्राक्षान् कण्ठदेशे दशनपरिमितान् मस्तके विंशती द्वे
षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव ।
बाह्वोरिन्दोः कलाभिर्नयनयुगकृते चैकमेकं शिखायाम्
वक्षस्यष्टाधिकं यः कलयति शतक्रं स स्वयं नीलकण्ठः ॥ ६-२३२ ॥

रुद्राक्षान् धारयत्येवं देहान्ते स शिवो भवेत् ।
बहुलं लभते पुण्यं भाग्यवानिह जायते ॥ ६-२३३ ॥

स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने ।
प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥ ६-२३४ ॥

रुद्राक्षधारी भूत्वा च यत्किञ्चित् कर्म वैदिकम् ।
प्। ४३९) यो विप्रः सततं कुर्यात् तत् कर्म सफलं भवेत् ॥ ६-२३५ ॥

कण्ठे शिरसि हस्ते च कर्णयोरुपवीतके ।
रुद्राक्षधारणादेव रुद्रो भवति मानवः ॥ ६-२३६ ॥

खादनन्मांसं पिबन्मद्यं सङ्गच्छन्मर्त्यजातिषु ।
सद्यो भवति पूतात्मा रुद्राक्षं मूर्ध्नि धारयन् ॥ ६-२३७ ॥

देवताभेदेन मालाग्रथनकालभेद उक्तस्तत्रैव ।

चतुर्थ्यां प्रोतयेन्मालां गणनाथस्य मन्त्रकैः ।
मध्याह्नेऽर्कस्य सप्तम्यां रवौ वातस्य मन्त्रकैः ॥ ६-२३८ ॥

द्वादश्यां वैष्णवी माला प्रोतव्या विष्णुमन्त्रतः ।
त्रयोदश्यां तु सन्ध्यायां तन्मन्त्रैः शिवमालिकाम् ॥ ६-२३९ ॥

अष्टम्यां वा चतुर्दश्यां नवम्यां भूमिनन्दने ।  

शक्तीनामपि कर्त्तव्या भुक्त्वा रात्रौ यथाविधि ॥ ६-२४० ॥

सूत्रभेदा उक्तास्तत्रैव ।

ग्रथिता पट्टसूत्रेण देव्याः प्रीत्यै तु मालिका ।
कार्पासैर्वैष्णवी माला वद्मसूत्रैरथापि वा ॥ ६-२४१ ॥

ऊर्णाभिर्वा वल्कलैर्वा शैवी कार्या ससूत्रजा ।
प्रायशः सर्वदेवानां सूत्रोत्पत्तिविधिं शृणु ॥ ६-२४२ ॥

सूत्रं द्विजेन्द्रपुण्यस्तीनिर्मितं ग्रन्थिवर्जितम् ।
त्रिगुणं त्रिगुणीकृत्य ग्राह्यं प्रक्षाल्य यत्नतः ॥ ६-२४३ ॥

(उमामहेश्वरे)

या जीवत्पुत्रका नारी सुन्दरी पतिवत्सला ।
तया कर्तितसूत्रेण व्यूढा माला सुभावहा ॥ ६-२४४ ॥

तन्त्रान्तरे ।

कन्याकर्त्तितसूत्रेण दुर्वर्णस्वर्णजैरपि ।

प्। ४४०) दुर्वर्णम् ।
मालाग्रथनप्रकारस्तत्संस्कारश्च (पुरश्चरणचन्द्रिकायाम्)

अथातो ग्रथनं वक्ष्ये मालानां तन्त्रबोधितम् ॥ ६-२४५ ॥

एकभक्तं विधायादौ साधको ग्रथयेत् स्वयम् ॥ ६-२४५एफ़् ॥

स्वयं च माला ग्रथिता स्वघृष्टं
न धार्यते चन्दनमित्यनेन ।
निषिध्यते चन्दनसन्निधानात्
स्रगत्र पुष्पस्य न चाक्षमाला ॥ ६-२४६ ॥

कृतनित्यक्रियाशुद्धः उक्तेष्वृक्षेषु मन्त्रवित् ।
यथाकामं यथालाभादक्ष्याण्यानीय यत्नतः ॥ ६-२४७ ॥

अन्योन्यसमरूपाणि नातिस्थूलकृशानि च ।
कीटादिभिरदुष्टानि न नीर्णानि नवानि वै ॥ ६-२४८ ॥

गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य च पृथक् पृथक् ।

पञ्चगव्येषु विशेष उक्तो (मेरुतन्त्रे)

दुग्धकाञ्चनवर्णायाः श्वेतायाश्चैव गोमयम् ॥ ६-२४९ ॥

गोमूत्रं ताम्रवर्णाया नीलायाश्च भवेद्दधि ।
घृतं तु कृष्णवर्णाया एवं पञ्चामृतेऽपि च ॥ ६-२५० ॥

गवां वर्णास्तु सुलभाः सन्ति देशेषु कुत्रचित् ।
तत्र वर्णविभागेन पञ्चगव्यानि चाहरेत् ॥ ६-२५१ ॥

वर्णालाभेन दोषोऽस्ति मात्राहीनं तु वर्जयेत् ।
गोसकृद्द्विगुणं मूत्रं सर्पिर्दद्याच्चतुर्गुणम् ॥ ६-२५२ ॥

क्षीरमष्टगुणं प्रोक्तं पञ्चगव्यं तथा दधि ।
गायत्र्याऽदाय गोमूत्रं गन्धद्वारेति गोमयम् ॥ ६-२५३ ॥

प्। ४४१) आप्पायस्वोति च क्षीरं दधि क्राव्णेति वै दधि ।
तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ॥ ६-२५४ ॥

क्षालयेत् पञ्चगव्याद्यैः ॥॥॥॥॥॥॥॥॥॥॥। इति ॥

(पुरश्चरणचन्द्रिकायाम्)

अश्वत्थपत्रैर्नवकैः पद्माकारेण कल्पिते ।
सूत्रे मणीन् सगन्धाभिक्षालिता।स्तत्र निःक्षिपेत् ॥ ६-२५५ ॥

तारं शक्तिं मातृकाश्च सूत्रे चैव मणिष्वथ ।
विन्यस्य पूजयेदाज्यैर्जुहुयाच्चैव शक्तितः ॥ ६-२५६ ॥

मालामेकैकमादाय सूत्रे वै योजयेत् सुधीः ।
मुखं मुखे तु संयोज्य पुच्छं पुच्छे तु योजयेत् ॥ ६-२५७ ॥

गोपुच्छसदृशी कार्या यद्वा सर्पाकृतिः शुभा ।
तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् ॥ ६-२५८ ॥

(मेरुतन्त्रे)

एको मेरुस्तत्र देयः सर्वेभ्यः स्थौल्ययुक् च यः ।
आद्य स्थूल ततस्तस्मान्न्यूनं न्यूनतरं ततः ॥ ६-२५९ ॥

सर्पाकारां प्रकुर्वीत ब्रह्मग्रन्थिमणिं प्रति ।
अथ वा ग्रन्थिरहितं दृढरश्मिसमन्वितम् ॥ ६-२६० ॥

त्रिरावृत्त्याऽथ मध्येन चार्धावृत्त्याऽन्तदेशतः ।
ग्रन्थिः प्रदक्षिणावर्त्तः स ब्रह्मग्रन्थिरुच्यते ॥ ६-२६१ ॥

अन्योन्यघर्षणादेव जपहानिर्भवेद्ध्रुवम् ।
मध्यतो ग्रन्थयः कार्या नात्र मुक्तादि विन्यसेत् ॥ ६-२६२ ॥

प्। ४४२) (पुरश्चरणचन्द्रिकायाम्)

एकैकमणिमध्ये तु ब्रह्मग्रन्थिं प्रकल्पयेत् ।
जपमालां विधायेत्थं ततः संस्कारमाचरेत् ॥ ६-२६३ ॥

क्षालयेत् पञ्चगव्येन सद्योजातेन सज्जलैः ।
ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ॥ ६-२६४ ॥

भवे भवे नाति भवे भवस्व मां भवोद्भवाय नमः ।
चन्दनागुरुगन्धाद्यैर्वामदेवेन घर्षयेत् ॥ ६-२६५ ॥

ॐ वामदेवाय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ श्रेष्टाय नमः ।
ॐ रुद्राय नमः ।
ॐ कालाय नमः ।
ॐ कलविकरणाय नमः ।
ॐ बलप्रमथनाय नमः ।
ॐ सर्वभूतदमनाय नमः ।
ॐ मनोत्मनाय नमः ।

धूपयेत् तामघोरेण-

ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः सर्वतः सर्वसर्वेभ्यः ।
लेपयेत् तत्पुरुषेण तु ।
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।
मन्त्रयेत् पञ्चमेनैव प्रत्येकं तु शतं शतम् ॥
ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्माशिषो मेऽस्तु सदा शिवोम् ।

मेरुश्च पञ्चमेनैव ततो मन्त्रेण मन्त्रयेत् ।
संस्कृत्यैवं बुधो मालां तत्प्राणा। स्थापयेत् ततः ॥ ६-२६६ ॥

(क्रियासङ्ग्रहे)

मन्त्रयेन्मूलमन्त्रेण क्रमेणोत्क्रमयोगतः ।
प्। ४४३) तथैव मातृकावर्णैर्मन्त्रयेन्मन्त्रतत्त्ववित् ॥ ६-२६७ ॥

पूजयित्वा यथान्यायमिष्टदेवमनुक्रमात् ।
न्यासपूर्वं जपेन्मन्त्रमष्टोत्तरसहस्रकम् ॥ ६-२६८ ॥

जुहुयाच्च दशांशेन यस्य देवस्य यत् प्रियम् ।

(योगिनीतन्त्रे)

होमकर्म ततः कुर्याद्देवताभावसिद्धये ॥ ६-२६९ ॥

अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिःक्षिपेत् ।
होमकर्मण्यशक्तश्चेद्द्विगुणं जपमाचरेत् ॥ ६-२७० ॥

त्वं माले सर्वलोकानां सर्वसिद्धिप्रदा मता ।
तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते ॥ ६-२७१ ॥

इत्युक्त्वा परिपूज्याथ गोपयेद्यत्नतो गृही ।

(यामले तु)

माले माले महामाले सर्वतत्त्वस्वरूपिणि ॥ ६-२७२ ॥

चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ।

मायाबीजादिकं कृत्वा रक्तपुष्पैः समर्चयेत् - इत्युक्तम् ।

(पुरश्चरणचन्द्रिकायाम्)

एवं कृत्वाऽक्षमालायां जपेन्मातृकया सुधीः ॥ ६-२७३ ॥

मातृकावर्णभेदेभ्यः सर्वे तन्त्राः प्रजज्ञिरे ।
अतः सकलमन्त्राणां जपः कार्योऽनया स्रजा ॥ ६-२७४ ॥

गुरुं सम्पूज्य तद्धस्ताद्गृह्णीयात् सर्वसिद्धये ।
गायत्रीं तु जपन् कश्चिन्मालां ग्रथ्नाति तान्त्रिकः ॥ ६-२७५ ॥

न हीत्थं ग्रथनं क्वापि मन्त्रशास्त्रे निरूपितम् ।
अशुचिर्न स्पृशेदेनां करभ्रष्टां न कारयेत् ॥ ६-२७६ ॥

प्। ४४४) (मेरुतन्त्रे)

येन मन्त्रेण या माला कृता तं तु जपेत् तया ।
अन्यमन्त्रजपाच्छापो देवतायाः प्रजायते ॥ ६-२७७ ॥

दृढसूत्रं नियुञ्जीत जपे त्रुद्यति नो यथा ।
जीर्णे सूत्रे पुनः सूत्रं ग्रन्थयित्वा शतं जपेत् ॥ ६-२७८ ॥

(पुरश्चरणचन्द्रिकायाम्)

प्रमादात् पतिते हस्ताच्छतमष्टोत्तरं जपेत् ।
तावन्निषिद्धं संस्पर्शे क्षालयित्वा यथोदितम् ॥ ६-२७९ ॥

(मेरुतन्त्रे)

तर्जन्या न स्पृशेत् सूत्रं कम्पयेन्नैव धूपयेत् ।
न स्पृशेद्वामहस्तेन करभ्रष्टां न कारयेत् ॥ ६-२८० ॥

अक्षाणां चालनेऽङ्गुष्ठश्चान्यमक्षं न संस्पृशेत् ।
जपकाले सदा विद्वान्मेरुं चैव न लङ्घयेत् ॥ ६-२८१ ॥

परिवर्तनकाले तु सङ्घट्टं नैव कारयेत् ।
कलिः खटखटाशब्दे दोलमाने चलेन्मतिः ॥ ६-२८२ ॥

चलिते चैव विद्वेषः स्फुटिते व्याधिसम्भवः ।
हस्तच्युते महाविघ्नः सूत्रच्छेदे विनाशकृत् ॥ ६-२८३ ॥

(क्रियासङ्ग्रहे)

च्छिन्ने सूत्रे तु मालायाः पुनः संस्कारमाचरेत् ।
अष्टोत्तरसहस्रं तु जपेद्वाऽष्टोत्तरं शतम् ॥ ६-२८४ ॥

(शैवागमे)

यदा सन्त्रुद्यते माला ग्रन्थयित्वा च पूर्ववत् ।
प्रतिष्ठितायां तस्यां तु मन्त्रं जप्यादनन्यधीः ॥ ६-२८५ ॥

अन्यत्रापि ।

त्रुटिता चेत् स्वयं माला प्रायश्चित्तं समाचरेत् ।
प्। ४४५) गजान्तकसहस्रं तु जपहोमं समाचरेत् ॥ ६-२८६ ॥

पुनः सङ्ग्रथनं कृत्वा प्राणस्थापनपूर्वकम् ।
तदा माला सिद्धिदा स्यान्नान्यथा शाङ्करं वचः ॥ ६-२८७ ॥

अग्निदग्धे जपेल्लक्षं नष्टे भग्ने द्विलक्षकम् ।
चौरनीते षट्सहस्रं पतिते तु शतं जपेत् ॥ ६-२८८ ॥

(पुरश्चरणचन्द्रिकायाम्)

अङ्गुष्ठस्थामक्षमालां चालयेन्मध्यमाग्रतः ।
तर्जन्या न स्पृशेत् सोऽयं मुक्तिदो गणनक्रमः ॥ ६-२८९ ॥

भुक्तौ मुक्तौ तथा हृष्टौ मध्यमायां जपेत् सुधीः ।
अङ्गुष्ठानामिकाभ्यां तु जपेदुत्तमकर्मणि ॥ ६-२९० ॥

तर्जन्यङ्गुष्ठसंयोगाद्विद्वेषोच्चाटने जपः ।
कनिष्ठाङ्गुष्ठसंयोगाज्जपेन्मारणकर्मणि ॥ ६-२९१ ॥

अन्यकाले इमां मालां पूजयित्वा तु गोपयेत् ।
गुरुं प्रकाशयेद्विद्वान्न तु मन्त्रं कदाचन ॥ ६-२९२ ॥

अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ।
भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः ॥ ६-२९३ ॥

हरन्ति प्रकटं यस्मात् तस्माद्गुप्तं जपेत् सुधीः ।

अथ स्त्रीशूद्राणां मालासंस्कारः (मेरुतन्त्रे)

शूद्रार्थं वा स्त्रियामर्थे मालासंस्कार उच्यते ॥ ६-२९४ ॥

गणेशसूर्यविष्ण्वीशदुर्गाः सम्पूज्य भक्तितः ।
मालायामथ तां मालां ह्सौ। बीजेनाभिमन्त्रिताम् ॥ ६-२९५ ॥

अष्टोत्तरशतं पञ्चगव्ये तां स्थापयेत् त्र्यहम् ।
चतुर्थे तु समुद्धृत्य क्षालयेदस्त्रमन्त्रतः ॥ ६-२९६ ॥

हृन्मन्त्रेण ग्रन्थयित्वा स्थण्डिले तां निधापयेत् ।
प्। ४४६) तस्मादुत्तोल्य तां मालां स्थापयेद्धेमपात्रके ॥ ६-२९७ ॥

पञ्चामृतेन संस्नाप्य शीतलेन जलेन च ।
चन्दनेन सुगन्धेन कस्तूरीकुङ्कुमादिभिः ॥ ६-२९८ ॥

अभिषेकं ततः कुर्याद्ध्सौ। मन्त्रेण साधकः ।
नव ग्रहान् पूजयित्वा दिक्पाला।श्चापि पूजयेत् ॥ ६-२९९ ॥

अत्रापि मातृकावर्णैर्मूलमन्त्रेण च मालामभिमन्त्र्य तस्यां प्राणप्रतिष्ठापूर्वकमिष्टदेवतार्चनं पूर्ववत् कार्यमिति सम्प्रदायविदः ।
तथा ।

तिलेन घृतयुक्तेन शक्तितो होमयेत् ततः ।
स्वर्णं तु दक्षिणां दद्याद्गुरवे मणिसङ्ख्यकाम् ॥ ६-३०० ॥

तन्मन्त्रजापिनो विप्रान् भोजयेद्वाऽथ वैदिकान् ।
अभावे स्वर्णपात्रस्य ग्राह्यमश्वत्थपत्रकम् ॥ ६-३०१ ॥

मालासंस्कार इत्युक्तो जपे स्यात् सिद्धिदायकः ।

अथ वाममार्गिणां मालासंस्कारस्तत्रैव ।

कीकशादिकमालानां कौलिकानां च वामिनाम् ॥ ६-३०२ ॥

सिद्ध्यै वक्ष्यामि संस्कारं सर्वतन्त्रेषु गोपितम् ।
शिल्पिनं पूजयेदादौ वस्त्रगन्धानुलेपनैः ॥ ६-३०३ ॥

संहृष्टः कलयेन्मालां मन्त्रपूतं पिबेन्मधु ।
पञ्चाशन्मणिभिः कार्या ऋतुमत्या भगे क्षिपेत् ॥ ६-३०४ ॥

निशामेकां समुद्धृत्य कारणैः क्षालयेत् ततः ।
शुद्धोदैर्मूलमन्त्रेणाभिषिञ्चेद्विजयारसैः ॥ ६-३०५ ॥

प्रक्षाल्य धूपयेत् पश्चात् प्रोतयेदिष्टसूत्रकैः ।
सूत्रं स्वेष्टजपे नीलं कृष्णं मारणकर्मणि ॥ ६-३०६ ॥

मोहने हरितं स्तम्भे धूमाभं द्विषि तालभम् ।
प्। ४४७) शान्तौ पुष्टौ सितं द्वेषे रक्तमुच्चाटने भवेत् ॥ ६-३०७ ॥

वश्ये पीतं कषायं तु विक्षेपकरणे मतम् ।
चक्रपूजां ततः कुर्यात् साष्टोत्तरसहस्रकम् ॥ ६-३०८ ॥

हुनेन्मद्यपलाभ्यां च मूलमन्त्रेण साधकः ।
ततो वलिं यथान्यायं महिषादेः प्रदापयेत् ॥ ६-३०९ ॥

शक्तीश्च साधकाश्चा।पि भोजयेन्मणिसङ्ख्यकान् ।
एवं संसाधितां मालां पशवे न प्रदापयेत् ॥ ६-३१० ॥

अथ करमाला (बालातन्त्रे)

तर्जनी मध्यमाऽनामा कनिष्ठा चेति ताः क्रमात् ।
तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विका ॥ ६-३११ ॥

पर्वद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत् ।

तन्त्रान्तरे ।

अनामामध्यमारभ्य कनिष्ठानुक्रमेण च ॥ ६-३१२ ॥

तर्जनीमूलपर्यन्ता करमाला प्रकीर्तिता ।

सनत्कुमारोऽपि ।

अनामामध्यमारभ्य कनिष्ठादित एव च ॥ ६-३१३ ॥

तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ।
अनामामूलमारभ्य कनिष्ठादित एव च ॥ ६-३१४ ॥

तर्जनीमध्यपर्यन्तमष्टपर्वसु सञ्जपेत् ।

अयमुत्तरः श्लोकश्चाष्टोत्तरशतसङ्ख्यजपे कर्त्तव्ये शतजपोत्तरमष्टजपपरः । इदं च वैष्णवविषयम् ।
शक्तिविषये तु ।

आरभ्यानामिकामूलात् प्रादक्षिण्यक्रमेण तु ॥ ६-३१५ ॥

मध्यमामूलपर्यन्तं जपेदष्टसु पर्वसु ।
अनामामध्यमं पर्व मेरुं कृत्वा न लङ्घयेत् ॥ ६-३१६ ॥

प्। ४४८) तर्जन्यग्रे तथा मध्ये यो जपेत् तत्र मानवः ।
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो धनम् ॥ ६-३१७ ॥

इति (सिद्धान्तसारे) प्रोक्तम् ।
तत्रैव ।

अनामामूलमारभ्य प्रादक्षिण्यक्रमेण तु ।
तर्जनीमूलपर्यन्तं जपेन्नवसु पर्वसु ॥ ६-३१८ ॥

इदं च द्वादशावृत्त्याऽष्टोत्तरशतसङ्ख्यजपपरम् ।
श्रीविद्यायां तु (यामले)

अनामामध्यमायाश्च मूलाग्रं तु द्वयं द्वयम् ।
कनिष्ठायाश्च तर्जन्यास्त्रयं पर्व महेश्वरि ॥ ६-३१९ ॥

अनामामध्यमायाश्च मेरुः स्याद् द्वितयं शुभम् ।

प्रदक्षिणक्रमाद्देवि जपेत् त्रिपुरसुन्दरीम् - इति विशेष उक्तः ॥
(मेरुतन्त्रे)

अङ्गुलीर्न वियुञ्जीत जपकाले कदाचन ॥ ६-३२० ॥

अङ्गुलीनां वियोगेन च्छिद्रेषु स्रवते जपः ।
नोल्लङ्घयेच्च गणनां किञ्चित् सङ्कोचयेत् तलम् ॥ ६-३२१ ॥

न दर्शयेत् करं नो चेत् फलं गृह्णन्ति राक्षसाः ।

(पुरश्चरणचन्द्रिकायाम्)

अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने ॥ ६-३२२ ॥

पर्वसन्धिषु यज्जप्तं तत्सर्वं निष्फलं भवेत् ।
गणनाविधिमुल्लङ्घ्य यो जपेत् तु प्रमादतः ॥ ६-३२३ ॥

गृह्णन्ति राक्षसा यस्मान्नियतं गणयेद्बुधः ।

(रुद्रयामले)

नाक्षतैर्हस्तपर्वैर्वा न धान्यैर्नैव पुष्पकैः ॥ ६-३२४ ॥

न चन्दनैर्मृत्तिकया जपसङ्ख्यां न कारयेत् ।
लाक्षाकुसितसिन्दूरं गोमयं च करीषकम् ॥ ६-३२५ ॥

प्। ४४९) विलोड्य गुडिकां कृत्वा जपसङ्ख्यां तु कारयेत् ।

(मन्त्रतन्त्रप्रकाशे)

तत्राङ्गुलिजपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर्जपेत् ॥ ६-३२६ ॥

अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलं भवेत् ।

(मुण्डमालायाम्)

नित्यं जपं करे कुर्यान्न तु काम्यं कदाचन ॥ ६-३२७ ॥

काम्यमपि करे कुर्याद्यदि माला न विद्यते ।

अथ मुद्राप्रकरणम् ।

तत्र मुद्रापदार्थ उक्तः (कुलार्णवे)

मुदं कुर्वन्ति देवानां मनांसि द्रावयन्ति च ॥ ६-३२८ ॥

तस्मान्मुद्रा इति ख्याता दर्शितव्याः कुलेश्वरि ।

(मेरुतन्त्रेऽपि)

मुदं स्वरूपलाभाभ्यां देहद्वारेण चात्मनः ॥ ६-३२९ ॥

या अर्पयन्त्ययत्नेन मुद्रास्ताः शक्तयो मताः ।
मोदयन्ति ग्रहादिभ्यः पापौघं द्रावयन्ति च ॥ ६-३३० ॥

मोदनं द्रावणं यस्मादतो मुद्राः प्रकीर्त्तिताः ।

(यामले)

मोदनात् सर्वदेवानां द्रावणात् पापसन्ततेः ॥ ६-३३१ ॥

तस्मान्मुद्रेयमाख्याता सर्वकर्मार्थसाधिनी ।
अथ मुद्राः प्रवक्ष्यामि सर्वतन्त्रेषु गोपिताः ॥ ६-३३२ ॥

याभिर्विरचिताभिश्च मोदन्ते मन्त्रदेवताः ।
अर्चयेज्जपकाले च ध्याने काम्ये च कर्मणि ॥ ६-३३३ ॥

स्नाने चावाहने शङ्खे प्रतिष्ठायां च रक्षणे ।
नैवेद्ये च तथाऽन्यत्र तत्तत्कल्पप्रकाशिते ॥ ६-३३४ ॥

स्थाने मुद्रा दर्शितव्याः स्वस्वलक्षणलक्षिताः ।
प्। ४५०) आवाहनादिका मुद्रा नव साधारणा मताः ॥ ६-३३५ ॥

तथा षडङ्गमुद्राश्च सर्वमन्त्रेषु योजयेत् ।
एकोनविंशतिर्मुद्रा विष्णोरुक्ता मनीषिभिः ॥ ६-३३६ ॥

शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ।
वनमाला तथा ज्ञानमुद्रा विल्वाह्वया तथा ॥ ६-३३७ ॥

गरुडाख्या तथा मुद्रा विष्णोः सन्तोषवर्धिनी ।
नारसिंही च वाराही हयग्रीवी धनुस्तथा ॥ ६-३३८ ॥

बाणमुद्रा ततः पर्शुर्जगन्मोहनिका तथा ।
काममुद्रा परा ख्याता शिवस्य दश मुद्रिकाः ॥ ६-३३९ ॥

लिङ्गयोनित्रिशूलाख्या मालेष्टाभीमृगात्मिकाः ।
खट्वाङ्गा च कपालाख्या डमरुः शिवतोषकः ॥ ६-३४० ॥

सूर्यस्य चैव पद्माख्या सप्त मुद्रा गणेशितुः ।
दन्तपाशाङ्कुशा विघ्नपर्शुलड्डुकसञ्ज्ञकाः ॥ ६-३४१ ॥

बीजपूराह्वया मुद्राः विज्ञेया विघ्नपार्चने ।
पाशाङ्कुशवराभीतिखड्गचक्रधनुःशराः ॥ ६-३४२ ॥

मौशली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ।
लक्ष्मीमुद्राऽर्चने लक्ष्मीवाग्वादिन्यास्तु पूजने ॥ ६-३४३ ॥

अक्षमाला तथा वीणा व्याख्या पुस्तकमुद्रिका ।
सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने ॥ ६-३४४ ॥

मत्स्यमुद्रा च कूर्माख्या लेलिहा मुण्डसञ्ज्ञका ।
महायोनिरिति ख्याता सर्वसिद्धिसमृद्धिदा ॥ ६-३४५ ॥

शक्त्यर्चने महायोनिः श्यामादौ मुण्डमुद्रिका ।
मत्स्यकूर्माख्यलेलिहाः सर्वसाधारणे मताः ॥ ६-३४६ ॥

प्। ४५१) दशेमा मुद्रिका ज्ञेयास्त्रिपुरायाः प्रपूजने ।
सङ्क्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ॥ ६-३४७ ॥

खेचरी बीजयोन्याख्या त्रिखण्डा परिकीर्त्तिता ।
कुम्भमुद्राऽभिषेके स्यात् पद्ममुद्राऽसने तथा ॥ ६-३४८ ॥

कालकर्णी प्रयोक्तव्या विघ्नप्रशमकर्मणि ।
गालिनी च प्रयोक्तव्या जलशोधनकर्मणि ॥ ६-३४९ ॥

श्रीगोपालार्चने वेणुर्नृहरेर्नारसिंहिका ।
वराहस्य च पूजायां वाराहास्यां प्रदर्शयेत् ॥ ६-३५० ॥

रामार्चने धनुर्बाणमुद्रे पर्शुस्तथाऽर्चने ।
पर्शुरामस्य विज्ञेया जगन्मोहनसञ्ज्ञका ॥ ६-३५१ ॥

वासुदेवाह्वया ध्याने कुम्भमुद्राऽनुरक्षणे ।
सर्वत्र प्रार्थने चैव प्रार्थनाख्यां प्रयोजयेत् ॥ ६-३५२ ॥

उद्देशानुक्रमादासामुच्यन्ते लक्षणानि च ॥ ६-२५२एफ़् ॥

आवाहनादिका मुद्रा मातृकान्यासमुद्राश्च प्रागुक्तास्तदन्या इहोच्यन्ते ।
तत्रैव ।

अङ्गुष्ठा ऋजवो हस्तशाखा
भवेन्मुद्रा हृदये शीर्षके च ।
अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां
करद्वन्द्वाङ्गुलयो वर्मणि स्युः ॥ ६-३५३ ॥

नाराचमुष्टिर्धृतबाहुयुग्म-
काङ्गुष्ठतर्जन्युदितो ध्वनिस्तु ।
विष्वग्विभक्तः कथितास्तु मुद्रा
यत्राक्षिणी तर्जनिमध्यमे स्तः ॥ ६-३५४ ॥

प्। ४५२)नेत्रत्रयं तत्र भवेदनामा
षडङ्गमुद्राः कथिता यथावत् ।

वैष्णवीनां तु मुद्राणां कथ्यन्ते लक्षणान्यथ ।
वामाङ्गुष्ठं तु सङ्गृह्य दक्षिणेन तु मुष्टिना ॥ ६-३५५ ॥

कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठं तु प्रसारयेत् ।
वामाङ्गुल्यस्तथाऽश्लिष्टाः संयुक्ताः सम्प्रसारिताः ॥ ६-३५६ ॥

दक्षिणाङ्गुष्ठसंसृष्टा मुद्रैषा शङ्खसञ्ज्ञिका ।
हस्तौ तु सम्मुखौ कृत्वा संलग्नौ सुप्रसारितौ ॥ ६-३५७ ॥

कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रैषा चक्रसञ्ज्ञका ।
अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गली ॥ ६-३५८ ॥

अङ्गल्यौ मध्यमे भूयः संलग्ने सुप्रसारिते ।
गदा मुद्रेयमाख्याता विष्णोः सन्तोषवर्धिनी ॥ ६-३५९ ॥

