अथ तरङ्गद्वये क्रियावतीदीक्षा निरूप्यते ।
(शारदायाम्)
चतुर्विधा सा सन्दिष्टा क्रियावत्यादिभेदतः ।
क्रियावती१वर्णमयी२कलात्मा३वेधमय्यपि४ ॥ ३-१ ॥
ताः क्रमेणैव कथ्यन्ते तन्त्रेऽस्मिन् सम्पदावहाः ।
(मेरुतन्त्रे)
शृणु देवि प्रवक्ष्यामि सर्वतन्त्रेषु गोपितम् ॥ ३-२ ॥
दीक्षाविधिं पञ्चविधं तद्राज्ञामुत्तमोत्तमम् ।
उत्तमं महदाढ्यानां सामान्यानां तु मध्यमम् ॥ ३-३ ॥
ब्राह्मणानामल्पमुक्तं यतीनामपि चाल्पकम् ।
तस्मादादौ प्रवक्ष्यामि तुल्यं यच्चोत्तमोत्तमम् ॥ ३-४ ॥
यस्मिन् ज्ञाते चोत्तमादिभेदानां विषयो भवेत् ।
(प्रकटयोगिनी)
आदौ तु भक्तिमान् शिष्यो निजदेहस्य शुद्धये ॥ ३-५ ॥
तीर्थे स्नात्वा सहस्रं तु गायत्रीं प्रजपन्नयेत् ।
एकभक्तोपवासादिव्रतेन दिवसद्वयम् ॥ ३-६ ॥
अधिवासस्तृतीयेऽह्नि दीक्षां तुर्येऽह्नि चाचरेत् ।
असंस्कृतेन देहेन सद्यो दीक्षां न चाचरेत् ॥ ३-७ ॥
पिङ्गलामतमन्त्रतन्त्रप्रकाशयोस्तु ।
सद्योऽधिवासमथवा प्रकुर्वीत यथाविधि ।
दिनद्वयेनैव कुर्याद्दीक्षाकर्मविचक्षणः ॥ ३-८ ॥
सद्योऽधिवासनं वा स्यादेकस्मिन् दिवसे यदि- इत्युक्तम् ।
(मेरुतन्त्रे)
दीक्षादीनात् पूर्वदिने प्रातःकृत्यं निवर्त्त्य च ॥ ३-९ ॥
समलङ्कृत्य देहं स्वं स्वगेहे पूजनं चरेत् ।
प्। १४८) गणेशस्य विधानेन पुण्याहं वाचयेत् ततः ॥ ३-१० ॥
नान्दीमुखा।स्तर्पयित्वा पञ्चवाद्यपुरस्सरम् ।
यथोक्तकृतसम्भारो गच्छेद्गुरुगृहं प्रति ॥ ३-११ ॥
पञ्चविधवाद्यमुक्तम् (सङ्गीतिशास्त्रे)
ततं शुषिरमानद्धमयःसारो घनस्तथा ।
वाद्यमेतत् पञ्चविधं देवदेवस्य ताण्डवे ॥ ३-१२ ॥
ततं वीणादि । शुषिरं वंशीशङ्खादि । आनद्धं डिण्डिममृदङ्गादि । अयस्सारो घण्टादि ।
(मेरुतन्त्रे)
आचार्य ऋत्विग्वरणसम्भारो दशधा मतः ।
श्रीपर्णीवृक्षपीठानि हस्तमानानि मानतः ॥ ३-१३ ॥
अष्टाङ्गुलसमुच्छ्रायसहितानि समानि च ।
सप्तविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषितः ॥ ३-१४ ॥
विष्टरः सर्वयज्ञेषु लक्षणं परिकीर्तितम् ।
सुखोष्णोदकसम्भूताः पाद्यार्थे ताम्रगण्डकाः ॥ ३-१५ ॥
शङ्खा अर्घप्रदानाय गन्धपुष्पजलान्विताः ।
सुताम्रस्य कमण्डल्व आचम्योदकपूरिताः ॥ ३-१६ ॥
ते युता मधुपर्कार्थं कांस्या दध्यादिपूरिताः ।
महदर्घ्याणि वस्त्राणि मुद्रिकाद्यं सुभूषणम् ॥ ३-१७ ॥
मयूरपत्रच्छत्राणि सोष्णीषाणि समाहरेत् ।
पादुकाश्चाहरेत् तत्र चर्माभरणभूषिताः ॥ ३-१८ ॥
कृत्वैतत् फलमाप्नोति महायज्ञार्हणोपमम् ।
अन्येभ्यो मधुपर्कस्य विप्रभ्यः पूजनं स्मृतम् ॥ ३-१९ ॥
भक्त्या तद्द्विगुणं दद्यादाचार्याय सुभक्तिमान् ।
अन्यैर्द्विजैः समं यत्र दैशिकस्य प्रपूजनम् ॥ ३-२० ॥
प्। १४९) तस्मिन् यज्ञे फलं स्वल्पमनावृष्ट्या यथा क्षितौ ।
एवं गुरुगृहं गत्वा प्रणम्य गुरुपादुकाम् ॥ ३-२१ ॥
दत्वा वरणसामग्रीं सङ्कल्प्य वृणुयाद्गुरुम् ।
उच्चार्यामुकमन्त्रस्य ग्रहणाय द्विजोत्तम ॥ ३-२२ ॥
गुरुत्वेनेति सम्भाष्य त्वामहं च ततो वृणे ।
इत्युक्त्वा वृणुयाच्छिष्यो वृतोऽस्मीति ततो गुरुः ॥ ३-२३ ॥
यथोचितं गुरो कर्म कुरुष्वेति वदेच्छिशुः ।
करवाणीति चाचार्यो गुरोरेवाज्ञया ततः ॥ ३-२४ ॥
ब्राह्मणान् वृणुयादष्टौ वेदवेदाङ्गपारगान् ।
तद्देवतोपासका।श्च ऋत्विक्त्वेनाथवा यदा ॥ ३-२५ ॥
चत्वारि कुण्डानि तदा चत्वार ऋत्विजः स्मृताः ।
ततः शिष्येण सहितो यायाद्यागगृहं गुरुः ॥ ३-२६ ॥
उपविश्य च तद्द्वारे परीक्षामारभेत् ततः ।
शिष्याय मूलसञ्जप्तं प्रदद्याद्दन्तधावनम् ॥ ३-२७ ॥
दन्तान् विशोध्य परतः स्थण्डिले हस्तमात्रके ।
चतुरस्रे पातयेत् तत् परीक्षेत गुरुस्ततः ॥ ३-२८ ॥
तदग्रं यद्दिशासंस्थं तत्रेदं पूर्वतः फलम् ।
भूतिर्हृदयसन्तापो बन्धुनाशस्तथा मृतिः ॥ ३-२९ ॥
शोकश्च व्यग्रता सौख्यं ज्ञानं लाभः क्रमात् फलम् ।
अमङ्गलस्थानपाते प्रायश्चित्तं समाचरेत् ॥ ३-३० ॥
अष्टाधिकसहस्रं वा शतं विंशतिरेव वा ।
अस्त्रसम्पुटितेनैषां नाम्ना स्वाहान्वितेन च ॥ ३-३१ ॥
दोषान् जहि जहीत्येवं पदं नामावसानकम् ।
केवलाज्येन जुहुयाद्दुःस्वप्नेऽप्येवमेव हि ॥ ३-३२ ॥
प्। १५०) दन्तकाष्ठं पुनर्देयं पुनर्दुष्टे चतुर्गुणम् ।
तृतीयमपि दुष्टं चेन्न ग्राह्या सा तु देवता ॥ ३-३३ ॥
वाममार्गे सकृदपि गुरुशिष्यौ विनाशयेत् ।
(सिद्धान्तसङ्ग्रहे) गुरुमुपक्रम्य
यज्ञवाटं परिक्रम्य प्रक्ष्याल्य चरणौ करौ ॥ ३-३४ ॥
आचान्तो द्वारदेशस्थो गुरुर्देवं च दिक्पतिम् ।
नत्वा पापापनोदार्थं मन्त्रद्वयमुदीरयेत् ॥ ३-३५ ॥
हे देव प्राकृतं चित्तं पापाक्रान्तमिदं मम ।
तन्निःसारय चित्तान्मे पापं फट्फट् च ते नमः ॥ ३-३६ ॥
सूर्यः सोमो यमः कालो महाभूतानि पञ्च च ।
एते शुभाशुभस्येह कर्मणो नव साक्षिणः ॥ ३-३७ ॥
हु।फट् इति ब्रुवन् क्रोधदृष्ट्या पश्येच्च पार्श्वयोः ।
एवं कृते महापापं यत् तद्दूरेऽवतिष्ठते ॥ ३-३८ ॥
तत्क्षणादेव नश्यन्ति पापान्यन्यानि मन्त्रिणः ।
पूजने त्यक्तपापस्य काममिष्टं क्षणाद्भवेत् ॥ ३-३९ ॥
तत आचमनं कृत्वा सामान्यार्घं प्रकल्पयेत् ।
सामान्यार्घस्थापनविधिः (गौतमीये)
त्रिकोणवृत्तभूविम्बं मण्डलं रचयते ततः ॥ ३-४० ॥
आधारशक्तिं सम्पूज्य तत्राधारं विनिःक्षिपेत् ।
अस्त्रेण पात्रं संशोध्य हृन्मन्त्रेण प्रपूरयेत् ॥ ३-४१ ॥
निःक्षिपेत् तीर्थमावाह्य गन्धादीन् प्रणवेन तु ।
दर्शयेद्धेनुमुद्रां वै सामान्यार्घमिदं स्मृतम् ॥ ३-४२ ॥
मन्त्रयेत् प्रणवेनवै — — — — — — — — इति च ।
प्। १५१) (मेरुतन्त्रे)
अर्घोदकेन सम्प्रोक्ष्य द्वारपूजां समाचरेत् ॥ ३-४३ ॥
द्वारपूजाविदिस्तत्रैव ।
द्वारमर्घाम्बुना प्रोक्ष्य तन्मध्ये विघ्नपं यजेत् ।
तद्दक्षिणे महालक्ष्मीं वामे चापि सरस्वतीम् ॥ ३-४४ ॥
द्वारे श्रियं च तन्मध्ये शाखयोर्दक्षिणान्ययोः ।
ऊर्ध्वभागात् तलं यावत् पञ्चपञ्चविभागके ॥ ३-४५ ॥
नाम्नश्चाद्यक्षरं विन्दुयुक्तं नाम च ङेऽन्तकम् ।
समुच्चार्य हृदन्तं च देवानेतान् प्रपूजयेत् ॥ ३-४६ ॥
गणपतिं क्षेत्रपालं ततश्च वसुधारया ।
युक्तं शङ्खनिधिं दक्षे वामे वसुमतीयुतम् ॥ ३-४७ ॥
पूजयित्वा पद्मनिधिं तदधो दक्षवामतः ।
मायाशक्तिं च चिच्छक्तिं गङ्गां च यमुनां तथा ॥ ३-४८ ॥
धातारं च विधातारं दं देहल्यै नमस्त्वधः ।
आदौ तु पश्चिमद्वारे पूजा चेयं प्रकाशिता ॥ ३-४९ ॥
नदी चापि महाकालो द्वारयोर्दक्षवामयोः ।
पूज्यावेवमुदग्द्वारं प्राग्याम्यं च प्रपूजयेत् ॥ ३-५० ॥
द्वारपालौ क्रमात् तेषु गणेशवृषभावपि ।
भृङ्गीरीटस्तथा स्कन्द उमाचण्डेश्वरौ तथा ॥ ३-५१ ॥
विष्णोर्नन्दः सुनन्दश्च चण्डश्चापि प्रचण्डकः ।
बलश्च प्रबलश्चैव भद्रश्चापि सुभद्रकः ॥ ३-५२ ॥
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ।
लम्बोदरश्च विकटो गणेशद्वारपालकाः ॥ ३-५३ ॥
विघ्नराजो धूम्रवर्णः क्रमात् पश्चिमद्वारतः ।
प्। १५२) देव्याः सूर्यस्य योगिन्योऽष्टावेता द्वारपालकाः ॥ ३-५४ ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा च श्रिया सह ॥ ३-५५ ॥
तथा ।
ततश्च देशिको विघ्नान् दिव्यानालोकनेन च ॥ ३-५६ ॥
अन्तरिक्षगतानस्त्रोदकैरुत्सादयेत् क्रमात् ।
पार्थिवान् पार्ष्णिघातैश्च त्रिभिरुत्सार्य यत्नतः ॥ ३-५७ ॥
अङ्गं सङ्कोच्य किं चित् तु शाखां वामगतां स्पृशन् ।
उत्सारितानां विघ्नानां ददद्वर्म तु दक्षिणे ॥ ३-५८ ॥
पादेन दक्षिणेनाथ प्रविशेद्यागमण्डपम् ।
वाममार्गेऽथ वा शाक्ते वामपादपुरस्सरम् ॥ ३-५९ ॥
ब्रह्माणं वास्त्वधीशं च नैर्-ॠत्यां दिशि पूजयेत् ।
(श्यामारहस्य) धृतवचनानि ।
पञ्चशुद्धिं विना पूजा अभिचाराय कल्पते ॥ ३-६० ॥
आत्मशुद्धिः स्थानशुद्धिर्मन्त्रस्य शोधनं तथा ।
द्रव्यशुद्धिर्देवशुद्धिः शुद्धिः पञ्चविधेरिता ॥ ३-६१ ॥
सस्नानभूतसंशुद्धिप्राणायामादिभिः प्रिये ।
षडङ्गाद्यखिलन्यासैरात्मशुद्धिरितीरिता ॥ ३-६२ ॥
(मेरुतन्त्रे)
पञ्चगव्यार्घतोयाभ्यां प्रोक्षयेन्मण्डपान्तरम् ।
सम्मार्जनोपलेपाद्यैर्दर्पणोदरवत्कृतम् ॥ ३-६३ ॥
विमलैर्धूपदीपादिपुष्पदामादिशोभितम् ।
पञ्चवर्णमयं चित्रं स्थानशुद्धिरियं मता ॥ ३-६४ ॥
प्। १५३) गृहीत्वा मातृकावर्णान् मूलमन्त्राक्षराणि च ।
क्रमात् क्रमाद्द्विरावृत्तिर्मन्त्रशुद्धिरियं मता ॥ ३-६५ ॥
पूजाद्रव्यादि सम्प्रोक्ष्य मूलास्त्राभ्यां विधानतः ।
दर्शयेद्धेनुमुद्रां च द्रव्यशुद्धिरियं मता ॥ ३-६६ ॥
पीठे देवीं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ।
मूलमन्त्रेण दीप्तात्मा अभिभाव्योदकेन च ॥ ३-६७ ॥
त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता ।
पञ्चशुद्धिं विधायेत्थं पश्चाद्यजनमाचरेत् ॥ ३-६८ ॥
पञ्चशुद्धिविहीनेन यत्कृतं न च तत्कृतम् ।
तत्रैव ।
अर्घ्याम्बुना च गव्येन यागस्थाने सुषिञ्चिते ॥ ३-६९ ॥
गव्येनेति पञ्चगव्येन ।
तदुक्तम् (गौतमीये)
पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते ।
घृतं च पलमात्रं स्याद्गोमयं तोलकद्वयम् ॥ ३-७० ॥
दधि प्रसृतिमात्रं स्यात् पञ्चगव्यमिदं स्मृतम् ।
अथ वा पञ्चगव्यानां समानो भाग इष्यते ॥ ३-७१ ॥
मूलमन्त्रेण सम्मन्त्र्य कुशाग्रेण च शोधयेत् ।
तेन सर्वशुद्धिः स्यात् सर्वपापनिकृन्तनम् ॥ ३-७२ ॥
(स्मृतिशास्त्रे)
गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राब्णेति वै दधि ॥ ३-७३ ॥
तेजोऽसीति घृतं चैव देवस्य त्वा कुशोदकम् ।
मन्त्राद्यपरिज्ञाने तु प्रणवेनैव शोधयेत् ॥ ३-७४ ॥
प्। १५४) (मेरुतन्त्रे)
वीक्षणाद्यैस्ततः शुद्धिं चतुर्द्वारां समाचरेत् ।
संवीक्ष्य मूलमनुना ह्यस्त्रेण प्रोक्षयेत् ततः ॥ ३-७५ ॥
कुर्यात् ताडनमस्त्रेण कवचेनावसेचयेत् ।
श्रीखण्डागुरुचन्द्रैश्च धूपितेऽस्त्रेण सप्तधा ॥ ३-७६ ॥
जप्ता।श्चन्दनसिद्धार्थदूर्वाभस्माक्षतान् कुशान् ।
सलाजान् विकिरेन्मन्त्री प्रत्यूहघ्नान् हि मण्डपे ॥ ३-७७ ॥
तन्त्रान्तरे ।
आदौ विघ्नं समुत्सार्य पश्चादासनकल्पनम् ।
अथ वा चासने स्थित्वा विघ्नानुत्सारयेत् सुधीः ॥ ३-७८ ॥
(शारदायाम्)
लाजाचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षताः ।
विकिरा इति निर्दिष्टाः सर्वविघ्नौघनाशकाः ॥ ३-७९ ॥
विघ्नोत्सारणमन्त्रो (मेरुतन्त्रे)
नाराचमुद्रया सम्यगस्त्रमन्त्रेण देशिकः ।
अपक्रामन्तु भूतानि पिशाचाः प्रेतगुह्यकाः ॥ ३-८० ॥
ये चात्र निवसन्त्यन्ये देवता भुवि संस्थिताः ।
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ॥ ३-८१ ॥
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।
श्लोकयोरन्ततश्चास्त्रं पठन् नाराचमुद्रया ॥ ३-८२ ॥
क्षिप्त्वा तान्मण्डपस्य ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ इति ।
तत्रैव ।
मार्जयेदस्त्रमन्त्रेण तान् मन्त्री दर्भमुष्टिना ॥ ३-८३ ॥
आसनाय तु वर्द्धन्या ईशाने स्थापयेच्च ताम् ।
पुण्याहं वाचयित्वा च विप्रान् सन्तोष्य यत्नतः ॥ ३-८४ ॥
प्। १५५) वेदिकायां लिखेत् पश्चात् सर्वतोभद्रमण्डलम् ।
सर्वतोभद्रमण्डलमुक्तम् (शारदायाम्)
चतुरस्रे चतुष्कोष्ठे कर्णसूत्रसमन्विते ॥ ३-८५ ॥
चतुर्ष्वपि च कोष्ठेषु कोणसूत्रचतुष्टयम् ।
मध्ये मध्ये यथा मत्स्या भवेयुः पातयेत् तथा ॥ ३-८६ ॥
पूर्वापरायते द्वे द्वे मन्त्री याम्योत्तरायते ।
पातयेत् तेषु मत्स्येषु समं सूत्रचतुष्टयम् ॥ ३-८७ ॥
पूर्ववत्कोणकोष्ठेषु कर्णसूत्राणि पातयेत् ।
तदुद्भूतेषु मत्स्येषु दद्यात् सूत्रचतुष्टयम् ॥ ३-८८ ॥
ततः कोष्ठेषु मत्स्याः स्युस्तेषु सूत्राणि पातयेत् ।
षट्त्रिंशता पदैर्मध्ये लिखेत् पद्मं सुलक्षणम् ॥ ३-८९ ॥
बहिः पङ्क्त्या भवेत् पीठं पङ्क्तियुग्मेन वीथिकाः ।
द्वारशोभोपशोभास्ताः शिष्टाभ्यां परिकल्पयेत् ॥ ३-९० ॥
शास्त्रोक्तविधिना मन्त्री ततः पद्मं समालिखेत् ।
पद्मक्षेत्रस्य सन्त्यज्य द्वादशांशं बहिः सुधीः ॥ ३-९१ ॥
तन्मध्यं विभजेद्वृत्तैस्त्रिभिः समविभागतः ।
आद्यं स्यात् कर्णिकास्थानं केशराणां द्वितीयकम् ॥ ३-९२ ॥
तृतीयं तत्र पत्राणामुक्तांशेन दलाग्रकम् ।
बाह्यवृत्तान्तरालस्य मानं यद्विधिना सुधीः ॥ ३-९३ ॥
निधाय केशराग्रेषु परितोऽर्धनिशाकरान् ।
लिखित्वा सन्धिसंस्थानि तत्र सूत्राणि पातयेत् ॥ ३-९४ ॥
दलाग्राणां च यन्मानं तन्मानं वृत्तमालिखेत् ।
तदन्तराले तन्मध्ये सूत्रस्योभयतः सुधीः ॥ ३-९५ ॥
अलिखेद्बाह्यहस्तेन दलाग्रेण समन्ततः ।
प्। १५६) दलमूलेषु युगशः केशराणि प्रकल्पयेत् ॥ ३-९६ ॥
एतत् साधारणं प्रोक्तं पङ्कजं तन्त्रवेदिभिः ।
पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् ॥ ३-९७ ॥
अवशिष्टैः पदैर्विद्वान् पीठगात्राणि कल्पयेत् ।
पदानि वीथिसंस्थानि मार्जयेत् पङ्क्त्यभेदतः ॥ ३-९८ ॥
दिक्षु द्वाराणि रचयेद्द्विचतुष्कोष्ठकैस्ततः ।
पदैस्त्रिभिरथैकेन शोभाः स्युर्द्वारपार्श्वयोः ॥ ३-९९ ॥
उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनन्तरम् ।
अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयम् ॥ ३-१०० ॥
रञ्जयेत् पञ्चभिर्वर्णैर्मण्डलं तन्मनोहरम् ।
पीतं हरिद्राचूर्णं स्यात् सितं तण्डुलसम्भवम् ॥ ३-१०१ ॥
कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् ।
विल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् ॥ ३-१०२ ॥
अङ्गुलोत्सेधविस्ताराः सीमारेखाः सिताः शुभाः ।
कर्णिका पीतवर्णेन केशराण्यरुणेन च ॥ ३-१०३ ॥
शुभ्रवर्णेन पत्राणि तत्सन्धीन् श्यामलेन च ।
रजसा रञ्जयेन्यन्त्री यद्वा पीतैव कर्णिका ॥ ३-१०४ ॥
केशराः पीतरक्ताः स्युररुणानि दलान्यपि ।
सन्धयः कृष्णवर्णाः स्युः पीतेनाप्यसितेन वा ॥ ३-१०५ ॥
रञ्जयेत् पीठगर्भाणि पादाः स्युररुणप्रभाः ।
गात्राणि तस्य शुक्लानि वीथीषु चतसृष्वपि ॥ ३-१०६ ॥
आलिखेत् कल्पलतिका दलपुष्पफलान्विताः ।
प्। १५७) वर्णैर्नानाविधैश्चित्राः शोभा रक्ताः समीरिताः ॥ ३-१०७ ॥
उपशोभाः पीतवर्णाः कोणान्यसितभानि च ।
तिस्रो रेखा बहिः कुर्यात् सितरक्तासिताः क्रमात् ॥ ३-१०८ ॥
मण्डलं सर्वतोभद्रमेतत् साधारणं स्मृतम् ।
चतुरस्रां भुवं भित्वा दिग्भ्यो द्वादशधा सुधीः ॥ ३-१०९ ॥
पातयेत् तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ।
चतुश्चत्वारिंशदाढ्यं पश्चात् षट्त्रिंशताम्बुजम् ॥ ३-११० ॥
कोष्ठैः प्रकल्पयेत् पीठं पङ्क्त्या नैवात्र वीथिका ।
द्वारशोभे यथापूर्वमुपशोभा न दृश्यते ॥ ३-१११ ॥
अवशिष्टैः पदैः कुर्यात् षड्भिः कोणानि तन्त्रवित् ।
विदध्यात् पूर्ववच्छेषमेवं वा मण्डलं स्मृतम् ॥ ३-११२ ॥
चतुरस्रे चतुःषष्टिपदान्यारचयेत् सुधीः ।
पद्मैश्चतुर्भिः पद्मं स्यान्मध्ये तत्परितः पुनः ॥ ३-११३ ॥
विथीश्चतस्रः कुर्वीत मण्डलान्तावसानिकाः ।
दिग्गतेषु चतुष्केषु पङ्कजानि समालिखेत् ॥ ३-११४ ॥
विदिग्गतचतुष्काणि भित्त्वा षोषशधा सुधीः ।
मार्जयेत् स्वस्तिकाकारं श्वेतपीतारुणासितैः ॥ ३-११५ ॥
रजोभिः पूरयेत् तानि स्वस्तिकानि शिवादितः ।
प्राक्प्रोक्तेनैव मार्गेण शेषमन्यत् समाचरेत् ॥ ३-११६ ॥
नवनाभमिदं प्रोक्तं मण्डलं सर्वसिद्धिदम् ।
पञ्चाब्जं मण्डलं प्रोक्तमेतत् स्वस्तिकवर्जितम् ॥ ३-११७ ॥
दीक्षायां देवपूजार्थं मण्डलानां चतुष्टयम् ।
सर्वतन्त्रानुसारेण प्रोक्तं सर्वसमृद्धिदम् ॥ ३-११८ ॥
प्। १५८) (यामले)
आरक्तवर्णं तद्वर्णं शक्तिद्वादशसंयुतम् ।
सम्पूज्य दीपनाथं च भैरवं प्रार्थयेदिति ॥ ३-११९ ॥
अतितीक्ष्ण महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञां दातुर्महसि ॥ ३-१२० ॥
कान्तं चास्त्रं समुच्चार्य पूजावेदीं ततो विशेत् ।
(वैष्णवीकल्पे)
संस्कृत्य चासनस्थानमास्तीर्य विहितासनम् ॥ ३-१२१ ॥
जलमानीय सव्येन संस्कुर्यात् तद्यथाविधि ।
जलसंस्कारस्तत्रैवोक्तम् ।
वायुबीजेन संशोध्य वह्निबीजेन निर्दहेत् ॥ ३-१२२ ॥
प्लावयेज्जलबीजेन गायत्र्या प्रोक्षयेत् ततः ।
ततो धेन्वामृतीकृत्य प्रणवेनाभिमन्त्रयेत् ॥ ३-१२३ ॥
तथा ।
आत्मविद्याशिवैस्तत्त्वैः प्रणवादिशिरोऽन्तकैः ।
तज्जलेन त्रिराचम्य आसनं शोधयेत् ततः ॥ ३-१२४ ॥
शिरोऽग्निजाया । शोधनं चात्रास्त्रमन्त्रेण जलमेकरूपमिति साम्प्रदायिकाः ।
तथा ।
मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द ईरितम् ।
कूर्मोऽत्र देवता प्रोक्ता आसनोपनिवेशने ॥ ३-१२५ ॥
विनियोगश्च कथितः पठेद्धृत्वासनं ततः ।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ ३-१२६ ॥
त्वं च धारय मां नित्यं पवित्रं चासनं कुरु ।
मायाबीजं समुच्चार्य आधारशक्तये ततः ॥ ३-१२७ ॥
कमलासनमाभाष्य ङेनमोऽन्तं प्रपूजयेत् ।
आत्ममन्त्रेणोपविशेदासने देशिकोत्तमः ॥ ३-१२८ ॥
प्। १५९) दुःशिल्पिरचितत्वादिनानादोषोपशान्तये ।
आत्ममन्त्रस्तु ।
स्वनामाद्यक्षरं पुंसः सोमसामिसमन्वितम् ॥ ३-१२९ ॥
आत्ममन्त्रं विजानीयात् ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥।॥ ३-१२९एफ़् ॥
इति सिद्धान्तसङ्ग्रहे प्रोक्तः । सोमसामीति चन्द्रार्धमित्यर्थः ।
(मेरुतन्त्रे)
वेदिकायामासने स प्राङ्मुखः संविशेदथ ।
बद्धपद्मासनो मौनी ऋजुकायो जितेन्द्रियः ॥ ३-१३० ॥
देशिकेन्द्रस्तु संस्थाप्य पूजोपकरणानि च ।
दक्षिणे वामभागे तु स्थापयेत् कलशं शुभम् ॥ ३-१३१ ॥
सुगन्धिजलसम्पूर्णं हस्तप्रक्षालनाय च ।
पश्चात् पात्रं निधायाथ दीपान् प्रज्वालयेच्छुभान् ॥ ३-१३२ ॥
व्यञ्जनं मुकुरं छत्रं चामरं दिक्षु मन्त्रवित् ।
स्थापयेदिति शेषः । प्राङ्मुख इति बद्धपद्मासन इति चोपलक्षणम् ।
