०४ क्रियावतीदीक्षाविधिः

अथाग्निसंस्कारविधिः प्रदर्श्यते ।
तत्र प्रथमं कुण्डसंस्कार उक्तो (मेरुतन्त्रे)

वह्नेस्तु स्थापनं कुर्याद्वैदिकः कल्पमार्गतः ।
तान्त्रिकः कुण्डसंस्कारानष्टादश समाचरेत् ॥ ४-१ ॥

मूलमन्त्रेण सम्पश्येत् प्रोक्षयेदस्त्रमन्त्रतः ।
कुशैः सन्ताडयेत् कुण्डमस्त्रमन्त्रं पठ।स्त्रिधा ॥ ४-२ ॥

ततः कवचमन्त्रेण कुण्डस्याभ्युक्षणं मतम् ।
अस्त्रमन्त्रेण खननं कुण्डस्याङ्गुलमानतः ॥ ४-३ ॥

अङ्गुष्ठानामिकाभ्यां तां मृदमस्त्रेण चोद्धरेत् ।
पुनः शुद्धमृदा तं च पूरयेद्धृदयाणुना ॥ ४-४ ॥

समीकुर्यात् ततोऽस्त्रेण सेचयेत् कवचेन च ।
काष्ठादिना कुट्टयेत् तमस्त्रेण स्याद्यथा दृढम् ॥ ४-५ ॥

कुशैः सम्मार्जयेत् कुण्डं ततश्च कवचाणुना ।
विलेपनं गोमयाद्भिः कवचेनैव कारयेत् ॥ ४-६ ॥

कवचेनाग्निसूर्येन्दुकलाः कुण्डे विचिन्तयेत् ।
त्रिसूत्रीकृतसूत्रेण वेष्टयेत् प्रतिमेखलम् ॥ ४-७ ॥

त्रिवारं वर्ममन्त्रेण कुण्डपूजां ततश्चरेत् ।
तारश्चामुककुण्डाय आसनं च नमो इति ॥ ४-८ ॥

एषोऽर्घ इत्याद्यूहैश्च सकलं पूजनं चरेत् ।
नाभेश्च मेखलानां च कुर्यादेवं प्रपूजनम् ॥ ४-९ ॥

सञ्चिन्तयेत् ततोऽस्त्रेण तत् कुण्डं वज्रवद्दृढम् ।

(शारदायाम्)

अस्त्रेण वज्रीकरणं हृन्मन्त्रेण कुशैः शुभैः ॥ ४-१० ॥

प्। २६२) चतुष्पथं तनुत्रेण तनुयादक्षपाटनम् ।
यागे कुण्डानि संस्कुर्यात् संस्कारैरेभिरीरितैः ॥ ४-११ ॥

अथ वा तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः ।

(अक्षपाठनं तु)

अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः ॥ ४-१२ ॥

कुण्डभित्तिगणं सर्वं वर्मणा परिभूषयेत् ।
इत्येवमक्षपाटाख्यं कुण्डसंस्कार ईरितः ॥ ४-१३ ॥

इति नारदपञ्चरात्रे प्रोक्तम् ।
(मेरुतन्त्रे)

वामहोमे तु संस्कारा आद्याश्चत्वार एव हि ।

(नारदपञ्चरात्रे)

कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ॥ ४-१४ ॥

निष्पन्नस्य च ते सर्वे विधेयाः स्युः क्रमेण वै ।

एते संस्काराः कुण्डनिर्माणकाले यदि न कृतास्तदा सिद्धे तस्मिन्नवश्यमाचरणीया इत्यर्थः ।  

(शारदायाम्)

तिस्रस्तिस्रो लिखेल्लेखा हृदा प्रागुदगग्रगाः ॥ ४-१५ ॥

अत्र लिखनक्रमः (सौत्रामणीतन्त्रे)

प्राचीमुदङ्मूर्धसंस्थं दक्षिणारम्भमालिखेत् ।
उदगग्रं पुरःसंस्थं पश्चिमारम्भमालिखेत् ॥ ४-१६ ॥

तिस्रस्तिस्रो लिखित्वैवं प्रोक्षयेद्वाग्भवेन च ।

(शारदायाम्)

प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः ॥ ४-१७ ॥

रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः ।

(यामले)

मूलेन विलिखेदेता दर्भस्यैव स्रुवस्य वा ॥ ४-१८ ॥

(मेरुतन्त्रे)

त्रिकोणोपरि षट्कोणं त्रिकोणद्वितयस्य तु ।
प्। २६३) विष्ण्वीशवासवादीनां षण्णां तत्र प्रपूजनम् ॥ ४-१९ ॥

(शारदायामलयोस्तु)

अथ वा षट्कोणवृत्तं त्रिकोणं तत्र संलिखेत् ।
षट्कोणेनावृतं देवि त्रिकोणं वा समालिखेत्- इति ॥ ४-२० ॥

त्रिकोणषट्कोणादिलिखनं पक्षान्तराभिप्रायेणोक्तम् ।
(शारदायाम्)

सर्वाण्यभ्युक्ष्य तारेण योगपीठमथार्चयेत् ।

(मेरुतन्त्रे)

स्वाग्रादिप्रादक्षिण्येन तत्पद्मकेशरेषु च ॥ ४-२१ ॥

मध्यान्तं पूजयेदेतान् जयां च विजयां तथा ।
अजिताख्यां चापराजितां नित्यां च विलासिनीम् ॥ ४-२२ ॥

दोग्ध्रीमघोरां च तथा मङ्गलामथ तत्र तु ।
ह्री। सर्वशक्तिकमलासनाय नम उच्चरन् ॥ ४-२३ ॥

दत्वा पुष्पाञ्जलिं कुण्डे पूजयेद्भुवनेश्वरीम् ।

तन्त्रान्तरे ।

वागीश्वरीश्वरयोर्योगपीठात्मने नमः ॥ ४-२४ ॥

ह्रीमाद्यः पीठमन्त्रोऽयमावाह्यास्मिन् प्रपूजयेत् ।

(मेरुतन्त्रे) पूजयेद्भुवनेश्वरीमित्यधिकृत्य ।

कामोन्मत्तं शिवं तत्र देवीमृतुमतीं तथा ॥ ४-२५ ॥

गणेशशैवशाक्तेषु ध्यायन् सम्पूजयेदिति ।

(शारदायाम्)

वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् ॥ ४-२६ ॥

वागीश्वरेण संयुक्तामुपचारैः प्रपूजयेत् ।

भुवनेश्वरीवागीश्वयोर्विकल्पो (गणेशविमर्षिण्याम्)

शक्तिबीजेन वागीशीं वागीशं साध्यमन्त्रतः ॥ ४-२७ ॥

प्। २६४) पूजयेदिति शेषः ।
(रुद्रयामले) तु

ततः शिवाय शक्त्यै च नमोन्तौ कथितौ मनू ।
आभ्यां त्रिस्त्रिश्च सम्पूज्य प्रणमेन्मनुनामुना ॥ ४-२८ ॥

वागीश्वरीमृतुस्नातां समस्ताभरणान्विताम् ।
वागीश्वरेण संयुक्तां नामाम्यखिलसिद्धये- इत्युक्तम् ॥ ४-२९ ॥

वैष्णवे तु वागीश्वरीवागीश्वरयोः स्थाने लक्ष्मीनारायणौ पूज्यौ । तदुक्तम् (तत्त्वसारसंहितायाम्)  

लक्ष्मीमृतुमतीं तत्र प्रभोर्नारायणस्य च ।
ग्राम्यधर्मेण संयुक्तमग्निं तत्र विचिन्तयेत् ॥ ४-३० ॥

एवं सौरेऽपि । तदुक्तम् (मेरुतन्त्रे)

वैष्णवे च तथा सौरे लक्ष्मीमृतुमतीं स्मरेत् ।
नारायणस्य संयोगाज्जातमग्निं विचिन्तयेत् ॥ ४-३१ ॥

अत्र च ।

विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः ।
तुष्टिरुत्कृष्टिवृद्धी च सम्प्रोक्ता नव शक्तयः ॥ ४-३२ ॥

इति पीठशक्तयः । बीजाद्यमासनं दत्वेति वचनात् श्रीलक्ष्मीनारायणयोर्योगपीठात्मने नम इति पीठमन्त्रः ।  
श्रीविद्यायां तु (ज्ञानार्णवे)  

कामेश्वरीं कुण्डमध्ये सकामामृतुसंयुताम् ।
समावाह्य च सम्पूज्य तद्गर्भं वह्निमावहेत् ॥ ४-३३ ॥

(शारदायाम्)

सूर्यकान्तादिसम्भूतं यद्वा श्रोत्रियगेहजम् ।
आनीय वह्निं पात्रेण क्रव्यादांशं परित्यजेत् ॥ ४-३४ ॥

प्। २६५) (गौतमीये)

पाषाणभवमग्निं च यदि वारणिसम्भवम् ।
श्रोत्रियाणां गेहजं च वनस्थमथ वा भवेत् ॥ ४-३५ ॥

यदृच्छालाभसम्प्राप्तश्चायोग्यो यागकर्मणि ।
निरग्निब्राह्मणाल्लब्धो ह्यर्धलाभकरो भवेत् ॥ ४-३६ ॥

क्षत्राल्लब्धे चतुर्थांशं फलं दद्याद्धुताशनः ।
वैश्याच्छ्रद्राच्च विफलं जायते होमकर्म तत् ॥ ४-३७ ॥

(उड्डीशे)

श्रोत्रियागारजं वापि सूर्यकान्तोद्भवं तु वा ।
अरणीसम्भवं वापि क्षिप्तं स्वर्णादिभाजने ॥ ४-३८ ॥

ताम्रपात्रादिना मन्त्री पिहितं तु समानयेत् ।
अथ वानीतमभितः स्थापयेत् कांस्यभाजने ॥ ४-३९ ॥

(मेरुतन्त्रे)

अरण्या मणितो विप्रगेहाद्वह्निं कुमारिका ।
सुवासिनी वा सद्वस्त्रा कृतशौचा समाहरेत् ॥ ४-४० ॥

पात्रान्तरेण पिहिते ताम्रपात्रादिके शुभे ।
अग्निप्रणयनं कुर्याच्छरावे वाथ नूतने ॥ ४-४१ ॥

दद्यादस्त्रेण पात्रेऽग्निं कवचेन पिधाय च ।
जीर्णे शरावे कापाले भिन्नपात्रे तथोल्मुके ॥ ४-४२ ॥

नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम् ।

क्रव्यादांशपरित्यागे विशेषस्तन्त्रान्तरे ।

अस्त्रेणाग्निं समाधाय कवचेन पिधाय तु ॥ ४-४३ ॥

क्रव्यादांशं तु चास्त्रेण नैरृत्ये सङ्क्षिपेत् प्रिये ।

(मन्त्रमुक्तावल्यामपि)

आनीयास्त्रेण नैरृत्ये क्रव्यादांशं परित्यजेत् ॥ ४-४४ ॥

प्। २६६) देवांशं मूलमन्त्रेण स्थापयेत् पुरतः सुधीः ।

(उड्डीशे) च

कूर्चास्त्राभ्यां तु नैरृत्यां क्रव्यादांशं परित्यजेत्- इत्युक्तम् ॥ ४-४५ ॥

(गणेश्वरेऽपि)

हु। फडन्तेन मूलेन क्रव्यादांशं परित्यजेत् ।

(क्रियासारेऽपि)

श्मशानादावाममांसमत्ति यो वह्निरुच्यते ॥ ४-४६ ॥

क्रव्यादं तस्य नामास्य त्यजेत् किञ्चिद्धुताशनात् ।

(शारदायाम्)

संस्कुर्यात् तं यथान्यायं देशिको वीक्षणादिभिः ॥ ४-४७ ॥

औदर्यवैन्दवाग्निभ्यां भौमस्यैक्यं स्मरन् वसोः ।
यो जपेद्वह्निबीजेन चैतन्यं पावके तदा ॥ ४-४८ ॥

(मेरुतन्त्रे)

प्रदीपकलिकाकारं तेज आवाह्य यत्नतः ।
ऐक्यं जाठरवैन्दववह्निभ्यां पार्थिवस्य च ॥ ४-४९ ॥

स्मृत्वाग्निबीजकेनास्य चैतन्यं योजयेदथ ।

वैन्दवस्तु भ्रूमध्यस्थो वह्निः ।
(उड्डीशे)

दीपाद्दीपान्तरन्यायात् स्फुरन्तं सर्वतो मुखम् ॥ ४-५० ॥

श्वासमार्गेण मनुवित् कवचेन ततोऽर्चयेत् ।

(शारदायाम्)

तारेण मन्त्रितं मन्त्री धेनुमुद्रामृतीकृतम् ॥ ४-५१ ॥

अस्त्रेण रक्षितं पश्चात् तनुत्रेण च गुण्ठितम् ।
अर्चितं त्रिः परिभ्राम्य कुण्डस्योपरि देशिकः ॥ ४-५२ ॥

प्रदक्षिणं तदा तारमन्त्रोच्चारणपूर्वकम् ।
आत्मनोऽभिमुखं वह्निं जानुस्पृष्टमहीतलः ॥ ४-५३ ॥

प्। २६७) शिवबीजधिया देव्या योनावेनं विनिःक्षिपेत् ।

(मेरुतन्त्रेऽपि)

देव्या योनौ तत्र जानुस्पृष्टभूमिश्च देशिकः ॥ ४-५४ ॥

शिवबीजमिति ध्यात्वा निःक्षिपेदाशुशुक्षणिम् ।

(उड्डीशे)

भूमौ च जानुनी कृत्वा कूर्चबीजं च वह्नि च ॥ ४-५५ ॥

चैतन्यान्ते नमोऽन्तः स्यादनेनोत्थापयेच्छुचिम् ।
शिवबीजधिया तस्या योनौ वह्निं विनिःक्षिपेत् ॥ ४-५६ ॥

(त्रिपुरासारसमुच्चये)

योनावेनं विन्यसेत् स्वाभिवक्त्रं
पश्चादग्निं मूलमन्त्रेण मन्त्री- इत्युक्तम् ।

शिवबीजधियेति शैवशाक्तविषयम् । वैष्णवादौ तु विष्णवादिबीजधियेति बोध्यम् ।  

(वायवीयसंहितायां तु)

वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ।
योनिमार्गेण चै तद्वदात्मनः सम्मुखेन वा ॥ ४-५७ ॥

योनिमार्गेण मेखलोपरि स्थापितयोनिरन्ध्रेण ।
(मेरुतन्त्रे)

देवदेव्योराचमनं मैथुनान्तधिया चरेत् ।

(शारदायाम्)

पश्चाद्देवस्य देव्याश्च दद्यादाचमनीयकम् ॥ ४-५८ ॥

ज्वालयेन्मनुनानेन तमग्निमथ देशिकः ।
चित्पिङ्गल-हनदहे पच-युग्मान्युदीर्य च ॥ ४-५९ ॥

सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं प्रागुदीरितः ।

(रुद्रयामले)

ह्री। ह्रो। ज्वलयुगं देवि प्रज्वलद्वितयं ततः ॥ ४-६० ॥
हु।फट्स्वाहेति मन्त्रेण ज्वालयेत् पावकं सुधीः- इत्युक्तम् ॥ ४-६०एफ़् ॥

प्। २६८) ज्वालनं तु मुखेन कुशमुष्टिपलाशपत्रादिना वा ।
तदुक्तम् (मेरुतन्त्रे)

मुखेनैव धमेदग्निं मुखादेषो ह्यजायत ।
कुशैः पलाशादिपर्णैर्नापवित्रेण केन चित् ॥ ४-६१ ॥

तन्त्रान्तरेऽपि ।

जुहुयुश्च हुताग्निं च पाणिशूर्पस्रुचादिभिः ।
न कुर्यादग्निधमनं न कुर्याद्व्यजनादिभिः ॥ ४-६२ ॥

मुखेनैव धमेदग्निं मुखादेषो ह्यजायत ।
नाग्निं मुखेनेति तु यल्लौकिका योजयन्ति तत्- इति ॥ ४-६३ ॥

तत्र ज्वालिनी मुद्रापि प्रदर्शनीया सा च ।

मणिबन्धौ समौ कृत्वा करौ तु प्रसृताङ्गुली ।
मध्यमे मिलिते कृत्वा तन्मध्येङ्गुष्ठकौ क्षिपेत् ॥ ४-६४ ॥