हस्तौ तु सम्मुखौ कृत्वा सन्नतावुन्नताङ्गुली ।
तलान्तनिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका ॥ ६-३६० ॥

ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका ।
दक्षिणाङ्गुष्ठसंयोगात् कनिष्ठा सुप्रसारिता ॥ ६-३६१ ॥

तर्जनीमध्यमानामाः किञ्चित् सङ्कोच्य चालिताः ।
वेणुमुद्रा भवेदेषा सुगुप्ता प्रेयसी हरेः ॥ ६-३६२ ॥

अन्योन्यस्पृष्टकरयोर्मध्यमानामिकाङ्गुलीः ।
अङ्गुष्टेन तु वध्नीयात् कनिष्ठामूलसंस्थिते ॥ ६-३६३ ॥

तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससञ्ज्ञका ।
अनामापृष्ठसंलग्नां दक्षिणस्य कनिष्ठिकाम् ॥ ६-३६४ ॥

कनिष्ठयाऽन्यया बद्ध्वा तर्जन्या दक्षया तथा ।
प्। ४५३) वामानामां च बध्नीयाद्दक्षिणाङ्गुष्ठमूलके ॥ ६-३६५ ॥

अङ्गुष्ठमध्यमे वामे संयोज्य सरलाः पराः ।
चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसञ्ज्ञका ॥ ६-३६६ ॥

स्पृशेत् कण्ठादिपादान्तं तर्जन्यङ्गुष्ठया तथा ।
करद्वयेन माला चेन्मुद्रेयं वनमालिका ॥ ६-३६७ ॥

तर्जन्यङ्गुष्ठकौ शक्तावग्रतो हृदि विन्यसेत् ।
वामहस्ताम्बुजं वामजानुं मूर्ध्नि प्रविन्यसेत् ॥ ६-३६९ ॥

ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी ॥ ६-३६९एफ़् ॥

अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनाथ बद्ध्वा
तस्याग्रं पीडयित्वाऽङ्गुलिभिरपि च ता वामहस्ताङ्गुलीभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजं
विल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोयनीया विधिज्ञैः ॥ ६-३७० ॥

हस्तौ तु विमुखौ कृत्वा ग्रन्थयित्वा कनिष्ठिके ।
मिथस्तर्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा ॥ ६-३७१ ॥

मध्यमे नामिके द्वे तु द्वौ पक्षाविव चालयेत् ।
एषा गरुडमुद्राख्या विष्णोः सन्तोषवर्धिनी ॥ ६-३७२ ॥

जानुमध्ये करौ कृत्वा चिबुकौष्ठौ समावृतौ ।
हस्तौ च भूमिसंलग्नौ कम्पमानः पुनः पुनः ॥ ६-३७३ ॥

मुखं विवृतकं कुर्याल्लेलिहानश्च जिह्विकाम् ।
नारसिंही भवेदेषा मुद्रा तत्प्रीतिवर्धिनी ॥ ६-३७४ ॥

अङ्गुष्ठाभ्यां च करयोरथाक्रम्य कनिष्ठिके ।
अधोमुखीभिः सर्वाभिर्मुद्रेयं नृहरेर्मता ॥ ६-३७५ ॥

देवोपरि करं वामं कृत्वोत्तानमधः सुधीः ।
प्। ४५४) नामयेदिति सम्प्रोक्ता मुद्रा वाराहसञ्ज्ञिका ॥ ६-३७६ ॥

दक्षहस्तं चोर्ध्वमुखं वामहस्तमधो मुखम् ।
अङ्गुल्यग्रं तु संयुक्तं मुद्रा वाराहसञ्ज्ञिका ॥ ६-३७७ ॥

वामहस्ततले दक्षा अङ्गुलीस्तास्त्वधोमुखीः ।
संरोप्य मध्यमां तासामुन्नाम्याधो विकुञ्चयेत् ॥ ६-३७८ ॥

हयग्रीवप्रिया मुद्रा तन्मूर्तेरनुकारिणी ।
वामस्य मध्यमाग्रं तु तर्जन्यग्रेण योजयेत् ॥ ६-३७९ ॥

अनामिकां कनिष्ठां च तस्याङ्गुष्ठेन पीडयेत् ।
दर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता ॥ ६-३८० ॥

दक्षमुष्टिस्थतर्जन्या दीर्घया बाणमुद्रिका ।

यद्वा (ज्ञानार्णवे)

यथा हस्तगतं चापं तथा हस्तं प्रिये कुरु ॥ ६-३८१ ॥

चापमुद्रेयमाख्याता वामहस्ते त्ववस्थिता ।
कल्पद्रुमा धनुर्मुद्रा यशःकीर्त्तिविवर्धिनी ॥ ६-३८२ ॥

यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये ।
बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तिनी ॥ ६-३८३ ॥

तले तलं तु करयोस्तिर्यक् संयोज्य चाङ्गुलीः ।
संहताः प्रसृताः कुर्यान्मुद्रा परशुसञ्ज्ञका ॥ ६-३८४ ॥

ऊर्ध्वस्थाङ्गुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी ।
हस्तौ तु सम्पुटीकृत्वा प्रसृताङ्गुलिकौ तथा ॥ ६-३८५ ॥

तर्जन्यौ मध्यमापृष्ठे अङ्गुष्ठौ मध्यमास्थितौ ।
काममुद्रेयमुदिता सर्वदेवप्रियङ्करी ॥ ६-३८६ ॥

महादेवप्रियाणां च कथ्यन्ते लक्षणान्यथ ।
प्। ४५५) उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन बन्धयेत् ॥ ६-३८७ ॥

वामाङ्गुलीभिर्दक्षाभिरङ्गुलीभिश्च बन्धयेत् ।
लिङ्गमुद्रेयमाख्याता शिवसान्निध्यकारिणी ॥ ६-३८८ ॥

मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके ।
अनामिकोर्ध्वसंश्लिष्टदीर्घमध्यमयोरधः ॥ ६-३८९ ॥

अङ्गुष्ठाग्रद्वयं न्यस्य योनिमुद्रेयमीरिता ।
अङ्गुष्ठेन कनिष्ठां तु बद्ध्वा श्लिष्टाङ्गुलित्रयम् ॥ ६-३९० ॥

प्रसारयेत् त्रिशूलाख्या मुद्रैषा परिकीर्तिता ।
अङ्गुष्ठतर्जन्यग्रे तु ग्रन्थयित्वाऽङ्गुलित्रम् ॥ ६-३९१ ॥

प्रसारयेदक्षमाला मुद्रेयं परिकीर्त्तिता ।
अधःस्थितो दक्षहस्तः प्रसृतावरमुद्रिका ॥ ६-३९२ ॥

ऊर्ध्वीकृतो वामहस्तः प्रसृतोभयमुद्रिका ।
मिलितानामिकाङ्गुष्ठं मध्यमाग्रे नियोजयेत् ॥ ६-३९३ ॥

श्लिष्टाङ्गुल्यश्रिते कुर्यान्मृगमुद्रेयमीरिता ।
पञ्चाङ्गुल्यो दक्षिणास्तु मिलिता ह्यूर्ध्वमुन्नताः ॥ ६-३९४ ॥

खट्वाङ्गमुद्रा विख्याता शिवस्यातिप्रिया मता ।
पात्रवद्वामहस्तं च कृत्वाऽङ्गे वामके तथा ॥ ६-३९५ ॥

निधायोच्छ्रितवत् कुर्यान्मुद्रा कापालिकी मता ।
मुष्टिं च शिथिलां बद्ध्वा ईषदुच्छ्रितमध्यमाम् ॥ ६-३९६ ॥

दक्षिणामूर्ध्वमुन्नम्य कर्णदेशे प्रचारयेत् ।
एषा डमरुमुद्राख्या सर्वविघ्नविनाशिनी ॥ ६-३९७ ॥

ततो गणेशमुद्राणामुच्यन्ते लक्षणान्यथा ।
उत्तानोर्ध्वमुखी मध्या सरला बद्धमुष्टिका ॥ ६-३९८ ॥

प्। ४५६) दन्तमुद्रा समाख्याता सर्वागमविशारदैः ।
वाममुष्टिस्थतर्जन्या दक्षमुष्टिस्थतर्जनीम् ॥ ६-३९९ ॥

संयोज्याङ्गुष्ठकाग्रे तु तर्जन्यग्रे स्वके क्षिपेत् ।
एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्त्तिता ॥ ६-४०० ॥

ऋज्वीं च मध्यमां कृत्वा तर्जनीं मध्यपर्वणि ।
संयोज्याकुञ्चयेत् किञ्चिन्मुद्रैषाऽङ्कुशसञ्ज्ञिका ॥ ६-४०१ ॥

तर्जनीमध्यमानामाकनिष्ठाङ्गुष्ठमुष्टिका ।
अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका ॥ ६-४०२ ॥

पर्शुमुद्रा निगदिता प्रसिद्धा लड्डुमुद्रिका ।
बीजपूराह्वया मुद्रा प्रसिद्धत्वादुपेक्षिता ॥ ६-४०३ ॥

शाक्तेयानां च मुद्राणां कथ्यन्ते लक्षणान्यथ ।
पाशाङ्कुशवराभीतिधनुर्बाणाः समीरिताः ॥ ६-४०४ ॥

कनिष्ठानामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ।
श्लिष्टाङ्गुली तु प्रसृते संसृष्टे खड्गमुद्रिका ॥ ६-४०५ ॥

वामहस्तं तथा तिर्यक् कृत्वा चैव प्रसार्य च ।
आङ्कुञ्चिताङ्गुलिं कुर्याच्चर्ममुद्रेयमीरिता ॥ ६-४०६ ॥

मुष्टिं कृत्वा तु हस्ताभ्या वामस्योपरि दक्षिणाम् ।
कुर्यान्मुशलमुद्रेयं सर्वविघ्नविनाशिनी ॥ ६-४०७ ॥

कृत्वा शिरसि संयोज्य दुर्गामुद्रेयमीरिता ।
चक्रमुद्रां तथा बद्ध्वा मध्यमे द्वे प्रसार्य च ॥ ६-४०८ ॥

कनिष्ठिके तथाऽनीय तदग्रेऽङ्गुष्ठकौ क्षिपेत् ।
लक्ष्मीमुद्रा परा ह्येषा सर्वसम्पत्प्रदायिनी ॥ ६-४०९ ॥

वीणावादनवद्धस्तौ कृत्वा सञ्चालयेच्छिरः ।
प्। ४५७) वीणामुद्रेयमाख्याता सरस्वत्याः प्रियङ्करी ॥ ६-४१० ॥

वाममुष्टिं स्वाभिमुखीं कृत्वा पुस्तकमुद्रिका ।  
दक्षिणाङ्गुठजर्जन्योरग्रलग्ने पदाङ्गुलीः ॥ ६-४११ ॥  

प्रसार्य संहितोत्ताना एषा व्याख्यानमुद्रिका ।  
श्रीरामस्य सरस्वत्या अत्यन्तं प्रेयसी मता ॥ ६-४१२ ॥  

मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ ।  
कनिष्ठाङ्गुष्ठयुगले मिलितां तु प्रसारयेत् ॥ ६-४१३ ॥  

सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी ।  
कनिष्ठाङ्गुष्ठकौ शक्तौ करयोरितरेतरम् ॥ ६-४१४ ॥  

तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः ।  
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ ६-४१५ ॥  

दक्षाङ्गुठं पराङ्गुष्ठे क्षिप्त्वा हस्तद्वयेन तु ।  
सावकाशात्मकां मुष्टिं कुर्यात् सा कुम्भमुद्रिका ॥ ६-४१६ ॥  

मुष्ट्योरूर्ध्वकृताङ्गुष्ठौ तर्जन्यग्रे तु विन्यसेत् ।  
सर्वरक्षाकरी ह्येषा कुम्भमुद्रेयमीरिता ॥ ६-४१७ ॥  

प्रसृताङ्गुलिकौ हस्तौ मिथःश्लिष्टौ तु सम्मुखौ ।  
कुर्यात् स्वहृदये सेयं मुद्रा प्रार्थनसञ्ज्ञिका ॥ ६-४१८ ॥  

अञ्जल्पञ्जलिमुद्रा स्याद्वासुदेवाभिधा च सा ।  
अङ्गुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः ॥ ६-४१९ ॥  

तावेवाभिमुखौ कुर्यान्मुद्रा सा कालकर्णिका ।  
दक्षिणा निविडा मुष्टिर्नासिकार्पिततर्जनी ॥ ६-४२० ॥  

मुद्रा विस्मयसञ्ज्ञा स्याद्विस्मयावेशकारिणी ।  
मुष्टिरूर्ध्वीकृताङ्गुष्ठा दक्षिणा नादमुद्रिका ॥ ६-४२१ ॥  

प्। ४५८) तर्जन्यङ्गुष्ठसंयोगादग्रतो विन्दुमुद्रिका ।
अधोमुखे वामहस्ते ऊर्ध्वास्यं दक्षहस्तकम् ॥ ६-४२२ ॥

क्षिप्त्वाऽङ्गुलीरङ्गुलीभिः सङ्ग्रन्थ्य परिवर्तयेत् ।
एषा संहारमुद्रा स्याद्विसर्जनविधौ स्मृता ॥ ६-४२३ ॥

दक्षपाणिपृष्ठदेशे वामपाणितलं स्पृशेत् ।
अङ्गुष्ठौ चालयेत् सम्यग्मुद्रेयं मत्स्यरूपिणी ॥ ६-४२४ ॥

वामहस्तस्य तर्जन्या दक्षिणस्य कनिष्ठिकाम् ।
तस्य दक्षिणतर्जन्यां दक्षिणस्य कनिष्ठिकाम् ॥ ६-४२५ ॥

तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् ।
उन्नतं दक्षिणाङ्गुष्ठं वामस्य माध्यमादिकाः ॥ ६-४२६ ॥

अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ।
वामस्य पितृतीर्थेन मध्यमानामिके तथा ॥ ६-४२७ ॥

अधोमुखे च ते कुर्याद्दक्षिणस्य करस्य च ।
कूर्मपृष्ठसमं कुर्याद्दक्षपाणिं च सर्वतः ॥ ६-४२८ ॥

कूर्ममुद्रेयमाख्याता देवताध्यानकर्मणि ।

पृष्ठे क्रोडे ।

अन्तराङ्गुष्ठमुष्टिं तु कृत्वा वामकरस्य च ॥ ६-४२९ ॥

मध्यमाग्रं तु दक्षस्य तथाऽलम्ब्य प्रयत्नतः ।  

मध्यमेनाथ तर्जन्या अङ्गुष्ठाग्रे तु योजयेत् ॥ ६-४३० ॥

दक्षिणं योजयेत् पाणिं वाममुष्टौ तु साधकः ।
दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमुच्यते ॥ ६-४३१ ॥

तर्जनीमध्यमानामाः समं कुर्यादधोमुखम् ।
अनामायां क्षिपेद्वृद्धामृज्वीं कृत्वा कनिष्ठिकाम् ॥ ६-४३२ ॥

लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्त्तिता ।
प्। ४५९) तर्जन्यनामिकामध्ये कनिष्ठाक्रमयोगतः ॥ ६-४३३ ॥

करयोर्योजयेच्चैव कनिष्ठामूलदेवताम् ।
अङ्गुल्यग्रे तु निःक्षिप्य महायोनिः प्रकीर्त्तिता ॥ ६-४३४ ॥

(वामकेश्वर-)तन्त्रोक्ताः प्रकाश्यन्तेऽत्र मुद्रिकाः ।
शृणु देवि प्रवक्ष्यामि मुद्राः सर्वार्थसिद्धिदाः ॥ ६-४३५ ॥

याभिर्विराचिताभिस्तु सान्निध्यं त्रैपुरं भवेत् ।
परिवृत्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ ॥ ६-४३६ ॥

अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ।
कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ॥ ६-४३७ ॥

त्रिखण्डेयं समाख्याता त्रिपुराध्यानकर्मणि ।
मध्यमामध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते ॥ ६-४३८ ॥

तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके ।
एषा च प्रथमा मुद्रा सर्वसङ्क्षोभकारिणी ॥ ६-४३९ ॥

एतस्या एव मुद्राया मध्यमे सरले यथा ।
क्रियते परमेशानि सर्वविद्राविणी तथा ॥ ६-४४० ॥

मध्यमातर्जनीभ्यां च कनिष्ठानामिके समे ।
अङ्कुशाकारमुद्राभ्यां मध्यमे परमेश्वरि ॥ ६-४४१ ॥

अङ्गुष्ठं तु नियुञ्जीत कनिष्ठानामिकोपरि ।
इयमाकर्षणी मुद्रा त्रैलोक्याकर्षणी परा ॥ ६-४४२ ॥

पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती ।
परिवर्त्त्य क्रमेणैव मध्यमे तदधोगते ॥ ६-४४३ ॥

क्रमेण देवि तेनैव कनिष्ठानामिकादयः ।
संयोज्या निविडाः सर्वा अङ्गुष्ठावग्रदेशतः ॥ ६-४४४ ॥

पगे नो। ४६० अन्द् ४६१ इस् मिस्सिन्ग्

प्। ४६२)

एतद्वचनत्रयं च मार्गभेदेन व्यवस्थापनीयम् ।

तत्त्वं तर्पणमात्रं तु वामहस्तेन दक्षिणे ।
दक्षहस्तेन वामेऽपि विशेषः परिकीर्त्तितः ॥ ६-४४५ ॥

दक्षवामक्रियायुक्तः कौलश्चोभयमिश्रितः ।

इति प्राग्लिखितप्रामाणाद्दक्षिणमार्गिणां दक्षहस्तेन पूजनं वामहस्तेन तर्पणम् । वाममार्गिणां वामहस्तेन पूजनं दक्षहस्तेन तर्पणम् । कौलिकानां तु देवतर्पणे करयोरैच्छिको विकल्प इति विवेकात् ।
तर्पणे च कामनाभदेनाङ्गुलिभेद उक्तस्तत्रान्तरे ।

अङ्गुष्ठानामिकाभ्यां तु वश्यकर्मणि तर्पयेत् ॥ ६-४४६ ॥

अङ्गुष्ठमध्यमाभ्यां तु तर्पयेच्छान्तिकर्मणि ।
तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारिके ॥ ६-४४७ ॥

कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत् प्रिये ।

तन्त्रान्तरे ।

मिथः पृष्ठार्पितौ हस्तावन्योन्यग्रथिताङ्गुली ॥ ६-४४८ ॥

कृत्वा बद्ध्वा परावृत्य नत्वा सा स्यात् क्षमापिनी ।

(भैरवतन्त्रे)

योनिश्च भूतिनी चैव बीजाख्या दैत्यधूपिनी ॥ ६-४४९ ॥

लेलिहानेति सम्प्राप्ताः पञ्च मुद्राः प्रकीर्त्तिताः ।

आद्यास्तिस्रः प्रागुक्ताः ।
अन्त्ययोर्लक्षणे तु तत्रैव ।

परिवर्त्त्य करौ कृत्वा कनिष्ठाकृष्टमध्यमाम् ॥ ६-४५० ॥

अनामयोर्युगं चाधस्तर्जनीयुगलं पृथक् ।
अन्योन्यं निविडं बद्ध्वा अङ्गाष्ठग्रे अनामिकाः ॥ ६-४५१ ॥

दैत्यानां धूमकेत्वाख्या मुद्रैषा कथिता प्रिये ।
वक्त्रं विस्फारितं कृत्वाऽप्यधो जिह्वां च चालयेत् ॥ ६-४५२ ॥

पार्श्वस्थमुष्टियुगलं लेलिहानेति कीर्त्तिता ।

इति मुद्राप्रकरणम् ।

प्। ४६३)
अथ नियमाः (कुलार्णवे)

नियमव्यतिरेकेण यद्यत् कर्म करोति यः ॥ ६-४५३ ॥ ६-

किं चिदप्यस्य न फलं सिद्ध्यत्यक्रमदोषतः ।
न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन ॥ ६-४५४ ॥

यथाविधि कृतानीह तत्कर्माणि फलन्ति हि ।
तद्विधानकृतं कर्म जपहोमार्चनादिकम् ॥ ६-४५५ ॥

देवताप्रीतिदं भूयाद्भुक्तिमुक्तिफलप्रदम् ।

(यामले)

ब्राह्मे मुहूर्ते चोत्थाय संस्मृत्य गुरुपादुकाम् ॥ ६-४५६ ॥

प्रातःकृत्यं विधायाथ कृत्वा शौचादिकं ततः ।
दन्तान् प्रधाव्य तीर्थादौ गत्वा स्नानं समाचरेत् ॥ ६-४५७ ॥

सन्ध्यामुपास्य विधिवद्देवर्षिपितृतर्पणम् ।
समाप्य दत्वा दानानि मौनी जपगृहं व्रजेत् ॥ ६-४५८ ॥

नित्यार्चनं ततः कृत्वा नित्यहोमं विधाय च ।
कृत्वा नैमित्तिकीं पूजां विधिवज्जपमाचरेत् ॥ ६-४५९ ॥

तथा ।

एवं कृत्वा साधकेन्द्राः सिद्ध्यन्ति देवतार्चनात् ।

(स्वतन्त्रतन्त्रे)

नित्यनैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः ॥ ६-४६० ॥

अन्यथा तु भवेद्व्यर्थं कुर्यादावश्यकं ततः ।

तन्त्रान्तरे ।

त्रिसन्ध्यमर्चयेद्देवं भक्तिं कृत्वा विधानतः ॥ ६-४६१ ॥

(पुरश्चरणचन्द्रिकायाम्)

सम्पूज्यैवं जपं कुर्यान्न मन्त्रं केवलं जपेत् ।

प्। ४६४) गौतमः ।

शक्त्या त्रिषवणं स्नानमथ वा द्वे सकृच्च वा ॥ ६-४६२ ॥

त्रिसन्ध्यं प्रजपेन्मन्त्रं पूजनं तत्समं भवेत् ।
एकदा वा भवेत् पूजा न जपेत् पूजनं विना ॥ ६-४६३ ॥

जपान्ते च भवेत् पूजा पूजान्ते वा जपेन्मनुम् ।

अन्यत्रापि ।

मन्त्रं साधयमानस्तु त्रिसन्ध्यं देवमर्चयेत् ॥ ६-४६४ ॥

द्विसन्ध्यमेकसन्ध्यं वा न मन्त्रं केवलं जपेत् ।

(मुण्डमालायाम्)

यदि पूजाद्यशक्तः स्याद्द्रव्याभावेन सुन्दरि ॥ ६-४६५ ॥

केवलं जपमात्रेण पुरश्चर्या विधीयते ।

स्त्रीणां विशेषमाह (यामले)

नियमः पुरुषे ज्ञेयो न योषित्सु कदाचन ॥ ६-४६६ ॥

(वीरतन्त्रे)

न न्यासो योषितां चात्र न ध्यानं न च पूजनम् ।
केवलं जपमात्रेण मन्त्राः सिद्ध्यन्ति योषिताम् ॥ ६-४६७ ॥

(चन्द्रिकायाम्)

देवी चित्तगता कार्या कार्यं च हृदयं स्थिरम् ।
मन्त्रजपान्नपानीयैः कुर्यात् पानादिभोजनम् ॥ ६-४६८ ॥

नित्यं नैमित्तिकं कुर्यात् सङ्गमं साधुभिः सह ।
स्नायात् तु पञ्चगव्येन केवलामलकेन वा ॥ ६-४६९ ॥

आज्येन दध्ना क्षीरेण तिलकल्केन वा कृतम् ।
पुरश्चर्याविधौ तद्वत् स्नानं कुर्याद्विशुद्धये ॥ ६-४७० ॥

अस्नातस्य फलं नास्ति न चातर्पयतः पितॄन् ।

प्। ४६५) (कुम्भसम्भवः)

गुरुदेवात्ममन्त्राणामैकभावेन चिन्तनम् ॥ ६-४७१ ॥

(योगिनीहृदये)

शयीत कुशशय्यायां शुचिवस्त्रधरः सदा ।
प्रत्यहं क्षालयेच्छय्यामेकाकी निर्भयः स्वपेत् ॥ ६-४७२ ॥

(कुलार्णवे)

भूशय्या ब्रह्मचर्यं च मौनमाचार्यसेवनम् ।
नित्यपूजा नित्यदानं देवतास्तुतिकीर्त्तनम् ॥ ६-४७३ ॥

नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ।
जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ॥ ६-४७४ ॥

तन्त्रान्तरे ।

मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्ययत्वमनिर्वेदो जपसम्पत्तिकारकम् ॥ ६-४७५ ॥

(मेरुतन्त्रे)

मनोनिरोधो मन्त्रार्थचिन्तनं नित्यकर्म च ।
नैमित्तिकं शौचमौने बालस्य दमनं तथा ॥ ६-४७६ ॥

भूमिशय्या त्रिषवणं स्नानं प्रत्याह्निकार्चनम् ।
नित्यदानं गुरोः पादपुजाऽहारनियन्त्रणा ॥ ६-४७७ ॥

स्नानं च पञ्चगव्येन पवित्रकरधारणम् ।
त्रिसन्ध्यावन्दनं पञ्च यज्ञास्तर्पणकं तथा ॥ ६-४७८ ॥

(यामले)

एवमुक्तविधानेन विलम्बं त्वरितं विना ।
उक्तसङ्ख्यं जपं कुर्यात् पुरश्चरणसिद्धये ॥ ६-४७९ ॥

देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया ।
जपेदेकमनाः प्रातःकालन्मध्यन्दिनावधि ॥ ६-४८० ॥

प्। ४६६) यत्सङ्ख्यया समारब्धं तत्कर्तव्यमहर्निशम् ।
यदि न्यूनाधिकं कुर्याद्व्रतभ्रष्टो भवेन्नरः ॥ ६-४८१ ॥

मध्यन्दिनावधीत्यवधिमात्रबोधकं न तु नियमपरम् । अन्यथा मध्याह्नकाले कदाचिज्जपसङ्ख्याया अपूर्तौ नियमभङ्गः स्यादिति तन्त्रसारकृतः ।
(सिद्धान्तसारे)

वशीकृतेन्द्रियग्रामो भक्तियुक्तः प्रसन्नधीः ।
अधःशायी ब्रह्मचारी निशाशी प्रजपेन्मनुम् ॥ ६-४८२ ॥

अथ वर्ज्यानि ।

आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।
नीचसंस्पर्शनं कोपं जपकाले विवर्जयेत् ॥ ६-४८३ ॥

(मेरुतन्त्रे)

त्यजेद्विंशतिकर्माणि सिद्धिविघ्नकराणि च ।
लोभं क्रोधं च मात्सर्यं कामं द्वेषं च ताडनम् ॥ ६-४८४ ॥

दम्भमुच्चाटनाभ्यङ्गाप्रियमिथ्यावचस्तथा ।
गीतं वाद्यं मधु च्छायां विभीतककरञ्जयोः ॥ ६-४८५ ॥

मांसं प्रतिग्रहं माल्यं ताम्बूलं पापिभाषणम् ।

एतानि वर्जयेद्विद्वान् ——————————– इति ॥

(कुलार्णवे)

स्त्रीशूद्रपतितव्रात्यनास्तिकोच्छिष्टभाषणम् ॥ ६-४८६ ॥

असत्यभाषणं जिह्मभाषणं परिवर्जयेत् ।
सत्येनापि न भाषेत जपहोमार्चनादिषु ॥ ६-४८७ ॥

अन्यथाऽनुष्ठितं सर्वं भवत्येव निरर्थकम् ।
नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ॥ ६-४८८ ॥

दिवसातिक्रमात् पुंसां मन्त्रसिद्धिर्भवेन्न हि ।

(पुरश्चरणचन्द्रिकायाम्)

त्यजेदुष्णोदकस्नानमनिवेदितभोजनम् ॥ ६-४८९ ॥

प्। ४६७) तन्त्रान्तरे ।

भोजनं कांस्यपात्रे च दिवाभोजनमेव च ।

(योगिनीतन्त्रे)

कौटिल्यं क्षीरमभ्यङ्गमनिवेदितभोजनम् ॥ ६-४९० ॥

असङ्कल्पितकृत्यं तु वर्जयेन्मर्दनादिकम् ।

(पुरश्चरणचन्द्रिकायाम्)

वर्जयेद्गीतवाद्यादि श्रवणं नृत्यदर्शनम् ॥ ६-४९१ ॥

अभ्यङ्गं गन्धलेपं च पुष्पधारणमेव च ।
मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् । ४९२ …

स्नाता।श्च द्विजान् शूद्रान् स्त्रियो नैव स्पृशेत् तथा ।
प्राणिहिंसां न कुर्वीत पुरश्चरणकृद्द्विजः ॥ ६-४९३ ॥

गोशुश्रुषादिकं तत्तत्कल्पोक्तं विधिवच्चरेत् ॥ ६-४९३एफ़् ॥

विहाय वह्निं न हि वस्तु किञ्चिद्-
ब्राह्मं परेभ्यः सति सम्भवे च ।
असम्भवे तीर्थबहिर्विशुद्धात्
पर्वातिरिक्ते प्रतिगृह्य जप्यात् ॥ ६-४९४ ॥

तत्रासमुत्थानुदिनं विशुद्धा-
द्याचेत यावद्दिनमात्रभक्ष्यम् ।
गृह्णाति रागादधिकं न सिद्धिः
प्रजायते कल्पशतैरमुष्य ॥ ६-४९५ ॥

अत्र तिलतैलाभ्यङ्गस्तु गृहस्थानां न निषिद्धः ।

तिलतैलं मन्त्रपूतं पावनं देवदुर्लभम् ।
मर्दयित्वा गृहस्थेन स्नानं कार्यं हि सर्वदा ॥ ६-४९६ ॥

इति (मेरुतन्त्र)वचनात् ।
ऋतुकाले निजस्त्रीसम्भोगोऽपि न निषिद्धः ।

प्। ४६८) ऋतुकालं विना मन्त्री न स्वस्त्रियमपि स्पृशेत् ।

इति (गौतमीयतन्त्र) वचनात् ।
(यामले)

अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा ॥ ६-४९७ ॥

प्रलपन् प्रजपेद्यावत् तावन्निष्फलमुच्यते ।
विड्मूत्रोत्सर्गशङ्कादियुक्तः कर्म करोति यः ॥ ६-४९८ ॥

जपार्चनादिकं सर्वमपवित्रकरं प्रिये ।
मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः ॥ ६-४९९ ॥

