अथ दीक्षाप्रयोगः प्रकाश्यते ।
प्। ३१९) तत्रादौ भक्तियुक्तः शिष्यः प्रथमदिने क्षौरादिकं विधाय शरीरशुद्ध्यर्थं तीर्थादौ स्नात्वा गायत्रीसहस्रं प्रजप्य हविष्यं सकृद्भुक्त्वा द्वितीयदिने कृतोपवासस्तृतीयदिवसे कृतनित्यक्रियो वस्त्रालङ्कारादिभिर्देहमलङ्कृत्य विघ्ननिवारणार्थं स्वगृहे गणेशमभ्यर्च्य पुण्याहं वाचयित्वा नान्दीश्राद्धं च विधाय यथोक्तवरणसम्भारानादाय पञ्चवाद्यपुरःसरं गुरुगृहं गच्छेत् । तत्र च हस्तौ पादौ प्रक्षाल्य कृताञ्जलिर्भक्तिनम्रः-
भगवन् परमात्मरूपिन् परमकारुणिक श्रीगुरो सकलपुरुषार्थसाधनमहामन्त्रप्रदानेन मामनुगृह्णीष्व-
इत्युक्त्वा गुरुं साष्टाङ्गं प्रणम्य तदाज्ञया प्रङ्मुख उदङ्मुखो वाऽसने उपविश्य कुशत्रयतिलजलान्यादाग्र स्वस्तिवाचनपूर्वकं सङ्कल्पं कुर्यात् ।
तद्यथा-
ॐ विष्णुर्विष्णुः । ॐ अद्येत्यादि � अमुकगोत्रोत्पन्नोऽमुकदेवशर्मा धर्मार्थकाममोक्षप्राप्तिकामः श्रीमदमुकदेवताथा अमुकमन्त्रदीक्षामहं करिष्ये - इति सङ्कल्प्य गुरुं वृणुयात् ।
तद्यथा-
ॐ साधु भवानास्तात् - इति शिष्यो वदेत् ।
ॐ साध्वहमासे - इति गुरुः ।
ॐ अर्चयिष्यामो भवन्तम् - इति शिष्यः ।
ॐ अर्चय - इति गुरुः ।
ततः शिष्यः-
श्रीगुरवे नमः - इति मन्त्रेण गुरवे आसनं दत्वा तेनैव मन्त्रेण पाद्यादिभिर्गन्धपुष्पधूपदीपवस्त्रालङ्करणादिभिश्च गुरुमभ्यर्च्य दक्षिणजानुं भूमौ धृत्वा पठेत्-
ॐ अद्येत्यादि - अमुकगोत्रोत्पन्नोऽमुकदेवशर्मा धर्मार्थ * * * * * * * * *? देवताया अमुकमन्त्र-
प्। ३२०) ग्रहणायामुकगोत्रममुकप्रवरममुकवेदाध्यायिनममुकदेवशर्-माणमेभिः पाद्यादिभिरर्चितं भवन्तं गुरुत्वेनाहं वृणे ।
ॐ वृतोऽस्मि - इति प्रतिवचनम् ।
पुनर्बद्धाञ्जलिना-
ॐ अद्येत्यादि - अमुकमन्त्रदीक्षाकर्मणि त्वमाचार्या भव ।
ॐ भवामि - इति प्रतिवचनम् ।
भगवन् श्रीगुरो यथाविहितं कर्म कुरु - इति शिष्यो वदेत् ।
यथाज्ञानतः करवाणि - इति प्रतिवचनम् ।
ततः शिष्यो गुरवे नमस्कारं कुर्यात् । तथा ततोऽवशिष्टां वरणसामग्रीं गुरवे निवेद्य तच्चरणौ प्रणम्य तदाज्ञया ऋत्विजो वृणुयात् । तद्यथोक्तोपचारैरुक्तप्रकारेण च तान् प्रत्येकमभ्यर्च्य पठेत्-
ॐ अद्येत्यादि - अमुकगोत्रोत्पन्नोऽमुकदेवशर्मा चतुर्वर्गफल-प्राप्तिकामः श्रीमदमुकदेवताया मत्कर्त्तृकामुकमन्त्रदीक्षा-कर्मण्यमुकगोत्रममुकप्रवरममुकवेदाध्यायिनसमुकशर्माणमेभिः पाद्यादिभिरर्चितं भवन्तमृत्विक्तेवनाहं वृणे ।
ॐ वृतोऽस्मि - इति प्रतिवचनम् ।
यथाविहितं कर्म कुरु - इति शिष्यः ।
यथाज्ञानतः करवाणि - इति प्रतिवचनम् ।
एवमष्टौ ऋत्विजः प्रत्येकं वृणुयात् ।
ततः कर्मोपयुक्तसामग्रीं तेभ्यो दत्वा तान् प्रणमेत् ।
ततो गुरुः शिष्येण ऋत्विग्भिश्च सहितो यागमण्डपं गत्वा तद्द्वारि उपविश्य दन्तकाष्ठपरीक्षां कुर्यात् । पायसभोजनानन्तरमेव दन्तकाष्ठपरीक्षा कर्तव्या । [* कर्त्तव्या � इति एषां मतैस्तु तस्मिन्नेव काले कर्त्तव्या ।]
सा यथा-
अश्वत्थोदुम्बरवटप्लक्षादिक्षीरवृक्षसम्भवं द्वादशाङ्गुलप्रमाणं दन्तकाष्ठं देयमूलमन्त्रेणाभिमन्त्र्य गुरुः शिष्याय दद्यात् ।
प्। ३२१) शिष्योऽपि हस्तौ पादौ प्रक्षाल्याचम्य गुरुं नत्वा तद्दन्तकाष्ठमादाय दन्तान् विशोध्य वालुकादिनिर्मिते हस्तमात्रे चतुरस्रस्थण्डिले दन्तकाष्ठं त्यक्त्वा शुद्धजलेन गण्डूषपूर्वकमाचमनं कुर्यात् ।
ततो गुरुः पूर्वादिदिक्पतितदन्तकाष्ठाग्रमालोक्य शुभाशुभफलानि विचारयेत् ।
यथा-
दन्तकाष्ठाग्रे पूर्वदिक्पतिते ऐश्वर्यलाभः । आग्नेयदिक्पतिते हृदयसन्तापः दक्षिणदिक्पतिते बन्धुनाशः । रक्षोदिक्पतिते मरणम् । पश्चिमदिक्पतिते शोकः । वायवीयदिक्पतिते व्यग्रता उत्तरदिक्पतिते सौख्यम् । ईशानदिक्पतिते च ज्ञानलाभ इति फलं विचार्य अशुभदिक्पतिते तु तज्जन्यदोषनिवारणार्थम्-
फट् अमुकदोषं जहि २ फट् स्वाहा - इति मन्त्रेणाष्टोत्तरसहस्रसङ्ख्याकमष्टोत्तरशतसङ्ख्याकं वा होममाज्यने कुर्यात् ।
ततो गुरुर्मण्डपद्वारदेशे आसने उपविश्य आचमनप्राणायामौ विधाय सामान्यार्घस्थापनं कुर्यात् ।
तद्यथा-
अस्त्रजलेन भूमिं सम्प्रोक्ष्य त्रिकोणवृत्तचतुरस्रमण्डलं विलिख्य-
ॐ आधारशक्तये नमः - इति मण्डलं सम्पूज्य तदुपरि आधारं
संस्थाप्य-
र। वह्निमण्डलाय दशकलात्मने नमः - इत्याधारं सम्पूज्य-
फट् - इति मन्त्रेणार्घपात्रं प्रक्षाल्याधारोपरि संस्थाप्य-
अ। सूर्यमण्डलाय द्वादशकलात्मने नमः - इत्यर्घपात्रं सम्पूज्य-
नमः - इति जलेनापूर्य-
स। सोममण्डलाय षोडशकलात्मने नमः - इति जलं सम्पूज्य तस्मिन् जले-
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ ५-१ ॥
इत्यङ्कुशमुद्रया सूर्यमण्डलात् तीर्थमावाह्य प्रणवेन गन्धपुष्पं निधाय तेनैव सम्पूज्य तेनैवाष्टधा दशधा वाऽभिमन्त्र्य धेनुमुद्रां प्रदर्शयेत् ।
ततस्तज्जलेन-
फट् - इति द्वारमभ्युक्ष्य द्वारपूजां कुर्यात् ।
तद्यथा-
ॐ * * * *? नमः - इति दारम्यो?र्ध्वोदुम्बरे ।
प्। ३२२) म। महालक्ष्म्यै नमः - इति तद्दक्षिणे ।
स। सरस्वत्यै नमः - इति तद्वामे ।
द्वारश्रियै नमः - इति मध्ये ।
द्वारस्य दक्षिणशाखायां वामशाखायां चोर्ध्वभागादारभ्य तलपर्यन्तमेता द्वारदेवताः पूजयेत् ।
तद्यथा-
ग। गणपतये नमः - इति दक्षिणे ।
क्ष। क्षेत्रपालाय नमः - इति वामे ।
श। वसुन्धरायुक्ताय शङ्खनिधये नमः - इति पुनर्दक्षिणे ।
प। वसुमतियुक्ताय पद्मनिधये नमः - इति वामे ।
म। मायाशक्तये नमः - इति दक्षिणे ।
च। चिच्छक्तये नमः - इति वामे ।
ग। गङ्गायै नमः - इति दक्षिणे ।
य। यमुनायै नमः - इति वामे ।
ध। धात्रे नमः - इति दक्षिणे ।
व। विधात्रे नमः - इति वामे ।
द। देहल्यै नमः अ। अस्त्राय नमः - इति वा देहल्याम् ।
एवं पश्चिमद्वारमारभ्य प्रतिद्वारं सम्पूज्य द्वारपालान् पूजयेत् ।
तत्र विशेषशिवपूजायाम्-
नन्दिमहाकालगणेशवृषभृङ्गिस्कन्दभवानीचण्डेश्वरान्-
पश्चिमद्वारमारभ्य प्रतिद्वारं क्रमेण द्वौ द्वौ पूजयेत् ।
एषां पूजने मन्त्रस्तु-
न। नन्दिने नमः - इत्यादि ।
विष्णुपूजायाम्-
नन्दसुनन्दचण्डप्रचण्डबलप्रबलभद्रसुभद्राख्यान्-
प्। ३२३) गणेशपूजायाम्-
वक्रतुण्डैकदंष्ट्रमहोदरगजाननलम्बोदरविकटविघ्नराजधू-म्रवर्णान् - पूजयेत् ।
सूर्यपूजायां देवीपूजायां च-
ब्राह्मीमाहेश्वरीकौमारीवैष्णवीवाराहीन्द्राणीचामुण्डामहा-लक्ष्मीः - पूजयेत् ।
त्रिपुरादिपूजायां तु-
गणेशक्षेत्रपालवटुकयोगिनीगङ्गायमुनालक्ष्मीसरस्वतीः-
पूजयेदिति ।
ततो देयमन्त्रेण दिव्यदृष्ट्याऽवलोकनान् दिव्यान् विघ्नानुत्सार्य-
अस्त्राय फट् - इति जलक्षेपेणान्तरिक्षगान् विघ्नानुत्सार्य तेनैव मन्त्रेण त्रिभिर्वामपार्ष्णिघातैर्भौमान् विघ्नानुत्सारयेत् ।
ततो दक्षिणाङ्गं किञ्चत् सङ्कोच्य द्वारस्य वामशास्त्रां स्पृशत्रुत्सारितभूतानां निर्गमनार्थं दक्षिणमार्गं ददद्दक्षिणपादपुरःसरं मण्डपान्तः प्रविशेत् ।
वाममार्गे तु शक्तिवामपादपुरःसरं मण्डपान्तःप्रवेशः । तथैव स्त्रीकर्तृकदीक्षायामपि ।
ततो नैर्-ऋत्यां दिशि-
ॐ वास्तुपुरुषाय वास्त्वधीशाय ब्रह्मणे नमः-
इति पुष्पाक्षतैः सम्पूज्य प्रणम्य पञ्चगव्यसामान्यार्घतोयाभ्यां मण्डपाभ्यन्तरं सम्प्रोक्ष्य संस्कारचतुष्टयं कुर्यात् ।
तद्यथा-
मूलमन्त्रं - समुच्चरन् मण्डपाभ्यन्तरं पश्येत् ।
फट् - इति सामान्यार्घजलेन तत्प्रोक्षणं कुर्यात् । तेनैव मन्त्रेण दर्भैस्ताडयेत् ।
हु। - इति मन्त्रेण चिञ्चेत् ।
ततः श्रीखण्डागुरुकर्पूरादिधूपेन मण्डपाभ्यन्तरं प्रधूप्य लाजाचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षतानिति सप्त विकिरानेकीकृत्य-
फट् - इत्यस्त्रमन्त्रेण सप्तधाऽभिमन्त्र्य-
ॐ अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये **? विघ्नकर्त्तारस्ते? नश्यन्त शिवाज्ञया ॥ ५-२ ॥
प्। ३२४) इति त्रिधा विकिरेत् ।
ततस्तान् विकिरानस्त्रमन्त्रमुच्चरन् दर्भमुष्टिना सम्मार्ज्य वर्धन्यासनध्य?मीशानकोणे पुञ्जीकृत्य स्थापयेत् ।
ततः पुण्याहं वाचयित्वा विप्रान् सन्तोष्य-
ॐ दीपनाथभैरवाय नमः - इति तन्नामकं भैरवं सम्पूज्य बद्धाञ्जलिः प्रार्थयेत् ।
तस्मिन् क्षेत्रे दीपनाथ निर्विघ्नसिद्धिहेतवे ।
दीक्षायागसमृद्ध्यर्थमनुज्ञां दातुमर्हसि ॥ ५-३ ॥
अतितीक्ष्ण महाकाय कल्पान्तदहनोपम् ।
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि - ॥ ५-४ ॥
इत्यनुशामादाय-
फट् - इति मन्त्रमुच्चरन् वेदिकोपरि गत्वा वेदिकायां मृदा चतुरस्रं स्थण्डिलं निर्माय तदुपरि सर्वतोभद्रमण्डलं विलिख्य पूजोपकरणानि यथास्थानं निवेश्यासनमास्तीर्य वामभागस्थजलपात्रमादाय जलशोधनं कुर्यात् ।
तद्यथा-
य। - इति वायुबीजेन संशोध्य-
र। - इत्यग्निबीजेन सन्दह्य-
व। - इति वरुणबीजेनाप्लाव्य-
प्रायत्र्या सम्प्रोक्ष्य धेनुमुद्रयाऽमृतीकृत्य तेन जलेन-
ॐ आत्मतत्त्वाय स्वाहा, ॐ विद्यातत्त्वाय स्वाहा,
ॐ शिवतत्त्वाय स्वाहा - इति त्रिराचम्य-
अस्त्राय फट् - इत्यासनं सम्प्रोक्ष्य तदुपरि अष्टदलकमलं विलिख्य-
पृथिव्या मेरुपृष्ठ ॠषिः सुतलं छन्दः कूर्मो देवता आसनपरिग्रहे विनियोगः ।
आसनं धृत्वा-
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
प्। ३२५) ह्री। आधारशक्तिकमलासनाय नमः - इत्यासनं सम्पूज्य तदुपरि आत्ममन्त्रमुच्चरन् स्वस्तिकपद्मासनादिक्रमेणोपविश्य सङ्कल्पं कुर्यात् ।
यथा-
ॐ अद्येत्यादि - अमुकदेवशर्माऽमुकगोत्रोऽमुकशर्मकर्तृका-मुकदेवताया अमुकमन्त्रदीक्षाकर्मणि यथासम्भवोपचारैरमुकदेवतायाः पूजामहं करिष्ये - इति सङ्कल्पः ।
ॐ ह्रा। ह्री। सः सग्रहराशिनक्षत्रयोगकरणपरिवृतासनस्थित-श्रीसूर्याय एष तेऽर्घः स्वाहा - इति सूर्यार्घं दत्वा पूजाद्रव्याणि संस्कुर्यात् ।
तद्यथा - नाराचमुद्रां बद्ध्वा-
ह्रा। हु। फट् - इति मन्त्रमुच्चरन् गन्धपुष्पनैवेद्यादीनि समदृष्ट्या विलोकयेत् ।
र। - इति मन्त्रेण दीपशिखां स्पृशेत् ।
ततः-
औ। बीजमुच्चरन् देवतीर्थेन जलं संस्पृश्य जलपात्रं वामहस्तेन धृत्वा-
ज। जलाधारपात्राय नमः - इति मन्त्रं पठेत् ।
ततः शिरस्यञ्जलिमाधाय वामे-
ॐ गुरुभ्यो नमः ॐ परमगुरुभ्यो नमः ॐ परापरगुरुभ्यो नमः - इति गुरुत्रयं नत्वा दक्षिणे-
ग। गणपतये नमः � मध्ये -
अमुकदेवतायै नमः - इति प्रणम्य -
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ॥ ५-५ ॥
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।
इति गुरुं पुनर्नत्वा करशुद्धिं कुर्यात् ।
यथा-
ह्सौ।ः - इति मन्त्रेण चन्दनाक्तं पुष्पमादाय-
प्। ३२६) फट् - इति मन्त्रेण कराभ्यां सम्मर्द्य तत् पुष्पं वामहस्तेनादाय शिरसि परिभ्राम्य प्रणवं जपन्नाघ्राय-
हौ। ॐ ते सर्वे विलयं यान्तु ये मां हिसन्ति हिंसकाः ॥ ५-६ ॥
मृत्युरोगभयक्लेशाः पतन्तु रिपुमस्तके - इति पठित्वा -
फट् - इति मन्त्रेण नाराचमुद्रया ईशाने त्यजेत् ।
ततोऽस्त्रमन्त्रेण ऊर्ध्वोर्ध्वक्रमेण तालत्रयपुरःसरं छोटिकाभिर्दशदिग्बन्धनं विधाय तज्जनिततेजो वह्निप्राकारमुद्रया संरक्ष्य मूलेन तद्बीजेन प्रणवेन वा प्राणायामत्रयं कृत्वा भूतशुद्धिं कुर्यात् ।
यथा - स्वाङ्के उत्तानौ करौ कृत्वा-
सोऽहम् - इति जीवात्मानं प्रदीपकलिकाकारं हृत्पद्मासनमूलाधारस्थितकुण्डलिन्या सह सुषुम्णावर्त्मना मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्धाज्ञाख्यंषट्-चक्राणि भित्त्वा शिरोऽवस्थिताधोमुखसहस्रदलकमलकर्णिकान्तर्गत-परमात्मनि संयोज्य
तत्र पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूप-स्पर्शशब्द–
नासिकाजिह्वाचक्षुस्त्वक्श्रोत्रवाक्पाणिपादपायूपस्थ–
प्रकृतिमनोबुद्ध्यहङ्काराख्यानि चतुर्विंशतितत्त्वानि उक्तक्रमेण लीनानि विभाव्य-
य। - इति वायुबीजं धूम्रवर्णं वामनासापुटे विचिन्त्य तस्य षोडशवारजपेन वायुना देहमापूर्य नासापुटौ धृत्वा पञ्चाशद्वारजपेन चतुःषष्टिवारजपेन वा कुम्भकं कृत्वा वामकुक्षिस्थकृष्णवर्णपापपुरुषेण सह देहं संशोध्य पञ्चाशद्वारजपेन द्वात्रिंशद्वारजपेन वा दक्षनासया वायुं रेचयेत् । एवमग्रेऽपि सङ्ख्याविकल्पो बोध्यः ।
ततो दक्षनासापुटे-
र। - इति वह्निबीजं रक्तवर्णं ध्यात्वा तस्य षोडशवारजपेन देहमापूर्य नासापुटौ धृत्वा चतुःषष्टिवारजपेन कुम्भकं कृत्वा पापेन सह दग्ध्वा तस्य द्वात्रिंशद्वारजपेन वामनासया भस्मना सह वायुं रेचयेत् ।
ठ। - इति चन्द्रबीजं शुक्लवर्णं वामनासिकायां धृत्वा तस्य षोडशवारजपेन ललाटे चन्द्रं नीत्वा सहस्रन्दलकमलकर्णिकान्तं परमात्मानं चन्द्ररूपं विभाव्य-
व। - इति वरुणबीजस्य चतुःषष्टिवारजपेन तस्माल्ललाटचन्द्राद्गलितसुधया मातृकावर्णात्मिकया समस्तदेहमाप्लाव्य-
ल। - इति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन देहं सुदृढं विचिन्त्य दक्षिणेन
प्। ३२७) ततः परमात्मनि लीनानि पञ्चभूतान्युक्तक्रमेण यथास्थानं निवेश्य देवताराधनयोग्यं तेजोरूपं देहमुत्पन्नं विभाव्य-
हंसः - इति जीवात्मानं परमात्मनः समाकृष्य हृत्पद्मे स्थापयित्वा देवतारूपमात्मानं विचिन्तयेत् ।
इति भूतशुद्धिं विधाय-
आ। सोऽहं मम प्राणा इह प्राणा इह स्थिताः आ। सोऽहं
मम जीव इह जीव इह स्थितः आ। सोऽहं मम सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणानि इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।
इति स्वहृदि प्राणस्थापनं कृत्वा मातृकान्यासं कुर्यात् ।
यथा-
अस्य श्रीमातृकासरस्वतीमन्त्रस्य ब्रह्मा ऋषिर्गायत्री छन्दो मातृकासरस्वती देवता हलो बीजानि स्वराः शक्तयो व्यक्तयः कीलकानि शरीरंशुद्धिपुरःसरमभीष्टसिद्ध्यर्थे लिपिन्यासे विनियोगः ।
शिरसि - ब्रह्मणे ऋषये नमः । मुखे - गायत्र्यै छन्दसे नमः ।
हृदि - मातृकासरस्वत्यै देवतायै नमः ।
गुह्ये - हल्भ्यो बीजेभ्यो नमः ।
पादयोः - स्वरेभ्यः शक्तिभ्यो नमः ।
सर्वाङ्गेषु - व्यक्तिभ्यः कीलकेभ्यो नमः ।
लिपिन्यासे विनियोगः - इति बद्धाञ्जलिः ।
ततः कराङ्गन्यासौ -
अ। क। ख। ग। घ। ङ। आ। अङ्गुष्ठाभ्यां नमः । इ। च। छ। ज। झ। ञ। ई। तर्जनीभ्यां स्वाहा । उ। ट। ठ। ड। ढ। ण। ऊ। मध्यमाभ्यां वषट् । ए। त। थ। द। ध। न। ऐ। अनामिकाभ्यां हु। । ओ। प। फ। ब। भ। म। औ। कनिष्ठिकाभ्यां वौषट् । अ। य। र। ल। व। श। ष। स। ह। ल। क्ष। अः। करतलकरपृष्ठाभ्याम् अस्त्राय फट् ।
प्। ३२८) एवं हृदयादिषु-
अ। क। ख। ग। घ। ङ। आ। हृदयाय नमः - इत्यादि न्यसेत् ।
ततो ध्यानम् ।
यथा-
पञ्चाशल्लिपिभिर्विभक्तमुखदोष्पन्मध्यवक्षःस्थलीं
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजै-
र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥
एवं ध्यात्वा केवलान् सविसर्गान् वा अकारादिक्षकारान्तान् वर्णान् ललाटादिस्थानेषु न्यसेत् ।
तद्यथा-
अः नमः - ललाटे ।
आः नमः - मुखवृत्ते ।
इः नमः - दक्षनेत्रे ।
ईः नमः - वामनेत्रे ।
उः नमः - दक्षकर्णे ।
ऊः नमः - वामकर्णे ।
ऋः नमः - दक्षनासापुटे ।
ॠः नमः - वामनासापुटे ।
ऌः नमः - दक्षगण्डे ।
ॡः नमः - वामगण्डे ।
एः नमः - ओष्ठे ।
ऐः नमः - अधरे ।
ओः नमः - ऊर्ध्वदन्ते ।
औः नमः - अधोदन्ते ।
अः नमः - मुखे ।
कः नमः - दक्षबाहुमूले ।
खः नमः - दक्षकूर्परे ।
गः नमः - दक्षमणिबन्धे ।
घः नमः - दक्षाङ्गुलिमूलेषु ।
ङः नमः - दक्षाङ्गुल्याग्रेषु ।
चः नमः - वामबाहुमूले ।
छः नमः - वामकूर्परे ।
जः नमः - वाममणिबन्धे ।
झः नमः - वामाङ्गुलिमूलेषु ।
ञः नमः - वामाङ्गुल्यग्रेषु ।
टः नमः - दक्षपादमूले ।
ठः नमः - दक्षजानुनि ।
डः नमः - दक्षगुल्फे ।
ढः नमः - दक्ष?पादाङ्गुलिमूलेषु ।
प्। ३२९) णः नमः - दक्षपादाङ्गुल्यग्रेषु ।
तः नमः - वामपादमूले ।
थः नमः - वामजानुनि ।
दः नमः - वामगुल्फे ।
धः नमः - वामपादाङ्गुलिमूलेषु ।
नः नमः - वामाङ्गुल्यग्रेषु ।
पः नमः - दक्षपार्श्वे ।
फः नमः - वामपार्श्वे ।
बः नमः - पृष्ठे ।
भः नमः - नाभौ ।
मः नमः - उदरे ।
यः नमः - हृदये ।
रः नमः - दक्षांशे ।
लः नमः - ककुदि ।
वः नमः - वामांशे ।
शः नमः - हृदयादिदक्षिणकरे ।
षः नमः - हृदयादिवामकरे ।
सः नमः - हृदयादिदक्षिणपादे ।
हः नमः - हृदयादिवामपादे ।
लः नमः - हृदयाद्युदरे ।
क्षः नमः - हृदयादिमुखे व्यापकम् ।
इति सृष्टिक्रमः ।
अथ स्थितिक्रमः ।
तत्र ऋष्यादिकराङ्गन्यासान्तं पूर्ववद्विधाय ध्यायेत् ।
यथा-
सिन्दुरकान्तिममिताभरणां त्रिनेत्रां
विद्याक्षसूत्रमृगपोतवरान् दधानाम् ।
पार्श्वे स्थितां भगवतीमपि काञ्चनाभां
ध्यायेत् कराजधृतपुस्तकवर्णमालाम् ॥ ५-७ ॥
एवं ध्यात्वा-
ॐ नमः - दक्षगुल्फे इत्यादि । क्ष। नमः - हृदादिमुखे इत्यन्तं विन्यस्य पुन?