इयं सा परमा मुद्रा ज्वालिनी होमकर्मणि- इति ।

उक्तलक्षणा (यामले)

तत उत्थाय विधिवत् कृत्वा पाणिपुटं सुधीः ॥ ४-६५ ॥

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतो मुखम् ॥ ४-६६ ॥
उपविष्टेत विधिवत् मनुनानेन पावकम् ॥ ४-६६एफ़् ॥

(उड्डीशे)

प्रादेशमात्रां समिधं मूलाग्रघृतसम्प्लुताम् ।
तूष्णीं वह्नौ समुत्क्षिप्य जिह्वायां देवतां न्यसेत् ॥ ४-६७ ॥

(शारदायाम्)

विन्यसेदात्मनो देहे मन्त्री जिह्वाहविर्भुजः ।
लिङ्गपायुशिरोवक्त्रघ्राणनेत्रेषु सर्वतः ॥ ४-६८ ॥

वह्नीरार्घीशसंयुक्ताः सादियान्ताः सविन्दवः ।
वर्णा मन्त्राः समुद्दिष्टा जिह्वानां सप्त देशिकैः ॥ ४-६९ ॥

प्। २६९) जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेन कर्मसु ।
हिरण्या कनका रक्ता कृष्णान्या सुप्रभा मता ॥ ४-७० ॥

बहुरूपातिरक्ता च सात्त्विक्यो यागकर्मसु ।

वह्नी रेफः । इरो यकारः । अर्घीशो दीर्घोकारः । अत्र सात्त्विकरसनायां बहुरूपातिरक्तयोः पौर्वापर्यं बीजक्रमानुरोधेन न तु न्यासक्रमानुरोधेन बहुरूपायाः सर्वाङ्गे न्यसनीयत्वात् ।  
तदुक्तं तन्त्रान्तरे ।  

सलिङ्गगुदमुर्धास्यनासानेत्रेषु च क्रमात् ॥ ४-७१ ॥

विन्यसेदतिरक्तां तां सर्वाङ्गे बहुरूपिणीम्- इति राघवभट्टाः ।

वस्तुतः ।

हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा ॥ ४-७२ ॥

बहुरूपा महेशानि अतिरिक्ता तथैव च- इत्यनन्तरम् ।
एकैकं विन्यसेद्देवि लिङ्गपायुशिरःस्वथ ॥ ४-७३ ॥

वक्त्रे घ्राणे तथा नेत्रे सर्वाङ्गे च न्यसेत् ततः ।

इति (वीरचूडामणि-) वचनात् ।

ततः प्रविन्यसेज्जिह्वां देहे मन्त्री विभावसोः ॥ ४-७४ ॥

सलि"ग्नगुदमूर्धास्यनासानेत्रेषु च क्रमात् ।
सर्वाङ्गेषु च जिह्वास्ता वक्ष्यन्ते त्रिविधात्मिकाः ॥ ४-७५ ॥

हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा ।
बहुरूपातिरक्ता च जिह्वाः सप्तेति सात्त्विकाः ॥ ४-७६ ॥

इति (तन्त्रमन्त्रप्रकाश-) वचनाच्चातिरक्तायाः सर्वाङ्ग एव न्यासः साधायान् । राघवभट्टलिखितवचनानन्तरं च यदि प्रमाणं तदा विकल्प एवेति सुधार्णवकृतः । (मेरुतन्त्रेऽपि) तन्त्रमन्त्रप्रकाशिकोक्त एव क्रम उक्तः ।  
(शारदायाम्)  

पद्मरागा सुवर्णान्या तृतीया भद्रलोहिता ।
लोहितानन्तरं श्वेता धूमिनी च करालिका ॥ ४-७७ ॥

राजस्यो रसना वह्नेर्विहिताः काम्यकर्मसु ।
प्। २७०) विश्वमूर्तिः स्फुलिङ्गिन्या धूम्रवर्णा मनोजवा ॥ ४-७८ ॥

लोहितान्या करालाख्या काला तामस्य ईरिताः ।
एताः सप्त नियुज्यन्ते क्रूरकर्मसु मन्त्रिभिः ॥ ४-७९ ॥

स्वस्वनामसमाभाः स्युर्जिह्वाः कल्याणरेतसः ।
अमर्त्त्यपितृगन्धर्वयक्षनागपिशाचकाः ॥ ४-८० ॥

राक्षसाः सप्त जिह्वानामीरिता अधिदेवताः ।

अधिदेवतोक्तिस्तत्तज्जिह्वास्थाने न्यासार्थं पूजार्थं च ।

जिह्वासु त्रिदशादीनां तत्तत्कार्यं समाप्तये ॥ ४-८१ ॥

जुहुयाद्वाच्छितां सिद्धिं दद्युस्ता देवता मताः ।

इति (प्रपञ्चसार-) वचनात् तत्तज्जिह्वायां तत्तद्द्रव्येण होमपक्षे होमार्थं चेति सुधार्णवकृतः ।  

(क्रियासारे)

अस्य भृगू ऋषिश्छन्दो गायत्र्यग्निस्तु देवता ॥ ४-८२ ॥

बीजं शक्तिस्तु र। स्वाहा ऋष्यादीन् पूर्ववन्न्यसेत् ।

(शारदायाम्)

वह्नेरङ्गमनून्न्यस्येत् तनावुक्तेन वर्त्मना ॥ ४-८३ ॥

सहस्रार्चिः स्वस्तिपूर्ण उतिष्ठ पुरुषः पुनः ।
धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात् ॥ ४-८४ ॥

षडङ्गमनवः प्रोक्ता जातिभिः सह संयुताः ।
मूर्त्तीरष्टौ ततो न्यसेद्देशिको जातवेदसः ॥ ४-८५ ॥

मूर्धांशपार्श्वकट्यन्धुकटिपार्श्वाङ्गकेषु च ।
प्रदक्षिणवशान्न्यस्येदुच्यन्ते ता यथाक्रमात् ॥ ४-८६ ॥

जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः ।
अश्वोदरजसञ्ज्ञोऽन्यः पुनर्वैश्वानराह्वयः ॥ ४-८७ ॥

कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः ।
प्। २७१) ताराग्नये पदाद्याः स्युर्न्नत्यन्ता वह्निमूर्तयः ॥ ४-८८ ॥

आसनं कल्पयित्वाग्नेर्मूर्तिं तस्य विचिन्तयेत् ।

आसनं पीठं तनाविति शेषः । तत्राधारशक्त्यादिवह्नि-मण्डलान्तं विन्यस्य केशरेषु मध्ये च पीठशक्तीः । तत्रैव र। वह्नियोगपीठाय नम इति पीठं च न्यसेत् । तदुक्तं तत्रैव ।

स्वमण्डलान्तं प्रयजेत् पीठेशनवशक्तिकम् ॥ ४-८९ ॥

पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी ।
रुचिरा ज्वालिनी प्रोक्ताः कृशानोर्नव शक्तयः ॥ ४-९० ॥
स्वबीजेनासनं दत्वा मूर्तिं मूलेन कल्पयेत्- इति ॥ ४-९०एफ़् ॥

अथ ध्यानं तत्रैव ।

इष्टां शक्तिं स्वस्तिकाभीतिमुच्चै-
र्दीर्घैर्दोर्भिर्धारयन्तं जपाभम् ।
हेमाकल्पं पद्मसंस्थं त्रिनेत्रं
ध्यायेद्वह्निं बद्धमोलिं जटाभिः ॥ ४-९१ ॥

ध्यानान्तरमुक्तम् (रुद्रयामले)

बन्धूकपुष्पसङ्काशं सुतप्तकनकप्रभम् ।
पद्मस्थं यजमानार्थं वदनद्वयशोभितम् ॥ ४-९२ ॥

सप्तच्छन्दोमयं देवं विमानोपरिसंस्थितम् ।
त्रिधाग्रीवं त्रिपादाब्जं हव्यकव्यविनाशकम् ॥ ४-९३ ॥

ब्रह्माध्वर्यूद्नातृहोतृचतुःशृङ्गविराजितम् ।
पञ्चपात्रं पाशुपतं कापिलं च महामतम् ॥ ४-९४ ॥

बौद्धं वैदिकमित्येतत् षट्पिङ्गलविलोचनम् ।
वेदार्थं च चतुःश्रोत्रं श्रौतशास्त्रमयध्वनिम् ॥ ४-९५ ॥

सपातालजटाबद्धमौलिकोटीरभास्वरम् ।
हेमालङ्कारसंयुक्तं हेमकुण्डलमण्डितम् ॥ ४-९६ ॥

प्। २७२) रक्ताम्भोरुहमध्यस्थं स्वस्तिकासनसंस्थितम् ।
पृष्ठदेशसमालम्बितार्तीयचरणाम्बुजम् ॥ ४-९७ ॥

सदा शब्दायमानं च राजमानं स्वतेजसा ।
शक्तिं वज्रं स्रुक्स्रुवौ च चतुर्भिर्दिक्षु बाहुभिः ॥ ४-९८ ॥

तोमरं तालवृन्तं च सौवर्णं घृतपात्रकम् ।
वामैस्त्रिभिर्बाहुभिश्च दधानं रक्तवाससम् ॥ ४-९९ ॥

हिरण्या कनका रक्ता कृष्णा दक्षानने स्थिताः ।
सुप्रभा वातिरक्ता च बहुरूपा च जिह्विका ॥ ४-१०० ॥

इमा रसज्ञास्तद्वामवदने नित्यमास्थिताः ।
एताभिः सप्तजिह्वाभिरुपेतं पाटिताननम् ॥ ४-१०१ ॥

(शारदायाम्)

परिषिञ्चेत् ततस्तोयैर्विशुद्धैर्मेखलोपरि ।
दर्भैरगर्भैर्मध्यस्थमेखलायां परिस्तरेत् ॥ ४-१०२ ॥

(कुलोड्डीशे)

एवं विन्यस्य देहः सन् परिस्तरणमाचरेत् ।
अर्घोदकेन सम्प्रोक्ष्य मध्यस्थमेखलोपरि ॥ ४-१०३ ॥

उताराग्रं पूर्वदेशे पूर्वाग्रं दक्षिणे ततः ।
उत्तराग्रं पश्चिमे तु प्रागग्रमुत्तरे तथा ॥ ४-१०४ ॥

मूलमाच्छादितं कृत्वा त्रिवारं तु परिस्तरेत् ।

तथा ।

मेखलासु च सर्वासु दीपमालां प्रकल्पयेत् ॥ ४-१०५ ॥

(गणेश्वरविमर्षिण्याम्)

पूर्वाग्रैरुत्तराग्रैश्च दर्भैरग्निं परिस्तरेत् ।

दक्षिणोत्तरयोः पूर्वाग्रैः पूर्वपश्चिमयोरुत्तराग्रैरित्यर्थः ।

प्। २७३) (मेरुतन्त्रे)

एकमेखलके कुण्डे मेखलाधः परिस्तरेत् ॥ ४-१०६ ॥

द्विमेखले द्वितीयायां मध्यमायां त्रिमेखले ।
स्थण्डिले सिकतानां तु वाह्यभूमौ परिस्तरेत् ॥ ४-१०७ ॥

(शारदायाम्)

निःक्षिपेद्दिक्षु परिधीन् प्राचीवर्जं गुरूत्तमः ।

कात्यायनः ।
परिधीन् परिदधत्यार्द्रानेकवृक्षीयान् बाहुमात्रान् पालाशवैकण्टककाश्मर्यवैल्वानिति ।
(मेरुतन्त्रे)

पलाशकाश्मरीविल्वविकण्टकसमुद्भवान् ॥ ४-१०८ ॥

एकवृक्षोद्भवानार्द्रान् परिधीन् बाहुमात्रकान् ।

(त्रिपुरासारसमुच्चयेऽपि)

स्थण्डिलके सिकतानां वाह्ये पात्रे न्यसेत् परिधीन् ॥ ४-१०९ ॥

(शारदायाम्)

प्रादक्षिण्येन सम्पूज्यास्तेषु ब्रह्मादिमूर्तयः ।

(सौत्रामणीतन्त्रे)

�- �- �- �- कुण्डमध्ये विधानवित् ॥ ४-११० ॥

पद्मासनान्तः साधारशक्त्यादिमनुभिः क्रमात् ।
उपर्युपरिसम्पूज्या वह्नेरासनशक्तयः ॥ ४-१११ ॥

पूर्वादिदलमूलेषु मध्ये पूज्याः क्रमेण तु ।

आसनशक्तयः पूर्वोक्तपीठशक्तयः ।
अत्र विशेष उक्तो (मेरुतन्त्रे)

कुण्डमध्ये तु षट्कोणगर्भितं स्वर्णकर्णिकम् ॥ ४-११२ ॥

नानाकेशरसंयुक्तं चतुर्द्वारसमावृतम् ।
चिन्तयेदष्टदलकं चतुरस्रत्रयावृतम् ॥ ४-११३ ॥

पूजापीठं तु तद्वह्नेस्तत्र मण्डूककादिकान् ।
प्। २७४) ज्ञानात्मानं योगपीठं सम्पूज्य �- �- �- इति ॥ ४-११४ ॥

तथाष्टदलेषु पूर्वोक्तपीठशक्तिपूजनमुक्तम् ।

सर्वशक्तिकमलासनाय हृद्द्वादशाक्षरः ।
समस्तपीठपूजायां वह्नेर्मन्त्र उदाहृतः- इति ॥ ४-११५ ॥

(शारदायाम्)

ध्यातं वह्निं यजेन्मध्ये गन्धाद्यैर्मनुनामुना ।
वैश्वानरजातवेदपदे पश्चादिहावह ॥ ४-११६ ॥

लोहिताक्षपदस्यान्ते सर्वकर्माणि साधय ।
वह्निजायावधिः प्रोक्तो मन्त्रः पावकवल्लभः ॥ ४-११७ ॥

मध्ये षट्स्वपि कोणेषु जिह्वाज्वालारुचो यजेत् ।

अत्र षट्सु कोणेषु मध्ये च यजेदित्यन्वयः । कोणेषु ईशानादिक्रम इत्युक्तम् ।  

(सोमशम्भौ)

रुद्रेन्द्रवह्निमांसादवरुणानिलगोचरे ॥ ४-११८ ॥

हिरण्याद्याः स्थिता वह्ने रसनाः षडनुक्रमात् ।
मध्यतो बहुरूपा तु �� �� �- �- �- इति ॥ ४-११९ ॥

(वायवीयसंहितायाम्)

हिरण्या प्रागुदग्जिह्वा कनका पूर्वतः स्थिता ।
रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥ ४-१२० ॥

अतिरिक्ता मरुज्जिह्वा स्वनामस्वगुणप्रभा ।
त्रिशिखा मध्यमा जिह्वा बहुरूपा समाह्वया ॥ ४-१२१ ॥

तस्थुष्येका दक्षिणतो ज्वलन्ती वामतः परा ।
स्वबीजानन्तरं वाच्या �- �- �- �- �- �- �- �- इति ॥ ४-१२२ ॥

(गणेश्वरविमर्षिण्यामपि)

कोणषट्के च मध्ये च जिह्वाः सम्पूजयेत् ततः ।
हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता ॥ ४-१२३ ॥

प्। २७५) वैदूर्यवर्णा गगना प्राच्या दिशि व्यवस्थिता ।
तरुणादित्यसङ्काशा रक्ता जिह्वाग्निदिकस्थिता ॥ ४-१२४ ॥

कृष्णा नीलाब्जसङ्काशा नैरृत्यां दिशि संस्थिता ।
सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ॥ ४-१२५ ॥

अतिरिक्ता च कौसुम्भवर्णा वायव्यसंस्थिता ।
बहुरूपा यथार्थाभा दक्षिणोत्तरसंस्थिता ॥ ४-१२६ ॥
एता ज्वालारुचातीता वराभयकरा अपि ॥ ४-१२६एफ़् ॥

(त्रिपुरासारसमुच्चयेऽपि)

सुतप्तचामीकरचारुवर्णा
स्थिता हिरण्यादिशि शूलपाणेः ।
वैदूर्यवर्णा कनकाभिधाना
या सा निषण्णा दिशि वासवस्य ॥ ४-१२७ ॥

या रक्ता तरुणादिवाकराभवर्णा
सा जिह्वा हरिति सुसंस्थिता कृशानोः ।
या कृष्णा विकसितनीलनीरजाभा
सा रक्षःपरिवृतदिग्विभागलग्ना ॥ ४-१२८ ॥