यो जपेत् तं दहत्याशु देवता गुप्तिसंस्थिता ।

तथा ।

नैकवासा जपेन्मन्त्रं बहुवासाकुलोऽपि वा ॥ ६-५०० ॥

उष्णीषी कञ्चुकी नग्नो मुक्तकेशोऽङ्गनावृतः ।
अपवित्रकरोऽशुद्धः प्रलपन्न जपेत् क्वचित् ॥ ६-५०१ ॥

अनासनः शयानो वा गच्छन् भुञ्जान एव वा ।
रथ्यायामशिवस्थाने न जपेत् तिमिरालये ॥ ६-५०२ ॥

उपानद्गूढयानो वा यानशय्यागतस्तथा ।
प्रसार्य न जपेत् पादावुत्कटासन एव च ॥ ६-५०३ ॥

व्यग्रतां मनसश्चैव साधकः परिवर्जयेत् ।

अथ प्रायश्चित्तानि ।
(मेरुतन्त्रे)

सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् ॥ ६-५०४ ॥

प्रोक्ते पामरशब्देऽपि प्राणायामं सकृच्चरेत् ।
बहुप्रलापे चावश्यं न्यस्याङ्गानि ततो जपेत् ॥ ६-५०५ ॥

क्षुतेऽप्येवं तथाऽस्पृश्यस्थानानां स्पर्शने तथा ।
मौनत्यागे जपेन्मन्त्रं वैष्णवं वा स्मरेद्धरिम् ॥ ६-५०६ ॥

प्। ४६९) पतितान्त्यजसन्दर्शे तेजोवन्तं निरीक्षयेत् ।

तेजोवन्तश्च ।

सूर्योऽग्निश्चन्द्रमाश्चैव मुनयो भानि तारकाः ॥ ६-५०७ ॥

विद्वान् गौर्ब्राह्मणश्चेति - ——– - इति तत्रैवोक्ताः ।

अन्यत्रापि ।

पतितानामन्त्यजानां दर्शने भाषणे श्रुते ।
क्षुतेऽघोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ ६-५०८ ॥

तथा तस्य च तत्प्राप्तौ प्राणायामं षडङ्गकम् ।
कृत्वा सम्यग्जपेच्छेषं यद्वा सूर्यादिदर्शनम् ॥ ६-५०९ ॥

मार्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रं खरं कपिम् ।
दृष्ट्वाऽचम्याचरेत् कर्म स्पृष्ट्वा स्नानं विधीयते ॥ ६-५१० ॥

(साधनसमुच्चये)

जपकाले यदाऽकस्मान्म्लेच्छानां दर्शनं भवेत् ।
तदाऽचम्य हरिं स्मृत्वा तेजोवन्तं विलोक्य च ॥ ६-५११ ॥

गायत्रीं विष्णुमन्त्रं वा शतमष्टोत्तरं जपेत् ।
स्वप्नेऽपि यदि जायेत म्लेच्छादीनां च दर्शनम् ॥ ६-५१२ ॥

कामिन्या सह सङ्गम्य रेतसो वा च्युतिर्भवेत् ।
दीपं दत्वा विष्णुगेहे गायत्रीं शतधा जपेत् ॥ ६-५१३ ॥

तथा ।

शुचिर्भूत्वा जपेन्मन्त्रं नाशुचिर्जपमाचरेत् ।

मानसजपे तु नायं नियमः ।
तदुक्तं तन्त्रान्तरे ।

अशुचिर्वा शुचिर्वाऽपि गच्छ।स्तिष्ठन् स्वपन्नपि ॥ ६-५१४ ॥

मन्त्रैकशरणो विद्वान् मनसैवं सदाऽभ्यसेत् ।
न दोषो मानसे जाप्ये सर्वदेशेऽपि सर्वदा ॥ ६-५१५ ॥

प्। ४७०) जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् - इति ।

(मेरुतन्त्रे)

दैवादसत्यभाषी चेत् स रौद्रं पौरुषं जपेत् ।
बहुवस्त्रैकवस्त्रो वा मुक्तकेशोऽङ्गनावृतः ॥ ६-५१६ ॥

उष्णीषी कञ्चुकी नग्नः शिरसि प्रावृतोऽपि वा ।
चिन्ताव्याकुलचित्तो वा क्रुद्धो भ्रान्तः क्षुधान्वितः ॥ ६-५१७ ॥

उपानद्गूढपादो वा यानशय्यागतस्तथा ।
शयानो वाऽधौतपादः पश्चाद्वा दक्षिणामुखः ॥ ६-५१८ ॥

म्लानवस्त्रोऽर्धवस्त्रश्च तथा द्विगुणवस्त्रकः ।
च्युतवस्त्रो रक्तवस्त्रः स्निग्धवस्त्रो द्विकच्छकः ॥ ६-५१९ ॥

बहिःकच्छोऽनुत्तरीयो विकच्छोऽनेककच्छकः ।
कौपिनी प्रौढपादश्च तथाऽसी पीतवस्त्रवान् ॥ ६-५२० ॥

जपाशक्तः प्रमादाच्चेद्राक्षसैर्गृह्यते फलम् ।
तत्कारणं परित्यज्य तज्जपं पुनराचरेत् ॥ ६-५२१ ॥

स्वभार्यायां प्रमादेन चलितश्चेत् तदोषसि ।
स्नात्वाऽर्द्रवासा मौनेन दशकुम्भमितं जलम् ॥ ६-५२२ ॥

श्रोत्रियस्य गृहे दद्यात् परनार्यां सहस्रकम् ।

(सिद्धान्तसङ्ग्रहे)

अज्ञानात् स्वस्त्रियं गत्वा धेनुमेकां पयस्विनीम् ॥ ६-५२३ ॥

दद्याद्विप्राय धेनूनां परस्त्रीगमने शतम् ।

अथपुरश्चरणार्थं भूमिपरिग्रहः ।

(मेरुतन्त्रे) पूर्वोक्तस्थानान्युक्त्वा-

एवं विचार्य मतिमान् कुर्याद्भूमिपरिग्रहम् ॥ ६-५२४ ॥

पृथ्वीं वराहं सम्पूज्य भूसुतस्य बलेन च ।
वयाद?मकमन्त्रस्य पुरश्चरणसिद्धये ॥ ६-५२५ ॥

प्। ४७१) मयेयं गृह्यते भूमिर्मन्त्रोऽयं सिद्ध्यतामिति ।
न्यग्रोधोदुम्बराश्वत्थप्लक्षान्यतरवृक्षजान् ॥ ६-५२६ ॥

वितस्तिप्रमितान् वृत्तान् गृह्णीयात् कीलकान् दश ।
अष्टौ निखातयेदष्टदिशास्वीशानपूर्वयोः ॥ ६-५२७ ॥

मध्ये निखन्यान्नवममूर्ध्वबुद्ध्या तथाऽप्यधः ।
पश्चान्नैर्-ऋत्ययोर्मध्ये त्वस्त्रमन्त्रेण कीलयेत् ॥ ६-५२८ ॥

पूजां तथाऽस्त्रमन्त्रेण तेष्वस्त्रं च प्रपूजयेत् ।
क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते ॥ ६-५२९ ॥

दिक्पालेभ्यो माषभक्तवलिं दिक्षु प्रकल्पयेत् ।
क्षेत्रमध्ये क्षेत्रपालं पूजयेच्च गणेश्वरम् ॥ ६-५३० ॥

तृतीयं वास्तुपुरुषं तेभ्यो दद्याद्वलित्रयम् ।

(यामले)

पुण्यक्षेत्रादिकं गत्वा कुर्याद्भूमिपरिग्रहम् ॥ ६-५३१ ॥

तथा ।

भूमेः परिग्रहं कृत्वा परिमाणाच्च सर्वतः ।
ग्रामे क्रोशमितं स्थानं नगरे तद्द्वयं स्मृतम् ॥ ६-५३२ ॥

नदीपर्वततीर्थादौ परिमाणेन वर्जितम् ।
आहारादिविहारार्थं तावतीं भूमिमाक्रमेत् ॥ ६-५३३ ॥

क्षीरवृक्षमयान् कीलानस्त्रमन्त्राभिमन्त्रितान् ।
निखनेद्दशदिग्भागे तेष्वस्त्रं च प्रपूजयेत् ॥ ६-५३४ ॥

(माहेश्वरीये)

ये चात्र विघ्नकर्त्तारो दिवि भुव्यन्तरिक्षगाः ।
विघ्नभूताश्च ये चान्ये मम मन्त्रस्य सिद्धिषु ॥ ६-५३५ ॥

प्। ४७२) मयैतत् कीलितं क्षेत्रं परित्यज्य विदूरतः ।
अपसर्पन्तु ते सर्वे निर्विघ्नं सिद्धिरस्तु मे ॥ ६-५३६ ॥

पठित्वेत्येवमस्त्रेण निखनेत् कीलकान् सुधीः ।
कीलेषु तेषु विधिवत् पूजयेदस्त्रदेवताम् ॥ ६-५३७ ॥

क्षेत्रपालादिकान् मध्ये पूजयेद्विधिवित्तमः ।
दिक्पतिभ्यो वलिं दत्वा ततः क्षेत्रं समाश्रयेत् ॥ ६-५३८ ॥

तथा ।

स्वबीजं पूर्वमुच्चार्य सम्बुद्ध्यन्तं सुरं ततः ।
इमं पदं माषभक्तवलिं गृह्णपदद्वयम् ॥ ६-५३९ ॥

ठद्वयान्तो दशानां च दिक्पालानां वलेर्मनुः ।

दिक्पालबीजानि तु ।

ल। र। म। क्ष। व। य। स। ह। आ। अ। - इति ।

(मेरुतन्त्रे)

जपस्थाने ततः कुर्यात् त्रिकोणं वर्तुलं बहिः ॥ ६-५४० ॥

तद्बहिश्चतुरस्रं च तत्र क्षेत्रे समर्चयेत् ।
इहागच्छेत्यादिवाक्यैस्त्रिकोणादग्रतः पुनः ॥ ६-५४१ ॥

अन्नोदकादिसम्पूर्णं वलिपात्रं निधापयेत् ।
वामिभिर्महिषो देयः कौलिकैर्वर्करस्तथा ॥ ६-५४२ ॥

अविः सिद्धान्तिभिस्तत्र निवेद्यो मनुनाऽमुना ।

वर्करश्छागः । अविर्मेषः ।
क्षेत्रपालवलिदानमन्त्र उक्तः (प्रथमतन्त्रे)

क्षेत्रपालं च सम्पूज्य वलिं दद्याद्यथाविधि ॥ ६-५४३ ॥

पूर्वमेहि द्वयं पश्चाद्विदुषि स्यान्मुरुद्वयम् ।
भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः ॥ ६-५४४ ॥

ततो विघ्नपदद्वन्द्वं महाभैरवतत्परम् ।
प्। ४७३) क्षेत्रपालवलिं गृह्णद्वयं पावकसुन्दरी ॥ ६-५४५ ॥

वलिमन्त्रोऽयमाख्यातः सर्वसिद्धिफलप्रदः ।

गणेशवलिदानमन्त्रस्तु दीक्षाप्रकरणोक्त एव ग्राह्यः ।
वास्तुवलिदानमन्त्रो यथा ।

तारो वास्तोष्पते चेमं माषभक्तवलिं ततः ॥ ६-५४६ ॥

गृह्णद्वयान्ते स्वाहा च वास्तोर्वलिमनुः स्मृतः ।

(वीरचूणामणौ) तु वीरकल्पे विशेष उक्तः ।

ऋषिच्छन्दादि विन्यस्य दिग्देवेभ्यो वलिं हरेत् ॥ ६-५४७ ॥

असिताङ्गभैरवभ्राह्मीपदं ङेन्तं समालिखेत् ।
वलिं गृह्ण द्विधा कुर्याद्द्विठान्तो दिग्बलेर्मनुः ॥ ६-५४८ ॥

असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः ।
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ॥ ६-५४९ ॥

ब्राह्मी माहेश्वरी पश्चात् कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा तदनन्तरम् ॥ ६-५५० ॥

महालक्ष्मीः समाख्याता स्वस्वबीजाद्यनुक्रमात् ।
धूपदीपैः समभ्यर्च्य पश्चात् कीलं निवेशयेत् ॥ ६-५५१ ॥

प्रणवं पूर्वमुच्चार्य माया लक्ष्मीश्च मन्मथः ।
इन्द्राण्यै पदमुच्चार्य चामुण्डे च पदं ततः ॥ ६-५५२ ॥

विच्चे इति पदं पश्चादिदं क्षेत्रं च कीलय ।
रक्षरक्षपदं पश्चात् कालिकेति समालिखेत् ॥ ६-५५३ ॥

वह्निजायान्तमन्त्रोऽयं पूर्वादिक्रमशो न्यसेत् ।
मूलमन्त्रं समुच्चार्य आग्नेय्यै पदमुच्चरेत् ॥ ६-५५४ ॥

याम्यै इति पदं पश्चान्नैर्-ऋत्यै च मनुं पुनः ।
प्। ४७४) वारुण्यै वायवी चेति कौवेरीशानभैरवी ॥ ६-५५५ ॥

आदौ मन्त्रं समुच्चार्य पुनर्देवीं वदेत् प्रिये ।
वलिं दद्यात् क्रमेणैव दिग्विदिक्षु वलिं हरेत् ॥ ६-५५६ ॥

प्रणवं पूर्वमुद्धृत्य हृल्लेखाबीजमुद्धरेत् ।
वटुकाय पदं पश्चादापदुद्धारणाय च ॥ ६-५५७ ॥

कुरुद्वयं समुच्चार्य मायां तारं समुद्धरेत् ।
वह्निजायान्वितो मन्त्रो वटुकस्य वलिं हरेत् ॥ ६-५५८ ॥

आग्नेय्यां वलिमुत्सृज्य माया लक्ष्मीश्च मन्मथः ।
वाराही बीजमुद्धृत्य बीज पञ्चान्तकं पुनः ॥ ६-५५९ ॥

गणपतये पदं पश्चाद्वरवरदं तथा पुनः ।
सर्वजनं वदेच्चैव वदेन्मे वशमानय ॥ ६-५६० ॥

अन्ते वह्निबधूं दद्याद्गणनाथमहामनुः ।

वाराहीबीजं म्लौ। ।

रौद्रं त्रिगुणमुद्धृत्य नारायणं तथोद्धरेत् ॥ ६-५६१ ॥

बीजं सूक्ष्मेशमुद्धृत्यामरेशं बीजमुद्धरेत् ।
ङेन्तं तु क्षेत्रपालं तु वलिं गृह्णद्वयं ततः ॥ ६-५६२ ॥

वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य कीर्त्तितः ।
वायुबीजं त्रिधाऽलिख्य अनन्तो माधवस्तथा ॥ ६-५६३ ॥

वणर्तुलाक्षीमथोद्धृत्य योगिनीभ्यस्तथैव च ।
वह्निजायान्वितो मन्त्रो वायव्यां योगिनीवलिः ॥ ६-५६४ ॥

रौद्र शकारः । त्रिगुणम् त्रिवारम् । नारायणम् आ। । सूक्ष्मेशः इ। । अमरेश उ। । वायुबीजं यकारः । अनन्त आकारः । माधव इकारः । वर्तुलाक्षी उकारः ।

क्षकारं कालमारूढं तदन्ते माऽनलाक्षरम् ।
सर्वविघ्नपदं कृद्भ्यः सर्वेभ्यो भूत उद्धरेत् ॥ ६-५६५ ॥

प्। ४७५) भ्यो वर्म फट् समुद्धृत्य वलिं गृह्णद्वयं ततः ।
द्विठान्तः सिद्धिदः प्रोक्तः सर्वभूतवलिं हरेत् ॥ ६-५६६ ॥

कालो मकारः । मा ईकारः । अनलाक्षरं रेफः । तेन क्ष्म्री। ।

ओदनं पायसं क्षीरं मत्स्यमांसं तथैव च ।
मोदकं पूलिकापूपं वटकं त्रिविधा सुरा ॥ ६-५६७ ॥

हृद्यौदनादि पक्वान्नमाज्यं मधु सशर्करम् ।

सर्वत्र विधिवत् कुर्याद्दुग्धेनोत्सर्गमाचरेत् - इति ॥

(यामले)

क्षेत्रं समाश्रयेद्यस्तु क्षेत्रपालार्चनं विना ॥ ६-५६८ ॥

वाध्यते स महाविघ्नैस्तस्मात् क्षेत्रेशमर्चयेत् ।

अत्रायं विशेषः । यस्य क्षेत्रस्य नामाद्यवर्णो यस्य क्षेत्रपालस्य नामाद्यः स एव क्षेत्रपालस्तस्मिन् क्षेत्रे पूज्यः । क्षेत्रपाला उक्तास्तन्त्रान्तरे ।

अजरश्चापकुम्भश्च इडारम्भस्तथैव च ॥ ६-५६९ ॥

ईन्द्रमूर्तिश्च उल्कास्य ऊष्माद ऋपुसूदनः ।
ॠमुक्तो ऌप्तकायश्च ॡपाद एकदंष्ट्रकः ॥ ६-५७० ॥

ऐरावतश्च ओद्याम्बुरौषधीशोऽन्तवाहकः ।
अस्तकोऽप्यर्थवाहश्च कमलश्च खराननः ॥ ६-५७१ ॥

गोमुखश्चैव घण्टालो ङणमश्चन्द्रधारकः ।
छटाटोपो जटालाख्यो झङ्कारो ञमटेश्वरः ॥ ६-५७२ ॥

टङ्कपाणिस्तथा चान्यष्ठाण्डबन्धश्च डामरः ।
ढेढकर्णो णवीकान्तस्तन्त्रीजिह्वस्तु थाविरः ॥ ६-५७३ ॥

दन्तुरो धनदश्चैव नागकर्णः प्रचण्डकः ।
फेत्कारो वीरसिद्धिश्च भ्रुकुटिर्मेघभासुरः ॥ ६-५५७४ ॥

युगान्तो रौरवश्चैव लम्बोष्ठश्च वसन्तकः ।
प्। ४७६)शुकमुण्डः षडालास्यः सुमनो हूनकस्तथा ॥ ६-५७५ ॥

क्षपान्तकश्च पञ्चाशद्वर्णस्थाः क्षेत्रपालकाः ।

एकलिङ्गादौ क्षेत्रपालविशेषास्तत्रैवोक्ताः ।

शेषा वर्णविहीनास्तु क्षेत्रपालास्तथैव च ॥ ६-५७६ ॥

एकलिङ्गे च हु।कारः श्मशाने च भयावहः ।
महालक्ष्मीवने घोरो ज्वालामुखो वनोत्सवे ॥ ६-५७७ ॥

एकवृक्षवने वाऽथ विडालवदनो वसेत् ।
घण्टारवो गुहावासः पद्मखण्डे जरामरः ॥ ६-५७८ ॥

सङ्गमे भूरिधारौघः पर्वते मारुतस्तथा ।
निर्जरे श्रवणे वह्नौ निधाने मणिभद्रकः ॥ ६-५७९ ॥

रसक्षेत्रे धनाध्यक्षो यज्ञवाटेषु क्रोष्टकः ।
अरण्ये शम्बरं विद्यादुद्याने मकरस्तथा ॥ ६-५८० ॥

चतुःषष्टिर्महाविद्याः पालयित्वा जगत् स्थिताः ।
तत्तत्क्षेत्रे सदा काले वलिपूजां निवेदयेत् ॥ ६-५८१ ॥

अथ कूर्मचक्रम् ।

ल क्ष

क ख ग घ ङ

च छ ज झ ञ
श ष स ह

अं२ अ२ इ२
ओ२ श्री उ२
ए२ ऌ२ ऋ२
ट ठ ड ढ ण
य र ल व

प फ ब भ म

त थ द ध न

प्। ४७७) (यामले)

क्षेत्रमध्यं समाश्रित्य कूर्मचक्रं विचिन्तयेत् ।
कूर्मचक्रमविज्ञाय यः कुर्याज्जपयज्ञकम् ॥ ६-५८२ ॥ ६-

तज्जपस्य फलं नास्ति सर्वानर्थाय कल्पते ।

(मेरुतन्त्रे)

कूर्मचक्रमविज्ञातुर्महाविघ्नोऽभिजायते ॥ ६-५८३ ॥

(सारसङ्ग्रहे)

तच्चतुर्धा स्थितं लोके तत्प्रकारस्तयोच्यते ।
प्रथमस्तु परः कूर्मचक्रो देशगतस्तथा ॥ ६- ५८४ ॥

ग्रामगो गृहगश्चेति चतुर्धा स व्यवस्थितः ।

(तन्त्रराजे)

व्यञ्जनं देशकूर्मे स्याद्गृहकूर्मे स्वरास्तथा ॥ ६-५८५ ॥

ग्रामकूर्मे तद्द्वितयं परकूर्मे न तद्द्वयम् ।

(गौतमीये)

देशं ग्रामं गृहं वाऽपि नवधा विभजेन्नरः ॥ ६-५८६ ॥

प्रागादिपश्चिमान्तं तु कादिमान्तानि विन्यसेत् ।
अक्षराण्यय यादीनि तथाऽष्टौ कोष्ठयोर्न्यसेत् ॥ ६-५८७ ॥

ईशद्वयमधो मध्ये स्वरान् प्रागादि विन्यसेत् ।
शसान्तास्तु दिशः पश्चान्नामाद्यक्षरतो भवेत् ॥ ६-५८८ ॥

तन्मुखं पार्श्वयोः पाणी कुक्षी पादौ ततस्ततः ।
पुच्छमेकमथो मध्यं पृष्ठमेवं षडङ्गवान् ॥ ६-५८९ ॥

(मेरुतन्त्रे)

परदेशग्रामगृहभेदात् कूर्मश्चतुर्विधः ।
वृत्तद्वयं प्रकुर्वीत नवकोष्ठकभेदितम् ॥ ६-५९० ॥

कवर्गाद्याः सप्त लेख्याः पूर्वाशादिषु लक्षकौ ।
प्। ४७८) ऐशान्यां विलिखेन्मध्ये वृत्तकोष्ठे द्वयं द्वयम् ॥ ६-५९१ ॥

स्वराणां पूर्वतो लेख्यं श्रीबीजं मध्यकोष्ठके ।
प्राङ्मुखः परकूर्मस्तु सर्वदैव प्रजायते ॥ ६-५९२ ॥

देशनामादिमो वर्णो यस्यां दिशि व्यवस्थितः ।
देशकूर्ममुखं तस्यां दिशि स्याद्ग्रामकूर्मके ॥ ६-५९३ ॥

मुखद्वयं तु विज्ञेयं स्वराद्व्यञ्जनतस्तथा ।
गृहकूर्मस्य वदनमुदग्द्वारमुखं भवेत् ॥ ६-५९४ ॥

मुखस्य पार्श्वयोः पाणी कुक्षी पादौ ततस्ततः ।
पुच्छमेकमथो मध्ये पृष्ठमेवं षडङ्गवान् ॥ ६-५९५ ॥

(यामले)

दीपस्थानं समाश्रित्य कृतं कर्म शुभावहम् ।
चतुरस्रां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् ॥ ६-५९६ ॥

पूर्वादिकोष्ठे विलिखेत् सप्त वर्गाननुक्रमात् ।
लक्षमीशस्वरान् युग्मक्रमाच्चैव लिखेत् ततः ॥ ६-५९७ ॥

दिक्षु पूर्वादितो यत्र क्षेत्राख्याद्यक्षरं स्थितम् ।
मुखं तस्य तु जानीयाद्धस्तावुभयतः स्थितौ ॥ ६-५९८ ॥

कोष्ठे कुक्षी उभे पादौ द्वौ शिष्टं पुच्छमीरितम् ।
क्रमेणानेन विभजेन्मध्यस्थमपि साधकः ॥ ६-५९९ ॥

मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः ।
उदासीनः कुक्षिसंस्थः पादस्थो दुःखमाप्नुयात् ॥ ६-६०० ॥

पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः ।

गौतमः ।

मुखे सर्वार्थसिद्धिः स्यात् करयोरल्पसिद्धयः ॥ ६-६०१ ॥

कुक्षौ तु नित्यं नैष्फल्यं पादयोर्नैव सिद्धयः ।
प्। ४७९) पुच्छे मृत्युस्तु नियतः पृष्ठे सर्वार्थसिद्धयः ॥ ६-६०२ ॥

तस्मात् तत् साधु विज्ञाय कुर्यात् सर्वजयादिकम् ॥ ६-६०२एफ़् ॥

गृहकूर्मे गृहनामज्ञानप्रकारस्तु ज्योतिःशास्त्रे ।

विस्तार आयामगुणैश्च भक्ते
यच्छेषमायः स भवेद्ध्वजादिः ।
ध्वजो धूम्रश्च सिंहः श्वा सारमेयः खरो गजः ।
ध्वाङ्क्षश्चेति क्रमेणैव दायाष्टकमुदाहृतम् ॥ ६-६०३ ॥

प्रकारान्तरमपि ।

विस्तारं च तथाऽयाममेकीकृत्य त्रिधा पुनः ।
मन्त्रसाधकगेहानामेकं चेत् प्रथमाक्षरम् ॥ ६-६०४ ॥

किं तदा पुण्यतीर्थेन पुण्यक्षेत्राटनेन वा ।

प्रयोजनमिति शेषः
(मेरुतन्त्रे)

क्षेत्रसाधकमन्त्राणामेकमेवाद्यमक्षरम् ॥ ६-६०५ ॥

यदि स्यात् स ध्रुवं मन्त्रः सर्वसिद्धिफलप्रदः ।

(गौतमीये)

मन्त्राक्षेरण मैत्रश्च दीपनाम्नो भवेद्यदि ॥ ६-६०६ ॥

साधकस्य च नाम्ना च किं न सिद्ध्यति मन्त्रिणः ।
पञ्चाशद्वर्णरूपेण क्षेत्रेशा विभुविग्रहाः ॥ ६-६०७ ॥

तस्मात् तत् सगुणं क्षेत्रं सिद्धये स्यान्न चान्यथा ।
विगुणश्चेन्मुखस्थोऽपि न तेन सिद्धिमाप्नुयात् ॥ ६-६०८ ॥

तस्माच्चक्रं विचार्यैव मित्रं च सर्वसिद्धिदम् ।
यस्मिन् देशे द्वीपपतिः सगुणं नाममन्त्रयोः ॥ ६-६०९ ॥

तत्र यत्नेन गन्तव्यं सपीठो दुर्लभो मतः ।

प्। ४८०) (कालिकोद्भवे)

स्थानसाधकयोर्नाम्नोरमैत्रं यत्र विद्यते ॥ ६-६१० ॥ ६-

तदक्षशास्त्रतो ज्ञात्वा तत्तत् स्थानं परित्यजेत् ।

मैत्रामैत्रमुक्तं तन्त्रान्तरे ।

अरित्वमद्वयस्योक्तं गकारेण परस्परम् ॥ ६-६११ ॥

ऋद्वयस्य चकारेण मकारस्य खकारतः ।
ऌद्वस्य यकारेण पकारस्य च ऌद्वये ॥ ६- ६१२ ॥

ओद्वयस्य षकारेण षकारस्यौयुगेन तु ।
जकारस्य ढकारेण ऊकारस्य खकारतः ॥ ६-६१३ ॥

उकारस्य तकारेण फकारस्य धकारतः ।
मकारस्य च रेफेण यकारस्य सकारतः ॥ ६-६१४ ॥

अरित्वमेषां वर्णानामन्येषां मित्रभावना ।
स्थानसाधकयोर्नाम्नोररित्वं यत्र विद्यते ॥ ६-६१५ ॥

तदक्षशास्त्रतो ज्ञात्वा साधको यत्नतस्त्यजेत् ।
यथा गर्गस्य वैरी स्याददृहासं महापुरम् ॥ ६-६१६ ॥

औड्डियानं षण्मुखस्य ऋजुभट्टस्य चक्रकम् ।
जयन्ती ढङ्कणस्यारिः खधार ऊझकस्य च ॥ ६-६१७ ॥

उकदेवस्य ताराख्यं फजेर्घूमाख्यमेव च ।
भद्रस्य रम्यकं सोमनगरं यज्ञशर्मणः ॥ ६-६१८ ॥

एवं क्रमेण विज्ञाय रिपुस्थानं त्यजेद्बुधः ।

(मेरुतन्त्रे)

महारित्वे जीवनाशो वैरे स्याद्धननाशनम् ॥ ६-६१९ ॥

किञ्चिद्वैरे सुखाल्पत्वं तदिदानीं निगद्यते ।
अगौ अमौ झषौ जहौ मुखौ जथौ दवौ उतौ ॥ ६-६२० ॥

प्। ४८१) फधौ भरौ यसौ चेति महारी परिकीर्त्तितौ ।
ऋच्छौ ओद्वयषौ तद्वज्जटौ ऊषौ वधौ ढलौ ॥ ६-६२१ ॥

वैरं तु पञ्चमे वर्गे तत्किञ्चित् कटयोर्भवेत् ।
चटयोः पचयोश्चापि तढयोर्ढशयोरपि ॥ ६-६२२ ॥

एकवर्गे यदा प्रीतिः स्ववर्गं द्विगुणं कुरु ।
स्थानवर्गयुतं तष्टमष्टभिश्चाय उच्यते ॥ ६-६२३ ॥

स्थानवर्गो द्विगुणितः स्ववर्गश्चाष्टशेषितः ।
स्थानाय उभयोः कार्यमन्तरं यस्य शेषकम् ॥ ६-६२४ ॥

यावत् स्थितं सोऽर्थदः स्यात् साधकोऽर्थप्रदो न सः ।

वैरं तु पञ्चमे - —————————— - इति ।

तदुक्तं ज्योतिःशास्त्रेऽपि ।

अकचटतपयशवर्गाः खगेशमार्जारसिंहशुनाम् ॥ ६-६२५ ॥

सर्पाखुगजावीनां निजपञ्चमवैरिणामष्टौ ॥ ६-६२६एफ़् ॥

स्ववर्गादेर्द्विगुणीकरणादौ स्वरज्ञानप्रकारोऽपि तत्रैवोक्तः ।

गजशरर्तयुगाश्वमहीगुणा
द्विसहिता मघवादिदिशः क्रमात् ।
गृहपतेरभिधापुरदिङ्मिता नवहृता
भवनस्य दशा च सा - इति ॥ ६-६२७ ॥