अ।ः नमः - ललाटे इत्यादि । ठ। नमः - दक्षजानुनि इत्यन्तं ? सर्गानुस्वारयुक्तान् डादिठान्तान् वर्णान् न्यसेत् ।
इति स्थितिक्रमः ।
अथ संहारक्रमः ।
अत्रापि ऋषिन्यासादिकं पूर्ववद्विधाय ध्यानम् ।
प्। ३३०) यथा-
अक्षस्रजं हरिणपोतमुदग्रटङ्क-
विद्यां करैरविरतं दधतीं त्रिनेत्राम् ।
अर्धेन्दुमौलिमरुणामरविन्दभासां
वर्णेश्वरीं प्रणमत् स्तनभारनम्राम् ॥ ५-८ ॥
एवं ध्यात्वा-
क्ष। नमः - हृदादिमुखे इत्यादिबिन्दुयुक्तान् क्षकाराद्यकारान्तवर्णा।स्तत्तत्स्थानेषु न्यसेत्
इति संहारक्रमः ।
अत्र पूर्वं सृष्टिक्रमेण ततः स्थितिक्रमेण ततः संहारक्रमेण न्यासो यतिवानप्रस्थादिभिः कार्यः ।
पूर्वं स्थितिक्रमेण ततः संहारक्रमेण ततः सृष्टिक्रमेण न्यासो ब्रह्मचारिभिः कार्यः ।
गृहस्थैस्तु प्रथमं संहारक्रमेण ततः सृष्टिक्रमणे ततः स्थितिक्रमणे न्यासः कार्यः । अयं त्रिविधोऽपि बहिर्मातृकान्यासः ।
अथान्तर्मातृकान्यासः ।
तत्र मूलाधारध्वनिश्रवणप्रबुद्धकुण्डलिनीसंस्पृष्ट-सहस्रदलकमलात् सुषुम्णामार्गेण निर्गतानमृतमयान् मातृकावर्णान् निजदेहमभिव्याप्य स्थितान् ध्यात्वा कण्ठस्थविशुद्धाख्यषोडशदलकमलदलेषु पूर्वदलादिक्रमेण प्रणवादिनमोऽन्तान् सविन्दून् अकारादिषोडशस्वरान् मनसा विन्यसेत् ।
यथा-
ॐ अ। नमः - इत्यादि ।
ततो हृदयस्थानाहताख्यद्वादशदलकमलदलेषु तेनैव क्रमेण ककारादिठकारान्तान् वर्णान् न्यसेत् ।
ततो नाभिस्थमणिपूरकाख्यदशदलकमलदलेषु डकारादिफकारान्तान् दशवर्णान् न्यसेत् ।
ततो लिङ्गमूलस्य स्वाधिष्ठानाख्यषड्दलकमलदलेषु वकारादिलकारान्तान् षड्वर्णान् न्यसेत् ।
ततो मूलाधाराख्यचतुर्दलकमलदलेषु वकारादिसकारान्ता।श्चतुरो वर्णान् विन्यसेत् ।
ततो भ्रूमध्यस्थिताशाख्यद्विदलकमलदलयोर्द्वौ वर्णौ हकारक्षकारौ विन्यसेत् ।
इत्यन्तर्मातृकान्यासः ।
यथा:-
प्। ३३१) ॐ आधारशक्तये नमः,
ॐ मूलप्रकृतये नमः,
ॐ कूर्माय नमः,
ॐ अनन्ताय नमः,
ॐ वराहाय नमः,
ॐ पृथिव्यै नमः,
ॐ क्षीरसमुद्राय नमः,
ॐ श्वेतद्वीपाय नमः,
ॐ मणिमण्डपाय नमः,
ॐ कल्पवृक्षाय नमः,
ॐ मणिवेदिकायै नमः,
ॐ रत्नसिंहासनाय नमः,
एतत् सर्वं हृदि ।
ॐ धर्माय नमः - दक्षिणस्कन्धे ।
ॐ ज्ञानाय नमः - वामस्कन्धे ।
ॐ वैराज्ञाय नमः - वामोरौ ।
ॐ ऐश्वर्याय नमः - दक्षिणोरौ ।
ॐ अधर्माय नमः - मुखे ।
ॐ अज्ञानाय नमः - वामपार्श्वे ।
ॐ अवैराग्याय नमः - नाभौ ।
ॐ अनैश्वर्याय नमः - दक्षिणपार्श्वे ।
ॐ अनन्ताय नमः - हृदि -
ॐ पद्माय नमः,
ॐ आनन्दकन्दाय नमः,
ॐ संविन्नालाय नमः,
ॐ सर्वतत्त्वात्मकपद्माय नमः,
ॐ प्रकृतिमयपत्रेभ्यो नमः,
ॐ विकारमयकेशरेभ्यो नमः,
ॐ पञ्चाशद्वर्णबीजाढ्यकर्णिकायै नमः,
ॐ अ। सूर्यमण्डलाय द्वादशकलात्मने नमः,
ॐ उ। सोममण्डलाय षोडशकलात्मने नमः,
ॐ म। वह्निमण्डलाय दशकलात्मने नमः,
स। सत्त्वाय नमः,
र। रजसे नमः,
त। तमसे नमः,
आ। आत्मने नमः,
अ। अन्तरात्मने नमः,
प। परमात्मने नमः,
ह्री। ज्ञानात्मने नमः-
प्। २३२) अमुकदेवतायोगपीठाय नमः - इति पीठन्यासं विधाय देहात्मके पीठं देवतां ध्यात्वा मानसैरुपचारैः पूजयेत् ।
तत्रायं क्रमः । उक्तपीठन्यासक्रमेण स्वदेहे आधारशक्त्यादियोगपीठान्तं मनसैव सम्पूज्य तस्मिन् पीठे यथोक्तां देवतां ध्यात्वा-
सोऽहम् - इत्यैक्यं विभाव्य गन्धपुष्पधूपदीपनैवेद्यादीन् मानसोपचारान् समर्प्य मानसहोमं कुर्यात् ।
यथा-
अहङ्कारासत्यपैशून्य कामक्रोधलोभमोहमदमात्सर्यादिरूपं हविर्मनोरूपं स्रुवं सुषुम्णारूपां स्रुचं परिकल्प्य मूलाधारे आत्मान्तरात्मपरमात्मज्ञानात्मरूपचतुः - कोणमग्निकुण्डं विचिन्त्य तत्र कुण्डलिनीरूपं प्रज्वलद्वहिं ध्यात्वा मनसैव मूलमन्त्रमुच्चार्य तदन्ते-
धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा स्रुचा ।
सुषुम्णावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥ ५-९ ॥
इति श्लोकं पठित्वा-
पुण्यं जुहोमि स्वाहा - इति प्रथमाहुतिः ।
पुनर्मूलान्ते तमेव श्लोकं पठित्वा-
पापं जुहोमि स्वाहा - इति द्वितीयाहुतिः ।
एवं मूलान्ते तमेव श्लोकं पठित्वा-
कृत्यं जुहोमि स्वाहा - इति तृतीयाहुतिः ।
एवम्-
अकृत्यं स्वाहा - इति चतुर्थाहुतिः ।
सङ्कल्पं जुहोमि स्वाहा - इति पञ्चमाहुतिः
विकल्पं जुहोमि स्वाहा - इति षष्ठाहुतिः ।
धर्मं जुहोमि स्वाहा - इति सप्तमाहुतिः ।
एवमाहुतीर्हुत्वा पूर्णाहुतिं कुर्यात् ।
यथा मूलमन्त्रान्ते-
प्रकाशामर्षहस्ताभ्यामवलम्ब्योन्मनीस्रुवम् ।
धर्माधर्मकलास्नेहं पूर्णवह्नौ जुहोम्यहं, स्वाहा ।
प्। ३३३) इति पूर्णाहुतिं विधाय समस्तोपाधिविनिर्मुक्तं सच्चिदानन्दात्मकमात्मानं स्मृत्वा मूलमन्त्रमष्टोत्तरशतं प्रजप्य तं जपं देवतायै निवेदयेत् । क्वचित् तु होमत् पूर्वं जप उक्तः ।
इत्यन्तर्यागविधिः ।
ततो द्वारपूजोक्तविधिना स्वदक्षिणे सामान्यार्घं संस्थाप्य कलशस्थापनं कुर्यात् ।
तद्यथा स्ववामे-
अस्त्राय फट् - इति सामान्यार्घजलेन भूमिं सम्प्रोक्ष्य तत्र विन्दुषट्कोणवृत्तचतुरस्रात्मकं मण्डलं विलिख्य मूलान्ते-
अमुकदेवताकलशाधारमण्डलाय नमः - इति सम्पूज्य-
फट् - इत्याधारं प्रक्षाल्य मूलान्ते-
अमुकदेवताकलशाधारं स्थापयामि नमः - इत्याधारं संस्थाप्य
म। वह्निमण्डलाय दशकलात्मने नमः - इति सम्पूज्य पूर्ववत्
कलशं प्रक्षाल्य वस्त्रमाल्यादिभिरलङ्कृत्य मूलान्ते-
अमुकदेवताकलशं स्थापययामि नमः - इति संस्थाप्य-
अ। सूर्यमण्डलाय द्वादशकलात्मने नमः - इति सम्पूज्य मूलमन्त्रमुच्चरन् शुद्धजलेन कलशं पूरयेत् । वामाचारे तु हेतुद्रव्येण पूरयेत् । श्यामारहस्यादौ तु तथा दर्शनात् ।
ततः-
ॐ सोममण्डलाय षोडशकलात्मने नमः - इति तज्जल सम्पूज्य-
गङ्गे च यमुने चैव - इत्यादिनाऽङ्कुशमुद्रया सूर्यमण्डलात् तीर्थमावाह्यास्त्रेण संरक्ष्य कवचेनावगुण्ठ्य मूलमन्त्रेण संवीक्ष्य तेनैवाभ्युक्ष्य मूलान्ते-
अमुकदेवताकलशामृताय नमः - इति गन्धपुष्पादिभिरभ्यर्च्य मत्स्यमुद्रयाऽच्छाद्य-
ॐ कलशस्य मुखे विष्णुः - इत्यादि पठित्वा मूलमन्त्रमष्टधा जपित्वा कुम्भमुद्रां प्रदर्श्य कलशं देवतात्मकं भावयेत् ।
इति कलशस्थापनविधिः ।
ततः शङ्खस्थापनं कुर्यात् ।
तद्यथा कलशाद्दक्षिणे स्ववामे-
अस्त्राय फट् - इति सामान्यार्घजलेन भूमिं सम्प्रोक्ष्य तत्र त्रिकोणवृत्तचतुरस्रमण्डलं मत्स्यमुद्रया विलिख्य-
प्। ३३४) ॐ अमुकदेवताशङ्खाधारमण्डलाय नमः - इति गन्धपुष्पाभ्यां मण्डलं सम्पूज्य चतुरस्रस्याग्नेयादिषु चतुर्षु कोणेषु पुरतो दिक्षु च षडङ्गमन्त्रैः सम्पूज्य-
फट् - इत्याधारं जलेन प्रक्षाल्य मूलमन्त्रान्ते-
अमुकदेवताशङ्खाधारं स्थापयामि नमः - इत्याधारं संस्थाप्य-
म। र। धर्मप्रददशकलात्मने वह्निमण्डलायामुकदेवताशङ्खा-धाराय नमः - इत्याधारं सम्पूज्य पूर्वादितः प्रादक्षिण्यक्रमेण वह्नेर्दशकलाः पूजयेत् ।
तद्यथा-
य। धूम्रार्चिषे नमः ।
र। ऊष्मायै नमः ।
ल। ज्वलिन्यै नमः ।
व। ज्वालिन्यै नमः ।
श। विस्फुलिङ्गिन्यै नमः ।
ष। सुश्रियै नमः ।
स। सुरूपायै नमः ।
ह। कपिलायै नमः ।
ल। हव्यवाहायै नमः ।
क्ष। कव्यवाहायै नमः - इति
अशक्तश्चेत्-
वह्नेर्धूम्रार्चिरादिदशकलाभ्यो नमः - इति पूजयेत् ।
ततः शङ्खम्-
फट् - इति प्रक्षाल्य मूलान्ते-
अमुकदेवताशङ्खं स्थापयामि नमः - इत्याधारोपरि शङ्खं संस्थाप्य-
अ। अर्थप्रदद्वादशकलात्मने सूर्यमण्डलायामुकदेवताशङ्खपात्राय नमः - इति शङ्खं सम्पूज्य शङ्खे षट्कोणं भूविम्बं च सम्भाव्य षट्कोणेषु षडङ्गमन्त्रैः सम्पूज्य पूर्वादितः प्रादक्षिण्यक्रमेण सूर्यस्य तपिन्यादिद्वादशकलाः पूजयेत् ।
तद्यथा-
क। भ। तपिन्यै नमः ।
ख। ब। तापिन्यै नमः ।
ग। फ। तापिन्यै नमः ।
घ। प। मरीच्यै नमः ।
ङ। न। ज्वालिन्यै नमः ।
च। ध। रुच्यै नमः ।
प्। ३३५) छ। द। सुषुम्णायै नमः ।
ज। थ। भोगदायै नमः ।
झ। त। विश्वायै नमः ।
ञ। ण। बोधिन्यै नमः ।
ट। ढ। धारिण्यै नमः ।
ठ। ड। क्षमायै नमः - इति ।
अशक्तश्चेत्-
सूर्यस्य तपिन्यादिद्वादशकलाभ्यो नमः - इति पूजयेत् ।
ततो मूलान्ते-
क्ष। ह। स। ष। श। व। ल। र। य। म। भ। ब। फ। प। न। ध। द। थ। त। ण। ढ। ड। ठ। ट। ञ। झ। ज। छ। च। ङ। घ। ग। ख। क। अ।ः अ। औ। ओ। ऐ। ए। ॡ। ऌ। ॠ। ऋ। ऊ। उ। ई। इ। आ। अ। ।
इति विलोममातृकावर्णानुच्चार्य-
अमुकदेवताशङ्खममृतेन पूरयामि नमः - इति विमलजलेन
शङ्खमापूर्य-
उ। स। कामप्रदषोडशकलात्मने चन्द्रमण्डलाय नमः - इति गन्धपुष्पादिभिः शङ्खजलं सम्पूज्य उक्तक्रमेण चन्द्रस्यामृतादिषोडशकलाः पूजयेत् ।
यथा-
अ। अमृतायै नमः ।
आ। मानदायै नमः ।
इ। पूषायै नमः ।
ई। पुष्ट्यै नमः ।
उ। तुष्ट्यै नमः ।
ऊ। रत्यै नमः ।
ऋ। धृत्यै नमः ।
ॠ। शशिन्यै नमः ।
ऌ। चन्द्रिकायै नमः ।
ॡ। कान्त्यै नमः ।
ए। ज्योत्स्नायै नमः ।
ऐ। श्रियै नमः ।
ओ। प्रीत्यै नमः ।
औ। अङ्गदायै नमः ।
अ। पूर्णायै नमः ।
अ।ः पूर्णामृतायै नमः - इति ।
अशक्तश्चेत्-
चन्द्रस्यामृतादिषोडशकलाभ्यो नमः - शक्तश्चेत् प्रत्येकमावाह्य प्राणप्रतिष्ठां कृत्वा पाद्यादिभिः पूजयेत् ।
प्। ३३६) ततो गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्वास्तत्र निःक्षिप्य-
ॐ गङ्गे च यमुने चैव - इत्यादिनाऽङ्कुशमुद्रया सूर्यमण्डलात् तीर्थमावाह्य मूलमन्त्रेण तस्मिञ्जले तीर्थं संयोज्य-
वौषट् - इति पुष्पं निःक्षिप्य-
वषट् - इति मालिनीमुद्रां प्रदर्श्य-
व। - इति धेनुमुद्रयाऽमृतीकृत्य मूलान्ते-
अमुकदेवते इहागच्छ इह तिष्ठ - इति हृदयाद्देवतां तत्रावाह्य वाहनादिमुद्राः प्रदर्श्य षडङ्गमन्त्रैः सकलीकृत्य दिक्षु अस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य-
वौषट् - इति संवीक्ष्य शङ्खमुद्रयाऽवष्टभ्य योनिमुद्रया प्रदीप्य मूलमन्त्रेण गन्धपुष्पादिभिरिष्टदेवतां तत्र सम्पूज्य षडङ्गानि च सम्पूज्य मत्स्यमुद्रयाऽच्छाद्य मूलमन्त्रमष्टधा जपेत् ।
इति शङ्खस्थापनविधिः ।
ततः शङ्खजलं किञ्चित् कलशजले निःक्षिप्य सामान्यार्घस्य दक्षिणपार्श्वे पाद्यपात्रार्थं किञ्चित् स्थलमुक्त्वा प्रोक्षणीपात्रं स्थापयेत् ।
तद्यथा - सामान्यार्घोदकेन त्रिकोणवृत्तात्मकं मण्डलं कृत्वा-
नमः - इति प्रपूज्य साधारं प्रोक्षणीपात्रमस्त्रमन्त्रितजलेन प्रक्षाल्य तदुपरि संस्थाप्य-
ॐ गङ्गे च यमुने - इत्यादिना जलेनापूर्य-
नमः - इति गन्धपुष्पाभ्यां सम्पूज्य प्रणवेन कुशपुष्पयवादिकं प्रक्षिप्य प्रणवेनैव त्रिधाऽभिमन्त्र्य धेनुमुद्रां प्रदर्श्य किञ्चित् सामान्यार्घजलं तज्जले निःक्षिपेत् ।
इति प्रोक्षणीपात्रस्थापनविधिः ।
ततस्तद्वामपार्श्वे सामान्यार्घस्थापनवत् पाद्यपात्रं संस्थाप्य उशीरगोलोचनाश्यामाकदूर्वाब्जविष्णुक्रान्तादिद्रव्याणि तज्जले निःक्षिप्य तद्वामपार्श्वस्थितसामान्यार्घवामपार्श्वे स्वपुरतो विशेषार्घस्थापनं कुर्यात् ।
तद्विधिस्तु-
शङ्खस्थापनवद्गालिन्यादिमुद्राप्रदर्शनस्थाने योन्यादिमुद्राप्रदर्शनम् ।
विष्णुविषये तु योनिमुद्रास्थाने धेनुमुद्राप्रदर्शनमिति तत्र विशेषः । अयं च साधारणो विधिः । श्यामादिविद्यायां तु विशेषः ।
प्। ३३७) षट्कोणं तद्बहिश्चतुरस्रं विलिख्य चतुरस्रस्य चतुर्षु कोणेषु स्वाग्रादिप्रादक्षिण्येन पीठचतुष्टयं पूजयेत् ।
यथा-
ह। उड्डियानपीठाय नमः, ग। जालन्धरपीठाय नमः,
ॠ। पूर्णगिरिपीठाय नमः, अ। कामरूपीठाय नमः - इति ।
ततस्तेनैव क्रमेण षट्कोणस्य षट्सु कोणेषु षडङ्गमन्त्रैः पुजयेत् । ततस्त्रिकोणस्य त्रिषु कोणेषु मूलमन्त्रस्य त्रिभिर्भागैः पूजयेत् । यत्र च विभागासम्भवस्तत्र समस्तेन मूलमन्त्रेणैव त्रिष्वपि कोणेषु पूजयेत् ।
ततो मूलमन्त्रस्य तद्बीजमात्रं वा उच्चार्य-
अमुकदेवताविशेषार्घाधारशक्तये नमः - इति त्रिकोणमध्यस्थमीकारं सम्पूज्यास्त्रमन्त्रितजलेनाधारं प्रक्षाल्य मूलान्ते-
अमुकदेवताविशेषार्घाधारं स्थापयामि नमः � इत्याधारं संस्थाप्य-
म। र। धर्मप्रददशकलात्मने वह्निमण्डलायामुकदेवता-विशेषार्घाधाराय नमः - इत्याधारं सम्पूज्य शङ्खस्थापनोक्तक्रमेण वह्नेर्धूम्रार्चिरादिदशकला अपि पूजयेत् ।
ततः पूर्ववत् पात्रं प्रक्षाल्य मूलान्ते-
अमुकदेवताविशेषार्घपात्रं स्थापयामि नमः - इति संस्थाप्य-
अ। सूर्यमण्डलायार्थप्रदद्वादशकलात्मनेऽमुकदेवताविशेषार्घ-पात्राय नमः - इति पात्रं सम्पूज्य
शङ्खस्थापनोक्तक्रमेण सूर्यस्य तपिन्यादिद्वादशकला अपि पूजयेत् ।
ततो मूलमन्त्रान्ते विलोममातृकावर्णान् पठित्वा कलशस्थजलेन विशेषार्घं पूरयेत् । वाममार्गिभिस्तु कुण्डगोलोद्भवस्वयम्भू-कुसुमादिद्रव्येण तस्य स्वकल्पोक्तकारणद्रव्येण वा विशेषार्घं पूररणीम् ।
ततः-
उ। स। कामप्रदषोडशकलात्मने चन्द्रमण्डलायामुकदेवता-विशेषार्घामृताय नमः - इति सम्पूज्य शङ्खस्थापनोक्तक्रमेण चन्द्रस्यामृताद्याः षोडशकलाः प्रत्येकमर्चयेत् ।
ततः पात्रामृते त्रिकोणवृत्तषट्कोणात्मकं यन्त्रं विलिख्य त्रिकोणस्य त्रिसृषु रेखासु अकारादिषोडशस्वरान् ककारादितकारान्तान् थकारादिसकारान्तान् वर्णान् विलिख्य मध्ये-
प्। ३३८) ह। ल। क्ष। - इति बीजत्रयं विलिख्य मूलखण्डत्रयेण त्रिकोणमभ्यर्च्य षट्कोणे षडङ्गानि सम्पूज्य ।
ॐ गङ्गे च यमुने चैव - इत्यादिनाऽङ्कुशमुद्रया सूर्यमण्डलात् तीर्थान्यावाह्य तीर्थमयं विभाव्य गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्वास्तत्र निःक्षिप्य वामाचारे तु मीनमुद्रया मांसखण्डं निःक्षिप्य कारणेन पूरितं चेत् कुम्भमुद्रया पूर्वोक्तकुलद्रव्यं संशोध्य निःक्षिपेत् ।
तत आनन्दभैरवीसहितमानन्दभैरवं ध्यात्वा तत्रावाह्य-
ह् स् क्ष् म् ल् व् र् यू। आनन्दभैरवाय वषट्,
स् ह् क्ष् म् ल् व् र् यी। सुधादेव्यै वौषट् - इति मन्त्राभ्यां गन्धपुष्पादिभिस्तौ समभ्यर्च्य वालात्र्यक्षरीमुच्चार्य-
ब्रह्माण्डरससम्भूतमशेषरससम्भवम् ॥ ५-१० ॥
आपूरितं महापात्रं पीयूषरसमावह ।
अखण्डैकरसानन्दकरे परसुधात्मनि ॥ ५-११ ॥
स्वच्छन्दस्फुरणं मन्त्रं निधेह्यकुलरूपिणि ।
अकुलस्थामृताकारे सिद्धिज्ञानकलेवरे ॥ ५-१२ ॥
अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।
तद्रूपेणैकरस्यं च कृत्वा तैस्तत्स्वरूपिणि ॥ ५-१३ ॥
भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ।
एभिर्मन्त्रैरभिमन्त्र्य पञ्चरत्नानि पूजयेत् ।
यथा -
ग्लू। गगनरत्नाय नमः, स्लू। स्वर्गरत्नाय नमः, प्लू। पातालरत्नाय नम, म्लू। मर्त्त्यरत्नाय नमः, न्लू। नागरत्नाय नमः-
इति स्वाग्रादिचतुर्दिक्षु मध्ये च पूजयेत् ।
प्। ३३९) ततो मूलमन्त्रेण हृदयादिष्टदेवतां तत्रावाह्य आवाहनादिमुद्राः प्रदर्श्य षडङ्गैः सकलीकृत्य अस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य-
व। - इति धेनुमुद्रयाऽमृतीकृत्य योनिमुद्रां प्रदर्श्य मूलेन गन्धपुष्पादिभिः सम्पूज्य पुष्पाञ्जलित्रयं दत्वा धूपदीपादिनैवेद्यानि दक्षिणमार्गी दक्षिणहस्तेन वाममार्गी चेद्वामहस्तेन मत्स्यमुद्रया वाऽर्घ्यमाच्छाद्य मूलमन्त्रमष्टधा दशधा वा प्रजप्य देवतारूपमर्घ्यं विभाव्य भूतिनीधेनुयोनिमुद्राः प्रदर्शयेत् ।
इति विशेषार्घस्थापनविधिः ।
ताराश्रीविद्यादिविषयेऽप्यनेनैव विधिना विशेषार्घं स्थापयेत् ।
ततो विशेषार्घवामे सामान्यार्घजलेन त्रिकोणं विलिख्य वैष्णवादौ तु वृत्तमात्रं कृत्वा सामान्यार्घवदाचमनीयपात्रस्थापनं कृत्वा जातीलवङ्गकक्कोलादिद्रव्याणि तज्जले निःक्षिपेत् ।
ततस्तद्वामे पूर्ववन्मण्डलं कृत्वा मधुदधिघृतैः पूर्णं मधुपर्कपात्रं संस्थाप्य तद्वामे पुनराचमनीयपात्रमाचमनीयपात्रवत् संस्थाप्य शुद्धजलेन पूरयेत् ।
ततः सर्वाणि पात्राणि मूलमन्त्रेण प्रत्येकमष्टधाऽभिमन्त्र्य धेन्वादिमुद्रां प्रदर्शयेत् ।
ततो दूर्वाकुर्चेन पुष्पादिना वा शङ्खामृतं विशेषार्घामृतं च किञ्चित् समादाय पात्रान्तरेषु निःक्षिप्य विशेषार्घामृतेनैव पूर्वोक्तमन्त्राभ्यामानन्दभैरवमानन्दभैरवीं च तत्त्वमुद्रया शिरसि सन्तर्प्य शङ्खामृतेन स्वस्वकल्पोक्तान् दिव्यौघसिद्धौघमानवौघान् गुरून् ब्रह्मरन्ध्रे तत्त्वमुद्रयैव सन्तर्प्य स्वगुरुपरमगुरुपरापरगुरुपरमेष्ठिगुरूनपि तर्पयेत् ।
तद्यथा-
श्री - अमुकानन्दनाथश्रीगुरुपादुकां तर्पयामि नमः ।
एवम्-
परमगुरुश्रीपादुकां तर्पयामि नमः, परापरगुरुश्रीपादुकां तर्पयामि नमः, परमेष्ठिगुरुश्रीपादुकां तर्पयामि नमः-
इति त्रिः सकृद्वा तर्पयेत् ।
यत्र वामाचारादौ गुरुपात्रादिकमतिरिक्तमेव स्थापितं तत्र गुरुपात्रीयद्रव्येणैव गुरुपङ्क्तीस्तर्पयेत् ।
ततो विशेषार्घजलेन हृदये मूलदेवतां तर्पयेत् ।
यथा-
मूलमन्त्र - मुच्चार्य-
साङ्गां सपरिवारां सायुधां सवाहनां श्री - अमुकदेवीं प्। ३४०) तर्पयामि नमः - इति त्रिः सकृद्वा सन्तर्प्य प्रोक्षणीपात्रस्थजलेनात्मानं पूजामण्डल पूजोपकरणानि च मूलमन्त्रास्त्रमन्त्राभ्यां सम्प्रोक्ष्य धेनुमुद्रां प्रदर्शयेत् ।
ततः पूर्वोक्तपीठन्यासक्रमेण स्वदेहे तत्तत्स्थानेषु गन्धपुष्पादिभिः पीठदेवताः सम्पूज्य हृत्पद्मकर्णिकामध्य मणिपीठं विभाव्य तत्र देवतां ध्यात्वा देवतारूपमात्मानं विभाव्य मूलमन्त्रेण गन्धपुष्पधूपदीपैश्चतुर्भिरुपचारैर्-देवतामभ्यर्च्य मस्तके हृदये मूलाधारे पादयोः सर्वाङ्गेषु चैकैकं पुष्पाञ्जलिं दत्वा मूलमन्त्रमष्टोत्तरशतं यथाशक्ति वा प्रजप्य तज्जपं देवतायै समर्प्य प्रोक्षणीपात्रस्थजलं भूमौ निःक्षिप्य जलान्तरेण पात्रमापूर्य सर्वतोभद्रमण्डलं गन्धपुष्पादिभिः पूजयेत् ।
ॐ सर्वतोभद्रमण्डलाय नमः - इति ।
ततः शालिभिस्तत्कर्णिकामापूर्य पदुपरि तण्डुलपुञ्जं तदुपरि दर्भानास्तीर्य तदुपरि साक्षतं यथोक्तं कूर्चं निधाय पीठपूजां कुर्यात् ।
यथा मण्डलस्योत्तरदिशि-
श्रीगुरुभ्यो नमः, श्रीपरमगुरुभ्यो नमः, श्रीपरापर गुरुभ्यो नमः, श्रीपरमेष्ठि गुरुभ्यो नमः - इति सम्पूज्य दक्षिणस्यां दिशि-
ग। महागणपतये नमः - इति पूजयेत् ।
ततो भावनया मण्डलस्याधस्तात्-
ॐ अतलादिसप्तपातालेभ्यो नमः ।
ॐ मण्डूकाय नमः,
ॐ कालाग्निरुद्राय नमः,
ऊध्वोर्ध्वक्रमेण-
ॐ आधारशक्तये नमः,
ॐ मूलप्रकृतये नमः,
ॐ कूर्माय नमः,
ॐ अनन्ताय नमः,
ॐ वराहाय नमः,
ॐ पृथिव्यै नमः,
ॐ अमृतार्णवाय नमः,
ॐ रत्नद्वीपाय नमः,
ॐ मणिमण्डपाय नमः - इति सम्पूज्य मण्डलस्य चतुर्दिक्षु मध्ये च-
ॐ कल्पवृक्षेभ्यो नमः - भावनया तेषामधस्तात्-
ॐ मणिवेदिकायै नमः - तदुपरि-
प्। ३४१) ॐ रत्नसिंहासनाय नमः - आग्नेयादिषु चतुर्षु कोणेषु-
ॐ धर्माय नमः,
ॐ ज्ञानाय नमः,
ॐ वैराग्याय नमः,
ॐ ऐश्वर्याय नमः,
दिक्षु पूर्वादिक्रमेण-
ॐ अधर्माय नमः,
ॐ अज्ञानाय नमः,
ॐ अवैराग्याय नमः,
ॐ अनैश्वर्याय नमः,
मध्ये ऊर्ध्वोर्ध्वक्रमेण-
ॐ आनन्दकन्दाय नमः,
ॐ सविन्नालाय नमः,
ॐ सर्वतत्त्वात्मकपद्माय नमः,
ॐ प्रकृतिमयपत्रेभ्यो नमः,
ॐ विकारमयकेशरेभ्यो नमः,
ॐ पञ्चाशद्वर्णबीजाढ्यकर्णिकायै नमः,
अ। सूर्यमण्डलाय द्वादशकलात्मने नमः,
ॐ सोममण्डलाय षोडशकलात्मने नमः,
म। वह्निमण्डलाय दशकलात्मने नमः,
स। सत्वाय नमः,
र। रजसे नमः,
त। तमसे नमः,
आ। आत्मने नमः,
अ। अन्तरात्मने नमः,
प। परमात्मने नमः,
ह्री। ज्ञानात्मने नमः,
इति सम्पूज्य पद्मस्य केशरेषु मध्ये च पूर्वादिक्रमेण तत्तत्कल्पोक्तपीठशक्तीः पूजयेत् ।
ततः पीठमन्त्रं पठित्वा-
अमुकदेवतायोगपीठाय नमः - इति मध्ये पूजयेत् ।
ततो मूलमन्त्रमुच्चार्य-
अमुकदेवतापीठस्य मूर्तिं कल्पयामि नमः - इति पीठमध्ये गन्धपुष्पादिकं निःक्षिपेत् ।
प्। ३४२) ततस्तस्मिन् मण्डले पूर्वादितः प्रादक्षिण्येन वह्नेर्दशकला गन्धपुष्पादिभिः प्रत्येकं पूजयेत् ।
ततः स्वर्णादिरचितं यथोक्तं कुम्भमादाय-
फट् - इति शुद्धजलेन सम्प्रोक्ष्य चन्दनेनोपलिप्य-
हु। - इति कवचमन्त्रमुच्चरन्नभितस्त्रिगुणात्मकसूत्रेण संवेष्ट्य चन्दनागुरुकर्पूरैः प्रधूप्य गन्धपुष्पादिभिरभ्यर्च्य नवरत्नान्युदरे निःक्षिप्य दूर्वाचन्दनाक्षतयुक्तं कूर्चमुपरि विन्यस्य-
प्रणवम् - उच्चरन् पीठे कुम्भं स्थापयेत् ।