पद्मरागसदृशप्रभोज्ज्वला सुप्रभा वरुणदिश्यवस्थिता ।
या महारजतपुष्पसन्निभा गन्धवाहदिशि सातिरक्तिका ॥ ४-१२९ ॥

यथार्थसञ्ज्ञा बहुरूपिका सा
जिह्वोत्तरे दक्षिणतः स्थिता सा ।

होमे विशेष उक्तो (गणेशविमर्षिण्याम्)

एधांसि च हिरण्यायां गगनायां चरुं घृतम् ।
सिद्धार्थं बहुरूपायां रक्तायां तु यवास्तथा ॥ ४-१३० ॥

कृष्णायां तु हुनेल्लाजाः सुप्रभायां तु सक्तुभिः ।
प्। २७६) तिला।श्चैवातिरक्तायां कनकायां तु सर्वदा ॥ ४-१३१ ॥

सर्वद्रव्याणि जुहुयात् साधकः सर्वकर्मसु ।

तन्त्रान्तरे ।

फलं तु कामभेदेन क्रमादासामुदीर्यते ॥ ४-१३२ ॥

वश्याकर्षणयोराद्या गगना स्तम्भने मता ।
विद्वेषमोहयो रक्ता कृष्णा मारणकर्मसु ॥ ४-१३३ ॥

सुप्रभा शान्तिके पुष्टौ सुरक्तोच्चाटने मता ।
एकैकबहुरूपा तु सर्वकामफलप्रदा ॥ ४-१३४ ॥

(मेरुतन्त्रे)

यथा कार्यं तथा जिह्वा दृश्यते चेत् स्वदिग्गता ।
ज्वालारूपा तथा सिद्धिर्विपरीतविपर्ययः ॥ ४-१३५ ॥

वैष्णवे तु जिह्वान्तराण्युक्तानि तत्रैव ।

प्रभा दीप्तिः प्रकाशा च मरीचिस्तापनी तथा ।
कराला लेलिहा चेति जिह्वा वैष्णवकर्मणि ॥ ४-१३६ ॥

ईशप्राग्वह्निनैरृत्यपश्चाद्वायव्यमध्यतः ।
संस्थिता सकला जिह्वा वराभयलसत्कराः ॥ ४-१३७ ॥

(शारदायाम्)

केशरेषूक्तमार्गेण पूजयेदङ्गदेवताः ।
दलेषु पूजयेन्मूर्तिं शक्तिस्वस्तिकधारिणीम् ॥ ४-१३८ ॥

लोकपाला।स्ततो दिक्षु पूजयेदुक्तलक्षणात् ।

अत्र लोकपालपूजा मेखलास्थदर्भोपरि कार्या ।
तदुक्तं तन्त्रान्तरे ।

कोणे षट्के च मध्ये च जिह्वाभिः केशरेष्वपि ॥ ४-१३९ ॥

अङ्गमन्त्रैस्ततो वाह्ये त्वष्टाभिर्मूर्तिभिः क्रमात् ।
मेखलाश्रितदर्भेषु दिक्पतीन् पूर्वतो यजेत् ॥ ४-१४० ॥

प्। २७७) (तत्त्वसारसंहितायाम्)

पात्राण्यासाद्य विधिवद्बहुशश्चापि मन्त्रवित् ।
तान्यवेक्ष्य पवित्रेण चोत्तानानि विधाय च ॥ ४-१४१ ॥

पुनः प्रक्षालयेत् पात्रं परिपूर्य शुभाम्बुना ।
दत्वाक्षतान् पवित्रं च तदुत्पूर्य निधापयेत् ॥ ४-१४२ ॥

दिश्युत्तरस्यां तत् पात्रं प्रणीतेत्युच्यते बुधैः ।
ततः किञ्चित् प्रणीताम्बु प्रोक्षण्यादाय तज्जलैः ॥ ४-१४३ ॥

यज्ञसाधनसम्भारं प्रोक्षयेन्मूलमन्त्रतः ।
ततो ब्रह्माणमावाह्याभ्यर्चयेन्मूलमन्त्रतः ॥ ४-१४४ ॥

अन्यत्रापि ।

वामे चास्तीर्य दर्भान् बलरिपुहरिदग्रा।स्तदूर्ध्वं निधाय
पात्राणि द्वन्द्वशोऽधोवदनमथ तथोत्तानवक्त्राणि कृत्वा ।
हृन्मन्त्रेणाभिपूर्यान्यतममथ जलैर्मन्त्रपूतैरथैभि-
रभ्युक्ष्यान्यैश्च कूर्चैः सकलमपि हृदा सव्यगं हव्यजातम् ॥ ४-१४५ ॥

इति तन्त्रान्तरे ।

कुण्डस्योत्तरतः स्थाप्या प्रणीता वारिपूरिता ।
प्रणीतापात्रतः सर्वे स्थाप्याः पात्रगणाः क्रमात् ॥ ४-१४६ ॥

आज्यस्थाली चरुस्थाली गव्यक्षीरसमन्विता ।
स्रुक्स्रुवौ च घृतं गव्यं तण्डुलाः कुशमूलकाः ॥ ४-१४७ ॥

पालाशाः समिधस्तिस्रः पूर्णपात्रमतः परम् ।

(मेरुतन्त्रे)

स्वगृह्योक्तविधानेन वायुदेशाच्च पूर्वतः ॥ ४-१४८ ॥

स्रुक्स्रुवौ च प्रणीता च प्रोक्षणीपात्रयुग्मकम् ।
आज्यस्थाली च परिधीनिध्मं च कुशमुष्टयः ॥ ४-१४९ ॥

अधोमुखानि पात्राणि होमद्रव्यं वलिं तथा ।
प्। २७८) गन्धपुष्पाक्षतादीनि सर्वाण्यासादयेदथ ॥ ४-१५० ॥

तान्यभ्युक्ष्य पवित्रेण चोत्तानानि निधाय च ।
प्रोक्षणीपात्रयुगलं परिपूर्य शुभाम्बुना ॥ ४-१५१ ॥

तन्त्रान्तरे ।

स्ववामभागे प्रागग्रान् दर्भानास्तीर्यं चोपरि ।
यथावित्तानुसारेण सौवर्णादीनि कर्मणि ॥ ४-१५२ ॥

अधोमुखानि पात्राणि द्वन्द्वरूपाणि विन्यसेत् ।
उत्तानीकृत्य पात्राणि जलाद्यैः सम्प्रपूरयेत् ॥ ४-१५३ ॥

(यामले)

वह्नेरूत्तरतः स्वस्य वामे देशिकसत्तमः ।
दर्भानास्तीर्य पूर्वाग्रान् पात्राण्यासादयेदथ ॥ ४-१५४ ॥

स्वस्येति पूर्वाभिमुखस्येति वेदितव्यम् ।
(त्रिपुरासारसमुच्चयेऽपि)

ततो वामभागे परिस्तीर्य दर्भान्
पुलोमात्मजावल्लभाशागताग्रान् ।
तदूर्ध्वं न्यसेद्द्वन्द्वरूपेण पात्रा-
ण्यथोऽधोगतास्यानि सर्वाणि धीमान् ॥ ४-१५५ ॥

अथोत्तनितेष्वेषु पात्रेषु पात्रं
जलैरेकमापूर्य तीर्थानि तत्र ।
सुसञ्चिन्त्य तैः प्रोक्षयेत् कूर्च्चदर्भै-
र्हृदा सव्यभागस्थितं द्रव्यजातम् ॥ ४-१५६ ॥

पात्रेष्वपि विशेषस्तत्रैव ।

सौवर्णान्यपि राजतान्यपि तथा पात्राणि शौल्वानि वा
मृत्पात्राण्यपि शान्तिकादिषु परं शस्त्राणि कर्मस्विह ।
प्। २७९) शेल्वक्षद्रुमशिग्रुभूरुहकृतान्येतानि विद्वेषणो-
च्चाटोत्सादनमारणादिषु भृशं शस्तानि पात्राण्यपि ॥ ४-१५७ ॥

शौल्वं ताम्रम् । शेलुर्बहुवारकः । अक्षद्रुमो विभीतकद्रुमः । शिग्रुः शोभाञ्जनः ।
(मेरुतन्त्रे)

वृणुयाद्ब्राह्मणं शान्तं देवतामन्त्रदीक्षितम् ।
कुण्डस्य दक्षिणे भागे वेशयेत् तं कुशासने ॥ ४-१५८ ॥

अमुकामुकगोत्रोऽहममुकामुकगोत्रिणम् ।
दीक्षाङ्गभूतहोमेऽस्मिन् ब्रह्माणं त्वां वृणे इति ॥ ४-१५९ ॥

वस्त्रालङ्कारादिकेन वृत्वा तं परिपूजयेत् ।
कुर्यात् कुशवटुं वापि लभ्यते ब्राह्मणो न चेत् ॥ ४-१६० ॥

(शारदायाम्)

पश्चादादाय पाणिभ्यां स्रुक्स्रुवौ तावधोमुखौ ।
त्रिशः प्रतापयेद्वह्नौ दर्भानादाय देशिकः ॥ ४-१६१ ॥

तदग्रमूलमध्यानि शोधयेत् तैर्यथाक्रमात् ।
गृहीत्वा वामहस्तेन प्रोक्षयेद्दक्षिणेन तौ ॥ ४-१६२ ॥

पुनः प्रताप्य तौ मन्त्री दर्भानग्नौ विनिःक्षिपेत् ।
आत्मनो दक्षिणे भागे स्थापयेत् तौ कुशास्तरे ॥ ४-१६३ ॥

तन्त्रान्तरे ।

गृहीत्वा स्रुक्स्रुवावूर्ध्वमुखौ चाधोमुखौ क्रमात् ।
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ॥ ४-१६४ ॥

पुनस्त्रिशः प्रताप्याधोमुखौ वह्नौ कुशान् क्षिपेत् ।
मूलमध्याग्रके न्यस्येच्छक्तीरिच्छादिकाः क्रमात् ॥ ४-१६५ ॥

स्रुचि शक्तिं स्रुवे शम्भुं विन्यसेद्धृदयाणुना ।

इच्छादिका इति इच्छाज्ञानक्रिया इत्यर्थः ।

प्। २८०) (शैवागमे तु)

गृहीत्वा स्रुक्स्रुवावूर्ध्ववक्त्रावधोमुखौ क्रमात् ॥ ४-१६६ ॥

प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ।
त्रिसूत्रवेष्टितग्रीवौ पूजितौ कुसुमादिभिः ॥ ४-१६७ ॥

कुशानामुपरिष्टात् तौ स्थापयित्वा स्यादक्षिणे- इत्युक्तम् ।

(मेरुतन्त्रे)

कुशाग्रैस्तु तयोरग्रं मध्यं मध्यैश्च मार्जयेत् ॥ ४-१६८ ॥

मूलं मूलैस्त्रिधा चैवं मार्जयित्वा प्रतापयेत् ।
धृत्वा तौ वामहस्तेन प्रोक्षयेत् प्रोक्षणीजलैः ॥ ४-१६९ ॥

दक्षिणेन कराग्रेण पुनः सन्तापयेच्च तौ ।
कुशान् क्षिप्त्वा ततो वह्नौ स्वदक्षे तौ कुशास्तरे ॥ ४-१७० ॥

संस्थाप्य स्रुक्स्रुवौ पश्चाद्घृतसंस्कारमाचरेत् ।

(शारदायाम्)

आज्यस्थालीमथादाय प्रोक्षयेदस्त्रवारिणा ॥ ४-१७१ ॥

तस्यामाज्यं विनिःक्षिप्य संस्कृतं वीक्षणादिभिः ।

तन्त्रान्तरे ।

गव्यमाज्यं समादाय मूलेनैवाभिमन्त्रितम् ॥ ४-१७२ ॥

स्वकां ब्रह्ममयीं मूर्तिं सञ्चिन्त्याग्नौ प्रतापयेत् ।

(शैवागमेऽपि)

गव्यमाज्यं समादाय मूलेनैवाभिमन्त्रितम् ॥ ४-१७३ ॥

स्वकां ब्रह्ममयीं मूर्तिं सञ्चिन्त्य च- इति ।

गव्यमित्युत्तमकल्पमभिप्रेत्योक्तम् ।
तदुक्तम् (पिङ्गलामते)

उत्तमं गोघृतं प्रोक्तं मध्यमं महिषीभवम् ॥ ४-१७४ ॥

अधमं छागलीजातं तस्माद्गव्यं प्रशस्यते- इति ।

प्। २८१) (वायवीयसंहितायाम्)

न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसञ्ज्ञकाम् ॥ ४-१७५ ॥

(शारदायाम्)

निरुह्य वायवेऽङ्गारान् हृदा तेषु निवेदयेत् ।
इदं तापनमुद्दिष्टं देशिकैस्तन्त्रवेदिभिः ॥ ४-१७६ ॥

सन्दीप्य दर्भयुगलमाज्ये क्षिप्त्वानले क्षिपेत् ।
गुरुर्हृदयमन्त्रेण पवित्रीकरणं त्विदम् ॥ ४-१७७ ॥

दीप्तेन दर्भयुग्मेन निराज्याज्यं सवर्मणा ।
अग्नौ विसर्जयेद्दर्भमभिद्योतनमीरितम् ॥ ४-१७८ ॥

घृते प्रज्वलितान् दर्भान् प्रदर्श्यास्त्राणुना गुरुः ।
जातवेदसि तान् न्यस्येदुद्योतनमिदं मतम् ॥ ४-१७९ ॥

गृहीत्वा घृतमङ्गारान् प्रयोज्याग्नौ जलं स्पृशेत् ।
अङ्गुष्ठोपकनिष्ठाभ्यां दर्भौ प्रादेशसम्मितौ ॥ ४-१८० ॥

धृत्वोत्पुनीयादस्त्रेण घृतमुत्पवनं त्विदम् ।
तद्वद्धृदयमन्त्रेण कुशाम्भ्यामात्मसम्मुखम् ॥ ४-१८१ ॥

घृते सम्प्लवनं कुर्यात् संस्काराः षडुदीरिताः ।

अङ्गुष्ठोपकनिष्ठाभ्यामिति हस्तद्वयस्येति शेषः । उत्पुनीयादिति अग्निसम्मुखमिति शेषः ।  
तदुक्तम् (शैवागमे)  

प्रादेशमात्रदर्भाभ्यामङ्गुष्ठानामिकाग्रकैः ॥ ४-१८२ ॥

धृताभ्यां सम्मुखं वह्नेरस्त्रेणोत्प्लवमाचरेत् ।

(शारदायाम्)

प्रादेशमात्रं सग्रन्थिदर्भयुग्मं घृतान्तरे ॥ ४-१८३ ॥

निःक्षिप्य भागौ द्वौ कृत्वा पक्षौ शुक्लेतरौ स्मरेत् ।
वामे नाडीमिडां भागे दक्षिणे पिङ्गलां पुनः ॥ ४-१८४ ॥

प्। २८२) सुषुण्मां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि ।

तत्र स्रुवधारणप्रकारो (नारदीये)

हीयते यजमानो वै स्रुवमूलस्य दर्शनात् ॥ ४-१८५ ॥

तस्मात् सङ्गोपयेन्मूलं होमकाले स्रुवस्य च ।
अग्रे व्याधिकरं प्रोक्तं मध्ये शोककरं स्मृतम् ॥ ४-१८६ ॥

मूले हानिकरं प्रोक्तं स्रुवं धारयते कथम् ।
वेदाङ्गुलं परित्यज्य अग्रे चैव द्विरष्टकम् ॥ ४-१८७ ॥

वेदाङ्गुलं तु तन्मध्ये धारयेच्छङ्खमुद्रया ।

तन्त्रान्तरे ।

पञ्चाङ्गुलं बहिस्त्यक्त्वा धारयेच्छङ्खमुद्रया ॥ ४-१८८ ॥

(होमसारे)

मूलात् षडङ्गुलं त्यक्त्वा चतुरङ्गुलमेव वा ॥ ४-१८९ ॥

प्रकोष्ठे मूलमाच्छाद्य धारयेच्छङ्खमुद्रया ।

तन्त्रान्तरे ।

श्रुवेणाज्यं समादाय जुहुयान्न्युब्जपाणिना ॥ ४-१९० ॥

(भैरवतन्त्रे)

हविरुक्तानहस्तेन वैश्वानरमुखे हुतम् ।
होतुश्चक्षुर्विनाशाय यजमानो विनश्यति ॥ ४-१९१ ॥