तन्त्रान्तरे ।

रिपुत्वे निश्चिते तस्य द्वितीयार्णादि शोधयेत् ।
इत्यं स्थानगृहं कृत्वा तत्र मन्त्री वलिं हरेत् ॥ ६-६२८ ॥

(गौतमीये)

द्वीपनाथं लिखेन्मध्ये पूजयेत् तं विभावयेत् ।

तन्त्रे ।

पूर्वादिनवकोष्ठेषु क्षेत्रेशा।स्तत्र पूजयेत् ॥ ६-६२९ ॥

प्। ४८२) अमृतः प्रथमे प्रोक्तो द्वितीये वृषभस्तथा ।
शैलराजस्तृतीये स्याच्चतुर्थे वासुकिः स्मृतः ॥ ६-६३० ॥

अर्थकृत् पञ्चमे प्रोक्तः शक्तिकृत् षष्ठ ईरितः ।
पद्मयोनिः सप्तमे स्यान्महाशङ्खोऽष्टमे स्मृतः ॥ ६-६३१ ॥

छायाछत्रगणः प्रोक्तो नवमे मन्त्रिनायकैः ।

(मेरुतन्त्रे)

अमृतो वृषभः शैलराजो वासुकिरेव च ॥ ६-६३२ ॥

अर्थकृछक्तिकृत् पर्वकाष्ठादौ वलिनाऽर्चयेत् ।
पद्मयोनिं महाशङ्खं छायाख्यं चापि मध्यमे ॥ ६-६३३ ॥

कूर्मपृष्ठे गृहं कृत्वा गृहस्थो जपमाचरेत् ।

(यामले)

महापीठेषु शाक्तेषु कामरूपादिकेषु च ॥ ६-६३४ ॥

यदि कुर्यात् पुरश्चर्यां तदा कूर्मं न चिन्तयेत् ।

कामरूपादिपीठान्युक्तानि (योगिनीहृदयादौ) ।

कामरूपं च काशी च नैपालं पौण्ड्रवर्धनम् ॥ ६-६३५ ॥

काश्मीरं कान्यकुब्जं च पूर्णशैलं तथाऽर्बुदम् ।
अम्रातकेश्वरैकाम्र त्रिस्रोतः कामकोटकम् ॥ ६-६३६ ॥

कैलासं भृगुनगरं केदारश्चन्द्रपूरकम् ।
श्रीपीठमोङ्कारपीठं जालन्धरं च मालवम् ॥ ६-६३७ ॥

कुलान्तकं देवीकोटं गोकर्णं मारुतेश्वरम् ।
अदृहासं च विरजं राजगृहं महापथम् ॥ ६-६३८ ॥

कोलागिरिर्मेलापुरं कालेश्वरं जयन्तिका ।
प्। ४८३) उज्जयिनी विचित्रं च क्षीरकं हस्तिनापुरम् ॥ ६-६३९ ॥

उड्डीशं च प्रयागाख्यं षष्ठीमाया जलेश्वरम् ।
मलयश्चैव श्रीशैलो मेरुर्गिरिवरस्तथा ॥ ६-६४० ॥

माहेन्द्रं वामनं चैव हिरण्यपुरमेव च ।
महालक्ष्मीरुड्डियानं छायाछत्रमतः परम् ॥ ६-६४१ ॥

एते पीठाः समुद्दिष्टा मातृकारूपमास्थिताः ।

तन्त्रातरे । दाक्षायिण्या इत्यधिकृत्य-

योनेर्हृदो गुदाद्वामनेत्राद्वामश्रुतेरथ ॥ ६-६४२ ॥

दक्षकर्णात् तथा घ्राणाद्वामवक्षोरुहादपि ।
दक्षगण्डान्नखेभ्यश्च बलिपरिसरादथ ॥ ६-६४३ ॥

नाभेस्तथाऽङ्गुलीभ्यश्च दन्तेभ्यो दक्षपाणितः ।
वामगण्डान्मस्तकाच्च बाहोर्दक्षस्तनादपि ॥ ६-६४४ ॥

स्कन्धाच्च दक्षिणात् कक्षाद्वामकक्षात् तथोदरात् ।
तत ऊर्ध्वं बलेर्मध्यबलेस्तलबलेरथ ॥ ६-६४५ ॥

ततो वस्तेर्नितम्बाच्च जघनाद्दक्षिणोरुतः ।
वामोरुतो दक्षिणाच्च जानुतो वामजानुतः ॥ ६-६४६ ॥

जङ्घाकाण्डात् ततो दक्षाद्वामाच्च दक्षगुल्फतः ।
वामगुल्फाद्दक्षनेत्राद्दक्षाद्वामाच्च पार्ष्णितः ॥ ६-६४७ ॥

रक्तात् पितात् तथा मेदोजिह्वामज्जाभ्य एव च ।
दक्षिणात् पादुकाङ्गुष्ठाद्वामादपि च तेजसः ॥ ६-६४८ ॥

नाडीततेश्च छायायाः केशपाशादिति क्रमात् ।
तत्तत्स्थानेषु पतितात् सर्वसिद्धिकराणि वै ॥ ६-६४९ ॥

प्। ४८४) पीठानि चैकपञ्चाशत् कामरूपादिकानि च ।
अकारादिक्षकारान्तवर्णरूपाणि जज्ञिरे ॥ ६-६५० ॥

अङ्गान्तरास्थिलोमभ्यो भूषणानां च संहतेः ।
उपपीठान्यसङ्ख्यानि प्रादुर्भूतानि सर्वतः ॥ ६-६५१ ॥

(मेरुतन्त्रे)

कुरुक्षेत्रे प्रयागे च गङ्गासागरसङ्गमे ।
महाकाले च काश्यां च कूर्मस्थानं न चिन्तयेत् ॥ ६-६५२ ॥

(गौतमीये)

पर्वते सिन्धुतीरे वा पुण्यारण्ये नदीतटे ।
यदि कुर्यात् पुरश्चर्यां तत्र कूर्मं न चिन्तयेत् ॥ ६-६५३ ॥

(यामले)

अट्टाट्टके शक्तिपीठे तीर्थे क्षेत्रेषु वा पुनः ।
अरण्ये पर्वते पुण्ये कूर्मचक्रं न चिन्तयेत् ॥ ६-६५४ ॥

(पुरश्चरणचन्द्रिकायाम्)

कूर्मचक्रमिति प्रोक्तं मन्त्राणां सिद्धिसाधनम् ।
मुखं तस्य समाश्रित्य वातालयसहां कुटीम् ॥ ६-६५५ ॥

चतुरस्रां चतुर्हस्तां हस्तोन्नतसुवेदिकाम् ।
चन्द्रातपपताकाद्यैस्तोरणैरप्यलङ्कृताम् ॥ ६-६५६ ॥

विविक्तामभिलिप्तां च प्रकारेणाभिवेष्टिताम् ।
निर्ममेच्च ततः कुर्यादेकभक्तं शुभे दिने ॥ ६-६५७ ॥

प्रातः स्नात्वा च गायत्र्या अयुतं प्रयतो जपेत् ।
ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं ततः ॥ ६-६५८ ॥

गायत्री स्वेष्टदेवस्य (मेरुतन्त्रे)

शुभे मुहूर्ते नक्षत्रे तिथौ स्नात्वा यथाविधि ।
विप्रान् सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः ॥ ६-६५९ ॥

प्। ४८५) भूवित्तवस्त्रभूषाद्यैः सन्तोष्य गुरुमात्मनः ।
आरभेत पुरश्चर्यां तदनुज्ञापुरःसरम् ॥ ६-६६० ॥

(सिद्धान्तसारे)

प्रातःकृत्यादिपूजान्तं कृत्वा तु जपमारभेत् ।

(यामले)

प्रातःकृत्यमकृत्वा तु यो देवीं भक्तितोऽर्चयेत् ॥ ६-६६१ ॥

विफला तस्य पूजा तु शौचहीना यथा क्रिया ।

तत्रादौ प्रातःकृत्यं कुर्यात् । तदुक्तं (सिद्धान्तसारे)

मुहूर्ते ब्रह्मणो विद्वान् मुक्तस्वापो निराकुलः ॥ ६-६६२ ॥

तल्पादुत्थाय शुक्लेऽब्जे शिरःस्थे श्रीगुरुं स्मरेत् ।

(मेरुतन्त्रे)

निशायाः पश्चिमे यामे स्मरेदिष्टां च देवताम् ॥ ६-६६३ ॥

उत्थाय दक्षिणाङ्गेन वामपादं न्यसेद्भुवि ।
ततो गृहाद्बहिर्गत्वा कृत्वाऽवश्यकमादरात् ॥ ६-६६४ ॥

रात्रिवासः परित्यज्य वाससी परिधाय च ।

आचम्य शुद्धदेहः सन् - ———– - इति ।

(पुरश्चरणचन्द्रिकायाम्)

कृत्वाऽवश्यक्रियां धीर उपविश्यासने शुभे ।

(यामले)

बद्धपद्मासनो मन्त्री समकायशिरोधरः ॥ ६-६६५ ॥

(मेरुतन्त्रे)

ततः स्वमस्तके चिन्त्यं सहस्रदलपद्मकम् ।
कर्पूराभं स्मरेत् तत्र श्रीगुरुं निजरूपिणम् ॥ ६-६६६ ॥

सुप्रसन्नं लसद्भूषामण्डितश्वेतचन्दनम् ।
वराभयज्ञानमुद्रापुस्तकव्यावृतैः करैः ॥ ६-६६७ ॥

प्। ४८६) युक्तं श्वेताम्बरं शान्तं श्वेतपुष्पविभूषितम् ।
वामाङ्कगतया शक्त्याऽलिङ्गितं रक्तवर्णया ॥ ६-६६८ ॥

रक्तवस्त्राभरणया रक्तचन्दनमालया ।
वामे लीलाकमलयाऽलिङ्गन्त्या दक्षिणेन च ॥ ६-६६९ ॥

ध्यायेदन्तर्मुखं शान्तं योगिनं शिवरूपिणम् ।

(कालानलतन्त्रे)

शुद्धस्फटिकसङ्काशमज्ञानतिमिरापहम् ॥ ६-६७० ॥

शुभांशुशुद्धसङ्कासं क्षौमद्वयविराजितम् ।
गन्धानुलेपनं शान्तं वराभयकरद्वयम् ॥ ६- ६७१ ॥

वामोरुशक्तिसंयुक्तं रक्ताम्बरविभूषया ।
स्वशक्त्या दक्षहस्तेन धृतचारुकलेवरम् ॥ ६-६७२ ॥

वामे धृतोत्पलया च रक्तया च सुशोभितम् ।
परानन्दसोल्लासलोचनद्वयपङ्कजम् ॥ ६-६७३ ॥

(मेरुतन्त्रे)

तत्पादपद्मयुगलश्रुतपीयूषधारया ।
अभिषिक्तः स्वस्य देह एवं शिष्यो विचिन्तयेत् ॥ ६-६७४ ॥

अर्चयेद्गन्धपुष्पाद्यैर्वाह्यस्थैर्मानसैश्च वा ।
नामभिस्तस्य सङ्केतसंसिद्धैर्गुरुकीर्तकैः ॥ ६-६७५ ॥

प्रणम्येत्थं हृन्मनुना भावयेत् तल्लयं हृदि ।

तन्त्रान्तरे ।

तदाज्ञां च समादाय संस्मरेदिष्टदेवताम् ॥ ६-६७६ ॥

मूलादिब्रह्मरन्ध्रान्तं कुण्डलीरूपतः स्थिताम् ।
तडित्कोटिप्रभादीप्तां विशतन्तुतनीयसीम् ॥ ६-६७७ ॥

सार्धं त्रिवलयाकारां प्रसुप्तभुजगाकृतिम् ।

प्। ४८७) (श्यामापद्धतौ)

प्रसुप्तभुजगाकारां मूलाधारनिवासिनीम् ॥ ६-६७८ ॥

सुषुम्णावर्त्मनोत्थाप्य परदेवीस्वरूपिणीम् ।
आनोय ब्रह्मरन्ध्रान्तं योजयेच्छम्भुना सह ॥ ६-६७९ ॥

सामरस्यं ततस्तस्या विभाव्य च विचक्षणः ।
सुधावृष्टिं ततः कृत्वा पूर्वस्थाने नियोजयेत् ॥ ६-६८० ॥

(मेरुतन्त्रे)

ततस्तु मूलाधारादि ब्रह्मरन्ध्रान्तमुद्यतम् ।
तेजोदण्डं सुषुम्णान्तः सहस्ररविसन्निभम् ॥ ६-६८१ ॥

तदात्मकं मूलमन्त्रं ध्यात्वा तं तेजसा वृतम् ।
स्वशरीरं विचिन्त्येति प्राणायामत्रयं चरेत् ॥ ६-६८२ ॥

मूलमन्त्रेण मन्त्रस्य ऋष्यादिन्यासमाचरेत् ।
अङ्गन्यासान् विधायाथ हृदि देवं विचिन्तयेत् ॥ ६-६८३ ॥

मानसैरुपचारैस्तु पूजयित्वा मनुं जपेत् ।
यथाशक्त्याऽथ देवाय तं जपं च समर्पयेत् ॥ ६-६८४ ॥

स्तुत्वा प्रणम्य देवाज्ञां श्लोकैरेभिश्च याचयेत् ॥ ६-६८५एफ़् ॥

त्रैलोक्यचैतन्यमयादिदेव
श्रीशङ्कर त्वच्चरणाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्रामनुवर्तयिष्ये ॥ ६-६८६ ॥

संसारयात्रामनुवर्त्तमानं
त्वदाज्ञया शङ्कर देवदेव ।
स्पर्द्धातिरस्कारकलिप्रमादा-
भयानि मां माऽभिभवन्तु नाथ ॥ ६-६८७ ॥

प्। ४८८) इति सम्प्रार्थ्य देवेशम् - ——————- - इति ।

अथाजपाविधिः । तदुक्तं (वीरचूडामणौ)

हंसाख्याराधनं वक्ष्ये मन्त्रिणां हितकाम्यया ।
यस्य विज्ञानमात्रेण सर्वज्ञो भुवि जायते ॥ ६-६८८ ॥

हंसात्मिकां भगवतीं जीवो जपति सर्वदा ।
अस्याः स्मरणमात्रेण जीवन्मुक्तो भवेन्नरः ॥ ६-६८९ ॥

ऋषिर्हंसः समाख्यातः परहंसश्च देवता ।
अव्यक्ता छन्दो गायत्री विनियोगश्च सिद्धिदः ॥ ६-६९० ॥

(सुरेन्द्रसंहितायाम्)

ऋषिर्हंसोऽव्यक्तपूर्वा गायत्री छन्द उच्यते ।
देवता परमादिस्तु हंसो ह। बीज उच्यते ॥ ६-६९१ ॥

अः शक्तिः कीलकः सोऽहं प्रणवस्तत्त्वमेव हि ।
उदात्तः स्वर इत्येवं मनोरस्य प्रकीर्त्तितः ॥ ६-६९२ ॥

मोक्षार्थे विनियोगः स्यादेवं कुर्यात् सदा नरः ।

(वीरचूडामणौ)

सूर्यात्मने च हृद्देवि सोमात्मने शिरस्तथा ॥ ६-६९३ ॥

निरञ्जने शिखा ज्योतिर्निराभासा तथा परे ।
अव्यक्तं नेत्रयोर्न्यस्य अनन्तोऽस्त्रे फडं यजेत् ॥ ६-६९४ ॥

एवं न्यासविधिं कृत्वा गणेशादौ समर्पयेत् ।

(सुरेन्द्रसंहितायाम्)

हंसात्मिकां भगवतीं जीवो जपति सर्वदा ॥ ६-६९५ ॥

हकारेण बहिर्याति सकारेण विशेत् पुनः ।
अस्याः सम्बोधमात्रेण जीवन्मुक्तो भवेन्नरः ॥ ६-६९६ ॥

प्राणायामप्रभावेण जीवन्मुक्तस्तु जायते ।
एकविंशतिसाहस्रं षट्शताधिकमेव च ॥ ६-६९७ ॥

प्। ४८९) प्रजपेत् प्रत्यहं जीवो ब्रह्मानन्दमयीं पराम् ।
उत्पत्तिर्जप आरम्भो मृतिरस्य निवेदनम् ॥ ६-६९८ ॥

विना जपेन सततं जपो भवति सर्वदा ।
एवं जपस्तु विज्ञातो गणेशादौ निवेदयेत् ॥ ६-६९९ ॥

(योगशास्त्रे)

कुण्डलिन्याः समुद्भूता गायत्री प्राणधारिणी ।
प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ॥ ६-७०० ॥

हकारेण बहिर्याति शकारेण विशेत् पुनः ।
हंसो हंस इमं मन्त्रं जीवो जपति सर्वदा ॥ ६-७०२ ॥

षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।
एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा ॥ ६-७०३ ॥

अजपानामगायत्री योगिनां मोक्षदायिनी ।
अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ ६-७०४ ॥

अनया सदृशी विद्या अनया सदृशो जपः ।
अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥ ६-७०५ ॥

हंसध्यानमुक्तं (बालापद्धतौ)

अग्नीषोमगरुद्वयं प्रणवकं विन्दुत्रिनेत्रोज्ज्वलं
भास्वदुद्रमुखं शिवाङ्घ्रियुगलं पार्श्वस्थकालानलम् ।
उद्यद्भास्करकोटिकान्तिसदृशं हंसं जगद्व्यापिनं
नित्यानन्दमयं हृदम्बुजकुटीनीडे सदा भावयेत् ॥ ६-७०६ ॥

तत्रैव ।

गणेश्वरो विधिर्विष्णुः शिवो जीवो गुरुस्तथा ।
षडेते हंसतामेत्य मूलाधारादिषु स्थिताः ॥ ६-७०७ ॥

हंसतामेत्येति । सहस्रदलकमलकर्णिकावस्थितहंसरूप-परमात्मभेदरूपं प्राप्येत्यर्थः । एषा हंसैक्यभावना तत्रैवोक्ता ।

प्। ४९०) हंसो गणेशो विधिरेव हंसो हंसो हरिर्हंसमयश्च शम्भुः ।
हंसो हि जीवो गुरुरेव संसो हंसोऽहमात्मा परमार्थरूपः ॥

हंसावस्थायामेषां स्थानभूतानि षड्वक्त्राण्युक्तानि (योगसारे)

गुदाच्च द्व्यङ्गुलादूर्ध्वं मेढ्राच्च द्व्यङ्गुलादधः ।
मूलाधारमिदं प्रोक्तं पीतवर्णं चतुर्दलम् ॥ ६-७०८ ॥

तोयवर्णादिभिर्वर्णैर्श्चतुर्भिः समलङ्कृतम् ।
गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ॥ ६-७०९ ॥

तथा ।

तदेव कामरूपाख्यं पीठं कामफलप्रदम् ।
स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडारकम् ॥ ६-७१० ॥

बालार्कवर्णपृष्ठादिषडक्षरसमन्वितम् ।
नाभिदेशे स्थितं चक्रं दशारमणिपूरकम् ॥ ६-७११ ॥

नीलप्रभाण्डादिवर्णैर्दशभिः समलङ्कृतम् ।
द्वादशारं महाचक्रं हृदयेनाहताह्वयम् ॥ ६-७१२ ॥

क्रोधीशाद्यक्षरोपेतमिन्द्रगोपसमप्रभम् ।
तदेतत् पूर्णगिर्याख्यं पीठं तव वरानने ॥ ६-७१३ ॥

कण्ठदेशे विशुद्धाख्यं यच्चक्रं षोडशारकम् ।
धूम्रप्रभं षोडशभिः श्रीकठादिस्वरैर्युतम् ॥ ६-६७१४ ॥

पीठं जालन्धरं नाम तिष्ठत्यत्रामरेश्वरि ।
आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रकेशरम् ॥ ६-७१५ ॥

अन्त्यवर्णद्वयोपेतं शरच्चन्द्रसमद्युतिम् ।
उद्यानाख्यं महापीठमुपरिष्ठात् प्रतिष्ठितम् ॥ ६-७१६ ॥

सहस्रारं महापद्मं विसर्गाधः प्रतिष्ठितम् ।
प्। ४९१) अधोमुखं सर्ववर्णयुक्तमारक्तकेशरम् ॥ ६-७१७ ॥

एतदेव हि कैलाशसञ्ज्ञकं चक्रमुच्यते ।
यत्र नित्योदितश्चन्द्रस्त्रिशृङ्गोऽमृतवर्षणः ॥ ६-७१८ ॥

तथा ।

सहस्रारे तु देवेशि हंसरूपी परः शिवः ।
स्थानान्येतानि देवेशि शक्तिर्येषु प्रकाश्यते ॥ ६-७१९ ॥

मूलाधारादौ गणेशादिध्यानमुक्तम् (बालार्चनपद्धतौ)

वशषसदलयुक्ते सम्यगाधारपद्मे
तरुणमरुणगात्रं वारणास्यं त्रिनेत्रम् ।
अभयवरदहस्तं चारुपाशाङ्कुशोद्यत् �
कररुचिरसमन्यं चिन्तयेदादिमूर्तिम् ॥ ६-७२० ॥

स्वाधिष्ठाने ब्रह्मध्यानं यथा ।

बभमयरलंसञ्ज्ञैरक्षरैः कॢप्तपद्मे
सुरुचिरमुपदिष्टे पङ्कजैः सन्निधानम् ।
अभयवरदहस्तं कुण्डिकां चाक्षमालां
दधतममलमूर्तिं चिन्तयेद्विश्वयोनिम् ॥ ६-७२१ ॥

मणिपूरचक्रे विष्नुध्यानं यथा ।

डाद्यैः फान्तगतैः प्रकल्पितदले पद्मे निविष्टं हरिं
मार्त्तण्डद्युतिमादिपूरुषमजं नारायणं चिन्मयम् ।
हस्तन्यस्तगदारिशङ्खकमलं पीताम्बरं कौस्तुभं
श्रीवत्साङ्कितमिन्द्रनीलसदृशं ध्यायेज्जगन्मोहनम् ॥ ६-७२२ ॥

अनाहतचक्रे शिवध्यानं यथा ।

प्। ४९२) काद्यैःष्ठान्तगतैः प्रकल्पितदले पङ्केरुहे पार्वती �
कान्तं पूर्णशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्ज्वलम् ।
शान्तं टङ्कमृगाभयास्पदकरं नागादिभूषोज्ज्वलं
ग्रैवेयाङ्गदहारकुण्डलधरं चर्माम्बरं चिन्तयेत् ॥ ६-७२३ ॥

विशुद्धचक्रे जीवात्मध्यानं यथा ।

मूर्त्त्यङ्गेषु निविष्टमङ्गरहितं शान्तं रुचा भासुरं
व्याप्ताशेषचराचरं गुणमयं भावेन सच्चिन्मयम् ।
मूर्त्तामूर्त्तममूर्त्तमेकममलं ज्योतिःप्रदीपोपमं
साक्षात्षोडशपत्रवर्णकमले जीवं परं चिन्तयेत् ॥ ६-७२४ ॥

आज्ञाचक्रे गुरुध्यानं यथा ।

हक्षार्णद्वयचारुपत्रकमले दिव्ये जगत्कारणे
विश्वोत्तीर्णमनेकदेहनिलयं स्वच्छन्दमात्मेच्छया ।
तत्तद्योग्यतया स्वदेशिकतनुं भावैकसच्चिन्मयं
प्रत्यक्षाक्षरविग्रहं गुरुवरं ध्यायेत् परं दैवतम् ॥ ६-७२५ ॥

सहस्रदलकमले परमात्मध्यानं यथा ।

विश्वव्यापिनमादिदेवममलं नित्यं परं निष्कलं
नित्योद्बुद्धसहस्रपत्रकमले लिप्यक्षरैर्मणिडिते ।
नित्यानन्दमनन्तपूर्णपरचित्सत्तास्फुरत्तात्मकं
स्मृत्वाऽत्मानमनुप्रविश्य कुहरे स्वच्छन्दतः सर्वतः ॥ ६-७२६ ॥

एषां शक्तयोऽपि तत्रैवोक्ताः ।

शक्तिः सिद्धिर्गणेशस्य ब्रह्मणश्च सरस्वती ।
लक्ष्मीर्नारायणस्यापि पार्वति च पिनाकिनः ॥ ६-७२७ ॥

अविद्या चैव जीवस्य गुरोर्ज्ञानं परापरम् ।
मोक्षबीजात्मिका विद्या शक्तिश्च परमात्मनः ॥ ६-७२८ ॥

प्। ४९३) तत्रैव

एवं ध्यात्वा परात्मानमिष्टदेवीस्वरूपिणम् ।
निवेदयेद्यथासङ्ख्यं क्रमेणैवाजपाजपम् ॥ ६-७२९ ॥

षट्शतानि गणेशाय ब्रह्मणे षट्सहस्रकम् ।
विष्णवे षट्सहस्रं च षट्सहस्रं पिताकिने ॥ ६-७३० ॥

सहस्रमात्मने चैव गुरवे च सहस्रकम् ।
परात्मने सहस्रं च यथाविधि निवेदयेत् ॥ ६-७३१ ॥

यथाविधि इति मानसैरुपचारैरभ्यर्च्य �

सिद्धिशक्तिसहिताय गणेशाय षट्शतसङ्ख्याकमजपाजपमहं निवेदयामि नमः ।

एवम् ।

सरस्वतीशक्तिसहिताय ब्रह्मणे षट्सहस्रसङ्ख्याकमजपाजपमहं निवेदयामि नमः ।

एवम् �

लक्ष्मीशक्तिसहिताय विष्णवे षट्सहस्रसङ्ख्याकमजपाजपमहं निवेदयामि नमः ।

एवम् �

पार्वतीशक्तिसहिताय महेश्वराय षट्सहस्रसङ्ख्याकमजपाजपमहं निवेदयामि नमः ।

एवम् �

अविद्याशक्तिसहिताय जीवात्मने सहस्रसङ्ख्याकमजपाजपमहं निवेदयामि नमः ।

एवम् �

परापरज्ञानशक्तिसहिताय गुरवे सहस्रसङ्ख्याकमजपाजपमहं निवेदयामि नमह् ।

प्। ४९४) एवम् �

सूर्यकोटिप्रकाशाय चन्द्रकोटिसुशीतलाय विद्याशक्तिसहिताय परमात्मने सहस्रसङ्ख्याकमजपाजपमहं निवेदयामि नमः ।

इत्येवं निवेदयेदित्यर्थः ।
ताराविषये तु (वीरचूडामणु)

आज्ञायां विद्युदाभायां शुभ्रौ दक्षौ नियोजयेत् ।
परमात्मनि पराशक्तौ सहस्रं च समर्पयेत् ॥ ६-७३२ ॥

कर्पूरद्युतिसंराजत्सहस्रदलपङ्कजे ।
नीलात्मकं गुरुं ध्यायेत् सहस्रं च समर्पयेत् ॥ ६-७३३ ॥

इति विशेष उक्तः ।
तथा ।

ततः स्तुत्वा च नत्वा च सङ्कल्प्य च विधानः ।
तदाज्ञां च समादाय कुर्यादावश्यकीः क्रियाः ॥ ६-७३४ ॥

संल्प्येति ।

अद्यतनसूर्योदयादारभ्य श्वस्तनसूर्योदयपर्यन्तं श्वासोच्छ्वासरूपेण षट्शताधिकैकविंशतिसहस्रसङ्ख्याकमजपागायत्रीजपमहं करिष्ये ।

इति सङ्कल्प्येत्यर्थः ।
(मेरुतन्त्रे)

प्रार्थतित्वा वरान् श्वासयुक्तं पादं निधापयेत् ।
समुद्रमेखले देवि पर्वतस्तनमण्डले ॥ ६-७३५ ॥

विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।

अथ शौचविधिस्तत्रैव ।

ततो गृहाद्बहिर्याम्यां नै-ऋतीं वा दिशं व्रजेत् ॥ ६-७३६ ॥

पदे पदे समरेदस्त्रं दूरे यायान्निजालयात् ।
प्। ४९५) अतीत्य बाणमात्रां तु भुवं ग्रामाद्विलोक्य च ॥ ६-७३७ ॥

कीटतोयादिरहितं शौचस्थानमिदं पठेत् ।
उत्तिष्ठन्त्वृषयो देवा गन्धर्वा यक्षराक्षसाः ॥ ६-७३८ ॥

परितस्त्यज्यतां स्थानं विण्मूत्रोत्सर्जनाय मे ।
अनेन मनुना लोष्टतृणैरुद्वास्य देवताः ॥ ६-७३९ ॥

कुर्यान्मलच्युतिं तत्र वाससा कं प्रवेष्ट्य च ।
खं दिशश्च न पश्येत शौचमुद्धृत्य वारिभिः ॥ ६-७४० ॥

एका लिङ्गे गुदे सप्त दश वामकरे तथा ।
उभयोः सप्त दातव्यास्तिस्रोऽङ्घ्र्योश्चापि मृत्तिकाः ॥ ६-७४१ ॥

मूत्रोत्सर्गे वामहस्ते लिङ्गे पञ्च च मृत्तिकाः ।
त्रिः करद्वितये चैका पादयोरथ वाऽचरेत् ॥ ६-७४२ ॥

गन्धलेपक्षयकरं मनोग्लानिहरं परम् ।
कुर्याद्द्वादशगण्डूषान् पुरीषोत्सर्जनोत्तरम् ॥ ६-७४३ ॥

मूत्रत्यागे तु चतुर आचमेत् त्रिस्ततः परम् ।

अथ दन्तधावनविधिस्तत्रैव ।

अर्कन्यग्रोधखदिरकरम्भककुभादिजम् ॥ ६-७४४ ॥

कनिष्ठाग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम् ।
क्लीमुक्त्वा कामदेवाय सर्वजनप्रियाय च ॥ ६-७४५ ॥

नमोऽन्तस्थितिवर्णोऽयं मन्त्रो दन्तविशोधने ।
प्रक्षल्य दन्तकाष्ठं च शुद्धदेशे पुरस्त्यजेत् ॥ ६-७४६ ॥

वक्त्रं मूलाणुना नित्यं क्षालयेत् सिद्धिहेतवे ।

तन्त्रान्तरे ।

मन्त्रार्थं संस्मर।स्तीर्थं गत्वा स्नानं समाचरेत् ॥ ६-७४७ ॥

प्। ४९६) अथ स्नानविधिः । तदुक्तं (मेरुतन्त्रे)