उदङ्मुखः प्राङ्मुखो वा स्वस्तिकासनमास्थितः ॥ ३-१३३ ॥
इति भैरवोक्तेः ।
(निबन्धे)
ततः सङ्कल्प्य विधिवत् सूर्यायार्घं निवेदयेत् ।
सूर्यार्घदानमन्त्र उक्तो (मेरुतन्त्रे)
ह्री।ह्री।सः सग्रहराशिनक्षत्रपदमुच्चरेत् ॥ ३-१३४ ॥
ततश्च योगकरणपरिवृत्तासनेति च ।
संस्थितश्रीसूर्यायैष तेऽर्घः स्वाहा मनुः स्मृतः ॥ ३-१३५ ॥
चतुस्त्रिंशदक्षरोऽयं सूर्यस्यार्घनिवेदने ।
तत्रैव पूजासम्भारानुपक्रम्य ।
यथायथं तु संस्थाप्य संस्कुर्यात् तानि चात्मवान् ॥ ३-१३६ ॥
पुष्पनैवेद्यगन्धादीन् ह्रा।हु।फडिति मन्त्रतः ।
प्। १६०) नाराचमुद्रया दृष्ट्या समया च विलोकयेत् ॥ ३-१३७ ॥
दृष्टं वाचात्मनि ज्ञातं सम्यक् पुष्पादिदूषणम् ।
अस्पृश्यस्पर्शनं चापि यदन्यायार्जितं च वा ॥ ३-१३८ ॥
तथा निर्माल्यसंसृष्टं कीटाद्यारोहणं च यत् ।
तत्सर्वं नाशमायाति नैवेद्याद्यवलोकनात् ॥ ३-१३९ ॥
ततो रमिति मन्त्रेण शिखां दीपस्य संस्पृशेत् ।
स तु स्याच्छुभदो दीपो निष्क्रव्यादः सुखप्रदः ॥ ३-१४० ॥
पतङ्गकीटकेशादिदाहात् क्रव्यादिसंहते ।
वसामज्जादिसम्भूतैर्घृताद्यैरुपयोजितम् ॥ ३-१४१ ॥
अज्ञानरूपं तत्सर्वं दोषं स्पर्शाद्विनश्यति ।
क्ष्रौ। बीजमुच्चरन् मन्त्री देवतीर्थेन संस्पृशेत् ॥ ३-१४२ ॥
पानीयं घटमध्यस्थं दृष्ट्वा सम्यक् च साधकः ।
वामेन पाणिना धृत्वा वामपार्श्वस्थितं घटम् ॥ ३-१४३ ॥
पात्राधारेण मन्त्रेण संस्कुर्वन् संस्पृशेज्जलम् ।
स्वसञ्ज्ञाद्यक्षरं विन्दुचन्द्रार्धपरियोजितम् ॥ ३-१४४ ॥
तत्पात्रनाम ङेऽन्तं च हृदन्तः पात्रमन्त्रकः ।
यदज्ञानादमेध्यादिसंसृष्टिरिह सङ्गता ॥ ३-१४५ ॥
यदन्यदूषणं पात्रे तोये वाज्ञानतो भवेत् ।
जलाशयशवस्पर्शाज्जलस्थानाच्च सङ्गतम् ॥ ३-१४६ ॥
इत्यादिदूषणं नश्येत् तत् प्रिये देवपूजने ।
ततः कृताञ्जलिपुटो वामदक्षिणपार्श्वयोः ॥ ३-१४७ ॥
गुरुं गणपतिं नत्वा पुरतः स्वेष्टदेवताम् ।
(यामले)
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ॥ ३-१४८ ॥
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।
इति नत्वा गुरुं मन्त्री करशुद्ध्यादिकं चरेत् ॥ ३-१४९ ॥
करशुद्धिप्रकारस्तु (मेरुतन्त्रे)
सुगन्धिपुष्पाण्यादाय चन्दनाक्तानि मन्त्रवित् ।
ह्सौ। मन्त्रेण करयोरस्त्रमन्त्रेण मर्दयेत् ॥ ३-१५० ॥
तत्पुष्पं वामहस्तेन समादाय च मस्तकम् ।
भ्रामयेत् परितस्तारं जपन्नाघ्राय तत् पुनः ॥ ३-१५१ ॥
हौ। ॐ पूर्वं पठेच्छ्लोकमिमं स च निगद्यते ।
ते सर्वे विलयं यान्तु ये मां हिंसन्ति हिंसकाः ॥ ३-१५२ ॥
मृत्युरोगभयक्लेशाः पतन्तु रिपुमस्तके ।
अस्त्रमन्त्रेण नाराचमुद्रयेशदिशि त्यजेत् ॥ ३-१५३ ॥
करशुद्धौ ततोऽस्त्रेण कुर्यात् तालत्रयं ततः ।
ऊर्ध्वोर्ध्वमस्त्रमन्त्रेण दिग्बन्धमपि देशिकः ॥ ३-१५४ ॥
तेन सञ्जनितं तेजो वह्निप्राकारमुद्रया ।
रक्षेदात्मनि मूलेन प्राणायामत्रयं चरेत् ॥ ३-१५५ ॥
प्राणायामलक्षणमुक्तम् (सारसमुच्चये)
प्राणो वायुः शरीरस्य आयामस्तस्य निग्रहः ।
प्राणायाम इति प्रोक्तो द्विविधः कथ्यते हि सः ॥ ३-१५६ ॥
सगर्भो मन्त्रजापेन निगर्भो मात्रया भवेत् ।
मात्राकारलक्षणं च (अगस्त्यसंहितायाम्)
नलिनीपत्रसंहत्यां सूक्ष्मसूच्यग्रभेदने ॥ ३-१५७ ॥
दले दले च यः कालः स कालो लववाचकः ।
लवैस्त्रुटिस्तु त्रिंशद्भिः कलां तावत्त्रुटिं विधुः ॥ ३-१५८ ॥
काष्ठा तावत्काला ज्ञेया तावत्काष्ठा निमेषकः ।
स्वाङ्गुलिस्फोटतुल्यश्च मात्राष्टादशभिः स्मृता ॥ ३-१५९ ॥
प्। १६२) (मेरुतन्त्रे)
मध्यामूलाद्यावदग्रमङ्गुष्ठेन निपीड्यते ।
मात्रा सा प्रोच्यते सद्भिर्योगेऽभीष्टं प्रयच्छति ॥ ३-१६० ॥
जानुं प्रदक्षिणीकुर्याद्यावत्कालेन हस्तकः ।
तावत्कालमिता मात्रा स्वनिःश्वाससमापि च ॥ ३-१६१ ॥
(अगस्त्यसंहितायामपि)
वामजानुनि हस्तस्य भ्रमणं यावता भवेत् ।
कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपारगैः ॥ ३-१६२ ॥
तत्रैव ।
प्राणायामैर्विना यद्यत् कृतं कर्म निरर्थकम् ।
अतो यत्नेन कर्तव्याः प्राणायामाः शुभार्थिभिः ॥ ३-१६३ ॥
अत्र प्राणायामा इति बहुवचनम् । कपिञ्जलाधिकरणन्यायेन त्रित्वपरम् ।
तथा च ।
प्राणायामत्रयं कुर्यात् ॥॥॥॥॥॥॥॥॥॥॥॥॥। इति ।
(कालीक्रमे)
प्राणायामत्रयं कुर्यान्मूलेन प्रणवेन वा ॥ ३-१६४ ॥
अथ वा मन्त्रबीजेन यथोक्तविधिना सुधीः ।
क्वचित् ।
प्राणायामं ततः कुर्याद् वाग्भवेन समाहितः- इत्युक्तम् ॥ ३-१६५ ॥
प्राणायामेऽङ्गुलिनियमो (ज्ञानार्णवे)
कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ ३-१६६ ॥
(मेरौ)
पूरकः कुम्भकश्चैव रेचकश्चेति स त्रिधा ।
तत्प्रकारमाह (यामले)
दक्षाङ्गुष्ठेन दक्षे च घ्राणं सम्पीड्य मन्त्रवित् ॥ ३-१६७ ॥
ईडया पूरयेद्वायुं मात्राषोडशभिः क्रमात् ।
प्। १६३) अङ्गुष्ठानामिकाभ्यां च धृत्वा नासाद्वयं ततः ॥ ३-१६८ ॥
ततस्तु कुम्भयेद्वायुं पूरकाणां चतुर्गुणैः ।
अनामया तथा वामनासां धृत्वा तु दक्षिणे ॥ ३-१६९ ॥
द्वात्रिंशद्भिस्तु मात्राभिर्वायोश्च रेचनं चरेत् ।
स्वचित्तं मूलचक्रे तु निधायासून् समभ्यसेत् ॥ ३-१७० ॥
(महाकालसंहितायामपि)
मूलमन्त्रस्य जापेन मात्राषोडशकेन हि ।
वामनासापुटेनैव पूरयित्वानिलं बलात् ॥ ३-१७१ ॥
पुनस्तस्य चतुःषष्ट्यावृत्त्या वायुं विकुम्भ्य च ।
पुनर्द्वात्रिंशदावृत्त्या मूलमन्त्रस्य पार्वति ॥ ३-१७२ ॥
नासापुटेन दक्षेण रेचयेत् सकलानिलम् ।
प्रकारेणेदृशेनैकः प्राणायामो हि जायते ॥ ३-१७३ ॥
आवश्यकं तत्त्रयं हि फलाधिक्यं समुच्चये ।
द्वितीयप्राणायाममाह (यामले)
ततो रेचनमार्गेण प्राणायामं प्रपूरयेत् ॥ ३-१७४ ॥
पुनः षोडशमात्राभिः कुम्भकं च समाचरेत् ।
चतुःषष्टितमैर्मन्त्री नासापुटौ विधृत्य च ॥ ३-१७५ ॥
पुनश्च रेचयेद्वायुं द्वात्रिंशन्मात्रया बुधः ।
वामनासापुटेनेति शेषः ।
तृतीयप्राणायामस्तत्रैवोक्तः ।
वामेनैव पिबेद्वायुं मात्राषोडशकैः क्रमात् ॥ ३-१७६ ॥
नासापुटौ निपीड्याथ पूरकस्य चतुर्गुणैः ।
दक्षेण रेचयेद्वायुं द्वात्रिंशन्मात्रया बुधः ॥ ३-१७७ ॥
तन्त्रान्तरे ।
ईडयाकर्षयेद्वायुं मात्राषोडशकैः क्रमात् ।
प्। १६४) नासापुटौ निपीड्याथ पूरकस्य चतुर्गुणैः ॥ ३-१७८ ॥
दक्षेण रेचयेद्वायुं द्वात्रिंशन्मात्रया बुधः ।
तन्त्रान्तरे ।
ईडयाकर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ ३-१७९ ॥
सुषुम्णामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः ।
नाड्या पिङ्गलया चैनं रेचयेद्योगवित्तमः ॥ ३-१८० ॥
भूयोभूयः क्रमात् तस्य व्यत्यासेन समाचरेत् ।
तस्येति पूर्वप्राणायामस्येति । व्यत्यासेन वैपरीत्येन । तदुक्तम् (सनत्कुमारसंहितायाम्)
येनैष रेचयेद्वायुं तेनैव पूरयेत् पुनः- इति ॥ ३-१८१ ॥
(यामले)
प्राणायामं विधायेत्थं भूतशुद्धिं समाचरेत् ।
(शारदायाम्)
शरीराकारभूतानां भूतानां यद्विशोधनम् ॥ ३-१८२ ॥
अद्वयब्रह्मसंयोगाद्भूतशुद्धिरियं मता ।
(यामले)
भूतशुद्धिलिपिन्यासौ विना यस्तु प्रपूजयेत् ॥ ३-१८३ ॥
विपरीतफलं दद्यादभक्त्या पूजनं यथा ।
भूतशुद्धिप्रकारमाह (मेरुतन्त्रे)
पादतो जानुपर्यन्तं चतुरस्रं सवज्रकम् ॥ ३-१८४ ॥
ल। युतं पीतवर्णं च भूस्थानं ब्रह्मदैवतम् ।
अधिष्ठितनिवृत्त्याख्यकलया स्थानमुच्यते ॥ ३-१८५ ॥
उत्पत्तेस्तत् तु जीवानामेवं रूपं विचिन्तयेत् ।
जान्वोरानाभिपर्यन्तमपां स्थानं सितप्रभम् ॥ ३-१८६ ॥
अर्धचन्द्रनिभं शृङ्गद्वयं तत् पद्मलाञ्छितम् ।
षट्कोणं विन्दुभिः षड्भिर्युक्तं व। बीजसंयुतम् ॥ ३-१८७ ॥
प्। १६५) प्रतिष्ठाकलया युक्तं ध्यायेत् तद्विष्णुदैवतम् ।
नाभ्यादिकण्ठपर्यन्तमारक्तं रुद्रदैवतम् ॥ ३-१८८ ॥
र। बीजयुक्तं कलया युतं विद्याख्यया तथा ।
दीप्तिमत्स्त्वस्तिकोपेतं त्रिकोणाकारतां गतम् ॥ ३-१८९ ॥
महाप्रलयसंस्थानं वह्नितत्त्वं विचिन्तयेत् ।
कण्ठाद्भ्रूमध्यपर्यन्तं षट्कोणाकारतां गतम् ॥ ३-१९० ॥
षड्विन्दुलाञ्छितं वृत्तवेष्टितं कृष्णवर्णकम् ।
वायुस्थानं शान्तिकलाधिष्ठितं शिवदैवतम् ॥ ३-१९१ ॥
य। बीजयुक्तं सर्वेषां प्राणरूपं विचिन्तयेत् ।
भ्रूमध्याद्ब्रह्मरन्ध्रान्तमाकाशस्थानमुच्यते ॥ ३-१९२ ॥
वृत्ताकारं धूम्रवर्णं महोच्चध्वजलाञ्छितम् ।
शान्त्यतीताख्यकलयाधिष्ठितं शिवदैवतम् ॥ ३-१९३ ॥
ह। बीजयुक्तं ध्यात्वेत्थं देहे भूतानि विन्यसेत् ।
धर्मकन्दसमुद्भूतं ज्ञाननालसुशोभितम् ॥ ३-१९४ ॥
पद्मं तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् ।
सुषुम्णावर्त्मना जीवं परमात्मनि योजयेत् ॥ ३-१९५ ॥
योगयुक्तेन विधिना सोऽहम्मन्त्रेण साधकः ।
तत्रैव सर्वभूतानि विलीनानि विचिन्तयेत् ॥ ३-१९६ ॥
तन्त्रान्तरे ।
विनिधाय निजाङ्के तु समुत्तानं करद्वयम् ।
मूलाधारस्थया शक्त्या चक्रभेदक्रमेण च ॥ ३-१९७ ॥
हंसेन ब्रह्ममार्गेण जीवं ब्रह्मणि योजयेत् ।
(महाकालसंहितायाम्)
हृत्पुण्डरीकादात्मानं ज्वलद्दीपशिखाकृतिम् ॥ ३-१९८ ॥
प्। १६६) सुषुम्णावर्त्मना ब्रह्मबीजमन्त्रेण मस्तके ।
सहस्रदलमध्यस्थे संयोज्य परमात्मनि ॥ ३-१९९ ॥
(सिद्धान्तसङ्ग्रहे)
ततः समस्ततत्त्वानि तत्रैव प्रविलापयेत् ।
पृथ्वीमप्सु च ता वह्नौ वह्निं वायौ समीरणम् ॥ ३-२०० ॥
प्रविलाप्य तथाकाशे आकाशं प्रकृतौ ततः ।
अपरब्रह्मरूपां तां मायाशक्तिं परात्मनि ॥ ३-२०१ ॥
एवं समस्तदेहादिप्रपञ्चं परमात्मनि ।
प्रविलाप्य परब्रह्मरूपे तिष्ठेत् कियत् क्षणम् ॥ ३-२०२ ॥
(मेरुतन्त्रे)
शरीरे वामकुक्षौ तु चिन्तयेत् पापपूरुषम् ।
वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् ॥ ३-२०३ ॥
ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ।
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ॥ ३-२०४ ॥
तत्संसर्गपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ।
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ॥ ३-२०५ ॥
खड्गचर्मधरं क्रूरमङ्गुष्ठपरिमाणकम् ।
अधोमुखं महाभीमं रूक्षं पापं विचिन्तयेत् ॥ ३-२०६ ॥
(महाकालसंहितायाम्)
वामनासापुटेनाथ पूरयित्वा समीरणम् ।
सविन्दुवायुबीजं च धूम्रवर्णं विभाव्य च ॥ ३-२०७ ॥
तदेवबीजं देवेशि पञ्चाशद्वारमीरयेत् ।
तदुत्पन्नेन वातेन शुष्कं देहं विचिन्त्य च ॥ ३-२०८ ॥
प्। १६७) सहैव रेचयेद्वायुं ततो नासापुटेन च ।
वामेन वायुमुत्तोल्य सहस्रदलमध्यगम् ॥ ३-२०९ ॥
विभाव्य परमात्मानं चन्द्ररूपं वरानने ।
सानुस्वारं वायुबीजं पञ्चाशद्वायुमुच्चरन् ॥ ३-२१० ॥
तस्माच्चन्द्रात् सुधावृष्ट्या देहमाप्लाव्य सुन्दरि ।
भूबीजेन सनादेन शुद्धं संयोज्य विग्रहम् ॥ ३-२११ ॥
लीनीकृतानि यानीह पञ्चभूतानि वै पुरा ।
यथास्थानं स्थापयित्वा ब्रह्मबीजं पुनर्गृणन् ॥ ३-२१२ ॥
अहङ्कारादिभिस्तत्त्वैः सहैव परमात्मनि ।
जीवात्मानं समाकृष्य स्थापयित्वा हृदम्बुजे ॥ ३-२१३ ॥
देवीरूपमथात्मानं चिन्तयेत् क्षणमूर्जितः ।
अत्र वायुबीजादेः पञ्चाशद्वारजपेन पूरकादिकमुक्तम् ।
(यामलादौ तु)
नाभिदेशे च य। कारं धूम्रं वायुं विचिन्तयेत् ॥ ३-२१४ ॥
तेनैव शोधयेल्लिङ्गतनुं षोडशमात्रया ।
कर्मात्मकं चतुःषष्ट्या कुम्भयित्वा समाचरेत् ॥ ३-२१५ ॥
द्वात्रिंशन्मात्रया दक्षे रेचनं तेन वा पुनः ।
इति षोषशादिमात्राभिः पूरकादिकमुक्तमिति सङ्ख्याविकल्पो द्रष्टव्यः ।
(सिद्धान्तसङ्ग्रहे)
पुनरुत्पातयेद्देहं पवित्रं परमात्मनः ॥ ३-२१६ ॥
परब्रह्मात्मिका विद्या प्रकृतिर्मातृका परा ।
अजायत जगन्मातुराकाशं नभसोऽनिलः ॥ ३-२१७ ॥
समीरणादभूद्वह्निर्वह्नेरापस्ततो मही ।
स्वीयमेभ्योऽपि भूतेभ्यस्तेजोरूपं कलेवरम् ॥ ३-२१८ ॥
देवताराधने योग्यमुत्पन्नमिति भावयेत् ।
प्। १६८) भूतशुद्धिरियं प्रोक्ता महापापौघनाशिनी ॥ ३-२१९ ॥
सङ्क्षिप्तप्रकारमाह (उड्डीशे)
अथ वा कुण्डलीं देवीं पञ्चभूतादिना सह ।
परमात्मनि संयोज्य तयोरैक्यं विभाव्य च ॥ ३-२२० ॥
ध्यानयोगेन मनसा सोऽहंसोऽहं विभावयेत् ।
क्वचिच्छक्तिविशेषे तु हंस इति बीजादिकं परशिवे संयोज्य सोऽहमितिमन्त्रेण स्वस्थानमानयेदित्युक्तम् । (मेरौ)
भूतशुद्धिं विधायैवं प्राणस्थापनमाचरेत् ॥ ३-२२१ ॥
(ज्ञानार्णवे)
प्राणप्रतिष्ठया पश्चाज्जीवं देहे नियोजयेत् ।
मुखवृत्तं समुच्चार्य हंसस्तु विपरीततः ॥ ३-२२२ ॥
उद्धरेत् परमेशानि विद्येयं त्र्यक्षरी भवेत् ।
प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्मणि साधयेत् ॥ ३-२२३ ॥
(मेरुतन्त्रे)
प्राणायामत्रयं कृत्वा मातृकान्यासमाचरेत् ।
(फेत्कारिणीतन्त्रे)
मन्त्रा मूकत्वमायान्ति विन्यासेन विना लिपेः ॥ ३-२२४ ॥
सर्वमन्त्रप्रसिद्ध्यर्थं तस्मादादौ लिपिं न्यसेत् ।
तत्रादावन्तर्मातृकान्यासः । (मेरुतन्त्रे)
अथान्तर्मातृकान्यासं वक्ष्ये तं शुद्धिकारकम् ॥ ३-२२५ ॥
यं कृत्वा योगिनां चित्तं पातके न प्रवर्त्तते ।
मूलाधारध्वनिं श्रुत्वा प्रबुद्धा शक्तिकुण्डली ॥ ३-२२६ ॥
ज्वलत्पावकसङ्काशा सूक्ष्मा तेजःस्वरूपिणी ।
मूलाधाराच्छिरःपद्मं स्पृशन्ती विद्युदाकृतिः ॥ ३-२२७ ॥
तया स्पृष्टशिरःपद्मादमृतौघस्वरूपिणः ।
प्। १६९) निर्गतान्मातृकावर्णान् सुषुम्णावर्त्मना तनुम् ॥ ३-२२८ ॥
स्थापयित्वा स्थितानेतानेवं ध्यात्वा प्रविन्यसेत् ।
कण्ठे विशुद्धिचक्राख्यं पद्मं षोडशपत्रकम् ॥ ३-२२९ ॥
उर्ध्वास्यं प्राग्दलात् तत्र संस्थिताः षोडश स्वराः ।
एवं सञ्चिन्त्य तारादिं विन्दुयुक्तं नमोऽन्तकम् ॥ ३-२३० ॥
वदेत् स्वरं च सर्वेषु वर्णेष्वप्येषु पद्धतिः ।
हृदयेनाहतं चक्रं ध्यायेद्द्वादशपत्रकम् ॥ ३-२३१ ॥
पूर्वपत्रान्तर्दलेषु प्राग्वत् कादीन् प्रविन्यसेत् ।
मणिपूरं ततश्चक्रं चिन्तयेन्नाभिमण्डले ॥ ३-२३२ ॥
दशपत्रं तत्र डादिवर्णान् प्राग्वद्विचिन्तयेत् ।
स्वाधिष्ठानं लिङ्गमूले चक्रं षड्दलमुच्यते ॥ ३-२३३ ॥
चिन्तयेद्बालिला।स्तत्र षड्वर्णानपि पूर्ववत् ।
मूलाधाराभिधं चक्रं पद्माकृति चतुर्दलम् ॥ ३-२३४ ॥
व। श। ष। स। तत्र चिन्त्यं पूर्वाशादिदलेषु च ।
आज्ञाख्यचक्रं भूमध्ये द्विदलं कमलाकृति ॥ ३-२३५ ॥
ह। क्ष। ध्यायेदयं कार्यो मनसा केवलेन तु ।
स्वदेहेऽनामया कार्यः पुष्पेण सुरमूर्तिषु ॥ ३-२३६ ॥
अनादित्वान्न ऋष्यादिर्ब्रह्मवद्ध्यानमस्य तु ।
अथ बहिर्मातृकान्यासः । (शारदायाम्)
ऋषिर्ब्रह्मा समुद्दिष्टो गायत्री छन्द ईरितम् ॥ ३-२३७ ॥
सरस्वती समाख्याता देवता देशिकोत्तमैः ।
अक्लीबह्रस्वदीर्घान्तगतैः षड्वर्गकैः क्रमात् ॥ ३-२३८ ॥
षडङ्गानि विधेयानि जातियुक्तानि देशिकैः ।
प्। १७०) (मेरुतन्त्रे)
बहिर्न्यासमथो वक्ष्ये पूर्वोक्तब्रह्मरन्ध्रके ॥ ३-२३९ ॥
वर्णारविन्दे सन्ध्यायेन्मातृकाख्यां सरस्वतीम् ॥ ३-२३९ एफ़् ॥
ध्यानं तत्रैव ।
पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादयुक्कुक्षिवक्षो-
देशां भास्वत्कपर्द्याकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितकरतलां त्रीक्षणां पद्मसंस्था-
मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ ३-२४० ॥
ललाटे मुखवृत्तेऽक्षिश्रवोनासासु गण्डयोः ।
ओष्ठयोर्दन्तपङ्क्त्योश्च मूर्ध्नि वक्त्रे न्यसेत् स्वरान् ॥ ३-२४१ ॥
बाह्वोः सन्धिषु साग्रेषु कचवर्गौ न्यसेत् सुधीः ।
टतवर्गौ पदोस्तद्वत् पार्श्वयोः पृष्ठदेशतः ॥ ३-२४२ ॥
नाभौ कुक्षौ पवर्गं च हृदंशककुदं ततः ।
न्यस्य यादिचतुर्वर्णान् शादिषट्कं ततो न्यसेत् ॥ ३-२४३ ॥
हृदादिकरयोरङ्घ्र्योर्जठरे वदने तथा ।
न्यासस्त्वयं वर्णमात्राहीनपाठप्रपूरकः ॥ ३-२४४ ॥
(शारदायाम्)
न्यसेत् सर्गान्वितान् सृष्ट्या ध्यायेद्देवीं यथाविधि ।
विन्दुयुक्तान् न्यसेत् तत्र संहृत्याप्रतिलोमतः ॥ ३-२४५ ॥
(मेरुतन्त्रे)
क्षमारभ्य अकारान्तो न्यासश्चेत् क्रियते यदि ।
संहारन्यासनामा स्याद्विन्दुन्यास इतीरितः ॥ ३-२४६ ॥
संहारक्रमेण ध्यानमाह ।
अक्षस्रजं हरिणपोतमुदग्रटङ्कं
विद्यां करैरविरतं दधतीं त्रिनेत्राम् ।
प्। १७१) अर्धेन्दुमौलिमरुणामरविन्दसंस्थां
वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ॥ ३-२४७ ॥
(शारदायाम्)
सर्गविन्द्वन्तिकान् न्यस्य डार्णाद्यान् स्थितिवर्त्मना ।
विद्यात् पूर्वोदितान् विद्वानृष्।यादीनङ्गसंयुतान् ॥ ३-२४८ ॥
(मेरौ)
विन्दुसर्गयुतान् डदिठान्तान् वर्णान् स्थितौ न्यसेत् ।
पूर्वोक्ता एव मुन्याद्याः षडङ्गं ध्यानमुच्यते ॥ ३-२४९ ॥
सिन्दूरकान्तिममिताभरणं त्रिनेत्रं
विद्याक्षसूत्रमृगपोतवरान् दधानम् ।
पार्श्वे स्थितां भगवतीमपि काञ्चनाभां
ध्यायेत् कराब्जधृतपुस्तकवर्णमालाम् ॥ ३-२५० ॥
न्यासाः कार्यास्तु वटुभिः स्थितिसंहारसृष्टयः ।
संहारसृष्टिस्थितयोर्गृहस्थस्तु न्यसेत् क्रमात् ॥ ३-२५१ ॥
वानप्रस्थाश्च यतयः सृष्टिस्थितिलयक्रमात् ।
न्यासान् कुर्युरिति प्रोक्तः स्थितिन्यासः सविस्तरः ॥ ३-२५२ ॥
अथ कलामातृकान्यासस्तत्रैव ।
वक्ष्ये कलामातृकाया न्यासं तस्य ऋषिः स्मृतः ।
प्रजापतिश्च गायत्री छन्दस्तस्यास्तु देवता ॥ ३-२५३ ॥
सरस्वती मातृकाख्या नियोगोऽभीष्टतुष्ठये ।
तारैः षडङ्गं कुर्वीत ह्रस्वदीर्घान्तरस्थितैः ॥ ३-२५४ ॥
ध्यानमाह ।
हस्तैः पद्मं रथाङ्गं गुणमथ हरिणं पुस्तकं वर्णमालां
टङ्कं शुभ्रं कपालं दलममृतलसद्धेमकुम्भं वहन्तीम् ।
प्। १७२) मुक्ताविद्युत्पयोदस्फटिकमणिजपाबन्धुरैः पञ्चवक्त्रै-
स्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां शारदां तां नमामि ॥ ३-२५५ ॥
ध्यात्वैवं तारपूर्वां तामकाराद्यां च मातृकाम् ।