(परिशिष्टे तु)

उत्तानेनैव हस्तेन अङ्गुष्ठाग्रेण पीडितम् ।
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयात् �- �- इत्युक्तम् ॥ ४-१९२ ॥

भैरवः ।

होमे मुद्रात्रयं प्रोक्तं मृगी हंसी च शूकरी ।
मृगी कनिष्ठातर्जन्योर्हंसी मुक्तकनिष्ठिका ॥ ४-१९३ ॥

शूकरी करसङ्कोचमिति मुद्राः प्रकीर्तिताः ।
मृगी च पुत्रकामार्थी हंसी सर्वफलप्रदा ॥ ४-१९४ ॥

प्। २८३) अभिचारेषु सर्वेषु शूकरी कथिता बुधैः ।

(शारदायाम्)

स्रुवेण दक्षिणाद्भागादादायाज्यं हृदा गुरुः ॥ ४-१९५ ॥

जुहुयादग्नये स्वाहेत्यग्नेर्दक्षिणलोचने ।
वामतस्तद्वदादाय वामे वह्निविलोचने ॥ ४-१९६ ॥

जुहुयादथ सोमाय स्वाहेति हृदयाणुना ।

(मेरुतन्त्रे)

गृहीत्वाज्यं वामभागाद्धृदा वामेऽग्निलोचने ॥ ४-१९७ ॥

हुनेत् सोमाय स्वाहेति त्यागः सर्वत्र नो मतः ।

(शारदायाम्)

मध्यादाज्यं समादाय वह्नेर्भालविलोचने ॥ ४-१९८ ॥

जुहुयादग्नीषोमाभ्यां स्वाहेति हृदयाणुना ।
हृन्मन्त्रेण स्रुवेणाज्यं भागादादाय दक्षिणात् ॥ ४-१९९ ॥

जुहुयादग्नये स्विष्टकृते स्वाहेति तन्मुखे ।
हेतिं सम्पातयेद्भागेष्वाज्यस्याथाहुतिक्रमात् ॥ ४-२०० ॥

इत्यग्निनेत्रवक्त्राणां कुर्यादुद्योतनं गुरुः ।

सम्पातयेद्भागेष्विति । यस्माद्भागादाज्यं गृहीत्वा हुतं तद्भागे हुतशेषं क्षिपेदित्यर्थः ।  
तदुक्तं (शैवागमे)  

स्वाहेत्यग्नौ हेतिशेषभागमाज्यं क्षिपेत् क्रमात्- इति ॥ ४-२०१ ॥

(शारदायाम्)

सतारार्भिर्व्याहृतिभिराज्येन जुहुयात् पुनः ।

अत्र । ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । ॐ भूर्भवः स्वः स्वाहेति व्यस्तसमस्ताभिः पञ्चाहुतयः पञ्चभिर्मनुभिर्हुनेदिति (नारायणीयतन्त्र-) वचनात् ।  

प्। २८४) (उड्डीशे)

देव्या व्याहृतिहोमं च ताराद्येन चतुर्हुनेत् ॥ ४-२०२ ॥

भूरग्नये पृथिव्यै च महते वह्निवल्लभा ।
भुवः पदाद्वायवे च अन्तरिक्षाय शब्दतः ॥ ४-२०३ ॥

अग्न्यादित्यचन्द्रमसो ङेन्ता नक्षत्र इत्यपि ।
भ्यसन्तश्चैव दिग्भ्यश्च महते वह्निवल्लभा ॥ ४-२०४ ॥

(शारदायाम्)

युहुयादग्निमन्त्रेण त्रिवारं देशिकोत्तमः ।
गर्भाधानादिकं वह्नेः क्रिया निवर्त्तयेत् क्रमात् ॥ ४-२०५ ॥

अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं पुनः ॥ ४-२०६ ॥

अनन्तरं जातकर्म स्यान्नामकरणं तथा ।
उपनिष्क्रमणं पश्चादन्नप्रासनमीरितम् ॥ ४-२०७ ॥

चूडोपनयनं भूयो महानाम्न्यं महाव्रतम् ।
अथोपनिषदं पश्चाद्गोदानोद्वाहकौ मृतिः ॥ ४-२०८ ॥

(मेरौ)

गर्भाधानं पुंसवनं सीमान्तोन्नयनं चरेत् ।
जातं वागीश्वरीगर्भात् प्राग्वद्ध्यायेद्धुताशनम् ॥ ४-२०९ ॥

जात कर्म ततः कृत्वा नालच्छेदं समाचरेत् ।
सूतकं शोधयित्वाथ कुर्यान्नाम यथाविधि ॥ ४-२१० ॥

तृप्तये यस्य देवस्यास्त्यग्निस्तन्नामपूर्वकः ।
चौलोपनयनं वह्नेर्महानाम्नीव्रतं तथा ॥ ४-२११ ॥

महाव्रतं चोपनिषद्व्रतं गोदानमेव च ।
समावर्तनमुद्वाहः शाक्ते वाग्भवपूर्वकाः ॥ ४-२१२ ॥

प्। २८५) तथा ।

प्रणवं पूर्वमुच्चार्य कर्मनाम समुद्धरेत् ।
सम्पादयामि स्वाहेति सर्वकर्मस्वयं विधिः ॥ ४-२१३ ॥

(शारदायाम्)

शुभेषु स्युर्विवाहान्ताः क्रियास्ताः क्रुरकर्मसु ।
मरणान्ताः समुद्दिष्टा वह्नेरागमवेदिभिः ॥ ४-२१४ ॥

(उड्डीशे)

जातकर्म समाप्याथ श्रमापनोदनाय च ।
प्रादेशमात्रं समिधं मूलाग्रघृतसम्प्लुताम् ॥ ४-२१५ ॥

ॐ कामेश्वरकामेशीभ्यां स्वाहेति त्रिर्विनिःक्षिपेत् ।
वह्नेश्च पितरौ मन्त्री स्वदेहे विनियोजयेत् ॥ ४-२१६ ॥

इष्टदेवस्य नाम्ना तु वह्नेर्नाम समाचरेत् ।

कामेश्वरकामेश्वरीभ्यामिति तु श्रीविद्यायाम् । अन्यत्र वागेश्वरवागीश्वरीभ्यामिति ज्ञेयम् ।  
(पूर्णयागे)  

आज्याहुत्यष्टकं हुत्वा नामकर्म समाचरेत् ॥ ४-२१७ ॥

देशिकस्त्वमुकोऽसीति मूलमन्त्रेण कल्पयेत् ।

(वायवीयसंहितायाम्)

जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥ ४-२१८ ॥

नालापनयनं कृत्वा ततः संशोध्य सूतकम् ।
शिवाग्निरिति नामास्य कृत्वा हुतिपुरःसरम् ॥ ४-२१९ ॥

पित्रोर्विसजनं कृत्वा चूडोपनयनादिकम् ।
अथोद्वाहावसानं च कृत्वा संस्कारमस्य तु ॥ ४-२२० ॥

नालापनयनप्रकारस्तु (शैवागमे)

वह्नेरिहास्त्रमन्त्रेण ततो नालापनुत्तये ।
समिधः पञ्च जुहुयात् प्रान्ते मूले घृतप्लुताः- इति ॥ ४-२२१ ॥

प्। २८६) (वायवीयसंहितायाम्)

ताः पालाश्यः परा वापि याज्ञीया द्वादशाङ्गुलाः ।
अवक्रा न स्वयं शुष्।काः सत्वचो निर्व्रणाः समाः ॥ ४-२२२ ॥

दशाङ्गुला वा विहिताः कनिष्ठाङ्गुलिसम्मिताः ।
प्रादेशमात्रा वालाभे होतव्याः सकला अपि- इति ॥ ४-२२३ ॥

(शारदायाम्) वह्नेः सकलसंस्कारशेषे तत्पित्रोर्विसर्जनमुक्त्वा नालापनयनीये पञ्चसमिधां होम उक्तः ।  

ततश्च पितरौ तस्य सम्पूज्यात्मनि योजयेत् ।
समिधः पञ्च जुहुयान्मूलाग्रघृतसम्प्लुताः- इनि ॥ ४-२२४ ॥

(क्रियासारे)

पित्रोर्विसर्जनं कृत्वा चूडोपनयनादिकम् ।
कुर्याद्वा सर्वसंस्कारं शेषे देवौ विसर्जयेत् ॥ ४-२२५ ॥

श्रमापनोदनार्थं च हुत्वा तिस्रः समिद्वराः ।

(मेरुतन्त्रे)

सबीजरसनानाम्ना चैकैकामाहुतिं हुनेत् ॥ ४-२२६ ॥

ततश्चाङ्गानि जुहुयाद्वह्नेर्मूर्त्यष्टकं तथा ।
इन्द्रादिलोकपालाश्च आयुधानि ततः परम् ॥ ४-२२७ ॥

मन्त्रेणोङ्कारपूर्वेण स्वाहान्तेन विचक्षणः ।
स्वाहावसाने जुहुयाद्ध्यायन् वै मन्त्रदेवताम् ॥ ४-२२८ ॥

स्वाहान्तमन्त्रे तु स्वाहान्तरं न देयम् । तदुक्तम् (मन्त्रप्रकाशे)

नमोन्ते न नमो दद्याद्विठान्ते द्विठमेव च ।
पूजायामाहुतौ चापि सर्वत्रायं विधिः शिवे ॥ ४-२२९ ॥

द्विठः स्वाहा । अत्र ठकारेण लिपिसाम्याद्विन्दुरुच्यते । विन्दुद्वयं विसर्गः । स च शक्तिरूपस्तेन द्विठशब्देनाग्निशक्तिः स्वाहोच्यत इति राघवभट्टाः । वस्तुतो द्विठ इति परिभाषिकी सञ्ज्ञेति साम्प्रदायिकाः ।  
(मेरुतन्त्रे)  

चतुर्वारं स्रुवेणाज्यं गृहीत्वा स्रुचि निःक्षिपेत् ।
प्। २८७) तेनैव तां पिधायाग्नौ हुनेत् तिष्ठन् गुरुः स्वयम् ॥ ४-२३० ॥

वौषडन्तेन वह्नेस्तु मनुना संवदेत् ततः ।
जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावलीतनौ ॥ ४-२३१ ॥

ताराद्यैर्दशभिर्भेदैः पूर्वपूर्वसमन्वितैः ।
मनुना गाणपत्येन हुनेत् पूर्वं दशाहुतीः ॥ ४-२३२ ॥

जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु ।

(शारदायामपि)

विघ्नेश्वरस्य मन्त्रेण जुहुयादाहुतिर्दश ॥ ४-२३३ ॥

सामान्यं सर्वतन्त्राणामेतदग्निमखं स्मृतम् ।

तत्रैव ।

ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् ॥ ४-२३४ ॥

अस्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके ।
तण्डुलान् शालिसम्भूतान् मूलमन्त्राभिमन्त्रितान् ॥ ४-२३५ ॥

प्रसृतिः पञ्चदशभिः क्षिप्त्वा चास्त्रमनुं जपन् ।
प्रक्षाल्य पात्रवदनं पिधाय कवचाणुना ॥ ४-२३६ ॥

प्राङ्मुखो मूलमन्त्रेण देशिकेन्द्रश्चरुं पचेत् ।
स्रुवेणाज्येन सम्पन्ने दद्यात् तप्ताभिघारणम् ॥ ४-२३७ ॥

मूलेन पश्चात् तत् पात्रं कवचेनावतारयेत् ।
अस्त्रजप्तकुशास्तीर्णमण्डले विधिवद्गुरुः ॥ ४-२३८ ॥

तं विभज्य त्रिधा भागमेकं देवाय कल्पयेत् ।
अन्यमग्नौ प्रजुहुयादपरं देशिकः स्वयम् ॥ ४-२३९ ॥

शिष्येण सार्धं भुञ्जीत �- �- �- �- �- �- इति ।

होमभोजनयोः प्रकारस्त्वग्रे वक्ष्यते ।
(मेरुतन्त्रे)

सम्पूज्य देवतापीठं वह्नौ सम्यक् ततो गुरुः ॥ ४-२४० ॥

प्। २८८) अग्निरूपधरां तत्र पूजयेदिष्टदेवताम् ।
आज्येन साध्यमनुना पञ्चविंशतिसङ्ख्यकम् ॥ ४-२४१ ॥

हुनेन्मन्त्री चाग्निमुखे वक्त्रैकीकरणं त्विदम् ।
आत्माग्निदेवतानां च चिन्तयन्नैक्यमात्मवित् ॥ ४-२४२ ॥

एकादशाथ मूलेन हुनेदाज्येन चाहुतीः ।
नाडीसन्धानमेतद्धि प्रोक्तं देशिकसत्तमैः ॥ ४-२४३ ॥

अङ्गप्रभृत्या वृत्तीनामेकैकामाहुतिं हुनेत् ।

अन्ते मूलेन दशाहुतयो देयास्तदुक्तम् (त्रिपुरासारसमुच्चये)

परिवारस्यैकैकां देव्या दशाहुतीर्जुहुयात्- इति ॥ ४-२४४ ॥

(मेरुतन्त्रे)

पूर्वादिदिक्षु कुण्डेषु सर्वेष्वपि यथाविधि ।
गुरुर्वह्निं परिहरेत् संस्कृतेषूक्तवर्त्मना ॥ ४-२४५ ॥

सर्वर्त्त्विजश्चन्दनाद्यैः सम्पूज्य प्रोक्तदेवताम् ।
सर्वावरणसंयुक्तां मूलेन जुहुयुस्ततः ॥ ४-२४६ ॥

पञ्चविंशतिधा सर्पिः संयुतेन पयोन्धसा ।

अत्र सर्वेष्वपि कुण्डेषु वह्निविहरणमाचार्यकर्तृकम् । कुण्डान्तरसंस्कारस्तु ऋत्विक्वर्तृको बोध्यः । जुहुयुरिति । आचार्य ऋत्विजश्चेति शेषः । पयोन्धसाचरुणा पूर्वोक्तचरोर्द्वितीयभागेनेति यावत् । चरुहोमात् पूर्वं पञ्चविंशतिराज्याहुतयो देयाः ।  
तथा च (शारदायाम्)  

ततोऽन्येष्वपि कुण्डेषु संस्कृतेषु यथाविधि ॥ ४-२४७ ॥

आचार्यो विरहेदग्निं पूर्वादिषु समाहितः ।
ऋत्विजो गन्धपुष्पाद्यैरङ्गाद्यावरणान्विताम् ॥ ४-२४८ ॥

तत्रोक्तदेवतामिष्टां पञ्चविंशतिसङ्ख्यया ।
मूलेनाज्येन जुहुयुः साज्येन चरुणा तथा ॥ ४-२४९ ॥

प्। २८९) (सोमशम्भौ)

चरोस्तृतीयभागं तु ग्रासत्रितयसम्मितम् ।
अष्टग्रासप्रमाणं वा दर्शनस्पर्शवर्जितम् ॥ ४-२५० ॥

पलाशपुटके भुक्तौ भुक्तौ पिप्पलपत्रके ।
हृदा सम्भोजयेन्मन्त्री पूतैराचामयेज्जलैः ॥ ४-२५१ ॥

(शारदायाम्)

आचान्तं शिष्यमानीय सकलीकृत्य देशिकः ।
तालप्रमाणं हृज्जप्तं क्षीरवृक्षादिसम्भवम् ॥ ४-२५१ ॥

दन्तकाष्ठं तदा दद्याच्छिष्याय विनयात्मने ।
दन्तान् विशोध्यं यत्नेन तत् प्रक्षाल्य विसर्जयेत् ॥ ४-२५३ ॥

(मेरुतन्त्रेऽपि)

वितस्तिमात्रं हृज्जप्तं यथोक्तं दन्तधावनम् ।
शिष्याय दद्यात् स रदान् विशोध्य क्षालितं त्यजेत् ॥ ४-२५४ ॥

दन्तकाष्ठपरीक्षा च मण्डपप्रवेशात् प्रागेव कर्तव्या । अत्र तु दन्तशोधनमात्रमिति सम्प्रदायः । अत्रैव परीक्षा कर्तव्येति केचित् । अन्ये तु कालद्वयेऽपि तत्परीक्षा कर्तव्यैवेत्याहुः ।  
(शारदायाम्)  

यथाविधि तमाचान्तं शिखाबन्धाभिरक्षितम् ।
विधाय सार्धममुना वेद्यां दर्भास्तरे गुरुः ॥ ४-२५५ ॥