अथ पूजाहोमकर्मसिद्धये स्नानमुच्यते ।
शङ्कुनास्त्राभिजप्तेन शुचिस्थानात् तु मृतिकाम् ॥ ६-७४८ ॥

गृहीत्वाऽस्त्रेण संसिच्य यायाज्जलनिकेतनम् ।

तन्त्रान्तरे ।

दर्भा।स्तिलान् गोमयं च समादाय व्रजेत् ततः ॥ ६-७४९ ॥

तर्जन्या रजतं धार्यं स्वर्णं धार्यमनामया ।
एष एव कुशः प्रोक्तो न दर्भा वनसम्भवाः ॥ ६-७५० ॥

(रुद्रयामले)

त्रयो दर्भाः समुद्दिष्टाः सुवर्णैः रजतैः कुशैः ।
तत्र शाक्ते द्वयं वाद्यमन्येषां तु त्रयो मताः ॥ ६-७५१ ॥

सुवर्णां रजतं चैव जपपूजादिकर्मसु ।
कुशकार्यकरं प्रोक्तं न तु वन्यकुशाः कुशाः ॥ ६-७५२ ॥

(मेरौ)

तत्रादौ जलकूलं तु क्षालयेदस्त्रवारिणा ।
मृदं कृत्वा त्रिधा तत्र एकभागोपगं ततः ॥ ६-७५३ ॥

निधाय गोमयं दभा।स्तिला।श्चाप्यभिमन्त्रितान् ।
मृत्तिकागोमयाभ्यां च कद्यन्तं स्नानमाचरेत् ॥ ६-७५४ ॥

बहिरुद्धृततोयेन मलस्नानं ततः परम् ।
विधाय वैदिकं स्नानं तदङ्गतर्पणं तथा ॥ ६-७५५ ॥

ततस्तान्त्रिकस्नानस्य विधिरस्त्रेण मृत्तिकाम् ।
समादायास्त्रमन्त्रेण मन्त्रयित्वा तृणादिकम् ॥ ६-७५७ ॥

शिखामन्त्रेणापहृत्य त्रिर्मूलेनाभिमन्त्रेयेत् ।
मूर्द्धादिपादपर्यन्तं विलिप्य प्रणमेज्जलम् ॥ ६-७५८ ॥

प्। ४९७) आधारः सर्वभूतस्य विष्णोरतुलतेजसः ।
तद्रूपाश्च ततो जातास्ता आपः प्रणमाम्यहम् ॥ ६-७५९ ॥

सम्मुखीकरणीं मुद्रां बद्ध्वा प्राणं निरुद्ध्य च ।
निमज्ज्य तूष्णीमुत्थाय नाभिमात्रे जले स्थितः ॥ ६-७६० ॥

तान्त्रिकस्नानसङ्कल्पं मासोल्लेखादिपूर्वकम् ।
कृत्वा तु मूलमन्त्रेण प्राणायामत्रयं चरेत् ॥ ६-७६१ ॥

विन्यस्य च षडङ्गानि कल्पयेत् तीर्थमग्रतः ।
चतुरस्रे हस्तमात्रे तज्जले परिकल्पिते ॥ ६-७६२ ॥

ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ।
तेन सत्येन देवेश तीर्थं देहि दिवाकर ॥ ६-७६३ ॥

इति सूर्यं प्रार्थयित्वा क्रोमित्यङ्कुशमुद्रया ।
भित्वाऽर्कमण्डलं तस्मात् तीर्थान्यावाहयेदिह ॥ ६-७६४ ॥

गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ ६-७६५ ॥

एवमुक्त्वा तु तीर्थानि तस्मि।स्तोये नियोजयेत् ।
मूलमन्त्रेणाथ तीर्थशक्तिं तत्र समाह्वयेत् ॥ ६-७६६ ॥

अर्कस्य मण्डलं धात्वा तन्मन्त्रेण च पूजयेत् ॥ ६-७६७एफ़् ॥

सर्वानन्दमयीमशेषदुरितध्वंसां मृगाङ्कप्रभां
त्र्यक्षामूर्ध्वकरद्वयेन दधतीं पाशं शृणिं वामतः ।
अन्तश्चामृतपूर्णहेमकलाशौ मुक्ताक्षमालां वरं
गङ्गां सिन्धुसरिद्द्वयादिसहितां श्रीतीर्थशक्तिं भजे ॥ ६-७६८ ॥

तीर्थशक्तिमन्त्रस्तन्त्रान्तरे ।

आकाशा वह्निमारूढा बिन्दुनादविभूषिताः ।
षड्दीर्घस्वरसम्भिन्ना सर्वानन्दमये पदम् ॥ ६-७६९ ॥

प्। ४९८) सम्बुद्ध्यन्तां तीर्थशक्तिमेह्येहि वह्निगेहिनी ।
एकविंशाक्षरः प्रोक्तस्तीर्थशक्तेर्महामनुः ॥ ६-७७० ॥

(मेरुतन्त्रे)

तज्जलं गाङ्गमन्त्रेण मन्त्रयेदष्टवारकम् ।
तारो नमो भगवति ब्रूयादम्बे ततोऽम्बिके ॥ ६-७७१ ॥

अम्बालिके महामालिन्येह्येहि भगवत्यथ ।
अशेषतीर्थालवाले मायाश्रीवीजमुच्चरेत् ॥ ६-७७२ ॥

शिवजटाधिरूढे च गङ्गे गङ्गाम्बिके द्विठः ।
गङ्गाविद्येयमाख्याता त्रिपञ्चाशद्भिरक्षरैः ॥ ६-७७३ ॥

भुवनेश्या समालोड्यामृतीकृत्य सुधाणुना ।
कवचेनावगुण्ठ्याथ संरक्ष्यास्त्रेण मन्त्रवित् ॥ ६-७७४ ॥

मूलेन देवतां तत्र साङ्गां सावरणां तथा ।
समावाह्य जले ध्यात्वा तत्पादद्वयनिर्गतम् ॥ ६-७७५ ॥

ध्यात्वा तीर्थं स्मरन्मूलमन्त्रं स्नायाज्जले त्रिशः ।
हृदि देवं स्मरन् पश्चात् सिञ्चेत् कं कुम्भमुद्रया ॥ ६-७७६ ॥

त्रिभिः श्लोकैर्मूलमन्त्रं तारकं बीजपूर्वकैः ।
सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापते ॥ ६-७७९ ॥

मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ।
अलक्ष्मीर्मूलरूपा याः सर्वभूतेषु संस्थिताः ॥ ६-७८० ॥

क्षालयन्ति निजं स्पर्शादापो देव्यः पुनन्तु माम् ।
यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ॥ ६-७८१ ॥

ललाटे कर्णयोरक्ष्णोस्तमापो घ्नन्तु वो नमः ।
ततः स्वाहात्ममलेन त्रिराचमनमाचरेत् ॥ ६-७८२ ॥

प्। ४९९) (गन्धर्वतन्त्रे)

मूलं पठन्मुर्ध्नि तोयं मुद्रया कुम्भसञ्ज्ञया ।
क्षिप्त्वा वारत्रयं पश्चादाचामेत् साधकाग्रणीः ॥ ६-७८३ ॥

आत्मविद्याशिवैस्तत्त्वैः � � � � � � � � � � � � � � � इति ।

कुम्भमुद्रा वक्ष्यते (मेरुतन्त्रे)

त्रिधा देवं च सन्तर्प्य तोयमध्यात् तटे व्रजेत् ।
धौतं वस्त्रयुगं धृत्वा प्रक्षाल्योरू करौ तथा ॥ ६-७८४ ॥

मृदद्भिस्तत आचामेदेवं स्नानविधिः स्मृतः ।

अथ मन्त्रस्नानविधिस्तत्रैव ।

मन्त्रस्नानं प्रकर्त्तव्यं शीतयोर्देशकालयोः ॥ ६-७८५ ॥

तोयाभावे ऽगमे दुर्गे कार्येऽस्वास्थ्ये च वार्द्धके ।
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन तु वारिणा ॥ ६-७८६ ॥

स्थानं दश दिशः प्राग्वत् संशोध्योपविशेत् ततः ।
अस्त्रं हस्ततले न्यस्य क्रमान्न्यासा।स्ततश्चरेत् ॥ ६-७८७ ॥

मातृकादीस्।तथा मूलमन्त्रन्यासानशेषतः ।
न्यासान्ते संस्पृशेत् तोयं मन्त्रस्त्रानमिदं वरम् ॥ ६-७८८ ॥

केवलादुदकस्नानात् संस्कारपरिवर्जितात् ।
प्रभासादिषु तीर्थेषु यत् फलं स्नातकस्य तु ॥ ६-७८९ ॥

ज्ञेयं दशगुणं तस्मान्मन्त्रस्नानस्य निश्चयात् ।

अथ ध्यानस्नानं तत्रैव ।

ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं च यत् ॥ ६-७९० ॥

खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ।
तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि ॥ ६-७९१ ॥

चिन्तयेत् सूक्ष्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ।
प्। ५००) तया सङ्क्षालयेत् सर्वमेतद्देहगतं मलम् ॥ ६-७९२ ॥

तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ।
इदं स्नानवरं मन्त्रस्नानाच्छतगुणं मतम् ॥ ६-७९३ ॥

मनसा यस्तु संशुद्धः स शुद्धः सर्वकर्मसु ।

पुण्डरीकाक्षमित्युपलक्षणम् । यस्य या देवता स तां स्मरेदिति वदन्ति ।
अथ मानसस्नानं तत्रैव ।

अथ मानसिकं स्नानं मनसा मूलमन्त्रतः ॥ ६-७९४ ॥

प्राणायामं प्रकुर्वीत दृष्टतीर्थेषु भावतः ।

(शैवागमेऽपि)

मनसा मूलमन्त्रेण प्राणायामपुरस्सरम् ॥ ६-७९५ ॥

कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् ।

(मेरुतन्त्रे)

यद्वा शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकम् ॥ ६-७९६ ॥

मार्जनं संहितामन्त्रैः शिवस्नानमितीरितम् ।
स्नानपूर्वाः क्रियाः सर्वाः शुद्धाः सिद्धिं प्रयान्ति च ॥ ६-७९७ ॥

तस्मात् स्नानं पुरा कुर्यादेष्वेकं देहशक्तितः ।

अथ तिलकधारणविधिस्तत्रैव ।

ततस्तु तिलकं कुर्याज्जातेर्वा दैवतस्य वा ॥ ६-७९८ ॥

यद्यच्छुभफलं तीर्थं मृद्भिर्वा भक्तिभावतः ।
ब्राह्मणस्योर्ध्वपुण्ड्रः स्यात् क्षत्रियस्य त्रिपुण्ड्रकम् ॥ ६-७९९ ॥

अर्धचन्द्रं तु वैश्यस्य शूद्राणां वर्त्तुलाकृतिः ।
ऊर्ध्वपुण्ड्रं मृदा कुर्यात् त्रिपुण्ड्रं चापि भस्मना ॥ ६-८०० ॥

केशरेण च कस्तूर्या शेषे शीतं यथारुचि ।
वैष्णवस्योर्ध्वपुण्ड्रं स्यात् त्रिपुण्ड्रं शिवसेवितुः ॥ ६-८०१ ॥

अर्धचन्द्रो गणेशस्य देवीभक्तस्य वर्त्तुलम् ।
प्। ५०१) नारायणपरो यस्तु चन्दनस्य त्रिशूलकम् ॥ ६-८०२ ॥

भाले बिभर्ति वन्द्योऽसौ ब्रह्मविष्णशिवात्मकम् ।

अथ विभूतिधारणविधिस्तत्रैवोक्तः ।

भूतिदातुर्विभूतिः स्याद्विधिना विधृता यदि ॥ ६- ८०३ ॥

यथाकथञ्चिद्विधृता भस्मसात्कुरुते जनम् ।
शिवाग्रे भस्म सङ्ग्राह्यमग्निहोमोद्भवं तु यत् ॥ ६-८०४ ॥

वैवाह्यग्न्युद्भवं वाऽपि पङ्कं शुचि सुगन्धि च ।
कपिलायां सकृच्छ्रेष्ठं गृहीतं गगने पतत् ॥ ६-८०५ ॥

न क्लीन्नं नापि कठिनं न दुर्गन्धि न चोषितम् ।
उपर्यधः परित्यज्य गृह्णीयात् पतितं यदि ॥ ६-८०६ ॥

पिण्डीकृत्य शिवाग्नौ तु तत् क्षिपेन्मूलमन्त्रतः ।
अपक्वमपि पक्वं च सन्त्याज्यमसितं सितम् ॥ ६-८०७ ॥

आदाय वाससाऽलोड्य भस्माधारे विनिःक्षिपेत् ।
भस्मसङ्ग्रहणं कुर्याद्देवेऽनुद्वासिते सति ॥ ६-८०८ ॥

उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ।
यद्वा द्विजा भस्म कुर्युः सव्येनानीय गोमयम् ॥ ६-८०९ ॥

वामेन पात्रे संयोज्याघोरमन्त्रेण निर्दहेत् ।
पुरुषेण समुद्धृत्य ईशानेन विशोधयेत् ॥ ६-८१० ॥

इत्थं तु संस्कृतं भस्म अग्निरित्यादिमन्त्रितः ।
तद्रुद्रायेति यजुषा मन्त्रयेद्रुद्रसङ्ख्यया ॥ ६-८११ ॥

प्रणवाद्यैश्चतुर्थीहृदन्तैर्नामभिरंशकैः ।
पञ्चवर्णाद्यक्षराद्यैः भालांसोदरहृत्सु च ॥ ६-८१२ ॥

त्रिपुण्ड्रधारणं कुर्यात् मूर्ध्नि पञ्चाक्षरेण च ।
प्। ५०२) एभिश्च नामभिर्धार्यं पुनर्भस्म द्विजादिभिः ॥ ६-८१३ ॥

ब्रह्मा ललाटे विज्ञेयो हृदये हव्यवाहनः ।
नाभौ स्कन्दो गले पूषा रुद्रो दक्षिणबाहुके ॥ ६-८१४ ॥

आदित्यो बाहुमध्ये च शशी च मणिबन्धके ।
वामदेवो वामबाहौ बाहुमध्ये प्रभञ्जनः ॥ ६-८१५ ॥

मणिबन्धे च वसवः पृष्ठदेशे हरिः स्मृतः ।
शम्भुः ककुदि सम्प्रोक्तः परमात्मा शिरःस्मृतः ॥ ६-८१६ ॥

कस्तूर्यादिकसंयुक्तं भस्म शाक्तस्तु धारयेत् ।
आद्विजैर्मूलमन्त्रेण शिवपञ्चाक्षरेण च ॥ ६-८१७ ॥

त्रिपुण्ड्रं कारयेद्भाले ब्रह्मविष्णुशिवात्मकम् ।
मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रितम् ॥ ६-८१८ ॥

अनामामध्यमाङ्गुष्ठैरथ वा स्यात् त्रिपुण्ड्रकम् ।

अथ सन्ध्याविधिः (भैरवीतन्त्रे)

आचम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् ॥ ६-८१९ ॥

वैदिकीं तान्त्रिकीं कुर्यात् ततः सन्ध्यां समाहितः ।

(मेरुतन्त्रे)

वक्ष्येऽथ तान्त्रिकीं सन्ध्यां मूलेनाचमनत्रयम् ।
शिखां बध्वा च मूलेन प्राणायामत्रयं चरेत् ॥ ६-८२० ॥

अङ्गानि विन्यसेद्देहे करन्यासपुरःसरम् ।
अमृतीकृत्य पुरतो जलं च धेनुमुद्रया ॥ ६-८२१ ॥

अभिमन्त्र्य च मूलेन सप्तवारं ततः परम् ।
अकारादिक्षकारान्तैर्मातृकार्णैः सविन्दुभिः ॥ ६-८२२ ॥

प्रत्यर्णं प्रोक्षयेन्मूर्ध्नि कुशैर्मूलेन च त्रिधा ।
देवं ध्यात्वाऽथ मनुविद्भानुमण्डलसंस्थितम् ॥ ६-८२३ ॥

प्। ५०३) आदाय तोयमामन्त्र्य बीजैर्भूतात्मकैस्तथा ।
ल। व। र। य। ह। इति च तान्येतैः सप्तधा जलम् ॥ ६-८२४ ॥

मन्त्रयित्वा पुनः सप्तवारं मूलेन मन्त्रयेत् ।
तज्जलं वामहस्तेन धार्यं तत्स्रुतविन्दुभिः ॥ ६-८२५ ॥

दक्षहस्तेन सम्प्रोक्ष्य कं पठन्मूलमन्त्रकम् ।
हस्तव्यत्यासतो वामाचारी सेचनमाचरेत् ॥ ६-८२६ ॥

नासामाश्लिष्य शिष्टेन तेजोरूपेण तेन तु ।
प्रविश्यान्तर्गतं सर्वं मलं संशोध्य निर्गतम् ॥ ६-८२७ ॥

दक्षनासापुटेनैतत् स्मृत्वा दक्षिणहस्तकम् ।
वामभागे वज्रशिलां ध्यात्वाऽस्तेण च तत् क्षिपेत् ॥ ६-८२८ ॥

प्रक्षाल्य हस्तावाचम्य मूलमन्त्रेण मन्त्रवित् ।
गायत्र्या वाऽथ मूलेन दद्यादर्घत्रयं ततः ॥ ६-८२९ ॥

रविमण्डलसंस्थाय स्वेष्टदेवाय तर्पयेत् ।
जलेन मूलमन्त्रान्ते ह्यमुकं तर्पयामि च ॥ ६-८३० ॥

उक्त्वा त्रिधा तर्पणीयं वामकैः कारणेन तु ।
इष्टदेवस्य गायत्रीमष्टाविंशतिसङ्ख्यकाम् ॥ ६-८३१ ॥

जपेदभावे ब्राह्मीं तु वैदिकं मतमाश्रितः ।
तान्त्रिकः शिवगायत्रीं जपेत् साऽथ निरूप्यते ॥ ६-८३२ ॥

ॐ तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि तन्नः शिवः प्रचोदयात् ।

तन्त्रान्तरे ।

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् � इति शिवगायत्री उक्ता ।

प्। ५०४) अथ गणेशगायत्री (यामले)

ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ।

अथ सूर्यगायत्री (मेरुतन्त्रे)

ॐ सप्ततुरगाय विद्महे सहस्रकिरणाय धीमहि तन्नो रविः प्रचोदयात् ।

इयं तु सूर्यगायत्री जपतामिष्टदायिनी ।
भग्नानां राजपुत्राणां क्षत्रतेजोविधायिनी ॥ ६-८३३ ॥

अथ विष्णुगायत्री तत्रैव ।

ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ।

अथ नृसिंहगायत्री (तच्चरणार्चनपद्धतौ)

ॐ नृसिंहाय विद्महे तिक्ष्णदंष्ट्राय धीमहि तन्नः सिंहः प्रचोदयात् ।

रामगायत्री पूर्वमुक्ता ।
अथ गोपालगायत्री (मेरुतन्त्रे)

ॐ दामोदराय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् ।

अथ सुदर्शनगायत्री तत्रैव ।

ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रः प्रचोदयात् ।

अथ हयग्रीवगायत्री तत्रैव ।

ॐ वागीश्वराय विद्महे हयग्रीवाय धीमहि तन्नो हंसः प्रचोदयात् ।

अथ श्यामागायत्री (कुमारीतन्त्रे)

कालिकायै पदं चोक्त्वा विद्महे तदनन्तरम् ।
श्मशानवासिनी ङेन्ता धीमहीति ततो वदेत् ॥ ६-८३४ ॥

प्। ५०५) तन्नो घोरे पदं प्रोच्य प्रवदेच्च प्रचोदयात् ।
अस्याः प्रसादमात्रेण महापातककोटयः ॥ ६-८३५ ॥

सद्यः प्रलयमायान्ति साधकस्य च नान्यथा ।

तथा ।

महापातकयुक्तोऽपि प्रजपेद्दशधा यदि ॥ ६-८३६ ॥

सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् ।

(भैरवतन्त्रे तु)

कामोपराक्षिणादान्तो दक्षिणा ङेयुता पुनः ॥ ६-८३७ ॥

विद्महे कूर्चबीजं च चामुण्डा ङेयुता ततः ।
धीमहीति वदेत् तन्नः काली प्रचोदयात् ततः ॥ ६-८३८ ॥

गायत्र्येषा मया प्रोक्ता सर्वतन्त्रेषु गोपिता ।

यां विना सकला विद्यां न सिद्ध्यन्ति कदाचन � इत्युक्तम् ।
अथ नक्षत्रविद्यायाः (कालिकार्णवे)

ऐ। भगवत्येकजटे विद्महे च पदं ततः ॥ ६-८३९ ॥

विकटदंष्ट्रे धीमहि तन्नस्तारे प्रचोदयात् ।

(मालिनीतन्त्रे)

महोग्रायै च विद्महे तारायै धीमहि प्रिये ॥ ६-८४० ॥  

तन्नो देवी च शब्दान्ते धियो यो नः प्रचोदयात् ।  

(वीरचूडामणौ)

वाग्भवं च समुच्चार्यम् एकजटायै विद्महे ॥ ६-८४१ ॥

देवीं स्त्री। च समुच्चार्य नीलसरस्वत्यै धीमहि ।
हृल्लेखां च समुच्चार्य ततस्तारे प्रचोदयात् ॥ ६-८४२ ॥

त्रिपुरसुन्दर्या (ज्ञानार्णवे)

वाग्भवं त्रिपुरादेव्यै विद्महे तदनन्तरम् ।
कामबीजं समुच्चार्य कामेश्वर्यै च धीमहि ॥ ६-८४३ ॥

प्। ५०६) तन्नः क्लिन्ने पदं चोक्त्वा वदेत् पश्चात् प्रचोदयात् ।

भैरव्यास्तत्रैव ।

त्रिपुरां च तथा ङेन्तां विद्महे पदमुद्धरेत् ॥ ६-८४४ ॥

भैरव्यै च ततश्चोक्त्वा धीमहीति ततो वदेत् ।
ततो देवीपदं चोक्त्वा प्रचोदयादुदीरयेत् ॥ ६-८४५ ॥

गायत्री त्रैपुरा ख्याता वाग्भवाद्यं समुद्धरेत् ।

भुवनेश्वर्यास्तन्त्रान्तरे ।

मायाबीजं समुच्चार्य भुवनेश्वर्यै च विद्महे ॥ ६-८४६ ॥

आद्यायै पदमुच्चार्य धीमहि तदनन्तरम् ।
तन्नो देवीपदं प्रोच्य ततो देयं प्रचोदयात् ॥ ६-८४७ ॥

अथ छिन्नमस्तायास्तत्रान्तरे ।

वैरोचन्यै विद्महे च छिन्नमस्तायै च धीमहि ।
तन्नो देवीपदं चोक्त्वा योजनीयं प्रचोदयात् ॥ ६-८४८ ॥

अथ धूमावत्याः ।

धूमिति बीजमुच्चार्य धूमावतीति विद्महे ।
विवर्णा देवीपदतो धीमहि पदमुद्धरेत् ॥ ६-८४९ ॥

धूमादेव्यास्तु गायत्री तन्नो घोरे प्रचोदयात् ।

अथ मातङ्ग्याः ।

ॐ शुकप्रियायै विद्महे श्रीकामेश्वर्यै धीमहि तन्नः श्यामा प्रचोदयात् ।

अथ वगलामुख्याः ।

स्थिरमायां समुच्चार्य वगलापदतो मुखी ॥ ६-८५० ॥

विद्महे दुष्टपदतः स्तम्भनीपदमुच्चरेत् ।
धीमहीति पदस्यान्ते तन्नो देवी प्रचोदयात् ॥ ६-८५१ ॥

अथ लक्ष्मीगायत्री ।

महालक्ष्मीपदं प्रोच्य विद्महे तदनन्तरम् ।
महाश्रियै पदं चोक्त्वा धीमहीति पदं वदेत् ॥ ६-८५२ ॥

तन्नः शब्दाच्छ्रीपदं च ततो दद्यात् प्रचोदयात् ।

गौरीगायत्री (मेरुतन्त्रे)

ॐ सुभगायै विद्महे काममालिन्यै धीमहि तन्नो गौरी प्रचोदयात् ।
अथ गुह्यकालीगायत्री (महाकालसंहितायाम्)

क्रमेण वक्ष्ये गायत्रीं तत्तन्मन्त्रजपाय हि ॥ ६-८५३ ॥

त्रिपदा सा च विज्ञेया त्रिका त्रिपदिकाऽपि च ।
पदद्वयं ङेन्तमादौ शेषे चैव सुवन्तकम् ॥ ६-८५४ ॥

त्रिकत्रिपदिकस्यापि विशेषं वच्मि किञ्चन ।
सर्वादौ विद्महे ह्येवं मध्ये धीमहि चेत्यपि ॥ ६-८५५ ॥

सुवन्तीयपदस्यान्ते पदमेकं प्रचोदयात् ।
तत्पूर्वं तत इत्येवमित्युद्धारो मयोदितः ॥ ६-८५६ ॥

तथा ।

रावात् कापालिनी सिद्धिः कराली तदनन्तरम् ।
शेषे गुह्या भारतीयषोडशार्णस्य वै नमोः ॥ ६-८५७ ॥

करालिनी वधूवीजान्मुण्डमालिन्यतः परम् ।
देवी भवेत् सर्वशेषे गायत्री च्यावनी त्वियम् ॥ ६-८५८ ॥

फेत्कारिण्युग्रचण्डा च विकटदंष्ट्रा ततः परम् ।
शेषे चण्डी च हारीतोपासिता त्रिपदा त्वियम् ॥ ६-८५९ ॥

तथा ।

अट्टाट्टहासिनी ह्यादौ घोरदंष्ट्रा ततः परम् ।
शेषे घोरा रामचन्द्रोपासिता त्रिपदा स्मृता ॥ ६-८६० ॥

प्। ५०८) अथ कामकलागायत्री तत्रैव ।

ॐ अनङ्गाकुलायै विद्महे मदनातुरायै धीमहि तन्नः कामकलाकाली प्रचोदयात् ।

दुर्गागायत्री तन्त्रान्तरे ।

ॐ कात्यायन्यै विद्महे कन्याकुमारी धीमहि तन्नो दुर्गा प्रचोदयात् ।

अथ कामगायत्री (मेरुतन्त्रे)

ॐ कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयात् ।

अथ गरुडगायत्री तत्रैव ।

सर्पभीतिहरीं वक्ष्ये गायत्रीं सर्वकामदाम् ।

ॐ सुपर्णाय विद्महे पक्षिराजाय धीमहि तन्नो गरुडः प्रचोदयात् ।

अथ हनुमद्गायत्री तन्त्रान्तरे ।

ह। हनुमते दिद्महे आञ्जनेयाय धीमहि तन्नो वीरः प्रचोदयात् ।

(मेरुतन्त्रे)

                        • मूलमष्टोत्तरं शतम् ॥ ६-८६१ ॥

जपित्वा चार्पयेद्देवे स्तुत्वा नत्वेष्टदेवताम् ।
सूर्यमण्डलतो देवं विन्यसेद्धृदये स्वके ॥ ६-८६२ ॥

ततो गुरुं च प्रणमेदिति सन्ध्या तु तान्त्रिकी ।
त्रिकालमेवं कर्त्तव्या सन्ध्यालोपात् फलं न हि ॥ ६-८६३ ॥

दैवतो यदि लोपश्चेत् तदा मूलं शतं जपेत् ।
प्रायश्चित्ताय तां कृत्वा कुर्वीत समयागताम् ॥ ६-८६४ ॥

(शैवागमेऽपि)

सन्ध्यालोपो न कर्त्तव्यः * *?भओगनैवमेन हि ।
प्। ५०९) दीक्षितः सन्ध्यया हीनो न दीक्षाफलमाप्नुयात् ॥ ६-८६५ ॥

(गौतमीये)

सङ्क्षेपसन्ध्यामथ वा कुर्यान्मन्त्री ह्यशक्तितः ।
सायं प्रातश्च मध्याह्ने कृष्णं ध्यात्वा जपेन्मनुम् ॥ ६-८६६ ॥

कृष्णमित्युपलक्षणम् स्वेष्टदेवतान्ध्यात्वेत्यर्थः ।

सन्ध्यायां पतितायां वा गायत्रीं दशधा जपेत् ।

अथ तर्पणं (मेरौ)

वैदिकं तर्पणं कृत्वा ततस्तान्त्रिकमाचरेत् ॥ ६-८६७ ॥

प्राणायामत्रयं कृत्वा मूलेन न्यासमाचरेत् ।
ऋष्यादित्रितयस्याथ पुरतो धेनुमुद्रया ॥ ६-८६८ ॥

व। जपन्नमृतीकृत्य जलं तत्र सचक्रकम् ।
साङ्गं सावरणं देवं ध्यात्वा मूलं समुच्चरेत् ॥ ६-८६९ ॥

अमुकं तर्पयामीति प्रोच्य चाष्टोत्तरं शतम् ।
तदर्धमथवा विंशदष्टयुक्तं मुखाब्जके ॥ ६-८७० ॥

देवस्यामृतबुद्ध्या तत्तीर्थतोयैः प्रतर्पयेत् ।
तदावरणदेवा।श्च तद्वदेकैकवारकम् ॥ ६-८७१ ॥

सन्तर्प्यदेवं स्वहृदि तीर्थं सूर्ये विसर्जयेत् ।

(नन्दिकेश्वरसंहितायाम्)

यावन्न दीयते चार्घं भास्कराय निवेदनम् ॥ ६-८७२ ॥

तावन्न पूजयेद्विष्णुं शङ्करं वा सुरेश्वरि ।

(माहेश्वरीये)

संस्मृत्य भैरवं देवं मार्त्तण्डाख्यमुमापतिम् ॥ ६-८७३ ॥

मूलेन मनुना देवि सूर्यस्य मनुनाऽथ वा ।
मायाबीजं समुद्धृत्य सोऽहं तु विपरीतकम् ॥ ६-८७४ ॥

मार्त्तण्डभैरवं ङेन्तं प्रकाशशक्तिसंयुतम् ।
प्। ५१०) एष तेऽर्घोऽग्निजायेति दद्यादर्घत्रयं सुधीः ॥ ६-८७५ ॥