विन्दुयुक्तां ङेऽन्तकलानामाद्यां नमसान्विताम् ॥ ३-२५६ ॥
पूर्वोक्तशुद्धमात्राणां न्यासस्थानेषु विन्यसेत् ।
तारपूर्वामित्यादि । एतेन ॐ अन्निवृत्त्यै नम इत्यादयः प्रयोगाः सम्पन्नाः । कलानामान्याह ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथेन्धिका ॥ ३-२५७ ॥
दीपिता रेचिका चापि मोचिका च पराभिधा ।
सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायनी ततः ॥ ३-२५८ ॥
व्यापिनी व्योमरूपा चानन्ता सृष्टिः समृद्धिका ।
स्मृतिर्मेधा ततः कान्तिर्लक्ष्मीर्द्युतिः स्थिरा स्थितिः ॥ ३-२५९ ॥
सिद्धिर्जया पालिनी च शान्तिरीश्वरिका रतिः ।
कामिका वरदा चान्या ह्रादिनी प्रीतिसंयुता ॥ ३-२६० ॥
दीर्घा तीक्ष्णा तथा रौद्री भया निद्रा च तन्द्रिका ।
क्षुधा स्यात् क्रोधिनी पश्चात् क्रियोत्कारी समृत्युका ॥ ३-२६१ ॥
पीता श्वेतारुणा पश्चादसितानन्तयान्विता ।
उल्का कलामातृकैवं स्थानेऽकारादिके न्यसेत् ॥ ३-२६२ ॥
कलानामुत्पत्तिस्थानमाह ।
तत्र नादात्मनो जाताः स्वरजास्तु सदाशिवात् ।
अक्षमालां पुस्तकं च पाशं चापि कपालकम् ॥ ३-२६३ ॥
हस्तैर्दधत्यः श्वेताभाः श्वेताभरणभूषणाः ।
अकाराद्ब्रह्मणो जाताः कचवर्गकला दश ॥ ३-२६४ ॥
पीता अक्षस्रजं पद्ममभयं च कमण्डलुम् ।
प्। १७३) हस्तैर्दधत्यो ध्येयास्ताः पीतगन्धानुलेपनाः ॥ ३-२६५ ॥
विष्णोरुकारात् सञ्जाताष्टतवर्गकला दश ।
श्यामा अभयशङ्खारिवरहस्ताः समीरिताः ॥ ३-२६६ ॥
मकाराद्रुद्रतो जाताः पयवर्गकला नव ।
शरच्चन्द्रनिभा हस्तैरभयं शूलमेव च ॥ ३-२६७ ॥
कपालं च वरं ध्येया दधत्य इति साधकैः ।
शाकारादिकपञ्चानामीश्वराद्विन्दुतोऽभवन् ॥ ३-२६८ ॥
अभयं हरिणं टङ्कं वरं च करपल्लवैः ।
दधत्यो रक्तवर्णाश्च ध्येया न्यासे कलात्मके ॥ ३-२६९ ॥
अथ केशवादिमातृकान्यास उक्तस्तत्रैव ।
केशवादिमातृकायाः साध्यनारायणो मुनिः ।
अमृतादा तु गायत्री छन्दो लक्ष्मीहरिः सुरः ॥ ३-२७० ॥
द्विरुक्तैः शक्तिश्रीकामैः षडङ्गानि समाचरेत् ।
शक्तिर्लज्जा ।
ध्यानमाह ।
शङ्खचक्रगदापद्मकुम्भादर्शाब्जपुस्तकम् ॥ ३-२७१ ॥
बिभ्रतं मेघचपलावर्णं लक्ष्मीहरिं भजे ।
शक्तयस्तु निजाङ्केषु निषण्णाः सस्मिताननाः ॥ ३-२७२ ॥
एवं ध्यात्वा न्यसेच्छक्तिश्रीकामपुटिताक्षरम् ।
तारादिहृदयान्ताश्च केशवाद्यास्तु शक्तयः ॥ ३-२७३ ॥
भ्यान्ता नमोऽन्ता उच्चार्याः स्थानेऽकारादिके न्यसेत् ।
भ्यान्तामिति तान्त्रिकत्वात् साधुः । अयं च सङ्क्षिप्तप्रकारः । अगस्त्यसंहितादौ तु चतुर्थ्येकवचनान्तयोर्नाम्नोः पृथगुच्चार उक्त । केशवाय च कीर्त्त्यै चेत्यादि वैष्णवीकल्पे ।
(मेरुतन्त्रे)
तारमायारमाकामानुक्त्वा वर्णान् समुच्चरेत् ॥ ३-२७४ ॥
भ्यामन्तौ च तथा देव्यै शक्त्यादित्रितयं पुनः ।
प्। १७४) हृदयान्तं समुच्चार्य ललाटादिषु विन्यसेत् ॥ ३-२७५ ॥
क्व चित् तु देवतानामान्ते पुनः शक्त्यादिबीजोच्चारो नोक्तः ।
(वैष्वक्सेन्यां तु )
तारादिर्मन्मथादिर्वा रमादिर्वा भवेदियम् ।
इति प्रणवादीनां विकल्प उक्तः ।
(शारदायां तु)
स्मराद्यां मातृकां न्यस्य केशवादिनमोन्विताम् ॥ ३-२७६ ॥
सधातुप्राणशक्त्यात्मयुक्त्यादिषु वैष्णवः ।
इति कामबीजमात्रमुपात्तम् ।
कलामात्रा तु शाक्तानां नित्योऽयं विष्णुसेविनाम् ॥ ३-२७७ ॥
केशवादिनामान्याह ।
केशवः कीर्तिसंयुक्तः कान्तिर्नारायणान्विता ।
माधवस्तुष्टिसंयुक्तो गोविन्दः पुष्टिसंयुतः ॥ ३-२७८ ॥
विष्णुश्च धृतिसंयुक्तः शान्तियुङ्मधुसूदनः ।
त्रिविक्रमः क्रियायुक्तो वामनो दययान्वितः ॥ ३-२७९ ॥
श्रीधरो मेधया युक्तो हृषीकेशस्तु हर्षया ।
पद्मनाभयुता श्रद्धा लज्जा दामोदरान्विता ॥ ३-२८० ॥
वासुदेवश्च लक्ष्मीयुक् सङ्कर्षणसरस्वती ।
प्रद्युम्नः प्रीतिसंयुक्तोऽनिरुद्धो रतिसंयुतः ॥ ३-२८१ ॥
चक्री जया गदी दुर्गा शार्ङ्गी तु प्रभयान्वितः ।
खड्गी तु सत्यया युक्तः शङ्खी च चण्डया युतः ॥ ३-२८२ ॥
हली च वाण्या संयुक्तो विलाशिन्याथ मौशली ।
शूली च जयया युक्तः पाशी विरजयान्वितः ॥ ३-२८३ ॥
अङ्कुशी विश्वया युक्तो मुकुन्दो विनदान्वितः ।
प्। १७५) नन्दजस्तु सुदयया नन्दी स्मृत्या समन्वितः ॥ ३-२८४ ॥
नर ऋद्ध्या नरकजित् समृद्ध्या शुद्धियुग्घहरिः ।
कृष्णो बुद्ध्या भुक्त्या सत्यो मतियुक् शाश्वतः स्मृतः ॥ ३-२८५ ॥
शौरिक्षमे शूरदमे जनार्दन उमान्वितः ।
भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया ॥ ३-२८६ ॥
वैकुण्ठो वसुधायुक्तो वसुदापुरुषोत्तमौ ।
बली तु परया युक्तो बलानुजपरायणे ॥ ३-२८७ ॥
बालसूक्ष्मे वृषघ्नश्च सन्ध्यायुक् प्रज्ञया वृषः ।
हंसः प्रभासमायुक्तो वराहो निशयान्वितः ॥ ३-२८८ ॥
विमलो मेधया युक्तो नृसिंहो विद्युता युतः ।
केशवाद्या मातृकोक्ता यादियोगश्च पूर्ववत् ॥ ३-२८९ ॥
अस्य प्रयोगस्तु । ॐ ह्री। श्री। क्ली। अं केशवकीर्तिभ्यां ह्री। श्री। क्ली। नम इत्यादि । यादियोग इति । ॐ ह्री। श्री। क्ली। यं त्वगात्मभ्यां वसुदापुरुषोत्तमाभ्यां ह्री। श्री। क्ली। नम इत्यादिक्रमेण यकारादिषु त्वगादियोग इत्यर्थः ।
अथ श्रीकण्ठादिमातृकान्यासस्तत्रैव ।
अथ शैवहिता वक्ष्ये श्रीकण्ठादिकमातृकाः ।
मुनिः स्याद्दक्षिणामूर्तिर्गायत्री छन्द ईरितम् ॥ ३-२९० ॥
अर्धाद्रिजो हरो देवो नियोगः सर्वसिद्धये ।
हलो बीजानि गुह्ये तु पादयोः स्वरशक्तयः ॥ ३-२९१ ॥
ह्रस्वदीर्घान्तरे कृत्वा प्राग्वद्वर्गान् हसैरयम् ।
षड्दीर्घसंयुतैः कृत्वा षडङ्गानि न्यसेत् तनौ ॥ ३-२९२ ॥
प्। १७६) ह्रस्वदीर्घान्तर इति । अ। क। ख। ग। घ। ङ। आ। ह्सामित्यादिभिः षडङ्गं कुर्यादित्यर्थः ।
ध्यानमाह ।
बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदं निजबाहुदण्डैः ।
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्रम्-
अर्धाम्बिकेशमनिशं वपुराश्रयामः ॥ ३-२९३ ॥
ह्सौ। च मातृकामुक्त्वा देवान्ते चेशमच्चरेत् ।
ङेन्तं ङेन्ताम् अ तच्छक्तिं नमोन्तान् मातृकास्थले ॥ ३-२९४ ॥
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राण्यसून् वदेत् ।
शक्तिं क्रोधं तथात्मानं ङेन्तं यादिदशस्वपि ॥ ३-२९५ ॥
ह्सौ। अ। श्रीकण्ठेशाय पूर्णोदर्यै नम इति प्रयोगः ।
त्वगिति । ह्सौ। य। त्वगात्मने बालीशाय सुमुख्यै नम इत्येवं यादिदशवर्णेषु त्वगादियोगः कर्तव्यः इत्यर्थः ।
शिवशक्तिनामान्याह ।
श्रीकण्ठपूर्णोदर्यौ चानन्तो विरजयान्वितः ।
सूक्ष्मेशः शाल्मलीयुक्तो लोलाक्षीयुक् त्रिमूर्तिकः ॥ ३-२९६ ॥
अमरेशो वर्तुलाक्ष्या चार्घीशो दीर्घघोणया ।
भारमूर्ति दीर्घमुख्या तिथीशो गोमुखीयुतः ॥ ३-२९७ ॥
स्थाण्वीशो दीर्घजिह्वायुग्घरः कुण्डोदरीयुतः ।
ऊर्ध्वकेश्या च झिण्टीशो भौतिको विकृतास्यया ॥ ३-२९८ ॥
सद्योजातो ज्वालमुख्यानुग्रहोल्कामुखीयुतः ।
अक्रूरे श्रीमुखी महासेनो विद्यामुखीयुतः ॥ ३-२९९ ॥
प्। १७७) क्रोधीशश्च महाकाल्या चण्डेशेन सरस्वती ।
पञ्चान्तके सर्वसिद्धिर्गौर्या युक्तः प्रकीर्तितः ॥ ३-३०० ॥
शिवोत्तमेशो विन्यस्यो युक्तस्त्रैलोक्यविद्यया ।
एकरुद्रो मन्त्रशक्त्या कूर्मेशश्चाष्टशक्तियुक् ॥ ३-३०१ ॥
एकनेत्रो भूतिमात्रायुक्तोऽथ चतुराननः ।
लम्बोदर्या युतः प्रोक्तस्त्वजेशो द्राविणीयुतः ॥ ३-३०२ ॥
सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः ।
लाङ्गलीशश्च मञ्जर्या दारुकेशेन रूपिणी ॥ ३-३०३ ॥
वीरिण्या त्वर्धनारीशो ह्युमाकान्तः पुनर्युतः ।
काकोदर्या तथाषाढी पूतनायुक्त ईरितः ॥ ३-३०४ ॥
दण्डीशो भद्रकालीयुगद्रीशो योगिनीयुतः ।
मीनेशः शङ्खिनीयुक्तो मेषेशस्तर्जनीयुतः ॥ ३-३०५ ॥
लोहितः कालरात्र्या च शिखीशः कूर्दिनीयुतः ।
छगलण्डः कपर्दिन्या द्विरण्डेशश्च वज्रया ॥ ३-३०६ ॥
महाकालो जयायुक्तो बालीशः सुमुखीयुतः ।
भुजङ्गो रेवतीयुक्तः पिनाकी माधवीयुतः ॥ ३-३०७ ॥
खड्गीशो वारुणीयुक्तो वकेशो वायवीयुतः ।
श्वेतो रक्षोवधारिण्या भृगुः सहजया युतः ॥ ३-३०८ ॥
नकुलीशश्च लक्ष्मीयुक् शिवेशो व्यापिनीयुतः ।
संवर्तको महामायायुक्त एतास्तु मातृकाः ॥ ३-३०९ ॥
प्। १७८) श्रीकण्ठाद्या य ईशान्तस्तत्र नेशं प्रयोजयेत् ।
य इति । य ईशान्तो भवति तदन्ते पुनरीशपदं न देयमित्यर्थः । एतेन श्रीकण्ठादिनामान्ते ईशपददानमावश्यकमित्यनुज्ञातम् ।
तथा ।
सर्वेरुद्राः स्मृतारक्ता धृतशूलकपालकाः ॥ ३-३१० ॥
शक्तयो रुद्रपीठस्थाः सिन्दूरारुणविग्रहाः ।
रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः ॥ ३-३११ ॥
अथ भुवनेश्वरीमातृकान्यासमाह तत्रैव ।
येनोपास्या महाविद्या दश तस्याधिकारिताः ।
भुवनेशीबीजपूर्वमातृकान्यासने सुराः ॥ ३-३१२ ॥
ऋषिः शक्तिस्तु गायत्री छन्दः स्यान्मातृकामयी ।
भुवनेशी देवथाथ नियोगः स्वेष्टसिद्धये ॥ ३-३१३ ॥
ह्रस्वदीर्घान्तरगतैः षड्वर्गैर्दीर्घसंयुतैः ।
प्राग्वद्धरैः षडङ्गं स्यादङ्गुष्ठादि तथैव च ॥ ३-३१४ ॥
हरैरिति । आकारादिषड्दीर्घस्वरयुक्तैर्हकाररकरैरित्यर्थः । प्रयोगस्तु । अ। क। ख। ग। घ। ङ। आ। ह्रा। हृदयाय नम इत्यादि ।
ध्यानमाह ।
उद्यत्कोटिदिवाकरप्रतिनिभा तुङ्गोरुपीनस्तनी
बद्धार्धेन्दुकिरीटहाररसनामञ्जीरसंशोभिता ।
बिभ्राणा करपङ्कजैर्जपवटीं पाशाङ्कुशौ पुस्तकं
दिश्यान्नो जगदीश्वरी त्रिनयना पद्मे निषण्णा सुखम् ॥ ३-३१५ ॥
लज्जाबीजं पूर्वमुक्त्वा मातृकान्यास एव हि ।
भुवनेशीमातृकाणां न्यासकैर्यत्र साधने ॥ ३-३१६ ॥
अथ लक्ष्मीमातृकान्यासस्तत्रैव ।
श्रीबीजपूर्वकः कार्यो लक्ष्मीकामैर्गृहस्थितैः ।
प्। १७९) ऋषिर्भृगुश्च गायत्री छन्दो मातृस्वरुपिणी ॥ ३-३१७ ॥
लक्ष्मीस्तु देवता प्रोक्ता हरस्थाने शरौ कुरु ।
न्यासार्थं तु षडङ्गादेः शेषं श्रीबीजपूर्वकम् ॥ ३-३१८ ॥
हरस्थाने शरौ इति । भुवनेशीमातृकोक्तहकाररकारयोः स्थाने शकाररकरौ दद्यादित्यर्थः । तेन ह्रामित्यादेः स्थाने श्रामित्यादि सिध्यति ।
ध्यानमाह ।
विद्युद्दामसमप्रभां हिमगिरिप्रख्यैश्चतुर्भिर्गजैः
शुण्डादण्डसमुद्धृतामृतघटैरासिञ्च्यमानामिमाम् ।
बिभ्राणां करपङ्कजैर्जपवटीं पद्मद्वयं पुस्तकं
भास्वद्रत्नसमुज्ज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीम् ॥ ३-३१९ ॥
अथ सम्मोहनमातृकान्यासस्तत्रैव ।
कामनामात्रसिध्यर्थं कामबीजादि पूर्ववत् ।
कुर्याच्च मातृकान्यासं मुनिः सम्मोहनो मतः ॥ ३-३२० ॥
गायत्री छन्द उद्दिष्टं देवता मातृकामयी ।
सम्मोहिनी नाम देवी पूर्वयुक्त्या षडङ्गकम् ॥ ३-३२१ ॥
पूर्वयुक्तेति । लक्ष्मीमातृकोक्तयुक्त्या सम्मोहनमातृकायाः कामबीजपूर्वकत्वेन हकाररकारयोः स्थाने संयुक्तककारलकारौ दत्वा षडङ्गन्यासः कार्य इत्यर्थः ।
ध्यानमाह ।
बालार्ककोटिरुचिरां स्फटिकाक्षमालां
कोदण्डमिक्षुजनितस्मरपञ्चबाणाम् ।
विद्यां च हस्तकमलैर्दधतीं त्रिनेत्रां
ध्यायेत् समस्तजननीं नवचन्द्रचूडाम् ॥ ३-३२२ ॥
सम्मोहनमातृकान्तरमाह ।
शक्तिश्रीकामबीजादिमातृकान्यासतो नृणाम् ।
शत्रुत्वाद्या मन्त्रदोषा नश्यन्ति बहुवर्णजाः ॥ ३-३२३ ॥
महासम्मोहन ऋषिर्गायत्री छन्द ईरितम् ।
प्। १८०) सम्मोहिनी नाम देवी न्यासः प्राङ्मातृकासमः ॥ ३-३२४ ॥
ध्यानं यथा ।
ध्यायेयमक्षवलयेक्षुशराशपाशां
पद्मद्वयाङ्कुशशरां नवपुस्तकं च ।
आब्रिभ्रतीं निजभुजैररुणां कुचार्त्तां
सम्मोहिनीं त्रिनयनां नवचन्द्रचूडाम् ॥ ३-३२५ ॥
अथ गणेशमातृकान्यासस्तत्रैव ।
सर्वविघ्ननिरासार्थमवश्यं न्यासमाचरेत् ।
गणेशमातृकायास्तु मुनिर्गणक ईरितः ॥ ३-३२६ ॥
निवृद्गायत्रिका छन्दो देवः शक्तिविनायकः ।
स्मृत्या दीर्घाढ्यया त्वङ्गं कृत्वा ध्यायेद्गजाननम् ॥ ३-३२७ ॥
स्मृतिर्गकारः ।
ध्यानं यथा ।
शूलाङ्कुशवराभीतिपाणिं रक्ताब्जहस्तया ।
प्रिययालिङ्गितं रक्तं त्रिनेत्रं गणपं भजे ॥ ३-३२८ ॥
एवं ध्यात्वा न्यसेत् स्वीयबीजपूर्वाक्षरान्वितम् ॥ ३-३२८एफ़् ॥
स्वीयेति । स्वीयबीजं गमिति बीजं पूर्वं येषां तादृशानि यान्यक्षराणि अकारादीनि तैरन्वितं यथा भवति तथा वक्ष्यमाणशक्तिसंयुक्तान् वक्ष्यमाणगणेशान् न्यसेदित्यर्थः ।
तथा ।
विघ्नेशो ह्रीसमायुक्तो विघ्नराजः श्रिया युतः ।
विनायकः पुष्टियुक्तः शान्तियुक्तः शिवोत्तमः ॥ ३-३२९ ॥
विघ्नकृत् स्वस्तिसंयुक्तो विघ्नहर्त्त्रा सरस्वती ।
गणस्तु स्वाहया युक्त एकदन्तस्तु मेधया ॥ ३-३३० ॥
द्विदन्तः कान्तिसंयुक्तो गजवक्त्रेण कामिनी ।
निरञ्जनो मोहिनीयुक् कपर्दी तु नदीयुतः ॥ ३-३३१ ॥
प्। १८१) दीर्घजिह्वः पार्वतीयुक् ज्वालिन्या शङ्कुकर्णकः ।
वृषध्वजो नन्दया युक् सुयशागणनायकौ ॥ ३-३३२ ॥
गजेन्द्रः कामरूपिण्या शूर्पकर्णस्तथोमया ।
त्रिलोचनस्तेजोवत्या लम्बोदरस्तु सत्यया ॥ ३-३३३ ॥
महानन्दश्च विघ्नेश्या चतुर्मूर्तिः सुरूपया ।
सदाशिवः कामदायुगामोदो मदजिह्वया ॥ ३-३३४ ॥
दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकायुतः ।
प्रमोदः सितया युक्त एकपादो रमायुतः ॥ ३-३३५ ॥
द्विजिह्वो महिषीयुक्तः शूरस्यापि भुजङ्गिनी ।
वीरोऽपि कर्णया युक्तः षण्मुखो भृकुटीयुतः ॥ ३-३३६ ॥
वरदो लज्जया वामदेवः स्याद्दीर्घघोणया ।
धनुर्धरावक्रतुण्डौ द्विरण्डो यामिनीयुतः ॥ ३-३३७ ॥
सेनानी रात्रिसंयुक्तः कामान्धो ग्रामणीयुतः ।
मत्तः शशिप्रभायुक्तो विमले लोललोचना ॥ ३-३३८ ॥
मत्तवाहनचाञ्चल्ये जटी दीप्तिसमन्वितः ।
मुण्डी सुभगया युक्तः खड्गी दुर्भगया तथा ॥ ३-३३९ ॥
वरेण्यश्च शिवायुक्तो भगीयुग्वृषकेतनः ।
भक्तिप्रियो भगिन्या तु गणेशो भोगिनीयुतः ॥ ३-३४० ॥
मेघनादः सुभगया व्यापी स्यात् कालरात्रियुक् ।
गणेश्वरः कालिकेति प्रोक्ता विघ्नेशमातृका ॥ ३-३४१ ॥
त्वगादियोगो यादीनां पूर्ववत् परिकीर्तितः ।
(निबन्धे)
ओमाद्यन्ते नमोन्तो वा सविन्दुर्विन्दुवर्जितः ॥ ३-३४२ ॥
पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ।
प्। १८२) चतुर्धा मातृका प्रोक्ता केवला विन्दुसंयुता ॥ ३-३४३ ॥
सविसर्गा सोभया च रहस्यं शृणु कथ्यते ।
विद्याकरी केवला च सोभया भुक्तिदायिनी ॥ ३-३४४ ॥
सविसर्गा पुत्रदात्री सविन्दुर्वित्तदायिनी ।
(कुलावतारे)
मायालक्ष्मीबीजपूर्वो वाग्भवाद्योऽथ वा पुनः ॥ ३-३४५ ॥
त्रिताराद्यो रमाद्यो वा न्यस्तव्यः साधकोत्तमैः ।
त्रितारश्च ।
वाग्भवं कामराजं च श्रीबीजं च त्रितारकम् ॥ ३-३४६ ॥
शक्तिश्रीकामबीजं वा त्रितारं मुनयो विदुः ।
इति तन्त्रान्तरे प्रोक्तम् ।
बीजकोशे तु ।
वाग्भवं भुवनेशानि श्रीबीजं च त्रितारकम्- इत्युक्तम् ॥ ३-३४७ ॥
(सिद्धान्तसारे)
वाग्भवाद्या वाक्प्रदा स्यात् त्रिताराद्या तु कामदा ।
श्रीबीजाद्या महैश्वर्यदायिनी मातृका स्मृता ॥ ३-३४८ ॥
(वीरचूडामणौ)
मातृकात्रितयं कुर्यात् सृष्टिसंहारकस्थितिम् ।
न्यासं कुर्यान्महेशानि कल्पोक्तं च विशेषतः ॥ ३-३४९ ॥
(कुलावतारे)
सृष्टेस्तु सुतपुष्ट्यादि स्थितेस्तत्पालनं भवेत् ।
संहृतेर्दोषसंहारं तस्मात् त्रितयमाचरेत् ॥ ३-३५० ॥
(सिद्धान्तसारे)
सर्गे सर्गान्वितान् न्यस्येत् संहृतौ च सविन्दुकान् ।
डादिठान्तान् न्यसेद्वर्णान् स्थितौ तदुभयान्वितान् ॥ ३-३५१ ॥
प्। १८३) (त्रिशक्तिरत्ने तु)
अकथादित्रिभेदेन विभज्य मनुवल्लिपिम् ।
कवर्गं प्रथमं न्यस्येदवर्गं च ततः परम् ॥ ३-३५२ ॥
तवर्गं विन्यसेत् पश्चात् स्थितिरेषा प्रकीर्तिता- इत्युक्तम् ।
मातृकान्यासमुद्रा उक्तास्तन्त्रान्तरे ।
ललाटेऽनामिकामध्ये न्यसेच्च मुखवृत्तके ॥ ३-३५३ ॥
तर्जनीमध्यमानामा विन्यसेच्चैव नेत्रयोः ।
तर्जन्यनामे संयोज्य न्यसेत् साधकसत्तमः ॥ ३-३५४ ॥
अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः ।
मध्यमां गण्डयोर्न्यस्य मध्यमामोष्ठयोर्न्यसेत् ॥ ३-३५५ ॥
अनामां दन्तयोर्न्यस्य मध्यमामुत्तमाङ्गके ।
मुखेऽनामां मध्यमां च हस्ते पादे च पार्श्वयोः ॥ ३-३५६ ॥
कनिष्ठानामिकामध्या न्यस्तव्याः पृष्ठतस्तथा ।
ताः साङ्गुष्ठा नाभिदेशे सर्वाः कुक्षौ च विन्यसेत् ॥ ३-३५७ ॥
हृदये साधकः सर्वमंसयोश्च ककुत्स्थले ।
हृत्पूर्वहस्तपत्कुक्षिमुखेषु तलमेव च ॥ ३-३५८ ॥
एतास्तु मातृकामुद्राः क्रमेण परिकीर्तिताः ।
अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात् तस्य निष्फलः ॥ ३-३५९ ॥
(मन्त्रतन्त्रप्रकाशे)
पुष्पैरनामया वापि मनसा वा न्यसेदसून् ।
अनामयेत्यस्य साङ्गुष्ठयेति ।
अङ्गुष्ठानामिकाभ्यां तु न्यासः सर्वत्र सम्मतः ॥ ३-३६० ॥
इति (पद्यवाहिनी) वचनात् ।
तेन च । पुष्पैर्देवतामूर्तौ अङ्गुष्ठानामिकाभ्यां स्वदेहे मनसा मूलाधारादिषु न्यासो बोध्यः । इदं च ऋष्यादिकरषडङ्गन्यासबहिर्मातृकादिव्यतिरिक्तेषु तत्र मुद्रान्तराभिधानात् ।
प्। १८४) (डामरे)
कृत्वा तु मातृकान्यासं न्यासानन्यान् समाचरेत् ।
मूलमन्त्रस्य ऋष्यादिकराङ्गादि ततो न्यसेत् ॥ ३-३६१ ॥
(योगिनीतन्त्रे)
ऋष्यादीन् विन्यसेद्देवि चतुर्थीहृदयान्तकान् ।
(बृहन्मत्स्यसूक्ते)
ऋषिन्यासो मूर्ध्नि देशे छन्दस्तु मुखपङ्कजे ॥ ३-३६२ ॥
देवता हृदये चैव बीजं तु गुह्यदेशके ।
शक्तिं च पादयोश्चैव सर्वाङ्गे कीलकं न्यसेत् ॥ ३-३६३ ॥
(मेरुतन्त्रे)
ऋषेर्गुरुत्वाच्छिरसि वर्णत्वाच्छन्दसो मुखे ।
धारणं प्रोच्यते चित्ते ज्ञेयत्वाद्देवता हृदि ॥ ३-३६४ ॥
ऋषिस्तु ।
महेश्वरमुखाज्ज्ञात्वा यः साक्षात् तपसा मनुम् ।
संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः ॥ ३-३६५ ॥
इति (कालानलतन्त्रे) प्रोक्तम् ।
(तथा)
गुरुत्वान्मस्तके चास्य न्यासश्च परिकीर्तितः ।
(मेरुतन्त्रे)
ऋ-गताविति धातोस्तु ऋवर्णः प्रापको मतः ॥ ३-३६६ ॥