शयीत तस्यां तां रात्रिमधिवासः समीरितः ।

(नारायणीये)

पुनस्तं शिष्यमाचान्तं शिखाबन्धाभिरक्षितम् ॥ ४-२५६ ॥

कृत्वां वेद्यां सहानेन स्वपेद्दर्भास्तरे गुरुः ।

(पिङ्गलामते)

स्वप्नमानवमाश्रित्य स्वापयेत् पूर्वमस्तकम् ॥ ४-२५७ ॥

प्। २९०) (वायवीयसंहितायाम्)

देवस्य दक्षिणे भागे शिष्यं तमधिवासयेत् ।
अहतास्तरणास्तीर्णसदर्भशयने शुचिः ॥ ४-२५८ ॥

(मेरुतन्त्रे)

आचान्तमत्र च यथाविधि तं शिखायां
बन्धैः सुरक्षितममुं प्रविधाय मन्त्री ।
वेद्यां शयीत कुशसंस्तरेण रजन्यां
शिष्येण सर्धमनुना गदितोऽधिवासः ॥ ४-२५९ ॥

(महाकपिलपञ्चरात्रे)

गुरुपादार्चनं कृत्वा उपवासी जितेन्द्रियः ।
दर्भशय्यां गतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् ॥ ४-२६० ॥

(योगिनीतन्त्रे) (मेरुतन्त्रे) च

यज्जाग्रतो दूरमुदैति दैव-
मावृत्य मन्त्रान् प्रयतस्त्रिरेतान् ।
लघ्वेङ्कभुग्दक्षिणपार्श्वशायी
स्वप्नं परीक्षेत यथोपदेशम् ॥ ४-२६१ ॥

भगवन् देवदेवेश शूलभृद्वृषवाहन ।
इष्टानिष्टे समाचक्ष्व मम सुप्तस्य शाश्वतः ॥ ४-२६२ ॥

एवं सुप्तः कुशास्तीर्णे ततः प्रयतमानसः ।
निशान्ते पश्यति स्वप्नं शुभं वा यदि वाशुभम् ॥ ४-२६३ ॥

(पिङ्गलामते) (मेरुतन्त्रे) च ।

तारो हिलिद्वयं शूलपाणये द्विठ ईरितः ।
स्वप्नमानवमन्त्रोऽयं शम्भुना परिकीर्तितः ॥ ४-२६४ ॥

नमो जय त्रिनेत्राय पिङ्गलाय महात्मने ।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ ४-२६५ ॥

प्। २९१) स्वप्ने कथन मे तथ्यं सर्वकार्येष्वशेषतः ।
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ ४-२६६ ॥

(मन्त्रतन्त्रप्रकाशे)

ॐ हृत्सकललोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ ४-२६७ ॥

स्वप्नमानवमन्त्रोऽयं कथितो नारदादिभिः ।

(नारदीये)

परब्रह्मस्वरूपस्त्वमन्तश्चरसी विश्वधृक् ॥ ४-२६८ ॥

शुभाशुभगतिं देव स्वप्ने मे विनिवेदय ।
इत्युच्चार्य नमस्कुर्याज्जानुभ्यामवनीं गतः ॥ ४-२६९ ॥

प्रसन्नो वाग्यतस्तस्मिन् शयीतेष्टं विचिन्तयेत् ।

अथ शुभस्वप्नाः । (योगिनीतन्त्रे)

त्रिविधं दर्शनं तस्य यथार्थमयथार्थकम् ॥ ४-२७० ॥

अपाकजं यत् स्वस्थानां संयतानां हि दर्शनम् ।
यथार्थमयथार्थं तदस्वस्थानां विकारजम् ॥ ४-२७१ ॥
अपाकजं मानसं च यथार्थफलमुच्यते ॥ ४-२७१एफ़् ॥

(आगमसिद्धान्ते)

आद्ये वर्षाद्वत्सरार्धाद्द्वितीये
यामे पाको वर्षपादात् तृतीये ।
यामे पाकः शर्वरीतुर्यपादे
सद्यः पाको यो विसर्गेषु दृष्टः ॥ ४-२७२ ॥

तथा ।

स्वप्ने पश्यति वै देवं निजेष्टं सर्वतो मुखम् ।
गुरुं प्रसादसुमुखं निर्मलं चन्द्रमण्डलम् ॥ ४-२७३ ॥

गङ्गां भागीरथीं भानुं लिङ्गिनं लिङ्गमैश्वरम् ।
प्। २९२) प्रसन्नां तत्र जानीयात् सिद्धिं स्वप्ननिदर्शने ॥ ४-२७४ ॥

(नारदपञ्चरात्रे)

क्षितिलाभः क्षतं चाब्धितरणं चाग्निपूजनम् ।
होमश्च ज्वलिते वह्नौ सङ्ग्रामविजयस्तथा ॥ ४-२७५ ॥

हंसकोकमयूराणां स्थारोहणमेव च ।

(महाकपिलपञ्चरात्रे)

कन्यां छत्रं रथं दीपं प्रासादं कमलं नदीम् ॥ ४-२७६ ॥

कुञ्जरं वृषभं मालां समुद्रफेनिलं द्रुमम् ।
पर्वतं च हयं मध्यमाममांससुरासवम् ॥ ४-२७७ ॥

एवमादीनि सर्वाणि दृष्ट्वा सिद्धिमाप्नुयात् ।
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ॥ ४-२७८ ॥

समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ।
नदीसमुद्रतरणमाकाशगमनं तथा ॥ ४-२७९ ॥

भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् ।
ग्रहनक्षत्रताराणां चन्द्रमण्डलदर्शनम् ॥ ४-२८० ॥

हर्म्यप्ररोहणं चैव प्रासादशिरसोऽपि वा ।
नागाश्ववृषभेन्द्राणां तरुशैलाग्ररोहणम् ॥ ४-२८१ ॥

विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् ।
एवमादीनि सन्दृष्ट्वा नरः सिद्धिमवाप्नुयात् ॥ ४-२८२ ॥

स्वप्ने तु मदिरापानमाममांसस्य भोजनम् ।
कृमिविष्ठानुलेपं च रुधिरेणाभिषेचनम् ॥ ४-२८३ ॥

भोजनं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् ।
प्। २९३) सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् ॥ ४-२८४ ॥

रत्नान्याभरणादीनि दृष्ट्वा स्वप्ने प्रसीदति ।

(नारदपञ्चरात्रे)

गुरुर्देवो द्विजः कन्या गोगजाश्वाश्च केशरी ॥ ४-२८५ ॥

दर्पणं शङ्खभेर्यौ च तन्त्रीवाद्यं च रोचनम् ।
ताम्बूलभक्षणं चैव तथा बध्याभिवन्दनम् ॥ ४-२८६ ॥

सिद्धान्नमाममांसं च मद्यस्त्रीमदिरावसाः ।
छत्रं यानं सितं वस्त्रं तथान्यं श्वेतचन्दनम् ॥ ४-२८७ ॥

मालामुक्ताफले हारः पूर्णः समुदितः शशी ।
प्रचण्डकिरणः सूर्यो निम्नगाथ महोदधिः ॥ ४-२८८ ॥

प्रफुल्लपादपः शाली रोचना कुङ्कुमं मधु ।
लाजाः सिद्धार्थका बीजं नवभाण्डं च पायसम् ॥ ४-२८९ ॥

उपासन्नोऽप्यथाचार्यो गायत्री च वशं गता ।
सर्वे स्वप्ने शुभाः प्रोक्ताः सिद्धिमोक्षफलप्रदाः ॥ ४-२९० ॥

(नारदीये)

ग्रहणं तु परस्त्रीणामगम्यागमनं तथा ।
दंशनं श्वेतनागेन बन्धनं शृङ्खलादिभिः ॥ ४-२९१ ॥

रोदनं ताडनं चैव धावनं चाङ्गघातनम् ।
मृल्लोहत्रपुकांस्यस्य शीसकस्यापि कुत्सितात् ॥ ४-२९२ ॥

धातोर्लाभस्तथा पुष्पं फलरत्नावुभावपि ।
व्यजनं स्वयमन्येन धमनं च विभावसोः ॥ ४-२९३ ॥

एवमादीनि चान्यानि शुभान्याहुर्मनीषिणः ।

(मेरुतन्त्रे)

पूर्णकुम्भो दर्पणं च मीनमाज्यं च रोचना ॥ ४-२९४ ॥

प्। २९४) शवं रोदनहीनं च शस्त्राणि च पताकिका ।
भारद्वाजो नृपालश्च वेदशब्दश्च गायनम् ॥ ४-२९५ ॥

कशामाङ्गल्यगीतानि चाङ्कुशं यद्धृदः प्रियम् ।
स्वप्ने दृष्टानि चैतानि साधकः सिद्धिमाप्नुयात् ॥ ४-२९६ ॥

व्याध्यार्ते नास्ति दुःखं स्यात् सामान्यं सुखमाप्नुयात् ।
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ॥ ४-२९७ ॥

कामयन्तीं नदीसिन्धुतरणं भ्रमणं च खे ।
भास्करोदयनं चैव ग्रहणं चन्द्रसूर्ययोः ॥ ४-२९८ ॥

हर्म्यप्रासादनागाश्ववृषशैलाग्निरोहणम् ।
भोजनं दधिभक्तस्यापक्वमांसस्य भोजनम् ॥ ४-२९९ ॥

कृमिविष्ठानुलेपश्च रुधिरेणाभिषेचनम् ।
ताम्बूलभक्षणं मद्यपानं बध्याभिवन्दनम् ॥ ४-३०० ॥

प्रचण्दकिरणः स्वस्थः कार्यसिद्धेस्तु लक्षणम् ।
श्वेताम्बरधरा नारी श्वेतमाल्यानुलेपना ॥ ४-३०१ ॥

अवगूहति यं स्वप्ने तस्य श्रीः सर्वतोमुखी ।
आसने शयने पाने शरीरे वाहने गृहे ॥ ४-३०२ ॥

ज्वलमाने विबुध्येत तस्य श्रीः सर्वतोमुखी ।
सितोरगस्य दंशश्च जायते दक्षिणे करे ॥ ४-३०३ ॥

दशाहोभिर्भवेल्लाभो रोगी रोगाद्विमुच्यते ।
निगडैर्बाहुपाशेन बध्यते वा सुतो भवेत् ॥ ४-३०४ ॥

प्रतिष्ठा वर्धते तस्य दुग्धपानाद् धनक्षयः ।
सुरारक्तं पिबन् विद्यां लभेद्विप्रो धनं परम् ॥ ४-३०५ ॥

दधि दृष्ट्वा भवेत् प्रीतिर्गोदूमैश्च धनागमः ।
प्। २९५) सिद्धाविष्टागमं विद्याल्लाभः सिद्धार्थकैस्तथा ॥ ४-३०६ ॥

दधिलाभाद्भवेदर्थो घृतलाभाद्भवेज्जयः ।
घृताशनाद्धनक्लेशो जयस्तु दधिभक्षणे ॥ ४-३०७ ॥

लिङ्गाद्यभ्यर्चनं दृष्ट्वा व्यवहारे जयो भवेत् ।
यस्तु मध्ये तडागादेर्भुञ्जीत घृतपायसम् ॥ ४-३०८ ॥

निष्कम्पपुष्करे पत्रे तं विद्यात् पृथिवीपतिम् ।
देवतालिङ्गिनो गावः पितरो ब्राह्मणा नृपाः ॥ ४-३०९ ॥

यद्वदन्ति नरं स्वप्ने तत् तथैव भविष्यति ।
अन्त्रैः संवेष्टयेद्यस्तु ग्रामं नगरमेव वा ॥ ४-३१० ॥

ग्रामे मण्डलराज्यं स्यान्नगरे पार्थिवो भवेत् ।
चन्द्रतारार्कग्रसनं परिमार्गणमेव च ॥ ४-३११ ॥

भूम्यम्बुधीनां ग्रसनं शत्रूणां च बधक्रिया ।
जयो विवादद्यूतेषु शत्रूणां च तथा जयः ॥ ४-३१२ ॥

वडवामहिषीसिंहीगोहस्तिन्यादिदोहनम् ।
प्रसादो गुरुविप्रेष्टदेवसिद्धादिकाच्छुभः ॥ ४-३१३ ॥

स्नानं राज्याभिषेकश्च स्वशिरच्छेदनं मृतिः ।
तीर्थोदकानां तरणं तथा विषमलङ्घनम् ॥ ४-३१४ ॥

गोहस्तिवडवासूतिवह्निलाभस्तथैव च ।
परस्त्र्यालिङ्गनं तस्या लाभो रोदनमेव च ॥ ४-३१५ ॥

विष्ठालेपः कुन्दजातीवकुलक्ष्मेशदर्शनम् ।
रणद्यूतिविमर्देषु जयो निगडबन्धनम् ॥ ४-३१६ ॥

पशुमर्त्त्यमृगाणां च लब्धिरध्यसनं तथा ।
शिखिलाभः श्वेतवस्त्रपुष्पचन्दनधारणम् ॥ ४-३१७ ॥

प्। २९६) मणितारसुवर्णादिपात्रे भोजनकं यदा ।
पश्येत् तदा साधकस्य ज्ञेया सिद्धिरुपस्थिता ॥ ४-३१८ ॥

कार्यार्त्तानां कार्यसिद्धिरितरेषां धनागमः ।

अथाशुभस्वप्नाः ।

कृष्णाम्बरधरा नारी कृष्णगन्धानुलेपना ॥ ४-३१९ ॥

अवगूहति यं स्वप्ने सा रात्रिस्तस्य पश्चिमा ।
एवं तु रक्तया व्याधिः शोकोऽरुणसमानया ॥ ४-३२० ॥

नीलया कलहो हत्या पीतया कीरया विपत् ।

तथा ।

बन्ध्याचर्मतुषास्थ्यादिलवणाङारमिन्धनम् ॥ ४-३२१ ॥

विट्क्लीबोन्मत्ततैलानि जटिलारिवनौषधम् ।
रोगी तृणं च सन्न्यासी नग्नोऽभ्यक्तः क्षुधातुरः ॥ ४-३२२ ॥

विमुक्तकेशः पतितो व्यङ्गासृक् शरटाक्षतम् ।
मार्जारयुद्धं कार्पासो गर्भिणी च रजस्वला ॥ ४-३२३ ॥

गुडस्तक्रं च काषायी पङ्कं रण्डा कलिर्गृहे ।
वस्त्रादिकस्य स्खलनं लुलापसमरं तथा ॥ ४-३२४ ॥

अन्धः कुब्जो दुर्वचनो बधिरः खञ्जकुब्जकौ ।
वमनं च घटो रिक्तो रजकी मलिनाम्बरा ॥ ४-३२५ ॥

एतैर्दृष्टैर्न कार्यं स्याद्रोगी मृत्युमवाप्नुयात् ।
अशोकं करवीरं च पलाशं वापि पुष्पितम् ॥ ४-३२६ ॥

स्वप्नेऽपि सलिलं दृष्ट्वा नरः शोकमवाप्नुयात् ।
रूपान्तरप्रवेशश्च दक्षिणाशागतिस्तथा ॥ ४-३२७ ॥

पङ्के निमज्जनं स्नानं पुत्रभार्याविनाशदम् ।
गाहास्तीद्वजेदेवादे (?) वर्ज्य कृष्णं न शोभनम् ॥ ४-३२८ ॥

प्। २९७) कर्पासभस्मास्थ्यादीनि त्यक्त्वा भुक्तं शुभावहम् ।
रक्तगन्धाम्बरस्रग्वी कृष्णो वा दक्षिणामुखः ॥ ४-३२९ ॥

खरोष्ट्रमहिषारूढस्त्रिमासं न स जीवति ।
श्वभ्रे वा पतनं गेहे द्वारं चास्य पिधीयते ॥ ४-३३० ॥

न चोत्तिष्टति यस्तस्मात् तदब्दं तस्य जीवितम् ।
वान्तिर्मूत्रं पुरीषं च सन्तानजननं च्युतिः ॥ ४-३३१ ॥

शुक्रस्य पश्येद्यः स्वप्ने तस्यायुर्दशमासिकम् ।
ताड्यते विकृतैः कृष्णैः पुरुषैरुद्यतायुधैः ॥ ४-३३२ ॥

पाषाणैस्ताड्यते वापि तस्य मृत्युर्न संशयः ।
महिषोष्ट्रखरारूढस्तैलाभ्यक्तश्च मुण्डितः ॥ ४-३३३ ॥