ततः कुम्भे पूर्वादिप्रादक्षिण्यक्रमेण सूर्यस्य तपिन्यादिद्वादशकलाः सम्पूज्य कुम्भपीठयारोत्मकुम्भयोश्चैक्यं विभाव्य मातृकावर्णान् प्रतिलोम्येन पठित्वा तदन्ते मूलमन्त्रमुच्चार्य पञ्चाशदौषधीक्काथेन क्षीरिद्रुमकषायेण पलाशत्वग्भवेन गन्धपुष्पसुवासिततीर्थजलेन वा देवताबुद्ध्या कुम्भं पूरयेत् ।
ततः कुम्भजले पूर्वादितः प्रादक्षिण्येन चन्द्रस्यामृतादिषोडशकलाः सम्पूज्यौषधीक्वोथेन गन्धपुष्पसुवासिततीर्थोदकेन वा शङ्खान्तरमापूर्य तज्जले गन्धाष्टकं विलोक्य वह्नेर्धूम्रार्चिरादिदशकलास्तत्रावाह्य-
आ। ह्री। क्रो। य। र। ल। व। श। ष। स। ह। ल। क्ष।ः हंसः सोऽहं वह्नेर्धूम्रार्चिरादिदशकलानां प्राणा इह २ स्थिताः - एवम्-
जीव इह २ स्थितः � एवम् -
सर्वेन्द्रियाणि - इत्यादिप्राणप्रतिष्ठां कृत्वा-
वह्नेर्धूम्रार्चिरादिदशकलाभ्यो गन्धं नमः-इत्यादिपञ्चोपचारैः
सम्पूज्य शङ्खस्थापनोक्तक्रमेण-
य। धूम्रार्चिषे नमः - इत्यादिप्रत्येकं गन्धपुष्पादिभिः सम्पूज्य अनेनैव प्रकारेण सूर्यस्य तपिन्यादिद्वादशकलाश्चन्द्रस्या-मृतादिषोडशकलाश्चावाह्याभ्यर्च्य पञ्चाशत् कलाः पूजयेत् ।
तद्यथा-
ह ॐ सः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दूरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् - इति वैदिकमन्त्रेण सृष्ट्यादिदशकला आवाह्य-
प्। ३४३) ॐ सृष्ट्यादिदशकलाभ्यो नमः - इति पञ्चोपचारैः सपूज्य गन्धपुष्पादिभिः प्रत्येकं पूजयेत् ।
यथा-
क। सृष्ट्यै नमः ।
ख। ऋद्ध्यै नमः ।
ग। स्मृत्यै नमः ।
घ। मेधायै नमः ।
ङ। कान्त्यै नमः ।
च। लक्ष्म्यै नमः ।
छ। धृत्यै नमः ।
ज। स्थिरायै नमः ।
झ। स्थित्यै नमः ।
ञ। सिद्ध्यै नमः ।
इति सम्पूज्य-
ॐ प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वाः - इति मन्त्रेण जरादिदशकला आवाह्य प्राणप्रतिष्ठादिकं कृत्वा-
ॐ जरादिदशकलाभ्यो नमः - इति पञ्चोपचारैः सम्पूज्य प्रत्येकं पूजयेत् ।
यथा-
ट। जरायै नमः ।
ठ। पालिन्यै नमः ।
ड। क्षान्त्यै नमः ।
ढ। ईश्वर्यै नमः ।
ण। रत्यै नमः ।
त। कामिकायै नमः ।
थ। वरदायै नमः ।
द। ह्लादिन्यै नमः ।
ध। प्रीत्यै नमः ।
न। दीर्घायै नमः ।
इति सम्पूज्य-
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् - इति मन्त्रेण तीक्ष्णादिदशकला आवाह्य-
प्। ३४४) ॐ तीक्ष्णादिदशकलाभ्यो नमः - इति पञ्चोपचारैः सम्पूज्य प्रत्येकं पूजयेत् ।
यथा-
प। तीक्ष्णायै नमः ।
फ। रौद्र्यै नमः ।
ब। भवायै नमः ।
भ। निद्रायै नमः ।
म। तन्द्रायै नमः ।
य। क्षुधायै नमः ।
र। क्रोधिन्यै नमः ।
ल। क्रियायै नमः ।
व। उत्कारिण्यै नमः ।
श। मृत्यवे नमः ।
इति सम्पूज्य-
ॐ तद्विष्णोः परमं पद ॐ सदा पश्यन्ति सूरयः दिवीव चक्षुरातमम् - इति मन्त्रेण गायत्र्या वा पीताद्याश्चतुष्कलाः पूर्ववदावाह्य पूजयेत् ।
यथा-
ष। पीतायै नमः ।
स। दारुणायै नमः ।
ह। असितायै नमः ।
क्ष। अनन्तायै नमः ।
इति सम्पूज्य-
ॐ तद्विप्रासो विपन्यवो जागृवा ओंसः समिधन्ते । विष्णोर्यत् परमं पदम् ।
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंषतु ॥ ५-१४ ॥
असिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ॥ ५-१५ ॥
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ।
इति मन्त्रेण निवृत्त्यादिषोडशस्वरकला आवाह्य प्राणप्रतिष्ठादिकं कृत्वा पञ्चोपचारैः सम्पूज्य प्रत्येकं पूजयेत् ।
प्। ३४५) यथा-
अ। निवृत्यै नमः ।
आ। प्रतिष्ठायै नमः ।
इ। विद्यायै नमः ।
ई। शान्त्यै नमः ।
उ। इन्धिकायै नमः ।
ऊ। दीपिकायै नमः ।
ऋ। रेचिकायै नमः ।
ॠ। मोचिकायै नमः ।
ऌ। परायै नमः ।
ॡ। सूक्ष्मायै नमः ।
ए। सूक्ष्मामृतायै नमः ।
ऐ। ज्ञानामृतायै नमः ।
ओ। आप्यायिन्यै नमः ।
औ। व्यापिन्यै नमः ।
अ। व्योमरूपायै नमः ।
अः। अनन्तायै नमः ।
इति सम्पूज्य कलात्मकं तच्छङ्खस्थं जलं कुम्भे निःक्षिपेत् ।
ततोऽश्वत्थपनसचूतादिपल्लवैरिन्द्रचल्लीवेष्टितैः कल्पवृक्षधिया कुम्भवक्त्रं पिधाय तस्मिन् कुम्भमुखे सफलाक्षतं चषकं कल्पवृक्षफलधिया स्थापयेत् ।
ततः क्षौमवस्त्रयुग्मेन कुम्भं संवेष्ट्य वेदिकाया अधस्तात् पूर्वादिचतुर्दिक्षु द्वारसमीपेऽष्टदलमण्डलानि कृत्वा तेषु शालिपुञ्जान् निधाय तदुपरि पूर्णकलशान् संस्थाप्य तेषु पूर्वादिक्रमेण-
ध्रुवधरावागीशविघ्नेशान् - आवह्य पञ्चोपचारैः सम्पूज्य तेनैव प्रकारेणाग्नेयादिकोणेषु कलशान् संस्थाप्य तेषु-
अमृतदुर्जयसिद्धार्थमङ्गलान् - आवाह्य पूजयेत् ।
पुनः पूर्वादिष्वष्टदिक्षु कलशान्तराणि संस्थाप्य तेषु-
इन्द्रादिलोकपालान् - अभ्यर्च्य तत्पुरतः-
ऐरावतपुण्डरीकवामनकुमुदोञ्जनपुष्पदन्तसार्वभौमसु - प्रतीकाख्यान् - अष्टदिग्गजानपि पूजयेत् ।
ततः प्रधानकलशे मूलदेवतार्चनं कुर्यात् ।
तत्रादौ मूलमन्त्रमुच्चार्य-
अमुकदेवताया मूर्तिं कल्पयामि नमः - इति गन्धपुष्पादिभिर्मूर्तिं परिकल्प्यावाहनं कुर्यात् ।
तद्यथा - त्रिखण्डामुद्रान्तः पुष्पं निधाय देवतां ध्यात्वा त्रिः सकृद्वा मूलमन्त्रमुच्चार्य-
प्। ३४६) भगवत्यमुकदेवते इहागच्छागच्छ - इत्युक्त्वा सुषुम्णामार्गेण हृदयाम्भोजात् पुष्पाञ्जलौ देवतामानीय मूलमन्त्रमुच्चार्य आवाहनमुद्रया मूर्तौ स्थापयेत् ।
ततः संस्थापनमुद्रया मूलान्ते-
अमुकदेवते इह तिष्ठ तिष्ठ - इत्युक्त्वा-
देवेश भक्तिसुलभ सर्वावरणसंयुतम् ॥ ५-१६ ॥
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरो भव ।
इति सम्प्रार्थ्य पुनर्मूलमुच्चार्य सन्निधापनमुद्रया-
अमुकदेवते इह सन्निधेहीह सन्निधेहि - इति सन्निधापनं कृत्वा पूर्ववन्मूलमन्त्रमुच्चार्य-
अमुकदेवते इह सन्निरुद्धा भव २ - इति सन्निरोधनमुद्रां प्रदर्श्य सम्मुखीकरणमुद्रया मूलान्ते-
अमुकदेवते सम्मुखीकृता भव २ - इति सम्मुखीकृत्य
पुनर्मूलमुच्चार्य-
अमुकदेवते अवगुण्ठिता भव २ � इत्यवगुण्ठनमुद्रयाऽवगुण्ठ्य देवताया हृदयाद्यङ्गेषु षडङ्गमन्त्रान् विन्यस्य मूलमुच्चार्य �
अमुकदेवते सकलीकृता भव २ - इति सकलीकृत्यामृतीकरणं कुर्यात् ।
यथा - मूलमन्त्रेण दीपिनीमन्त्रेण अकारादिक्षकारान्तैर्मातृकावर्णैश्च त्रिधा त्रिधा धेनुमुद्रयाऽर्घ्योदकेनामृतवर्षणबुद्ध्या देवतामूर्ध्नि सिञ्चेत् । इयमेव देवताशुद्धिरित्युच्यते ।
दीपिनीमन्त्रश्च-
ऐ। वद २ वाग्वादिनि ऐ। क्ली। क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु २ क्ली। सौ। मोक्षं कुरु २ हो। स्हौ। - इति ।
ततो मूलमुच्चार्य धेनुमुद्रयैव-
अमुकदेवते अमृतीकृता भव २ - इत्यमृतीकृत्य महामुद्रां बध्वा देवतामस्तके परमामृतवर्षणधिया मूलमन्त्रमुच्चार्य-
अमुकदेवते परमीकृता भव - इति ब्रूयात् ।
अशक्तक्षेत्र? सर्वत्र मूलमन्त्रमुच्चार्य-
प्। ३४७) आवाहिता भव, स्थापिता भव, सन्निहिता भव, सन्निरुद्धा भव, सम्मुखीकृता भव, अवगुण्ठिता भव, सकलीकृता भव, अमृतीकृता भव, परमीकृता भव - इत्यावाहनादिमुद्राः प्रदर्शयेत् ।
ततः प्राणशक्तिन्यासं कुर्यात् ।
अस्य प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः ऋग्यजुःसामानि च्छन्दांसि प्राणशक्तिर्देवता आ। बीजं ह्री। शक्तिः क्रो। कीलकममुकदेवताप्राणप्रतिष्ठायां विनियोगः ।
ब्रह्मविष्णुमहेश्वरेभ्य ऋषिभ्यो नमः - शिरसि ।
ऋग्यजुःसामभ्यश्छन्दोभ्यो नमः - मुखे ।
प्राणशक्त्यै देवतायै नमः - हृदि ।
आ। बीजाय नमः - गुह्ये ।
ह्री। शक्तये नमः - पादयोः ।
क्रो। कीलकाय नमः - नाभौ ।
अमुकदेवताप्राणप्रतिष्ठायां विनियोगः - इति सर्वाङ्गे व्यापकम् ।
ॐ आ। ह्री। क्रो। अ। क। ख। ग। घ। ङ। आकाशवायुतेजोजलपृथिव्यात्मने आ। अङ्गष्ठाभ्यां नमः ।
ॐ आ। ह्री। क्रो। इ। च। छ। ज। झ। ञ। शब्दस्पर्शरूपरसगन्धात्मने ई। तर्जनीभ्यां स्वाहा ।
ॐ आ। ह्री। क्रो। उ। ट। ठ। ड। ढ। ण। श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊ। मध्यमाभ्या वषट् ।
ॐ आ। ह्री। क्रो। ए। त। थ। द। ध। न। वाक्पाणिपादपायूपस्थात्मने ऐ। अनामिकाभ्यां हु। ।
ॐ आ। ह्री। क्रो। ओ। प। फ। ब। भ। म। वचनादानगमनविसर्गानन्दात्मने औ। कनिष्ठिकाभ्यां वौषट् ।
प्। ३४८) ॐ आ। ह्री। क्रो। अ। य। र। ल। व। श। ष। स। ह। ल। क्ष। मनोबुद्ध्यहङ्कारात्मने अ।ः करतलकरपृष्ठाभ्यां फट् ।
एवं हृदयादिषडङ्गन्यासं विधाय-
ओ। नमः - नाभेरधः ।
ह्री। नमः - कण्ठादधः ।
क्रो। नमः - शिरसोऽधो व्यापकं विधाय हृत्पद्मस्य पूर्वादिदलेषु कर्णिकायां च-
ल। नमः, र। नमः, ह। नमः, ष। नमः, व। नमः, य। नमः, स। नमः, श। नमः, क्ष। नमः - इति क्रमेण विन्यस्य ध्यायेत् ।
ध्यानं यथा-
रक्ताब्धिपोतारुणपद्मसंस्यां
पाशाङ्कुशाविक्षुशरासबाणान् ।
शूलं कपालं दधतीं कराब्जै
रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥ ५-१७ ॥
इति ध्यात्वा मृगमुद्रया पुष्पादिना देवताया हृदयं स्पृष्ट्वा प्राणप्रतिष्ठां कुर्यात् ।
तन्मन्त्रो यथा-
ॐ आ। ह्री। क्रो। य। र। ल। व। श। ष। स। ह। सः सोहं मूलान्ते अमुकदेवतायाः प्राणा इह २ स्थिताः ।
एवम्-
जीव इह २ ।
एवम्-
सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।
प्रणवं मूलमन्त्रं वा त्रिधारं जप्त्वा देवतामूर्तौ मूलमन्त्रस्य ऋष्यादिकरषडङ्गन्यासान् विधाय स्वस्वकल्पोक्तमुद्राः प्रदर्श्योपचारान् समर्पयेत् ।
प्। ३४९) तत्र प्रथमतः-
देवेदमासनं रम्यं मया तुभ्यं प्रकल्पितम् ॥ ५-१८ ॥
भवैतस्मिन्निषण्ण त्वं यावत् पूजां करोम्यहम् ।
इत्युक्त्वा मूलमन्त्रमुच्चार्य-
अमुकदेवतायै इदमासनं नमः - इति देवस्य वामभागे आसनं दद्याद् ।
ततः साङ्गां सावरणां सायुधां देवतां पूजार्थमागतां ध्यात्वा मूलान्ते-
अमुकदेवते स्वागतम् - इति तन्मुद्रया स्वागतं परिकीर्त्य-
इदं श्यामाकदूर्वाब्जविष्णुक्रान्तासमन्वितम् ॥ ५-१९ ॥
पाद्यं गृहाण देवेश तीर्थतोयैः प्रकल्पितम् ।
इत्युक्त्वा मूलान्ते-
अमुकदेवतायै पाद्यं नमः - इति पाद्यपात्रस्थजलेन पादयोः पाद्यं दद्यात् ।
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः ॥ ५-२० ॥
दूर्वाभिश्च समायुक्त एषोऽर्घः प्रतिगृह्यताम् - इत्युक्त्वा मूलमुच्चार्य-
अमुकदेवतायै अर्घ्यं स्वाहा - इति हस्तयोः शिरसि चार्घं दद्यात् ।
जातीलवङ्गकक्वोलकर्पूरादिसुवासितम् ।
गृहाण देवदेवेश एतदाचननीयकम् - इत्युक्त्वा-
मूलान्ते-
अमुकदेवतायै इदमाचमनीयं स्वधा - इति वा मुखे आचमनीयं तत्पात्रस्थजलेन दद्यात् ।
आज्येन मधुना दध्ना त्वदर्थं परिकल्पितम् ॥ ५-२१ ॥
गृहाण कांस्यपात्रस्थं मधुपर्कं सुरेश्वर - इति पठित्वा मूलमन्त्रमुच्चार्य-
अमुकदेवतायै मधुपर्कं स्वधा - इति मुखे मधुपर्कं दद्यात् ।
ततः पुनराचमनीयपात्रस्थजलेनाचमनीयवत् पुनराचमनीयं दत्वा-
प्। ३५०) तिलतैलसमायुक्तं सुगन्धिद्रव्यनिर्मितम् ।
उद्वर्तनमिदं देव गृहाण त्वं प्रसीद मे - इति श्लोकान्ते मूलमन्त्रमुच्चार्य-
अमुकदेवतायै तत्सुगन्धितैलसंयुक्तमुद्वर्तनं नमः � इत्युद्वर्तनं निवेद्य-
गव्यं क्षीरं दधि घृतं शर्कराक्षौद्रसंयुतम् ।
पञ्चामृतं यदेतच्च तेन त्वां स्नापयाम्यहम् - इति पठित्वा मूलमुच्चार्य पञ्चामृतेन-
अमुकदेवतां स्नापयामि नमः - इति पृथग्युगपदेव वा संस्नाप्य-
अन्यादिवेदितं तोयं प्रकृतिस्थं सुशीतलम् ॥ ५-२२ ॥
सुगन्धिद्रव्यसंयुक्तं स्नातार्थं प्रतिगृह्यताम् - इत्युक्त्वा मूलान्ते-
अमुकदेवतायै स्नानं नमः, अमुकदेवतां स्नापयामि नमः - इति वा शङ्खोदकेन स्नानं कारयेत् । शैवे तु शङ्खोदकनिषेधादर्घोदकेनैव स्नापनम्
ततो मूलान्ते-
अमुकदेवतायै पुनराचमनीयं स्वधा - इति ।
व। - इति वा पुनराचमनीयं तत्पात्रस्थजलेन दद्यात् ।
तत्तत्पात्राभावे तु शङ्खादिजलेनैव पाद्यादि दद्यात् ।
ततः-
इमे सुसूक्ष्मे मृदुनी कीटकोशसमुद्भवे ॥ ५-२३ ॥
कृपया देवदेवेश परिधत्स्व सुवाससी - इति पठित्वा मूलमुच्चार्य-
अमुकदेवतायै वस्त्रं निवेदयामि नमः - इति क्षौमादिवस्त्रयुग्मं दिवेद्य मूलान्ते-
अमुकदेवतायै यज्ञोपवीतं नमः - इति यज्ञोपवीतं निवेद्य-
सौवर्णाभरणं दिव्यं मुक्तारत्नोपशोभितम् ।
रमणीयमिदं ? देव गृहाण प्रीतिमावह? - इति पठित्वा मूलमन्त्राते-
प्। ३५१) अमुकदेवतायै स्वर्णादिघटितान्याभरणानि निवेदयामि-
इत्याभरणानि निवेद्य-
कुरङ्गमदकर्पूररोचनादिसमन्वितम् ॥ ५-२४ ॥
गृहाण मलयोत्पन्नमेतत् सुरभिचन्दनम् - इति पठित्वा-
मूलमुच्चार्य-
अमुकदेवतायै गन्धं नमः - इति गन्धं निवेद्य-
नानाविधानि चैतानि जलस्थलरुहाणि च ।
सुगन्धीनि सुपुष्पाणि गृहाण जगदीश्वर - इत्युक्त्वा-
मूलमन्त्रान्ते-
अमुकदेवतायै पुष्पाणि वौषट् - इति । नमः - इति वा पुष्पाणि निवेदयेत् । स्त्रीदैवते तु देवेत्यादौ देवीत्यादि पठनीयम् ।
ततः पूजां कुर्यात् ।
यथा - मूलमन्त्रमुच्चार्य-
श्रीपादुकां पूजयामि नमः - इति पुष्पाञ्जलिना त्रिवारमभ्यर्च्य मूलमन्त्रपुटितैर्मातृकावर्णैर्देवतायास्तत्तत्स्थानेषु सम्पूज्य परिवारार्चनार्थमाज्ञामादायावरणपूजां कुर्यात् ।
यथा-
तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ॥ ५-२५ ॥
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ।
अग्नीशासुरवायव्यमध्यदिक्षु क्रमात् स्थिताः ॥ ५-२६ ॥
इत्यङ्गदेवता ध्यात्वा अग्नीशासुरवायव्यकोणेष्वग्नेर्दिक्षु च क्रमेणाङ्गदेवताः पूजयेत् ।
ततो वायव्ये पुरत ईशाने च गुर्वोघत्रयं च सम्पूज्य वायव्यादीशानपर्यन्तम्-
ॐ श्रीगुरुभ्यो नमः ।
ॐ श्रीपरमगुरुभ्यो नमः ।
ॐ श्रीपरापरगुरुभ्यो नमः ।
ॐ श्रीपरमेष्ठिगुरुभ्यो नमः ।
इति गुरुपङ्क्तीः पूजयेत् ।
प्। ३५२) त्रिपुरादिविषये तु-
ऐ। ह्री। श्रीगुरुभ्यो नमः । गुरुपादुकाभ्यो नमः - इत्येवं पूजयेत् ।
ततः स्वकल्पोक्तपरिवारदेवताः सम्पूज्य पूर्वादिषु इन्द्रादिदशलोकपालान् पूजयेत् ।
यथा-
ल। इन्द्राय नमः ।
र। अग्नये नमः ।
म। यमाय नमः ।
क्ष। नैर्-ऋताय नमः ।
व। वरुणाय नमः ।
य। वायवे नमः ।
स। कुवेराय नमः ।
ह। ईशानाय नमः ।
आ। ब्रह्मणे नमः ।
अ। अनन्ताय नमः ।
इति सम्पूज्य वज्रादिदशशस्त्राणि पूजयेत् ।
तद्यथा-
व। वज्राय नमः ।
श। शक्तये नमः ।
द। दण्डाय नमः ।
ख। खड्गाय नमः ।
प। पाशाय नमः ।
अ। अङ्कुशाय नमः ।
ग। गदायै नमः ।
श। शूलाय नमः ।
प। पद्माय नमः - ऊर्ध्वम् ।
च। चक्राय नमः - अधः ।
इति गन्धपुष्पादिभिः सम्पूज्य पुनर्मूलमन्त्रमुच्चार्य-
साङ्गायै सवाहनायै सालङ्कारायै सायुधायै सपरिवारायै श्री - अमुकदेवतायै श्रीपादुकां पूजयामि नमः - इति त्रिः सकृद्वा सम्पूज्य मूलमन्त्रमुच्चार्य तत्त्वमुद्रया-
अमुकदेवतां तर्पयामि नमः - इति त्रिवारं तर्पयेत् ।
ततो धूपपात्राग्नौ धूपं निधायास्त्रमन्त्रेण सम्प्रोक्ष्य-
नमः - इति गन्धपुष्पाक्षतैः सम्पूज्य मूलमन्त्रेणाभिमन्त्र्य धेनुमुद्रयाऽमृतीकृत्य-
प्। ३५३) ॐ जयध्वनिमन्त्रमातः स्वाहा - इति मन्त्रेणास्त्रेण वाद्यघण्टां सम्पूज्य वामहस्तेन तां वादयन्-
वनस्पतिरसोद्भूतो गन्धाढ्यसुमनोहरः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् - इति पठित्वा-
मूलमन्त्रान्ते-
अमुकदेवतायै धूपं निवेदयामि - इति नीचैर्धूपं निवेद्य देवस्य वामभागे पुरतो वा स्थापयेत् ।
ततो दीपपात्रे दीपं प्रज्वाल्य धूपवत् संस्कृत्य घण्टां वादयन्-
सुप्रकाशो महादीपः सर्वत्र तिमिरापहः ॥ ५-२७ ॥
सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् - इति पठित्वा
मूलान्ते-
अमुकदेवतायै दीपं निवेदयामि - इति दीपं निवेद्य देवस्य दृष्टिपर्यन्तमुत्तोल्य परिभ्राम्य घृतयुक्तं चेद्दक्षिणे तैलयुक्तं चेद्वामे सिता वर्तिश्चेद्दक्षिणे रक्ता वर्तिश्चेद्वामे दीपं स्थापयेत् । पुरतस्तु न नियमः ।
ततो देवतायाः पुरतः सामान्यार्घजलेन भूमिं सम्प्रोक्ष्य चतुरस्रमण्डलं कृत्वा तत्र स्वर्णादिनिर्मितं साधारं नैवेद्यपात्रं संस्थाप्य तस्मिन् पात्रे यथोक्तं यथासम्भवं वा नैवेद्यं विधायास्त्रमन्त्रेण सम्प्रोक्ष्य चक्रमुद्रया संरक्ष्य-
य। - इति वायुबीजेन संशोध्य-
र। - इति वह्निबीजेन सन्दह्य दक्षकराग्रेण स्पृष्ट्वा-
व। - इति वरुणबीजमुच्चरन् धेनुमुद्रयाऽमृतीकृय मूलमन्त्रेणाष्टधा कराभ्यामभिमन्त्र्य धेनुमुद्रां प्रदर्श्य-
नमः - इति गन्धपुष्पादिभिरभ्यर्च्य मूलमन्त्रेण पुष्पाञ्जलित्रयं देवतायै दत्वा-
नैवेद्यं षड्रसोपेतं चतुर्विधमिदं तव ।
स्थापितं पुरतो भक्त्या गृहाण तुष्टिमावह ॥ ५-२८ ॥
हेमपात्रस्थितं दिव्यं परमान्नं सुसंस्कृतम् ।
पञ्चषड्रससंयुक्तं गृहाण मम सिद्धये-
प्। ३५४) इति पठित्वा नैवेद्यपात्रं कराभ्यां स्पृष्ट्वा मूलमन्त्रमुच्चार्य-
अमुकदेवतायै इदं यथासम्भवं निवेदयामि नमः स्वाहा-
इति दक्षिणहस्तेन जलमादाय नैवेद्यं समर्पयेत् ।
ततो देवस्य दक्षिणहस्ते-
ॐ अमृतोपस्तरणमसि स्वाहा - इति जलं दत्वा वामहस्तेन विकचोत्पलनिभां ग्रासमुद्रां प्रदर्श्य दक्षिणहस्तेनोक्तमुद्राभिः-
ॐ प्राणाय स्वाहा,
ॐ अपानाय स्वाहा,
ॐ उदानाय स्वाहा,
ॐ व्यानाय स्वाहा,
ॐ समानाय स्वाहा-
इति पञ्चप्राणाहुतीर्हुत्वा पात्रान्तरे जलं निधाय धेनुमुद्रयाऽमृतीकृत्य-
नमस्ते देवदेवेश सर्वतृप्तिकरं वरम् ॥ ५-२९ ॥
अन्यानिवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् ।
परमानन्दसम्पूर्णं गृहाण जलमुत्तमम् - इत्युक्त्वा देवताया वामभागे जलपात्रं निवेश्य मूलेन पुष्पाञ्जलिं दत्वाऽस्त्रमन्त्रेण दिग्बन्धनं विधाय देवतायाः परितो यवनिकां कृत्वा-
अमृतात्मकनैवेद्यं नमः - इत्युच्चार्य धेनुमुद्रां प्रदर्श्य भुञ्जानां देवतां स्मृत्वाऽष्टोत्तरशतं दशधा वा मूलमन्त्रं प्रजप्य-
ॐ अमृतापिधानमसि स्वाहा - इति जलं दद्यात् ।
ततो दक्षिणे स्थण्डिलं कृत्वा वक्ष्यमाणप्रकारेणाग्निं संस्थाप्य तस्मिन्नग्नौ देवतामावाह्य पाद्यादिभिर्गन्धपुष्पादिभिश्च सम्पूज्य घृतयुक्तेन पायसेन वैश्वदेवाख्यं होमं कुर्यात् ।
तत्र प्रथमं सप्रणवाभिर्व्याहृतिभिर्हुत्वा मूलमन्त्रेण पञ्चविंशत्याहुतीर्दद्यात् ।
पुनर्व्याहृतिभिर्हुत्वा पञ्चोपचारैर्देवतां सम्पूज्य पीठमूर्तौ तां संयोज्य वह्निं विसृजेत् ।
ततः शिष्टेन पायसेन-
ॐ अमुकदेवतायाः पार्षदेभ्य एष वलिर्नमः - इति पार्षदेभ्यो गन्धपुष्पाक्षतसहितं वलिं विसृजेत् ।
ततो यवनिकामुद्घाट्य देवेन यथेष्टं भुक्तं नैवेद्यं सम्भाव्य नैवेद्यपात्रं नैर्-ऋतेयदिशि संस्थाप्य नैवेद्यस्थानमस्त्रमन्त्रेण गोमयाद्भिः संशोध्य देवोच्छिष्टं किञ्चित् समादाय-
प्। ३५५) ॐ निर्माल्यभोजिने नमः - इत्यैशान्यां दिशि क्षिपेत् ।
ततो हस्तौ प्रक्षाल्य ताम्बूलमादाय पुरतः संस्थाप्य-
एलालवङ्गखदिरचूर्णपूगादिसंयुतम् ॥ ५-३० ॥
ताम्बलं देवदेवेश गृहाण त्वं प्रसीद मे - इति पठित्वा-
मूलान्ते-
अमुकदेवतायै इदं ताम्बूलं निवेदयामि स्वाहा - इति निवेद्य मूलेन गन्धपुष्पादिभिस्त्रिवारं पूजयेत् ।
ततो दर्पणं प्रदर्श्य छत्रचामरादिकं निवेद्य शक्तिविषये तु स्वकल्पोक्तमन्त्रेण देवतायै माषभक्तादिबलिं दत्वा आग्नेयादिषु पूर्वदक्षिणोत्तरपश्चिमभागेषु वा यथाक्रमं गणेशवटुकक्षेत्रपालयोगिनीभ्यो बलिं दद्यात् ।
तत्र क्रमस्तु-
मण्डलानि कृत्वा बलिपात्राणि संस्थाप्य-
ग। गणेशाय बलिमूर्तये नमः - इत्यादिमन्त्रेण वलिं सम्पूज्य-
गा। गणेशाय नमः ।
वा। वटुकाय नमः ।
क्षा। क्षेत्रपालाय नमः ।
या। योगिनीभ्यो नमः ।
इति मन्त्रैर्गन्धपुष्पादिभिस्तानभ्यर्च्य-
गा। गी। गू। गणपतये वर वरद सर्वजनं मे वशमानय वलिं गृह्ण २ स्वाहा - एष वलिर्गणपतये नमः-
इति गणेशाय वलिं दत्वा-
एह्येहि देवीपुत्र वटुकनाथ कपिलजटाभार भासुर त्रिनेत्र ज्वालामुख सर्वविघ्नान् नाशय सर्वोपचारसहितं वलिं गृह्ण २ स्वाहा - एष वलिं वटुकाय नमः - इति वटुकाय वलिं दत्वा-
क्षां क्षी। क्षू। क्षै। क्षौ। क्षः क्षेत्रपालाय धूपदीपादिसहितं वलिं गृण २ स्वाहा � एष वलिः क्षेत्रपालाय नमः � इति क्षेत्रपालाय वलिं दत्वा -
या। योगिनिभ्याः? नमः?