षिवर्णार्थस्तु विज्ञानमतस्तत्प्रापकस्तु सः ।
(बृहन्मत्स्यसूक्ते)
सर्वेषां मन्त्रतत्त्वानां छादनाच्छन्द उच्यते ॥ ३-३६७ ॥
अक्षरत्वात् पदत्वाच्च मुखे छन्दः समीरितम् ।
ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत् ॥ ३-३६८ ॥
दौर्बल्यं चापि मन्त्राणां विनियोगमजानताम् ।
प्। १८५) ऋष्यादिन्यासमुद्रा उक्तास्तन्त्रान्तरे ।
ऋषिच्छन्दोदेवतानां न्यासे चाङ्गुलयः स्मृताः ॥ ३-३६९ ॥
चतस्रोऽङ्गुष्ठरहिताः शक्त्यन्तं विन्यसेत् ततः ।
कीलकं व्यस्तहस्ताभ्यां सर्वाङ्गे साधकाग्रणीः ॥ ३-३७० ॥
अर्थाङ्गमुद्रास्तत्रैव ।
हृदये मध्यमानामातर्जनीभिर्न्यसेद्बुधः ।
मध्यमातर्जनीभ्यां च शिरसि न्यासमाचरेत् ॥ ३-३७१ ॥
अङ्गुष्ठेन शिखायां च दशभिः कवचे न्यसेत् ।
नेत्रेषु तिसृभिश्च स्यादस्त्रमूर्ध्वोर्ध्वगं त्रिशः ॥ ३-३७२ ॥
मध्यमातर्जनीभ्यां स्यादङ्गमुद्राः स्मृता इमाः ।
षडङ्गार्थमाह ।
हृदयायेति शब्देन हृत्स्थो देवः सविग्रहः ॥ ३-३७३ ॥
उच्यते नम इत्यस्य ज्ञानं तद्विषयं परम् ।
शिरःशब्दो देवताया उत्कृष्टत्वाभिधायकः ॥ ३-३७४ ॥
स्वाहेति विषयाः सर्वे देवतायां समर्पिताः ।
शिखायै तत्स्वरूपत्वं वषड्वापि तदुच्यते ॥ ३-३७५ ॥
देवताया व्यापकत्वं कवचायाभिधीयते ।
हुमिति व्यापकं तेजो देवतायाः प्रकाश्यते ॥ ३-३७६ ॥
नेत्रशब्देन देवस्य नित्यज्ञानं प्रकाश्यते ।
वौषडिति तदेवोक्तमस्त्रशब्देन वारणम् ॥ ३-३७७ ॥
अनिष्टस्य फट्शब्देन दाहकं तेज उच्यते ।
ज्ञात्वैवमङ्गमन्त्रार्थमङ्गन्यासं करोति यः ॥ ३-३७८ ॥
करगास्तस्य सर्वार्था पूज्यते त्रिदशैरपि ।
(मेरुतन्त्रे)
क्रीडार्थकाद्दिवो धातोः सम्पूर्णं देवतापदम् ॥ ३-३७९ ॥
प्। १८६) साधकाय ददातीति देवता परिकीर्तिता ।
रज्यमानो हृदात्मानं हृदयेऽस्ति चिदात्मकः ॥ ३-३८० ॥
तस्मात् तत्र नमस्कुर्यान्मुख्याङ्गुष्ठेन संस्पृशेत् ।
स्वाहया क्रियते सम्यग्विषयाहरणं यतः ॥ ३-३८१ ॥
अनामातर्जनीभ्यां तैराकृष्टैः कं निषेव्यते ।
शिखा महो वषड्वाङ्गं शिखयात्मतनुग्रहः ॥ ३-३८२ ॥
यस्मात् तस्माद्वषडिति क्रियतेऽङ्गुलमध्यया ।
ग्रहणार्थ-कवच्-धातुर्हु। मन्त्रेण स गृह्यते ॥ ३-३८३ ॥
शरीरेऽतस्तु कवचं तर्जन्यानामयापि तत् ।
यथार्थज्ञानकृद्वौषट् तन्नेत्राभ्यां प्रजायते ॥ ३-३८४ ॥
तस्मादुक्तं तत्र वौषट् तर्जन्याद्यैस्तु तत् स्मृतम् ।
एकाक्षत्वात् कुबेरादिदैवते ङेऽन्तमुच्चरेत् ॥ ३-३८५ ॥
भ्यान्तं विष्ण्वादिके रुद्रादौ तु नेत्रत्रयात्मकम् ।
आध्यात्मिकादिरूपं यत् साधकस्य विनाशयेत् ॥ ३-३८६ ॥
अविद्याजातमस्त्रं तत् फट्तालाभ्यां प्रपञ्च्यते ।
(यामले)
न्यसेदङ्गुष्ठमुख्येषु जातिभिर्नमसाथ वा ॥ ३-३८७ ॥
हृदादिषु षडङ्गेषु जातिषट्केन विन्यसेत् ।
नमः स्वाहा वषट् हु। वौषट् फडेताश्च जातयः ॥ ३-३८८ ॥
अन्यत्रापि ।
जातिषट्कमिति प्रोक्तं हृदाद्यस्त्रान्तसंयुतम् ।
तथा च (शारदायाम्)
हृदयादिषु विन्यस्येदङ्गमन्त्रा।स्ततः सुधीः ॥ ३-३८९ ॥
हृदयाय नमः पूर्वं शिरसे वह्निवल्लभाम् ।
प्। १८७) शिखायै वषडित्युक्तं कवचाय हुमीरितम् ॥ ३-३९० ॥
नेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात् ।
षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् ॥ ३-३९१ ॥
अङ्गन्यासस्य नित्यतोक्ता (ज्ञानमालायाम्)
पूजाजपार्चनाहोमाः सिद्धमन्त्रकृता अपि ।
अङ्गन्यासेन विधुरा न दास्यन्ति फलान्यमी ॥ ३-३९२ ॥
(मेरुतन्त्रे)
षडङ्गं विन्यसेन्मन्त्री पञ्चाङ्गं वा यथाविधि ।
यस्य मन्त्रस्य पञ्चाङ्गं नेत्रं तस्य विहीयते ॥ ३-३९३ ॥
अङ्गैर्विहीनस्य मनोरङ्गं तेनैव कल्पयेत् ।
तथा ।
आगमोक्तेन मार्गेण न्यासान् नित्यं करोति यः ॥ ३-३९४ ॥
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ।
यो न्यासकवचच्छन्नो मन्त्रं जपति तं प्रिये ॥ ३-३९५ ॥
दृष्ट्वा विघ्नाः पलायन्ते सिंहं दृष्ट्वा यथा गजाः ।
अकृत्वा न्यासजालं यो मूढात्मा कुरुते जपम् ॥ ३-३९६ ॥
विघ्नैः स बाध्यते नूनं व्याघ्रैर्मृगशिशुर्यथा ।
न्यासानां प्रचुरत्वेन फलानामपि भूरिता ॥ ३-३९७ ॥
उक्तन्यासो न हि त्याज्यस्त्वधिकं कामतश्चरेत् ।
(यामले)
ततस्तु योगपीठाख्यं स्वदेहे न्यासमाचरेत् ॥ ३-३९८ ॥
आधारशक्तिं प्रकृतिं तथा कूर्ममनन्तकम् ।
अन्यत्र तु मूलप्रक्रत्यनन्तरं कालाग्निरुद्रोऽप्युक्तः ।
ततश्च मूलप्रकृतिं रुद्रं कलानलाह्वयम्- इति ॥ ३-३९९ ॥
मेरौ तु मूलप्रकृतेः प्रागेव कालाग्निरुद्र उक्तः । तदनन्तरमाधारशक्तिरुक्ता ।
प्। १८८) तथा ।
वराहं पृथिवीं क्षीरसिन्धुं द्वीपं च रत्नजम् ।
वैष्णवे तु श्वेतद्वीप उक्तः ।
मणिजं मण्डपं कल्पपादपं मणिवेदिकाम् ॥ ३-४०० ॥
रत्नपीठं तथैतानि मन्त्री हृद्येव विन्यसेत् ।
क्व चिन्मणिमण्डपानन्तरं नन्दनोद्यानमप्युक्तम् ।
(शारदायाम्)
अंसोरुयुग्मयोर्विद्वान् प्रादक्षिण्येन देशिकः ॥ ३-४०१ ॥
धर्मे ज्ञानं च वैराग्यमैश्वर्यं विन्यसेत् क्रमात् ।
धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे ॥ ३-४०२ ॥
मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् प्रकल्पयेत् ।
अनन्तं हृदये पद्मं यस्मिन् सूर्येन्दुपावकान् ॥ ३-४०३ ॥
एषु स्वस्वकला न्यस्येन्नामाद्यक्षरपूर्विकाः ।
अकाराद्यं न्यसेत् सूर्यमुकाराद्यं निशाकरम् ॥ ३-४०४ ॥
मकाराद्यं न्यसेद्वह्निं कलामण्डलसंयुतम् ।
सत्त्वादी।स्त्रीन् गुणान् न्यस्येत् तथैवात्र गुरूत्तमः ॥ ३-४०५ ॥
सत्त्वं रजस्तम इति यस्य भेदाः समीरिताः ।
आत्मानमन्तरात्मनं परमात्मानमत्र तु ॥ ३-४०६ ॥
आदिबीजत्रयं न्यस्य शक्तिबीजपुरस्सरम् ।
ज्ञानात्मानं प्रविन्यस्य न्यसेत् पीठमनुं ततः ॥ ३-४०७ ॥
एवं देहमये पीठे चिन्तयेदिष्टदेवताम् ।
देवताध्यानस्य द्वैविध्यमुक्तम् (मेरुतन्त्रे)
ध्यानं कुर्यात् ततो तत्तत्कल्पोक्तेनैव वर्त्मना ॥ ३-४०८ ॥
तदपि द्विविधं प्रोक्तं सगुणं निर्गुणं तथा ।
आत्मनो हृदयाम्भोजे कर्णिकाकेशरोज्ज्वले ॥ ३-४०९ ॥
प्। १८९) प्रफुल्ले सोमसूर्याग्निमण्डलेन विराजिते ।
स्वीयेष्टदेवतां तत्र विद्यादागमबोधिताम् ॥ ३-४१० ॥
एवं यद्वेदनं तद्धि सगुणं ध्यानमुच्यते ।
यज्जीवब्रह्मणोरैक्यं सोऽहं स्यामिति वेदनम् ॥ ३-४११ ॥
तदेव निर्गुणं ध्यानमिति ब्रह्मविदो विदुः- इति ।
अत्र न्यासानन्तरं ध्यानात् प्रागेव मुद्राप्रदर्शनमुक्तम् ।
(मेरुतन्त्रे)
कराङ्गन्यासमुख्या।स्तु न्यासानन्यान् समाचरेत् ॥ ३-४१२ ॥
तत्तत्कल्पोदितान् पश्चात् तत्तन्मुद्राः प्रदर्शयेत्- इति ।
अन्यत्र तु ।
एवं ध्यात्वा महेशानि ततो मुद्राः प्रदर्शयेत्- इति ॥ ३-४१३ ॥
ध्यानान्तरं तदुक्तम् ।
(महाथर्वणरहस्ये) तु न्यासध्यानान्तर्यागानुक्त्वा ।
ततश्च तन्मयो भूत्वा मुद्रा एताः प्रदर्शयेत्- इत्युक्तमिति ।
तत्र कालविकल्पो बोध्यः ।
मुद्राबन्धने तत्प्रदर्शनत्यागयोश्च मन्त्रभेदा (मेरुतन्त्रे) उक्ताः ।
ॐ क्लीमिति तु बीजाभ्यां मुद्राया बन्धनं स्मृतम् ॥ ३-४१४ ॥
दर्शयेन्मूलमन्त्रेण ह्सू। बीजेन सन्त्यजेत् ।
(सनत्कुमारसंहितायाम्)
अकृत्वा मानसं यागं न कुर्याद्बहिरर्चनम् ॥ ३-४१५ ॥
अन्तर्यागविधिः (बृहदुत्तरतन्त्रे)
हृत्पद्मकर्णिकामध्ये योगपीठोपरि स्थिताम् ।
ध्यात्वा तां गन्धपुष्पाद्यैर्मानसैरुपचारकैः ॥ ३-४१६ ॥
सम्पूज्य विधिवत् पश्चान्मानसं होममाचरेत् ।
(श्मामारहस्य) धृतवचनानि ।
अमायामनहङ्कारसरागममदं तथा ॥ ३-४१७ ॥
प्। १९०) अमोहदमदम्भं च अद्वेषाक्षोभकौ तथा ।
अमात्सर्यमलोभं च दश पुष्पंविदुर्बुधाः ॥ ३-४१८ ॥
अहिंसापरमं पुष्पं पुष्पमिन्द्रियनिग्रहम् ।
दयापुष्पं धर्मपुष्पं ज्ञानपुष्पं च पञ्चमम् ॥ ३-४१९ ॥
इत्युक्तैरुत्तमैः पुष्पैः पूजयेत् परदेवताम् ।
(मेरुतन्त्रे)
मूलाधारे चतुष्कोणमग्निकुण्डं विचिन्तयेत् ॥ ३-४२० ॥
तत्राग्निं कुण्डलीरूपं ध्यायेन्मूलं समुच्चरेत् ।
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रूचा ॥ ३-४२१ ॥
सुषुम्णावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् ।
पुण्यं जुहोमि स्वाहेति श्लोकान्ते प्रोच्चरेत् पुनः ॥ ३-४२२ ॥
पुनर्मूलं पुनः श्लोकं पुनः पापं जुहोमि च ।
कृत्याकृत्ये च सङ्कल्पो विकल्पो धर्म एव च ॥ ३-४२३ ॥
हुत्वा पृथक् च स्वाहान्तं पुनः श्लोकमिमं पठेत् ।
प्रकाशामर्षहस्ताभ्यामवलम्ब्योन्मनीस्रूवम् ॥ ३-४२४ ॥
धर्माधर्मकलास्नेहं पूर्णवह्नौ जुहोम्यहम् ।
स्वाहान्तेनाहुतिं दत्वा प्राणायामनिरोधतः ॥ ३-४२५ ॥
निरस्तनिखिलोपाधिमात्मानं चिन्मयं स्मरेत् ।
(श्यामारहस्यादौ) तु मूलान्ते ।
नाभिचैतन्यरूपादौ हविषा मनसा स्रुचा ॥ ३-४२६ ॥
ज्ञानप्रदीपिते नित्यमक्षवृत्तीर्जुहोम्यहम् ।
स्वाहा इति प्रथमाहुतिः ।
मूलान्ते ।
धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा स्रुचा ॥ ३-४२७ ॥
सुषुम्णावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।
प्। १९१) स्वाहा- इति द्वितीयाहुतिः ।
मूलान्ते ।
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा ॥ ३-४२८ ॥
धर्माधर्मकलास्नेह पूर्णमग्नौ जुहोम्यहम् ॥ ३-४२८एफ़् ॥
स्वाहा- इति तृतीयाहुतिः ।
मूलान्ते ।
अन्तर्निरन्तरनिरिन्धनमेधमाने
मोहान्धकारपरिपन्थिनि संविदग्नौ ।
कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ
विश्वं जुहोमि वसुधादिशिवावसानम् ॥ ३-४२९ ॥
स्वाहा- इति चतुर्थाहुतिः । इति श्लोकचतुष्टयेनाहुतिचतुष्टयमुक्तम् ।
(मेरुतन्त्रे) ईडया वायुमाकृष्य गुदं किञ्चिदाकुञ्च्य जिह्वां तालुगतां विधाय मूलाधारात् कुण्डलिनीमुत्थाप्य सहस्रदलकमलकर्णिकान्तर्गतपरमशिवेन सह तां संयोज्य प्रोक्तपीठे देवतामर्च्चयेदिति विशेष उक्तः ।
(यथा)
वामनाडीः समाकृष्य किञ्चिदाकुञ्चयेद्गुदम् ।
रेचयेत् सममार्गेण जिह्वां तालुगतां चरेत् ॥ ३-४३० ॥
शक्तिं शिवपदे योज्य किञ्चिदाकुञ्चयेदधः ।
कृत्वैवं तु यजेत् पीठं न्यासमार्गेण मन्त्रवित् ॥ ३-४३१ ॥
तस्मिन् पीठे स्थितामिष्टदेवतां मूर्तिविग्रहाम् ।
ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्भोजनान्तकैः ॥ ३-४३२ ॥
भोजनावसरे त्वन्तर्वैश्वदेवं समाचरेत् ।
तत्रैव ।
तदन्ते तन्मयो भूत्वा जपेदष्टोत्तरं शतम् ॥ ३-४३३ ॥
मूलं तत् सर्वसम्पत्त्यै देवतायै निवेदयेत् ।
(मातृकार्णवे)
माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिशिवात्मकम् ॥ ३-४३४ ॥
प्। १९२) ग्रन्थिः कुण्डलिनी प्रोक्ता कलान्ते मेरुसंस्थितिः ।
(कुमारीकल्पे) तु होमात् पूर्वे जप उक्तः ।
ततो वै मानसजपं कुर्याद्धोमादिमेव च ॥ ३-४३५ ॥
नमस्कृत्य तथा स्तुत्वा बहिर्यागमथाचरेत्- इति ।
(चन्द्रिकायाम्)
इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् ॥ ३-४३६ ॥
न तस्य पापपुण्यानि जीवन्मुक्तो भवेद्भुवि ।
इत्यन्तर्यागविधिः ।
अथ पात्रासादनम् । तदुक्तम् (यामले)
साध्यसाधकयोर्मध्ये षट्त्रिंशदङ्गुलं भवेत् ॥ ३-४३७ ॥
द्वादशाङ्गुलमूर्ध्वं च तदधो द्वादशाङ्गुलम् ।
द्वादशाङ्गुलमध्यस्थं तत्र संस्थापयेद्बुधः ॥ ३-४३८ ॥
(मेरुतन्त्रे)
अथार्घादिकपात्राणां फलं वक्ष्ये शुभाशुभम् ।
सर्वकामप्रदं स्वर्णं रौप्यमायुःसुतप्रदम् ॥ ३-४३९ ॥
सौभाग्यं ताम्रपात्रेण धर्मवृद्धिस्तु मृण्मये ।
नारिकेले देवतुष्टिः पुष्टिकृत् काचसम्भवम् ॥ ३-४४० ॥
लक्ष्मीप्राप्तिर्बिल्वपात्रे ब्राह्मण्यं ब्रह्मवृक्षजे ।
मारणोच्चाटने लौहं स्तम्भे प्राषाणजं भवेत् ॥ ३-४४१ ॥
मन्त्रस्याराधने काष्ठं वाममार्गे तु तौम्बिकम् ।
रत्नादीनां तु पात्राणि शुभरेखाङ्कितानि च ॥ ३-४४२ ॥
अर्घनैवेद्यपूजार्थं वलिदाने प्रकल्पयेत् ।
(महाहारतन्त्रे)
कन्याकोटिप्रदानानि तथा हेमाशतानि च ॥ ३-४४३ ॥
यो ददाति महेशानि राहुग्रस्ते दिवाकरे ।
तत्फलं कोटिगुणितं नारिकेलार्घपात्रतः ॥ ३-४४४ ॥
प्। १९३) शक्तिविषयमिदम् ।
देवताविशेषेण पात्रविशेषमाह (मेरुतन्त्रे)
कांस्यस्य वाथ रौप्यस्य शैवे शङ्खवरो हरौ ।
महाशङ्खो वाममार्गे स्फाटिकं ग्रहनायके ॥ ३-४४५ ॥
पात्राणामादरः कार्यः पात्राण्येवोत्तमानि तु ।
वलिहोमक्रियाद्यं हि विना पात्रं न सिद्ध्यति ॥ ३-४४६ ॥
षट्त्रिंशदङ्गुलं पात्रमुत्तमं परिकीर्तितम् ।
मध्यमं तु त्रिभागोनं कनिष्ठं द्वादशाङ्गुलम् ॥ ३-४४७ ॥
वस्वङ्गुलविहीनं तु न पात्रं कारयेत् क्व चित् ।
नाभीविवररूपाणि पुण्डरीकाकृतीनि च ॥ ३-४४८ ॥
शङ्खिनीलोत्पलाभानि पात्राणि परिकल्पयेत् ।
श्वेतादीन्यतिशस्तानि विप्रादीनां क्रमेण च ॥ ३-४४९ ॥
(तत्त्वसारसंहितायाम्)
शङ्खं ज्ञानप्रदं मुक्ता शुक्तिर्विद्याप्रदायिनी ।
कपालालाबुपात्राणि योगसिद्धिकराणि च ॥ ३-४५० ॥
कपालादिविधिर्वीरपरः ।
(समयाचारे)
सामान्यार्घं ततः कृत्वा पयसा साधकोत्तमः ।
तज्जलैर्मण्डलं कृत्वा पात्राणि स्थापयेत् ततः ॥ ३-४५१ ॥
सामान्यार्घविधिः प्रागुक्तः ।
अथ कलशस्थापनविधिः (सिद्धान्तसारे)
अस्त्रेण भूमिं संशोध्य सामान्यार्घोदकेन च ।
स्ववामे विन्दुषट्कोणवृत्तवेदास्रमण्डलम् ॥ ३-४५२ ॥
संलिख्य मूलमन्त्रान्ते देवतानाम कीर्तयेत् ।
पूजयेत् कलशाधारमण्डलाय नमोऽणुना ॥ ३-४५३ ॥
प्। १९४) आधारं स्थापयेत् तत्र क्षालितं हेतिमन्त्रतः ।
यजेद्दशकलाभिस्तु व्याप्तं तत्राग्निमण्डलम् ॥ ३-४५४ ॥
प्रभाव्य कलशं तत्र स्थापयेद्देवताधिया ।
सूर्यबिम्बं यजेत् तत्र कलाद्वादशसंयुतम् ॥ ३-४५५ ॥
शुद्धेन पाथसा कुम्भं मूलमन्त्रेण पूरयेत् ।
वाममार्गे तु ।
शुद्धेन हेतुना मन्त्री मूलमन्त्रेण पूरयेत् ॥ ३-४५६ ॥
इति मन्त्रान्तरवचनं सुधार्णवादौ स्थितम् । शुद्धेनेति संस्कृतेनेत्यर्थः ।
तथा ।
चन्द्रविम्बं यजेत् तत्र कलाषोडशसंयुतम् ।
तारभागैस्त्रिभिर्मन्त्री विम्बत्रितयमर्चयेत् ॥ ३-४५७ ॥
तीर्थं तत्र समावाह्य हेतिवर्मस्वमूलकैः ।
मन्त्रैः संरक्ष्यावगुण्ठ्य संवीक्ष्याभ्युक्ष्य मन्त्रवित् ॥ ३-४५८ ॥
पूजयेद्गन्धपुष्पाद्यैश्छादयन्मत्स्यमुद्रया ।
मन्त्रेणानेन देवेशि कलशं चाभिमन्त्रयेत् ॥ ३-४५९ ॥
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ ३-४६० ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ ३-४६१ ॥
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।
इत्युक्त्वा मूलमन्त्रेण मन्त्रयेदष्टधा घटम् ॥ ३-४६२ ॥
कुम्भमुद्रां प्रदर्श्याथ भावयेद्देवतात्मकम् ।
प्। १९५) कुम्भमुद्रा त्वग्रे वक्ष्यते ।
(यामले)
स्वदक्षे प्रोक्षणीपात्रमाधायाद्भिः प्रपूरयेत् ॥ ३-४६३ ॥
किञ्चिदर्घ्याम्बु सङ्गृह्य प्रोक्ष्यण्यम्भसि योजयेत् ।
ततः साधारकं पात्रं पुरतः स्थापयेद्बुधः ॥ ३-४६४ ॥
तत्पार्श्वे पाद्यदानं च तत्पाश्वेऽर्घप्रदानकम् ।
आचमनीयं तु तत्पार्श्वे तद्वामे मधुपर्ककम् ॥ ३-४६५ ॥
पुनराचमनीयं च स्नानीयं तत्क्रमान्न्यसेत् ।
अर्घ्याम्बु इति सामान्यार्घोदकमित्यर्थः । सामान्यार्घोदकस्य पात्रासादनात् पूर्वमेव स्वदक्षिणे स्थापनीयत्वात् । अत एव तद्दक्षिणपार्श्वे पाद्यपात्रस्थापनार्थं किञ्चित् स्थलं परित्यज्य प्रोक्षनीपात्रं स्थापयेदिति । तत्पार्श्वेऽर्घप्रदानकमिति पाद्यपात्रवामभागेऽर्घपात्रमित्यर्थः ।
(मेरुतन्त्रादौ तु)
अर्घस्योत्तरदिग्भागे पाद्यमाचमनीयकम् ॥ ३-४६६ ॥
मधुपर्कं च संस्थाप्य त्रिकोणेषु यथाक्रमम् ।
इत्यर्घपात्रस्थापनानन्तरं तद्वामभागे पाद्यादिपात्रस्थापनमुक्तम् । उपचारसमर्पणसमयेऽपि पाद्यदानात् पूर्वमर्घदानं तत्रोक्तम् ।
(नवरत्नेश्वरे)
एकपात्रं न कर्तव्यं यदि साक्षान्महेश्वरः ॥ ३-४६७ ॥
मन्त्राः पराङ्मुखा यान्ति आपदश्च पदे पदे ।
इह लोके च दारिद्र्यं मृते च पशुतां व्रजेत् ॥ ३-४६८ ॥
तत्रैव ।
पात्रद्वयमभावाद्वा कुर्यान्न्यूनं न चाचरेत् ।
(गौतमीये)
अर्घपात्राणि च त्रीणि पाद्यस्यापि त्रयं तथा ॥ ३-४६९ ॥
तथैवाचमनीयानि पात्राणि च विभागशः ।
तथाकरणदौर्बल्यादेकमेव प्रशस्यते ॥ ३-४७० ॥
प्। १९६) पाद्यादिद्रव्याण्युक्तानि (फेत्कारिण्याम्)
उशीरं रोचनं चैव पाद्यपात्रे तु कल्पयेत् ।
कुशाग्रानक्षतं चैव यवव्रीहितिलानपि ॥ ३-४७१ ॥
आज्यसिद्धार्थपुष्पाणि क्षिपेदर्घस्य पात्रके ।
जातीकर्पूरकङ्कोलबहुमूलतमालकान् ॥ ३-४७२ ॥
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ।
माक्षिकं शर्करासर्पिर्दधिक्षीरयुतं तथा ॥ ३-४७३ ॥
मधुपर्कं कल्पयित्वा प्रदद्याद्विधिपूर्वकम् ।
(मेरुतन्त्रे)
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ॥ ३-४७४ ॥
तथा ।
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः ।
दूर्वा इत्यर्घपात्रस्य प्रोक्तं द्रव्याष्टकं सुराः ॥ ३-४७५ ॥
सुरा इति देवसम्बोधनम् ।
तथा ।
जातीलवङ्गकङ्कोलैर्मतमाचमनीयकम् ।
कुशपुष्पयवव्रीहिर्बहुमूलतमालकम् ॥ ३-४७६ ॥
दापयेत् प्रोक्षणीपात्राम्भसि तत्प्रणवेन च ।
(महाकालसंहितायाम्)
अन्यानिवेदितं तोयं प्रकृतिस्थं सुशीतलम् ॥ ३-४७७ ॥
हेमादिकुम्भपात्रस्थं स्नानीयं जलमुच्यते ।
(चन्द्रिकायाम्)
गन्धाद्भिः कारयेत् स्नानम्॥॥॥॥॥॥॥॥॥॥॥ इति ॥ ३-४७८ ॥
(मेरौ)
शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ।
द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः शुभाः ॥ ३-४७९ ॥
प्। १९७) विष्णुपूजायां शङ्खस्थापनमावश्यकम् ।
तदुक्तं कुम्भसम्भवेन ।
विनैव शङ्खं पूजां यो वैष्णवः पूजयेद्धरिम् ।
पूजाफलं न चाप्नोति स सम्यक् पूजकोऽपि सन् ॥ ३-४८० ॥
शङ्खस्थापनविधिरुक्तो (मेरुतन्त्रे) स्ववामे इत्युपक्रम्य ।