दक्षिणाशां प्रस्थितो यस्तस्य मृत्युर्न संशयः ।
पश्येत् प्रासादपतनं गृहस्य शशिसूर्ययोः ॥ ४-३३४ ॥

पर्वतानां च वृक्षाणामधिकारच्युतिर्भवेत् ।
हानिश्चैव स्वगोत्राणां व्याधिनाभिभवस्तथा ॥ ४-३३५ ॥

गृहसम्मार्जनं लोपो गोमयेन मृदापि वा ।
तीर्त्त्वा नदीं समायातस्तीरेऽन्यद्वसनं धृतम् ॥ ४-३३६ ॥

रोगी रोगाद्विमुच्येत हानिः स्वस्थस्य जायते ।
पुन्नामानो मृगखगाः पोतकी शुकरी रला ॥ ४-३३७ ॥

पिङ्गला छुच्छुका पल्ली वामाङ्गे कोकिला शिवा ।
स्त्रीनामानो मृगखगाः श्रीकण्ठो वानरो रुरुः ॥ ४-३३८ ॥

छिक्करः पिप्पलो भासो दक्षे काकर्क्षकुक्कुटाः ।
दृष्टाश्चेद्रोगिणो रोगनाशः साधकसिद्धयेः ॥ ४-३३९ ॥

स्वस्थस्य चोद्यमाल्लाभो दिग्व्यत्यासान्न शोभनम् ।

प्। २९८) अथ स्वप्ननिवेदनम् (निबन्धे)

शिष्यस्य शुचिराचान्तः पुष्पहस्तो गुरूत्तमः ॥ ४-३४० ॥

प्रणम्य शिरसा हृष्टस्तस्मै स्वप्नं निवेदयेत् ।
स्वप्ने चाक्षिसमक्षं वा आश्चर्यमपि हर्षदम् ॥ ४-३४१ ॥

अकस्माद्यदि वा पश्येन्नाख्यातव्यं गुरोर्विना ।

अथ दुःस्वप्नशान्तिः (महाकपिलपञ्चरात्रे)

दृष्ट्वा दुःस्वप्नकं चैव होमात् सिद्धिमवाप्नुयात् ॥ ४-३४२ ॥

(पिङ्गलामते)

शुभे शुभं भवेत् तस्य जुहुयादशभे शतम् ॥ ४-३४३ ॥

अस्त्रेणेति क्रमाद्विद्वान् �- �- �- �- �- �- �- इति ।

(मेरुतन्त्रे)

सक्षीराणां घृताक्तानां समिधां च शतं हुनेत् ॥ ४-३४४ ॥

पलाशानां तु गायत्र्या शूद्रः स्नात्वा हविष्यभुक् ।
दीपं दद्याद्विप्रगृहे विष्णोर्गेहे शिवालये ॥ ४-३४५ ॥

एवं दृष्ट्वाशुभं स्वप्नं गृह्णीयान्मनुमन्यथा ।
गृहीते हानिरेव स्याद्वान्यदेवं विचिन्तयेत् ॥ ४-३४६ ॥

(नारदपञ्चरात्रे)

दृष्ट्वा समाचरेद्धोमं दन्तकाष्ठोदितं मुने ।
केवलेनाथ वाज्येन सिंहमन्त्रेण शान्तये ॥ ४-३४७ ॥

अस्त्रमन्त्रगायत्रीसिंहमन्त्राणां विकल्पः । तारावज्रनखं दंष्ट्रायुधाय महासिंहाय हु।फट् नमः । सिंहस्य मनुरिति (मेरौ प्रोक्तः)  
अथ दीक्षादिनकृत्यम् (मेरुतन्त्रे)  

समुत्थायोषसि पुनः सन्ध्यास्नानादिकं चरेत् ।
गुरुः शिष्यो ऋत्विजश्च गच्छेद्यागगृहं प्रति ॥ ४-३४८ ॥

सर्वे ते स्वस्वकुण्डेषु जुहुयुः सघृतैस्तिलैः ।
पुनः साध्येन मनुना ह्यष्टोत्तरसहस्रकम् ॥ ४-३४९ ॥

प्। २९९) द्रव्यैर्विधानप्रोक्तैर्वा हुनेदष्टाधिकं शतम् ।

(श्रीभविष्ये)

आहुतिस्तु घृतादीनां स्रुवेणाधोमुखेन च ॥ ४-३५० ॥

हुनेत् तिलाद्याहुतीश्च दैवेनोत्तानपाणिना ।

(वायवीयसंहितायाम्)

स्रुवेणाज्यं समित्याद्यं स्रुचा शेषं करेण वा ॥ ४-३५१ ॥

तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ।

(महाकपिलपञ्चरात्रे)

अप्रदीप्तेन होतव्यं मध्यमेनाप्यनिन्धिते ॥ ४-३५२ ॥

प्रदीप्ते लेलिहानाग्नौ होतव्यं कर्मसिद्धये ।

(बह्वृचपरिशिष्टेऽपि)

अधोमुखः सधूमे तु जुहुयाद्यो हुताशने ॥ ४-३५३ ॥

यजमानो भवेदन्धः सपुत्र इति च श्रुतिः ।

(छन्दोगपरिशिष्टेऽपि)

योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः ॥ ४-३५४ ॥
मन्दाग्निरामयावी च दरिद्रश्चोपजायते ॥ ४-३५४एफ़् ॥

(त्रिपुरासारे)

अग्नेः कर्णे होमतो व्याधिवाधा
नेत्रेऽन्धत्वं नासिकायामव्याधिः ।
द्रव्यच्छेदो मस्तके स्यान्मुखान्त-
र्होमं कुर्यात् तेन नित्यं विपश्चित् ॥ ४-३५५ ॥

तन्त्रान्तरे ।

यतः काष्ठं ततः श्रोत्रं यत्र धूमोऽत्र नासिका ।
यत्राल्पज्वलनं नेत्रं यत्राङ्गारस्ततः शिरः ॥ ४-३५६ ॥

यत्र प्रज्वलिता ज्वाला जिह्वा सा जातवेदसः ।

प्। ३००) अन्यत्रापि ।

सधूमोऽग्निः शिरो ज्ञेयं निर्धूमश्चक्षुरेव च ॥ ४-३५७ ॥

ज्वलत्कृशो भवेत् कर्णः काष्ठलग्नस्तु नासिका ।
अग्निर्ज्वालायते यत्र शुद्धस्फटिकसन्निभः ॥ ४-३५८ ॥

तन्मुखं तत्र विज्ञेयं चतुरङ्गुलमानतः ।

(नवदुर्गाकल्पे)

यत्र काष्ठं तत्र श्रोत्रे यत्र धूमस्तु नासिके ॥ ४-३५९ ॥

यत्राल्पज्वलनं नेत्रं यत्र भस्म तु तच्छिरः ।
यत्रैव ज्वलितो वह्निस्तत्र जिह्वा प्रकीर्तिता ॥ ४-३६० ॥

(शारदायाम्)

वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः ।
शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु ॥ ४-३६१ ॥

तथा ।

स्वर्णसिन्दूरबालार्ककुङ्कुमक्षौद्रसन्निभः ।
सुवर्णरेतसो वर्णः शोभनः परिकीर्तितः ॥ ४-३६२ ॥

भेरीवारिदहस्तीन्द्रध्वनिर्वह्नेः शुभावहः ।
नागचम्पकपुन्नागपाटलायूथिकानिभः ॥ ४-३६३ ॥

पद्मेन्दीवरकह्लारसर्पिर्गुग्गुलुसन्निभः ।
पावकस्य शुभो गन्ध इत्युक्तस्तन्त्रवेदिभिः ॥ ४-३६४ ॥

प्रदक्षिणास्त्यक्तकम्पाश्छत्राभाः शिखिनः शिखाः ।
शुभदा यजमानस्य राज्यस्यापि विशेषतः ॥ ४-३६५ ॥

कुन्देन्दुधवलो धूमो वह्नेः प्रोक्तः शुभावहः ।
कृष्णः कृष्णगते वर्णो यजमानं विनाशयेत् ॥ ४-३६६ ॥

श्वेतो राज्यं निहन्त्याशु वायसस्वरसन्निभः ।
खरस्वरसमो वह्नेर्ध्वनिः सर्वविनाशकृत् ॥ ४-३६७ ॥

प्। ३०१) पूतिगन्धो हुतभुजो दोतुर्दुःखप्रदो भवेत् ।
छिन्नवृत्तां शिखां कुर्यान्मृत्युं धनपरिक्षयम् ॥ ४-३६८ ॥

शुकपक्षनिभो धूमः पारावतसमप्रभः ।
हानिं तुरगजातीनां गवां च कुरुते सदा ॥ ४-३६९ ॥

एवं विधेषु दोषेषु प्रायश्चित्ताय देशिकः ।
मूलेनाज्येन जुहुयात् पञ्चविंशतिमाहुतिम् ॥ ४-३७० ॥

(त्रिपुरासारचमुच्चये)

वस्वधिकं शतमाज्यैर्जुहुयाच्छान्तिकममीषु दोषेषु ।
अस्त्रेण साधकेन्द्रस्तनुयादथ चक्रपूजां च- इत्युक्तम् ॥ ४-३७१ ॥

(शारदायाम्)

ततः सुधौतं दन्ताद्यं स्नातं शिष्यं समाहितम् ।
पाययित्वा पञ्चगव्यं कुण्डस्यान्तिकमानयेत् ॥ ४-३७२ ॥

(प्रयोगसारेऽपि)

पञ्चगव्यं यथाप्रोक्तं पीत्वाचान्तं यथाविधि ।
द्वारेण दक्षिणेनाथ यागस्थानं प्रवेशयेत् ॥ ४-३७३ ॥

(शारदायाम्)

विलोक्य दिव्यदृष्ट्या तं तच्चैतन्यं हृदम्बुजात् ।
गुरुरात्मनि संयोज्य कुर्यादध्वविशोधनम् ॥ ४-३७४ ॥

तन्त्रान्तरे ।

हृदि स्थितं तच्चैतन्यं प्रस्फुरत्तारकाकृतिम् ।
आदाय अथापयेत् स्वीये हृदयेऽङ्कुशमुद्रया ॥ ४-३७५ ॥

(षडन्वयमहारत्ने)

शोधनं नाम तत्त्वानां कारणैकत्वचिन्तनम् ।
वर्णादीनां कलानां च तस्यां चिदैक्यचिन्तनम् ॥ ४-३७६ ॥

प्। ३०२) (शारदायाम्)

उक्तं कलाध्वा तत्त्वाध्वा भुवनाध्वेति च त्रयम् ।
वर्णाध्वा च पदाध्वा च मन्त्राध्वेति परं त्रयम् ॥ ४-३७७ ॥

(वायवीयसंहितायाम्)

तत्र शाब्दास्त्रयोऽध्वानस्त्रयस्त्वार्थाः समीरिताः ।

तन्त्रान्तरे ।

मन्त्राध्वा च पदाध्वा च वर्णाध्वेति च शब्दतः ॥ ४-३७८ ॥

भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतस्तथा ।

अत्र तु संहारक्रमेणोक्तिः । (शारदायाम्) सृष्टिक्रमणेति ज्ञेयम् ।  

(मेरुतन्त्रे)

शिष्यस्य पादयोश्चिन्त्या गुरुणा तु कला इमाः ॥ ४-३७९ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
शान्त्यतीतेति पञ्चाथ शोधनक्रम उच्यते ॥ ४-३८० ॥

कूर्चेन च गुरुः शिष्यं स्पृशन् कुण्डे स्वके हुनेत् ।
तिलैर्घृताक्तैस्ताराद्यममुकाध्वानमत्र च ॥ ४-३८१ ॥

शोधयामि द्विठान्तेन मन्त्रेणाष्टाहुतिर्हुनेत् ।
तत्त्वाध्वनि विलीनं तु कलाध्वानं विचिन्तयेत् ॥ ४-३८२ ॥

ततो लिङ्गप्रदेशे तु तत्त्वान्येतानि चिन्तयेत् ।
गाणेशानि च शैवानि तत्रैतानि रसाग्नयः ॥ ४-३८३ ॥

तद्यथा शिवशक्ती च सदाशिवमहेश्वरौ ।
विद्येति पञ्चशुद्धानि शुद्धाशुद्धानि सप्त च ॥ ४-३८४ ॥

माया विद्या कला रागः कालो नियतिरेव च ।
पुरुषश्चाथ शुद्धानि प्रकृतिर्बुद्ध्यहङ्कृती ॥ ४-३८५ ॥

मनश्चेन्द्रियदशकं तन्मात्राभूतपञ्चकम् ।

शुद्धानीति । आणवकार्मणमायीयाख्यमलत्रयरहितानीत्यर्थः । तत्राणवो नाम सदाशिवत्वेन स्वस्थानावमर्षः । कार्मणो नाम पुण्यपापवानहमिति प्रतीतिः । मायीयो नामाहङ्कारादावात्मत्वबुद्धिः । शुद्धशुद्धानीति । कारणत्वेन मलत्रयराहित्याच्छुद्धानि । कार्यरूपत्वेन तद्युक्तत्वादशुद्धानीत्यर्थः ।  

अथ वैष्णवतत्त्वानि द्वात्रिंशत्प्रमितानि तु ॥ ४-३८६ ॥

जीवः प्राणो मनो बुद्धिस्तन्मात्रा भूतपञ्चकम् ।
दशेन्द्रियाणि हृत्पद्मं सूर्यसोमाग्नयस्तथा ॥ ४-३८७ ॥

वासुदेवः सङ्कर्षणश्च प्रद्युम्नश्चानिरुद्धकः ।
सौराणि भूततन्मात्रामनोगर्वेन्द्रियाणि च ॥ ४-३८८ ॥

प्रकृतिर्बुद्धिरिति च चतुर्विंशतिसम्मितम् ।

(शारदायाम्)

निवृत्त्याद्याः कलाः पञ्च ततो विन्दुः कला पुनः ॥ ४-३८९ ॥

नादः शक्तिः सदापूर्वशिवश्च प्रकृतेर्विदुः ।
आत्मविद्या शिवः पश्चाच्छिवो विद्या स्वयं पुनः ॥ ४-३९० ॥

सर्वतत्त्वं च तत्त्वानि प्रोक्तानि त्रिपदात्मनः ।
तत्त्वाध्वा कथितो ह्येष तत्तदागमवेदिभिः ॥ ४-३९१ ॥

(मेरुतन्त्रे)

दशैव शक्तितत्त्वानि आत्मविद्या शिवा इति ।
शिवाविद्या तथात्मेति चात्मविद्या शिवा पुनः ॥ ४-३९२ ॥

सर्वतत्त्वं चेति पुनः प्राग्वदूहेन होमयेत् ।
तत्त्वाध्वानं विलीनं तु चिन्तयेद्भुवनाध्वनि ॥ ४-३९३ ॥

शिष्यस्य नाभौ चिन्त्यानि भुवनानि चतुर्दश ।
तानि क्रमेण पातालरसातलमहातलम् ॥ ४-३९४ ॥

तलातलं च सुतलं वितलं चातलं च भूः ।
भुवश्च स्वर्महश्चापि जनस्तप इति क्रमात् ॥ ४-३९५ ॥

सत्यं च भुवनाध्वानं होमाद्यूहस्तु पूर्ववत् ।
विलीनं भुवनाध्वानं वर्णाध्वनि विचिन्तयेत् ॥ ४-३९६ ॥

प्। ३०४) अकारादिक्षकारान्तान् वर्णान् सञ्चिन्तयेद्धृदि ।
वर्णाध्वानं विलीनं तु पदाध्वनि विचिन्तयेत् ॥ ४-३९७ ॥

होमोहौ प्राग्वदेवात्र ललाटे चिन्तयेत् ततः ।
पदाध्वानं मूलमन्त्रपदवर्णस्वरूपकः ॥ ४-३९८ ॥

पदाध्वात्रोहहोमादि प्राग्वदेव समाचरेत् ।
मन्त्राध्वनि विलीनं तु पदाध्वानं विचिन्तयेत् ॥ ४-३९९ ॥

सम्पूर्णमन्त्रो मन्त्राध्वा चिन्तयेच्छिष्यमूर्धनि ।
होमोहः प्राग्वदेवात्र विलीनोहं परे शिवे ॥ ४-४०० ॥