प्। ३५६) ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा
पाताले वाऽनले वा सलिलपवनयोर्यत्र तत्र स्थिता वा ।
क्षेत्रे पीठोपपीठादिषु च कृतपदाः पुष्पधूपादिकेन
प्रीता देव्यः सदानः शुभविधि वलिना पान्तु वीरेन्द्रवन्द्याः ॥ ५-३१ ॥
एष वलिर्योगिनिभ्यो नमः - इति योगिनीभ्यो वलिं दद्यात् ।
वैष्णवादौ तु भूतवलिमात्रम् ।
ततो भूतवलिं दद्यात् ।
तद्यथा-
ईशाने मण्डलं कृत्वा अन्नव्यञ्जनपुष्पाक्षतजलादियुक्तं साधारं वलिपात्रं संस्थाप्य तत्र-
ॐ सर्वेभ्यो भूतेभ्यो नमः - इति गन्धपुष्पादिभिः सम्पूज्य-
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ।
योगिन्योऽप्युग्ररूपाश्च गणानामधिपाश्च ये ॥ ५-३२ ॥
भूचराः खेचराश्चैव ये तिष्ठन्त्यन्तरिक्षगाः ।
सर्वे ते प्रीतमनसो भूत्वा गृह्णन्त्विमं वलिम् ॥ ५-३३ ॥
इति पठित्वा वामहस्तेन तत्पात्रे जलधारां समर्प्य-
ॐ सर्वेभ्यो भूतेभ्य एषोऽन्नवलिर्नमः - इति दक्षहस्तेनोत्सृजेत् ।
ततः पुष्पाञ्जलिमादाय प्रार्थयेत् ।
भूतानि यनीह वसन्ति भूतले
वलिं गृहीत्वा विधिवत् प्रयुक्ताम् ।
सन्तोषमासाद्य व्रजन्तु सर्वे
क्षमन्तु तान्यत्र नमोऽस्तु तेभ्यः ॥ ५-३४ ॥
इति सम्प्रार्थ्य पुष्पाञ्जलिं दत्वा नत्वा च-
भूतानि यथासुखं विहरन्तु - इति नाराचमुद्रया विसृजेत् ।
ततो मूलमष्टोत्तरसहस्रं प्रजप्य-
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
प्। ३५७) सिद्धिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते-
इति जपं निवेद्य यथाशक्ति स्तुत्वा प्रणम्य आसनादुत्थाय त्रिः परिक्रम्य साष्टाङ्गं प्रणमेत् ।
तत ईशानस्थे पूर्वसञ्चितविकिरपुञ्जेषु सुवर्णगर्भां वस्त्रवेष्टितां जलपूरितां वर्द्धनीं संस्थाप्य-
सिंहस्थां खड्गखेटकधारिणीं घोररूपां पश्चिमास्याम् - अस्त्रदेवतां ध्यात्वा तस्यामावाह्य-
फट् अस्त्रदेवतायै नमः - इति मन्त्रेण पञ्चोपचारैश्चलासनेनैव सम्पूज्य तां कर्करीमादाय-
अमुकदेवताज्ञया इन्द्रामुकदेवयजनं रक्ष - इत्यादिसकललोकपालान् भावयन् नालाद्वारिधारां विमोच्य मण्डपाभ्यन्तरं प्रदक्षिणीकृत्य-
फट् - इत्यस्त्रमन्त्रमुच्चार्य यथास्थानं निवेशयेत् ।
ततः स्थिरासनो भूत्वा गन्धाद्यैरुपचारैः पूर्ववत् सम्पूज्य प्रणमेत् ।
तत आचार्यः स्वीयकुण्डे पूर्वेशानमध्यस्थे विधिवदग्निसंस्कारं कुर्यात् ।
तत्रादौ कुण्डस्थानमागत्यासने उपविश्य तत्त्वत्रयेणाचम्य कुशत्रयतिलजलान्यादाय सङ्कल्पं कुर्यात् ।
तद्यथः-
ॐ अद्य - इत्यादिदेशकालौ सङ्कीर्त्य-
अमुकगोत्रोऽमुकदेवशर्माऽमुकगोत्रामुकशर्मकर्त्तृकामुक-देवतामुकमन्त्रदीक्षाकर्माङ्गभूतहोमकर्माहं करिष्ये - इति सङ्कल्प्य पूर्वोक्तमन्त्रेण सूर्यार्घं दत्वा सामान्यार्घं संस्थाप्य कुण्डस्य वीक्षणाद्यष्टादशसंस्कारान् कुर्यात् ।
तद्यथा-
मूलमन्त्रमुच्चरन् कुण्डं पश्येदिति वीक्षणम् ।
फट् - इत्यस्त्रमन्त्रेण प्रोक्षणम् ।
तेनैव मन्त्रेण दर्भैस्त्रिधा ताडनम् ।
हु। - इति कवचमन्त्रेणा भ्युक्षणम् ।
फट् - इत्यस्त्रमन्त्रेणाङ्गुलमानेन खननम् ।
तेनैव मन्त्रेणाङ्गुष्ठानामिकाभ्यां मृत्तिकोद्धरणम् ।
प्। ३५८) नमः - इति हृन्मन्त्रेण पुनर्मृत्तिकाभिः पूरणम् ।
अस्त्रमन्त्रेण समीकरणम् ।
हु। - इति जलेन सेचनम् ।
फट् - इति कुट्टनम् ।
तच्चकाष्ठादिना हस्तेनैव वा दृढीकरणम् ।
ततः-
हु। - इति मन्त्रेण कुशमुष्टिना कुण्डे मृदं मार्जयेदिति मार्जनम् ।
तेनैव मन्त्रेण गोमयेनोपलयेदिति लेपनम् ।
तत्रस्तेनैव मन्त्रेण कुण्डमध्ये सोमसूर्याग्निकलाश्चिन्तयेदिति कलारूपकल्पनम् ।
हु। - इति कवचमन्त्रमुच्चरन् सूत्रत्रयेण कुण्डमेखलास्त्रिवारं वेष्टयेदिति त्रिसूत्रीकरणम् ।
ॐ अमुककुण्डाय नमः - इति मन्त्रेण कुण्डं पूजयेदित्यर्चनम् ।
कुण्डार्चनानन्तरम्-
ॐ अमुककुण्डनाभये नमः - ॐ अमुककुण्डमेखलाभ्यो नमः-
इति पूजयेत् ।
अस्त्रमन्त्रेण कुण्डं वज्रवद्दृढं चिन्तयेदिति वज्रीकरणम् ।
कुण्डमध्ये पूर्वाग्रं कुशं निधाय तदुपर्युत्तराग्रं कुशं निधायोपरि विष्टरं न्यस्य तदुपरि पुष्पं दत्वा-
नमः - इति हृन्मन्त्रेण पूजयेदिति चतुष्पथीकरणम् ।
अस्त्रमन्त्राभिमन्त्रितानच्छिन्नाग्रान् कुशान् मेखलासु कवचमन्त्रमुच्चरन्नास्त्ररेदित्य क्षपाटनम् ।
इत्यष्टादशसंस्कारान् कुर्यात् ।
अष्टादशसंस्कारकरणाशक्तस्तु पूर्वोक्तवीक्षणादिसंस्कारचतुष्टयमेव कुर्यात् ।
वाममार्गे तु संस्कारचतुष्टयमेव कुर्यात् ।
ततः कुण्डमध्ये दर्भमूलेन स्रुवमूलेन वा-
नमः - इत्युच्चरन् प्रागग्रास्तिस्रो रेखा उदगग्रास्तिस्रो रेखा लिखेत् ।
तत्र प्रागग्रा रेखा दक्षिणोपक्रमा उदगपवर्गा उदगग्राश्च पश्चिमोपक्रमाः प्रागपवर्गा इति लिखनक्रमः ।
अथ वा त्रिकोणगर्भं वृत्तवेष्टितं षट्कोणं लिखेदिति (शारदायाम्) उक्तम् ।
उक्तरेखाषट्कं तादृशषट्कोणं च लिखेदिति (मेरुतन्त्रे) प्रोक्तम् ।
प्। ३५९) त्रिकोणमध्ये लज्जाबीजं प्रणवं च लिखेदित्यपि क्वचिदुक्तम् ।
ततः-
प्रागग्ररेखासु- उदग्ररेखासु-
ॐ मुकुन्दाय नमः । ॐ ब्रह्मणे नमः ।
ॐ ईशानाय नमः । ॐ वैवस्ताय नमः ।
ॐ पुरन्दराय नमः । ॐ इन्दवे नमः ।
इति लिखनक्रमेणैव गन्धपुष्पादिभिः पूजयेत् ।
ततो मूलमुच्चार्य-
अमुकदेवताकुण्डाय नमः - इति पूजयेत् ।
श्रीविद्याविषये तु-
ऐ। ह्री। श्री। ऐ। क्ली। सौ।ः मुकुन्दाय नमः - इत्यादिक्रमेणैव पूजयेत् ।
ततः प्रणवमुच्चरन् सामान्यार्घजलेनाभ्युक्ष्य योगपीठदेवताः पूजयेत् ।
तद्यथा - कुण्डमध्ये घटस्थापनोक्तक्रमेण-
ॐ आधारशक्तये नमः - इत्यादि-
ॐ रत्नसिंहासनाय नमः - इत्यन्तं सम्पूज्य अग्न्यादिकोणेषु धर्मादीनभ्यर्च्य पूर्वादिदिक्षु अधर्मादीन् पूजयेत् ।
ततोऽष्टदलकमलं विचिन्त्य-
ॐ अनन्ताय नमः - इत्यादि-
ह्री। ज्ञानात्मने नमः - इत्यन्तं सम्पूज्य-
पूर्वादिकेशरेषु-
ॐ जयायै नमः ।
ॐ विजयायै नमः ।
ॐ अजितायै नमः ।
ॐ अपराजितायै नमः ।
ॐ नित्यायै नमः ।
ॐ विलासिन्यै नमः ।
ॐ दोग्ध्र्यै नमः ।
ॐ अघोरायै नमः ।
मध्ये-
ॐ मङ्गलायै नमः - इति पीठशक्तीः पूजयेत् ।
प्। ३६०) वैष्णवे तु-
ॐ विभूत्यै नमः ।
ॐ उन्नत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ सृष्ट्यै नमः ।
ॐ कीर्त्यै नमः ।
ॐ सन्नत्यै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ उत्कृष्ट्यै नमः ।
ॐ ऋद्ध्यै नमः ।
इति पीठशक्तीः पूजयेत्
ततः-
ह्री। वागीश्वरीवागीश्वरयोर्योगपीठात्मने नमः - इति पीठमन्त्रेण पीठं पूजयेत् ।
ह्री। सर्वशक्तिकमलासनाय नमः - इति मन्त्रेण वा पूजयेत् ।
वैष्णवे तु-
श्रीलक्ष्मीनारायणयोर्योगपीठात्मने नमः - इति पूजयेत् ।
ततः-
वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् ॥ ५-३५ ॥
वागीश्वरेण संयुक्ताम् ॥॥॥॥॥॥॥॥॥॥ इति ध्यात्वा-
श्रीविद्यायां तु-
कामेश्वरीं कुण्डमध्ये सकामामृतुसंयुताम् - इति ध्यात्वा-
वैष्णवे तु-
लक्ष्मीमृतुमतीं तत्र प्रभोर्नारायणस्य च ।
ग्राम्यधर्मेण संयुक्ताम् ॥॥॥॥॥॥ इति ध्यात्वा तत्रावाह्य आवाहनादिमुद्राः प्रदर्श्य-
ह्री। वागीश्वरीवागीश्वराभ्यां नमः ।
श्रीविद्यापक्षे तु-
क्ली। कामेश्वरीकामेश्वराभ्यां नमः ।
वैष्णवे तु-
श्री। लक्ष्मीनारायणाभ्यां नमः - इति मन्त्रेण पञ्चोपचारैः पूजयेत् ।
प्। ३६१) एवं सौरेऽपि-
अथ वा शैवशाक्तादौ-
कामोन्मत्तं शिवमृतुमतीं भुवनेश्वरीम् - ध्यात्वा-
ह्री। भुवनेश्वरीशिवाभ्यां नमः - इति मन्त्रेण पूजयेत् ।
ततः सूर्यकान्तादिसम्भूतमरणिसम्भवं वा श्रोत्रियगेहजं वा वह्निं स्वर्णपात्राद्यन्यतमपात्रे निधाय पात्रान्तरेणाच्छाद्य समानीय-
फट् - इत्यस्त्रमन्त्रेणाग्निं स्वदक्षिणे समाधाय-
हु। - इति कवचमन्त्रेणाच्छाद्य तस्मात् क्रव्यादांशमादाय-
हु। फट् - इति नैर्-ऋत्ये क्षिपेत् ।
ततोऽवशिष्टमग्निं देवांशं विचिन्त्य मूलमन्त्रेण पुरतः संस्थाप्य कुण्डसंस्कारोक्तक्रमेण वीक्षणादिभिश्चतुर्भिः संस्कृत्य औदर्यवैन्देवाग्निभ्यां भौमस्य वह्निरैक्यं भावयेत् । वैन्दवो भ्रूमध्यस्थो वह्निः ।
ततः-
र। वह्निचैतन्यं कल्पयामि - इति ।
हु। र। चैतन्यं ते नमः - इति मन्त्रेण वा पावकचैतन्यं संयोज्य प्रणवेणाष्टोत्तरशतं दशधा वाऽभिमन्त्र्य धेनुमुद्रयाऽमृतीकृत्य-
फट् - इति संरक्ष्य-
हु। - इत्यवगुण्ठ्य गन्धपुष्पादिभिः पूजयेत् ।
र। वह्निमूर्तये नमः - इत्यभ्यर्च्य कुण्डस्योपरि प्रादक्षिण्येन त्रिः परिभ्राम्य जानुस्पृष्टमहीतलः प्रणवोच्चारणपूर्वकमात्मनोऽभिमुखं शिवबीजधिया देव्या योनौ निःक्षिपेत् ।
शिवबीजधिया शैवशाक्तादौ वैष्णवादौ तु विष्ण्वादिबीजधियेति बोध्यम् ।
ततः-
ह्री। वागीश्वरीवागीश्वराभ्यामाचमनीयं नमः - इत्याचमनीयं दत्वा-
वह्निरूपां देवताम् - देव्या गर्भे धृतां ध्यात्वा गर्भरक्षार्थं दर्भकङ्कणं दत्वा-
चित्पिङ्गल - हन २ दह २ पच २ सर्वाज्ञा ज्ञापय स्वाहा-
इति मन्त्रेण ज्वालिनीमुद्रया वह्निं प्रज्वालयेत् ।
(रुद्रयामले तु)-
प्। ३६२) ह्री। ह्री। ज्वल २ प्रज्वल २ हु। फट् स्वाहा - इति मन्त्रेणाग्निप्रज्वालनमुक्तम् ।
ततः कृताञ्जलिः-
ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ॥ ५-३६ ॥
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् - इत्यनेन वह्निमुपतिष्ठेत् ।
ततः प्रादेशमात्रां मूलाग्रयोर्घृतसम्प्लुतां समिधं वह्नौ तूष्णीं हुत्वा पूजाप्रकरणोक्तक्रमेण गणेशादिवन्दनदिग्-बन्धनभूतशुद्धिप्राणायाममातृकान्यासमूलन्यासान् विधाय स्वदेहे वह्निजिह्वान्यासं कुर्यात् ।
तत्र सात्त्विकीनां जिह्वानां न्यासः ।
यथा-
स्प्रू। हिरण्यायै नमः - लिङ्गे ।
ष्प्रू। गगनायै नमः - पायौ ।
श्प्रू। रक्तायै नमः - मूर्ध्नि ।
व्प्रू। कृष्णायै नमः - वक्त्रे ।
ल्प्रू। सुप्रभ्भायै नमः � घ्राणे ।
र्प्रू। बहुरूपायै नमः � नेत्रे ।
य्प्रू। अतिरिक्तायै नमः � सर्वाङ्गे ।
एताः सात्त्विक्यो जिह्वाः सात्विककर्मसु ।
काम्यादौ तु-
पद्मरागा सुवर्णा भद्रलोहिता लोहिता श्वेता धूमिनी करालिका - इति राजस्यो जिह्वा न्यसनीयाः ।
क्रूरकर्मणि-
विश्वमूर्तिः स्फलिङ्गिनी धूम्रवर्णा लोहिता कराला काली - इति तामस्यो जिह्वा न्यसनीयाः । बीजानि तु पूर्वोक्तान्येव ।
ततस्तान्येव बीजान्यादौ दत्वा तेष्वेव स्थानेषु-
अमर्त्त्यपितृगन्धर्वयक्षनागपिशाचराक्षसान् - सप्तजिह्वाधिष्टातॄन् देवानपि क्रमेण न्यसेत् ।
स्प्रू। अमर्त्त्याय नमः - इत्यादि ।
तत ऋष्यादिन्यासं कुर्यात् ।
यथा-
अग्निमन्त्रस्य बृगू ॠषिर्गायत्री छन्दोऽग्निर्देवता र। बीजं स्वाहा शक्तिरग्नियजने विनियोगः ।
प्। ३६३) भृगवे ऋषये नमः - शिरसि ।
गायत्रीछन्दसे नमः - मुखे ।
अग्नये देवतायै नमः - हृदये ।
र। बीजाय नमः - गुह्ये ।
स्वाहायैशक्तये नमः - पादयोः ।
अग्नियजने विनियोगः-
इति बद्धाञ्जलिः ।
ततः करन्यासः ।
ॐ सहस्रार्चिषि अङ्गुष्ठाभ्यां नमः । ॐ स्वस्तिपूर्णायतर्जनीभ्यां नमः स्वाहा । ॐ उतिष्ठपुरुषाय मध्यमाभ्यां वषट् । ॐ धूमव्यापिने अनामिकाभ्यां हु। । ॐ सप्तजिह्वाय कनिष्ठिकाभ्यां वौषट् । ॐ धनुर्धराय करतलपृष्ठाभ्यां फट् ।
एवं हृदयाद्यष्टन्यासः ।
ततो मूर्त्तिन्यासं कुर्यात् ।
तद्यथा-
ॐ अग्नये जातवेदसे नमः - मूर्ध्नि ।
ॐ अग्नये स्प्तजिह्वाय नमः - दक्षांशे ।
ॐ अग्नये हव्यवाहनाय नमः - दक्षपार्श्वे ।
ॐ अग्नये अश्वोदरजाय नमः - दक्षकटौ ।
ॐ अग्नये वैश्वानराय नमः - लिङ्गे ।
ॐ अग्नये कौमारतेजसे नमः - वामकद्याम् ।
ॐ अग्नये विश्वमुखाय नमः - वामपार्श्वे ।
ॐ अग्नये देवमुखाय नमः - वामांशे ।
इति मूर्त्तिन्यासः ।
ततः पीठन्यासं कुर्यात् ।
तद्यथा - आधारशक्त्यादिवह्निमण्डलान्तमुक्तस्थानेषु विन्यस्य हृत्पद्मस्य पूर्वादिकेशरेषु-
ॐ पीतायै नमः,
ॐ श्वेतायै नमः,
ॐ अरुणायै नमः,
ॐ कृष्णायै नमः,
प्। ३६४) ॐ धूम्रायै नमः,
ॐ तीव्रायै नमः,
ॐ स्फुलिङ्गिन्यै नमः,
ॐ रुचिरायै नमः,
ॐ ज्वालिन्यै नमः - मध्ये
इति वह्नेर्नव शक्तीः पीठे विन्यस्य तत्रैव-
र। वह्नेर्योगपीठाय नमः - इति पीठन्यासं विधाय वह्निं ध्यायेत् ।
ध्यानं यथा ।
इष्टं शक्तिं स्वस्तिकाभीतिमुच्चै-
र्दीर्घैर्दोर्भिर्धारयन्तं यवाभम् ।
हेमाकल्पं पद्मसंस्थं त्रिनेत्रं
ध्यायेद्वह्निं बद्धमौलिं जटाभिः - इदं (शारदो-)क्तध्यानम् ।
(रुद्रयामलो-)क्तध्यानम् ।
यथा-
बन्धूकपुष्पसङ्काशं सुतप्तकनकप्रभम् ।
पद्मस्थं यजमानार्थं वदनद्वयशोभितम् ॥ ५-३७ ॥
सप्तच्छन्दोमयं देवं विमानोपरिसंस्थितम् ।
त्रिधा ग्रीवं त्रिपादाब्जं हव्यकव्यविनाशनम् ॥ ५-३८ ॥
ब्रह्माध्वर्यूद्गातृहोतृचतुःशृङ्गविराजितम् ।
पञ्चरात्रं पाशुपतं कापिलं च महामतम् ॥ ५-३९ ॥
बौद्धं वेदिकामित्येतत् षट्पिङ्गलविलोचनम् ।
वेदार्थं च चतुःश्रोत्रं श्रौतशास्त्रमयध्वनिम् ॥ ५-४० ॥
सपाटलजटाबद्धमौलिकोटीरभास्वरम् ।
हेमालङ्कारसंयुक्तं हेमकुण्डलमण्डितम् ॥ ५-४१ ॥
रक्ताम्भोरुहमध्यस्थं स्वस्तिकासनसंस्थितम् ।
पृष्ठदेशसमालम्बि तार्त्तीयचरणाम्बुजम् ॥ ५-४२ ॥
प्। ३६५) महाशब्दायमानं च राजमानं स्वतेजसा ।
शक्तिं वज्रं स्रुक्स्रुवं च चतुर्भिर्दक्षबाहुभिः ॥ ५-४३ ॥
तोमलं तालवृन्तं च सौवर्णं घृतपात्रकम् ।
वामैस्त्रिभिर्बाहुभिश्च दधानं रक्तवाससम् ॥ ५-४४ ॥
हिरण्या कनका रक्ता कृष्णा दक्षानने स्थिता ।
सुप्रभा चातिरक्ता च बहुरक्ता च जिह्विका ॥ ५-४५ ॥
इमा रसज्ञास्तद्वामवदने नित्यमास्थिताः ।
एताभिः सप्तजिह्वाभिरुपेतं पाटिताननम् ॥ ५-४६ ॥
इति ध्यात्वा वह्निदेवतात्मकमात्मानं विचिन्त्य मानसैरुपचारैरभ्यर्च्य-
र। आत्ममूर्तये वह्नये नमः - इति मन्त्रेण नैवेद्यरहितैर्गन्धादिभिर्वाह्योपचारैरप्यात्मानं सम्पूज्य सामान्यार्घजलेन मेखलाः परिषिञ्च्य गर्भशून्यैर्दर्भैरग्रैः परिस्तरणं कुर्यात्-
परिस्तरणं च ।
एकमेखलकुण्डे मेखलाया अधस्तात् द्विमेखले कुण्डे द्वितीयमेखलोपरि त्रिमेखलाकुण्डे मध्यमेखलायां कुर्यात् ।
तत्क्रमश्च-
दक्षिणोत्तरयोः पूर्वाग्रैः पूर्वपश्चिमयोरुत्तराग्रैर्दभैर्मूलभागानग्रभागैराच्छादयन् परिस्तरेदिति ।
ततः प्राचीं विहाय दक्षिणोत्तरपश्चिमेषु पलाशादिवृक्षसम्भवान् हस्तमात्रान् सविष्टारान् परिधीन् निःक्षिप्य तेषु प्रदक्षिण्येन �
ॐ ब्रह्मणे नमः । ओंविष्णवे नमः । ॐ रुद्राय नः ।
इति पूजयेत् ।
ततो मेखलासु �
ॐ वामायै नमः ।
ॐ ज्येष्ठायै नमः ।
ॐ रौद्र्यै नमः ।
ॐ अम्बिकायै नमः �
इति पूर्वादिप्रादक्षिण्येन सम्पूज्य �
र। वह्नये आसनं कल्पयामि नमः � इति आसनं दत्वा कुण्डमध्ये
प्। ३६६) सचतुर्द्वारं चतुरस्रत्रयावृतमष्टदलकमलं विचिन्त्य प्राग्लिखितपीठपूजाक्रमेणाधारशक्त्यादिवह्निमण्डलान्तं मण्डूकादिज्ञानात्मान्तं वा सम्पूज्य वह्न्यासनपद्मस्य पूर्वादिदलमूलेषु मध्ये च पूर्वोक्तनवशक्तीरभ्यर्च्य-
र। वह्नेर्योगपीठात्मने नमः - इति ।
सर्वशक्तिकमलासनाय नमः - इति मन्त्रेण वा पीठं सम्पूज्य मूलमन्त्रान्ते-
र। वह्नेर्मुर्त्तिं कल्पयामि नमः - इति मूर्तिं परिकल्प्य पुनर्वह्नि ध्यात्वा-
ॐ वैश्वानरजातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा भगवन्नग्ने इहागच्छागच्छ-
ॐ वैश्वानरजातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा - इत्यावाहयेत् ।
आद्यन्तयोर्मूलमन्त्रोच्चारणं च पूर्वोक्तप्रमाणसिद्धम् ।
ततः-
र। आवाहितो भव, संस्थापितो भव - इत्यादिक्रमेणावाहनादिमुद्राः प्रदर्श्य प्राणप्रतिष्ठां कुर्यात् ।
यथा-
ॐ आ। ह्नी। क्रो। य। र। ल। व। श। ष। स। ह। ह।सः सोऽहं र। वह्नेः प्राणा इह २ स्थिताः ।
एवम्-
जीव इह २ स्थितः ।
एवम्-
सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।
एवं प्राणप्रतिष्ठां विधाय-
ॐ वैश्वानरजातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा - इदं पाद्यं वह्नये नमः - इत्यादिक्रमेण पाद्यार्घाचमन-न्ना?नगन्धपुष्पधूपदीपनैवेद्यताम्बूलानि निवेद्य-
प्। ३६७) ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा - श्रीपादुकां पूजयामि नमः - इति पुष्पाञ्जलिना वारत्रयमभ्यर्च्य आवरणार्चनं कुर्यात् ।
तद्यथा-
षट्कोणेषु मध्ये च ईशानादिक्रमेण हिरण्यादिसप्तजिह्वाः पूजयेत् ।
यथा-
स्प्रू। हिरण्यायै नमः ।
ष्प्रू। गगनायै नमः ।
श्प्रू। रक्तायै नमः ।
व्प्रू। कृष्णायै नमः ।
ल्प्रू। सुप्रभायै नमः ।
र्प्रू। बहुरूपायै नमः ।