त्तेन वेष्टितं सम्यक् त्रिकोणं चन्दनाम्भसा ।
तद्बहिश्चतुरस्रं च विदध्यान्मत्स्यमुद्रया ॥ ३-४८१ ॥
सम्पूज्य गन्धैर्देवार्घ्यमण्डलाय नमोऽणुना ।
अङ्गानि चतुरग्न्यादिकोणेषु पुरतस्तथा ॥ ३-४८२ ॥
दिक्षु चास्त्रं समभ्यर्च्य शङ्खाधारं प्रविन्यसेत् ।
आधारेण विना भ्रंशो न तृप्यन्ति च मातरः ॥ ३-४८३ ॥
तस्माद्विधिवदाधारं त्रिपदं वा चतुष्पपदम् ।
पद्माभं वा त्रिकोणं वा योन्याभं धातुजं तु तत् ॥ ३-४८४ ॥
मूलान्ते चामुकाधारपात्रं संस्थापयामि च ।
उक्त्वा शङ्खादिकाधारं मण्डले स्थापयेदथ ॥ ३-४८५ ॥
म। र। धर्मप्रदेत्युक्त्वा वदेद्दशकलात्मने ।
ङेन्तं वह्नेर्मण्डलं च देवनाम च कीर्तयेत् ॥ ३-४८६ ॥
ततोऽर्घपात्राधाराय नमः प्रोक्त्वा प्रपूजयेत् ।
वह्नेर्दशकलाः पूज्यास्तत्र प्रोक्ताः प्रदक्षिणम् ॥ ३-४८७ ॥
अत्र शङ्खार्घयोरभिधानमुक्तविधानशङ्खविशेषार्घ-स्थापनसाधारण्यादिति बोध्यम् ।
अस्त्रमन्त्रेण च ततः कनकादिविनिर्मितम् ।
अर्घ्यादिपात्रमथ वा शङ्खमस्त्राणुना जलैः ॥ ३-४८८ ॥
प्रक्षाल्यामुकदेवार्घपात्रं प्रतिष्ठापयामि ।
एवमुक्त्वा तदाधारे संस्थाप्यैवं वदेत् पुनः ॥ ३-४८९ ॥
प्। १९८) अर्थप्रदद्वादशेति कलात्मने वदेत् ततः ।
सूर्यमण्डलमुच्चार्य ङेन्तं देवस्य नाम तु ॥ ३-४९० ॥
अर्घपात्राय च नमो मनुनानेन पूजयेत् ।
तत्पात्रमथ तत्रैव भावयेद्भूमिमण्डलम् ॥ ३-४९१ ॥
षट्कोणं तत्र चाङ्गानि पूजयेत् पूर्ववत् ततः ।
कला द्वादशसूर्यस्य प्रोक्ताः पात्रे प्रदक्षिणम् ॥ ३-४९२ ॥
ततः सुधामयैस्तोयैर्मूलान्ते मातृकां पठन् ।
विलोमां पूरयेत् तस्मिन् पूजको मनुनामुना ॥ ३-४९३ ॥
उ। स। कामप्रदेत्युत्का षोडशेति कलात्मने ।
नमः पञ्चदशार्णोऽयं मन्त्रः शङ्खप्रपूरणे ॥ ३-४९४ ॥
तथा तन्त्रान्तरेऽपि ।
कर्णचन्द्रौ विन्दुयुतौ कामप्रदपदं ततः ।
षोडशान्ते कलाशब्दमात्मान्ते हृदयाणुना ॥ ३-४९५ ॥
गन्धपुष्पैः समभ्यर्च्य कलाषोडशकं यजेत् ।
अत्र कर्ण उकारश्चन्द्रोऽर्धचन्द्रो विन्दुरनुस्वारस्तेन उमित्येकमेव बीजं विधाय मुक्तावल्यामुद्धृतम् । स एव प्रकारो नृसिंहठक्कुरैरप्यविचार्य स्वीयग्रन्थे ताराभक्तिसुधार्णवे धृतः । वस्तुतः कर्ण उकारश्चन्द्रः सकारस्तयोर्विन्दुयोगाच्च उ। समिति बीजद्वयमेव ।
सकारः शक्तिनामा च चन्द्रपीयूषशीतलः ॥ ३-४९६ ॥
इति वर्णकोशात् ।
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३-४९७ ॥
इत्यादौ चन्द्रवाचकशीतकिरणपदस्य सकारपरत्वदर्शनाच्च । न च चन्द्रपदस्य क्वचिदर्धचन्द्रपरत्वदर्शनादत्रैकमेव बीजमस्त्विति वाच्यम् । बीजद्वयप्रकाशकमेरुतन्त्रविरोधात् ।
प्। १९९) तथा ।
तत् तोयं गन्धपुष्पाद्यैः पूजयित्वा समर्चयेत् ।
कलाषोडशकं चान्द्रं पश्चात् सर्वकलासु च ॥ ३-४९८ ॥
प्राणप्रतिष्ठां कुर्वीत पूजान्ते सधाकस्ततः ।
वह्न्यर्कचन्द्राणां कलाः प्रागुक्ताः । तत्पूजनप्रकाराश्च (कुलार्णवे)
आग्नेया यादिवर्णोत्था दश धर्मप्रदाः कलाः ॥ ३-४९९ ॥
कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिताः ।
सौम्याः कामप्रदायिन्यः षोडश स्वरजाः कलाः ॥ ३-५०० ॥
विन्दुयुक्तान् यादिदश वर्णान् पूर्वं दत्वाग्निकलाः । कादिठान्तान् भादिडान्तान् प्रतिलोमवर्णा।श्च विन्दुयुक्तानादौ दत्वा सूर्यकलाः । अकारादिषोडशस्वरान् विन्दुयुक्तानादौ दत्वा चन्द्रकलाश्च पूज्या इत्यर्थः । (मेरुतन्त्रे)
प्राग्वत् तीर्थं समावाह्य मूलमन्त्रेण तत्र तु ।
संयोज्य नेत्रमन्त्रेण पुष्पं न्यस्य शिखाणुना ॥ ३-५०१ ॥
प्रदर्श्य गालिनीं मुद्रां मुद्रया धेनुसञ्ज्ञया ।
अमृतीकृत्य विधिवत् सुधाबीजेन साधकः ॥ ३-५०२ ॥
ध्यात्वेष्टदेवतां तत्र सकलीकरणं चरेत् ।
अङ्गन्यासेन चास्त्रेण कलयेच्च दिशो दश ॥ ३-५०३ ॥
नेत्रमन्त्रेण संवीक्ष्य मुद्रया शङ्खसञ्ज्ञया ।
अवष्टभ्य ततो दीप्यमुद्रया योनिरूपया ॥ ३-५०४ ॥
गन्धपुष्पादिभिस्तत्र पूजयेदिष्टदेवताम् ।
षडङ्गानि च सम्पूज्य मन्त्रयेन्मूलमन्त्रतः ॥ ३-५०५ ॥
अष्टकृत्त्वस्ततश्चार्घ्यं छादयेन्मत्स्यमुद्रया ।
वैष्णवे तु योनिमुद्रास्थाने धेनुमुद्रैव । तदुक्तमागस्त्येन ।
अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठयेत् ॥ ३-५०६ ॥
प्। २००) दर्शयेद्धेनुमुद्रां च बोधयेत् तत्स्वमुद्रया- इति ।
स्वमुद्रया शङ्खमुद्रया । मुद्रास्त्वग्रे वक्ष्यामः । (मेरौ)
तच्छङ्खस्थं जलं किं चित् कुम्भतोये विनिःक्षिपेत् ॥ ३-५०७ ॥
तन्त्रान्तरे ।
स्वदक्षे प्रोक्षणीपात्रं संस्थाप्य साधकोत्तमः ।
तदुत्तरे पाद्यपात्रमर्घद्वन्द्वं च कल्पयेत् ॥ ३-५०८ ॥
अर्घद्वन्द्वमिति । सामान्यार्घं विशेषार्घं चेत्यर्थः ।
अर्घपात्रप्रमाणमुक्तम् (सिद्धान्तसारे)
तलप्रमाणमर्घस्य पात्रं वेदाङ्गुलोच्छ्रितम् ।
वस्वङ्गुलं वा कुर्वीत नेत्राङ्गुलसमुच्छ्रितम् ॥ ३-५०९ ॥
वर्द्धयेत् प्रोक्षणीपात्रं तस्मान्न्यूनं न कारयेत् ।
(महाकालसंहितायाम्)
आदौ मुख्यतमं ज्ञेयं षोडशाङ्गुलसम्मितम् ॥ ३-५१० ॥
मध्यमं द्वादशमितमधमं स्याद्दशाङ्गुलम् ।
वस्वङ्गुलविहीनं तु पात्रं नैव च कारयेत् ॥ ३-५११ ॥
सर्वत्र स्वर्णवत् ताम्रमर्घ्यपात्रं ततोऽधिकम् ।
तत्र सामान्यार्घस्थापनविधिः प्रागुक्तः । विशेषार्घ-स्थापनं तु पूर्वोक्तशङ्खस्थापनवत् कार्यम् । श्यामादिविद्यायां तु विशेषविधिरुक्तः । यथा (त्रिशक्तिरत्ने)
कलशाद्दक्षिणे भागे त्रिकोणं वृत्तसंयुतम् ॥ ३-५१२ ॥
षट्कोणं चतुरस्रं च कृत्वा तन्मध्यभागतः ।
विलसच्चन्द्रशकलं गन्धर्वं च समालिखेत् ॥ ३-५१३ ॥
उजापूकादिकं पीठं तच्चतुर्दिक्षु पूजयेत् ।
अङ्गमन्त्रैश्च षट्कोणे शक्तौ मूलत्रिभेदतः ॥ ३-५१४ ॥
आधारशक्तिं सम्पूज्य पूर्ववद्यन्त्रिकामपि ।
महाशङ्खं नारिकेलं सौवर्णं राजतं तथा ॥ ३-५१५ ॥
प्। २०१) ताम्रं शुक्त्युद्भवं वापि पात्रं तत्र निधापयेत् ॥ ३-५१५एफ़् ॥
गन्धर्वमिति । ईकारमित्यर्थः । उजापूकादीति । उड्डियानजालन्धर-पूर्णगिरिकामरूपाख्यानि पीठानीत्यर्थः । शक्तौ इति । त्रिकोणे कौलिकमतमभिप्रेत्य महाशङ्खमित्युक्तिः ।
पात्रभेदास्तन्त्रान्तरेऽप्युक्ताः ।
पात्रं काञ्चनकाचरूप्यजनितं मुक्ताकपालोद्भवं
वैश्वामित्रमुदं च कामदमिदं हैमं प्रियं स्फाटिकम् ।
ताम्रं प्रीतिदमिष्टसिद्धिजनकं श्रीनारिकेलोद्भवं
पापघ्नं स्फुटमन्त्रसिद्धिजनकं मुक्तिप्रदं मौक्तिकम् ॥ ३-५१६ ॥
(त्रिशक्तिरत्ने)
समर्च्य पूर्ववन्मन्त्री पात्रं द्रव्येण पूरयेत् ।
जपन् विलोमतो वर्णान् मूलमन्त्रसमुज्ज्वलान् ॥ ३-५१७ ॥
(भैरवतन्त्रे)
सकूर्चं सुभगं पात्रं विन्यस्य शुद्धपाथसा ।
कुण्डगोलोद्भवेनापि स्वयम्भूकुसुमेन वा ॥ ३-५१८ ॥
वीरः स्राव्येण चापूर्य मूलविद्यां समुच्चरन् ।
शुद्धपाथसेत्यादि । दक्षिणमार्गी शुद्धजलेन । वाममार्गी चेत् कुण्डगोलोद्भवादिना पाथसापूर्येत्यर्थः । (त्रिशक्तिरत्ने)
सम्पूज्य पूर्ववत् तत्र वृत्तं षट्कोणमालिखेत् ॥ ३-५१९ ॥
अकथादित्रिरेखाभ्यां त्रिकोणं वृत्तमध्यतः ।
मूलखण्डत्रयेणाथ त्रिकोणं परिपूजयेत् ॥ ३-५२० ॥
षट्कोणे च षङङ्गानि ततस्तीर्थमयं स्मरेत् ।
आनन्दभैरवं ध्यात्वा समभ्यर्च्य विधानतः ॥ ३-५२१ ॥
पूजयेत् पञ्चरत्नानि कुलद्रव्याणि निःक्षिपेत् ।
प्। २०२) पञ्चरत्नानीति । गगनरत्नादीनि पद्धतौ वक्ष्यन्ते ।
(कुमारीकल्पे)
अर्घद्रव्यं चार्घपात्रे निःक्षिपेद्यत्नतः सुधीः ॥ ३-५२२ ॥
कुण्डगोलोद्भवं द्रव्यं स्वयम्भूकुसुमं तथा ।
नाधर्मं विद्यते सुभ्रु महामन्त्रस्य साधने ॥ ३-५२३ ॥
(त्रिशक्तिरत्ने)
रचयेत् पूर्ववच्छेषमयमर्घविधिः स्मृतः ।
(भैरवतन्त्रे)
वामेन पाणिनाच्छाद्य मूलमष्टौ जपेत् ततः ॥ ३-५२४ ॥
भूतिनीं धेनुमुद्रां च योनिमुद्रां प्रदर्शयेत् ।
अत्र कुण्डगोलोद्भवस्वयम्भूकुसुमादिकुलद्रव्यनिःक्षेपविधिर्-वीरपरः । (पशुकल्पे तु)
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः ॥ ३-५२५ ॥
दूर्वा इत्यर्घपात्रस्य प्रोक्तं द्रव्याष्टकं सुराः ।
इति मेरुतन्त्रोक्तद्रव्याष्टकस्यैव निःक्षेपो बोध्यः ।
एवं च वामेन पाणिनेत्यपि वाममार्गिपरम् । दक्षिणमार्गे तु दक्षिणहस्तेनैवाच्छादनं सम्प्रदायसिद्धम् ।
(भैरवतन्त्रे)
किं चित् तोयं समादाय चान्यपात्रेषु निःक्षिपेत् ॥ ३-५२६ ॥
पूजाद्रव्याणि चात्मानं प्रोक्षयेत् तेन वारिणा ।
(देवी पद्धतौ)
विशेषार्घोत्तरे भागे पात्रमाचमनीयकम् ॥ ३-५२७ ॥
मधुपर्कं च तद्वामे स्थापयेत् सुरवन्दिते ।
सम्पृक्तं मधुपर्कं स्यात् क्षौद्रं दध्ना घृतेन च ॥ ३-५२८ ॥
प्रीतिकृत् सर्वदेवानां कांस्यपात्रे प्रकीर्तितम् ।
कांस्यपात्रे च सकलसाधारणम् ।
देवतादिभेदेन मधुपर्कपात्रभेदो (मेरुतन्त्रे)
कांस्यस्य वाथ रूप्यस्य शैवे शङ्खवरो हरौ ॥ ३-५२९ ॥
प्। २०३) महाशङ्खो वाममार्गे स्फाटिकं ग्रहनायके ।
तत्रैव ।
मधुपर्कस्तु सक्षौद्रं दधि तच्चेन्न वभ्यते ॥ ३-५३० ॥
दधिदुग्धं गुडः क्षौद्रे घृतप्रतिनिधिर्न हि ।
मधुपर्कपदार्थ उक्तस्तत्रैव ।
परमं यत् पदं देवा मधुसञ्ज्ञं तदुच्यते ॥ ३-५३१ ॥
तदाप्यते येन कर्म तत् प्रोक्तं मधुपर्ककम् ।
देवतोद्देश्यकं यद्दानं परमपदप्राप्तिफलकं स मधुपर्कपदार्थ इत्यर्थः । इदं च मधुपर्कप्रदानजन्य-फलानुकीर्तनपरम् । वस्तुतस्तु मधुना पृच्यते दध्याद्यस्मिन्निति मधुपर्कपदव्युत्पत्तिः । पृची सम्पर्क इति धात्वनुसारात् ।
(श्रीनृसिंहचरणार्चनपद्धतौ)
पुनराचमनीयार्थं पात्रं संस्थापयेत् ततः ॥ ३-५३२ ॥
स्नानं शङ्खोदकेनैव देवदेवस्य चक्रिणः ।
शैवे तु शङ्खोदकं निषिद्धम् ।
तदुक्तम् (सिद्धान्तसङ्ग्रहे)
नाक्षतैरर्चयेद्विष्णुं न तुलस्या विनायकम् ॥ ३-५३३ ॥
न दुर्वया यजेद्दुर्गां न शम्भुं शङ्खवारिणा ।
पाद्याचमनीयादिपात्रस्थापनं तु सामान्यार्घस्थापनवत् कार्यम् । तदुक्तं तत्रैव ।
सामान्यार्घोक्तविधिना कुर्यात् पाद्यादिपात्रकम्- इति ॥ ३-५३४ ॥
(महाकालसंहितायाम्)
तानि गन्धाक्षतजलकुसुमैः परिपूरयेत् ।
पाद्ये पाद्योक्तवस्तूनि अर्घ्ये अर्घ्योदितानि च ॥ ३-५३५ ॥
स्नानीयाचमनादौ च द्रव्याण्युक्तानि वै पुरा ।
तैरन्वितानि कार्याणि पात्राणि सकलानि च ॥ ३-५३६ ॥
(मेरुतन्त्रे)
एकैकपात्रं मूलेन ह्यष्टकृत्त्वोऽभिमन्त्रयेत् ।
प्रदर्शयेद्धेनुमुद्राम् ॥॥॥॥। इति ॥ ३-५३७ ॥
प्। २०४) तन्त्रान्तरे वीरकल्पे तु श्रीपात्रं शक्तिपात्रादिस्थापनमुक्तम् ।
(महाकालसंहितायाम्)
अस्मिन्नेव ह्यवसरे श्रीपात्रस्थापनं चरेत् ।
कौलः प्रसन्नया कुर्यात् क्षीरमध्वादिभिर्द्विजैः ॥ ३-५३८ ॥
यतिस्तु नोभयं कुर्यान्नेच्छत्याभ्यामिति द्विजः ।
प्रसन्नया सुरया । द्विजैः राजन्यवैश्यैः । द्विजो विप्रः । आभ्यां क्षीरमधुभ्यामपि नेच्छतीत्यर्थः । अस्मिन् कल्पे तस्यानधिकारादिति भावः ।
तथा ।
अतः कौलिककार्यार्थं विशिष्य तदहं ब्रुवे ॥ ३-५३९ ॥
तद्विधिस्त्वसाधारणत्वान्नेह लिख्यते ।
क्व चित् तु ।
दक्षिणे मण्डलं कृत्वा श्रीपात्रं स्थापयेत् सुधीः ।
विशेषार्घोक्तविधिना ������������- इत्युक्तम् ॥ ३-५४० ॥
दक्षिणे श्रीपात्रस्थापनमुक्त्वा शक्तिपात्रादिस्थापनक्रममाह ।
(महाकालसंहितायाम्)
वामे संस्थापयेच्छक्तिपात्रं त्रिदशवन्दिते ।
मध्ये चत्वारि पात्राणि पुनरन्यानि योजयेत् ॥ ३-५४१ ॥
गुरुर्भोगश्च वीरश्च कुलं चेति प्रकीर्तितम् ।
श्रीपात्रस्य च ये मन्त्रास्ते मन्त्राः सर्वपात्रगाः ॥ ३-५४२ ॥
श्रीपात्रस्य क्रिया या हि सा क्रिया सर्वपात्रगा ।
तादृक्क्रियाद्यशक्तु तु सामान्येनापि पूजयेत् ॥ ३-५४३ ॥
पृथक्कला न चार्च्यास्तु दश द्वादश षोदश ।
शक्तेरावाहनं शक्तौ गुरोरपि गुरौ तथा ॥ ३-५४४ ॥
परिवारान् भोगपात्रं वीरे त्वावरणात्मिकान् ।
कौलिकान् कुलपात्रे च समावाह्य यजेच्छनैः ॥ ३-५४५ ॥
तथा ।
श्रीपात्रस्याधिकारी तु स्वयमेव न चेतरः ।
प्। २०५) शक्तेस्तु शक्तिपात्रं स्यात् गुरुपात्रं गुरोरपि ॥ ३-५४६ ॥
भोगपात्रं सुतादीनां शिष्याणां वीरपात्रकम् ।
कुलपात्रं कौलिकानां निर्णयः प्रोक्त ईदृशः ॥ ३-५४७ ॥
तन्त्रान्तरे तु ।
श्रीपात्रघटयोर्मध्ये सर्वपात्राणि स्थापयेत् ।
गुरुपात्रं घटस्थान्ते तदन्ते भोगपात्रकम् ॥ ३-५४८ ॥
तदन्ते शक्तिपात्रं च योगिनीनां तदन्तिके ।
तदन्ते वीरपात्रं च वलिपात्रं तदन्तिके ॥ ३-५४९ ॥
पाद्यं चाचमनीयं च पात्राणि स्थापयेत् क्रमात् ।
उत्तमं नव पात्राणि सप्त पात्राणि मध्यमम् ॥ ३-५५० ॥
अधमं त्रीणि पत्राणि एकपात्रं न कारयेत्- इत्युक्तम् ।
पाद्यं चामनीयं चेत्युपलक्षणम् । अर्घस्नानीयादिपात्राण्यपि स्थापनीयनि ।
एतावदशक्तौ (त्रिशक्तिरत्ने)
अथवा कलशं शङ्खं शक्तिपात्रत्रयं भवेत् ॥ ३-५५१ ॥
अस्मिन् कल्पेऽपि पाद्यादिपात्राणि स्थापनीयानि पूजोपयुक्त्वादिति सुधार्णवकृतः । पाद्यं चाचमनीयं च अर्घं च नवमं विदुरिति मन्त्रचिन्तामणिकृल्लिखितपाठः प्रामादिकः । सुधार्णवकल्पलतादिषु बहुषु ग्रन्थेषु एतादृशपाठस्यानुपलम्भात् । अर्घपात्रस्य नवमपात्रत्वे श्रीपात्रस्यातिरिक्तत्वापत्तेश्च ।
अत एव (कुलरत्नावल्याम्)
कुलकुम्भश्च श्रीपात्रं शक्तिपात्रं तथैव च ।
गुरुपात्रं भोगपात्रं योगिनीपात्रमेव च ॥ ३-५५२ ॥
कुलपात्रं वीरपात्रं नवमं वलिपात्रकम्- इत्युक्तम् ।
(त्रिशक्तिरत्ने)
पुष्पादिना समुद्धृत्य विन्दुं शङ्खामृतस्य च ॥ ३-५५३ ॥
निःक्षिपेत् सर्वपात्रेषु सर्वं दिव्यं विभावयेत् ।
(तत्त्वार्णवे)
ध्यात्वैवं तर्पयेन्मूर्ध्नि तावुभौ साधकः सुधीः ॥ ३-५५४ ॥
प्। २०६) तावुभाविति । आनन्दभैरवमानन्दभैरवीं चेत्यर्थः । तयोर्ध्याने त्वग्रे वक्ष्येते ।
(त्रिशक्तिरत्ने)
ब्रह्मरन्ध्रे स्वके मन्त्री मुद्रया तत्त्वसञ्ज्ञया ।
तर्पयेद्गुरुपात्रीयद्रव्येणौघत्रयं सुधीः ॥ ३-५५५ ॥
स्वगुरूनपि सन्तर्प्य त्रिः सकृद्वा विशेषतः ।
आत्मनो हृदयाम्भोजे परिवारगणावृताम् ॥ ३-५५६ ॥
देवीपात्रामृतेनापि तर्पयेत् कुलनायिकाम् ।
देवीपात्रं श्रीपात्रम् । तत्त्वमुद्रा वक्ष्यते । ओघत्रयमिति । दिव्यौघं सिद्धौघं मानवौघं चेत्यर्थः ।
तत्र श्यामाया दिव्यौघा गुरुपङ्क्त्य उक्ता (भावचूडामणौ)
तत्रादौ कालिका देवी तस्याः शृणु गुरुक्रमम् ॥ ३-५५७ ॥
महादेवी महादेवस्त्रिपुरश्चैव भैरवः ।
दिव्यौघा गुरवः प्रोक्ताः सिद्धौघान् कथयामि ते ॥ ५५८ ॥
ब्रह्मानन्दः पूर्णदेवश्चलचित्तश्चलाचलः ।
कुमारः क्रोधनश्चैव वरदः स्मरदीपनः ॥ ३-५५९ ॥
माया मायावती चैव मानवौघान् शृणु प्रिये ।
विमलः कुशलश्चैव भीमसेनः सुधाकरः ॥ ३-५६० ॥
मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ।
मूलदेवोऽवन्तिदेवो विघ्नेश्वरहुताशनौ ॥ ३-५६१ ॥
सन्तोषः समयानन्दः कालिकागुरवः स्मृताः ।
दिव्या वसन्ति खे नित्यं सिद्धा भूमाविहापि च ॥ ३-५६२ ॥
मानवौघा मानवेषु मम रूपधराः सदा ।
आनन्दनाथशब्दान्ता गुरवः सर्वसिद्धिदाः ॥ ३-५६३ ॥
स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परिकीर्तिताः ।
मानवौघान्तिमे देवि स्वगुरूनपि योजयेत् ॥ ३-५६४ ॥
प्। २०७) ताराविद्याया गुरुपङ्क्तयोऽपि तत्रैव ।
अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् ।
रुर्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ॥ ३-५६५ ॥
दिव्यौघाः सिद्धिदा वत्स सिद्धौघान् शृणु तत्त्वतः ।
वशिष्ठः कूर्मनाथश्च मीननाथो महेश्वरः ॥ ३-५६६ ॥
हरिनाथो मानवौघानथ वक्ष्यामि सद्गुरून् ।
तारावती भानुमती जया विद्या महोदरी ॥ ३-५६७ ॥
सुखानन्दः परानन्दः पारिजातः कुलेश्वर ।
विरूपाक्षः केररी च कथितं तारिणीकुलम् ॥ ३-५६८ ॥
आनन्दनाथशब्दान्ता गुरवः सर्वसिद्धिदाः ।
स्त्रियोऽपि गुरुरूपाश्च देव्यन्ताः परिकीर्तिताः ॥ ३-५६९ ॥
अथ श्रीविद्यागुरवस्तत्रैव ।
अथ वक्ष्यामि देवेशि श्रीषोडश्या गुरुक्रमम् ।
आनन्दनाथदेवश्च परप्रकाशकस्तथा ॥ ३-५७० ॥
ततः परशिवो देवः परशक्तिस्ततः परम् ।
कौलेश्वरः शक्तिदेवः कुलेशानश्च कामुकः ॥ ३-५७१ ॥
सिद्धौघान् कथयिष्यामि भोगक्रीडश्च भैरवः ।
समयो देवसहजौ मानवौघान् शृणु प्रिये ॥ ३-५७२ ॥
गणेशो विष्णुविमलौ सहजो भुवनस्तथा ।
नीलश्च सुप्रियः पश्चात् कथिता गुरवः क्रमात् ॥ ३-५७३ ॥
अथ दुर्गागुरुपङ्क्तयस्तत्रैव ।
शृणु वत्स महादेव गुरून् दुर्गामनूद्भवान् ।
परमात्मा परानन्दः परमेष्ठी महोदयः ॥ ३-५७४ ॥
कृष्णः कालः कलानाथो दिव्यौघा भैरवान्तिकाः ।
प्। २०८) नारदः काश्यपः शम्भुर्भार्गवः कुलकौलिकः ॥ ३-५७५ ॥
एते पञ्च महादेव सिद्धौघाः परिकीर्तिताः ।
रुद्राचार्यः क्षमाचार्यः पवनाशनसञ्ज्ञकः ॥ ३-५७६ ॥
कुमारीशः शक्तिधरो घनानन्दः प्रकाशकः ।
हरिशर्मा विष्णुशर्मा दत्तात्रेयः प्रियंवदः ॥ ३-५७७ ॥
बहुला शाकिनी देवी चर्यानाथः प्रकीर्तितः ।
एवं तत्तद्विद्यागुरुपङ्क्तयस्तत्तत्कल्पेभ्योऽवगन्तयाः । एषां तर्पणं तु श्रीअमुकानन्दनाथश्रीपादुकां तर्पयामि । एवं श्री अमुक्यम्बाश्रीपादुकां तर्पयामि इत्यादि ।
गुरुचतुष्टयमुक्तम् (भावनिर्णये)
गुरुः परमगुरुश्चैव परापरगुरुस्तथा ॥ ३-५७८ ॥
परमेष्ठी गुरुश्चैव स्वस्वाम्नायै प्रतर्पयेत् ।
(कुलचूडामणौ)
अज्ञाने गुरुनाम्नां वै गुरुत्रितयमर्चयेत् ॥ ३-५७९ ॥
चतुष्टयम् वा सङ्कोचो न कर्त्तव्यस्ततः परम् ।
(भावनिर्णये)
आदौ सर्वत्र देवेशि मन्त्रदः परमो गुरुः ॥ ३-५८० ॥
परापरगुरुस्त्वं हि परमेष्ठिरहं यतः ।
अथ तत्त्वशुद्धिर्यथा । तत्र ॐ श्रुतिः प्राणापानव्यानोदान-समाना मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ।