(मेरौ) तु पूजागृहं गत्वा सूर्यार्घदानमुक्तंयथा ।

गुरुं दिगीशांश्च खगान् नत्वा भाण्डकरं दधत् ।
जलपूर्णं व्रजेन्मौनी स्वेष्टदेवं हृदि स्मरन् ॥ ६-८७६ ॥

एकान्तं निर्जनं यायान्मनोज्ञं दोषवर्जितम् ।
दिगन्तरं न वीक्षेत यावत् प्राप्नोति वै गृहम् ॥ ६-८७७ ॥

प्रदक्षिणं यज्ञवाटं कृत्वा पादौ च हस्तकौ ।
प्रक्षाल्याचम्य पूजाया गृहाद्दण्डान्तरे स्थितः ॥ ६-८७८ ॥

गृहे च द्वारदेशस्थः प्रणम्य मनसा गुरुम् ।
मणमेदिष्टदेवं स्वं तक्पालानपि चेतसा ॥ ६-८७९ ॥

यत् पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेऽपि वा ।
तत्पापस्यापनोदार्थं मन्त्रद्वयमुदीरयेत् ॥ ६-८८० ॥

हे देव प्राकृतं चित्तं पापाक्रान्तमिदं मम ।
तन्निःसारय चित्तान्मे पापं फट् फट् च ते नमः ॥ ६-८८१ ॥

सूर्यः सोमो यमः कालो महाभूतानि पञ्च च ।
एते शुभाशुभस्येह कर्मणो नव साक्षिणः ॥ ६-८८२ ॥

हु। फडीति ब्रुवन् क्रोधदृष्ट्या पश्येच्च पार्श्वयोः ।
एवं कृते प्रथमतः पापोत्सादनकर्मणि ॥ ६-८८३ ॥

यत् स्याद्दृढतरं पापं तद्दूरे वाऽवतिष्ठते ।
अतीते पूजनस्थाने स्वं प्रयाति पुनश्च तत् ॥ ६-८८४ ॥

यत् स्यादल्पतरं पापं तन्नाशमुपगच्छति ।
पूजने त्यक्तपापस्य काममिष्टं क्षणाद्भवेत् ॥ ६-८८५ ॥

ततः प्रक्षाल्य पादौ च हस्तावाचम्य यत्नतः ।
प्। ५११) दद्यादर्घं दिनेशाय तत्प्रकार इहोच्यते ॥ ६-८८६ ॥

गोमयेनोपलिप्तायां भूमौ कृत्वा तु मण्डलम् ।
सिन्दुरेण ततः पश्चादुपविश्य निजासने ॥ ६-८८७ ॥

प्राङ्मुखः प्रणमेदिष्टदेवतां भक्तितत्परः ।
प्राणायामत्रयं कृत्वा सूर्यमन्त्रेण मन्त्रवित् ॥ ६-८८८ ॥

ह्रा। ह्री। स इति सूर्यस्य त्र्यक्षरो मन्त्र उच्यते ।
विन्यस्य च तथेन्द्रादीन् ध्यात्वा सूर्यमनन्यधीः ॥ ६-८८९ ॥

पद्मद्वयाभयवरान् दधतं कराब्जै �
र्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ।
रक्ताम्बुजासनमशेषगुणैकसिन्धुं
भानुं समस्तजगतामधिपं भजामि ॥ ६-८९० ॥

तत्कल्पोक्तविधानेन पूजयेदुपचारकैः ।
पुरतो मण्डलं कृत्वा जलेन चतुरस्रकम् ॥ ६-८९१ ॥

निधाय तत्र साधारं सजलं ताम्रपात्रकम् ।
गन्धपुष्पाक्षतान् दर्भान् दूर्वासर्षपसंयुतान् ॥ ६-८९२ ॥

सतिलाम्रक्तपुष्पाणि यवा।श्चापि प्रविन्यसेत् ।
सूर्यमन्त्रेण तत्पात्रं स्पृशन्नष्टोत्तरं शतम् ॥ ६-८९३ ॥

अभिमन्त्र्य च तत्पात्रं समुत्थाय करद्वयात् ।
मूर्धान्तं सूर्यमन्त्रेण दद्यादर्घं विचक्षणः ॥ ६-८९४ ॥

ह्रा। ह्री। सः सग्रहराशिनक्षत्रपदमुच्चरेत् ।
ततश्च योगकरणपरिवृत्तासनेति च ॥ ६-८९५ ॥

संस्थित श्रीसूर्यायैष तेऽर्घः स्वाहा मनुः स्मृतः ।
चतुर्स्त्रिंशदक्षरोऽयं सूर्यस्यार्घनिवेदने ॥ ६-८९६ ॥

प्। ५१२) जपेत् ततो यथाशक्त्या सर्वमन्त्रमनन्यधीः ।
तदर्घाम्बुप्लुतं सूर्यं ध्यायेद्देशिकसत्तमः ॥ ६-८९७ ॥

स्तुत्वा प्रणम्य विसृजेन्मण्डलान्तं दिवाकरम् ।
तत उत्थाय विधिवद्द्वारपूजां समारभेत् ॥ ६-८९८ ॥

द्वारपूजाविधिस्तु दीक्षातरङ्गे उक्तः ।

अथ नित्यपूजाविधिः ।

(क्रियासङ्ग्रहे)

नित्यपूजामथो वक्ष्ये सङ्क्षेपेण यथोदिताम् ।
पूजास्थानं समागम्य कुर्यादाचमनत्रयम् ॥ ६-८९९ ॥

उपविश्यासने मन्त्री कुर्यात् सङ्कल्पमादरात् ।

सङ्कल्पस्तु �

अमुकदेवताप्रीतये तन्नित्यार्चनमहं करिष्ये � इत्येवंरूपः ।

तथा ।

दद्यादर्घं दिनेशाय साक्षिणे सर्वकर्मणः ॥ ६-९०० ॥

गुरुं गणपतिं नत्वा प्रणमेदिष्टदेवताम् ।
तालत्रयं पुरस्कृत्य बध्नीयाच्च दिशो दश ॥ ६-९०१ ॥

भूतशुद्ध्यादिकं कृत्वा प्राणायामं समाचरेत् ।
कुर्याच्च मातृकान्यासं मूलन्यासं तथैव च ॥ ६-९०२ ॥

हृदये देवतां ध्यात्वा मानसैरुपचारकैः ।
पूजयेद्देवतारूपमात्मानं मन्त्रवित्तमः ॥ ६-९०३ ॥

वाह्यस्थैरुपचारैश्च यजेन्नैवेद्यवर्जितैः ।
ततः कल्पोदिता मुद्रा दर्शयित्वा विधानवित् ॥ ६-९०४ ॥

अर्घादिकं च संस्थाप्य पूजाद्रव्याणि शोधयेत् ।
यथोक्तां देवतां ध्यात्वाऽवाहयेन्मूलमन्त्रतः ॥ ६-९०५ ॥

प्। ५१३) (मेरुतन्त्रे)

संस्थापनं सन्निधानं सन्निरोधं ततश्चरेत् ।
सम्मुखीकरणं चापि सकलीकरणं ततः ॥ ६-९०६ ॥

ततोऽवगुण्ठनं कार्यममृतीकरणं ततः ।
परमीकरणं कुर्यात् क्रमतः स्वस्वमुद्रया ॥ ६-९०७ ॥

(क्रियासङ्ग्रहे)

आवाहनादिका मुद्राः प्रदर्श्य स्थापयेदसून् ।
कल्पयेदुपचारा।श्च यथासम्भवमादरात् ॥ ६-९०८ ॥

सम्पूज्य मूलमन्त्रेण प्रसूनाञ्जलिभिस्त्रीभिः ।
पूजयेद्विधिवन्मन्त्री यथोक्तावृतिदेवताः ॥ ६-९०९ ॥

साङ्गां सवाहनां सालङ्करणां च समुद्रिकाम् ।
सायुधां सपरीवारां देवतामर्चयेत् ततः ॥ ६-९१० ॥

ततो जपेन्मूलमन्त्रमष्टोत्तरशतं सुधीः ।
तं जपं भक्तितो मन्त्री देवतायै निवेदयेत् ॥ ६-९११ ॥

स्तुत्वा च विविधैः स्तोत्रैः साष्टाङ्गं प्रणमेद्भुवि ।
ततो वरान् प्रार्थयित्वा देवमुद्वासयेद्धृदि ॥ ६-९१२ ॥

निर्माल्यं शिरसि धार्यं देवतोच्छिष्टभोजिने ।
दत्वा भुञ्जीत नैवेद्यमेतन्नित्यार्चनं स्मृतम् ॥ ६-९१३ ॥

पूजायाः क्रममात्रमिदं दर्शितम् । अत्र यद्यत् कर्त्तव्यमुक्तं तत्तत् सर्वं दीक्षातरङ्गे द्रष्टव्यम् ।

अथ नित्यहोमविधिः ।

तदुक्तं (सोमभुजगावल्याम्)

नाजप्तः सिद्ध्यते मन्त्रो नाहुतश्च फलप्रदः ।
नानिष्टो यच्छते कामान् तस्मात् त्रितयमाचरेत् ॥ ६-९१४ ॥

प्। ५१४) पूजया लभते पूजां सिद्धिर्न संशयः ।
विभूतिं चाग्निकार्येण सर्वसिद्धिं च विन्दति ॥ ६-९१५ ॥

(ज्ञानार्णवे)

सङ्क्ल्प्य परमेशानि नित्यहोमविधिं चरेत् ।

सङ्कल्पस्तु �

अमुकदेवताप्रीतये एतावदाहुतीर्होष्यामि � इत्येवंरूपः ।

(नीलतन्त्रे)

नित्यहोमं प्रवक्ष्यामि सवार्थं येन विन्दति ॥ ६-९१६ ॥

सपर्यां सम्यगापाद्य वलिं पूर्ववदाचरेत् ।
ततो जपं तर्पणं च स्मरेत् साधकसत्तमः ॥ ६-९१७ ॥

वलिं वैश्वादिकं चैव ब्राह्मणः समुपाचरेत् ।
विधिवदग्निमादाय क्रव्यादेभ्यो नमस्तथा ॥ ६-९१८ ॥

मूलमन्त्रं समुच्चार्य कुण्डे वा स्थण्डिलेऽपि वा ।
भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन तु ॥ ६-९१९ ॥

स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं ततः ।
ततो देवीं समावाह्य मूलेन षोडशाहुतिम् ॥ ६-९२० ॥

हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दुमण्डले ।

(सारसङ्ग्रहे)

इत्थं तु संहृते वह्नौ देवमावाह्य मन्त्रवित् ॥ ६-९२१ ॥

सम्पूज्य मूलमनुना पञ्चविंशतिमाहुतिम् ।
हुनेदाज्येन हविषा तिलैर्वा पायसैः शुभैः ॥ ६-९२२ ॥

तण्डुलैस्तिलसम्मिश्रैः केवलैर्वाऽथ पुष्पकैः ।
अङ्गावरणदेवानामेकैकामाहुतिं हुनेत् ॥ ६-९२३ ॥

उद्वास्य देवं वह्निं च पूजास्थानं व्रजेत् ततः ।

प्। ५१५) अयं होमो नैवेद्यदानान्तरं पूजासमाप्त्यनन्तरं वा कार्यः ।
तदुक्तं (माहेश्वरीये)

निवेदयित्वा नैवेद्यं वैश्वदेवं समाचरेत् ॥ ६-९२४ ॥

अर्चायां वा समाप्तायां होमं कुर्याद्विधानतः ।

नित्ये नैमित्तिके काम्ये चैतदग्निमुखं स्मृतम् � इति ।

(अगस्त्यसंहितायाम्)

पूर्ववत् संस्कृते वह्नौ देवमावाह्य मन्त्रवित् ॥ ६-९२५ ॥

इति (मेरुतन्त्रे) चोक्तत्वादत्र वह्निसंस्कारः कर्त्तव्य एवेति श्रीविद्यापद्धतिकृतः ।

अग्न्याधानादिकं कर्म नित्यहोमे न विद्यते ।

इति (वसिष्ठसंहितायां) वचनेन निषेधान्नित्यहोमे एवाग्निसंस्कारो नास्तीत्यन्ये । विधिनिषेधयोः श्रवणादैच्छिको विकल्पो यथा षोडशपञ्चविशाहुत्योर्विकल्प इति केचित् ।  
सुधार्णवकृततस्तु - (नीलतन्त्रोक्त) एवात्र वह्नेः संस्कारः कर्त्तव्यो नाधिको विशेषवचनेन निषेधादित्यहुः ।  

इति नित्यहोमविधिः ।

कुम्भसम्भवः ।

ततः सङ्कल्प्य कुर्वीत पुरश्चरणमादरात् ॥ ६-९२६ ॥

(मेरुतन्त्रे)

प्रारभेत् पुरश्चर्यां दीक्षोक्तदिवसे शुभे ।
प्रणम्यादौ गुरून् विप्रान् गणेशं परिपूज्य च ॥ ६-९२७ ॥

पुण्याहवाचनं कृत्वा कुशहस्तो वदेदिति ।
सूर्यः सोमो यमः कालः सन्ध्ये भूतान्यहः क्षपा ॥ ६-९२८ ॥

पवनो दिक्पतिर्भूमिराकाशं खेचरामराः ।
ब्राह्म्यशासनमाधाय कल्पन्तामिह सन्निधिम् ॥ ६-९२९ ॥

वदित्वेत्थं ताम्र कृत्वा कुशतिलाक्षतान् ।
उदङ्मुखस्तु सङ्कल्पं कुर्यात् संवत्सरादिकान् ॥ ६-९३० ॥

प्। ५१६) कामनान्तानुच्चरेत् तु त्रयोविंशतिसङ्ख्यकान् ।
संवत्सरायने मासपक्षपञ्चाङ्गमेव च ॥ ६-९३१ ॥

नवग्रहस्थितिं घस्रभागं मौहूर्त्तिकं त्विति ।
स्वदेशभेदा।स्तत्तुल्यान् कामनासहितान् वदेत् ॥ ६-९३२ ॥

द्वीपेऽमुकेऽमुके खण्डेऽमुके वर्षे च नीवृति ।
अमुके चामुके क्षेत्रे गोत्रप्रवरमुच्चरेत् ॥ ६-९३३ ॥

स्वनामजातिनामान्तं द्विजाच्छर्म च वर्म च ।
गुप्तो दासोऽथामुकस्य मन्त्रस्य सिद्धिकामुकः ॥ ६-९३४ ॥

करिष्येऽहं पुरश्चर्यामेतत्सङ्ख्यजपात्मिकाम् ।
अद्यारभ्य दिनैरेतैरसति प्रतिबन्धके ॥ ६-९३५ ॥

करिष्ये इति सङ्कल्पं मनसैव प्रकल्पयेत् ।
वदेद्वाचाऽभिलाषं च कर्मणा चोपपादयेत् ॥ ६-९३६ ॥

(सनत्कुमारसंहितायाम्)

प्रणवं तत्सदद्येति मासपक्षतिथीरपि ।
अमुकगोत्रोऽमुकोऽहं मूलमुच्चार्य तत्परम् ॥ ६-९३७ ॥

सिद्धिकामोऽस्य मन्त्रस्य इयत्सङ्ख्याजपं ततः ।
दशांशं हवनं होमाद्दशांशं तर्पणं ततः ॥ ६-९३८ ॥

दशांशं मार्जनं तस्माद्दशांशं विप्रभोजनम् ।
पुरश्चरणमेवं हि करिष्ये प्रागुदङ्मुखः ॥ ६-९३९ ॥

(नारदपञ्चरात्रे)

सम्पूज्याथ जपं कुर्याद्यावद्वै प्रहरद्वयम् ।

(तन्त्रदीपे)

विधाय विधिवद्विद्वान् मण्डपं सुमनोहरम् ॥ ६-९४० ॥

तस्मिन् कलशमारोप्य तीर्थतोयैः प्रपूजयेत् ।
प्। ५१७) निःक्षिप्य नवरत्नानि तत्र गन्धाष्टकं पुनः ॥ ६-९४१ ॥

आवाह्य पूजयेत् तत्र देवमावरणैः सह ।
कलशाग्रे जपेन्मन्त्री यावत् सङ्ख्या न पूर्यते ॥ ६-९४२ ॥

ततः पूर्णे समागत्य गुरुर्देवो विधानतः ।
अभिषिञ्चेच्छिष्यमूर्ध्नि कलशोदकवारिभिः ॥ ६-९४३ ॥

ततः शिष्यः प्रयत्नेन धनाद्यैस्तोषयेद्गरुम् ।

दीक्षोक्तक्रमेण कलशं संस्थाप्य तत्र देवतामावाह्य यथाशक्ति सम्पूज्य जपं कुर्यादित्यर्थः ।
(पुरश्चरणचन्द्रिकायाम्)

एतान्यन्यानि पूजायां साधनानि बहून्यपि ॥ ६-९४४ ॥

उत्तमानि च मध्यानि न्यूनानि त्रिविधानि च ।
स्वस्थः समर्थः कुर्वीत उत्तमैरेव साधनैः ॥ ६-९४५ ॥

मध्यमो मध्यमैरेव न्यूनो न्यूनैस्तु साधनैः ।
आपन्नश्चेत् समर्थोऽपि न्यूनैरेव समाचरेत् ॥ ६-९४६ ॥

पूजाकर्मविशेषेण देशकालानुसारतः ।
यथाशक्ति यथान्यायं यथालोकावगर्हितम् ॥ ६-९४७ ॥

पूजां विस्तरतः कर्त्तुं यो न शक्नोति साधकः ।
यदि वाह्येन्द्रवज्राद्यैः पूजयेदिष्टदेवताम् ॥ ६- ९४८ ॥

अथ वा देवतामन्त्रं ध्यात्वा सम्यक् प्रपूजयेत् ।
अथ वा मानसीं कुर्यादात्मपूजामथापि वा ॥ ६-९४९ ॥

अथवा केवलां पूजां वाह्यां कुर्याद्विचक्षणः ।

तथा ।

पूर्वपूर्वस्य चाशक्तया उत्तरोत्तरमाचरेत् ॥ ६-९५० ॥

यद्येतदन्यथा कुर्यात् तदाऽनिष्टफलं स्मृतम् ।

ंइस्सिन्ग् पगे नो। ५१८ अन्द् ५१९

प्। ५२०) धातुनिर्मितयन्त्राणां मूर्तीनां च विशेषतः ॥ ६-९५१ ॥

अग्निः सप्तिं वाजमिति सप्तर्चां सप्तिरुच्यते ।
मुनिस्त्रिष्टुप् छन्द उक्तं देवताऽग्निः प्रकीर्त्तितः ॥ ६-९५२ ॥

अग्निशब्देन रहितं सूक्तमेतच्छतं पठेत् ।
अभिषिञ्चेच्छुद्धतोयैस्ततः सम्पूर्णसूक्तकैः ॥ ६-९५३ ॥

अभिषिञ्चेच्छतावृत्त्याऽग्न्युत्तारणमिदं स्मृतम् ।

तथा ।

क्षौद्राज्यदुग्धैः प्रथमं नारिकेलाम्भसा ततः ॥ ६-९५४ ॥

अभिषिञ्च्याथ तोयेन क्वथितेनाक्षरौषधैः ।
आवाह्याभ्यर्च्य तल्लग्ने चक्रं संस्थाप्य पूजयेत् ॥ ६-९५५ ॥

गन्धपुष्पैर्नवैर्धूपैर्दीपैर्नैवेद्यतर्पणैः ।
त्रिरात्रं पूजयेद्देवीं त्रिसन्ध्यं च यथाविधि ॥ ६-९५६ ॥

(वामकेश्वरतन्त्रे)

भैरव्युवाच ।

चक्रभेदं महादेव त्वत्प्रसादान्मया श्रुतम् ।
इदानीं श्रोतुमिच्छामि प्रतिष्ठाकर्मनिर्णयम् ॥ ६-९५७ ॥

श्रिशङ्कर उवाच ।

शृणु देवि महाभागे जगत्कारिणि कौलिनि ।
यन्त्रप्रतिष्ठाकर्माङ्गसर्ववर्णविनिर्णयम् ॥ ६-९५८ ॥

स्नात्वा सङ्कल्पयेन्मन्त्री गुरोरर्चनमाचरेत् ।
पञ्चगव्यं ततः कुर्याच्छिवमन्त्रेण मन्त्रितम् ॥ ६-९५९ ॥

तत्र चक्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् ।
तदुद्धृत्य ततश्चक्रं स्थापयेत् स्वर्णपीठके ॥ ६-९६० ॥

प्। ५२१) अष्टोत्तरशतं देवि देवताभावसिद्धये ॥ ६-९६१ ॥

आत्मशुद्धिं ततः कृत्वा षडङ्गैर्देवतां यजेत् ।
तत्रावाह्य महादेवीं जीवन्यासं च कारयेत् ॥ ६-९६२ ॥

उपचारैः षोडशभिर्महामुद्रादिभिस्तथा ।
फलैर्नैवेद्यताम्बूलैर्देवीं तत्र समर्चयेत् ॥ ६-९६३ ॥

पट्टसूत्रादिकं दद्याद्वस्त्रालङ्करणादिभिः ।
मुकुरं चामरं घण्टां यथायोग्यं महेश्वरि ॥ ६-९६४ ॥

सर्वमेतत् प्रयत्नेन दद्यादात्महिते रतः ।
ततो जपेत् सहस्रं च सकलेप्सितसिद्वये ॥ ६-९६५ ॥

वल्ल्यादिकं प्रदत्वा च प्रणमेच्चक्रराजकम् ।
अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिःक्षिपेत् ॥ ६-९६६ ॥

अष्टोत्तरशतं हुत्वा साज्यधान्यतिलेन च ।
मूलमन्त्रं समुच्चार्य मन्त्री यन्त्राङ्गमाचरेत् ॥ ६-९६७ ॥

होमकर्मण्यशक्तश्चेद्द्विगुणं जपमाचरेत् ।
धेनुमेकां समानीय स्वर्णशृङ्गाद्यलङ्कृताम् ॥ ६-९६८ ॥

गुरवे दक्षिणां दद्यात् ततो देव्या विसर्जनम् ।

शिवमन्त्रः प्रसादः ।
(सिद्धान्तसङ्ग्रहे)

पञ्चगव्येन संशोध्य स्नाप्य पञ्चामृतैः पृथक् ॥ ६-९६९ ॥

अष्टाभिस्तीर्थकलशैः स्नापयेन्मूलमन्त्रतः ।
ततोऽभिमन्त्रयेद्यन्त्रं गायत्र्या वक्ष्यमाणया ॥ ६-९७० ॥

अष्टोत्तरशतं तन्तो मूलेनापि तथैव च ।

यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो यन्त्रं प्रचोदयात् ।

प्। ५२२) ततो देवं समावाह्य प्राणान् संस्थाप्य मन्त्रवित् ।
उपचारैः षोडशभिः पूजयेदिष्टदेवताम् ॥ ६-९७१ ॥

अष्टोत्तरसहस्रं च संस्कृते हव्यवाहने ।
घृतेन जुहुयात् तत्र सम्पाताज्यं विनिःक्षिपेत् ॥ ६-९७२ ॥

ब्राह्मणान् भोजयेत् पश्चात् साधको देवताधिया ।  
एवं संसाधिते यन्त्रे देवः सन्निहितो भवेत् ॥ ६-९७३ ॥  
	  
(मेरुतन्त्रे)  
	  
आवाह्याभ्यर्च्य तल्लग्ने चक्रं संस्थाप्य पूजयेत् ।  
गन्धपुष्पैर्नवैधूपैर्दीपैर्नैवेद्यदर्पणैः ॥ ६-९७४ ॥  

त्रिरात्रं पूजयेद्देवीं त्रिसन्ध्यं च तथा निशि ।  
	  
वामाचारे कुलाचारे च यो विशेषस्तमाह ।  
	  
मकारैः पञ्चभिर्युक्तं चरेयुर्वामिनोऽर्चनम् ॥ ६-९७५ ॥  

निशायां शक्तिपूजां च दूतीयागं च कौलिकाः ।  
एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् ॥ ६-९७६ ॥  

एवं देवीप्रतिष्ठायां क्रमः सान्निध्यकारकः ।  
स्त्रीशूद्राणां वामिनां च कौलिकानामयं विधिः ॥ ६-९७७ ॥  
	  
तथा ।  
	  
महापापं न कुर्वन्ति पशुवेद्वेदमार्गगाः ।  
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचीरितम् ॥ ६-९७८ ॥  

अज्ञानतश्च लघुभिः सन्ध्याबन्दननाशितैः ।  
पातकैस्तैर्न लिप्यन्ते तस्मात् ते पशवः स्मृताः ॥ ६-९७९ ॥  

वामेनोपासितं यन्त्रं तेषां दृष्टिपथे गतम् ।  
तद्देवताक्षोभकरं विक्षिप्तः साधकोभवेत् ॥ ६-९८० ॥  

प्। ५२३) पापिनां दृष्टिदहनमुलूकानां यथा रविः ॥ ६-९८१ ॥

यथा नृभिर्दिनकरोदये सर्वं निरीक्ष्यते ।  
दक्षसंस्थापितं यन्त्रं तथा पुण्यात्मनां मतम् ॥ ६-९८२ ॥  

सान्नध्यं सर्वदेवानामवश्यं मन्त्रतो भवेत् ।  
मन्त्रस्तु बीजवत् प्रोक्तः प्रतिमाद्यं शरीरवत् ॥ ६-९८३ ॥  

सिद्धायामपि सामग्रयां विना मन्त्रं फलं न हि ।  
	  
तथा ।  
	  
दशाङ्गुलप्रमाणा वा तिथ्यङ्गुलमिताऽपि वा ॥ ६-९८४ ॥  

अभ्यर्च्य प्रतिमां विष्णोर्गृहेषु गृहमेधिभिः ।  
पञ्चसूत्रसमायुक्तं शिवलिङ्गं सम्र्चयेत् ॥ ६-९८५ ॥  

गृहस्थानां भुक्तिमुक्तिधनारोग्यप्रदां तु तत् ।  
लिङ्गमस्तकविस्तारो यावांस्तावच्च दीर्घता ॥ ६-९८६ ॥  

लिङ्गस्य लिङ्गशालक्या जलहर्यास्तथैव च ।  
लिङ्गपीठस्य पञ्चानां समता पञ्चसूत्रिका ॥ ६-९८७ ॥  

तत्रैव ।  
	  
एकपीठे पृथक् पूजां विना यन्त्रं करोति यः ।  
तन्त्रेण पूजयेद्यन्त्रं सदैवं शापमाप्नुयात् ॥ ६-९८८ ॥  

आवाह्य देवतामेकामर्चयेच्चान्यदेवताम् ।  
अन्ययन्त्रेण पूजां वा देवता शापकारिणी ॥ ६-९८९ ॥  

पूजनं बहुमूर्तीनामेकपीठे भवेद्यदि ।  
पृथक् चन्दनपुष्पाणि धूपदीपादि तन्त्रतः ॥ ६-९९० ॥  
	  
तन्त्रमपार्थक्यम् ।  
	  
खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते ।  
व्यङ्गेऽनर्हपशुस्पृष्टे पतिते दुष्टभूमिषु ॥ ६-९९१ ॥  

प्। ५२४) अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते ।
दशस्वेतेषु नो कुर्युः सन्निधानं दिवौकसः ॥ ६-९९२ ॥

तत्रैव ।  
	  
देवस्य मन्त्ररूपस्य यन्त्रव्याप्तिमजानताम् ।  
कृतार्चनादिकं सर्वं व्यर्थं भवति शाम्भवि ॥ ६-९९३ ॥  
	  
यन्त्रपदार्थ उक्तस्तत्रैव ।  
	  
कामक्रोधादिदोषोत्थसर्वदोषनियन्त्रणात् ।  
यन्त्रमित्याहुरेतस्मिन् देवस्तुष्यति पूजितः ॥ ६-९९४ ॥  
	  
(पुरश्चरणचन्द्रिकायाम्)  
	  
तत्तत्कल्पोक्तद्रव्येण विलिखेद्यन्त्रमुत्तमम् ।  
सौवर्णे राजते ताम्रे पीठे भूर्जे परे भुवि ॥ ६-९९५ ॥  

विना यन्त्रेण चेत् पूजा देवता न प्रसीदति ।  
	  
यन्त्रलिखनद्रव्यमुक्तम् (मेरुतन्त्रे)  
	  
पूजायन्त्रं दक्षमार्गे तत्तद्गन्धाष्टकेन च ॥ ६-९९६ ॥  

लिखेद्वा केशरहिमरोचनाभिः समालिखेत् ।  
वाममार्गे लिखेदाद्यपुष्पेण यदि यन्त्रकम् ॥ ६-९९७ ॥  

षण्मासं पूजनात् तत्र त्वरितं सिद्धिमाप्नुयात् ।  
तदभावे तु रुधिरं महिषस्य प्रशस्यते ॥ ६-९९८ ॥  

तदभावे तु कुसुमं ग्राह्यं चैवापराजिताम् ।  
तस्योर्ध्वभागे निःक्षिप्प घर्षितं रक्तचन्दनम् ॥ ६-९९९ ॥  

(स्वतन्त्रतन्त्रे)  
	  
स्वर्णे वा राजते ताम्रे पाषाणे चाष्टधातुषु ।  
स्वयम्भूकुसुमं कुण्डगोलोत्थरोचनागुरुः ॥ ६-१००० ॥  

प्। ५२५) एतेन गन्धयोगेन योनिचक्रं समालिखेत् ॥ ६-१००१ ॥

वीरपरमिदम् ।  
(रुद्रयामले)  
	  
ततः कुङ्कुमसिन्दूरैः कार्यं यन्त्रं तु योगिना ।  
सौवर्णे राजते ताम्रे स्फाटिके वैद्रुमे तथा ॥ ६-१००२ ॥  

चक्रे यथोक्तविधिना पूज्या देवीनरोत्तमैः ।  
	  
(सारसङ्ग्रहे)  
	  
ताम्रे द्वादशकं वर्षं स्फाटिकादौ तु सर्वदा ॥ ६-१००३ ॥  

तेषां मध्ये स्फाटिकं तु सर्वसिद्धिप्रदं भवेत् ।  
यावज्जीवं सुवर्णं स्याद्रौप्यं द्वाविंशतिः प्रिये ॥ ६-१००४ ॥  