य्प्रू। अतिरिक्तायै नमः ।
वैष्णवे तु-
प्रभा दीप्तिः प्रकाशा मरीचिस्तापिनी कराला लेलिहाना - चेति सप्त जिह्वाः पूज्याः ।
ततः केशरेष्वङ्गदेवताः पूजयेत् ।
यथा-
ॐ सहस्रार्चिषे हृदयाय नमः - आग्नेये ।
ॐ स्वस्तिपूर्णाय शिरसे स्वाहा - ईशाने ।
ॐ उत्तिष्ठपुरुषाय शिखायै वषट् - नैर्-ऋत्ये ।
ॐ धूमव्यापिने कवचाय हु। - वायव्ये ।
ॐ सप्तजिह्वाय नेत्रत्रयाय वौषट् - मध्ये ।
वैष्णवादौ तु नेत्राभ्यामिति ज्ञेयम् ।
चतुर्दिक्षु-
ॐ धनुर्धरायास्त्राय फट् - इति सम्पूज्य-
पूर्वादिदलेषु-
ॐ अग्नये जातवेदसे नमः ।
ॐ अग्नये सप्तजिह्वाय नमः ।
ॐ अग्नये हव्यवाहनाय नमः ।
ॐ अग्नये अश्वोदरजाय नमः ।
ॐ अग्नये वैश्वानराय नमः ।
ॐ अग्नये कौमारतेजसे नमः ।
ॐ अग्नये विश्वमुखाय नमः ।
ॐ अग्नये देवमुखाय नमः-
प्। ३६८) इत्यष्टमूर्तीरभ्यर्च्य मेखलाश्रितदर्भेषु पूर्वादिक्रमेणेन्द्रादीन् तद्बहिर्वज्रादीन् सम्पूज्य-
ॐ वैश्वानर जातवेद इहावह लोकिताक्ष सर्वकर्माणि साधय स्वाहा साङ्गाय सायुधाय सवाहनाय सालङ्काराय सपरिवाराय वह्नये श्रीपादुकां पूजयामि नमः - इति सम्पूज्य पात्राण्यासादयेत् ।
तद्यथा-
स्ववामभागे प्रागग्रान् दर्भानास्तीर्य तदुपर्यस्त्रमन्त्रितज-लेन प्रक्षालितानि युग्मरूपाणि स्रुक्स्रुवप्रोक्षणीप्रणीताज्यस्थाली-चरुस्थाल्यादिपात्राण्यधोमुखीकृत्य विन्यसेत् ।
यद्यपि पूजोपयुक्तप्रोक्षणीपात्रस्य स्वदक्षिणे स्थापनमुक्तं तथाऽपि होमोपयुक्तं तत्प्रणीतादिपात्रवद्वाम एव स्थापनीयम् ।
स्रुक्स्रुवयोरेव दक्षिणेऽभिधानादिति श्रीविद्यापद्धतिकृतः स्रुक्स्रुवावपि पूर्वं वाम एवासाद्य संस्कारोत्तरं दक्षिणे स्थाप्यौ ।
ततस्तानि पात्राणि पवित्रेणोत्तानानि विधाय पुनः प्रक्षाल्य सामान्यार्घजलेन सम्प्रोक्ष्य-
नमः - इति हृन्मन्त्रमुच्चरन् शुद्धजलेन प्रोक्षणीपात्रमापूर्य आधारपात्रजलेषु क्रमेण विम्बत्रयमभ्यर्च्य-
ॐ गङ्गे च यमुने चैव - इत्यादिनाऽङ्कुशमुद्रया सूर्यमण्डलात् तीर्थमावाह्य अस्त्रेण संरक्ष्य कवचेनावगुण्ठ्य प्रणवेन गन्धपुष्पाक्षतपवित्राणि निःक्षिप्य कूर्चे निधाय प्रणवेनाष्टधाऽभिमन्त्र्य धेनुमुद्रां प्रदर्श्य प्रणीतापात्रमपि शुद्धजलेनापूर्व गन्धपुष्पाक्षतपवित्राणि निःक्षिपेत् ।
ततः प्रणीतापात्रस्थं किञ्चिज्जलं प्रोक्षणीपात्रे निःक्षिप्य तज्जलेन हृन्मन्त्रं मूलमन्त्रमुच्चरन् यागद्रव्याणि प्रोक्षयेत् ।
इति पात्रासादनम् ।
द्रव्यशोधनं च विधाय ब्रह्माणं वृणुयात् ।
यथा-
तद्देवतामन्त्रदीक्षितं ब्रह्माणं कुण्डदक्षिणभागे कुशासने उपविश्य-
ॐ अद्येत्यादि अमुकगोत्रोऽमुकदेवशर्माऽमुकदेवताऽमुकमन्त्र-दीक्षाकर्माङ्गभूतेऽस्मिन् होमकर्माणि अमुकगोत्रममुकदेवशर्माणं भवन्तं ब्रह्माणमहं वृणे ।
प्। ३६९) वृत्तोऽस्मि - इति प्रतिवचनम् ।
इति वृत्वा-
ॐ ब्रह्मणे नमः - इति मन्त्रेण गन्धादिभिर्वासोलङ्कारादिभिश्च पूजयेत् ।
ततः स्रुक्स्रुवौ संस्कुर्यात् ।
यथा-
ऊर्ध्वमुखौ स्रुक्स्रुवौ हस्ताभ्यां गृहीत्वाऽधोमुखौ विधाय वारत्रयमग्नौ प्रताप्य वामहस्तेन तौ धृत्वा दक्षिणहस्तेन दर्भानादाय तैर्दर्भैस्तयोरग्रमूलमध्यानि शोधयेत् ।
शोधनक्रमश्च-
अग्रेणाग्रं मूलेन मूलं मध्येन मध्यमिति ।
ततः सामान्यार्घप्रोक्षणीजलाभ्यां सम्प्रोक्ष्य पुनर्वह्नौ प्रताप्य दर्भानग्नौ प्रक्षिपेत् ।
ततः स्वदक्षिणे कुशानास्तीर्य तदुपरि तौ स्थापयेत् ।
तत आज्यं संस्कुर्यात् ।
तद्यथा - आज्यस्थालीमादायास्त्रमन्त्रितजलेन सम्प्रोक्ष्य तस्यामान्यं निधाय मूलमन्त्रेण वीक्ष्य-
अस्त्राय फट् - इति सम्प्रोक्ष्य तेनैव मन्त्रेण दर्भैः सन्ताड्य-
हु। - इत्यर्घजलेनाभ्युक्षणं कुर्यात् ।
इति संस्कारचतुष्टयं कृत्वा कुण्डादङ्गारानुद्धृत्य वायुकोणे संस्थाप्य तेष्वङ्गारेषु-
नमः - इति मन्त्रेणाज्यस्थालीं स्थापयेत् । इदं तापनम् ।
ततो दर्भयुगलं प्रज्वाल्याज्ये निःक्षिप्य दग्धशेषम्-
नमः - इति मन्त्रेण वह्नौ निःक्षिपेत् । इदं पवित्रीकरणम् ।
पुनर्ज्वलितेन दर्भयुगलेन-
हु। - इति मन्त्रमुच्चरन् घृतं नीराज्य अग्नौ निःक्षिपेत् । इत्यभिद्योतनम् ।
ततः प्रज्वालितकुशमुष्टिं गृहीत्वा-
अस्त्राय फट् - इति मन्त्रमुच्चरन् प्रदर्श्याग्नौ प्रक्षिपेत् इत्युद्योतनम् ।
तस्मादङ्गारादाज्यस्थालीमानीयात्मसम्मुखे संस्थाप्य तानङ्गारानग्नौ प्रक्षिप्याङ्गारस्थानमार्जनं कृत्वा जलं स्पृशेत् ।
तत उत्तानहस्तयोरङ्गुष्ठोपकनिष्ठाभ्यां प्रादशेमात्रं पवित्रं पृथक् पृथक् धृत्वा-
अस्त्राय फट् - इति मन्त्रमुच्चरन् वह्नेः सम्मुखमुत्प्लुनीयात् ।
प्। ३७०) ततः पवित्रं स्थानान्तरे संस्थाप्य पुनस्तेनैव प्रकारेण दर्भद्वयं गृहीत्वा तेन दर्भयुग्मेन-
नमः - इति मन्त्रमुच्चरन्नात्मसम्मुखं घृतं सम्प्लाव्य पूर्वस्थापितपवित्रद्वयमेतत्पवित्रयुग्मं च वह्नौ क्षिपेत् । इत्युत्प्लवनसम्प्लवने उभयमपि प्लावनमेव ।
ततः प्रादेशमात्रं सग्रन्थि दर्भयुगलमाज्यस्थाल्यां घृतमध्ये निःक्षिप्याज्यदक्षिणभागं शुक्लपक्षमाज्यवामभागं कृष्णपक्षं विचिन्त्य वामे इडां दक्षिणे पिङ्गलां मध्ये सुषुम्णां ध्यात्वा होमं कुर्यात् ।
यथा - स्रुवेण-
नमः - इति मन्त्रमुच्चरन् दक्षिणभागाद्घृतमादाय-
ॐ अग्नये स्वाहा अग्नये इदं नमः - इत्यग्नेर्दक्षिणलोचने जुहुयात् । सम्पातमाज्यं तत्रैव दक्षिणभागे निःक्षिपेत् ।
पुनः-
नमः - इति वामभागाद्घृतमादाय-
ॐ सोमाय स्वाहा सोमायेदं नमः - इति वामलोचने जुहुयात् ।
सम्पाताज्यं तत्रैव वामभागे स्थापयेत् ।
पुनरेवं मध्यभागाद्घृतमादाय-
ॐ अग्नीषोमाभ्यां स्वाहा अग्नीषोमाभ्यामिदं नमः - इति वह्नेर्ललाटे नेत्रे हुत्वा सम्पातमाज्यं पूर्ववन्मध्यभागे क्षिपेत् ।
वैष्णवादौ तु ललाटनेत्राहुतिं न कुर्यात् । तत्रापि श्रीनृसिंहचरणाराधानोपयुक्तहोमे तु कुर्याद्देव ।
नेत्रत्रयोद्भासमानं परमात्मानमच्युतम् ।
श्रीनृसिंहमहं वन्दे देवदेवं वृषाकपिम् - इत्युक्तत्वात् तत्रापि-
प्रज्वलद्वह्निनेत्राभ्यां दहन्निव जगत्त्रयम् -इत्यादिद्विनेत्रध्यानपक्षे तु नेत्राहुतिर्न कार्या ।
पुनः-
नमः - इति दक्षिणभागादाज्यमादाय-
ॐ अग्नये स्विष्टकृते स्वाहा अग्नये स्विष्टकृते इदं नमः-
इति वह्नेर्वक्त्रे जुहुयात् ।
प्। ३७१) (शारदायां तु)-
स्वाहा - इति हुत्वा-
हा - इति हुतशेषे क्षिपेदित्युक्तम्-
तत्रापि-
स्वा - इति हुत्वा-
हा - इति हुतशेषं सम्पादयेदिति प्रतिभाति ।
ततः प्रणवमुक्ताभिर्व्यस्तसमस्ताभिर्व्याहृतिभिः पञ्चहुतीर्दद्यात् ।
तद्यथा-
ॐ स्वाहा, भूः स्वाहा, भुवः स्वाहा, स्वः, स्वाहा, ॐ भूर्भुवःस्वः स्वाहा - इति हुत्वा-
ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा - इत्यग्निमन्त्रेणाहुतित्रयं दत्वा वह्नेर्गर्भाधानादिषोडशसंस्कारान् कुर्यात् ।
यथा-
ॐ अग्नेर्गर्भाधानं सम्पादयामि स्वाहा - इत्यष्टाहुतीर्जुहुयात् ।
एवमग्रेऽपि ।
ॐ अग्नेः पुंसवनं सम्पादयामि स्वाहा - इति ।
ॐ अग्नेः सीमन्तोन्नयनं सम्पादयामि स्वाहा, ॐ अग्नेर्जातकर्म सम्पादयामि स्वाहा - इति जातकर्माहुतीर्हुत्वा-
ॐ अग्नेर्नालच्छेदं सम्पादयामि फट् स्वाहा - इति मूलाग्रयोर्घृतसम्प्लुताः पञ्च समिधो जुहुयात् ।
ततः-
ॐ वह्नेः सूतकं शोधयामि स्वाहा - इत्येकाहुतिं दत्वा स्वेष्टदेवतानाम्ना-
वह्ने त्वममुकनामाऽसि - इति नाम कृत्वा वह्नीष्टदेवतयोरैक्यं विचिन्त्य-
प्। ३७२) ॐ अग्नेर्नामकरणं सम्पादयामि स्वाहा - इति पूर्ववदष्टाहुतीर्जुहुयात् ।
ॐ अग्ने त्वं शिवनामऽसि, अग्ने त्वं वरदनामाऽसि, अग्ने त्वं विश्वरूपनामाऽसि - इत्येवं वा नाम कुर्यात् ।
श्रीविद्यापक्षे तु-
अग्ने त्वं कामाग्निनामाऽसि - इति नाम कुर्यात् ।
ततः-
ॐ अग्ने निष्क्रमणं सम्पादयामि स्वाहा ।
एवं-
ॐ अग्नेरन्नप्राशनम् ।
ॐ अग्नेश्चूडाकरणम् ।
ॐ अग्नेरुपनयनम् ।
ॐ अग्नेर्महानाम्न्यव्रतम् ।
ॐ अग्नेर्महाव्रतम् ।
ॐ अग्नेरुपनिषद्व्रतम् ।
ॐ अग्नेर्गोदानव्रतम् ।
ॐ अग्नेः समावर्तनम् ।
ॐ अग्नेर्विवाहं सम्पादयामि स्वाहा - इति प्रत्येकमष्टाहुतीर्हुत्वा मूलाग्रयोर्घृतसम्प्लुतां समिधमादाय-
ॐ ह्री। वागीशवागीश्वरीभ्यां स्वाहा - इति त्रिवारं जुहुयात् ।
ततोऽग्नेः पितरौ वागीश्वरौ पूर्ववत् पञ्चोपचारैः सम्पूज्य प्रणम्य स्वहृदये उद्वासयेत् ।
ततो वह्नेः सप्तसु जिह्वासु तन्मन्त्रैरैकेकामाहुतिं दद्यात् ।
यथा-
स्प्रू। हिरण्यायै स्वाहा ।
ष्प्रू। गगनायै स्वाहा ।
श्प्रू। रक्तायै स्वाहा ।
व्प्रू। कृष्णायै स्वाहा ।
ल्प्रू। सुप्रभायै स्वाहा ।
र्प्रू। बहुरूपायै स्वाहा ।
य्प्रू। अतिरिक्तायै स्वाहा ।
इति सप्तजिह्वामन्त्रेण जुहुयात् ।
ततोङ्गमन्त्रैर्जुहुयात् ।
तद्यथा-
प्। ३७३) ॐ सहस्रार्चिषे हृदयाय नमः स्वाहा - एवं क्रमेण जुहुयात् ।
ॐ स्वस्तिपूर्णाय शिरसे स्वाहा ।
ॐ उत्तिष्ठपुरुषाय शिखायै वषट् ।
ॐ धूमव्यापिने कवचाय हु। स्वाहा ।
ॐ सप्तजिह्वाय नेत्रत्रयाय वौषट् स्वाहा ।
वैष्णवादौ तु-
नेत्राभ्याम् - इति ज्ञेयम् ।
ॐ धनुर्धरायास्त्राय फट् स्वाहा ।
ततो वह्नेर्मूर्त्तिमन्त्रैर्जुहुयात् ।
तद्यथा-
ॐ अग्नये जातवेदसे स्वाहा ।
ॐ अग्नये सप्तजिह्वाय स्वाहा ।
ॐ अग्नये हव्यवाहनाय स्वाहा ।
ॐ अग्नये अश्वोदरजाय स्वाहा ।
ॐ अग्नये वैश्वानराय स्वाहा ।
ॐ अग्नये कौमारतेजसे स्वाहा ।
ॐ अग्नये विश्वमुखाय स्वाहा ।
ॐ अग्नये देवमुखाय स्वाहा ।
इति हुत्वा-
ॐ इन्द्राय स्वाहा ।
ॐ अग्नये स्वाहा ।
ॐ यमाय स्वाहा ।
ॐ वरुणाय स्वाहा ।
ॐ नैर्-ऋतये स्वाहा ।
ॐ वायवे स्वाहा ।
ॐ कुवेराय स्वाहा ।
ॐ ईशानाय स्वाहा ।
ॐ ब्रह्मणे स्वाहा ।
ॐ अनन्ताय स्वाहा ।
ॐ वज्राय स्वाहा ।
ॐ शक्तये स्वाहा ।
ॐ दण्डाय स्वाहा ।
ॐ खड्गाय स्वाहा ।
ॐ पाशाय स्वाहा ।
ॐ अङ्कुशाय स्वाहा ।
ॐ गदायै स्वाहा ।
ॐ त्रिशूलाय स्वाहा ।
ॐ पद्माय स्वाहा ।
ॐ चक्राय स्वाहा ।
इति हुत्वा-
प्। ३७४) स्रुवेण चतुर्वारमाज्यमादाय स्रुचि निधाय स्रुवेण पिधाय शृङ्गाग्रे पुष्पादिकं दत्वोत्तिष्ठेत् ।
ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा वौषट् - इति वौषडन्तेनाग्निमन्त्रेण जुहुयात् ।
ततो महागणपतिमन्त्रेण दशधा विभक्तेन दशाहुतीर्दद्यात् ।
तद्यथा-
ॐ स्वाहा ।
ॐ श्री। स्वाहा ।
ॐ श्री। ह्री। स्वाहा ।
ॐ श्री। ह्री। क्ली। स्वाहा ।
ॐ श्री। ह्री। क्ली। ग्लौ। स्वाहा ।
ॐ श्री। ह्री। क्ली। ग्लौ। ग। स्वाहा ।
ॐ श्री। ह्री। क्ली। ग्लौ। ग। गणपतये स्वाहा ।
ॐ श्री। ह्री। क्ली। ग्लौ। ग। गणपतये वर वरद स्वाहा ।
ॐ श्री। ह्री। क्ली। ग्लौ। ग। गणपतये वर वरद सर्वजनं मे स्वाहा ।
ॐ श्री। ह्री। क्ली। ग्लौ। ग। गणपतये वर वरद सर्वजनं मे
वशमानय स्वाहा - इति हुत्वा-
पुनस्तेनैव समस्तेन मन्त्रेण चतुर्वारं जुहुयात् ।
इति सर्वसाधारणोऽग्निमुखविधिः ।
ततश्चरुपाकं कुर्यात् ।
यथा - आचार्यः प्राङ्मुखो भूत्वा तव्यं ताम्रादिपात्रमा-दायास्त्रमन्त्रितजलेन प्रक्षाल्य तस्मिन् पात्रे तण्डुलानुसारेण गोक्षीरं निधाय साधारं तत् पात्रं वह्नौ संस्थाप्य पञ्चदशप्रभृतिपरिमितान् शालितण्डुलान् मूलमन्त्रेणाभिमन्त्र्य तस्मिन् पात्रे क्षिप्त्वा पिधानपात्रमादायास्त्रमन्त्रितजलेन प्रक्षाल्य-
हु। - इति कवचमन्त्रमुच्चर।स्तेन पात्रेण पाकपात्रमुखं पिधाय मूलमन्त्रमुश्चर।श्च।रुं पचेत् ।
ततः स्रुवेणाज्यमादाय स्विन्नं चरुं मूलमन्त्रमुच्चरन्नभिधारयेत् ।
ततः-
प्। ३७५) हु। - इति कवचमन्त्रेण तत्पात्रमवतार्य अस्त्रमन्त्राभिमन्त्रितकुशास्तीर्णमण्डलं स्थापयेत् ।
ततश्चरुन्त्रिधा विभज्य भागमेकं पात्रान्तरे निधाय देवतायै समर्पयेत् ।
द्वितीयं भागं वक्ष्यमाणहोमार्थं तृतीयं भागं भोजनार्थं स्थापयेत् ।
ततो वह्नौ देवताया आधारशक्त्यादिपीठमन्त्रान्तं सम्पूज्य तत्रेष्टदेवतामावाह्योपचारैः सम्पूज्यावरणदेवता अपि पूजयेत् ।
ततो देयमूलमन्त्रेण स्वाहान्तेन पञ्चविंशत्याज्याहुतीर्वह्निमुखे जुहुयात् ।
इदमेव वह्नीष्टदेवतयोर्वक्त्रैकीकरणं मित्युच्यते ।
तत आत्माग्निदेवतानामैक्यं विचिन्त्य एकादशाज्याहुतीर्मूलेनैव दद्यात् ।
इदं च नाडीसन्धानमित्युच्यते ।
तत आवरणदेवताभ्य एकैकामाहुतिं दत्वा रित्विग्भिरुक्तप्रकारेण संस्कृतेषु पूर्वादिकुण्डेषु क्रमेणाचार्यो वह्निं विहरेत् ।
ततः सर्वे ऋत्विजः स्वस्वकुण्डाग्नौ सावरणामिष्टदेवतामुपचारैः सम्पूज्य मूलमन्त्रेणाज्येन पञ्चविंशत्याहुतिर्हुत्वाऽवरणदेवताभ्य एकैकामाहुतिं दद्युः ।
ततो गुरुः पूर्वोक्तचरोर्द्वितीयभागं नवधा विभज्य भागमेकं स्वयं गृहीत्वा एकैकं भागं सर्वेभ्य ऋत्विग्भ्यो दद्यात् ।
ततस्तस्मि।श्चरौ घृतं निधाय सघृतेन चरुणाऽचार्य ऋत्विजश्च स्वे स्वे कुण्डे मूलमन्त्रेण प्रत्येकं पञ्चविंशत्याहुतीर्जुहुयुः ।
तत आवरणदेवताभ्य एकैकामाहुतिं दत्वा मूलमन्त्रेणाज्येन दश दशाहुतीर्हुत्वा वह्निरूपामिष्टदेवतां प्रणमेयुः ।
तत आचार्यश्चरोस्तृतीयभागं द्विधा विभज्य पलाशपत्रे पिप्पलपत्रे वा निधाय भागमेकं स्वयं गृहीत्वा परं भागं शिष्याय दद्यात् ।
ततो गुरुः शिष्यश्च-
नमः - इति हृन्मन्त्रमुच्चरन् ग्रासत्रयं ग्रासाष्टकं वा दन्तस्पर्शं विना भुक्त्वा मन्त्रपूतेन जलेनाचमनं कुर्यात् ।
ततो गुरुः कृताचमनं शिष्यं मूलमन्त्रेण सकलीकृत्य तस्मै पूर्वोक्तलक्षणं हृन्मन्त्रितं दन्तकाष्ठं दद्यात् ।
ततः शिष्यस्तेन दन्तकाष्ठेन दन्तान् विशोध्य जलेन प्रक्षाल्य दन्तकाष्ठं विसृज्याचमनं कुर्यात् ।
अस्मिन्नेव समये पूर्वोक्तदन्तकाष्ठपरीक्षां केचित् कुर्वन्ति ।
ततः सायं सन्ध्योपासनं कृत्वा गुरुर्मूलमन्त्रेण स्वकल्पोक्तमन्त्रान्तरेण वा
प्। ३७६) शिष्यस्य शिखां बध्वा मण्डपाद्बहिर्देवताया दक्षिणभागे वेदिकान्तरोपरि कुशशय्यायां पूर्वशिरस्कः शिष्येण सार्धं शयनं कुर्यात् ।
शिष्यश्च शयनसमये स्वप्नमानवमन्त्रेण शुभस्वप्नं प्रार्थयेत् ।
स्वप्नमानवमन्त्रो यथा-
भगवन् देवदेवेश शूलभृद्वृषवाहन ॥ ५-४७ ॥
इष्टानिष्टे समाचक्ष्व मम सुप्तस्य शाश्वतम् ।
यद्वा-
ॐ हिलि २ शूलपाणये स्वाहा ॥ ५-४८ ॥
नमो जय त्रिनेत्राय पिङ्गलाय महात्मने ।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ ५-४९ ॥
स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ।
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ ५-५० ॥
वैष्णवे तु-
ॐ नमः सकललोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ ५-५१ ॥
यद्वा-
परब्रह्मस्वरूपस्त्वमन्तश्चरसि विश्वधृक् ।
शुभाशुभगतिं देव स्वप्ने मे विनिवेदय - इत्युच्चार्य जानुभ्यामवनीं स्पृष्ट्वा विष्णुं प्रणम्य प्रसन्नो वाग्यतो निजेष्टं विचिन्त्य शयनं कुर्यात् ।
ततः स्वप्नं दृष्ट्वा समुत्थायाचम्य पुष्पं धृत्वा गुरुं प्रणम्य गुरवे स्वप्नं निवेदयेत् ।
ततो गुरुः शुभमशुभं वा स्वप्नं निर्णीय स्वप्नो यदि शुभस्तदा देवतां प्रसन्नां जानीयात् । स्वप्नो यद्यशुभस्तदा शान्तिं कुर्यात् ।
दुःस्वप्नशान्तिस्तु-
फट् दुःस्वप्नदोषान् जहि २ फट् स्वाहा - इति मन्त्रेण ।
ॐ वज्रनखदंष्ट्रायुधाय महासिंहाय हु। फट् नमः स्वाहा-
इति सिंहमन्त्रेण वा तद्देवतागायत्र्या वा पलाशसमिच्छतमाज्याहुतिशतं वा
प्। ३७७) तत्र सङ्कल्पस्तु-
ॐ अद्येत्यादि - अमुकगोत्रोऽमुकदेवशर्मा दुःस्वप्नशान्तिकामो गुरुद्वारा सक्।ईरघृताक्तपालाशसमिदाहुतिशतमहं होष्यामि ।
इत्यधिवासनविधिः ।
ततो दीक्षादिने गुर्वादयः सर्वे प्रातरुत्थाय प्रातःकृत्यस्नानसन्ध्यादिनित्यकर्म समाप्य यागमण्डपं प्रविश्य देवतां नत्वा स्वे स्वे कुण्डे सघृतैस्तिलैस्तद्देवताकल्पोक्तद्रव्यान्तरैर्वा स्वाहान्तेन मूलमन्त्रेण प्रत्येकमष्टोत्तरसहस्राहुतीरष्टोत्तरशताहुतीर्वा जुहुयुः ।
ततो होमसमाप्तौ गुरुः समुत्थाय मण्डपाद्बहिर्गत्वा कृतस्नानं शिष्यं पञ्चगव्यं पाययित्वा दक्षिणद्वारेण मण्डपं प्रवेश्य स्वीयं कुण्डान्तिकमानयेत् ।
ततो दिव्यदृष्ट्या शिष्यं विलोक्य तद्वृदयाद्वहन्नाड्याऽङ्कुशमुद्रया तच्चैतन्यमाकृष्य स्ववहन्नाडीमार्गेण स्वहृदये संयोज्याध्वशोधनं कुर्यात् ।
तद्यथा - शिष्यस्य पादयोः-
निवृतिप्रतिष्ठाविद्याशान्तिशान्त्यतीताख्याः - पञ्चकला विचिन्त्य कूर्चेन तत्पादौ संस्पृश्य-
ॐ कलाध्वानं शोधयामि स्वाहा - इति सघृतैस्तिलैरष्टाहुतीर्जुहुयात् ।