ॐ पृथिव्यप्तेजोवाय्वाकाशानि मे शुद्ध्यन्तां ज्योतिरित्यादि । ॐ प्रकृत्यहङ्कारबुद्धिमनःश्रोत्राणि मे शुद्ध्यन्तामित्यादि । ॐ वाक्चक्षुःश्रोत्रजिह्वाघ्राणवचांसि मे शुद्ध्यन्तामित्यादि । ॐ पाणिपादपायूपस्थशब्दा मे शुद्ध्यन्तामित्यादि । ॐ स्पर्शरूपरसा-काशा मे शुद्ध्यन्तामित्यादि । ॐ वायुतेजःसलिलभूम्यात्मानो मे शुद्ध्यन्तामित्यादि । सप्त मन्त्रान् परामृशन् हस्ताभ्यां सप्तधा सर्वाङ्गे स्पृशेदिति तत्त्वशुद्धिः ।
वामाचारे त्वस्मिन्नेव समये वटुकादिभ्यो वलिं प्रयच्छति तद्विधिरग्रे वक्ष्यते । तन्त्रान्तरे ।
प्। २०९) तत्त्वशुद्धिं विधायेत्थं पूजाद्रव्याणि शोधयेत् ॥ ३-५८१ ॥
(मेरुतन्त्रे)
सेचयेत् प्रोक्षणीपात्रतोयैर्मूलास्त्रमुच्चरन् ।
आत्मानं यागवस्तूनि पूजाद्रव्याणि मण्डलम् ॥ ३-५८२ ॥
दर्शयेद्धेनुमुद्रां च द्रव्यशुद्धिरियं मता ।
योगपीठन्यासदेवा।स्तत्तत्स्थानेषु पूजयेत् ॥ ३-५८३ ॥
मणिपीठे भावनया ततः पूज्या स्वदेवता ।
आत्मानं देवतारूपं ध्यायेन्मूलेन पञ्च तु ॥ ३-५८४ ॥
पुष्पस्याञ्जलयो देया मस्तके हृदये गुदे ।
पादयोः सर्वगात्रे च पूजयेच्चन्दनादिभिः ॥ ३-५८५ ॥
चतुर्भिरुपचारैश्च नैवेद्यं न निवेदयेत् ।
गुरूपदिष्टविधिना शेषमन्यत् समापयेत् ॥ ३-५८६ ॥
प्रोक्षिण्यद्भिः प्रयुञ्जीत सर्वमेतत् समाहितः ।
कृत्वा षडङ्गन्यासं च मन्त्रमष्टोत्तरं शतम् ॥ ३-५८७ ॥
जपित्वा देवतायै तमर्पयेदर्घ्यतोयतः ।
पानीयं प्रोक्षणीसंस्थं त्यक्त्वा सम्पूर्य पूर्ववत् ॥ ३-५८८ ॥
उपचारैश्चन्दनाद्यैर्मण्डले पूजयेद्गुरुम् ।
पूजयेत् कर्णिकां पूर्वं शालिभिस्तण्डुलैस्ततः ॥ ३-५८९ ॥
दर्भान् न्यसेदुपर्येषां साक्षतं कूर्चकं ततः ।
छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसङ्ख्यकाः ॥ ३-५९० ॥
ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्च इहोच्यते ।
यजेदाधारशक्त्यादिपीठमन्त्रावसानकम् ॥ ३-५९१ ॥
पीठपूजाप्रकारमाह तत्रैव ।
गुरुपङ्क्तिरुदक् पूज्या महागणपतिस्त्ववाक् ।
प्। २१०) पूजयेदतलादीनि देवस्याधस्तु सप्त च ॥ ३-५९२ ॥
मण्डूकं चापि तस्योर्ध्वं रुद्रं कालानलं ततः ।
(शारदायाम्)
अधः कूर्मशिलारूढां शरच्चन्द्रनिभप्रभाम् ॥ ३-५९३ ॥
आधारशक्तिं प्रयजेत् पङ्कजद्वयधारिणीम् ।
कूर्मशिलारूढामिति । कूर्माकरा या शिला तदुपरि स्थितामित्यर्थः ।
(तथा)
मूर्ध्नि तस्याः समारूढं कूर्मं नीलाभमर्चयेत् ॥ ३-५९४ ॥
रुर्ध्वं ब्रह्मशिलासीनमनन्तं कुन्दसन्निभम् ।
यजेच्चक्रधरं मूर्ध्नि धारयन्तं वसुन्धराम् ॥ ३-५९५ ॥
तमालश्यामलां तत्र नीलेन्दीवरधारिणीम् ।
अभ्यर्चयेद्वसुमतीं स्फुरत्सागरमेखलाम् ॥ ३-५९६ ॥
तस्यां रत्नमयं द्वीपं तस्मि।श्च मणिमण्डपम् ।
यजेत् कल्पतरू।स्तस्मिन् साधकाभीष्टसिद्धिदान् ॥ ३-५९७ ॥
अधस्तात् पूजयेत् तेषां वेदिकां मण्डलोज्ज्वलाम् ।
पश्चादभ्यर्चयेत् तस्यां पीठं धर्मादिभिः पुनः ॥ ३-५९८ ॥
रक्तश्यामहरिन्द्रेन्द्रनीलाभान् पादरूपिणः ।
वृषकेशरिभूतेभरूपान् धर्मादिकान् यजेत् ॥ ३-५९९ ॥
गात्रेषु पूजयेत् ता।स्तु नञ्पूर्वानुक्तलक्षणान् ।
भूतो देवयोनिः । नञपूर्वानिति अधर्मादीनित्यर्थः । उक्तलक्षणानिति वृषभाद्याकारान् रक्तादिवर्णानित्यर्थः ।
(मेरुतन्त्रे) त्वधर्मादयश्चित्रवर्णा उक्ताः ।
धर्मं वृषतनुं रक्तं ज्ञानं कृष्णं च सिंहवत् ॥ ३-६०० ॥
वैराग्यं भूतवत् पीतमैश्वर्यं कृष्णहस्तिवत् ।
अधर्मादी।श्चित्रवर्णान् पीठस्याधः समर्चयेत् ॥ ३-६०१ ॥
प्। २११) तथा ।
आग्नेयादिषु कोणेषु दिक्षु चाथाम्बुजं यजेत् ।
तत्प्रकारमाह ।
आनन्दकन्दं प्रथमं संविन्नालमनन्तरम् ॥ ३-६०२ ॥
सर्वतत्त्वात्मकं पद्ममभ्यर्चेत् तदनन्तरम् ।
मन्त्री प्रकृतिपत्राणि विकारमयकेशरान् ॥ ३-६०३ ॥
पञ्चाशद्वर्णबीजाढ्यां कर्णिकां पूजयेत् ततः ।
कलाभिः पूजयेत् सार्धं तस्यां सूर्येन्दुवाचकान् ॥ ३-६०४ ॥
प्रणवस्य त्रिभिर्भागैरथ सत्त्वादिकान् गुणान् ।
आत्मानमन्तरात्मानं परमात्मानमर्चयेत् ॥ ३-६०५ ॥
ज्ञानात्मानं च विधिवत् पीठमन्त्रावसानकम् ।
पीठशक्तीः केशरेषु मध्ये च सवराभयाम् ॥ ३-६०६ ॥
नवमी पीठशक्तिर्मध्ये पूज्येत्यर्थः ।
तदुक्तम् (मेरुतन्त्रेऽपि)
केशरेषु तथा मध्ये पूर्वादिषु यथाक्रमम् ।
तत्तन्मन्त्रोक्तपीठस्य नव शक्तीः प्रपूजयेत् ॥ ३-६०७ ॥
पीठमन्त्रेण गन्धाद्यैः पीठमध्ये ततोऽर्चयेत् ।
चतुर्थीनमसा युक्तैः स्वैः स्वैरेव तु नामभिः ॥ ३-६०८ ॥
मध्येपुष्पाञ्जलिं दद्यात् पीठमन्त्रेण साधकः ।
मूलमन्त्रं समुच्चार्य षष्ठ्यन्तं पीठनाम च ॥ ३-६०९ ॥
मूर्तिं च कल्पयामीति मूर्तिं मध्ये विनिःक्षिपेत् ।
(महाकपिलपञ्चरात्रे)
सौवर्णं कलशं रम्यं रौप्यं ताम्रमथापि वा ॥ ३-६१० ॥
निर्दोषं मृण्मयं चापि चन्दनेन विलेपितम् ।
प्। २१२) कलशपरिमाणं तु ।
पञ्चाशदङ्गुलो व्यास उत्सेधः षोडशाङ्गुलः ॥ ३-६११ ॥
कलशानां प्रमाणं तु मुखमष्टाङ्गुलं भवेत् ।
इति (सिद्धान्तसारे) प्रोक्तम् ।
(शारदायाम्)
हेमादिरचितं कुम्भमस्त्राद्भिः क्षलितान्तरम् ॥ ३-६१२ ॥
चन्दनागुरुकर्पूरधूपितं शोभनाकृतिम् ।
आवेष्टिताङ्गं नीरन्ध्रं तन्तुना त्रिगुणात्मना ॥ ३-६१३ ॥
सूत्रे विशेष उक्तस्तन्त्रान्तरे ।
कन्याकर्तितसूत्रेण त्रिगुणेन च वर्त्मना ।
गुणत्रयात्मकेनैव वेष्टयेदभितः समम् ॥ ३-६१४ ॥
(शारदायाम्)
अर्चितं गन्धपुष्पाद्यैः कूर्चाक्षतसमन्वितम् ।
नवरत्नोदरं मन्त्री स्थापयेत् तारमुच्चरन् ॥ ३-६१५ ॥
(मेरुतन्त्रे)
ध्रुवं जपन् विधानेन स्थापयेद्देशिकोत्तमः ।
नवरत्नानि निःक्षिप्य कुम्भे कूर्चमथोपरि ॥ ३-६१६ ॥
दूर्वाचन्दनसंयुक्तं विन्यसेद्दक्षिणान्वितम् ।
नवरत्नानि तत्रैवोक्तानि ।
पुष्पं१ नीलं२ च वैदूर्यं३ विद्रुमं४ मौक्तिकं५ तथा ॥ ३-६१७ ॥
ततो मरकतं६ वज्रं७ गोमेदं८ पद्मरागकम्९ ।
प्रोक्तानि नव रत्नानि देशिकैस्तन्त्रवित्तमैः ॥ ३-६१८ ॥
आद्यन्तं क्रमतो मन्त्रं मातृकां मनसा जपन् ।
मूलमन्त्रं जपन्नन्ते चिन्तयन्नैक्यमात्मनः ॥ ३-६१९ ॥
प्। २१३) घटस्य पीठाभेदं च चिन्तयेत् साधकोत्तमः ।
पञ्चाशदौषधीक्वाथैः पूरयेत् तदनन्तरम् ॥ ३-६२० ॥
एकेन सहितास्ताश्च वर्णौषध्यश्च ता इमाः ।
चन्दनं चापि रक्ताख्यचन्दनं चागुरुस्तथा ॥ ३-६२१ ॥
कर्पूरोशीरकुष्टानि बालकं चापि केसरम् ।
कङ्कोलकं जातिफलं जटामांसी मुरा तथा ॥ ३-६२२ ॥
ग्रन्थिकं रोचना जातीपत्रं पिप्पलबिल्वकौ ।
पृश्निपर्णी चित्रकं च लवङ्गं कत्तृणं तथा ॥ ३-६२३ ॥
कट्फलं चापि गुञ्जा स्यादुदुम्बरककाश्मरी ।
पद्मकाष्ठं शङ्खपुष्पी मयूरस्य शिखा तथा ॥ ३-६२४ ॥
प्लक्षोऽग्निमन्थश्च तथा मुद्गपर्णी कुशाः पुनः ।
पाषाणभेदकः कृष्णशङ्खपुष्पी च रोहिणी ॥ ३-६२५ ॥
स्योनाको बृहती चैव पाटली मूषकर्णिका ।
तुलसी शिखरी इन्द्रवल्ली भृङ्गाभिधो नृपः ॥ ३-६२६ ॥
ततोऽपराजिता तालमूली चापि कृताञ्जली ।
दूर्वा श्रीदेविकन्याख्ये भार्ग्यथो भद्रमुस्तकः ॥ ३-६२७ ॥
लवङ्गरहिताश्चैताः पञ्चाशत्सङ्ख्यका इति ।
दुग्धवृक्षत्वचां क्वथैर्ब्रह्मभूरुट्त्वगुद्भवैः ॥ ३-६२८ ॥
पूरयेदिति शेषः ।
(शारदायाम्)
ऐक्यं सङ्कल्प्य कुम्भस्य पीठस्य च विधानवित् ।
क्षीरिद्रुमकषायेण पलाशत्वग्भवेन वा ॥ ३-६२९ ॥
तीर्थोदकैर्वा कर्पूरगन्धपुष्पसुवासितैः ।
आत्माभेदेन विधिवत् मातृकां प्रतिलोमतः ॥ ३-६३० ॥
प्। २१४) जपन्मूलमनुं तद्वत् पूरयेद्देवताधिया ।
शङ्खे क्वाथाम्बुसम्पूर्णं गन्धाष्टकमभीष्टदम् ॥ ३-६३१ ॥
विलोड्य पूजयेत् तस्मिन्नावाह्य कलशे कलाः ।
दश वह्नेः कलाः पूर्वं द्वादश द्वादशात्मनः ॥ ३-६३२ ॥
षोडशापि च सोमस्य पश्चात् पञ्चाशतं कलाः ।
जपेद्वा प्रतिलोमेन मूलमन्त्रं च मन्त्रवित् ॥ ३-६३३ ॥
समाहितेन मनसा ध्यायन्मन्त्रस्य देवताम् ।
प्राणप्रतिष्ठां कुर्वीत तत्र तन्त्रविचक्षणः ॥ ३-६३४ ॥
कलात्मकं शङ्खसंस्थं क्वाथं कुम्भे च निःक्षिपेत् ।
(मेरुतन्त्रे)
गन्धपङ्कप्रसूनादिवासितैर्वा शुभैर्जलैः ॥ ३-६३५ ॥
क्वाथादितोयैरापूर्य शङ्खं तस्मिन् विलोडयेत् ।
गन्धाष्टकं तस्य तस्य देवस्याथ प्रकीर्त्त्यते ॥ ३-६३६ ॥
चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदम् ।
रक्तचन्दनयावादि गाणपत्यमुदाहृतम् ॥ ३-६३७ ॥
चन्दनागुरुकर्पूरचोरकुङ्कुमरोचनाः ।
जटामांस्यथ कस्तूरी शक्तेर्गन्धाष्टकं विदुः ॥ ३-६३८ ॥
जलकाश्मीरकुष्टैस्तु रक्तचन्दनचन्दनैः ।
मालवागुरुकर्पूरैः शाम्भवं चाष्टगन्धकम् ॥ ३-६३९ ॥
ह्रीवेरं चन्दनं कुष्टमगुरुः कुङ्कुमं मुरम् ।
सेव्यकं च जटामांसी वैष्णवं तदुदीरितम् ॥ ३-६४० ॥
जलकाश्मीरकुष्टैस्तु रक्तचन्दनचन्दनैः ।
तमालागुरुकर्पूरैः सौरं गन्धाष्टकं विदुः ॥ ३-६४१ ॥
गोरोचनार्ककस्तूरीकर्पूरागुरुकुङ्कमैः ।
प्। २१५) चन्दनेभमदाभ्यां च दरदेन च पङ्कजैः ॥ ३-६४२ ॥
गन्धाष्टकस्य संयोगात् सामर्थ्याद्देशिकस्य च ।
सशक्तिकं जलं कुम्भे भवेदेवं विदुर्बुधाः ॥ ३-६४३ ॥
आदौ कृशानुसम्बन्धि कलादशकमर्चयेत् ।
धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ॥ ३-६४४ ॥
सुश्रीः सुरूपा कपिला हव्यकव्यवहे उभे ।
कलाद्वादशकं सौरं पूजयेत् तदनन्तरम् ॥ ३-६४५ ॥
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ३-६४६ ॥
कलाषोडशकं चान्द्रं यजेत् पश्चाद्गुरूत्तमः ।
अमृता मानदा पूषा पुष्टिस्तुष्टी रतिर्धृतिः ॥ ३-६४७ ॥
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कान्तिदायिन्यः सोमजाः कलाः ॥ ३-६४८ ॥
वेदादिभेदसञ्जाताः कलाः पञ्चाशदिन्दुयुक् ।
सन्निधाप्य प्रतिष्ठाप्याभ्यर्चयेत् कलशे तु ताः ॥ ३-६४९ ॥
निवृत्तिः प्रतिष्ठा विद्या शान्तिरिन्धिश्च दीपिका ।
रेचिका मोचिका पारा सूक्ष्मा सूक्ष्मामृता तथा ॥ ३-६५० ॥
ज्ञानामृताप्यायनी च व्यापनी व्योमरूपिका ।
अनन्ता सृष्टिऋद्धी तु स्मृतिर्मेधा च कान्तिका ॥ ३-६५१ ॥
लक्ष्मीर्द्युतिः स्थिरा स्थितिः सिद्धिर्जरा च पालिनी ।
क्षान्तीश्वर्यौ रतिः कामा वरदा ह्लादिनी तथा ॥ ३-६५२ ॥
प्रीतिर्दीर्घा तीक्ष्णा रौद्री भया निद्रा च तन्द्रिका ।
क्षुत् क्रोधिनी क्रियोत्कारी मृत्युः प्रीता च दारुणा ॥ ३-६५३ ॥
प्। २१६) असिता च तथानन्ता मध्ये मध्ये प्रपूजयेत् ।
ह्।सः शुचिषडिति प्रतद्विष्णुस्तवेति च ॥ ३-६५४ ॥
त्रियम्बकं च गायत्री विष्णुर्योनिस्तथैव च ।
तारस्य पञ्चभेदोत्थकलानां पूजयेत् सुधीः ॥ ३-६५५ ॥
कलादशकमावाह्य सृष्ट्याद्यं सन्निधाप्य च ।
हंसः शुचिषडित्याभ्याम् ऋचं सञ्जप्य पूजयेत् ॥ ३-६५६ ॥
प्राणसंस्थापनं कृत्वा कलानां पूजयेच्च ताः ।
एवं जराद्यास्तीक्ष्णाद्याः पीताद्याश्च विधानवित् ॥ ३-६५७ ॥
निवृत्त्याद्याश्चापि यजेदुक्तयुक्त्या विचक्षणः ।
अकारोकारकौ प्रोक्तौ मकारो विन्दुनादकौ ॥ ३-६५८ ॥
शक्तिः शान्तो ह्यमी सप्त ध्रुवभेदाः प्रकीर्तिताः ।
अन्तिमौ द्वाविमौ भेदौ पृथगेव समीरितौ ॥ ३-६५९ ॥
(सिद्धान्तसारे)
ध्यात्वा देवं क्षिपेदम्भः शङ्खस्थं तत्कलात्मकम् ।
घटे इति शेषः ।
(शारदायाम्)
पश्चादश्वत्थपनसचूतकोमलपल्लवैः ॥ ३-६६० ॥
इन्द्रवल्लीसमाबद्धैः सुरद्रुमधिया गुरुः ।
कुम्भवक्त्रं पिधायास्मि।श्चषकं सफलाक्षतम् ॥ ३-६६१ ॥
संस्थापयेत् फलधिया विधिवत् कल्पशाखिनाम् ।
ततः कुम्भं निर्मलेन क्षौमयुग्मेन वेष्टयेत् ॥ ३-६६२ ॥
(मेरुतन्त्रे)
एतत् प्रधानकुम्भस्य स्थापनं परिकीर्तितम् ।
अथपूर्वादिकाष्ठासु तोरणानां समीपतः ॥ ३-६६३ ॥
प्। २१७) यथेच्छया मण्डलानि कुर्याद्वाष्टदलानि च ।
तदूर्ध्वं शालिपुञ्जं तु प्रतिद्वारं समाचरेत् ॥ ३-६६४ ॥
तदूर्ध्वं पूर्णकलशं तत्र चैतान् प्रपूजयेत् ।
प्राग्ध्रुवं च धरां दक्षे पश्चाद्वाक्पतिमुत्तरे ॥ ३-६६५ ॥
विघ्नेशमथ चाग्नेयादिषु मुम्भान् सुविन्यसेत् ।
अमृतं दुर्जयं सिद्धार्थकं मङ्गलमर्चयेत् ॥ ३-६६६ ॥
पुनः पूर्वादिकाष्ठासु क्रमादिन्द्रादिकान् यजेत् ।
लोकपालान् मण्डलेषु कुम्भोपरि च तदृचा ॥ ३-६६७ ॥
ऐरावतं पुण्डरीकं वामनं कुमुदाञ्जनौ ।
पुष्पदन्तं सार्वभौमं सुप्रतीकं तदग्रतः ॥ ३-६६८ ॥
ततो गुरुः स्ववेद्यां तु गत्वा स्वस्यासने विशेत् ।
सञ्चिन्त्य मूलमन्त्रेण मूर्तिं तस्मिन् गुरूत्तमः ॥ ३-६६९ ॥
तस्यां मूर्तौ समावाह्य पूजयेदिष्टदेवताम् ।
(शारदायाम्)
मूलेन मूर्तिमिष्ट्वास्मिन् शाखायां कल्पशाखिनम् ॥ ३-६७० ॥
आवाह्य पूजयेत् तस्यां मन्त्री मन्त्रस्य देवताम् ।
(मेरुतन्त्रे)
आवाहनादिकं कुर्यान्मूर्त्त्यादौ नवधा तु तत् ॥ ३-६७१ ॥
आदावावाहनं कार्यं त्रिर्जपन्मूलमन्त्रकम् ।
स्वर्लोकात् सूक्ष्मरूपेण देव आगत्य मूर्तिषु ॥ ३-६७२ ॥
स्थित एवं भावयित्वा सुषुम्णावर्त्मना सुधीः ।
आनीय देवं स्वस्थानान्नासिकारन्ध्रनिर्गतम् ॥ ३-६७३ ॥
करे पुष्पाञ्जलिः स्थाप्यस्तं दद्याद्देवमूर्धनि ।
प्। २१८) (सिद्धान्तसारे)
पुष्पाञ्जलिं समादाय मुद्रया च त्रिखण्डया ॥ ३-६७४ ॥
यथोक्तां देवतां ध्यात्वा मूलमन्त्रं समुच्चरन् ।
सम्बुद्ध्यन्तं देवनामात्रागच्छागच्छ चेत्यपि ॥ ३-६७५ ॥
मूलं पुनः समुच्चार्य स्वस्थानादानयेच्छिवम् ।
अत्र शिवपदं तत्तद्देवतापरम् ।
(महाकालसंहितायाम्)
ततः प्रसूनं सङ्गृह्य त्रिखण्डामुद्रया सुधीः ॥ ३-६७६ ॥
करकच्छपिकां बध्वा ध्यानं देव्याः समाचरेत् ।
यस्य मन्त्रस्य यद्ध्यानं यादृशं परिकीर्तितम् ॥ ३-६७७ ॥
तेनैव ध्यानयोगेन ध्यायीत जगदम्बिकाम् ।
वहन्नासापुटद्वारा हृदयाम्बुजमध्यतः ॥ ३-६७८ ॥
देवीं पुष्पे समानीय पुष्पं यन्त्रे प्रविन्यसेत् ।
(मेरुतन्त्रे)
देवस्य तेजस्तन्मूर्तावावाहन्याख्यमुद्रया ॥ ३-६७९ ॥
स्थापयेदुच्चरन्मूलमेतदावाहनं मतम् ।
ततः संस्थापनं कुर्यादिह तिष्ठेह तिष्ठ च ॥ ३-६८० ॥
मूलान्ते देवतानाम तस्यान्ते च पठेदिति ।
आस्थापनीयमुद्रां च दर्शयित्वा विभावयेत् ॥ ३-६८१ ॥
जातः स्थिरो भव इति पश्चात् सम्प्रार्थयेदिति ।
देवेश भक्तिसुलभ सर्वावरणसंयुत ॥ ३-६८२ ॥
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरो भव ।
एवं सम्प्रार्थ्य देवेशं सन्निधापनमाचरेत् ॥ ३-६८३ ॥
मूलमन्त्रं समुच्चार्य सम्बुद्ध्यन्तां च देवताम् ।
प्। २१९) इह त्वं सन्निधेहीति द्विरुक्त्वा स्वस्य सन्निधौ ॥ ३-६८४ ॥
स्थितं देवं तोषयेच्च सन्निधापनमुद्रया ।
सन्निरोधं ततः कुर्यान्मूलमुच्चार्य देवताम् ॥ ३-६८५ ॥
सम्बुद्ध्यन्तां समुच्चार्य सन्निरुद्धो भवेति च ।
द्विरुच्चरेत् कृपापूर्णां भक्तिभावनिरोधिताम् ॥ ३-६८६ ॥
प्रतिमायां स्थिरीजातां देवतामिति चिन्तयेत् ।
सम्मुखीकरणं कुर्यान्मूलमुच्चार्य देवताम् ॥ ३-६८७ ॥
सम्बुद्ध्यन्तां वदेत् पश्चात् सम्मुखो भव इत्यपि ।
ध्यायेत् स्वसम्मुखं देवं सुप्रसन्नाननाम्बुजम् ॥ ३-६८८ ॥
सम्मुखीकरणीं मुद्रां दर्शयेदिति तत् स्मृतम् ।
ततोऽवगुण्ठनं कुर्यान्मूलमुच्चार्य देवताम् ॥ ३-६८९ ॥
सम्बुद्ध्यन्तामवगुण्ठितो भवेति प्रदर्शयेत् ।
अवगुण्ठनमुद्रां च प्रदर्श्य चिन्तयेदिति ॥ ३-६९० ॥
भक्त्या सम्मोहितं देवं विस्मयोत्फुल्ललोचनम् ।
सकलीकरणं चैतद्देवस्य हृदयादिषु ॥ ३-६९१ ॥
षडङ्गमन्त्रान् विन्यस्य मूलमुच्चार्य देवताम् ।
सम्बुद्ध्यन्तां च सकलीकृतो भव वदेत् ततः ॥ ३-६९२ ॥
ध्यायेदङ्गिनि देवे तु प्रतिष्ठा अङ्गदेवताः ।
यस्माद्भिन्नस्वभावानां यदभिन्नं प्रयोजनम् ॥ ३-६९३ ॥
अङ्गानामङ्गिना सार्धं सकलीकरणाद्भवेत् ।
अमृतीकरणं वक्ष्ये पीठे संस्थाप्य देवताम् ॥ ३-६९४ ॥
बद्ध्वा सम्यग्धेनुमुद्रां देवमूर्ध्नि प्रवर्षणम् ।
जायते चामृतस्येति ध्यायन्नर्घोदकेन च ॥ ३-६९५ ॥
प्। २२०) त्रिः सिञ्चेन्मूलमन्त्रेण दीपिनीमन्त्रतस्त्रिधा ।
अकारादिक्षकारान्तमातृकाभिस्त्रिधा पुनः ॥ ३-६९६ ॥
वाग्भवं वदयुग्मं च वाग्वादिनि च वाग्भवम् ।
क्री। क्लिन्ने क्लेदिनि क्लेदय महाक्षोभमित्यपि ॥ ३-६९७ ॥
कुरु युग्मं कामबीजं सौ। मोक्षं कुरु युग्मकम् ।
प्रासादश्च पराप्रासादः सप्तत्रिंशदक्षरः ॥ ३-६९८ ॥
दीपिनीमनुराख्यातो देवतेजोऽभिवृद्धिकृत् ।
मूलं सम्बोधनान्तं च देवनामामृतीकृतः ॥ ३-६९९ ॥
भवेति च वदेदित्थममृतीकरणं स्मृतम् ।
परमीकरणं वक्ष्ये महामुद्रां च बन्धयेत् ॥ ३-७०० ॥
उच्चार्य मूलदेवं च पूर्ववत् परमाकृती ।
कृतोभवेति च प्रोक्त्वा ध्यायेद्देवस्य मस्तके ॥ ३-७०१ ॥
परमामृतवृष्टिं च �� �� �� ��- इति ।
आवाहनादिमुद्रालक्षणान्युक्तानि (लक्षणसङ्ग्रहे)
हस्ताभ्यामञ्जलिं बद्ध्वानामिकामूलपर्वणि ॥ ३-७०२ ॥
अङ्गुष्टौ निःक्षिपेत् सेयं मुद्रा त्वावाहनी मता ।
अधोमुखी त्वियं वै स्यात् स्थापनीति निगद्यते ॥ ३-७०३ ॥
उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु संयोगात् सन्निधापनी ।
अन्तःप्रवेशिताङ्गुष्ठा सैव संरोधिनी मता ॥ ३-७०४ ॥
उत्तानमुष्टियुगला सन्मुखीकरणं भवेत् ।
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ॥ ३-७०५ ॥
अवगुण्ठनमुद्रेयमभितो भ्रामिता सती ।
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ॥ ३-७०६ ॥
प्। १२१) अमृतीकरणं धेनुमुद्रया सा च सम्मता ।
अन्योन्याभिमुखाश्लिष्टकनिष्ठानामिका पुनः ॥ ३-७०७ ॥
तथा तत्तर्जनीमध्याद्धेनुमुद्रामृतप्रदा ।
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितपराङ्गुलिः ॥ ३-७०८ ॥
महामुद्रेयमुदितापरमीकरणे प्रिये ।
प्रयोजयेदिमा मुद्रा देवताह्वानकर्मणि ॥ ३-७०९ ॥
अत्राद्यपञ्चमुद्रासु इहागच्छ इह तिष्ठ इह सन्निधेहि, इह सन्निधेहि, इह सम्मुखीभवेति क्रमाद्वदन्ति ।
(उड्डीशे)
अत एवाभिपूर्णाया देवतायाः प्रपूजने ।
सादरं सम्मुखीभावमावाहनमिहोच्यते ॥ ३-७१० ॥