ताम्रे द्वादशकं वर्षं तदर्धं भूर्जपत्रके ।  
	  
इदं च स्थिररेखारूपयन्त्रपरम् ।  
(रुद्रयामलेऽपि)  
	  
ताम्रे लक्षगुणं प्रोक्तं रौप्ये कोटिगुणं भवेत् ॥ ६-१००५ ॥  

सौवर्णेऽनन्तफलदं मण्यादौ किं वदामि ते ।  
विद्रुमे रचिते यन्त्रे पद्मरागेऽथ वा प्रिये ॥ ६-१००६ ॥  

इन्द्रनीलेऽथ वैदूर्ये स्फाटिके मरकते तथा ।  
धनं पुत्रं तथा दारान् यशांसि लभते ध्रुवम् ॥ ६-१००७॥  
	  
(गौरीयामले)  
	  
चातुर्विध्यं हि चक्रस्य प्रस्ताराश्च भवन्ति हि ।  
भूकूर्मपद्मप्रस्तारा मेरुश्चापि तथाविधः ॥ ६-१००८ ॥  

निम्नरेखासमायोगो भूप्रस्तारो मयोदितः ।  
कूर्मपद्मकप्रस्तार ऊर्ध्वरेखं मयोदितम् ॥ ६-१००९ ॥  
	  
(सौत्रामणीतन्त्रे)  
	  
ऋजुजुलेखे भवेल्लक्ष्मीर्वक्ररेखे ररिद्रता ।  

प्। ५२६) (कुलार्णवे)

आदिरूपाच्च विम्बस्य पूजायां च विशेषतः ॥ ६-१०१० ॥  

साधकस्य च विश्वासाद्देवतासन्निधिर्भवेत् ।  
	  
(यामले)  
	  
एवं यन्त्रं विनिर्माय तत्र देवीं प्रपूजयेत् ॥ ६-१०११ ॥  
	  
देवीमित्युपलक्षणम् । स्वेष्टदेवतामित्यर्थः ।  
पूजाप्रकारस्तु दीक्षातरङ्गे एवोक्तः ।  
(कुलार्णवे)  
	  
मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः ।  
न सिद्ध्यति वरारोहे कल्पकोटिशतैरपि ॥ ६-१०१२ ॥  

मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।  
शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥ ६-१०१३ ॥  

लुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये ।  
मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः ॥ ६-१०१४ ॥  

चैतन्यरहिता मन्त्राः प्रोक्ता नैव फलप्रदाः ।  
सूतकद्वयसंयुक्ता न च मन्त्राः फलप्रदाः ॥ ६-१०१५ ॥  
	  
मन्त्रार्थो गुरुमुखाद्बोध्यः ।  
मन्त्रचैतन्यं वक्ष्यते । योनिमुद्रा द्वितीयतरङ्गे उक्ता । सूतकादिज्ञानप्रकारस्तत्रैव ।  
	  
जातसूतकमादौ स्यादन्ते च मृतसूतकम् ।  
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिद्ध्यति ॥ ६-१०१६ ॥  

गुरुकुण्डलिनीध्यानं विवाहः परिकीर्त्तितः ।  
द्विरागमो भवेत् स्नानं संयोगः सन्ध्यया भवेत् ॥ ६-१०१७ ॥  

अर्घदानं भवेद्गर्भो गायत्री त्वष्टमासिकम् ।  
भूतशुद्ध्यादिप्राणान्तं तत्रावयवकल्पनम् ॥ ६-१०१८ ॥  

देही भवेन्मातृकायाः प्राणायामस्तु संस्क्रिया ।  

प्। ५२७) ध्यानोच्चारे महेशानि बालकोत्पत्तिरीरिता ॥ ६-१०१९ ॥

मन्त्रोच्चारणतो देवि जातसूतकमीरितम् ।  
जातसूतकदोषस्य शमनार्थं महेश्वरि ॥ ६-१०२० ॥  

दशविंशति पञ्चाशद्यद्याशक्त्या जपेच्छिवे ।  
इदमादौ समादिष्टं मृतिं संशृणु सादरम् ॥ ६-१०२१ ॥  

अङ्गज्ञानं च तादात्म्यं तदनन्तरमीर्तितम् ।  
विसर्जनं महेशानि मृतसूतकमीरितम् ॥ ६-१०२२ ॥  

मृतसूतकशान्त्यर्थं दशविंशति वा जपेत् ।  
तेन तस्य निवृत्तिर्हि भवत्येव न संशयः ॥ ६-१०२३ ॥  
	  
यद्धा ।  
	  
ब्रह्मबीजं मनोर्दत्वा आद्यन्ते परमेश्वरि ।  
सप्तवारं जपेन्मन्त्रं सूतकद्वयमुक्तये ॥ ६-१०२४ ॥  
	  
ब्रह्मबीजं प्रणवः ।  
अथ मन्त्राणां स्वापप्रबोधकाली (पञ्चरात्रे)  
	  
स्वापकाले तु मन्त्रस्य जपो न च फलप्रदः ।  
स्वापकालो वामवहो जागरो दक्षिणावहः ॥ ६-१०२५ ॥  

आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययः ।  
प्रबोधकालं जानीयादुभयोरुभयोरपि ॥ ६-१०२६ ॥  

ज्ञेया मन्त्रास्तु आग्नेया विद्याः सौम्याः प्रकीर्त्तिताः ।  

मन्त्रविद्ययोर्भेदस्तु प्रथमतरङ्गे उक्तः ।
अथ मन्त्रशिखाज्ञानं तन्त्रान्तरे ।

शृणु देवि परं तत्त्वं सर्वज्ञानोत्तमोत्तमम् ॥ ६-१०२७ ॥  

येन विज्ञातमात्रेण क्षिप्रं विद्या प्रसीदति ।  
मूलकुण्डे तु या शक्तिर्भुजङ्गाकाररूपिणी ॥ ६-१०२८ ॥  

प्। ५२८) तद्भ्रमावर्त्तवातोऽयं प्राण इत्याभिधीयते ।
तं त्यक्त्वाऽव्यक्तमधुरं कूजन्ती सहसोत्थिता ॥ ६-१०२९ ॥

गच्छन्ती ब्रह्मरन्धेण प्रविशन्ती पुनस्तनुम् ।
यातायातक्रमेणैव च तत्र कुर्यान्मनोलयम् ॥ ६-१०३० ॥

तेन मन्त्रशिखा जाता सर्वमन्त्रप्रदीपिनी ।  
तमःपूर्णे गृहे यद्वन्न किञ्चित् प्रतिभासते ॥ ६-१०३१ ॥  

शिखाहीनास्तथा मन्त्रा न सिद्ध्यन्ति कदाचन ।  
शिखोपदेशः सर्वत्र गोपितः परमेश्वरि ॥ ६-१०३२ ॥  

विना येन न सिद्धिः स्याद्वर्षकोटिशतैरपि ।  
तस्माद्यत्नेन कर्त्तव्यं शिखाया भावनं मनोः ॥ ६-१०३३ ॥  
	  
अथ मन्त्रचैतन्यं तत्रैव ।  
	  
मन्त्ररूपी भवेद्देवो देवरूपी गुरुर्भवेत् ।  
गुरुरूपी भवेदात्मा आत्मरूपी मनुर्भवेत् ॥ ६-१०३४ ॥  

इति ते कथितं देवि मन्त्रचैतन्यमुत्तमम् ।  
यस्य विज्ञानमात्रेण अद्वैतं ज्ञानमुत्तमम् ॥ ६-१०३५ ॥  
	  
अथ कुल्लुका (यामले) ।  

श्रीदेव्युवाच ।

अथ वै कुल्लुकोत्पत्तिं कथयस्व ममाधुना ।  
कुल्लुका कीदृशी नाथ सेतुर्वा देव कीदृशः ॥ ६-१०३६ ॥  

कीदृशो वा महासेतुनिर्वाणं त्वथ कीदृशम् ।  
अन्यद्वा कयितं यन्मे कीदृशं तद्वद प्रभो ॥ ६-१०३७ ॥  
	  
श्रीशिव उवाच ।  
	  
रहस्यमपि ते देवि कथ्यते शृणु साम्प्रतम् ।  

प्। ५२९) विना येन महेशानि निष्फलं तु जपादिकम् ॥ ६-१०३८ ॥

कुल्लुका च तथा सेतुर्महासेतुस्तथैव च ।  
निर्वाणं कुण्डलीषष्टीसर्वोत्पत्तिं शृणु प्रिये ॥ ६-१०३९ ॥  

विद्यानां कुलपूज्यत्वात् कुल्लुका तेन कीर्त्तिता ।  
विद्यासम्बन्धिदोषाणां भक्षयन्ती यतः शिवे ॥ ६-१०४० ॥  

तेनेयं कुल्लुकानाम्नी सर्वतन्त्रेषु गोपिता ।  
विद्यासिद्ध्यर्णवे देवि येन पारं प्रगच्छति ॥ ६-१०४१ ॥  

तेन सेतुर्महेशानि विद्यामार्गः प्रकीर्त्तितः ।  
महाविद्याप्तिसन्दर्शो महासेतुर्महेश्वरि ॥ ६-१०४२ ॥  

महाविद्यार्णवस्याथ चैतन्यस्य प्रदर्शकः ।  
महासेतुर्महादेवि महाविद्यास्वरूपधृक् ॥ ६-१०४३ ॥  

देवतायास्तु निर्वाणं चैतन्यं यच्च कीर्त्तितम् ।  
निर्वाणं कथितं भद्रे विद्यावाङ्मातृकार्णकैः ॥ ६-१०४४ ॥  

निर्वाणं परमेशानि चतुश्चरणमीरितम् ।  

निर्वाणं च महेशानि प्रब्रह्मात्मिका मता ॥ ६-१०४५ ॥

चतुर्थं कथितं भद्रे विद्याचरणमीरितम् ।  
पञ्चमी कुण्डली देवी यथावदवधारय ॥ ६-१०४६ ॥  

मूलाधारादाविलान्तं विसतन्तुतनीयसीम् ।  
सर्वदेवस्वरूपां च सर्ववर्णप्रदीपिनीम् ॥ ६-१०४७ ॥  

महाकुण्डलिनीं देवीं समलीं कुण्डलीं पराम् ।  

श्रीदेव्युवाच ।

क्रमेण दशविद्यायाः कुल्लुकाया विधिं वद ॥ ६-१०४८ ॥  

प्। ५३०) श्रीशिव उवाच ।

पञ्चाक्षरी कालिकायाः कुल्लुका परिकथ्यते ।  
कालीकूर्चं च धूमायाः फडन्ताः परमेश्वरि ॥ ६-१०४९ ॥  

अघोराख्य ऋषिः प्रोक्तो विराट्छन्दः प्रकीर्त्तितम् ।  
देवता कुल्लुका काली बीजं मायाभिधं मतम् ॥ ६-१०५० ॥  

कामशक्तिस्तथा कूर्चं कीलकं परिकीर्त्तितम् ।  
षड्दीर्घाढ्येन कामेन षडङ्गन्यास ईरितः ॥ ६-१०५१ ॥  

ध्यानपूजादिकं सर्वं कालिकावत् समाचरेत् ।  
मायावधूस्तथा कूर्चं तारिणीकुल्लुकामता ॥ ६-१०५२ ॥  

तारिणीकुल्लुकायाश्च विरूपाक्ष ऋषिः स्मृतः ।  
उष्णिक्छन्दः समाख्यातं देवता नीलतारिणी ॥ ६-१०५३ ॥  

कूर्चबीजं तथा माया शक्तिर्वधूश्च कीलकम् ।  
मायया तु षडङ्गानि सर्वं नीलसरस्वती ॥ ६-१०५४ ॥  
	  
(त्रिशक्तिरत्ने)  
	  
अजप्त्वा कुल्लुकामन्त्रमस्मृत्वा श्रीपतिं हरिम् ।  
यो जपेत् तारिणीमन्त्रं नरके स विलीयते ॥ ६-१०५५ ॥  

जपित्वा कुल्लुकामन्त्रमष्टोत्तरशतं सुधीः ।  
प्रजपेत् तारिणीं पश्चान्नान्यथा सिद्धिमाप्नुयात् ॥ ६-१०५६ ॥  
	  
कुलसर्वस्वनामसहस्रनामस्तोत्रकथनान्तरम् ।  
	  
हरेर्नाम न गृह्णीयान्न स्पृशेत् तुलसीदलम् ।  
	  
इति वचनं तु वीरपरमिति ज्ञेयम् ।  
उक्तस्तोत्रोपात्तहरेर्नामग्रहणं तु विरकल्पेऽपि न निषिद्धम् ।  
	  
यानि नामानि सन्त्यत्र प्रसङ्गान्मुरवैरिणः ॥ ६-१०५७ ॥  

प्। ५३१) इति तत्रैवोक्तत्वात् ।

(यामले)  
	  
छिन्नायाश्च महेशानि कुल्लुकाऽष्टाक्षरी भवेत् ।  
वज्रवैरोचनीये च अन्ते वर्म प्रकीर्तयेत् ॥ ६-१०५८ ॥  

अतिकाल ऋषिः प्रोक्तो गायत्रीछन्द ईरितम् ।  
ह।बीजं हु। तथा शक्तिः कीलकं रोचनी मता ॥ ६-१०५९ ॥  

शिवषड्दीर्घयुक्तेन षडङ्गन्यासमाचरेत् ।  
ध्यानपूजादिकं सर्वं छिन्नावत् समुपाचरेत् ॥ ६-१०६० ॥  

सुन्दर्याः कुल्लुका देवि सम्प्रोक्ता द्वादशाक्षरी ।  
वाग्भवं कामराजं च लज्जा च त्रिपुरेपदम् ॥ ६-१०६१ ॥  

भगवतीति पदं प्रोच्य तदन्ते ठद्वयं वदेत् ।  
सुन्दरीकुल्लुकायास्तु ऋषिरानन्दभैरवः ॥ ६-१०६२ ॥  

गायत्रीछन्द आदिष्टं वाग्भवं बीजमीरितम् ।  
लज्जा शक्तिर्महेशानि कामबीजं च कीलकम् ॥ ६-१०६३ ॥  

देवता त्रिपुरेशी च षडङ्गं त्रिद्वयेन च ।  
ध्यानपूजादिकं सर्वं सुन्दरीवत् समाचरेत् ॥ ६-१०६४ ॥  

सम्पत्प्रदाया प्रथमं बीजं श्रीभैरवीमनौ ।  
विकराल ऋषिः प्रोक्तः पङ्क्तिच्छन्दः प्रकीर्त्तितम् ॥ ६-१०६५ ॥  

देवता भैरवीनाम्ना कुल्लुका परिकीर्त्तिता ।  
ह। बीजं स। महाशक्तिरमत्र कीलकं मतम् ॥ ६-१०६६ ॥  

षड्दीर्घाढ्येन बीजेन षडङ्गन्यासमाचरेत् ।  
मातङ्गीवगलालक्ष्मीधूमोच्छिष्टाक्रमे शृणु ॥ ६-१०६७ ॥  

प्। ५३२) ऋषिर्भैरवनामा च यावच्छन्दांसि पार्वति ॥ ६-१०६८ ॥

देवतासर्वबीजादिस्वस्वदेवक्रमेण च ।  
ध्यानपूजादिकं सर्वं स्वदैवतवदाचरेत् ॥ ६-१०६९ ॥  

इयं ते कथिता देवि सङ्क्षेपात् कुल्लुका मया ।  
अज्ञात्वा कुल्लुकामेतां जपते योऽधमः कुधीः ॥ ६-१०७० ॥  

पञ्चत्वमाशु लभते सिद्धिहानिः प्रजायते ।  
मन्त्राः पराङ्मुखा यान्ति मन्त्रहानिश्च जायते ॥ ६-१०७१ ॥  

तथा जपादिकं सर्वं निष्फलं नात्र संशयः ।  
तस्मात् सर्वप्रयत्नेन यो जपेन्मूर्ध्नि कुल्लुकाम् ॥ ६-१०७२ ॥  
	  
(रुद्रयामले)  
	  
कुल्लुकां मूर्ध्नि सञ्चिन्त्य हृदि सेतुं विचिन्तयेत् ।  
महासेतुं विशुद्धौ च सहस्रारे समुद्धरेत् ॥ ६-१०७३ ॥  

मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः ।

अथ सेतुः (मेरुतन्त्रे)  
	  
मन्त्राणां प्रणवः सेतुर्द्विजानां परिकीर्त्तितः ॥ ६-१०७४ ॥  

चतुर्दशस्वरोऽन्येषां चन्द्रानुस्वारसंयुतः ।  
	  
यद्वा (रुद्रयामले)  
	  
विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च ॥ ६-१०७५ ॥  

वैश्यानां तु फडर्णः स्यान्माया शूद्रस्य कथ्यते ।  
अजप्त्वा हृदि देवेशि यो वै मन्त्रं समुच्चरेत् ॥ ६-१०७६ ॥  

सर्वेषामेव मन्त्राणामधिकारो न तस्य हि ।  
महासेतुं च देवेशि सुन्दर्या भुवनेश्वरि ॥ ६-१०७७ ॥  

प्। ५३३) अन्यासां तु वधूबीजं महासेतुर्वरानने ॥ ६-१०७८ ॥

आदौ जप्त्वा महासेतुं जपेन्मन्त्रमनन्यधीः ।  
धनैर्धनेशतुल्योऽसौ वाण्या वागीश्वरोपमः ॥ ६-१०७९ ॥  

बुद्धौ कृतान्तसदृशो नारीणां मदनोपमः ।  
जपकालो भवेत् तस्य सर्वकालो न संशयः ॥ ६-१०८० ॥  
	  
(मेरुतन्त्रे)  
	  
निःसेतुकं यथा तोयं क्षणान्निम्नं प्रसर्पति ।  
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ॥ ६-१०८१ ॥  

तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजादयः ।  
पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् ॥ ६-१०८२ ॥  
	  
अथ निर्वाणम् (रुद्रयामले)  
	  
अथ वक्ष्यामि निर्वाणं शृणु सावहिताऽनघे ।  
प्रणवं पूर्वमुच्चार्य मातृकाद्यं समुच्चरेत् ॥ ६-१०८३ ॥  

अथ मूलं महेशानि ततो वाग्भवमुच्चरेत् ।  
मातृकां च समस्तां च पुनः प्रणवमुच्चरेत् ॥ ६-१०८४ ॥  

एवं पुटितमूलं तु प्रजपेन्मणिपूरके ।  
एवं निर्वाणमीशानि यो न जानाति पामरः ॥ ६-१०८५ ॥  

वर्षकोटिशतेनापि सिद्धिस्तस्य न जायते ।  
तस्मात् सर्वप्रयत्नेन यदुक्तं तन्महेश्वरि ॥ ६-१०८६ ॥  

तत्तदाचर्यविधिवज्जपेन्मन्त्रमनुत्तमम् ।  
ऋषिश्छन्दो देवता च बीजं शक्तिश्र कीलकम् ॥ ६-१०८७ ॥  

भावयेद्यत्नतो देवि ततः स्वेष्टादिकं जपेत् ।  
एवं यदि जपेन्मन्त्री मन्त्रराजमनुत्तमम् ॥ ६-१०८८ ॥  

प्। ५३४) षण्मासात् सिद्धिमाप्नोति नात्र कार्या विचारणा ।
साक्षात् स एव जगतामधीशो नात्र संशयः ॥ ६-१०८९ ॥

स धन्यः स च विज्ञानी स एव मन्त्रतत्त्ववित् ।  
स एव निर्वृतो भूमौ विहरेत् तु यथासुखम् ॥ ६-१०९० ॥  

तस्य दर्शनमात्रेण पलायन्ते च वैरिणः ॥ ६-१०९१एफ़् ॥  

एवं कृत्वा प्रणवपुटितं यो जपेन्मन्त्रराजं
तन्निर्वाणं भुवनमहिते कुल्लुकानां च जप्त्वा ।
तेषां तद्वन्निखिलभुवनं सिद्धयोऽष्टौ च हस्ते
स्नेहादुक्तं रहसि वचनं जन्मजन्मान्तरेषु ॥ ६-१०९२ ॥

अथ जिह्वाशोधनमन्त्रः (यामले)  
	  
अपरैकं प्रवक्ष्यामि जिह्वाशोधनमुत्तमम् ।  
यन्न कृत्वा महादेवि जपपूजा वृथा भवेत् ॥ ६-१०९३ ॥  

अशुद्धजिह्वया देवि यो जपेत् स तु पापकृत् ।
तस्मात् सर्वप्रयत्नेन जिह्वाशोधनमाचरेत् ॥ ६-१०९४ ॥

श्रीदेव्युवाच ।  
	  
देवदेव महादेव शूलपाणे पिनाकधृक् ।  
पृथक्पृथङ्महादेव कथयस्व दयानिधे ॥ ६-१०९५ ॥  

शोधनं सर्वविद्यानां मुखस्य शोधनं शुभम् ।  
	  
श्रीशिव उवाच ।  
	  
श्रीबीजं प्रणवं लक्ष्मीतारं श्रीप्रणवं तथा ॥ ६-१०९६ ॥  

इदं षडक्षरी विद्या सुन्दर्या दशधा जपेत् ।  
भैरव्यां शृणु चार्वङ्गि मुखशोधनमुत्तमम् ॥ ६-१०९७ ॥  

प्। ५३५) इमं हि त्र्यक्षरं मन्त्रं दशधा प्रथमं जपेत् ॥ ६-१०९८ ॥

शृणु सुन्दरि श्यामाया मुखशोधनमुत्तमम् ।  
निजबीजत्रयं देवि प्रणवत्रितयं पुनः ॥ ६-१०९९ ॥  

कामत्रयं वह्निबिन्दुरतिबीजयुतं त्रिकम् ।  
एषा नवाक्षरी विद्या जिह्वाशोधनकारिणी ॥ ६-११०० ॥  

तारायाः शृणु चार्वङ्गि अपूर्वं मुखशोधनम् ।
जीवनी भुवना लज्जा भुवनेशी ततः प्रिये ॥ ६-११०१ ॥

त्र्यक्षरीयं महाविद्या विज्ञेयाऽमृतवर्षिणी ।  
दुर्गायाः शृणु चार्वङ्गि मुखशोधनमुत्तमम् ॥ ६-११०२ ॥  

द्वादशस्वरमुद्धृत्य विन्दुयुक्तं त्रिकं तथा ।  
अपरैकं प्रवक्ष्यामि वगलामुखशोधनम् ॥ ६-११०३ ॥  

वाग्भवं भुवनेशानि वाग्बीजं सुरवन्दिते ।  
मातङ्ग्र्याः शोधनं देवि अङ्कुशं वाग्भवं तथा ॥ ६-११०४ ॥  

बीजं चाङ्कुशमेतद्धि विज्ञेयं त्र्यक्षरीयकम् ।  
लक्ष्म्याश्च शोधनं देवि श्रीबीजं कमलानने ॥ ६-११०५ ॥  

प्रणवं दान्तमुद्धृत्य वामकर्णविभूषितम् ।  
पुनः प्रणवमुद्धृत्य विज्ञेयं त्र्यक्षरी मता ॥ ६-११०६ ॥  

वालादीनां च अन्यासां प्रणवं मुखशोधनम् ।  
स्त्रीशूद्राणां महेशानि औकारेण तु शोधनम् ॥ ६-११०७ ॥  

मुखशोधनमात्रेण जिह्वाऽमृतमयी भवेत् ।  
अन्यथा मलविड्युक्ता जिह्वा भवति सर्वदा ॥ ६-११०८ ॥  

भक्षणे दूषिता जिह्वा मिथ्यावाक्येन दूषिता ।  

प्। ५३६) कलहैर्दूषिता जिह्वा तत्कथं प्रजपेन्मनुम् ॥ ६-११०९ ॥

तच्छोधनमनाचार्य न जपेत् पामरः क्वचित् ।  
शैवशाक्तवैष्णवानां सर्वेषामप्यवश्यकम् ॥ ६-१११० ॥  

अन्यथा प्रजपेन्मन्त्रं मोहेन यदि भाविनि ।  
सर्वं तस्य वृथा देवि मन्त्रसिद्धिर्न जायते ॥ ६-११११ ॥  

अन्ते नरकमाप्नोति भवेत् साऽपि न चान्यथा ।  
देवो यदि जपेन्मन्त्रमकृत्वा मुखशोधनम् ॥ ६-१११२ ॥  

पतनं तस्य वै देवि किं पुनर्मर्त्त्यवासिनाम् ।  
	  
(गौतमीये)  
	  
पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः ॥ ६-१११३ ॥  

स्वस्वध्वनिप्रोच्चरिताः प्रभुत्वं प्राप्नुवन्ति ते ।  
मन्त्राक्षराणि विण्मूत्रे प्रोतानि परिभावयेत् ॥ ६-१११४ ॥  

तामेव परमव्योम्नि परमामृतसञ्ज्ञके ।  
दर्शयेदात्मसद्भावं पूजाहोमादिभिर्विना ॥ ६-१११५ ॥  

(रुद्रयामले)  
	  
जपं यस्य शृणोत्यन्यः स मन्त्रः शून्य उच्यते ।  
ऋषिच्छन्दोदेवताभिः परित्यक्तो भुजङ्गमः ॥ ६-१११६ ॥  
	  
अथ मन्त्राणामवयवज्ञानम् ।  
	  
तदुक्तं (विशुद्धेश्वरादौ)  
	  
मन्त्रं नीत्वा गुरोः पार्श्वे गुरुभक्तिपरायणः ।  
मन्त्रश्रोत्रास्यहृन्नेत्रप्राणान् विज्ञाय तत्त्वतः ॥ ६-१११७ ॥  

यत्नाच्च कीलकं ज्ञात्वा कुर्यान्मन्त्रपुरस्क्रियाम् ।  
मन्त्राणां प्रणवः श्रोत्रं मुखं रेफः प्रकीर्त्तितम् ॥ ६-१११८ ॥  

स्वराश्च चक्षुषि ज्ञेया मन्त्रविद्भिरनन्तरम् ।  

प्। ५३७) (भूतडामरयक्षडामरयोर्बीजकोशे)

श्रवणास्यहृदयनेत्रज्ञानान्मोक्षो मनोः सद्यः ।  
सिद्धिः सर्वविधीनां स्यात् साक्षाच्छिव एव साधको वन्द्यः ॥ ६-१०९४ ॥  

श्रोत्रादीनां ज्ञानाभावे मन्त्रस्य ग्रहणमात्रात् ।  
दारिद्र्यं च विपत्तिर्नरकप्राप्तिरयशोवंशः ॥ ६-११२० ॥  

दीनोऽतिदुःखभागी पराजितः शत्रुपीडितः शोकी ।  
कुर्यादवस्थितचित्तो मन्त्री श्रोत्रादिविज्ञानम् ॥ ६-११२१ ॥  

स्वेनातिभक्त्या श्रोत्रादीनां ज्ञानं गुरोर्भवति तदा ।  
कृतकृत्यो लोकत्रयपूजितोऽनवद्यो मन्त्री ॥ ६-११२२ ॥  
	  
तथा ।  
	  
लयश्रोत्रासृगास्या हृच्छुन्याः सेनदृशस्वराः ।  
गर्जिनीधूम्रभैरव्योरभावे तु दृशः स्मृताः ॥ ६-११२३ ॥  

मूलार्णं मुखमादिष्टं हृदयं स्वरशक्तयः ।  
आदिमध्यावसानेषु पूर्वाभावे यथोत्तरम् ॥ ६-११२४ ॥  
	  
तथा ।  
	  
सौरे तथा गाणपत्ये दौर्गे शैवेऽथ वैष्णवे ।  
भौतिके च मनावास्यहृन्नेत्रं द्योतते यथा ॥ ६-११२५ ॥  

मूलाक्षरे विचारोऽयं मूलार्णं बीजमुच्यते ।  
विषे विचारः कर्त्तव्यो बीजे सति विषान्विते ॥ ६-११२६ ॥  
	  
तथा ।  
	  
एभिरशेषमन्त्राणां हृन्नेत्रवदनानि च ।  
असवोऽस्य परिज्ञेयाः सर्वतन्त्रेषु गोपिताः ॥ ६-११२७ ॥  

बीजे रक्तमुखाः सर्वे मूलार्णं हृदयं स्वराः । दक्षवामदृशौ चण्डी विकला मध्यमानतः ॥ ६-११२८ ॥  

प्। ५३८) बीजाभावे मनोविद्युन्नेत्रमास्यं मनोहरा ।
मूलार्णं हृदयं दण्डी प्राणोऽपि स्वरशक्तयः ॥ ६-११२९ ॥

चिन्तामणिनृसिंहाख्ये नेत्रास्यप्राणहृच्छ्रुती ।  
यत्र बीजाक्षरं मन्त्रस्तत्र सर्वं स एव हि ॥ ६-११३० ॥  

प्रधानपूर्वपरगा विकला यत्र दृश्यते ।  
तत्र नेत्रं विजानीयान्मुखं च क्षतजोक्षितम् ॥ ६-११३१ ॥  

रक्तवर्जमनोर्मूलवर्णमास्यं प्रकल्पितम् ।  
विद्युन्नेत्रं विनिर्दिष्टं विकला चण्डिवर्जिते ॥ ६-११३२ ॥  

विद्युदेवास्यहृन्नेत्रं हृद्वक्त्रप्राणवर्जिते ।  
श्रोत्रहीनो मनुः कायक्लेशदो विघ्नकारकः ॥ ६-११३३ ॥  
	  
तथा ।  
	  
हृदये मूर्तिमास्थाय दृढचित्तः समाहितः ।  
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ६-११३४ ॥  

मनो हृत्वेन्द्रियार्थाच्च सर्वभावेन साधकः ।  
पश्यतीति लयश्रोत्रं नान्यथा शृणुयात् ततः ॥ ६-११३५ ॥  
	  
असृक् रेफः । शून्यं हकारः । सेनोविसर्गः । गर्जिनी इकारः । धूम्रभैरवी ईकारः विषं प्रणवः । रक्तं रेफः । चण्डी विसर्गः । विकलाऽनुस्वारः । विद्युत् अकारः । मनोहरा स्वाहा । दण्डी यकाराः । चिन्तामणिबीजं नृसिंहबीजं चाग्रे वक्ष्यते । क्षतजोक्षितं रेफः ।  

देवतामन्त्रयोर्वाच्यवाचकभाव उक्तस्तन्त्रान्तरे ।

वाच्यवाचकभावेन सर्वे मन्त्राः प्रतिष्ठिताः ।  
यद्वेवताया यो मन्त्रः सा वाच्या स च वाचकः ॥ ६-११३६ ॥  
	  