ततः कलाध्वानं तत्त्वाध्वनि विलीनं विभाव्य शिष्यस्योपस्थप्रदेशे-
शिवशक्तिसदाशिवेश्वरविद्यामायाविद्याकलारागकालनियतिपु-रुषप्रकृतिबुद्ध्यहङ्कारमनश्चक्षुःश्रोत्रघ्राणजिह्वात्वग्वाक्पा-णिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकांशवायुतेजोजलपृथि-व्याख्यानि - षट्त्रिंशद्गणेशशैवतत्त्वानि ।
जीवप्राणमनोबुद्धिशब्दस्पर्शरूपरसगन्धाकाशवायुतेजो-जलपृथ्वीचक्षुःश्रोत्रजिह्वाघ्राणत्वग्वाक्पाणिपादपायूपस्थसूर्य-सोमाग्निवासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्यानि - द्वात्रिंशद्वैष्णवतत्त्वानि ।
प्। ३७८) आकाशवायुतेजोजलपृथिवीशब्दस्पर्शरूपरसगन्धमनोऽहङ्-कारचक्षुःश्रोत्रजिह्वाघ्राणत्वग्वाक्पाणिपादपायूपस्थप्रकृति-महत्तत्त्वाख्यानि - चतुर्विंशतिः सौरतत्त्वानि ।
निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यतीताख्यकलापञ्चकविन्दुक-लानादशक्तिसदाशिवाख्यानि - दशप्रकृतितत्त्वानि ।
आत्मविद्याशिवशिवविद्यात्मात्मविद्याशिवसर्वाख्यानि - दशशाक्ततत्त्वानि ।
आत्मविद्याशिवशिवविद्यात्मसर्वाख्यानि - त्रैपुरतत्त्वानि च विचिन्त्य शिष्यस्योपस्थप्रदेशं कूर्चेन संस्पृश्य-
ॐ तत्त्वाध्वानं शोधयामि स्वाहा - इत्यष्टाहुतीर्जुयात् ।
ततस्तत्त्वाध्वानं भुवनाध्वनि विलीनं विभाव्य शिष्यस्य नाभौ क्रमेण-
पातालरसातलमहातलतलातलसुतलवितलतलातलभूर्भुवःस्वर्-महर्जनस्तपःसत्याख्यानि - चतुर्दश भुवनानि विचिन्त्य नाभिं स्पृष्ट्वा-
ॐ भुवनाध्वानं शोधयामि स्वाहा - इत्यष्टाहुतीर्जुहुयात् ।
ततो भुवनाध्वानं वर्णाध्वनि विलीनं विभाव्य शिष्यस्य हृदयेऽकारादिक्षकारान्तान् विचिन्त्य हृदयं स्पृष्ट्वा-
ॐ वर्णाध्वानं शोधयामि स्वाहा - इत्यष्टाहुतीर्जुहुयात् ।
ततो वर्णाध्वानं पदाध्वनि विलीनं विभाव्य शिष्यस्य ललाटे मन्त्रपदानि विचिन्त्य ललाटं संस्पृश्य-
ॐ पदाध्वानं शोधयामि स्वाहा - इत्यष्टाहुतीर्जुहुयात् ।
ततः पदाध्वानं मन्त्राध्वनि विलीनं विभाव्य शिष्यस्य मूर्ध्नि सम्पूर्णमन्त्रं विचिन्त्य मूर्धानं स्पृष्ट्वा-
ॐ मन्त्राध्वानं शोधयामि स्वाहा - इति पूर्ववदष्टाहुतीर्हुत्वा ब्रह्मरन्ध्रस्थिते परमशिवे मन्त्राध्वा विलीन इति चिन्तयेत् ।
एवं संहारक्रमेण शिष्यदेहे षड्विधिमदमध्वशोधनं विधाय पुनः सृष्टिक्रमेण
प्। ३७९) परमशिवान् मन्त्राध्वनः पदाध्वा पदाध्वनो वर्णाध्वा वर्णाध्वनो भुवनाध्वा भुवनाध्वनस्तत्त्वाध्वा तत्त्वाध्वनः कलाध्वा उत्पन्न इति चिन्तयेत् ।
अत्र केचित्-
ॐ परमशिवान्मन्त्राध्वानमुत्पादयामि स्वाहा - इत्याहुतिभि क्रमेणाध्वनो जनयेदिति वदन्ति ।
ततः शिष्यं दिव्यदृष्ट्या विलोकयन्नात्मस्थितं तच्चैतन्यं स्ववहन्नाड्या तद्वहन्नाडीमार्गेण तद्धृदये योजयेत् ।
ततो मूलमन्त्रेण दशाहुतीर्हुत्वाऽवरणदेवताभ्य एकैकामाहुतिं दत्वा पूर्णाहुतिं कुर्यात् ।
तत्क्रमस्तु - होमावशिष्टेन घृतेन स्रुचमापूर्य पुष्पतिलयवफलादिकं निधायाधोमुखेन स्रुवेण स्रुचं पिधाय तदग्रे पुष्पं दत्वा मूलाच्चतुरङ्गलं परित्यज्य शङ्खमुद्रया स्रुक्स्रुवौ धृत्वा तन्मूलेनाभिसंलग्ने कृत्वोत्थितः सन् दक्षिणपादपुरःसरं वौषडन्तेन मूलमन्त्रेण पूर्णाहुतित्रयं दद्यात् ।
शाक्ते वाममार्गादौ च वामपादपुरःसरं पूर्णाहुतिं दद्यात् । वाममार्गे स्वाहान्तेन मूलमन्त्रेण ।
वैदिकक्रमस्तु-
मूर्द्धानं दिव - इति मन्त्रेण ।
पूर्णादर्वी - इत्यादिमन्त्रेण वा पूर्णाहुतिं दद्यादिति विशेषः ।
ततो ब्रह्मार्पणमन्त्रैः पूर्णाहुतिं दद्यात् ।
मन्त्रो यथा ।
इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्म्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा ।
एवं ब्राह्मार्पणमन्त्रेण पूर्णाहुतिं दत्वा वह्निस्थामिष्टदेवतां पञ्चोपचारैः सम्पूज्य प्रणम्य षडङ्गमन्त्रेण सकलीकृत्य संहारमुद्रया कुण्डादुद्वास्य कलशे संयोज्य पूर्वादिदिक्षु स्थापितान् ध्रूवादीनिन्द्रादिलोकपालान् बहिःस्थिता अङ्कुरार्पणदेवताश्च तत्तत्स्थानादुद्वास्य प्रधानकलशे समानीय तासां देवतानामिष्टदैवतैक्यं विचिन्त्य वह्नेर्विसर्जनार्थं महाव्याहृतिभिर्होमं कुर्यात् ।
प्। ३८०) तद्यथा-
ॐ भूरग्नये पृथिव्यै च महते स्वाहा ।
ॐ भुवो वायवे अन्तरीक्षाय च दिवे च महते स्वाहा ।
ॐ स्वरादित्याय चन्द्रमसे दिग्भ्यश्च नक्षत्रेभ्यश्च स्वाहा ।
ॐ भूर्भुवःस्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यश्च महते स्वाहा ।
इति हुत्वा पूर्वोक्तप्रकारेण वह्नेर्जिह्वाङ्गमूर्तिमन्त्रैर्लोकपालान् तदायुधमन्त्रैश्चैकैकामाहुतिं हुत्वा पयसा जलेन वा मेखलासु वह्निं परिषिञ्च्य तन्मन्त्रेण पञ्चोपचारैः सम्पूज्य
स्वस्ति श्रद्धां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ॥
आयुष्यं तेज-आरोग्यं देहि मे हव्यवाहन ॥ ५-५२ ॥
भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक ।
कर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सादरम् ॥ ५-५३ ॥
इति सम्प्रार्थ्य-
भगवन्नग्ने पूजितोऽसि क्षमस्व - इत्युक्त्वा वह्निं प्रणम्य संहार मुद्रया विसृजेत् ।
ततो ब्रह्माणमुद्वास्य द्वात्रिंशत्पलप्रमाणेन निर्मितं ताम्रपात्रं तण्डुलैरापूर्य तदुपरि सुवर्णदक्षिणां निधाय ब्रह्मप्रतिनिधिब्राह्मणाय दद्यात् ।
दानवाक्यं यथा-
ॐ अद्येत्यादि - कृतैतद्दीक्षाकर्माङ्गभूतहोमकर्मप्रतिष्ठार्-थमिदं पूर्णपात्रं प्रजापतिदैवतं हिरण्यमग्निदैवतममुकगोत्रायामुकशर्मणे विप्राय तुभ्यमहं सम्प्रददे - इति पूर्णपात्रं दद्यात् ।
तत आचार्यः परिस्तरणकुशान् परिधी।श्च तूष्णीमग्नौ प्रक्षिपेत् । नित्यहोमे तु तान् न दहेदिति विशेषः ।
ततः-
वौषट् - इति नेत्रमन्त्रमुच्चरन् नव्येन शुक्लवस्त्रेण शिष्यस्य नेत्रे बध्वा पुष्पैस्तदञ्जलिं पूरयित्वा तत्करं धृत्वा तिरस्करणीं विमोच्य शिष्यं देवतान्तिकमानीय स्वयं मूलमन्त्रमुच्चरन् देवतायै पीठोपरि पुष्पाञ्जलिं क्षेपयेत् ।
प्। ३८१) ततो गुरुणा निराकृतनेत्रबन्धः शिष्यः-
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः - इति पठित्वा गुरुचरणौ प्रणम्य देवतां साष्टाङ्गं प्रणमेत् ।
ततो गुरुः शिष्यं दर्भास्तरे निवेश्य भूतशुद्धिक्रमेण पञ्चभूतात्मकं तद्देहं संहृत्य पुनः सृष्टिमार्गेणोत्पाद्य तद्देहे स्वकल्पोक्तन्यासान् विधायाभिषेकार्थमीशानदिशि विरचिते मण्डपान्तरे हस्तद्वयायामायामष्टाङ्गुलोच्छ्रितायां चतुरस्रवेदिकायां श्रीपर्ण्यादिकाष्ठनिर्मितपीठोपरि शिष्यं निवेश्य स्वयं देवतास्थानमागत्य पाद्यादिभिरुपचारैर्देवतां सम्पूज्य मूलेन पुष्पाञ्जलित्रयं दत्वाऽराधनार्पणं कुर्यात् ।
तद्यथा - मूलमन्त्रमुच्चार्य-
साधु वाऽसाधु वा कर्म यद्यदाचरितं मया ॥ ५-५४ ॥
तत्सर्वं देवदेवेश गृहाणाराधनं परम् - इत्युक्त्वा देवस्य दक्षिणकरे शक्तिविषये वामकरेऽर्घोदकमुत्सृजेत् ।
ततो देवतां प्रणम्य पुष्पाञ्जलिमादाय क्षमापयेत् ।
यथा-
यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् ।
निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥ ५-५५ ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि त्वं गतिः परमेश्वर ॥ ५-५६ ॥
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ।
अन्तश्चारेण भूतानां द्रष्टा त्वं परमेश्वर - इत्युक्ता पुष्पाञ्जलिं क्षिप्त्वा प्रणमेत् ।
ततः शिष्यार्थं वरं प्रार्थयेत् ।
तद्यथा-
कारुण्यनिलये देवि सर्वसन्निधिसंश्रये ॥ ५-५७ ॥
शरण्ये वत्सले मातः कृपामस्मिन् शिशौ कुरु ।
आणवप्रमुखैः पाशैः पाशितस्य सुरेश्वरि ॥ ५-५८ ॥
प्। ३८२) दीनस्यास्य दयाधारे कुरु कारुण्यमीश्वरि ।
ऐहिकामुष्मिकैर्भोगैरपि सम्बध्यतामसौ ॥ ५-५९ ॥
स्वभक्तिः सकला चास्मै दीयतां निष्कलाश्रये - इति ।
पुन्दैवते तु ।
कारुणाश्रयदेवेश - इत्यादिपाठोऽनुसन्धेयः-
इति सम्प्रार्थ्य सर्वा आवरणदेवताः प्रधानदेवताङ्गे लीना इति विचिन्त्य तेजोरूपां देवतां ध्यात्वा-
भगवत्यमुकदेवते पूजिताऽसि क्षमस्व - इत्युक्त्वा संहारमुद्रया विसृज्य वहन्नाडीमार्गेण स्वहृदये तां स्थापयेत् ।
तत ऐशान्यां दिशि मण्डलं कृत्वा तद्देवताकल्पोक्तं निर्माल्यवासिनं सम्पूज्य-
लेह्यचोष्यान्नपानादि निर्माल्यं स्रग्विलेपनम् ।
निर्माल्यभोजिने तुभ्यं ददामि देवताज्ञया - इति निर्माल्यं दत्वा संहारमुद्रया निर्माल्यवासिनं विसृजेत् ।
ततो मूलमन्त्रेण स्वशिरसि किञ्चिन्निर्माल्यं धृत्वा कुम्भमुत्थाप्य शिष्यनिकटं गत्वा कुम्भमुखस्थान् पल्लवान् शिष्यस्य शिरसि विन्यस्य मातृकावर्णान् मूलमन्त्रं चोच्चरन् पञ्चवाद्यादिनादैर्विप्राशीर्भिश्च सार्धं कुम्भतोयेन शिष्यमभिषिञ्चेत् ।
ततो वर्धनीमुत्थाप्य तज्जलेनाभिषिञ्चेत् ।
ततोऽवशिष्टजलेन शिष्यमाचम्य षडङ्गैः सकलीकृत्य तं देवतात्मानं चिन्तयेत् ।
ततः शिष्यः समुत्थाय धौतवाससी परिधायाचम्य गुरोः सन्निधौ तदाज्ञया पूर्वाभिमुख उत्तराभिमुखो वा आसने उपविशेत् ।
ततो गुरुरात्मनः सकाशात् तद्देहे सङ्क्रान्तां देवतां विचिन्त्य तयोरैक्यं विभाव्य गन्धपुष्पाद्यैः सम्पूज्य मन्त्रं दद्यात् ।
तद्यथा-
अमुकदेवतामन्त्रमहं ददामि - इति प्रतिज्ञां श्रावयन् गुरुः शिष्यहस्ते जलं दद्यात् ।
ददस्वानुग्रहपूर्वकम् - इति शिष्यो वदेत् ।
ततो गुरुः शिष्यस्य शिरसि हस्तं दत्वा देयमन्त्रमष्टोत्तरशतं प्रजप्य दक्षिण कर्णे त्रिवारं मन्त्रं श्रावयेत् ।
प्। ३८३) स्त्रीशूद्रयोस्तु वामकर्णे मन्त्रं कथयेत् । जलदानपूर्वकमन्त्रदानं ब्राह्मणमात्रविषयम् । तदितरेभ्यस्तु तद्विनैव मन्त्रं दद्यात् ।
ततो गुरुर्ज्योतिर्मयीं विद्यां स्वतः शिष्यतनुं प्रविशन्तीं विचिन्त्य-
मन्त्रोऽयमावयोस्तुल्यफलदोऽस्तु - इति ब्रूयात् ।
शिष्योऽपि तादृशीं विद्यां गुरुमुखात् स्वहृदयं प्रविशन्तीं विचिन्त्य-
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ॥ ५-६० ॥
सर्वदेवस्वरूपाय सर्वमन्त्रमयाय च ।
घोरान्मृत्युमहापाशान्मोचितः कृपया त्वया ॥ ५-६१ ॥
त्वत्प्रसादादहं नाथ कृतकृत्योऽस्मि सर्वतः - इति स्तुत्वा गुरुचरणयोर्दण्डवत् पतित एव तिष्ठेत् ।
ततो गुरुः-
उत्तिष्ठ वत्स मुक्तोऽसि सम्यगाचारवान् भव ।
कीर्त्तिश्रीकान्तिमेधायुर्बलारोग्यं सदाऽस्तु ते - इत्युक्त्वा शिष्यमुत्थापयेत् ।
ततः शिष्यो गुरुदेवमन्त्राणामैक्यं सम्भाव्य गुरोराज्ञया तत्सन्निधौ मन्त्रमष्टोत्तरशतं जपेत् । गुरुरपि मन्त्रदानानन्तरमष्टोत्तरसहस्रमष्टोत्तरशतं वा मन्त्रं जपेत् ।
ततः शिष्यो वित्तशाट्यं विहाय सर्वस्वं तदर्धं तदर्धं वा गुरवे दक्षिणां दद्यात् ।
कुशत्रयतिलजलान्यादाय-
ॐ अद्येत्यादि - अमुकगोत्रोऽमुकशर्मा कृतैतदमुकदेवतामुकमन्त्रग्रहणप्रतिष्ठार्थमिमां दक्षिणाममुकगोत्रायामुकशर्मणे श्रीगुरवे तुभ्यमहं सम्प्रददे ।
एवं ब्रह्मप्रतिनिधिविप्राय ऋत्विग्भ्यश्च गोभूहिरण्यवासोऽलङ्कारादीन् दद्यात् ।
ततः पूजोपकरणसहितं मण्डपं गुरवे दद्यात् ।
ततो ब्राह्मणान् भोजयित्वा तेभ्यो दक्षिणां दत्वा तदाशिषः समादाय देवनिवेदितं नैवेद्यं तद्भक्तेभ्यो दत्वा गुरुशिष्यौ भुञ्जीयाताम् । दीक्षादिने गुरुशिष्ययोरुपवासो निषिद्धः ।
प्। ३८४) ततः शिष्यो दिनत्रयं गुरुकुले निवासं कृत्वा चतुर्थदिने देवतार्चनं कारयित्वा गुरुं प्रणम्य तदाज्ञामादाय स्वगृहं गच्छेत् ।
इति क्रियावतीदीक्षाप्रयोगः परिपूर्णः ।
एतदशक्तौ सङ्क्षेपदीक्षा विधेया । सा च प्रोक्ता (निबन्धे) ।
मुहूर्ते सर्वतोभद्रे नवकुम्भं निधाय च ॥ ५-६२ ॥
सोदकं गन्धपुष्पाभ्यामर्चितं वस्त्रसंयुतम् ।
सर्वौषधीनवरत्नपञ्चपल्लवसंयुतम् ॥ ५-६३ ॥
ततो देवार्चनं कृत्वा हुनेदष्टोत्तरं शतम् ।
सर्वौषधीति तन्त्रान्तरे ।
जटामांसी वचा कुष्टं शैलेयं रजनीद्वयम् ॥ ५-६४ ॥
शटीचम्पकमुस्तं च सर्वोषधिगणः स्मृतः ।
रजनीद्वयं हरिद्रा दारुहरिद्रा । पृश्निपर्णी पिप्पली सहदेवी घृतकुमारी ।
नवरत्नानि पूर्वमुक्तानि ।
पञ्चपल्लवमिति (वशिष्ठे)
पनसाम्रं तथाऽश्वत्थं वटं वकुलमेव च ॥ ५-६५ ॥
पञ्चपल्लवमित्युक्तं मुनिभिस्तन्त्रवेदिभिः ।
तन्त्रान्तरे-
अश्वत्थोदुम्बरवटप्लक्षाम्राः पञ्चपल्लवाः - इत्युक्तम् ।
(निबन्धे)
शिष्यं स्वलङ्कृतं वेद्यामुपाग्न्यमुपवेशयेत् ॥ ५-६६ ॥
मन्त्रितैः प्रोक्षणीतोयैः शान्तिं कुम्भजलैस्तथा ।
मूलमन्त्रेणाष्टशतं मन्त्रितैरभिषेचयेत् ॥ ५-६७ ॥
अष्टशतमष्टोत्तरशतम् ।
अथ सम्पादयन् मन्त्रं हस्तं शिरसि धारयन् ।
प्। ३८५) शमस्त्वित्यक्षतान् दद्यात् ततः शिष्योऽर्चयेद्गुरुम् ॥ ५-६८ ॥
इति सङ्क्षेपदीक्षाविधिः ।
अथ वर्णमयी दीक्षा (मेरुतन्त्रे)
अथ वर्णमयीं दीक्षां शृण्वन्तु ज्ञानदायिनीम् ।
पुम्प्रकृत्याऽत्मकत्वं च वर्णानां समुदीरितम् ॥ ५-६९ ॥
तादृक्त्वं च शरीरस्य प्रोक्तमेवास्ति देशिकैः ।
ततस्तनौ शिशोर्न्यस्येदर्णान् देशिकसत्तमः ॥ ५-७० ॥
संहरेद्वैपरीत्येन वर्णा।स्तत्स्थानसंस्थितान् ।
देशिकेन्द्रः स्वसामर्थ्यादाज्ञया देवतात्मनः ॥ ५-७१ ॥
देवतात्मा भवेच्छिष्यस्तदासंलीनतत्त्वकः ।
ततस्तु शिष्यचैतन्यं परमात्मानि योजयेत् ॥ ५-७२ ॥
तानर्णा।स्तत उत्पाद्य न्यसेच्छिष्यशरीरके ।
तस्मि।श्च दृष्टिक्रमतस्तच्चैतन्यं पुनर्न्यसेत् ॥ ५-७३ ॥
भवेच्छिष्यो देवतात्मा नित्यानन्दात्मकः शिवः ।
ज्ञानदाऽर्णमयी दीक्षा कथिता सर्वसिद्धिदा ॥ ५-७४ ॥
इति वर्णमयी दीक्षाविधिः ।
अथ कलावती दीक्षा तत्रैव ।
अथ वक्ष्ये कलादीक्षामणिमाद्यष्टसिद्धिदाम् ।
वेदे पञ्चकला दीक्षा दक्षेऽष्टत्रिकला मता ॥ ५-७५ ॥
कुपञ्चाशत्कला वामे सिद्धमन्त्रगुरोस्तु सा ।
ग्राह्या द्रुतं सिद्धिकर्त्री विपरीते विपर्ययः ॥ ५-७६ ॥
कला निवृत्तिप्रमुखा भूतानां पञ्च चेरिताः ।
शिष्यकाये भूतमये वेधयेत् ताः क्रमात् सुधीः ॥ ५-७७ ॥
पादादिजानुपर्यन्तं निवृत्तिः संस्थिता कला ।
प्। ३८६) जान्वोः सकाशादानाभि प्रतिष्ठाख्या कला स्थिता ॥ ५-७९ ॥
नाभितः कण्ठपर्यन्तं विद्याख्या संस्थिता कला ।
कण्ठतो ह्याललाटं तु शान्त्याख्या संस्थिता कला ॥ ५-८० ॥
भालाच्छिरोऽवधि प्रोक्ता शान्त्यतीता कला तथा ।
संहृतिक्रमतो विद्वान् वेधयेत् स्थानतोऽन्यतः ॥ ५-८१ ॥
स्थाने स्वीयाज्ञया चैवं दीक्षा पञ्चकला स्मृता ।
अष्टत्रिंशत्कलादीक्षायुक्तिं शृण्वन्तु देवताः ॥ ५-८२ ॥
क्रमेण कादिका वर्णा यत्र द्वादश संस्थिताः ।
विलोमा भादिका यत्र तत्र स्थानद्वये कलाः ॥ ५-८३ ॥
भावनीयास्तु सूर्यस्य षोडशासु विधोस्तथा ।
यकारादिस्थले वह्नेर्भावनीयाः कला दश ॥ ५-८४ ॥
ततो वर्णकलानां तु वर्णस्थानाच्च संहृतिः ।
पुनश्च जनयेच्छिष्यं कलादीक्षाविधिः स्वयम् ॥ ५-८५ ॥
इति कलावती दीक्षा ।
अथ वेधमयी दीक्षा तत्रैव ।
दीक्षां वेधमयीं वक्ष्ये या लब्ध्वा त्यजते जनः ।
तत्कालमेव संसारं जीवन्मुक्तोऽभिजायते ॥ ५-८६ ॥
मूलाधारेऽपि शिष्यस्य ध्यायेत् कञ्जं चतुर्दलम् ।
तस्य मध्ये त्रिकोणं च तन्मध्ये चापि कण्डलीम् ॥ ५-८७ ॥
त्रिरावर्त्तमयीं देवीं विद्युत्पुञ्जस्वरूपिणीम् ।
महादेवमयीं साक्षाज्ज्ञानमात्रशरीरिणीम् ॥ ५-८८ ॥
अणोरणीयसीं देवीं चक्रषट्कप्रभेदिनीम् ।
सुषुम्णावर्त्मना दिव्यां यान्तीं शिवगृहं प्रति ॥ ५-८९ ॥
प्। ३८७) सान्तवादितलस्थार्णान् पद्मस्थाने समाहरेत् ।
षड्दले कमले तां तु लान्तवाद्यर्णयुग्दले ॥ ५-९० ॥
स्वाधिष्ठाने गुरुं सम्यग्योजयित्वा तु वेधयेत् ।
तदर्णानानयेद्विष्णौ विष्णुं तं नाभिपङ्कजे ॥ ५-९१ ॥
फान्तडाद्यर्णसंयुक्ते दिग्दले वेधयेत् स्वयम् ।
वर्णा।स्तान् योजयेद्रुद्रे रुद्रं तं हृत्सरोरुहे ॥ ५-९२ ॥
कान्तथाद्यर्णपत्राब्जे वेधयेदीश्वरे स्वयम् ।
वर्णा।स्तानाहरेदस्मिन् कण्ठपद्मे च तं तथा ॥ ५-९३ ॥
कलादलमये पद्मे स्वरान् संयोज्य यत्नतः ।
सदाशिवेऽथ संयोज्य ता।स्तद्भ्रूमध्यपद्मके ॥ ५-९४ ॥
द्विदले हक्षसंयुक्ते वेधयित्वा तु देशिकः ।
शक्त्या सहैवमात्मानं नयेत् परशिवावधि ॥ ५-९५ ॥
देशिकाज्ञावशाच्छिष्यो दग्ध्वाऽज्ञानं तदा क्षितौ ।
पतेदवाप्तविज्ञानः सर्वज्ञो जायते ततः ॥ ५-९६ ॥
सदाशिवः स्वयं भूयात् सत्यमेव न संशयः ।
इयं ज्ञानप्रदा प्रोक्ता दीक्षा वेधात्मिका शुभा ॥ ५-९७ ॥
इति वेधमयी दीक्षा ।
अथ पञ्चायतनी दीक्षा । तत्र मुख्यकलशं मध्ये संस्थाप्य चतुर्षु कोणेषु चतुरः कलशान् संस्थाप्य पञ्चदेवता आवाह्य पूजयेत् ।