अत एवावाहनमुद्राप्रदर्शनादेव ।
विभोर्निवेशनं यन्त्रे स्थापनं कथितं बुधैः ।
पूजां प्रपूज्यमानां तु गृहीत्वानुग्रहादिकम् ॥ ३-७११ ॥
कर्तुं सामर्थ्यमस्यास्तु तत् सान्निध्यं प्रचक्षते ।
आकर्मकाण्डपर्यन्तं सान्निध्यं हि विभावयेत् ॥ ३-७१२ ॥
स सन्निरोध उद्दिष्टो भक्तितो मन्त्रवित्तरैः ।
आनन्दायतनं तत्त्वं सच्चिदानन्दलक्षणम् ॥ ३-७१३ ॥
तदत्र सकलं व्याप्तं धेयं स्यादवगुण्ठने ।
सकलीकरणं कृत्वा मन्त्रैरेभिरथैकताम् ॥ ३-७१४ ॥
अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतिम् ।
क्षमा तस्यापराधानां विज्ञेया परमीकृतिः ॥ ३-७१५ ॥
अपराधानामिति । अपरिच्छिन्नस्य ब्रह्मण आवाहनादिमुद्रया परिच्छिन्नताभावनारूपापराधानामित्यर्थः ।
(मेरौ) देवस्य हृदयं स्पृशन्नित्युपक्रम्य ।
प्। २२२) कुर्यात् प्राणप्रतिष्टां च मम स्थाने वदेत् तथा ।
देवतानामशेषं तु सर्वं प्राग्ववदिहैव हि ॥ ३-७१६ ॥
मम स्थान इति । भूतशुद्ध्यनन्तरं च स्वदेहे कर्तव्यम् । यत् प्राणप्रतिष्ठापनं तस्मादेतावान् विशेष इत्यर्थः । तत्र च ज्ञानार्णवोक्तसङ्क्षिप्तप्रकारोऽस्माभिर्लिखितः ।
विस्तरतस्तु (मेरुतन्त्रे)
प्राणप्रतिष्ठामन्त्रस्य मुनयोऽजेशपद्मजाः ।
छन्दो ऋग्यजुषं साम प्राणशक्तिस्तु देवता ॥ ३-७१७ ॥
ऋषिः शिरसि वक्त्रे तु छन्दांसि हृदि देवताः ।
आं विजाय नमो गुह्ये पदोः ह्री। शक्तये नमः ॥ ३-७१८ ॥
नाभौ नमः क्ली। कीलाय नियोगोऽसुस्थिताविति ।
ॐ आं ह्री। क्रो। म। कवर्गं सानुस्वारं नभोमुखम् ॥ ३-७१९ ॥
पञ्चतत्त्वं समुच्चार्य स्वात्मने आ। हृदि न्यसेत् ।
ॐ आ। ह्री। क्रो। चबीजं चवर्गं तद्वच्छब्दादिपञ्चकम् ॥ ३-७२० ॥
आत्मने ई। समुच्चार्य शिरसे वह्निगेहिनी ।
तानि बीजानि उ। तादृक् टवर्गं श्रोत्रकादि च ॥ ३-७२१ ॥
उक्त्वा तदात्मने ऊ। च शिखायै च वषड्वदेत् ।
तानि बीजानि एतं च वागादीनि तदात्मने ॥ ३-७२२ ॥
ऐमुक्त्वा कवचायेति हु। वदेत् तदनन्तरम् ।
चतुर्बीजं च पूर्वोक्तमो। पवर्गं च तादृशम् ॥ ३-७२३ ॥
वचनादि च तद्वत् स्यादौ। नेत्राय तदन्तकम् ।
चतुर्बीजं च अ। तादृग्यवर्गो मन आदि च ॥ ३-७२४ ॥
तदात्मने स्वरश्चान्तोऽस्त्राय फट् चेति संवदेत् ।
अङ्गुष्ठादौ हस्ततलान्तं न्यसेदेवमेव हि ॥ ३-७२५ ॥
प्। २२३) नाभ्यधश्चापि कण्ठाधो मूर्धाधोऽथ तदन्तकम् ।
आ। ह्री। क्रो। क्रमतो न्यस्य हृत्पद्माष्टदलेषु च ॥ ३-७२६ ॥
पूर्वतः क्रमतो वर्णान् कर्णिकायां हृदन्तकान् ।
र। ल। ह। ष। व। च म। च स। श। क्षमिति वर्गतः ॥ ३-७२७ ॥
दिक्षु न्यसेत् ततो ध्यायेत् प्राणशक्तिं हृदि स्थिताम् ॥ ३-७२७एफ़् ॥
रत्नाब्धिपोतारुणपद्मसंस्थां
पाशाङ्कुशाविक्षुशराशवाणान् ।
शूलं कपालं दधतीं कराब्जै
रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥ ३-७२८ ॥
हस्तं निधाय हृदये प्राग्बीजं यादिकाष्टकम् ।
हंसः सोऽहं मम प्राणा वदेदिह स्थिता- इति ॥ ३-७२९ ॥
उक्त्वा तथैव च पुनर्मम जीव इह स्थितः ।
पुनस्तदुक्त्वा मम तु वदेत् सर्वेन्द्रियाणि च ॥ ३-७३० ॥
पुनस्तदुक्त्वा मम तु वाङ्मनश्चक्षुरुच्चरेत् ।
श्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं ततः ॥ ३-७३१ ॥
तिष्ठन्तु वह्निजायान्तमुक्त्वा तारं ततो जपेत् ।
वपुर्ज्योतिर्मयं ध्यायेदिति स्यात् प्राणसंस्थितिः ॥ ३-७३२ ॥
ममेत्यादि स्वीयप्राणस्थापनाभिप्रायेण ।
(तथा)
तत्तद्दैवतकल्पोक्तास्ततो मुद्राः प्रदर्शयेत् ।
ततः सम्पूजयेद्देवंशक्त्या लभ्योपचारकैः ॥ ३-७३३ ॥
तन्त्रान्तरे ।
विधाय देवतामूर्तौ मूलन्यासमशेषतः ।
आसनादिप्रसूनान्तानुपचारान् समर्पयेत् ॥ ३-७३४ ॥
उपचारास्तु (नवरत्नेश्वरे)
प्। २२४) गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ।
एते पञ्चोपचाराश्च कैवल्यफलदायिनः ॥ ३-७३५ ॥
इति पञ्चोपचाराः ।
पाद्यमर्घ्यं तथा स्नानं मधुपर्काचमनं तथा ।
गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ ३-७३६ ॥
(महाकालसंहितायाम्)
पद्यार्घाचमनीयं स्नानीयं चत्वार्यनुक्रमात् ।
गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ॥ ३-७३७ ॥
पुनराचमीयं च दशैतान् सम्प्रचक्षते ।
इति दशोपचाराः ।
(कुलरत्नावल्याम्)
पाद्यार्घाचमनं स्नानं पुनराचमनीयकम् ॥ ३-७३८ ॥
गन्धाक्षतप्रसूनानि धूपदीपनिवेद्यकम् ।
ताम्बूलं द्वदश प्रोक्ता उपचाराः प्रपूजने ॥ ३-७३९ ॥
इति द्वदशोपचाराः ।
(नवरत्नेश्वरे)
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्काचमनस्नानवसनाभरणानि च ॥ ३-७४० ॥
सुगन्धसुमनोधूपदीपनैवेद्यचन्दनम् ।
प्रयोजयेदर्चनायामुपचारा।स्तु षोडश ॥ ३-७४१ ॥
इति षोडशोपचाराः ।
(शारदायां तु)
पाद्यार्घाचमनस्नानवसनाभरणानि च ।
गन्धपुष्पे धूपदीपौ नैवेद्याचमनं तथा ॥ ३-७४२ ॥
ताम्बूलमर्चना स्तोत्रं तर्पणं च नमस्क्रिया ।
प्रयोजयेदर्चनायामुपचारा।स्तु षोडश ॥ ३-७४३ ॥
प्। २२५) इत्युक्तम् ।
(नवरत्नेश्वरे)
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
स्नानं वासोपवीतं च भूषणानि च सर्वशः ॥ ३-७४४ ॥
गन्धं पुष्पं तथा धूपं दीपमन्नं च तर्पणम् ।
माल्यानुलेपनं चैव नमस्कारं विसर्जनम् ॥ ३-७४५ ॥
अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत् ।
इत्यष्टादशोपचाराः ।
(सुन्दरीरहस्यवृत्तौ)
आसनाभ्यञ्जने तद्वदुद्वर्तननिरीक्षणे ॥ ३-७४६ ॥
सन्मानं वै सर्पिरादेः स्नपनावाहने ततः ।
पाद्यार्घाचमनीये च स्नानीयमधुपर्ककौ ॥ ३-७४७ ॥
पुनराचमनीयं च वस्त्रं यज्ञोपवीतकम् ।
अलङ्कारा गन्धपुष्पे धूपदीपौ तथैव च ॥ ३-७४८ ॥
ताम्बुलानि च नैवेद्यं पुष्पमाला तथैव च ।
अनुलेपनशय्ये च चामरं व्यजनं तथा ॥ ३-७४९ ॥
आदर्शदर्शनं चैव नमस्कारोऽप्यनन्तरम् ।
गीतवाद्यवितानानि स्तुतिर्होमः प्रदक्षिणम् ॥ ३-७५० ॥
दन्तकाष्ठप्रदानं च ततो देवविसर्जनम् ।
उपचारा इमे ज्ञेयाः षड्त्रिंशत् सुरपूजने ॥ ३-७५१ ॥
इति षट्त्रिंशदुपचाराः ।
एवं चतुःषष्ट्युपचारादयस्तन्त्रान्तरे द्रष्टव्याः ।
(कुलोड्डीशे)
उपचारेषु सर्वेषु यत् किं चिद्दुर्लभं भवेत् ।
तत् सर्वं मनसा ध्यात्वा पुष्पक्षेपेण कल्पयेत् ॥ ३-७५२ ॥
तत्र तत्र जलं दद्यादुपचारान्तरान्तरा ।
प्। २२६) उपचारसमर्पणविधिरुक्तः (सारसङ्ग्रहे)
देवस्य वामभागे तु दद्यान्मूलेन चासनम् ॥ ३-७५३ ॥
पौष्पं दारुमयं वास्त्रं चार्मं कौशेयतैजसम् ।
षड्विधं चासनं प्रोक्तं देवताप्रीतिकारकम् ॥ ३-७५४ ॥
पौष्पं सुगन्धिपुष्परचितम् । दारुमयं कण्टकिभिन्नं चन्दनादिघटितम् । वास्त्रं कार्पासम् । कौशेयं कम्बलादि । कौशयं सप्तविंशतिकुशपत्राणां विष्टरः ।
तदुक्तम् (डामरे)
सप्तविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषिता ।
विष्टरः सर्वयज्ञेषु लक्षणं परिकीर्तितम्- इति ॥ ३-७५५ ॥
तैजसं सुवर्णादिरचितं लोहसीसादिवर्ज्यम् । चार्मं मृगव्याघ्राद्यजिनम् ।
(ज्ञानमालायाम्)
उपचारविधिं वक्ष्ये दत्वा चाथ शुभासनम् ।
स्वागतं कुशलप्रश्नं निगदेदग्रतस्ततः ॥ ३-७५६ ॥
(मेरुतन्त्रे)
साङ्गं सावरणं देवं पूजार्थमिह चागतम् ।
ध्यात्वा इति तु मूलान्ते स्वागतं परिकल्पयेत् ॥ ३-७५७ ॥
ज्ञानमालायाम् ।
पाद्यं पादाम्बुजे दद्याद्देवस्य हृदयाणुना ।
हृदयाणुना नम इति मन्त्रेणेत्यर्थः ।
(यामले)
हस्ताब्जयोस्ततो दद्यादर्घ्यं तोयैः सुवासितैः ॥ ३-७५८ ॥
(ज्ञानमालायां तु)
अर्घ्यं दिशेत् ततो मूर्ध्नि शिरोमन्त्रेण देशिकः- इत्युक्तम् ।
शिरोमन्त्रेणेति स्वाहेत्यर्थः ।
महाकालेनापि ।
अर्घ्यं मूर्ध्नि प्रदातव्यं स्वाहामन्त्रेण साधकैः- इत्युक्तम् ॥ ३-७५९ ॥
प्। २२७) (क्रमदीपिकायां)
अर्घदानानन्तरं पाद्यदानमुक्तम् ।
दत्वासनं स्वागतमित्युदीर्य
तथार्घपाद्याचमनीयकानि- इति ॥
(सिद्धान्तसारे)
पाद्यं हृन्मनुना दद्यादर्घ्यं ज्वलनजायया ।
स्वधयाचमनीयं च तेनैव मधुपर्ककम् ॥ ३-७६० ॥
(शारदायाम्)
स्वधामन्त्रेण वदने दद्यादाचमनीयकम् ।
जातीलवङ्गकङ्कोलैस्तदुक्तं मन्त्रवेदिभिः ॥ ३-७६१ ॥
तथा ।
स्वधाणुना ततः कुर्यान्मधुपर्कं मुखाम्बुजे ।
आज्यं दधि मधून्मिश्रमयमुक्तो मनीषिभिः ॥ ३-७६२ ॥
(कुलोड्डीशे) तु । क्षीरशर्करयोरपि मधुपर्काङ्गत्वमुक्तम् ।
माक्षिकं शर्करा सर्पिर्दधि क्षीरयुतं तथा ।
मधुपर्कं कल्पयित्वा प्रदद्याद्विधिपूर्वकम् ॥ ३-७६३ ॥
सर्वतः क्षौद्रमधिकं दधिसर्पिःसिताः समम् ।
क्षीरं तुः सर्वतः स्वल्पं मधुपर्क उदाहृतः ॥ ३-७६४ ॥
(शारदायाम्)
तेनैव मनुना कुर्यादद्भिराचमनीयकम् ।
तेनैव मनुनेति स्वाहामन्त्रेणैवेत्यर्थः ।
अत्र सुधार्णबकृतः ।
वारुणेन च बीजेन दद्यादाचमनीयकम् ॥ ३-७६५ ॥
मधुपर्कं मुखे दद्याज्जलमन्त्रेण देशिकः ।
इति यामलस्वतन्त्रवचनसङ्गत्यनुरोधेन स्वधामन्त्रेणान्यत्र सुधामन्त्रेणेति पाठमाश्रित्य सुधाशब्दस्यामृतवाचकत्वात् तद्वीजेन विन्दुयुक्तवकारेण मधुपर्कमाचमनीयं च दद्यादित्याहुः ।
प्। २२८) तन्त्रसारकृतस्तु त्यागार्थकस्वाहाशब्देनार्घ्यदानविधानात् तत्समभिव्याहृताचमनीयदाने त्यागबोधकः स्वधाशब्दो गृह्यते न तु वरुणबीजं तस्य त्यागार्थकस्वाभावात् ।
तथा च (कुलसारे)
आदौ मन्त्रं समुच्चार्य पश्चादेवं समर्चयेत् ॥ ३-७६६ ॥
सम्म्प्रदानं तदन्ते तु त्यागार्थकपदं ततः ।
एवं क्रमेण देवेशि उपचारान् प्रकल्पयेत् ॥ ३-७६७ ॥
यत् तु ।
मधुपर्कं ततः कुर्याज्जलमन्त्रेण देशिकः ।
स्वधाणुना ततः कुर्यान्मधुपर्कं मुखाम्बुजे ॥ ३-७६८ ॥
तेनैव मनुना कुर्यादद्भिराचमनीयकम् ।
वारुणेन च बीजेन दद्यादाचमनीयकम्- इति ॥ ३-७६९ ॥
वचनद्वयं, तद्वर्णभेदेन व्यवस्थापनीयम् । शूद्राणां स्वधेत्युच्चारणेऽनधिकारात् । इत्थं च नमः स्वाहा स्वधा वौषडित्यादीनां त्यागार्थकतया तैरेव मन्त्रैरुपचारदानं तद्व्यतिरिक्तमन्त्रेणोपचारसमपर्णं तु प्रमाण्शून्यमिति व्याजह्रुः ।
के चित् स्वधामन्त्रेण मधुपर्काचमनीयदानस्य सकलतन्त्रसम्मतत्वात् जलमन्त्रेणेत्यादौ तृतीयायाः साहित्यमर्थस्तेन च जलबीजसहितेन स्वधामन्त्रेण दद्यादिति वदन्ति । अन्ये त्वाचमनीयसाधने जलमन्त्रस्तद्दाने तु स्वधेति सङ्गमयन्ति ।
निबन्धे ।
स्नानं वासोऽलङ्करणं गन्धं पुष्पं हृदार्पयेत् ।
हृदा नमःशब्देन ।
(कालीकल्पे तु)
स्नानं गन्धं हृदा दद्यात् पुष्पाणि वौषडित्यपि- इत्युक्तम् ॥ ३-७७० ॥
ततो निवेदयामीति सर्वं दद्यान्महेश्वरि ।
सर्वमिति । वस्त्रालङ्कारधूपदीपादीत्यर्थः । नैवेद्यदाने तु विशेष उक्तः ।
(सिद्धान्तसारे)
निवेदयामि हृद्वह्निजायाभिस्तत्त्वमुद्रया ॥ ३-७७१ ॥
देवतायै महेशानि दद्यान्नैवेद्यमुत्तमम्- इति ।
प्। २२९) (मेरुतन्त्रे)
सुगन्धितैलैरभ्यञ्ज्य सुगन्धामलकादिभिः ॥ ३-७७२ ॥
उद्वर्त्तनं विधायाथ स्नापयेदुष्णवारिणा ।
गन्धोदकैश्च मूलेन यथाशक्त्याभिषेचयेत् ॥ ३-७७३ ॥
क्षीरदध्याज्यमधुभिः खण्डेन च पृथक् पृथक् ।
(शारदायाम्)
गन्धाद्भिः कारयेत् स्नानं वाससी परिधापयेत् ॥ ३-७७४ ॥
वस्त्राण्युक्तानि (मेरुतन्त्रे)
विष्णवे वगलामुख्यै पीतकौशेयमम्बरम् ।
शिवाय च सरस्वत्यै पार्श्वनाथाय शुभ्रकम् ॥ ३-७७५ ॥
रक्तं शक्त्यर्कविघ्नानां भौमसौगतयोरपि ।
कृष्णं भैरवकाल्यादे राधादेर्नीलमम्बरम् ॥ ३-७७६ ॥
अच्छिद्रं मलहीनं च सदशं यन्न धारितम् ।
कार्पासजं वा कौशेयं राङ्कवं वा विशिष्यते ॥ ३-७७७ ॥
तैलादिदूषिताद्रोगः सच्छिद्राद्वाध्यता भवेत् ।
परकीयाच्च दारिद्र्यं जीर्णादायुःक्षयो भवेत् ॥ ३-७७८ ॥
दग्धाद्विपद्भवेदास्यदत्ते गात्रावलम्बिते ।
सूचीविद्धात् स्फोटकादि मलिनात् कान्तिहीनता ॥ ३-७७९ ॥
उप्तकेशे पुत्त्रनाशश्चाधौते दीनता भवेत् ।
मिथ्याभिशापो भवति श्लेष्ममूत्रादिदूषिते ॥ ३-७८० ॥
तत्रैव ।
यज्ञोपवीतं दत्त्वाथ भूषणानि समर्पयेत् ।
ङेन्तं नमोन्तं तन्नाम् पूजनादौ प्रयोजयेत् ॥ ३-७८१ ॥
तानि नानाविधानि स्युर्मुकुटादिप्रभेदतः ।
स्त्रीपुम्प्रभेदतश्चापि विज्ञेयानि विचक्षणैः ॥ ३-७८२ ॥
प्। २३०) गन्धः पञ्चविध उक्तः (सिद्धान्तसङ्ग्रहे)
सङ्घर्षजः परिमलः क्षोदजः प्राणिसम्भवः ।
कृष्णसाराभिधानश्च गन्धः पञ्चविधो मतः ॥ ३-७८३ ॥
सङ्घर्षजो घृष्टवन्दनादिः । परिमलः सुगन्धिद्रव्यविमर्द-जन्यः । क्षोदजो गोरोचनादिचूर्णोत्पन्नः । प्राणिसम्भवः कस्तूरिकादिः । कृष्णसारस्तु श्रीखण्डादिसुरभिद्रव्याद्यकृष्टः । सारभागो भाषया अतर इति प्रसिद्धः ।
तत्रैव ।
याक्षं दैवं च गान्धर्वं कर्दमं त्रितयं परम् ।
धर्मार्थकाममोक्षाणां साधनं देवतार्पितम् ॥ ३-७८४ ॥
कर्दमत्रयं तत्रैवोकम् ।
कुरङ्गमदकक्कोलकालागुरुसिताभ्रकैः ।
प्रमोदकृद्देवतानां विज्ञेयो यक्षकर्दमः ॥ ३-७८५ ॥
स एव रोचनायुक्तो देवकर्दम उच्यते ।
पटीरयुग्देवपङ्को ज्ञेयो गन्धर्वकर्दमः ॥ ३-७८६ ॥
कुरङ्गमदः कस्तूरी । सिताभ्रं कर्पूरम् । पटीरं चन्दनम् ।
(पुरश्चरणचन्द्रिकायाम्)
चन्दनं मलयोत्पन्नमनाघ्रातं सुशीतलम् ।
कर्पूरागुरुकस्तूरीहिमाम्बुक्षोदितं शुभम् ॥ ३-७८७ ॥
(मेरुतन्त्रे)
कस्तूरिका चैकभागो द्वौ भागौ मुस्तकस्य च ।
तदर्धैला जटामांसी त्वक्कुष्ठं च शिलारसः ॥ ३-७८८ ॥
चतुर्भागं वालकं च घृतभृष्टा तथा नखी ।
सुगन्धि कोकिला लोहवाणो राजवचा तथा ॥ ३-७८९ ॥
अष्टौ भागाः केशरस्य मुरायाश्चाथ षोडश ।
कालागुरुश्चाकसीरं कालीयमथ वार्द्धयः ॥ ३-७९० ॥
भागाः सेवन्तिकार्कस्य चन्दनेन विमर्दयेत् ।
प्। २३१) कामोदनामा सम्मर्दो देवताराजतोषकृत् ॥ ३-७९१ ॥
पुष्पभेदास्तत्रैवोक्ताः ।
पुष्पं पञ्चविधं प्रोक्तं परं चापरमेव च ।
उत्तमं मध्यमं हीनं तेषां वक्ष्यामि लक्षणम् ॥ ३-७९२ ॥
परं सुवर्णपुष्पं स्यात् तत् सदा योग्यमेव हि ।
अभ्यङ्गपूर्वकं देयमर्चनार्हं पुनर्भवेत् ॥ ३-७९३ ॥
अपरं राजतं पुष्पं ताम्रजं च प्रकीर्तितम् ।
सदा योग्यं चेदमपि त्रिवर्षं चैकवर्षकम् ॥ ३-७९४ ॥
तुलसी केतकी पद्म करवीरं च मालती ।
पञ्चैतान्युत्तमान्याहुर्मध्यमानि तथा दश ॥ ३-७९५ ॥
मल्लिकाकुन्दमन्दारतगरार्जुनकिंशुकाः ।
परिजातमशोकं च विल्वं चम्पकमेव च ॥ ३-७९६ ॥
एतद्भिन्नं सुवर्णं च सुगन्धं हीनमुच्यते ।
तत्तन्मन्त्रविधानेषु विहितानि समर्पयेत् ॥ ३-७९७ ॥
अथ निषिद्धानि तत्रैव ।
नार्पयेद्भूमिपतितं कोरकं कृमिभक्षितम् ।
अङ्गलग्नं समाघ्रातं म्लानं पर्युषितं तथा ॥ ३-७९८ ॥
उग्रगन्धमगन्धं च कृमिकेशादिदूषितम् ।
अशुद्धपात्रप्राण्यङ्गवासोभिः कुत्सितात्मभिः ॥ ३-७९९ ॥
अनीतं तन्निषिद्धं स्यान्मध्याह्नस्नानतस्तथा ।
अधोमुखार्पितं नेष्टं पुष्पाञ्जलिविधौ न तत् ॥ ३-८०० ॥
न पर्युषितदोषोऽस्ति तुलसीविल्वचम्पके ।
जलजे वकुलेऽगस्त्ये मालाकारगृहेषु च ॥ ३-८०१ ॥
केतकीकुटजैर्नेशं न वर्वर्याक्षतैर्हरिम् ।
प्। २३२) न दूर्वया यजेद्दुर्गां विल्वपत्रैर्दिवाकरम् ॥ ३-८०२ ॥
लम्बोदरं तुलस्या च वृन्तहीनैः समर्चयेत् ।
देवताभेदेन पुष्पभेदा उक्ताः (पाद्मे)
दूर्वारम्भाविल्वपत्रैस्तुलसीवर्जितैः शुभैः ॥ ३-८०३ ॥
जलजैः स्थलजैः पुष्पैः श्वेतरक्तैर्गणाधिपम् ।
मालतीकुन्दमन्दारकुमुदैः शारदां यजेत् ॥ ३-८०४ ॥
करवीरं जवापुष्पं पद्मं कोकनदं तथा ।
नीलोत्पलमशोकं च बन्धूकं दाडिमं तथा ॥ ३-८०५ ॥
केतकं मल्लिकार्कं त्रिसन्ध्यं च रवेः प्रियम् ।
कनकं कुमुदं कुन्दं तगरं कण्टकारिका ॥ ३-८०६ ॥
गिरिकर्णी विल्वपत्रं निषिद्धं रविपूजने ।
हयारिकुसुमं पद्मं कैरवं नागकेशरम् ॥ ३-८०७ ॥
जातीसेवन्तिकाद्रोणपुष्पं नीलोत्पलं तथा ।
अर्कपुष्पमपामार्गमुन्मत्तं कुटजं तथा ॥ ३-८०८ ॥
शमीपुष्पं विल्वपत्रं हरस्यातीव वल्लभम् ।
केतकं च जपापुष्पं शिरीषं दमनं तथा ॥ ३-८०९ ॥
विभीतकं चातिमुक्तं सर्जबन्धूकयूथिकाः ।
विष्णुक्रान्तामपि श्वेतां वर्जयेच्छिवपूजने ॥ ३-८१० ॥
मालती मल्लिका यूथी चम्पकं नागकेशरम् ।
पाटला कुन्दमन्दारं कह्लारमतिमुक्तकम् ॥ ३-८११ ॥
कर्णिकारं कुरुवकं कदम्बं करवीरकम् ।
तमालं वकुलं नीलोत्पलं कमलकैरवे ॥ ३-८१२ ॥
सेवन्तिका केतकं च दमनं मुनिपुष्पकम् ।
धात्रीपुष्पं शमीपत्रमपामार्गस्य पत्रकम् ॥ ३-८१३ ॥
प्। २३३) मृदूनां चैव दुर्वाणामङ्कुराः शतपत्रिका ।
मञ्जरी सहकारस्य तुलसी च हरेः प्रिया ॥ ३-८१४ ॥
उन्मत्तमर्कपुष्पं च निर्गन्धमतिलोहितम् ।
यदप्युत्कटगन्धं तद्वर्जयेद्विष्णुपूजने ॥ ३-८१५ ॥
रक्तपुष्पं विल्वपत्रं नृसिंहाय निवेदयेत् ।
वर्जयेत् केतकं पुष्पमन्यत् सर्वं च पूर्ववत् ॥ ३-८१६ ॥
(कालीतन्त्रे)
नानोपहारबलिभिर्नानापुष्पैर्मनोहरैः ।
अपामार्गदलैर्भृङ्गैस्तुलसीवर्जितैः शुभैः ॥ ३-८१७ ॥
पूजनीया सदा भक्त्या नृणां शीघ्रफलाप्तये ।
(मुण्डमालायाम्)
पुष्पाण्यपि तथा दद्याद्रक्तकृष्णसितानि च ॥ ३-८१८ ॥
श्वेतपुष्पं जवापुष्पं करवीरं तथा प्रिये ।
तगरं मालती जाती सेवन्ती यूथिका तथा ॥ ३-८१९ ॥
धत्तूराशोकवकुलश्वेतकृष्णापराजिताः ।
वकपुष्पं तथा विल्वं चम्पकं नागकेशरम् ॥ ३-८२० ॥
मल्लिका झिण्टिका काञ्ची रक्तं यत् परिकीर्तितम् ।
अर्कपुष्पं वर्वरं च बन्धूकं च प्रियम्वदा ॥ ३-८२१ ॥
अष्टम्यां च विशेषेण तुष्टा भवति पार्वती ।
पद्मपुष्पेण रेक्तेन सतुष्टाः सर्वदेवताः ॥ ३-८२२ ॥
कृष्णैर्वा यदि वा शुक्लैः कालिका वरदा भवेत् ।
(मत्स्यसूक्ते)
सुगन्धि श्वेतलौहित्यकुसुमैरर्चयेत् कुलैः ॥ ३-८२३ ॥
विल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः ।
प्। २३४) क्षौद्रपुष्पैर्विशेषेण वज्रपुष्पेण मिश्रितम् ॥ ३-८२४ ॥
सर्वं पुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा ।