ब्रहम्रन्ध्रस्थिते ध्यायेदतः स्यादध्वशोधनम् ।
सृजेत् सृष्ट्या विलीनान्ताच्छिवान्ताच्च गुरूत्तमः ॥ ४-४०१ ॥

देशिकेन्द्रश्च तं शिष्यं दृष्ट्वा दृष्ट्या च दिव्यया ।
तच्चैतन्यस्थितं तस्मि।स्तस्मिन्नेव च योजयेत् ॥ ४-४०२ ॥

(शारदायामपि)

�- �- �- �- �- �- �- �- क्रमात् तान् विलयं नयेत् ।
शिवे शिवान्तान् संलीनान् जनयेत् सृष्टिमार्गतः ॥ ४-४०३ ॥

विलोकयन् दिव्यदृष्ट्या तं शिशुं देशिकोत्तमः ।
आत्मस्थितं तच्चैतन्यं पुनः शिष्ये नियोजयेत् ॥ ४-४०४ ॥

(क्रियासङ्ग्रहे)

शूद्रसङ्करजातीनां नाध्वशुद्धिर्विधीयते ।
पादोदकप्रदानाद्यैः कुर्यात् पापविमोचनम् ॥ ४-४०५ ॥

मूलेन दशधा हुत्वा चैकैकामाहुतिं ततः ।
हुत्वा वरणदेवेभ्यस्ततः पूर्णाहुतिं चरेत् ॥ ४-४०६ ॥

(शारदायाम्)

स्रुचा पूर्णाहुतिं दत्वा मूलमन्त्रेण देशिकः ।

प्। ३०५) (वायवीयसंहितायाम्)

ततो होमावशिष्टेन घृतेनापूर्य वै स्रुचम् ॥ ४-४०७ ॥

निधाय पुष्पं तस्याग्रे स्रुवेणाधोमुखेन ताम् ।
सदर्भेण समाच्छाद्य मूलेनाञ्जलिनोत्थितः ॥ ४-४०८ ॥

वौषडन्तेन जुहुयाद्धारां जवसमन्विताम् ।

(मेरुतन्त्रे)

सर्पिषा स्रुचमापूर्य पुष्पं चोपर्यधोमुखम् ॥ ४-४०९ ॥

स्रुगुपरि स्रुवं दत्वा पुष्पं तत्र प्रपातयेत् ।
सव्योत्तरकराभ्यां च सम्पुटाभ्यां च शङ्खवत् ॥ ४-४१० ॥

सङ्गृह्योत्थाय संलग्नौ नाभौ तिर्यङ्निधाय च ।
पूर्णा दर्वीति मन्त्रेण मूलेन च सुसंयतः ॥ ४-४११ ॥

दद्यात् पूर्णाहुतीस्तिस्रः सर्वकामप्रपूरणीः ।
श्रोत्रियस्यैतदुद्दिष्टमन्यः पूर्णाहुतिं चरेत् ॥ ४-४१२ ॥

मूलेन वौषडन्तेन स्वाहान्तेन तु वामतः ।

(अग्निपुराणे)

मूर्धानं दिवमन्त्रेण संश्रवेण च धारया ॥ ४-४१३ ॥

दद्यादुत्थाय पूर्णां तु नोपविश्य कदा चन ।

(हयशीर्षपञ्चरात्रे)

हुत्वा च हविषा दद्यात् स्रुचा पुणाहुतित्रयम् ॥ ४-४१४ ॥

वौषडन्तेन मन्त्रेण �- �- �- �- �- �- �- �- �- इति ।

(नारदपञ्चरात्रे)

अभावे तु घृतस्यैव होमद्रव्येण पूरयेत् ॥ ४-४१५ ॥

तस्योपरि घृतं दद्यात् तदूर्ध्वं कुङ्कुमादिकम् ।

(तूर्णायागे)

मूलं नमोन्तमुच्चार्य वामपादपुरःसरम् ॥ ४-४१६ ॥

प्। ३०६) दद्यात् पूर्णाहुतिर्मन्त्री परामृतधिया ततः ।

(मेरुतन्त्रे)

दक्षपादं पुरस्कृत्य दक्षः पूर्णाहुतिं चरेत् ॥ ४-४१७ ॥

शक्तिहोमे वामपादं वाममार्गी च सर्वतः ।

(गौतमीयतन्त्रे)

स्रुक्स्रुवौ तु समादाय घृतेनापूर्य तत् पुनः ॥ ४-४१८ ॥

होमद्रव्याणि निःक्षिप्य नाभौ संस्थाप्य तौ पुनः ।
ब्रह्मार्पणेन मनुना दद्यात् पूर्णाहुतिं पुनः ॥ ४-४१९ ॥

इतः पूर्वं प्राणबुद्धिं देहे धर्माधिकारतः ।

जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा ।  

ब्रह्मार्पणमनुः सोऽयं ब्रह्मार्पणविधौ स्मृतः ॥ ४-४२० ॥

एवं होमविधिं कृत्वा कुण्डस्थण्डिलदेवताः ।
दिक्पालदेवताश्चापि अङ्कुरार्पणदेवताः ॥ ४-४२१ ॥

आनयेद् कलशे चापि कृष्णैक्यं भावयेद्गुरुः ।

कृष्णेति प्रकृताभिप्रायेण ।
(मेरुतन्त्रे)

पुनः सम्पूज्य गन्धाद्यैर्मूलमन्त्रेण मन्त्रवित् ॥ ४-४२२ ॥

कुण्डादुद्वास्य चाचार्यो देवतां कलशे न्यसेत् ।

(शारदायाम्)

उद्वास्य देवतां कुम्भे साङ्गां सावरणां गुरुः ॥ ४-४२३ ॥

पुनर्व्याहृतिभिर्हुत्वा जिह्वादीनां विभावसोः ।
एकैकामाहुतिं दत्वा परिषिञ्च्याद्भिरात्मनि ॥ ४-४२४ ॥

पावकं योजयित्वा स्वे परिधीन् सपरिस्तरान् ।
नैमित्तिके दहेन्मन्त्री नित्ये तु न दहेदिमान् ॥ ४-४२५ ॥

प्। ३०७) व्याहृतिभिर्महाव्याहृतिभिः ।

पुनः समापयेद्धोमं महाव्याहृतिपूर्वकम्- इति वचनात् ।

तत्प्रकारस्तु (गौतमीये)

पूर्णाहुतिं ततो दयादद्भिश्चैवं विधानवित् ॥ ४-४२६ ॥

ओम्भूरग्नये पृथिव्यै च महते स्वाहया तथा ।
भुवो वायवे चान्तरिक्षाय महते स्वाहया तथा ॥ ४-४२७ ॥

स्वश्चन्द्रमसे दिग्भ्यश्च नक्षत्रेभ्यश्च स्वाहा ।

ओम्भूर्भुवःस्वश्चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यश्च महते स्वाहा । पावकं योजयित्वेति ।  

तत्प्रकारस्तु (गणेश्वरविमर्षिण्याम्)

भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक ॥ ४-४२८ ॥

कर्मान्तरेऽपि सम्प्राप्ते सन्निधिं कुरु सादरम् ।
इति मन्त्रेण सम्प्रार्थ्य वह्निमुद्वासयेदपि- इति ॥ ४-४२९ ॥

(मेरुतन्त्रे)

ततो ब्रह्माणमुद्वास्य ब्राह्मणाय प्रदापयेत् ।
द्वात्रिंशत्पलमानेन निर्मितं ताम्रपात्रकम् ॥ ४-४३० ॥

तण्डुलैस्तत् समापूर्य सहिरण्यं सदक्षिणम् ।
दद्याद्विप्राय तत्तुष्ट्यै पूर्णपात्रमितीरितम् ॥ ४-४३१ ॥

ततः परिस्तरानग्नौ परिधीन् निःक्षिपेदिति ।

तन्त्रान्तरे ।

अष्टौ मुष्टिर्भवेत् कुञ्चित् कुञ्चिदष्टौ तु पुष्कलः ॥ ४-४३२ ॥

पुष्कलानि च चत्वारि पूर्णपात्रं तदुच्यते ।

(शारदायाम्)

नेत्रे शिष्यस्य बन्धीयान्नेत्रमन्त्रेण वाससा ॥ ४-४३३ ॥

(महाकपिलपञ्चरात्रे)

नवेन शुक्लवस्त्रेण नेत्रे बद्ध्वा �- � �- �- �- �- त्युक्तम् ।

प्। ३०८) (पिङ्गलामते)

नेत्रवस्त्रेण तन्नेत्रे नेत्रमन्त्रेण बन्धयेत् ॥ ४-४३४ ॥

(शारदायाम्)

करे गृहीत्वा तं शिष्यं कुण्डतो मण्डलं नयेत् ।
तस्याञ्जलिं पुनः पुष्पैः पूरयित्वा यथाविधि ॥ ४-४३५ ॥

कलशे देवताप्रीत्यै क्षेपयेन्मूलमुच्चरन् ।

(नारायणीये)

न्यासं शिष्यतनौ कृत्वा तं प्रदक्षिणमानयेत् ॥ ४-४३६ ॥

पश्चिमं द्वारमानीय क्षेपयेत् कुसुमाञ्जलिम् ।

(मेरुतन्त्रे)

नेत्रबन्धमपास्यैवं वेशयेत् कुशसंस्तरे ॥ ४-४३७ ॥

ततश्च पाठयेच्छिष्यं मन्त्रमेनं गुरूत्तमः ।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ॥ ४-४३८ ॥

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।

(पिङ्गलामते)

पुष्पैरञ्जलिमापूर्य योगपीठे प्रदापयेत् ॥ ४-४३९ ॥

पश्चिमोत्तररुद्रेन्द्रैः पुष्पपातः शुभः शुभे ।
आत्मयागः क्रमाद्भूयः संहृत्योत्पाद्य देशिकः ॥ ४-४४० ॥

तत्तन्मन्त्रोदितान् न्यासान् कुर्याद्देहे शिशोस्तदा ।

आत्मयागो भूतशुद्धिः ।
(प्रयोगसारे)

गुणांशेण पृथिव्यादिभूतानि विलयं नयेत् ॥ ४-४४१ ॥

यथावत् पिण्डसंस्थानि संहारक्रमयोगतः ।
ततः सृष्टिक्रमेणैव पिण्डं सम्भावयेत् तदा ॥ ४-४४२ ॥

(मन्त्रतन्त्रप्रकाशे)

उपविश्यासने शुद्धे संहरेत् तस्य विग्रहम् ।
प्। ३०९) गन्धादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत्- इत्यादि ॥ ४-४४३ ॥

(शारदायाम्)

पञ्चोपचारैः कुम्भस्थां पूजयित्वेष्टदेवताम् ।
तस्यां तन्त्रोक्तमार्गेण विदध्यात् सकलीकृतिम् ॥ ४-४४४ ॥

एतदन्तरं देवसकाशाद्वरप्रार्थनमुक्तमाचार्यैः ।
कारुण्यनिलये देवि सर्वसन्निधिसंश्रये ॥ ४-४४५ ॥

शरण्ये वत्सले मातः कृपामस्मिन् शिशौ कुरु ।
आणवप्रमुखैः पाशैः पाहि तस्य सुरेश्वरि ॥ ४-४४६ ॥

दीनस्यास्य दयाधारे कुरु कारुण्यमीश्वरि ।
ऐहिकामुष्मिकैर्भागैरपि सम्बध्यतामसौ ॥ ४-४४७ ॥

स्वभक्तिः सकला चास्मै दीयतां निष्कलाश्रये- इति ।

(क्रियासङ्ग्रहमेरुतन्त्रयोः)

ततोऽर्घ्यपात्रमादाय मूलमुच्चार्य मन्त्रवित् ॥ ४-४४८ ॥

साधु वासाधु वा कर्म यद्यदाचरितं मया ।
तत् सर्वं देवदेवेश गृहाणाराधनं परम् ॥ ४-४४९ ॥

इत्यर्घोदकमुत्सृज्य किञ्चिद्देवस्य दक्षिणे ।
करे समर्पयेद्विद्वान् कृतमाराधनं ततः ॥ ४-४५० ॥

भक्त्या प्रणम्य देवेशं श्लोकैरेभिः क्षमापयेत् ।
यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् ॥ ४-४५१ ॥

निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ।
आवाहनं न जानामि न जानामि विसर्जनम् ॥ ४-४५२ ॥

पूजां चापि न जानामि त्वं गतिः परमेश्वर ।
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम ॥ ४-४५३ ॥

अन्तश्चारेण भूतानां द्रष्टा त्वं परमेश्वर ।

प्। ३१०) (मेरुतन्त्रे)

उद्वासयेत् ततो देवं परिवारगणैः सह ॥ ४-४५४ ॥

तथा ।

देवस्याङ्गे विलीनं तद्रश्मिवृन्दमशेषतः ।
तेजोरूपं शिवं ध्यात्वा क्षमस्वेति पुनः पुनः ॥ ४-४५५ ॥

क्षमाप्यारोपयेत् स्वीयहृदम्भोजे तु देवताम् ।

(क्रियासङ्ग्रहे)

देवतारूपमात्मानं पूजयित्वा विधानतः ॥ ४-४५६ ॥

अर्घ्यादिकं विसृज्याथ यजेन्निर्माल्यवासिनम् ।
रेशान्यां मण्डलं कुर्याद् द्वारपद्मविवर्जितम् ॥ ४-४५७ ॥

निर्माल्यभोक्तुः पूजार्थं पञ्चायतनपूजने ।
कर्तव्यानि तु पञ्चैव ईशादामध्यमर्चयेत् ॥ ४-४५८ ॥

लम्बोदरो गणेशस्य तेजश्चण्डो विवस्वतः ।
विष्वक्सेनो हरेः प्रोक्तश्चण्डेश्वरो महेशितुः ॥ ४-४५९ ॥

चण्डेश्वरी भवान्यास्तु मन्त्रोऽहं तादृशं चरेत् ।
लेह्यचोष्यान्नपानादि निर्माल्यं स्रग्विलेपनेम् ॥ ४-४६० ॥

निर्माल्यभोजिने तुभ्यं ददानि श्रीशिवाज्ञया ।
इति नैवेद्यशेषं तु दत्वा नत्वा विसर्जयेत् ॥ ४-४६१ ॥

तथा ।

निर्माल्यं मस्तके धार्यं मूलमन्त्रेण मन्त्रिणा ।

(प्रयोगसारे)

अथैशान्यां दिशि यथामन्त्रविन्यस्तविग्रहम् ॥ ४-४६२ ॥

पीठस्य चतुरस्रायां वेद्यां दर्भाग्रपाणिना ।
अभिषिञ्चेत् स्वकं शिष्यमात्मतत्त्वानुवर्तिनम् ॥ ४-४६३ ॥

प्। ३११) (सोमशम्भौ)

यागालयाद्दिशीशस्य चरितं स्नानमण्डपे ।
कुर्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रयाम् ॥ ४-४६४ ॥

श्रीपर्णाद्यासने तत्र विन्यस्यानतमासने ।
शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ॥ ४-४६५ ॥

तत्रैव ।

स्नानं तदङ्मुखं भुक्तौ पूर्ववक्त्रश्च मुक्तये ।

अन्यत्रापि ।

मण्डलं त्वीशदिक् कृत्वा मुमुक्षू।स्तूत्तराननान् ॥ ४-४६६ ॥

भुक्तये पूर्ववक्त्रा।श्च शिष्या।स्तत्र निवेशयेत् ।

(शारदायाम्)

नदत्सु पञ्चवाद्येषु सार्धं विप्राशिषा गुरुः ॥ ४-४६७ ॥
विधिवत् कुण्डमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् ।
शिशोः शिरसि विन्यस्य मातृकां मनसा जपन् ॥ ४-४६८ ॥

मूलेन साधितैस्तोयैरभिषिञ्चेत् तमात्मवित् ।

मातृकां विलोममातृकाम् ।

क्षाद्यैरान्तैर्वर्णैरभिपूर्णतत्त्वस्त्रिरुक्तमन्त्राद्यैः ॥ ४-४६९ ॥

इति (क्रमदीपिका-) वचनात् ।

शिष्यशिरसि संयोज्य विलोममातृकां जपन् ।
मूलमन्त्रं तथा जप्त्वा कुर्याद्देवाभिषेचनम् ॥ ४-४७० ॥

इति (गौतमीयतन्त्र-) वचनाच्च ।
तथा ।

पूजितां पुनरादाय वर्द्धिनीमस्त्ररूपिणीम् ।
तस्याः सुसाधितैस्तोयैः सिञ्चेद्रक्षार्थमञ्जसा ॥ ४-४७१ ॥