अथ वा एकमेव कलशं संस्थाप्य वक्ष्यमाणक्रमेण देवताः पूजयेत् । प्रोक्तन्नैवं कलशविधिनैकेन वा नैककुम्भैरिति (प्रपञ्चसार-) वचनात् ।
तत्र देवतास्थापनक्रम उक्तो (ज्ञानमालायाम्) ।
यदा तु शङ्करं मध्ये ऐशान्यां श्रीपतिं यजेत् ।
आग्नेज्यां च तथा हंसं नैर्-ऋत्यां पार्वतीसुतम् ॥ ५-९८ ॥
प्। ३८८) वायव्यां च सदा पूज्या भवानी भक्तवत्सला ।
यदा तु मध्ये गोविन्दमैशान्यां शङ्करं यजेत् ॥ ५-९९ ॥
आग्नेय्यां गणनाथं च नैर्-ऋत्यां तपनं तथा ।
वायव्यामम्बिकां चैव यजेन्मन्त्री समाहितः ॥ ५-१०० ॥
सहस्रांशुं यदा मध्ये ऐशान्यां पार्वतीपतिम् ।
आग्नेय्यामेकदन्तं च नैर्-ऋत्यामच्युतं यजेत् ॥ ५-१०१ ॥
वायव्यां पूजयेद्दिवीं भोगमोक्षैकदायिनीम् ।
भवानीं तु यदा मध्ये ऐशान्यां माधवं यजेत् ॥ ५-१०२ ॥
आग्नेय्यां पार्वतीनाथं नैर्-ऋत्यां गणनायकम् ।
प्रद्योतनं च वायव्यामाचार्यस्तु प्रपूजयेत् ॥ ५-१०३ ॥
हेरम्बं तु यदा मध्ये ऐशान्यामच्युतं यजेत् ।
आग्नेय्यां पञ्चवक्त्रं तु नैर्-ऋत्यां जगदम्बिकाम् ॥ ५-१०४ ॥
वायव्यां द्युमणिं चैव यजेन्मन्त्री ह्यतन्द्रितः ।
स्वस्थानवर्जिता देवाः शोकदुःखभयप्रदाः ॥ ५-१०५ ॥
तन्मण्डलस्थितो राजा साधकश्च विनश्यति ॥ ५-१०५एफ़् ॥
तन्त्रान्तरे-
शम्भौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करे-
भास्येनागसुता रवौ हरगणेशाजाम्बिकाः स्थापिताः ।
देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरा-
र्येनाः शङ्करभागतो निगदिता व्यस्तास्तु ते हानिदाः ॥ ५-१०६ ॥
(मेरुतन्त्रे)
इशेऽजेनेशजशिवा हरावीशेशजेनसाः ।
स्वावीशेशजाजोमा देव्यां विशिगभास्कराः ॥ ५-१०७ ॥
प्। ३८९) गणेशेऽजेशभादेव्योऽभ्यर्च्या ईशादिकोणतः ।
पूजाक्रमस्तु तन्त्रान्तरे ।
मुख्ये पुष्पाञ्जलिं दत्वा गणेशाद्यर्चनं भवेत् ॥ ५-१०८ ॥
गणेश एव मुख्यश्चेत् तत्र सूर्यक्रमाद्भवेत् - इति ॥
इदं च ।
एकपीठे पृथक्पूजां विना यन्त्रं करोति यः ।
अङ्गाङ्गं तु परित्यज्य देवताशापमाप्नुयात् ॥ ५-१०९ ॥
इति कलावतीवचनेन यन्त्रातिरिक्ताधारे पृथक्पूजाया निषेधात् प्रतिष्ठितयन्त्रादिविषयं पीठस्यार्चनमङ्गदेवजयनमित्यादि (सनत्कुमारीय-) वचनात् । अङ्गदेवतापूजाकालस्तु पीठार्चनान्तरमिति (तन्त्रसारकृतः) । (महाकालसंहितायां-) तु पीठार्चनात् प्रागेव गणेशादिपूजनमुक्तम् ।
पञ्चायतनवानस्मिन्नेवावसर उत्सुकः ।
गणेशविष्णुसूर्येशान् पूजयेदुपचारकैः - इति ।
वस्तुतस्तु पीठास्यार्चनमङ्गदेवयजनमित्यादिवचनमेककलश-पक्षे । पञ्चकलशपक्षे तु पञ्चसु सर्वतोभद्रमण्डलेषु पञ्चकलशानुक्तक्रमेण संस्थाप्य पञ्चदेवताः पृथक् पूजयेदिति न कश्चिद्विरोधः । (श्यामादौ) तु पञ्चायतनदीक्षाभाव उक्तः (चामुण्डातन्त्रे) ।
श्यामायां भैरवीताराच्छिन्नमस्तास्तु भैरवे ॥ ५-११० ॥
मञ्जुघोषे तथा रौद्रे पञ्चाङ्गो नेष्यते बुधैः ।
इति पञ्चायतनदीक्षाविधिः ।
(षडन्वयमहारत्ने)
आणवी बहुधा दीक्षा शाक्तेयी शाम्भवी पुनः ॥ ५-१११ ॥
एकधैवेति विद्वद्भिः पठ्यते शास्त्रकोविदैः ।
आणवी बहुधेत्युक्त्वा तद्भेदं त्वधुनोच्यते ॥ ५-११२ ॥
स्मार्ती मानसिकी यौगी चाक्षुषी स्पार्शनी तथा ।
प्। ३९०) वाचिकी मन्त्रिकी होत्री शास्त्री चेत्यभिषेचिकी ॥ ५-११३ ॥
अथ स्मार्ती दीक्षा तत्रैव ।
विदेशस्थं गुरुं स्मृत्वा शिष्यं पाशत्रयं क्रमात् ।
विश्लिष्य लयभोगस्य विधानेन परे शिवे ॥ ५-११४ ॥
सम्यग्योजनरूपैषा स्मार्त्ती दीक्षेति कीर्तिता ।
इति स्मार्ती दीक्षा ।
अथ मानसी दीक्षा तत्रैव ।
स्वसन्निधौ समासीनमालोक्य मनसा शुचिम् ॥ ५-११५ ॥
मलत्रयादुपायैर्या मोचकी सा तु मानसी ।
इति मानसी दीक्षा ।
अथ योगदीक्षा तत्रैव ।
योगोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु ॥ ५-११६ ॥
गृहीत्वा तस्य चात्मानं स्वात्मना योजनात्मिका ।
योगदीक्षेति सा प्रोक्ता मलत्रयविनाशिनी ॥ ५-११७ ॥
इति योगदीक्षा ।
अथ दृग्दीक्षा (मेरुतन्त्रे)
निमील्य नयने ध्यात्वा परमात्मनि देवताम् ।
तद्दर्शनानन्दपूर्णनेत्राभ्यां वीक्षयेद्गुरुः ॥ ५-११८ ॥
शिष्यं प्रसन्नचित्तः सन् पश्चादुपदिशेदिति ।
मन्त्रः शिष्यस्य सिद्ध्यै स्याद्दृग्दीक्षेयं फलप्रदा ॥ ५-११९ ॥
(षडन्वयमहारत्ने)
शिवोऽहमिति निश्चित्य वीक्षणं करुणार्द्रया ।
दृशा सा चाक्षुषी दीक्षा सर्वपापप्रणाशिनी ॥ ५-१२० ॥
इति दृग्दीक्षा ।
अथ स्पर्शदीक्षा तत्रैव ।
स्वयं परशिवो भूत्वा निःसन्दिग्धमना गुरुः ।
प्। ३९१) शिवहस्तेन शिष्यस्य समन्त्रं मूर्ध्नि संस्पृशेत् ॥ ५-१२१ ॥
स्पर्शदीक्षेति सा प्रोक्ता शिवाभिव्यक्तकारिणी ।
शिवहस्तेनेति ।
गन्धैर्मण्डलकं स्वीये विदध्याद्दक्षिणे करे ॥ ५-१२२ ॥
विधिना चार्चयेद्देवमित्थं स्याच्छिवहस्तकः - इति (सोमशम्भु-) प्रोक्तरूपेणेत्यर्थः ॥
(मेरुतन्त्रे)
गुरुः स्वस्य गुरुं ध्यायेत् स्वहस्ते शिवरूपिणम् ।
मूलविद्यां षडङ्गं च मातृकादिमनून् जपन् ॥ ५-१२३ ॥
शिष्यस्य मस्तके दत्वा कृपया दक्षिणं करम् ।
पश्चादुपदिशेत् प्रोक्ता स्पर्शदीक्षाऽतिसिद्धिदा ॥ ५-१२४ ॥
इति स्पर्शदीक्षा ।
अथ वाचिकी दीक्षा (षडन्वयमहारत्नै)
गुरुवक्त्रं निजं वक्त्रं विभाव्य गुरुरादरात् ।
गुरुवक्त्रप्रयोगेण दिव्यमन्त्रादिकं शिशौ ॥ ५-१२५ ॥
मुद्रान्यासादिभिः सार्धं दद्यात् सेयं हि वाचिकी ।
(मेरुतन्त्रे)
सदाशिवे तु चिद्रूपे गुरुश्चित्तं निधापयेत् ।
मन्त्रान् समस्ता।स्तज्जातान् ध्यायेत् स्वयं तदात्मकः ॥ ५-१२६ ॥
जातो गुरोश्च कृपया केवलोऽहं सदाशिवः ।
इति ध्यायन्नुपविशेद्वाग्दीक्षा त्वियमीरिता ॥ ५-१२७ ॥
इति वाचिकी दीक्षा ।
अथ मन्त्री दीक्षा (षडन्वयमहारत्ने)
दीक्षा परा तथा मन्त्रन्याससंयुक्तविग्रहः ।
स्वयं मन्त्रतनुर्भूत्वा सक्रमं मन्त्रमादरात् ॥ ५-१२८ ॥
प्। ३९२) दद्याच्छिष्याय सा दीक्षा मान्त्री मलविघातनी ।
इति मान्त्री दीक्षा ।
अथ होत्री दीक्षा तत्रैव ।
कुण्डे वा स्थण्डिले वाऽपि निःक्षिप्याग्निं विधानतः ॥ ५-१२९ ॥
लयभोगक्रमेणैव प्रत्यध्वानं यथाक्रमम् ।
मन्त्रवर्णकलातत्त्वपदविष्टपमेव च ॥ ५-१३० ॥
शुद्ध्यर्थं होमयेदेषा होत्री दीक्षा समीरिता ।
लयभोगक्रमेणेति । वेधदीक्षाक्रमेण मूलाधाराधिष्ठित-वर्णदेवतासंहाररूपेणेत्यर्थ इति होत्री दीक्षा ।
इति शास्त्री दीक्षा ।
अथ शास्त्री दीक्षा तत्रैव ।
योगशिष्याय भक्ताय शुश्रूषार्चापराय च ॥ ५-१३१ ॥
सार्धं शास्त्रप्रदा त्रय्या शास्त्री दीक्षेति चोच्यते ।
इति शास्त्री दीक्षा ।
अथाभिषेचिकी दीक्षा तत्रैव ।
शिवं च शिवपत्नीं च कुम्भे सम्पूज्य सादरम् ॥ ५-१३२ ॥
शिवकुम्भाभिषेकात् सा दीक्षा स्यादभिषेचिकी ।
इत्यभिषेचिकी दीक्षा ।
अथ शाम्भवी दीक्षा (मेरुतन्त्रे)
गोरोरालोकमात्रेण भाषणात् स्पर्शनादपि ॥ ५-१३३ ॥
सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी स्मृता ।
इति शाम्भवी दीक्षा ।
अथोपदेश दीक्षा (विश्वसारे)
तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम् ॥ ५-१३४ ॥
तदम्बुनाऽभिषिञ्च्याष्टवारं मूलेन के करम् ।
निधायाष्टौ जपेत् कर्णे उपदेशे त्वयं विधिः ॥ ५-१३५ ॥
प्। ३९३) तत्रेति । पूर्वोक्तसङ्क्षेपदीक्षायामित्यर्थः । अब्जमिति शङ्खम् । के करं निधायेति । शिरसि हस्तं न्यस्येदित्यर्थः ।
अथोपदेशदीक्षान्तरं तत्रैव ।
महादीक्षा तथा दीक्षा उपदेशस्ततः परम् ।
युगे युगे च कर्त्तव्या उपदेशः कलौ युगे ॥ ५-१३६ ॥
चन्द्र सूर्यग्रहे तीर्थे सिद्धिक्षेत्रे शिवालये ।
मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥ ५-१३७ ॥
(मेरुतन्त्रे)
भुक्तिमुक्तिप्रसिद्ध्यर्थं परीक्ष्य विधिवदगुरुः ।
पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलं भवेत् ॥ ५-१३८ ॥
अन्यायेन च यो दद्यात् गृह्णात्यन्यायतश्च यः ।
ददतो गृह्णतो वाऽपि कुल शापो भविष्यति ॥ ५-१३९ ॥
गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् ।
उपदेशं ददद्गृह्णन् प्राप्नुयातां पिशाचताम् ॥ ५-१४० ॥
अशास्त्रीयोपदेशं तु यो गृह्नाति ददाति च ।
भुञ्जाते तावुभौ घोरान् नरकानेकविंशतिम् ॥ ५-१४१ ॥
असंस्कृत्योपदेशं तु यः करोति विमूढधीः ।
विनश्यन्ति च तन्मन्त्राः सैकते शालिबीजवत् ॥ ५-१४२ ॥
अनर्हे मन्त्रविज्ञानं न तिष्ठति कदाचन ।
तस्मात् परीक्ष्य वक्तव्यमन्यथा निष्फलं भवेत् ॥ ५-१४३ ॥
सच्छिष्यायातिभक्ताय यज्ज्ञानमुपदिश्यते ।
तत् प्राप्नोति प्रतीतित्वं गोक्षीरात् तु यथा घृतम् ॥ ५-१४४ ॥
प्। ३९४) धनेच्छाभयलोभाद्यैरयोग्यं यदि दीक्षयेत् ।
देवताशापमाप्नोति कृतं च विकृतं भवेत् ॥ ५-१४५ ॥
इत्युपदेशदीक्षाविधिः ।
अथ क्रमदीक्षा विधिः । (तन्त्रचिन्तमणि-) धृत-(शक्तिशङ्गमकुलार्णवा-) दिवचनानि ।
सुन्दरी तारिणी काली क्रमदीक्षाभिगामिनी ।
क्रमपूर्णो महेशानि क्रमाच्छुम्भुर्भविष्यति ॥ ५-१४६ ॥
चन्द्राग्निपक्षषोढाख्यपरानिर्वाणतत्परा ।
षट्शाम्भवं ततो देवि चक्रसम्भेदमेव च ॥ ५-१४७ ॥
स्वचक्रदेहविज्ञानं परकायप्रवेशनम् ।
एतज्ज्ञानाद्भवेन्मेधा दीक्षा प्रोक्ता मया तव ॥ ५-१४८ ॥
हादाविदं निगदितं शृणु कादौ महेश्वरि ।
चन्द्राग्निरसराज्ञी च महाराज्ञी ततः शिवे ॥ ५-१४९ ॥ ५-
महाकामकला काली गुह्यकाली ततः शिवे ।
गुह्यकाली द्विधा प्रोक्ता सकला निष्कला क्रमात् ॥ ५-१५० ॥
दशवक्त्रा तु सकला प्रोक्ता वा सृष्टिकारिका ।
उग्रा सौम्या महाक्रूरा त्रिधा साऽपि प्रकीर्तिता ॥ ५-१५१ ॥
निष्कला गुह्यसंशन्ती काली भेदेन कीर्तिता ।
केवलेयं भवेन्मेधाह्वयी साम्राज्यरूपिणी ॥ ५-१५२ ॥
चन्द्राग्निवेदपञ्चार्णा तथा नीला क्रमेण च ।
हंसतारा महानीला तदन्ते चीनसम्भवी ॥ ५-१५३ ॥
केवला तु भवेन्मेधा ऋद्धिसिद्धिक्रिया द्विधा ।
त्रितया दिव्यसाम्राज्ये मेधा दीक्षा प्रकीर्तिता ॥ ५-१५४ ॥
देवरूपा दिव्यरूपा मन्त्ररूपा महापरा ।
प्। ३९५) सर्वरूपा सर्वपूर्वा महासाम्राज्यमेधया ॥ ५-१५५ ॥
ऋद्धिसिद्धिक्रमेणैव भेदबाहुल्यमीरितम् ।
विद्या राज्याभिधा दीक्षा छिन्नमस्ताविधौ स्मृता ॥ ५-१५६ ॥
चन्द्रवह्निरसारक्तश्यामा च षोडशी तथा ।
परा षोढा सप्तदशी तदा जाता परा भवेत् ॥ ५-१५७ ॥
दीपिनी मालिनी कुल्ला क्रमाद्विद्यादिराज्यदा ।
वगला या महेशानि साम्राज्यपरमे स्थिता ॥ ५-१५८ ॥
चन्द्रवेदसूक्ष्ममेरुमन्त्रहीनं शिवान्तरम् ।
हृदयं च शतार्णं च पञ्चास्त्रं कुल्लुका तथा ॥ ५-१५९ ॥
गायत्री क्रमयोगेन साम्राज्यपरमेष्ठ्यधृक् ।
एतत्पञ्चकसंयुक्तः सर्वसाम्राज्यबुद्धिधृक् ॥ ५-१६० ॥
श्रीदिव्यसर्वसाम्राज्यदीक्षासर्वोत्तरा भवेत् ।
ततोऽपि दीक्षा देवेशि नास्ति ब्रह्माण्डगोलके ॥ ५-१६१ ॥
दश विद्याप्रभेदाश्च महाविद्याप्रभेदजाः ।
सिद्धिविद्याप्रभेदाश्च महामन्त्रास्तथैव च ॥ ५-१६२ ॥
तदङ्गमन्त्रा देवेशि शावरं देशशावरम् ।
कालशावरकं देवि तथैव सिद्धिशावरम् ॥ ५-१६३ ॥
त्रिधा दर्शनमन्त्राश्च तथाऽम्नायक्रमोद्भवाः ।
कादिहादिक्रमत्वेन ऊर्द्धाम्नाये कलौ शिवे ॥ ५-१६४ ॥
तथाऽयतनमन्त्राश्च यत् किं चिन्मन्त्रजालकम् ।
सर्वाधिकारो देवेशि एतद्दीक्षाविधौ भवेत् ॥ ५-१६५ ॥
एतद्दीक्षासमायुक्तः साक्षाच्छ्रीकालिका स्वयम् ।
प्। ३९६) प्रहराष्टक्रमेणैव दशविद्यास्वरूपधृक् ॥ ५-१६६ ॥
कामकलाभिधा विद्या सभेदा वृत्तिदेवता ।
अङ्गमन्त्रास्तथाऽन्येऽपि तस्य चास्त्रगताः सदा ॥ ५-१६७ ॥
क्रमदीक्षा महेशानि पञ्चविद्यासु भेदतः ।
तदङ्गमन्त्रा गायत्रीकुल्लुकापञ्चकं शिवे ॥ ५-१६८ ॥
अन्यविद्याविधौ प्रोक्तं रहस्यातिरहस्यकम् ।
श्रीविद्यायां कालिकायां तारायां परमेश्वरि ॥ ५-१६९ ॥
क्रमदीक्षां विना देवि यो जपेत् साधकाधमः ।
स दरिद्री महाघोरी लक्ष्मीहीनस्तु निन्दितः ॥ ५-१७० ॥
अथ वा वातुलो भूयान्मन्त्रक्षोभमवाप्नुयात् ।
क्रमदीक्षासमायुक्तो राजा भवति निश्चितम् ॥ ५-१७१ ॥
महाविभवसंयुक्तः सर्वसिद्धिसमन्वितः ।
विजयी विनयी साधुः सिद्धश्च सिद्धिदः शुभः ॥ ५-१७२ ॥
प्रहृष्टात्मा सर्ववेत्ता त्रिकालज्ञः कविः सुखी ।
कोटिसिद्धीश्वरः शूरः सुन्दरः काममोहनः ॥ ५-१७३ ॥
आनन्दात्मा परात्मा च पराजितगुणोत्तरः ।
राजराजेश्वरः साक्षान्महाकालसमः कलौ ॥ ५-१७४ ॥
नैतद्विद्योपासकस्य दारिद्र्यं दीनता क्वचित् ।
गुरुहीनात् क्रमत्यागात् सम्प्रदायवियोगतः ॥ ५-१७५ ॥
दारिद्र्यं प्रथमं भूयान्नात्र कार्या विचारणा ।
चिन्तामणिगृहं यत्र यत्र रत्नस्य मन्दिरम् ॥ ५-१७६ ॥
नवरत्नात्मसोपानं सर्वैश्वर्यास्पदं गृहम् ।
प्। ३९७) कल्पवृक्षवनं यत्र परिजातवनं तथा ॥ ५-१७७ ॥
स्पर्शमणेस्तु प्राकारो दारिद्र्यं तत्र कुत्र वै ।
तस्मात् क्रमविहीनस्य दारिद्र्यं तु पदे पदे ॥ ५-१७८ ॥
क्रमयुक्तं गुरुं प्राप्य क्रमं सम्प्रार्थयेत् सुधीः ।
अन्यथा गुरुमौढ्येन दरिद्रत्वमवाप्नुयात् ॥ ५-१७९ ॥
अल्पायुर्वा भवेद्देवि नात्र कार्या विचारणा ।
दीक्षापद्धतौ (वाडवानलीय)वचनम्
गविसूमापतीशाश्च कथ्यन्ते दिक्षु च क्रमात् ॥ ५-१८० ॥
देशिकेन क्रमज्ञेन दीयन्ते यद्विधानतः ।
क्रमदीक्षेति सा प्रोक्ता व्युत्क्रमो नैव सिद्धिदः ॥ ५-१८१ ॥
क्रमदीक्षाविधिर्यत्र तत्र पूर्णाभिषेचनम् ।
इति क्रमदीक्षाप्रकारः ।
अथ पूर्णाभिषेकदीक्षाविधिः (मेरुतन्त्रे) पूर्वोक्तदीक्षाभेदानुक्ता-
एवं दत्वा गुरुर्दीक्षां कुर्यात् पूर्णाभिषेचनम् ॥ ५-१८२ ॥
विना येनाभिषेकेण साधकः पूर्णबोधताम् ।
आचार्यत्वं न चाप्नोति सद्गतिं च समीहिताम् ॥ ५-१८३ ॥
तस्माद्गुरुः प्रियं शिष्यं बोधयित्वाऽभिषेचयेत् ।
(शक्तिसङ्गमकुलार्णवादौ)
विना पूर्णाभिषेकेण पशुरूपः शिवोऽपि च ॥ ५-१८४ ॥
विना पूर्णाभिषेकेण देवता न प्रसीदति ।
विना पूर्णाभिषेकेण कालीं तारां च यो जपेत् ॥ ५-१८५ ॥
तस्य क्रियां हरिष्यामि वातुलो जायते नरः ।
विना पूर्णाभिषेकेण गुरुधर्मेण पार्वति ॥ ५-१८७ ॥
न जपो न तथा होमो न पूजा पूर्णता क्वचित् ।
प्। ३९८) विशेषतः कौलिकानां पूर्णाभिषेक आवश्यकः ।
पूर्णाभिषेकहीनस्तु कौलिको म्रियते यदि ॥ ५-१८८ ॥
पिशाचत्वमवाप्नोति यावदाभूतसम्प्लवम् - इति (कुलार्णववचनात्) ।
तथा-
पूर्णाभिषेको देवेशि दशविद्याविधौ स्मृतः ।
पूर्णाभिषेककाला उक्ताः (तन्त्रराजे)
ग्रहाणां वैपरीत्येषु जन्मर्क्षे ग्रहणे द्वयोः ॥ ५-१८९ ॥
कुहूप्राप्तौ रिपुक्लेशे कुर्यात् पूर्णाभिषेचनम् ।
तेन दोषाः स्पृशन्त्येनं न कदाचन तद्बलात् ॥ ५-१९० ॥
(शक्तिसङ्गमादौ)
पूर्णाभिषेकदीक्षा तु चन्द्रसूर्यग्रहे भवेत् ।
अन्येष्वपि पुण्यकालेषु पूर्णाभिषेकदीक्षा कर्तव्यैव ।
सप्तसूक्तेषु कालेषु पुण्येष्वन्येषु वाऽदरात् - इति (तन्त्रराज-) वचनात् ।
विधानमाह ।
पूर्वोक्तमण्डपे स्थित्वा गुरुर्ध्यानपरायणः ॥ ५-१९१ ॥
अङ्कुरारोपणं वास्तुयागं कुर्यात् परेऽहनि ।
कुण्डं निर्माय यत्नेन यथाविहितमादरात् ॥ ५-१९२ ॥
होमं कृत्वा गुरुकुलं मान्यं पूज्यमथादरात् ।
वेदिकायामिष्टदेवं गुरुत्रितयमादरात् ॥ ५-१९३ ॥
वस्त्रालङ्करणैः पूज्या गुरुशक्तय एव च ।
तथा दिव्यौघचरणं सिद्धौघचरणं शिवे ॥ ५-१९४ ॥
मानवौघं महेशानि स्वगुरुणां चतुष्ककम् ।
(मेरुतन्त्रे)
विरच्य विपुलं चक्रं मण्डपेऽतिमनोहरम् ॥ ५-१९५ ॥
प्। ३९९) खारीतोयभृतं कुम्भं स्थापयेच्चक्रमध्यतः ।
अन्येषु कलशा।स्तत्र वस्त्रहेमसमन्वितान् ॥ ५-१९६ ॥
दलेषु विविधाः स्थाप्यास्तत्रावाह्येष्टदेवताम् ।
अभ्यर्च्य मध्ये चान्तेषु साङ्गावरणदेवताः ॥ ५-१९७ ॥
तन्त्रान्तरे ।
मध्ये मूलघटः स्थाप्यस्ततः पूजाक्रमेण च ।
सर्वावरणकुम्भाश्च स्थापनीयाः समन्ततः ॥ ५-१९८ ॥
(तन्त्रराजे)
विरच्य विपुलं चक्रं प्रतियोनि च षोडश ।
त्रिकोणानि विधायात्र मध्ये कुम्भं च विन्यसेत् ॥ ५-१९९ ॥
सौवर्णं राजतं ताम्रं काचं मार्तिकमेव च ।
पूरितं खारितोयेन क्वथितेनाक्षरौषधैः ॥ ५-२०० ॥
निःक्षिप्य नव रत्नानि धान्यानि विविधानि च ।
हिरण्यानि सताम्राणि वासोभ्यामभिवेष्टयेत् ॥ ५-२०१ ॥
रक्ताभ्यां चन्दनैश्चूतपनसाश्वत्थपलावैः ।
शतक्रतुलताबद्धैर्मातुलुङ्गफलान्वितैः ॥ ५-२०२ ॥
विधाय कलशानन्यानन्येष्वेकैकशो न्यसेत् ।
सार्धं सहस्रं षट्त्रिंशत्पञ्चसङ्ख्याः क्रमोदिताः ॥ ५-२०३ ॥
खारीतोयमिति । खारीलक्षणमुक्तं (स्कन्दपुराणे)
पलद्वयं तु प्रसृतिः कुडवं द्विगुणं मतम् ।
चतुर्भिः कुडवैः प्रस्थ आढकस्तैश्चतुर्गुणैः ॥ ५-२०४ ॥
चतुर्गुणो भवेद्द्रोणः कुम्भस्तद्द्वयतः स्मृतः ।
कुम्भैस्तैरष्टभिः खारी॥॥॥॥॥॥॥॥। इति ॥
प्। ४००) (तन्त्रराजे)