अथ जपप्रारम्भः ।  
	  
(मेरुतन्त्रे)  

गुरुं गणपतिं दुर्गां मातॄर्नत्वा च पूजनम् ।
कृत्वा स्वमूलमन्त्रेण प्राणायामत्रयं चरेत् ॥ ६-११३७ ॥

प्। ५३९) कृत्वा ऋष्यादिविन्यासं मन्त्रन्यासं तथैव च ।
ध्यायेच्च हृदये देवं पात्रे संस्थाप्य मालिकाम् ॥ ६-११३८ ॥

(उत्तरतन्त्रे)  
	  
जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ।  
विधाय मण्डलस्यां तां सव्यहस्तगतां च वा ॥ ६-११३९ ॥  

इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्त्तितम् ।  

(मेरुतन्त्रे)  
	  
अर्घ्योदकेन सम्प्रोक्ष्य ततस्तां प्रार्थयेदिति ॥ ६-११४० ॥  

ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ।  
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ ६-११४१ ॥  

पूजयित्वा ततो मालां गृह्णीयाद्दक्षिणे करे ।  
बीजं गणपतेः पूर्वमुच्चार्य तदनन्तरम् ॥ ६-११४२ ॥  

अविघ्नं कुरु माले त्वां गृह्णीयात् तदनन्तरम् ।  
हस्ते च दक्षिणे पश्चाच्चिन्तयेन्मनसा शिवम् ॥ ६-११४३ ॥  

चिन्तयेच्च गुरुं मूर्ध्नि यथा वर्णादिकं भवेत् ।  
मन्त्रं ध्यायेत् कण्ठमध्ये पीतवर्णं हिरण्मम् ॥ ६-११४४ ॥  

महामायां च हृदये स्वात्मानं गुरुपादयोः ।  
आज्ञाचक्रे ततः पश्चाद्गुरोर्मन्त्रस्य चात्मनः ॥ ६-११४५ ॥  

देव्याश्चाप्येकतां नीत्वा सुषुम्णावर्त्मना ततः ।  
तत्त्वस्वरूपमेकं तद्यच्चक्रं प्रतिलङ्घयेत् ॥ ६-११४६ ॥  

षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः ।  
लम्बयेन्मूलमन्त्रेण चादिषोडशचक्रकम् ॥ ६-११४७ ॥  

आदिषोडशमध्यस्थां साधकानन्ददायिनीम् ।  
चिन्तयेत् साधको देवीं जपकर्म समारभेत् ॥ ६-११४८ ॥  

प्। ५४०) भ्रुवोरुपरि नाडीनां तिसृणां व्रात उच्यते ।
तद्व्रातं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् ॥ ६-११४९ ॥

रक्तश्च कुलयोगज्ञैराज्ञाचक्रमितीरितम् ।  
कण्ठे तिसृणां नाडीनां वेष्टनं विद्यते नृणाम् ॥ ६-११५० ॥  

सुषुम्णेडापिङ्गलानां षट्कोणं तत्षडङ्गुलम् ।  
तत्षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् ॥ ६-११५१ ॥  

तिसृणामपि नाडीनां हृदये चैकता भवेत् ।  
तत्स्थानं षोडशारं स्यात् सप्ताङ्गुलप्रमाणतः ॥ ६-११५२ ॥  

तत् पीतमुक्तं योगज्ञैरादिषोडशचक्रकम् ।  
ध्येयानामथ मन्त्राणां चिन्तितस्य जपस्य च ॥ ६-११५३ ॥  

यस्मादाद्यं तु हृदयं तस्मादादि निगद्यते ।  
	  
(क्रियासङ्ग्रहे)  
	  
गुरुं च देवतां मन्त्रं तथा स्वात्मानमेव च ॥ ६-११५४ ॥  

एकीभूतमिति ध्यायेदादिषोडशचक्रके ।  
	  
(मेरुतन्त्रे)  
	  
एवं विचिन्त्य मध्याया मध्यभागे तु मालिकाम् ॥ ६-११५५ ॥  

अस्पृश।स्तर्जनीं मालामङ्गुष्टाग्रेण चालयेत् ।  
पूर्वं मन्त्रं जपन् यस्तु संस्पृशेदपरं मणिम् ॥ ६-११५६ ॥  

अङ्गुष्ठेन भवेत् तस्य निष्फलं स जपः सदा ।  
मालां स्वहृदयासन्नां धृत्वा दक्षिणपाणिना ॥ ६-११५७ ॥  

देवीं विचिन्तयन् जप्यं कुर्याद्वामेन न स्पृशेत् ।  
एकचित्तः प्रशान्तात्मा ह्यक्षसूत्रकरः शुचिः ॥ ६-११५८ ॥  

भुग्नग्रीवोन्नतः शान्तः कण्डून्मीलनवर्जितः ।  

प्। ५४१) न द्रुतं वाऽपि विश्रान्तं क्रमान्मन्त्रं जपेत् सुधीः ।

(यामले)  
	  
अतिद्रुतो व्याधिहेतुरतिदीर्घो वसुक्षयः ॥ ६-११६० ॥  

अक्षराक्षरसंयुक्तं जपेन्मौक्तिकहारवत् ।  
	  
(मेरुतन्त्रे)  
	  
तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः ॥ ६-११६१ ॥  

तत्पदार्थानुसन्धानं कुर्वन्मन्त्रं शनैर्जपेत् ।  
जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् ॥ ६-११६२ ॥  

जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिद्ध्यति ।  
	  
सनत्कुमारः ।  
	  
मनः संहृत्य विषयान्मन्त्रार्थगतमानसः ।  
न द्रुतं न विलम्बित्वं जपेन्मौक्तिकपङ्क्तिवत् ॥ ६-११६३ ॥  

जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः ।  
धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ॥ ६-११६४ ॥  

उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः ।  
जिह्वौष्ठौ चालयेत् किञ्चिद्देवतागतमानसः ॥ ६-११६५ ॥  

किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः ।  
मन्त्रमुच्चारयेद्वाचा वाचिकः स जपः स्मृतः ॥ ६-११६६ ॥  

वाचिकाल्लक्षगुणित उपांशुः परिकीर्त्तितः ।  
उपांशोः कोटिगुणितो मानसस्तु प्रशस्यते ॥ ६-११६७ ॥  
	  
तन्त्रान्तरे ।  
	  
मनसा यः स्मरेत् स्तोत्रं वचसा च मनुं जपेत् ।  
उभयं निष्फलं यानि भिन्नभाण्डोदकं यथा ॥ ६-११६८ ॥  

प्। ५४२) (कुलार्णवे)

मानसः सिद्धिकामानां पुष्टिकामैरुपांशुकः ।  
वाचिको मारेण चैव प्रशस्तो जप ईरितः ॥ ६-११६९ ॥  
	  
(मेरौ)  
	  
षट्कर्मकृद्वाविकः स्यात् कायिकः सर्वसिद्धिकृत् ।  
मानसः साधयेन्मोक्षं ततोऽन्यः क्षुद्रकर्मकृत् ॥ ६-११७० ॥  

जपेन देवता नित्यं स्तूयमाना प्रसीदति ।  
जपात् सिद्धिर्जपात् सिद्धिर्जपात् सिद्धिर्न दूरतः ॥ ६-११७१ ॥  

यथा धनेन सन्तुष्टो जायते क्षुल्लकः प्रभुः ।  
तथैव वलिदानेन पूजया क्षुद्रदेवताः ॥ ६-११७२ ॥  

यथा महागुणैर्वश्यो जायते गुणवान् प्रभुः ।  
तथाऽहं त्वं च विष्णुश्च जपादेव फलप्रदाः ॥ ६-११७३ ॥  
	  
(पाद्मे)  
	  
यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च भीषणाः ।  
जापिनं नोपसर्पन्ति भयभीताः समन्ततः ॥ ६-११७४ ॥  
	  
वैशम्पायनः ।  
	  
यज्जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा ।  
जपो होमस्तथा दानं सर्वं तन्निष्फलं भवेत् ॥ ६-११७५ ॥  
	  
(रुद्रयामले)  
	  
अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।  
जनसङ्गौष्ठलौलश्च षड्भिर्मन्त्रो विनश्यति ॥ ६-११७६ ॥  

विश्वासास्तिक्यकरुणाश्रद्धानियमनिश्चयैः ।  
सन्तोषः शुद्धकर्मादिगुणैर्युक्तो जपेत् प्रिये ॥ ६-११७७ ॥  
	  
प्। ५४३) सनत्कुमारः ।  
	  
कृत्वा जपं पुरा चैवं तेजोरूपं समर्पयेत् ।  
देवस्य दक्षिणे हस्ते कुशपुष्पार्घवारिभिः ॥ ६-११७८ ॥  
	  
शक्तिविषये तु ।  
	  
एवं जपं पुरा कृत्वा गन्धाक्षतकुशोदकैः ।  
जपं समर्पयेद्देव्या वामहस्ते विचक्षणः ॥ ६-११७९ ॥  
	  
तथा ।  
	  
न न्यूनं नाधिकं चापि जपं कुर्याद्दिने देने ।  
यदि कुर्यात् प्रमादात् तु नेष्टं फलमवाप्नुयात् ॥ ६-११८० ॥  
	  
(मेरुतन्त्रे)  
	  
जपान्तेऽष्टोत्तरशतं जप्त्वा शिरसि धारयेत् ।  
मालामन्त्रस्तु ह्री। सिद्ध्यै नमः सम्प्रार्थयेदिति ॥ ६-११८९ ॥  

त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम ।  
शिवं कुरुष्व मे भद्रे यशोवीर्यं च वर्द्धय ॥ ६-११९० ॥  

ग्रहणे स्थापने पूजायां प्रोक्तो मालिकामनुः ।  
पञ्चाक्षरस्ततो देवं स्वेष्टं सम्प्रार्थयेदिति ॥ ६-११९१ ॥  

गुह्यातिगुह्यगुप्ता त्वं गृहाणास्मत्कृतं जपम् ।  
सिद्धिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते ॥ ६-११९२ ॥  

मूलमन्त्रं समुच्चार्य देवहस्ते निवेदयेत् ।  
तं जपं चार्घतोयेन मध्याह्ने समये त्विदम् ॥ ६-११९३ ॥  

तदूर्ध्वं पूर्ववत् स्नात्वा विशेषेण विधानवित् ।  
न्यासावसानमखिलं कर्म कुर्यात् पुरोदितम् ॥ ६-११९४ ॥  

पूजाग्निहोमपर्यन्तं ततश्च जपमारभेत् ।  
यावद्विनावसानं तु भूयः स्नात्वा ततो द्विज ॥ ६-११९५ ॥  

प्। ५४४) उपास्य पूर्ववत् सन्ध्यां देवं सम्पूजयेत् पुनः ।
विसृज्य भोजनं कुर्यात् सततं तारकोदये ॥ ६-११९६ ॥

(यामले)  
	  
नक्तं हविष्यं भुञ्जति पुरश्चरणकृन्नरः ।  
	  
नक्तपदार्थ उक्तो (भविष्ये) ।  
	  
मूहूर्त्तोनं दिनं नक्तं प्रवदन्ति मनीषिणः ॥ ६-११९७ ॥  

नक्षत्रदर्शनान्नक्तमहं मन्ये नराधिप � इति ॥  
	  
अत्र सूर्यमन्त्रपुश्चरण एव मुहूर्त्तोनदिने भोजनं कार्यम् ।  
	  
आत्मद्विगुणच्छायायां यदा सन्तिष्ठते रविः ।  

सौरं नक्तं विजानीयादन्यत्र निशि भोजनम् � इति (मात्स्यात्) ॥  
	  
(मेरौ)  
	  
द्विजैस्तु भोजनं कार्यमुपस्तीर्याभिधार्य च ॥ ६-११९८ ॥  

पावयेद्वैदिकैर्मन्त्रैः प्रोक्षणादिककर्मणा ।  
पुनर्मूलेन सम्मन्त्र्य भुञ्जीयाद्धृदयाणुना ॥ ६-११९९ ॥  

मूलाभिमन्त्रितं तोयं भोजने तृषितः पिवेत् ।  
पलाशपत्रे भुञ्जीयान्मध्यपत्रविवर्जिते ॥ ६-१२०० ॥  

तदभावे कदल्यां वा मधूके सर्जकेऽपि च ।  
भुङ्क्त्वा शयीत शयने संशुद्धै वसुधातले ॥ ६-१२०१ ॥  

अहतास्तरणास्तीर्णे सदभेशयने शुचौ ।  
मन्त्रिते मूलमन्त्रेण जितक्रोधो जितेन्द्रियः ॥ ६-१२०२ ॥  

अभीष्टदेवतां ध्यायन् प्राक्शिरस्को निशि स्वपेत् ।  
अर्धरात्रे समुत्थाय पादशौचं विधाय च ॥ ६-१२०३ ॥  

आचम्य देवं संस्मृत्य शीघ्रं सम्पूज्य पूर्ववत् ।  
जपं कुर्याद्ययाशक्तिरर्पयेच्च तथेश्वरे ॥ ६-१२०४ ॥  

प्। ५४५) स्वपेत् ततस्तु यदृष्टं स्वप्नं तं गुरवे वदेत् ।  
जपश्चायं वनस्थानां प्रोक्तोऽयं ब्रह्मचारिणाम् ॥ ६-१२०५ ॥  

देशाद्युपद्रवत्रासात् त्वरया चेत् समापनम् ।  
कर्त्तव्यं चेदयं कालः प्रोक्तोऽत्यावश्यकेऽपि च ॥ ६-१२०६ ॥  

आमध्याह्नं जपः श्रेष्ठो मध्यमः प्रहरत्रयम् ।  
सार्धं यामत्रयं हीनोऽवश्यके प्रोक्तलक्षणः ॥ ६-१२०७ ॥  
	  
वैशम्पायनः ।  
	  
कल्पोक्तैव कृते सङ्ख्या त्रेतायां द्विगुणा भवेत् ।  
द्वापरे त्रिगुणा प्रोक्ता कलौ सङ्ख्या चतुर्गुणा ॥ ६-१२०८ ॥  
	  
(एकवीराकल्पे)  
	  
भावनारहितानां च शूद्राणां क्षुद्रचेतसाम् ।  
चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् ॥ ६-१२०९ ॥  
	  
(वाराहीतन्त्रे)  
	  
एषां जपे च होमे च सङ्ख्या नोक्ता मनीषिभिः ।  
तेषामष्टसहस्राणि सङ्ख्या स्याज्जपहोमयोः ॥ ६-१२१० ॥  
	  
(क्रियासङ्ग्रहे)  
	  
पूर्णायां जपसङ्ख्यायां विधिवत्संस्कृतानले ।  
तस्तैः कल्पोदितैर्द्रव्यैर्दशांशं हवनं चरेत् ॥ ६-१२११ ॥  

होमद्रव्येण विहिते सर्पिषा होममाचरेत् ।  
होमव्यवस्या सम्प्रोक्ता पुरश्चरणसिद्धये ॥ ६-१२१२ ॥  
	  
होमार्थमग्निसंस्कारो होमविधिश्च दीक्षाविधौ विशदीकृत एवेति नेह वितन्यते ।  

अथ कुलार्णवे
(कुलार्णवे)

तर्पणं तु ततः कुर्यात् तीर्थोदैश्चन्द्रमिश्रीतैः ।  
जले देवं समावाह्य पादाद्यैरुदकात्मकैः ॥ ६-१२१३ ॥  

प्। ५४६) सम्पूज्य विधिवद्भक्त्या परिवारसमन्वितम् ।  
एकैकमञ्जलिं तोयं परिवारान् प्रतर्पयेत् ॥ ६-१२१४ ॥  

ततो होमदशांशेन तर्पयेत् परदैततम् ।  
	  
(पुरश्चरणचन्द्रिकायाम्)  
	  
मूलमन्त्रं समुच्चार्य तदन्ते देवताभिधाम् ॥ ६-१२१५ ॥  

द्वितीयान्तामहं पश्चात् तर्पयामि नमोऽन्तकः ।  
तर्पणस्य मनुः प्रोक्तस्त्वङ्गादीनां च कल्पयेत् ॥ ६-१२१५ ॥  
	  
शक्तिविषये तु (यामलादौ)  
	  
मन्त्रान्ते नाम चोच्चार्य तर्पयामि ततः परम् ।  
वह्निजायान्तमन्त्रेण तर्पयेत् परदेवताम् ॥ ६-१२१६ ॥  
	  
तथा ।  
	  
मूलमन्त्रं समुच्चार्य मन्त्रान्ते देवताभिधाम् ।  
तर्पयामि नमः प्रोच्य तर्पयेत् कुलनायिकाम् ॥ ६-१२१६ ॥  
	  
इति वह्निजायान्तनमोऽन्तयोर्विकल्पः । वैष्णवेऽपि नमोऽन्त एव तर्पणमन्त्रः । तदुक्तं (गौतमीयं)  
	  
आदौ मन्त्रं समुच्चार्य श्रीपूर्वं कृष्णमित्यपि ।  
तर्पयामि पदं चोक्त्वा नमोऽन्तं तर्पयेन्नरः ॥ ६-१२१६ ॥  
	  
तथा ।  
	  
तर्पयामि पदं योज्यं मन्त्रान्तेष्वे नामसु ।  
द्वितीयान्तेषु चेत्येवं तर्पणस्य मनुर्मतः ॥ ६-१२१७ ॥  
	  
अथ मार्जनम् ।  
	  
(नीलतन्त्रे)  
	  
नमोऽन्तं मन्त्रमुच्चार्य तदन्ते देवताभिधाम् ।  
द्वितीयान्तामहं पश्चादभिषिञ्चाम्यनेन तु ॥ ६-१२१८ ॥  

अभिषिञ्चेत् स्वमूर्धानं तोयैः कुम्भाख्यमुद्रया ।  

प्। ५४७) वैशम्पायनः ।

तर्पणस्य दशांशेन नमोन्तं मन्त्रमुच्चरन् ॥ ६-१२१९ ॥  

अभिषिञ्चेत् स्वमूर्धानं जलैः कुम्भाख्यमुद्रया ।  
	  
अन्यत्रापि ।  
	  
मन्त्रान्ते नाम चोच्चार्य सिञ्चामिति नमः पदम् ॥ ६-१२२० ॥  
	  
अत्र मूलमन्त्रमुच्चार्य �  
	  
अमुकदेवतामभिषिञ्चामि नमः � इति योजयन्ति ।  

अथ ब्राह्मणभोजनम् ।

(पुरश्चरणचन्द्रिकायाम्)  
	  
मार्जनस्य दशांशेन ब्राह्मणानपि भोजयेत् ।  
ब्राह्मणामन्त्रणं कृत्वा भक्ष्यं सम्पाद्य षड्रसम् ॥ ६-१२२१ ॥  

समावायासनं दद्यान्मूलेनैवेष्टदेवताम् ।  
ध्यात्वा चावाहनं कूर्याद्ब्राह्मणा।श्च यथोदितान् ॥ ६-१२२२ ॥  

पाद्याद्यैरर्चयदिष्टदेवतारूपभूसुरान् ।  
भक्षैर्नानारसोपेतैर्भोजयेद्देवताधिया ॥ ६-१२२३ ॥  
	  
(मेरुतन्त्रे)  
	  
विप्राराधनमात्रेण व्यङ्गं साङ्गं प्रजायते ।  
यानि यान्यपि कर्माणि हीयन्ते द्विजभोजनैः ॥ ६-१२२४ ॥  

निरर्थकानि तानि स्युर्बीजान्युषरगाणि च ।  
गुरुं सन्तोषयेत् पश्चाद्गोहिरण्याम्बरादिभिः ॥ ६-१२२५ ॥  

गुरौ तुष्टे हि सन्तुष्टो मन्त्रः सिद्ध्यति मन्त्रिणः ।  
	  
तन्त्रान्तरे ।  
	  
गुरवे दक्षिणां दद्याद्भोजनाच्छाजनादिभिः ।  
गुरुसन्तोषमात्रेण सर्वसिद्धिर्भवेद्ध्रुवम् ॥ ६-१२२६ ॥  

गुरुमूलमिदं सर्वमित्याहुस्तन्त्रवेदिनः ।  

प्। ५४८) (मेरुतन्त्रे)

पञ्चधाऽत्र विधिः प्रोक्तो जपसम्पूर्णकारकः ॥ ६-१२२७ ॥  

आद्यः कल्पः प्रतिदिनमामध्याह्नं जपं चरेत् ।  
तद्दशांशेन कल्पोक्तं द्रव्यैर्होमं प्रकल्पयेत् ॥ ६-१२२८ ॥  

तर्पणं मार्जनं कृत्वा तथा ब्राह्मणभोजनम् ।  
तद्दशांशं ततश्चायं प्रथमः कल्प ईरितः ॥ ६-१२२९ ॥  

अयं द्वितीयः कल्पस्तु लक्षमेकं जपं चरेत् ।  
होमादिकं तस्य कृत्वाऽग्रिमं लक्षं समारभेत् ॥ ६-१२३० ॥  

अयं तृतीयः कल्पस्तु सम्पूर्णजपमाचरेत् ।  
पूर्णहोमे तर्पर्णादिपूर्वमेवाचरेदिति ॥ ६-१२३१ ॥  

चतुर्थस्तु तथा कल्पो दारिद्रैर्द्विगुणो जपः ।  
होमाद्यभावे कर्त्तव्यस्त्र्यादिनिघ्नैर्नृपादिकैः ॥ ६-१२३२ ॥  

पञ्चमस्तु तथा कल्पो यस्य देवस्य यत् प्रियम् ।  
तदेव द्विगुणं कार्यं शीघ्रं दैवततुष्टये ॥ ६-१२३३ ॥  

जपप्रियाः सर्वदेव्यो वाममार्गे वलिप्रियाः ।  
पानप्रियास्तु सिद्धान्ते कौलिके तु रतिप्रियाः ॥ ६-१२३४ ॥  

होमप्रियो महादेवो भास्करस्तर्पणभोजनम् ।  
प्रायश्चित्तं तु न कृतं तदाऽशुद्धो भवेद्द्विजः ॥ ६-१२३५ ॥  

प्रायश्चितचतुष्केण द्विजाद्यैः क्षत्रियादिकाः ।  
	  
(यामले)  
	  
होमकर्माद्यसक्तानां विप्राणां द्विगुणो जपः ॥ ६-१२३६ ॥  

इतरेषां तु वर्णानां त्रिचतुष्पञ्चसङ्ख्यया ।  
	  
प्। ५४९) द्वैगुण्यादिहोमाद्यपक्ष एव ।  
सनत्कुमारः ।  
	  
यद्यदङ्गं भवेद्भङ्गं तत्सङ्ख्याद्विगुणो जपः ॥ ६-१२३७ ॥  

होमाभावे जपः कार्यो होमसङ्ख्याचतुर्गुणः ।  
विप्राणां क्षत्रियाणां च रससङ्ख्यागुणः स्मृतः ॥ ६-१२३८ ॥  

वैश्यानां वसुसङ्ख्याकमेषां स्त्रीणामयं विधिः ।  
यं वर्णमाश्रितः शूद्रः स च तस्य विधिं चरेत् ॥ ६-१२३९ ॥  
	  
तन्त्रान्तरे ।  
	  
होमाभावे द्विजानां च यः प्रोक्तः सूरभिर्जपः ।  
तत्सुभ्रुवाश्च तद्भक्ताः शूद्राणां च स एव हि ॥ ६-१२४० ॥  
	  
(मेरुतन्त्रे)  
	  
अथ वक्ष्ये दरिद्रस्य मन्त्रसिद्धिर्यथा भवेत् ।  
होमकर्मण्यशक्तस्य विप्रस्य द्विगुणो जपः ॥ ६-१२४१ ॥  

इतरेषां तु वर्णानां त्रिगुणादि विधीयते ।  
होमद्विगुणजपेन सम्पूर्णतर्पणं भवेत् ॥ ६-१२४२ ॥  

अकृते मार्जने प्रोक्तं तर्पणाद्विगुणो जपः ।  
प्रत्याम्नाये ब्रह्मभोज्यो न कुत्रापि मया श्रुतः ॥ ६-१२४३ ॥  

सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ।  
	  
अत्र ।  
	  
स्त्रीशूद्राभ्यां न होतव्यं मन्त्रोच्चारणपूर्वकम् � इति वचनात् ।  
	  
स्त्रीशूद्रयोस्तु होमस्थाने यथोक्तजप एव न तु शक्तावपि होम इति सुधार्णवकृतः ।  
	  
तथा च (नारदपञ्चरात्रे) ।  
	  
त्रयाणामेव वर्णानां होमविधिरुदीरितः ॥ ६-१२४४ ॥  

शूद्रस्तु तत्फलाकाङ्क्षी होमात् तद्द्विगुणं जपेत् ।  

प्। ५५०) (क्रियासङ्ग्रहे)

होमस्तु ब्राह्मणद्वारा स्त्रीशूद्राणां निगद्यते ॥ ६-१२४५ ॥  

होमसङ्ख्यापञ्चगुणं द्विगुणं वा जपं चरेत् ।  
	  
(वाराहीतन्त्रे तु)  
	  
शूद्राणामधिकारोऽस्मि।स्त्रान्त्रिके होमकर्मणि ॥ ६-१२४६ ॥  

वह्निजायां परित्यज्य स्वाहान्ते च नमो मतः � इत्युक्तम् ॥  
	  
तन्त्रान्तरे ।  
	  
पुरश्चरण आरब्धे सूतकादिः पतेत चेत् ॥ ६-१२४७ ॥  

आरब्धं न परित्याज्यमन्यथा दोषभाग्भवेत् ।  
	  
अथा च (स्मृतौ)  
	  
यज्ञव्रतविवाहेषु श्राद्धे होमेऽर्चने जपे ॥ ६-१२४८ ॥  

आरब्धे सूतकं न स्यादनारम्भे च सूतकम् ।  
प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतजाप्पयोः ॥ ६-१२४९ ॥  

नान्दीमुखं विवाहादौ श्राद्धे पाकपरिष्क्रिया ।  
	  
तन्त्रेऽपि ।  
	  
जपो दीक्षार्चनविधिः कार्यो दीक्षान्वितैर्नरैः ॥ ६-१२५० ॥  

नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम् ।  
सूतके मृतके चैव धूमोद्गारादिके तथा ॥ ६-१२५१ ॥  

जपं चार्घं तथा कुर्यान्मन्त्रन्यासपुरःसरम् ।  
	  
(पुरश्चरणचन्द्रिकायाम्)  
	  
पुरश्चर्यां विधायेत्थं सम्यक् साधकसत्तमः ॥ ६-१२५२ ॥  

तदन्ते महतीं पूजां कुर्याद्ब्राह्मणभोजनम् ।  
बहुर्भिर्वस्त्रभूषाभिः पूजयेद्गुरुमात्मनः ॥ ६-१२५३ ॥  

दीपनाथा।श्च सन्तोष्य मन्त्राः सिद्ध्यन्ति मन्त्रिणाम् ।  
	  
होमाङ्गीनरूपणम् ।  
	  
जपहोमार्चनैर्मन्त्रा नियतस्यास्य सिद्धिदाः ॥ ६-१२५४ ॥  

प्। ५५१) जपेन द्विगुणेनापि मनवः सिद्धिदाः स्मृताः ।

(रुद्रयामले)  
	  
भोजनेन विना देवीतर्पणेन विना पुनः ॥ ६-१२५५ ॥  

होमेनापि विना सिद्ध्यै मन्त्राणां त्रिगुणं जपेत् ।  
	  
(अगस्त्यसंहितायाम्)  
	  
सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपाशनेन च ॥ ६-१२५६ ॥  

सर्वे मन्त्राः प्रसिद्ध्यन्ति त्वत्प्रसादान्महेश्वरि ।  
	  
तन्त्रान्तरे ।  
	  
दुर्लभं त्रिषु लोकेषु सिद्धमन्त्रस्य मन्त्रिणाम् ॥ ६-१२५७ ॥  

न किञ्चिदस्ति देवेशि तस्मान्मन्त्रं प्रसाधयेत् ।  
	  
अन्यत्रापि ।  
	  
श्रेयांसि बहुविघ्नानि कथितानि मनीषिभिः ॥ ६-१२५८ ॥  

तस्माद्विघ्नानि निर्जित्य मन्त्रसाधनमाचरेत् ।  
ततः सिद्धमनुर्मन्त्री साधयेत् स्वमनोरथान् ॥ ६-१२५९ ॥  
	  
(मेरुतन्त्रे)  
	  
एकस्मिन् साधिते कार्ये मन्त्रो याति सकुण्ठताम् ।  
तावज्जपं पुनः कृत्वा चैककार्यक्षमो भवेत् ॥ ६-१२६० ॥  
	  
तत्रैव ।  
	  
मन्त्रान्तरे च संसिद्धो गुरुर्मन्त्रं प्रयच्छति ।  
यथोक्ताचरणात् तस्य सिद्धिः शिष्यस्य जायते ॥ ६-१२६१ ॥  

कृपा च स्यात् सिद्धमन्त्रं ददाति च यथा गुरुः ।  
विना जपं विना पूजां सिद्धयस्तत्करे स्थिताः ॥ ६-१२६२ ॥  

(क्रियासङ्ग्रहे)  
	  
गुरौ च देवतायां च भक्तिरव्यचारिणी ।  
मन्त्रे शास्त्रे च विश्वासः सिद्धेर्बीजं विदुर्बुधाः ॥ ६-१२६३ ॥  

प्। ५५२) (प्रत्यङ्गिराकल्पे)

भक्तिमारुतनुन्नेन पुरश्चरणवह्निना ।  
दग्धे पापेन्धनव्यूहे मन्त्राः सिद्ध्यन्ति मन्त्रिणाम् ॥ ६-१२६४ ॥  
	  
इति सामान्यपुरश्चरणविधिः ।  

विभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत �
स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
षष्ठः श्रीनरदेवनिर्मितपुरश्चर्यार्णवे प्रस्फुरन्
सद्युक्तिस्फुटमौक्तिकोत्कररुचोत्तङ्गस्तरङ्गो गतः ॥ ६-१२६५ ॥

इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे सामान्यपुरश्चरणविधिर्नाम षष्ठस्तरङ्गः ॥ ६ ॥