अवशिष्टेन तोयेन शिष्यमाचामयेद्गुरुः ।
ततस्तं सकलीकृत्य देवतात्मानमात्मवित् ॥ ४-४७२ ॥

प्। ३१२) उत्थाय शिष्यो विमले वाससी परिधाय च ।
आचम्य वाग्यतो भूत्वा निषीदेत् सन्निधौ गुरोः ॥ ४-४७३ ॥

देवतामात्मनः शिष्ये सङ्क्रान्तां देशिकोत्तमः ।
पूजयेद्गन्धपुष्पाद्यैरैक्यं सम्भावय।स्तयोः ॥ ४-४७४ ॥

दद्याद्विद्यां ततस्तस्मै विनीतायाम्बुपूर्वकम् ।

(वशिष्ठसंहितायाम्)

ततस्तच्छिरसि स्वस्य हस्तं दत्वा शतं जपेत् ॥ ४-४७५ ॥

अष्टोत्तरशतं वापि दद्यादुदकपूर्वकम् ।

(गौतमीये)

न्यासजालं तस्य देहे गुरुः सन्न्यस्य यत्नतः ॥ ४-४७६ ॥

दक्षकर्णे वदेन्मन्त्रं त्रिवारं पूर्णमानसः ।

(मेरौ)

दक्षकर्णे वदेद्विद्वान् विप्रायोदकपूर्वकम् ॥ ४-४७७ ॥

अन्येभ्यस्तु वदेदेवमेव मन्त्रं विचक्षणः ।

(कुलामृते)

विद्यां त्रिः कथयेत् कर्णे चाविज्ञाने च वा पुनः ॥ ४-४७८ ॥

(दीपिकायाम्)

ऋष्यादियुक्तमथ मन्त्रवरं यथावद्-
भूयस्त्रिशो गुरुरनर्घ्यमवामकर्णे ।

अन्यत्रापि ।

दक्षकर्णे त्रिशो विद्यामेकोच्चारेण चोच्चरेत् ।
एष विधिर्द्विजातीनां स्त्रीशूद्राणां च वामतः ॥ ४-४७९ ॥

तन्त्रान्तरे ।

अनयोस्तुल्यफलदो भवत्वेवमुदीरयेत् ।
प्रसन्नवदनस्तस्मै शिष्याय मुनिपुङ्गवः ॥ ४-४८० ॥

प्। ३१३) (मेरुतन्त्रे)

स्वतो ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद्गुरुः ।
आगतां भावयेच्छिष्यो नतोऽस्मीति विशेषतः ॥ ४-४८१ ॥

अष्टोत्तरशतं शिष्यः प्रजपेद्गुरुणोदितम् ।
अष्टाविंशतिवारं वा ह्यष्टकृत्त्वोऽथवा जपेत् ॥ ४-४८२ ॥

गुरुदेवात्ममन्त्राणामैक्यं शिष्यो विभावयेत् ।
प्रणामं गुरवे कुर्यात् साधको भिक्तिमान् मुहुः ॥ ४-४८३ ॥

(क्रियासङ्ग्रहे)

पादयोः पतितं शिष्यं तत उत्थापयेद्गुरुः ।
उत्तिष्ठ वत्स मुक्तोऽसि सम्यगाचारवान् भव ॥ ४-४८४ ॥

कीर्तिश्रीकान्तिमेधायुर्बलारोग्यं सदाऽस्तु ते ।

(गौतमीये)

गणेशादिमनुं चोक्त्वा समयात् कथयेद्गुरुः ॥ ४-४८५ ॥

गणेशादिमन्त्रदानं पञ्चायतनदीक्षापक्षे ।
(दक्षिणामूर्तिसंहितायाम्)

समीपे चक्रराजं च सम्यगभ्यर्च्य देशिकः ।
आद्याक्षरेण संलग्नं सुन्दरं नाम कल्पयेत् ॥ ४-४८६ ॥

आत्मानं योजयित्वा तु गरुभिर्मानवैस्ततः ।
स्मर्त्तव्या गुरवः सर्वे सम्यक् प्रणतिपूर्वकम् ॥ ४-४८७ ॥

भूमौ लिखित्वा विद्यां च सम्यक् पुष्पादिभिर्यजेत् ।
शिष्याय दर्शयेद्विद्यां प्रजप्तां शतधा प्रिये ॥ ४-४८८ ॥

यदि स्यान्महती प्रीतिः शिष्यस्य प्रणतस्य च ।
तदैकोच्चारमात्रेण दक्षकर्णे जपेत् पराम् ॥ ४-४८९ ॥

(तन्त्राराजे)

उक्तलक्षणसम्पन्नं शिष्यमाचारभूषणम् ।
प्। ३१४) पञ्चषट्कूटविद्याभ्यां शोधितं बहुवासरैः ॥ ४-४९० ॥

कलशैरभिषिञ्च्यामुं श्रीचक्रे सन्निवेश्य वै ।
आधारे हृदये मूर्ध्नि चक्रं सञ्चिन्त्य मध्यतः ॥ ४-४९१ ॥

स्वान्तादावाह्य संस्थाप्य सम्पूज्य न्याससंयुताम् ।
त्रिशो विद्यां वदेत् कर्णे देव्यात्मापूर्णमानसः ॥ ४-४९२ ॥

देवतागुरुमन्त्रात्मतत्त्वैक्यं भावयेन्मुदा ।
शतं जपेत् तदग्रस्थो निकटे त्रिदिनं वसेत् ॥ ४-४९३ ॥

न चेत् सञ्चारिणी शक्तिर्गुरुमेति न संशयः ।
तस्मात् तदन्तिके तस्य पूजादेशादिकृद्वसेत् ॥ ४-४९४ ॥

(गौतमीये)

त्रिदिनं निवसेद्भक्त्या सिद्धये गुरुसन्निधौ ।
अन्यथा तद्गतं तेजो गुरुमेति न संशयः ॥ ४-४९५ ॥

(मन्त्रतन्त्रप्रकाशे)

आचार्यादनभिप्राप्तः प्राप्तश्चादत्तदक्षिणः ।
सततं जप्यमानोऽपि मन्त्रः सिद्धिं न यच्छति ॥ ४-४९६ ॥

सर्वस्वं वा तदर्धं वा वित्तशाठ्यविवर्जिताम् ।
गुरवे दक्षिणां दत्वा ततो मन्त्रग्रहो मतः ॥ ४-४९७ ॥

(तन्त्रान्तरे)

गोभूहिरण्यं विपुलं गृहक्षेत्रादिकं बहु ।
न चेदर्धं तदर्धं वा तद्दशांशमथापि वा ॥ ४-४९८ ॥

अक्लेशादन्नवस्त्रादि दद्याद्वित्तानुसारतः ।

(ब्रह्मसंहितायाम्)

अदक्षिणं कृतं कर्म वृथा नारद निश्चितम् ॥ ४-४९९ ॥

वीणां मे दक्षिणां देहि साक्षसूत्रकमण्डलुम् ।
ततो मन्त्रं गृहाण त्वं यथाविधि महामुने ॥ ४-५०० ॥

प्। ३१५) विधिहीनं कृतं कर्म सिद्धिं नैव प्रयच्छति ।

(गौतमीये)

गुरवे दक्षिणां दद्याद्वित्तार्धं मुक्तितत्परः ॥ ४-५०१ ॥

तदर्धं वा ततो दद्याद्यथाशक्त्याथ भक्तितः ।
वित्तशाठ्यं न कुर्वीत कृतेऽनर्थं समावहेत् ॥ ४-५०२ ॥

गोभूहिरण्यवस्त्रादि गुरवेऽथ निवेदयेत् ।
गुरुपुत्राय तत्पत्न्यै तच्छिष्येऽपि स्वशक्तितः ॥ ४-५०३ ॥

वस्त्रालङ्करणं दद्याद्राज्यमिष्टं यथारुचि ।
ऋत्विग्भ्यो दक्षिणां दद्याद्वस्त्रालङ्कारसंयुताम् ॥ ४-५०४ ॥

(मेरुतन्त्रे)

अलङ्कारा।श्च वासांसि दद्यादृत्विग्भ्य आदरात् ।
ईश्वरार्पणबुद्ध्या तु द्विजाशीर्भिश्च नन्दितः ॥ ४-५०५ ॥

प्रदद्याद्गुरवे शिष्यः स्वधनार्धं तदर्धकम् ।
दशांशं वा प्रदद्याच्च वित्तशाठ्यविवर्जितः ॥ ४-५०६ ॥

गोभूहिरण्यविपिनगृहक्षेत्रादिकं तथा ।
अक्लेशादन्नवस्त्रादि दद्याद्वित्तानुसारतः ॥ ४-५०७ ॥

प्रकारान्तरमालम्ब्य गुरुं यत्नेन तोषयेत् ।
तदधीनमना नित्यं तच्चिन्तनपरायणः ॥ ४-५०८ ॥

तत्पादाब्जरजोभूषो भवेत् साधकसत्तमः ।
ततो नानाविधैर्भक्ष्यैर्लेह्यैश्चोष्यैस्तथा परैः ॥ ४-५०९ ॥

ब्राह्मणान् भोजयेत् सम्यक् प्रदद्याद्भूरिदक्षिणाम् ।

(वायवीयसंहितायाम्)

मण्डपं गुरवे दद्याद्यागोपकरणैः सह ॥ ४-५१० ॥

(नारायणीयमहाकपिलपञ्चरात्रयोः)

मन्त्रं दत्वा सहस्रं वै स्वसिद्ध्यै देशिको जपेत् ।

प्। ३१६) अन्यत्रापि ।

अष्टोत्तरं सहस्रं स्वशक्तिहीनानवाप्तये जप्यात् ॥ ४-५११ ॥

(कुलामृते)

दण्डवत् प्रणतं शिष्यं सर्वाचारा।श्च शिक्षयेत् ।
स्नानसन्ध्यासदाचारं नित्यं काम्यं तथैव च ॥ ४-५१२ ॥

मन्त्रसिद्धिप्रकारा।श्च शिष्यायाभिवदेद्गुरुः ।

दीक्षादिवसे उपवासो निषिद्धस्तदुक्तम् (योगिनीतन्त्रे)

मन्त्रं दत्वा गुरुश्चैव उपवासं य आचरेत् ॥ ४-५१३ ॥

महान्धकारे नरके कृमिर्भवति नान्यथा ।
दीक्षां दत्वा यदा मन्त्री चोपवासं समाचरेत् ॥ ४-५१४ ॥

तस्य देवः सदा रुष्टः शापं दत्वा पुरं व्रजेत् ।

(बृहत्सिद्धान्तसारे)

हुतशेषं ततः प्राश्य कुक्कुटाण्डप्रमाणकम् ॥ ४-५१५ ॥

चतुर्विधं च नैवेद्यं देवतायै यदर्पितम् ।
तद्भक्तेभ्यः प्रदत्वा तद्भुञ्जीयातां यथारुचि ॥ ४-५१६ ॥

गुरुशिष्याविति शेषः ।
(मेरुतन्त्रे)

शैवस्तु शैवनिर्माल्यप्रसादस्याधिकारवान् ।
अन्यो निरयमायाति न दोषः पञ्चसङ्गमे ॥ ४-५१७ ॥

स्वयम्भूतीर्थलिङं वा प्रसादं वापि भक्तितः ।
अशैवा वाथ शैवा वा मुच्यन्ते पापराशितः ॥ ४-५१८ ॥

(सिद्धान्तसारे)

दिनत्रयं गुरुकुले स्थित्वा तुर्येऽह्नि देवताम् ।
अर्चयित्वा गृहं गच्छेद्गुर्वाज्ञां शिरसा वहन् ॥ ४-५१९ ॥

अथ वीरदीक्षायां विशेषः । तत्र भूतशुद्धिमातृकान्यास-षोढान्यासादिकं सर्वं गुरुः स्वशरीरे शक्तिशरीरे च विधाय कलशस्थापनं श्रीपात्रादिस्थापनं च कृत्वा (प्। ३१७) दूतीयागक्रमेण कुण्डगोलोत्थद्रव्यमुत्पाद्य संस्कृत्य मत्स्यमांसादेरपि संस्कारं विधाय वीरपूजाक्रमेण देवतां सम्पूज्य शिष्याय मन्त्रदानसमये ।  

शिष्यहस्ते महेशानि पात्रं दत्वा कुलेश्वरि- इति ।

(वीरचूडामण्यु-) क्तवीरपात्रम् ।

इदं पवित्रममृतं पीयतां भवभेषजम् ॥ ४-५२० ॥

पशुपाशसमुच्छेदकारणं भैरवोदितम् ।

इति (कुर्लार्णव-) क्रमेण शिष्यहस्ते दद्यात् ।
शिष्योऽप्यनेनैव मन्त्रेण पीयतामित्यत्र पिबामीति पठित्वा-

धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा स्रुचा ॥ ४-५२१ ॥

सुषुम्णा वर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।

इत्यादिमन्त्रेण पिबेत् । ततो गुरुर्मन्त्रं दद्यात् ।
तत्र (यामले)

ऋष्यादिसहितामेनां लिखित्वा भूमिमध्यगाम् ॥ ४-५२२ ॥

पुष्पादिना समभ्यर्च्य शिष्यायाथ प्रदर्शयेत् ।
यदि शिष्ये महाप्रीतिस्तदा कर्णे वदेद्गुरुः ॥ ४-५२३ ॥

ततोऽप्यतितरां शिष्यो गुरोश्चेत् प्रीतिभाजनम् ।
तदा गण्डूषपूर्वं हि दद्यादेनां गुरूत्तमः ॥ ४-५२४ ॥

निर्विकल्पोऽपि शिष्यस्तां गृह्नीयाद्धृष्टमानसः ।
तदभावे न सिद्धिः स्याद्देवताशाप?माप्नुयात् ॥ ४-५२५ ॥

(दक्षिणामूर्तिसंहितायाम्)

कलशस्थैः पल्लवैस्तु त्रिवारं प्रोच्छयेच्छुभम् ।
भवेद्यदाभिषिक्तस्तु तदासौ देशिकाग्रणीः ॥ ४-५२६ ॥

गण्डूषतत्त्वसंयुक्तस्तदार्होऽयं शिवार्चने ।
अन्यथा नैव सिद्धिः स्यात् सविकल्पस्य पार्वति ॥ ४-५२७ ॥

गण्डूषदाने शिष्यस्य विकल्पो यदि जायते ।
न सिद्धिस्तस्य कुत्रापि श्रीविद्यापि पराङ्मुखी ॥ ४-५२८ ॥

प्। ३१८) शेषं पशुदीक्षासमानम् ।
द्वितीयविद्यादीक्षायां विशेष उक्तो (नीलतन्त्रे)

अष्टोत्तरसहस्रहोमं विल्वपत्रेण कारयेत् ।
अथ वाष्टशतं कुर्यादष्टाविंशतिमेव वा ॥ ४-५२९ ॥

पायसं कृशरं दद्यान्मोदकं खण्डशर्कराम् ।
वलिं दत्वा छागलं वै गोधामांसमनुत्तमम् ॥ ४-५३० ॥

रम्भापुष्पं सारमत्स्यं जुहुयाच्च प्रयत्नतः ।
यवक्षीरं ततो हुत्वा शाल्यन्नं मधुना सह ॥ ४-५३१ ॥

गोभूहिरण्यवस्त्रादैस्तोषयेद्गुरुमात्मनः- इति ।

(मेरुतन्त्रे)

एवं क्रियावती दीक्षा सम्पद्दात्री निरूपिता ॥ ४-५३२ ॥

राज्ञां धनाढ्यवैश्यानां विप्राणां व्यवसायिनाम् ।
अयं दीक्षाक्रसः प्रोक्तो भोगयुक्सिद्धिमिच्छताम् ॥ ४-५३३ ॥

इति क्रियावती दीक्षा परिपूर्णा ।

बिभ्रत्यद्भुतभूतिभूतपवचोवेचित्र्यचित्रामृतस्रोतः-
शालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
तुर्यं श्रीनरदेवनिर्मितपुरश्चर्यार्णवे प्रस्फुरत्-
सद्युक्तिस्फुटमौक्ति**?कररुचोत्तुङ्गस्तरङ्गो गतः ॥ ४-५३४ ॥

इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे क्रियावतीदीक्षाविधिर्नाम चतुर्थस्तरङ्गः ॥ ४ ॥