मध्ये चक्रेषु तोयादि कृत्वा वात्वाऽभिपूज्य च ॥ ५-२०५ ॥
कालात्मनि च मन्त्रा।श्च जपित्वा पूर्ववासरे ।
जन्मर्क्षे प्रातरुत्थाय स्वनित्यान्ते प्रपूजयेत् ॥ ५-२०६ ॥
सहस्रं प्रजपेत् पश्चाद्धोमं कृत्वा समन्ततः ।
(त्रिशक्तिरत्ने)
नानोपचारैः सम्पूज्य सहस्रं जुहुयाच्छ्रुचौ ॥ ५-२०७ ॥
अभिषिञ्चेद्गुरुः शिष्यं नामास्मै प्रदिशेत् स्वयम् ।
(तन्त्रराजे)
शृङ्गकाहलशङ्खादिवाद्यसङ्गीतनर्त्तनैः ॥ ५-२०८ ॥
मुदितैर्योगिनीवृन्दैरेकैकं देवतात्मभिः ।
धृतैः सुपूजितैः सार्धमभिषिञ्चेद्गुरुः स्वयम् ॥ ५-२०९ ॥
(मेरुतन्त्रे)
स्पृश।श्च मध्यकलशमाचार्यः प्रपठेदिति ।
साङ्गा।श्च चतुरो वेदा।स्ततस्तेन जलेन तु ॥ ५-२१० ॥
अभिषिञ्चेद्गुरुः शिष्यमिति पूर्णाभिषेचनम् ।
(तन्त्रराजे)
अथ वा खण्डवत्यष्ट कलशा।स्तत्र विन्यसेत् ॥ ५-२११ ॥
तेषु शक्तीः समावाह्य सम्पूज्यैवाभिषेचयेत् ।
एकं वा कलशं जन्मदिने कृत्वाऽभिषेचयेत् ॥ ५-२१२ ॥
तथा ।
सोमसूर्याग्निरूपत्वं जलस्य परिकीर्त्तितम् ।
तस्मादशेषदुःखार्त्तिशान्त्यै स्यादभिषेचनम् ॥ ५-२१३ ॥
तन्त्रान्तरे ।
अभिषेकक्रियाभिज्ञ उद्वर्तनपुरःसरम् ।
प्। ४०१) स्नानद्वयं यथोक्तेन कृत्वा यत्नेन पार्वति ॥ ५-२१४ ॥
पञ्चपल्लवयोगेन दूर्वाविल्वफलैस्तथा ।
वैदिकैस्तान्त्रिकैर्मन्त्रैः सेचयेच्छिष्यमादरात् ॥ ५-२१५ ॥
अयमेव महादेवि पूर्णदीक्षाक्रमः स्मृतः ।
अन्यत् सर्वं महेशानि दीक्षापटलगोचरम् ॥ ५-२१६ ॥
स्नानद्वयमिति । क्रियावत्यादिदीक्षोक्तमेकमपरं पूर्णाभिषेकरूपमित्यर्थः ।
तदुक्तं (तन्त्रराजे)
अथाभिषेकं द्विविधं समवाप्य तदाज्ञया ।
अनुग्रहादि कुर्वीत सिद्धये नान्यथा भवेत् ॥ ५-२१७ ॥
विधाय चक्रं तन्मध्ययोन्यां कुम्भं विधाय तु ।
वर्णक्वाथैः समापूर्य अभिषिञ्च्य वदेन्मनुम् ॥ ५-२१८ ॥
क्रमागतसमाचारनिरते भक्तिशालिनि ।
द्वितीयमभिषेकं च कुर्याद्देव्यात्मसिद्धये ॥ ५-२१९ ॥
(मेरुतन्त्रे)
देवेभ्यः सर्वतन्त्राणि तन्त्रेभ्यो मनवस्तथा ।
यतो यातास्ततः शिष्यः सर्वमन्त्रैकभाजनम् ॥ ५-२२० ॥
भवेदाचार्यनामा च कुर्यान्नामान्तरं गुरुः ।
एतादृशस्य यो दीक्षां गृह्णीयात् स तु सिद्धिभाक् ॥ ५-२२१ ॥
सर्वमन्त्रप्रदानेषु समर्थः स तु जायते ।
सर्वे देवा वशास्तस्य वेदपन्थास्तु सात्त्विकः ॥ ५-२२२ ॥
एष एव विधिस्तत्र मार्गे स्याद्दक्षिणाभिधे ।
विशेषस्तत्र तोयानि तीर्थानामाहरेत् सुधीः ॥ ५-२२३ ॥
गङ्गाया यमुनायाश्च सरस्वत्या महोदधेः ।
प्। ४०२) सिन्धुगोदावरीरेवाकावेरीभ्यः पृथूदकात् ॥ ५-२२४ ॥
महेन्द्रजायाः सरयूचर्मन्वत्योश्च पुष्करात् ।
महानद्या वेदिकाया क्षिप्रावेत्रवतीजलम् ॥ ५-२२५ ॥
कुरुक्षेत्रस्य गण्डक्याः पूर्णाया मानसस्य च ।
घटे दत्वा जपेन्मन्त्रान् नानातन्त्रगतानपि ॥ ५-२२६ ॥
अभिषिक्तस्तु तैस्तोयैः सिद्धास्ते मनवोऽस्य तु ।
प्रयोगार्थं तथा न्यस्य दानार्थम् ॥॥॥। इति ॥
(निरुत्तरतन्त्रे)
वैष्णवो गाणपत्यश्च सौरश्चैव कुलेश्वरि ॥ ५-२२७ ॥
अभिषेकं प्रकुर्वीत शाक्तश्च कुलभूषणः ।
तथा ।
अभिषेकं चरेद्देवि अधिवासपुरःसरम् ॥ ५-२२८ ॥
वृद्धिशक्तिं ततः कृत्वा शिवशक्तीः प्रपूजयेत् ।
गुरुं सम्पूज्य विधिवत् स्वर्णालङ्कारभूषणैः ॥ ५-२२९ ॥
ततः सङ्कल्पविधिना गुरूणां वरणं चरेत् ।
तथा ।
शिवशक्ती च सम्पूज्य स्थापयेद्घटमुत्तमम् ॥ ५-२३० ॥
नातिह्रस्वं नातिदीर्घं स्वर्णरूप्यादिनिर्मितम् ।
विशेषार्घस्य यन्त्रे वा त्रिकोणे वाऽपि विन्यसेत् ॥ ५-२३१ ॥
कामबीजेन सम्प्रोक्ष्य वाग्भवेनैव ताडयेत् ।
शक्त्या घटं समालोच्य मायया पूरणं जलैः ॥ ५-२३२ ॥
मन्त्रेणानेन तीर्थानि देशिकस्तत्र विन्यसेत् ।
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ॥ ५-२३३ ॥
प्। ४०३) ह्रदाः प्रस्रवणाः पुण्याः स्वःपातालमहीगताः ।
सर्वतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् ॥ ५-२३५ ॥
श्रीबीजेन प्रजप्तेन पल्लवं प्रतिपादयेत् ।
कूर्चेन फलदानं स्यात् स्त्रीबीजेन स्थिरीकृतिः ॥ ५-२३६ ॥
सिन्दूरं वह्निबीजेन पुष्पं प्रेतेन विन्यसेत् ।
मूलेन प्रणवेनापि दूर्वां दद्याद्विचक्षणः ॥ ५-२३७ ॥
हु। फट्स्वाहेति मन्त्रेण कुर्याद्दर्भेण ताडनम् ।
विचिन्त्य दिवीपीठं च तत्रावाह्य प्रपूजयेत् ॥ ५-२३८ ॥
अनेनैव विधानेन सर्वकर्मसु सुन्दरि ।
घटं संस्थापयेद्देवीभक्तेनैव विशेषतः ॥ ५-२३९ ॥
महापूजां चरेद्धीमान् षोडशोपचारसंयुताम् ।
गुरूणां च महापूजां शक्तीनां च ततः परम् ॥ ५-२४० ॥
तत्पश्चात् साधकानां च क्रमेण परिपूजनम् ।
कुमारीभ्यो वलिं दत्वा कुलजाभ्यो विशेषतः ॥ ५-२४१ ॥
अभिषेकं ततो देवि कुर्याच्च गुरुमार्गतः ।
स्वतन्त्रोक्तविधानेन मन्त्रस्योच्चारणैः सह ॥ ५-२४२ ॥
चालयेच्च घटं मन्त्री मन्त्रेणानेन देशिकः ।
ॐ उत्तिष्ठ ब्रह्मकलश सेविताशेषसिद्धिद ॥ ५-२४३ ॥
सर्वतीर्थाम्बुपूर्णस्त्वं पूरयस्व मनोरथम् ।
इशानेन्द्रस्मरक्षोणी तदन्ते भुवनेश्वरी ॥ ५-२४४ ॥
मन्त्रेणानेन वद्यानां निर्घोषैश्चालयेद्घटम् ।
प्। ४०४) तथा ।
अभिषेकस्य दक्षिणामूर्ती ऋषिरनुष्टुप्छन्दः शक्तिर्देवता सर्वसिद्धिसङ्कल्पसिद्धये विनियोगः ॥
ॐ राजराजेश्वरीशक्तिर्भैरवी कालभैरवी ।
श्मशानभैरवी देवी त्रिपुरानन्दभैरवी ॥ ५-२४६ ॥
त्रिपुरा त्रिपुरादेवी तथा त्रिपुरसुन्दरी ।
त्रिपुरेशी महादेवी तथा त्रिपुरमालिका ॥ ५-२४७ ॥
नित्या च नित्यरूपा च वज्रप्रस्तारिणी तथा ।
सर्वचक्रेश्वरी देवी तथा नीलसरस्वती ॥ ५-२४८ ॥
सर्वसिद्धिकरी देवी सिद्धगन्धर्वसेविता ।
उग्रतारा महादेवी तथा दक्षिणकालिका ॥ ५-२४९ ॥
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ।
उग्रदंष्ट्रा महादंष्ट्रा शुभदंष्ट्रा कपालिनी ॥ ५-२५० ॥
भीमनेत्रा विशालाक्षी मङ्गला विजया जया ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ ५-२५१ ॥
मङ्गला नन्दिनी भद्रा लक्ष्मीः कीर्तिर्यशस्विनी ।
पुष्टिर्मेधा शिवा साध्वी यशःशोभा जया धृतिः ॥ ५-२५२ ॥
श्रीनन्दा च सुनन्दा च नन्दिन्यानन्दपूजिता ।
एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ ५-२५३ ॥
विजया मङ्गला भद्रा स्मृतिः शान्तिः क्षमा धृतिः ।
सिद्धिस्तु परमा पुष्टिः श्री ऋद्धिश्च रतिस्तथा ॥ ५-२५४ ॥
दीप्ता कान्तिर्यशोलक्ष्मीरीश्वरी बुद्धिरेव च ।
प्। ४०५) शक्तिर्मायावती ब्राह्मी जयन्ती चापराजिता ॥ ५-२५५ ॥
अजिता मानवी श्वेता दितिस्त्वदितिरेव च ।
माया चैव महामाया मोहिनी क्षोभिणी तथा ॥ ५-२५६ ॥
कमला विमला गौरी लावण्याम्बुधिसुन्दरी ।
दुर्गा क्रियाऽरुन्धती च घण्टाकर्णा कपालिनी ॥ ५-२५७ ॥
चर्चिका चपरा ज्ञेया तथैव सुरपूजिता ।
वैवस्वती च कौमारी तथा माहेश्वरी परा ॥ ५-२५८ ॥
वैष्णवी च महालक्ष्मीः कार्तिकी कौशिकी तथा ।
शिवदूती च चामुण्डा मुण्डमालाविभूषणा ॥ ५-२५९ ॥
एतास्त्वा � � � � � � � � � � � � � � � � � � � � इत्यादि ।
इन्द्रो वह्निर्यमश्चैव नैर्-ऋतो वरुणस्तथा ॥ ५-२६० ॥
पवनो धनदेशानौ ब्रह्माऽनन्तो दिगीश्वराः ।
एतास्त्वा � � � � � � � � � � � � � � � � � � � � इत्यादि ॥ ५-२६१ ॥
संवत्सरश्चायनौ च मासपक्षदिनानि च ।
तिथयश्चाभिषिञ्चन्तु मन्त्रपूतेन वारिणा ॥ ५-२६२ ॥
रविः सोमः कुजबुधौ गुरुः शुक्रः शनैश्चरः ।
राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः ॥ ५-२६३ ॥
नक्षत्रं करणं योगोऽमृतसिद्धिस्ततः परम् ।
दग्धाः पापास्तथा भद्रा योगा वाराः क्षणास्तथा ॥ ५-२६४ ॥
वारवेला कालवेला दण्डा ऋक्षादयस्तथा ।
अभिषिञ्चन्तु सततं मन्त्रपूतेन वारिणा ॥ ५-२६५ ॥
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च ।
कपाली भीषणाख्यश्च संहारश्चाष्ट भैरवाः ॥ ५-२६६ ॥
प्। ४०६) एते त्वा � � � � � � � � � � � � � � � � � � � � इति ।
द्राविणीपुत्रिकाश्चैव डाकिनीपुत्रिकास्तथा ॥ ५-२६७ ॥
शाकिनीपुत्रिकाश्चान्याः काकिनीपुत्रिकाः पराः ।
शाकिनीपुत्रिका भूयो हाकिनीपुत्रिकास्तथा ॥ ५-२६८ ॥
ततश्च राकिणीपुत्री देवपुत्री ततः परम् ।
मातॄणां च तथा पुत्री चोर्ध्वमुख्याः सुतास्तथा ॥ ५-२६९ ॥
अधोमुख्याः सुताश्चैव ज्वालामुख्याः सुताः पराः ।
एतास्त्वा � � � � � � � � � � � � � � � � � � � � इति ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ५-२७० ॥
एते त्वा � � � � � � � � � � � � � � � � � � � � इति ।
पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश ॥ ५-२७१ ॥
आत्मा परात्मा ज्ञानात्मा ध्यानात्मा परमात्मनः ।
आत्मानश्चात्मनश्चैव स्थूलसुक्ष्मौ च ये पराः ॥ ५-२७२ ॥
एते त्वा � � � � � � � � � � � � � � � � � � � � इति ।
वेदादिबीजं हु। बीजं स्त्रीबीजं तन्निकेतनम् ।
शक्तिबीजं रमाबीजं मायाबीजं सुधाकरम् ॥ ५-२७३ ॥
चिन्तारत्नं महाबीजं नारसिंहं च तारकम् ।
मार्तण्डभैरवं दौर्गं बीजं स्त्रीपौरुषोत्तमम् ॥ ५-२७४ ॥
गाणपत्यं च वाराहं कालीबीजं भयापहम् ।
एतानि त्वाऽभिषिञ्चन्तु � � � � � � � � � � � � � � � � इति ।
गङ्गा गोदावरी रेवा यमुना च सरस्वती ॥ ५-२७५ ॥
आत्रेयी भारती चैव सरयू गण्डकी तथा ।
प्। ४०७) करतोया चन्द्रभागा श्वेतगङ्गा च कौशिकी ॥ ५-२७६ ॥
भोगवती च पाताले स्वर्गे मन्दाकिनी तथा ।
एतास्त्वा � � � � � � � � � � � � � � � � � � � � इति ।
भैरवी भीमरूपा च शोणः सुमुख एव च ॥ ५-२७७ ॥
सिन्धुश्चैव ह्रदः पुण्यस्तथा पातालसम्भवः ।
एते त्वा � � � � � � � � � � � � � � � � � � � � इति ॥
यानि कानि च तीर्थानि पुण्यापुण्यतराणि च ॥ ५-२७८ ॥
तानि त्वा � � � � � � � � � � � � � � � � � � � � इति ।
जम्बूद्वीपादयो द्वीपाः सागरा लवणादयः ।
अनन्ताख्यस्तथा नागः सर्पा ये तक्षकादयः ॥ ५-२७९ ॥
एते त्वा � � � � � � � � � � � � � � � � � � � � इति ।
तारश्च वह्निजाया च वषट् कूर्चमतः परम् ।
वौषट्कारस्तु फट्कारो ह्यभिषिञ्चतु सर्वदा ॥ ५-२७९ ॥
नश्यन्तु प्रेतकुष्माण्डा राक्षसा दानवाश्च ये ।
पिशाचा गुह्यका भूता अभिषेकेण ताडिताः ॥ ५-२८० ॥
अलक्ष्मीः कालकर्णी च पापानि सुमहान्ति च ।
नश्यन्तु चाभिषेकेण तारबीजेन ताडिताः ॥ ५-२८१ ॥
रोगाः शोकाश्च दारिद्र्यं दौर्बल्यं चित्तविक्रिया ।
नश्यन्तु चाभिषेकेण वाग्बीजेनैव ताडिताः ॥ ५-२८२ ॥
लोकानुरागत्यागाश्च दौर्भाग्यमपि दुर्यशः ।
नश्यन्तु चाभिषेकेण मन्मथेनैव ताडिताः ॥ ५-२८३ ॥
तेजोह्रासः शक्तिह्रासो बुद्धिह्रासस्तथैव च ।
नश्यन्तु चाभिषेकेण शक्तिबीजेन ताडिताः ॥ ५-२८४ ॥
प्। ४०८) विषाणि च माहारोगा डाकिन्यो भीतयस्तथा ।
घोराभिचाराः क्रूराश्च ग्रहा नागास्तथैव च ॥ ५-२८५ ॥
नश्यन्तु चाभिषेकेण कालीबीजेन ताडिताः ।
नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः ॥ ५-२८६ ॥
अभिषेकेण शाक्तानां पूर्णाः सन्तु मनोरथाः ।
एवं संसिच्य शिष्यं तु पुनः पूजां समाचरेत् ॥ ५-२८७ ॥
शिष्योऽपि तत्र सम्पूज्य गुरवे दक्षिणां ददेत् ।
गोभूमिस्वर्णरूप्यं च नानारत्नानि पार्वति ॥ ५-२८८ ॥
सर्वस्वं गुरवे दद्यात् तदर्धं वाऽपि दक्षिणाम् ।
श्रीविद्यां वा सिद्धिकालीं तारां वा महिषार्दिनीम् ॥ ५-२८९ ॥
शिष्याय भक्तियुक्ताय प्रदद्याद्देशिकः स्वयम् ।
तन्त्रान्तरे ।
एवं कृत्वाऽभिषेकं च प्रधानकलशाम्भसा ॥ ५-२९० ॥
तत्तन्मन्त्रं समुच्चार्य परिचारघटोदकैः ।
अभिषिञ्चेत् ततस्तस्मै प्रदद्यान्मन्त्रमुत्तमम् ॥ ५-२९१ ॥
कृते पूर्णाभिषेके तु सर्वमन्त्राधिकारवान् ।
शिष्यः सञ्जायते तस्मादभिषिच्य मनुं ददेत् ॥ ५-२९२ ॥
पूर्वमल्पविधानेन उपदिष्टोऽपि चेन्मनुः ।
पश्चाद् सर्वाधिकारार्थं कुर्यात् पूर्णाभिषेचनम् ॥ ५-२९३ ॥
महामन्त्रोपमन्त्राश्च सिद्धिं दद्युर्न संशयः ।
वाममार्गे तु प्रधानकलशो हेतुद्रव्येण पूरणीयः । कलशान्तराणि जलेनैव । तदुक्तं (मेरुतन्त्रे)
मध्ये तीर्थघटः स्थाप्यः शेषास्तोयघटा मताः ॥ ५-२९४ ॥
ये ये आवाहिता देवा गुरुणा तु सुरा घटे ।
प्। ४०९) ते ते कुर्वन्ति सान्निध्यं मन्त्ररूपाश्च तन्मुखे ॥ ५-२९५ ॥
स्वयं सिद्ध्यति वागस्य मूर्द्धानं नैव नामयेत् ।
यदर्थं नामितो मूर्द्धा तस्य मृत्युर्न संशयः ॥ ५-२९६ ॥
वाममार्गे गुरुर्यस्य ईदृक् सिद्धो यदा भवेत् ।
शिष्यश्च निरहङ्कारः सदा दैवततत्परः ॥ ५-२९७ ॥
देवार्थं यस्य नान्यत्र यस्य भोगे मनो न च ।
स एव सिद्धो वामे स्यादन्यो निरयभाजनम् ॥ ५-२९८ ॥
कौलमार्गे विशेष उक्तस्तत्रैव ।
सजीवमीनयुक्तेन सुरया पूरितेन च ।
पञ्चामृतैस्तु सम्पूर्णं शङ्खेन कलशेन वा ॥ ५-२९९ ॥
अभिषेकं ततः कुर्यात् कुलवृक्षोत्थपल्लवैः ।
अयं पूर्णाभिषेकोऽत्र कुलमार्गे प्रकीर्त्तितः ॥ ५-३०० ॥
कुलवृक्षाश्च ।
सहकारः कर्णिकारः केशरस्तिलकस्तथा ।
कदम्बः सिन्धुवारश्च कङ्कोलश्चम्पकाह्वयः ॥ ५-३०१ ॥
श्लेष्मातकं कुरवको निम्बश्चलदलस्तथा ।
यज्ञाङ्गो जटिलो विल्वः कुलवृक्षा मता अमी � इति (कुलचूडामणौ) प्रोक्ताः ॥
तन्त्रान्तरे ।
अभिषिञ्चेद्गुरुः शिष्यं नामास्मै प्रदिशेत् स्वयम् ॥ ५-३०२ ॥
आनन्दनाथशब्दादि द्व्यक्षरं चतुरक्षरम् ।
नियोज्यैवामुकोऽसीति गुरुरादौ तदाह्वयेत् ॥ ५-३०३ ॥
यथा नारी पितुर्गोत्रात् पत्युर्गोत्रं समाश्रयेत् ।
प्। ४१०) तथा शक्त्युपदेशेन कौलो गोत्रान्तरे व्रजेत् ॥ ५-३०४ ॥
अथोच्यते महेशानि कौलानां गोत्रमुत्तमम् ।
दुर्लभं सर्वतन्त्रेषु शाम्भवं तत् प्रकीर्तितम् ॥ ५-३०५ ॥
कौलावधूतमार्गेषु तीर्थयात्रां न च व्रजेत् ।
तीर्थाटनं च सन्यासं व्रतधारणमेव च ॥ ५-३०६ ॥
उपवासं मुण्डनं च सर्वथा परिवर्जयेत् ।
पूर्णाभिषिक्ते शिरसि तेन तत्र न मुण्डनम् ॥ ५-३०७ ॥
पूर्णाभिषेकमाहात्म्यमाह (मेरुतन्त्रे)
रसेन्द्रेण यथा विद्धमयः सौवणतां व्रजेत् ।
दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते ध्रुवम् ॥ ५-३०८ ॥
तथा ।
गतं शूद्रस्य शूद्रत्वं गता विप्रस्य विप्रता ।
दीक्षासंस्कारसम्पन्ने जातिभेदो न विद्यते ॥ ५-३०९ ॥
पूर्णाभिषेकं कृत्वा तु यत्र कुत्र मृतोऽपि च ।
स एव देवीरूपः स्यात् स देवो धन्यतामियात् ॥ ५-३१० ॥
तन्त्रान्तरे ।
पूर्णाभिषेकयुक्तस्य यत्किञ्चिदनृतं भवेत् ।
तस्य क्रिया च सफला देवता सुप्रसीदति ॥ ५-३११ ॥
पूर्णाभिषेकयुक्तो हि मन्त्रान् दत्वा जपेच्छिवे ।
तत्क्षणात् सिद्धिमाप्नोति नात्र कार्यविचारणा ॥ ५-३१२ ॥
गुरुं विनाऽपि देवेशि त्वभिषेकी तु यं जपेत् ।
तं सभेदं साधयित्वा सिद्धिं दातुमथार्हति ॥ ५-३१३ ॥
पूर्णाभिषेकसंयुक्तश्चाण्डालोऽपि भवेद्यदि ।
स ब्रह्मर्षिमहेशानि नात्र कार्या विचारणा ॥ ५-३१४ ॥
प्। ४११) पूर्णाभिषेकहीनो य ऋषिवर्योऽपि पार्वति ।
स ब्राह्मणाधमः प्रोक्तस्त्वभिषेकी द्विजोत्तमः ॥ ५-३१५ ॥
पूर्णाभिषेकी देवेशि यस्मिन् देशे विराजते ।
स देशो धन्यतां याति समन्तात् कोटियोजनम् ॥ ५-३१६ ॥
न व्याधिर्न च वै मृत्युर्न शत्रूणां भयं क्वचित् ।
पूर्णरूपः शिवः प्रोक्तः शिव एव न संशयः ॥ ५-३१७ ॥
को वा देहः कस्य देहः सुखं दुःखं च कस्य च ।
को जातः को मृतो देवि सर्वं ब्रह्मस्वरूपकम् ॥ ५-३१८ ॥
यस्मिन् काले भवेद्देवि मन्त्रवर्यस्य विस्मृतिः ।
तदैव मरणं प्रोक्तं मरणं मरणं न हि ॥ ५-३१९ ॥
पूर्णाभिषेकयुक्तानामधिकारो हि सर्वतः ।
इति पूर्णाभिषेकदीक्षाविधिः ।
अथ गुरुं विना मन्त्रिणां मन्त्रान्तरग्रहणोपायो (मेरुतन्त्रे)
अथ तान्त्रिकमन्त्राणां दीक्षां शृणु गुरुं विना ॥ ५-३२० ॥
शुक्लपक्षे त्रयोदश्यां चन्द्रताराबलान्विते ।
गत्वा च दक्षिणामूर्तेः सन्निधौ पूजयेच्च तम् ॥ ५-३२१ ॥
कलशस्थापनं कृत्वा तदग्रे वोपरि क्षिपेत् ।
तालपत्रे मनुं लेख्यं मन्त्रदेवं च पूजयेत् ॥ ५-३२२ ॥
देवो गुरुरिति ध्यात्वा मन्त्रं व्यक्तं तु वाचयेत् ।
अष्टोत्तरशतं चैतन्मन्त्रग्रहणमुच्यते ॥ ५-३२३ ॥
एतत् तत्त्वं समाख्यातं गोप्यं मातरि जारवत् ।
प्। ४१२) गुरौ लोभादयो दोषास्तस्मादुद्विजते मनः ॥ ५-३२४ ॥
अतः शास्त्रगुरुं कृत्वा दक्षिणामूर्तितो मनुः ॥ ५-३२४एफ़् ॥
बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्याचित्रामृत-
स्रोतःशालिनि सन्निबन्धनसस्त्सिम्भेदमभ्यर्हितम् ।
गोरक्षाचलभूपनिर्मितपुरश्चर्याणवे पञ्चमः
सद्युक्तिस्फुटमोक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः ॥ ५-३२५ ॥
इति श्रीमन्महाराजाधिराजप्रतापसिंहसाहविरचिते पुरश्चर्याणवे क्रियावतीदीक्षाप्रयोगपूर्वकदीक्षाभेदनिर्णयो नाम
पञ्चमस्तरङ्गः ॥ ५ ॥