पूजनीया सदा भक्त्या नृणां शीघ्रफलप्रदा ॥ ३-८२५ ॥
कुलैर्वज्रपुष्पाद्यैः ।
(कालिकापुराणे)
पुष्पं कोकनदं पद्म जपा बन्धकमेव च ।
सर्वेषां पुष्पजातीनां रक्तपुष्पं विशिष्यते ॥ ३-८२६ ॥
(यामले)
वज्रपुष्पं कालिकायै प्रदद्यात् सिद्धिहेतवे ।
योनिपुष्पं महेशाय वज्रपुष्पं निगद्यते ॥ ३-८२७ ॥
वज्रपुष्पस्य त्रैविध्यमुक्तम् (मुण्डमालायाम्)
आषोडशादनूढाया उत्तमं सर्वसिद्धिदम् ।
बलात्कारेण रुढाया मध्यमं भोगवर्द्धनम् ॥ ३-८२८ ॥
रजोयोगवशादन्यदधमं सुखदायकम् ।
स्वयम्भूकुसुमं देवि त्रिविधं भुवि जायते ॥ ३-८२९ ॥
अनूढाया अनुपभुक्तायाः । रुढाया उपभुक्तायाः ।
तन्त्रान्तरे ।
वज्रपुष्पेणार्पितेन यथा तुष्यति कालिका ।
न स्वर्णैर्न च रत्नैश्च न स्पर्शमणिभिस्तथा ॥ ३-८३० ॥
अभावे वज्रपुष्पस्य जवापुष्पेन पूजयेत् ।
अर्कपुष्पेण वा पूज्या कालिका सर्वमङ्गला ॥ ३-८३१ ॥
कालिकेति दक्षिणाम्नायाधिष्ठात्री । उत्तराम्नाये त्वर्कपुष्पनिषेध उक्तो
(महाकालसंहितायाम्)
तुलसीभिरपामार्गैर्धत्तूरैः सिन्धुवारकैः ।
अर्कपुष्पैर्वासकैश्च नैव देवीं प्रपूजयेत्- इति ॥ ३-८३२ ॥
विहितानि तत्रैवोक्तानि ।
शिरीषैः कर्णिकारैश्च चम्पकैः कोविदारकैः ।
प्। २३५) वकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरण्टकैः ॥ ३-८३३ ॥
लताभिर्ब्रह्मवृक्षस्य मृदुदूर्वाङ्कुरैरपि ।
काञ्चनारैरशोकैश्च पुन्नागैः केतकीदलैः ॥ ३-८३४ ॥
सेफालिकाभिर्यूथीभिर्जातीभिर्दमनैरपि ।
शतपत्रैर्मल्लिकाभिरम्लानैर्बन्धुजीवकैः ॥ ३-८३५ ॥
झिण्टीभिश्च जपापुष्पैः करवीरैश्च किंशुकैः ।
परिजातैः पाटलैश्च पद्मैर्नीलोत्पलैरपि ॥ ३-८३६ ॥
माधवीभिर्मरुवकैरपराजितयापि च ।
अशनैश्च कदम्बैश्च द्रोणपुष्पैः सकेशरैः ॥ ३-८३७ ॥
अर्चयेत् कुसुमैरेभिर्देवीं साधकसत्तमः ।
विल्वपत्रं यथा प्रीतिकरं देव्या वरानने ॥ ३-८३८ ॥
न तथान्यत् किञ्चिदस्ति पुष्पेषु प्रीतिकारकम् ।
अतो यत्नेन दातव्यं विल्वपत्रं त्रिपत्रयुक् ॥ ३-८३९ ॥
तथा ।
नानापुष्पैर्विरचिता दातव्या पुष्पमालिका ।
मालाभेदास्तु तत्रैवोक्ताः ।
एकजातीयकैः पुष्पैर्भिन्नजातीयकैरपि ॥ ३-८४० ॥
माला तथैकवर्णा स्याद्भिन्नवर्णापि वा प्रिये ।
सा पुनस्त्रिविधा ज्ञेया परिणाहवशेन तु ॥ ३-८४१ ॥
पतेद्धृदयपर्यन्तं या मालामोदशालिनी ।
वैकक्षिका सा विज्ञेया सर्वावरतया स्थिता ॥ ३-८४२ ॥
अधोऽवलम्बिनी नाभेः कौसुमी या स्रगुच्यते ।
साधोरिणी परिज्ञेया मध्यमा पूर्वतोऽधिका ॥ ३-८४३ ॥
आगुल्फस्रंसिनी या तु पादपद्मोपरि स्थिता ।
प्। २३६) वनमालेति सा ख्याता सर्वाभ्यः स्रग्भ्य उत्तमा ॥ ३-८४४ ॥
अथ द्वितीयविद्यायाः । (नीलतन्त्रे)
अष्टम्यां च चतुर्दश्यां पूजयेच्च यथाविधि ।
आज्ञासिद्धिमवाप्नोति जवापुष्पं च वर्वरी ॥ ३-८४५ ॥
चन्दनं चार्ककुसुमं दद्याच्छ्वेतापराजिताम् ।
बन्धूकमालया तुष्येत् तथा छागप्रदानवत् ॥ ३-८४६ ॥
(त्रिशक्तिरत्ने)
वज्रपुष्पेण सम्मिश्रैरर्चयेत् सिद्धिहेतवे ।
अभावाद्वज्रपुष्पस्य स्मरणात् सिद्धिमाप्नुयात् ॥ ३-८४७ ॥
तुलसीमालतीवर्जं पुष्पं दद्यात् प्रसन्नधीः ।
(मत्स्यसूक्ते)
पुष्पं श्रष्ठं रक्तकोकं बन्धूकं शतपत्रकम् ॥ ३-८४८ ॥
वर्वरीद्वितयं चैव कर्णिकारद्वयं तथा ।
वकमन्दारचूतानि करवीराणि शस्यते ॥ ३-८४९ ॥
(कुलचूडामणौ)
वर्जयेन्मालतीपुष्पं वर्जयेत् तुलसीदलम् ।
तन्त्रान्तरे ।
वज्रपुष्पेण सर्वत्र पूजयेच्चनिसुन्दरीम् ॥ ३-८५० ॥
उपचारान्तरसमर्पणेऽपि वज्रपुष्पं प्रतीच्छ स्वाहेति वक्तव्यमित्यर्थः ।
(श्रीविद्यापद्धतौ)
जलजानीह यावन्ति श्वेतकृष्णारुणानि च ।
जपाबन्धूकमुख्यानि रक्तानि स्थलजान्यपि ॥ ३-८५१ ॥
श्वेतान्यपि सुगन्धीनि मल्लिकावर्जितानि च ।
पीतान्यपि तथा विल्वपत्राणि च समर्पयेत् ॥ ३-८५२ ॥
निर्गन्धं कृष्णपुष्पं च तुलसीं च परित्यजेत् ।
तुलसीगन्धमात्रेण क्रुद्धा भवति सुन्दरी ॥ ३-८५३ ॥
प्। २३७) नार्चयेत् त्रिपुरामम्बां पलाशकुसुमैरपि ।
काम्ये तु मल्लिका न निषिद्धा ।
तदुक्तम् (ज्ञानार्णवे)
मल्लिकामालतीजातीकुन्दैश्च शतपत्रकैः ॥ ३-८५४ ॥
श्वेतोत्पलसुशीतैश्च पूजयेन्मासमात्रकम्- इति ।
(कौलालवीये)
सुन्दरीभैरवीकालीब्रह्मविष्णुविवस्वताम् ॥ ३-८५५ ॥
तुलसीवर्जिता पूजा सा पूजा सफला भवेत् ।
विफलेति क्वचित् पाठस्तत्राप्यकारप्रश्लेषात् सफलेत्यर्थः पर्यवस्यति । ब्रह्मविष्णुविवस्वतामिति पुष्पचिन्तामणिकृल्लिखितपाठः प्रामादिकः । विष्णुपूजायां तुलसीनिषेधस्य स्वप्नेऽप्यश्रुतत्वात् ।
(निर्बन्धे)
रक्तपुष्पैर्विशेषेण सन्तुष्टा भुवनेश्वरी ॥ ३-८५६ ॥
तथैव च्छिन्नमस्तापि पीतैस्तु वगलामुखी ।
गुञ्जया तु विशेषेण मातङ्गी वरदा भवेत् ॥ ३-८५७ ॥
(मुण्डमालायाम्)
श्मशानधत्तुरेणैव तुष्टा धूमावती परा ।
एवशब्दः प्राशस्त्यपरो न त्वन्ययोगव्यवच्छेदकः ।
श्रीविद्योदितपुष्पैस्तु सर्वा विद्याः प्रपूजयेत् ॥ ३-८५८ ॥
इति तन्त्रान्तरवचनात् ।
(मेरुतन्त्रे)
कुन्दमन्दारकुमुदमालतीपद्मकेतकम् ।
नन्द्यावर्त्ताह्वयं जाती कह्लारं चम्पकं तथा ॥ ३-८५९ ॥
रक्तोत्पलादिपुष्पाणि लक्ष्म्याश्चातिप्रियाणि हि ।
दुर्गायास्तु (भविष्यपुराणे)
मल्लिकामुत्पलं पद्मं शमीपुन्नागचम्पकम् ॥ ३-८६० ॥
अशोकं कर्णिकारश्च द्रोणपुष्पं विशेषतः ।
करवीरं जपापुष्पं कुङ्कुमं नागकेशरम् ॥ ३-८६१ ॥
प्। २३८) यः प्रयच्छति पुण्यार्थं पुष्पाण्येतानि भारत ।
चण्डिकायै नरश्रेष्ट श्रद्धाभक्तिसमन्वितः ॥ ३-८६२ ॥
स कामानखिलान् प्राप्य श्रीदुर्गानुचरो भवेत् ।
तथा ।
पुन्नागचम्पकः कुन्दो यूथिका नवमल्लिका ॥ ३-८६३ ॥
तगरार्जुनमल्ली च बृहती शतपत्रिका ।
तथा कुमुदकह्लारविल्वपाटलमालती ॥ ३-८६४ ॥
जवाविचकिलाशोकरक्तनीलोत्पलानि च ।
दमनो मरुपत्रं च शतपुष्पं विवृद्धये ॥ ३-८६५ ॥
तथा ।
सुगन्धिगन्धपुष्पैस्तु पूजयेद्यस्तु चण्डिकाम् ।
मुक्तिभिर्मालया वापि सोऽश्वमेधफलं लभेत् ॥ ३-८६६ ॥
तथा ।
नीलोत्पलसहस्रेण यो मालां सम्प्रयच्छति ।
चण्डिकायै नरश्रेष्ठ तस्य पुण्यफलं शृणु ॥ ३-८६७ ॥
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ।
श्रीदुर्गानुचरो भूत्वा रुद्रलोके स मोदते ॥ ३-८६८ ॥
ग्रहाणामपि तत्रैव ।
हयारिकुसुमैः सूर्यं कदम्बैश्चन्द्रमर्चयेत् ।
क्षितिजं तु जपापुष्पैश्चम्पकेन तु सोमजम् ॥ ३-८६९ ॥
शतपत्रैर्गुरुः पूज्यो जातीपुष्पैस्तु भार्गवः ।
मल्लिकाकुसुमैः पङ्गुः कुन्दपुष्पैर्विधुन्तुदः ॥ ३-८७० ॥
केतुश्च विविधैः पुष्पैः शान्तिकालेषु सर्वदा ।
(यामले)
पुष्पैर्देवाः प्रसीदन्ति पुष्पेदेवाश्च संस्थिताः ॥ ३-८७१ ॥
प्। २३९) किं चातिबहुनोक्तेन पुष्पस्योक्तिर्मतल्लिका ।
परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति ॥ ३-८७२ ॥
त्रिवर्गसाधनं पुष्पं पुष्टिश्रीस्वर्गमोक्षदम् ।
पुष्पमूले वसेद्ब्रह्मा पुष्पमध्ये तु केशवः ॥ ३-८७३ ॥
पुष्पाग्रे तु महादेवः सर्वे देवाः स्थिता दले ।
तस्मात् पुष्पैर्यजेद्देवं नित्यं भक्तियुतो नरः ॥ ३-८७४ ॥
(क्रियासारे)
सर्वैः पुष्पैः सदा पूज्या विहिताविहितैरपि ।
कर्तव्या सर्वदेवानां भक्तियोगोऽत्र कारणम् ॥ ३-८७५ ॥
देवीपूजा सदा शस्ता जलजैः स्थलजैरपि ।
विहितैर्वा निषिद्धैर्वा भक्तियुक्तेन चेतसा ॥ ३-८७६ ॥
(मेरुतन्त्रे)
पुष्पाभावे प्रवालैर्वा तदभावे च कोरकैः ।
तदभावे फलैः पत्रैस्तदभावे तृणाङ्कुरैः ॥ ३-८७७ ॥
तत्रान्तरे ।
पुष्पं वा यदि वा पत्रं यथोत्पन्नं तथार्पणम् ।
विल्वस्य खदिरस्यापि तथा धात्रीफलस्य च ॥ ३-८७८ ॥
तमालस्य च पद्मस्य छिन्नभिन्ने न दूष्यतः ।
(मालिनीतन्त्रे)
पूजयेत् परमेशानि पुष्पाभावे तु पत्रकैः ॥ ३-८७९ ॥
पत्राणामप्यलाभे तु द्रुमगुल्मोद्भवादिभिः ।
तद्भुवामप्यलाभे तु तत्फलेन प्रपूजयेत् ॥ ३-८८० ॥
अक्षतैर्वा जलैर्वापि तदभावे तु सर्षपैः ।
सितैस्तेषामप्यलाभे मानसं पूजनं चरेत् ॥ ३-८८१ ॥
प्। २४०) (मेरुतन्त्रे)
अथ पुष्पोपचारान्ते कुर्यादावरणार्चनम् ।
इदं च गौडादिसम्प्रदाये । अन्यत्र तु धूपदीपनैवेद्याद्यन्तं पूजनं बोध्यम् ।
(सिद्धान्तसारे)
प्रथमं मन्त्रमुच्चार्य श्रीपूर्वं पादुकापदम् ॥ ३-८८२ ॥
द्वितीयान्तं समुच्चार्य पूजयामीति पूजयेत् ।
(सोमभुजङ्गावल्याम्)
ततश्च मूलमन्त्रेण त्रिवारं पूजयेत् सुधीः ॥ ३-८८३ ॥
गृहीत्वाज्ञां महादेव्याः परिवारान् समर्चयेत् ।
षडङ्गैः प्रथमः कल्पो गुरुभिस्तु द्वितीयकः ॥ ३-८८४ ॥
परिवारस्तृतीयः स्याल्लोकपालैश्चतुर्थकः ।
तदस्त्रैः पञ्चमः प्रोक्त इति सामान्यतः क्रमः ॥ ३-८८५ ॥
(यामले)
पाद्यादिना तथा पश्चात् पूजयेदङ्गदेवताः ।
(मेरुतन्त्रे)
मन्त्रसम्पुटितैर्वर्णान्र्मातृकायाः सविन्दुकैः ॥ ३-८८६ ॥
क्रमेण गन्धपुष्पाद्यैर्देवस्याङ्गं समर्चयेत् ।
तथा ।
केशरेष्वग्निकोणादौ हृदयादीनि पूजयेत् ॥ ३-८८७ ॥
नेत्रमग्नेर्दिशास्वस्त्रं ध्यातव्या अङ्गदेवताः ।
तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः ॥ ३-८८८ ॥
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ।
अग्नीशासुरवायव्यमध्यदिषु क्रमात् स्थिताः ॥ ३-८८९ ॥
(तूर्णायागे)
अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ ३-८९० ॥
प्। २४१) इति पुष्पाञ्जलिं दद्यात् प्रणमेदतिभक्तितः ।
प्रत्यावरणमेवं तु तत्तन्नाम्ना समर्पयेत् ॥ ३-८९१ ॥
(मेरुतन्त्रे)
देवस्य पुरतः प्राची ज्ञेयावरणपूजने ।
तदादिपरिवाराणां प्रादक्षिण्येन पूजनम् ॥ ३-८९२ ॥
(मानसोल्लासे)
पूज्यपूजकयोर्मध्ये प्राची सङ्कीर्त्त्यते बुधैः ।
तद्दक्षिणं दक्षिणं स्यादुत्तरं चोत्तरं भवेत् ॥ ३-८९३ ॥
(ज्ञानार्णवे)
उत्तराभिमुखो देवि यदा चक्रं समुद्धरेत् ।
उत्तराशा तदा देवि पूर्वाशैव न संशयः ॥ ३-८९४ ॥
पश्चिमाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् ।
पश्चिमाशा तदा ज्ञेया पूर्वाशैव न संशयः ॥ ३-८९५ ॥
वोयुकोणं तदाग्नेयमीशानं राक्षसं भवेत् ।
दक्षिणाशामुखो मन्त्री यदा चक्रं समुद्धरेत् ॥ ३-८९६ ॥
पूर्वाशैव तदा रक्षो रक्षःकोणं तु वह्निमत् ॥ ३-८९६एफ़् ॥
पश्चिमाशाद्यभिमुखत्वं च काम्यपूजाविशेषपरम् । नित्यादिपूजायां तु प्रागाननो धनददिग्वदनोऽथवेत्यादिना दिग्द्वयस्यैव नियमात् ।
(श्यामारहस्ये) तन्त्रान्तरे च ।
होतुः पूर्वं पूर्वभागं प्रदिष्टं सव्यं भागं दक्षिणं त्वागमज्ञैः ।
दक्षं विद्यादुत्तरं भागमग्र्यं प्रज्ञावद्भिः पश्चिमं पीठमुक्तम् ॥ ३-८९७ ॥
पूर्वमिति पुरतः । अग्र्यं स्वसम्मुखं तेन देवपृष्ठमेव प्रतीचीत्यर्थः । यत् तु इन्द्रादीन् साहजिकप्राच्यादिक्रमेण पूजयन्ति के चित् तत् प्रमाणशून्यम् ।
(शारदायाम्)
पश्चादभ्यर्चनीयाः स्युः कल्पोक्तावृत्तयः क्रमात् ।
अन्ते यजेल्लोकपालान्मूलपारिषदान्वितान् ॥ ३-८९८ ॥
प्। २४२) हेतिजात्यधिपोपेतान् दिक्षु पूर्वादितः क्रमात् ।
इन्द्रादिलोकपालानां ध्यानानि (मेरुतन्त्रे)
इन्द्रं सुराधिपं पीतमैरावतगतं विभुम् ॥ ३-८९९ ॥
सहस्रनेत्रं द्विभुजं पीतवज्रधरं भजे ।
अग्निं तेजोऽधिपं रक्तं श्वेतशक्तिकरं प्रभुम् ॥ ३-९०० ॥
सुभूषणं मेषवाहं वन्दे रक्ताङ्गलोचनम् ।
यमं प्रेताधिपं कृष्णं महिषोपरि संस्थितम् ॥ ३-९०१ ॥
कालदण्डधरं क्रूरं वृतं दूतैर्भयानकैः ।
रक्षोऽधिपं च निऋतिं शवासनसमाश्रितम् ॥ ३-९०२ ॥
धूम्राभं खड्गहस्तं च पिङ्गलश्मश्रुकूर्चकम् ।
मकरे संस्थितं विद्युन्निभया सकराम्बुजम् ॥ ३-९०३ ॥
शुभ्राङ्गं तुन्दिलं वन्दे वरुणं यादसां पतिम् ।
वायुं प्राणाधिपं धूम्रं रक्ताङ्कुशकरं परम् ॥ ३-९०४ ॥
वातप्रमीसमारुढं धावन्तं वेगतो भजे ।
यक्षनाथं कुबेरं च शुक्लं शुक्लगदाधरम् ॥ ३-९०५ ॥
नरसिंहासनारूढं मेदुलं चित्रिणीयुतम् ।
विद्याधिपं नीलशूलधरं वृषभवाहनम् ॥ ३-९०६ ॥
त्रिनेत्रं भालचन्द्रं च जटाजूटधरं सितम् ।
लोकाधिपं विधातारं रक्तपद्मकरं शुभम् ॥ ३-९०७ ॥
हंसारूढं वेदपाठं कुर्वन्तं तमहं भजे ।
गौरं नागाधिपं मूर्ध्नि फणामण्डलभूषितम् ॥ ३-९०८ ॥
पीनोत्तुङ्गं चक्रधरमनन्तं विश्वगं भजे ।
(शारदायाम्)
वज्रं शक्तिं दण्डमसिं पाशमङ्कुशकं गदाम् ॥ ३-९०९ ॥
प्। २४३) शूलं चक्रं पद्ममेषामायुधानि क्रमाद्विदुः ।
पीतशुक्लसिताकाशविद्युद्रक्तसितासिताः ॥ ३-९१० ॥
कुरुविन्दपाटलाभा वज्राद्याः परिकीर्तिताः ।
(यामले)
पाणिमूले तु संलग्ने शाखाः सर्वाः प्रसारिताः ॥ ३-९११ ॥
लोकेशानामियं मुद्रा तेषामर्चासु दर्शयेत् ।
तन्त्रान्तरे ।
गणेशं वटुकं क्षेत्रपालं च योगिनीं तथा ॥ ३-९१२ ॥
पूर्वादिक्रमयोगेन गन्धपुष्पैः समर्चयेत् ।
(मेरुतन्त्रे)
पुनर्मूलं समुच्चार्य साङ्गायै सपरीति च ॥ ३-९१३ ॥
वारायै नाम देव्याश्च चतुर्थ्यन्तमुदीरयेत् ।
नम इत्यर्चयेद्गन्धपुष्पाद्यैः साधकस्त्रिधा ॥ ३-९१४ ॥
तन्त्रान्तरे ।
कृत्वावरणपूजां तु धूपदीपौ निवेदयेत् ।
धूपभेदाः उक्ताः (मेरुतन्त्रे)
धूपं दहेद्गणेशस्य प्रियः प्रोक्तस्तु गुग्गुलुः ॥ ३-९१५ ॥
सर्जं देव्या महेशस्य निर्यासो देवदारुजः ।
विष्णोः कृष्णागुरुः शीतं भास्करस्य प्रियं मतम् ॥ ३-९१६ ॥
शक्तेर्दशाङ्गं वक्ष्यामि शैलेयं१ मलयोद्भवम्२ ।
नखं३ कुष्टं४ सर्जरस५मेकैकांशं प्रकल्पयेत् ॥ ३-९१७ ॥
शिलारसा६गुरु७जटामांसी८भागद्वयं मतम् ।
षड्माक्षिकं९ सिता१०चाष्टौ धूपोऽयं शक्तिमोहनः ॥ ३-९१८ ॥
हरीतकी१सर्जरस२मुरमांस्यः३ कुभागिकाः४ ।
प्। २४४) लाक्षा५त्रिभागाश्चत्वारो भागाः शैलज६मुस्तयोः७ ॥ ३-९१९ ॥
पञ्चभागं नखं८ प्रोक्तं षड्भागं कुष्ट९ मुच्यते ।
द्वादशांशो गुडो१०ऽर्केशविघ्नविष्णुदशाङ्गकः ॥ ३-९२० ॥
मधु१मुस्ता२घृतं३गन्धो४गुग्गुल्वगुरु६शैलजम्७ ।
सरलं८सिल्ह९सिद्धार्थौ१० शेषदेवदशाङ्गकः ॥ ३-९२१ ॥
(तन्त्रान्तरे)
गुग्गु१ल्वगुरुको२शीर३शर्करा४मधु५चन्दनैः६ ।
धूपयेदाज्यसम्मिश्रैनीचैर्देवस्य देशिकः ॥ ३-९२२ ॥
सिता१ज्य२मधु३सम्मिश्रं गुग्गु४ल्वगुरु५चन्दनम्६ ।
षडङ्गधूपमेतत् तु सर्वदेवप्रियं सदा ॥ ३-९२३ ॥
रोगरोगहररोगदकेशाः सुरतरुजतुलघुपत्रविशेषाः ।
वक्त्रविवर्जितवारिदमुस्ताधूपवर्तिरिह सुन्दरि शस्ता ॥ ३-९२४ ॥
गुग्गुलं१सरलं२दारु३पत्रं४मलयसम्भवम्५ ।
ह्रीवेर६मगुरुं७कुष्टं८गुडं९सर्जरसं१० घनम्११ ॥ ३-९२५ ॥
हरीतकी१२नखी१३लाक्षा१४जटामांसी१५च शैलजम्१६ ।
षोडशाङ्गं विदुर्धूपं दैवे पैत्रे च कर्मणि ॥ ३-९२६ ॥
मधु१मुस्तं२घृतं३गन्धो४गुग्गु५ल्वगुरु६शैलजम्७ ।
चन्दनं८सिह्ल९सिद्धार्थौ१०दशाङ्गो धूप इष्यते ॥ ३-९२७ ॥
(यामले)
दशाङ्गधूपः श्यामायाः सुन्दर्याः षोडशाङ्गकः ।
अष्टादशाङ्गस्ताराया भैरव्याश्च गजाङ्गकः ॥ ३-९२८ ॥
पञ्चाङ्गश्छिन्नमस्तायाः प्रियोऽन्यासां षडङ्गकम् ।
अभावे सर्वविद्यासु गुग्गुल्वगुरुचन्दनम् ॥ ३-९२९ ॥
प्। २४५) (मेरुतन्त्रे)
हृदाणुनाथवास्त्रेण घण्टां सम्पूज्य वादयेत् ।
तत्रैव ।
तारो जयध्वनिपदं मन्त्रमातोऽग्निगेहिनी ॥ ३-९३० ॥
एकादशाक्षरो मन्त्रो घण्टायाः सर्वसिद्धिदः ।
आवाहनेऽर्घे धूपे च पुष्पे नैवेद्यदीपयोः ॥ ३-९३१ ॥
घण्टानादं प्रकुर्वीत विशेषाद्धूपदीपयोः ।
पूजाकालं विनान्यत्र कुर्यादस्याः प्रवादनम् ॥ ३-९३२ ॥
नानया च विना पूजां कारयेत् सिद्धिलालसः ।
राघवभट्टाः ।
धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना ॥ ३-९३३ ॥
अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलं दहेत् ।
धूपपदार्थ उक्तः (कुलार्णवे)
धूताशेषमहादोषपूतिगन्धप्रहारितः ॥ ३-९३४ ॥
परमामोदजननाद्धूप इत्यभिधीयते ।
दीपभेदा उक्ताः (कुलोड्डीशे)
घृतप्रदीपः१ प्रथमस्तिलतैलसमुद्भवः२ ॥ ३-९३५ ॥
सार्षपः३ फलनिर्यासजातो४वा वारिजोद्भवः५ ।
दधिज६श्चान्नज७श्चैव दीपाः सप्त प्रकीर्तिताः ॥ ३-९३६ ॥
पद्मसूत्रभवा१ वर्तिर्दर्भसूत्रभवा२ऽथवा ।
जलजा३ वादरी४वापि तूलकोषोद्भवा५ऽथवा ॥ ३-९३७ ॥
वर्तिका दीपकृत्येषु सदा पञ्चविधा स्मृता ।
(यामले)
वर्तिः श्वेताथवा रक्ता न पीता नासितापि च ॥ ३-९३८ ॥
बीजशून्यं च कार्पासं तदीयास्तन्तवोऽपि च ।
प्। २४६) पाटो वा नूतनः शुक्लो वर्तिकायां प्रशस्यते ॥ ३-९३९ ॥
जीर्णं च मलिनं वस्त्रं नैव दद्यात् कदा चन ।
(मेरौ)
तैजसं राजसं लौहं मार्तिक्यं नारिकेलजम् ॥ ३-९४० ॥
तृणराजोद्भवं वापि दीपपात्रं प्रशस्यते ।
एवं दीपं प्रकुर्वीत नेत्ररञ्जनकारणम् ॥ ३-९४१ ॥
(यामले)
निवेदयेत् पुरो भागे गन्धं पुष्पं च भूषणम् ।
वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे ॥ ३-९४२ ॥
(मेरुतन्त्रे)
न धूपं वितरेद्भूमौ नासने न घटे तथा ।
यथा तथा धारगतं कृत्वा तं विनिवेदयेत् ॥ ३-९४३ ॥
मेदो मज्जायुतो नेष्टो विष्णवे दारुसम्भवः ।
(यामले)
दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः ॥ ३-९४४ ॥
तथा ।
दक्षिणे घृतयुक्तश्च तैलयुक्तश्च वामतः ।
दक्षिणे च सिता वर्तिर्वामतो रक्तवर्तिकः ॥ ३-९४५ ॥
(मेरुतन्त्रे)
पूजयित्वा स्वमन्त्रेण घण्टां तन्नादपूर्वकम् ।
दीपं दद्यात् तु विभवे नानावाद्यपुरस्सरम् ॥ ३-९४६ ॥
तत्रैव ।
गोसर्पिषा वा तैलेन वर्त्त्या कर्पूरगर्भया ।
उच्चैः प्रदर्शयेद्दीपं न च मेदादिना क्व चित् ॥ ३-९४७ ॥
न मिश्रीकृत्य दद्यात् तु दीपं स्नेहान् घृतादिकान् ।
कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं व्रजेत् ॥ ३-९४८ ॥
प्। २४७) पारावतभ्रमाकारं भ्रामयेच्च प्रदर्शयेत् ।
देवस्य सर्वावयवान् श्लोकमेवं ततः पठेत् ॥ ३-९४९ ॥
सुप्रकाशो महादीप्तः सर्वत्र तिमिरापहः ।
सावाह्याभ्यन्तरज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ ३-९५० ॥
दक्षिणे सार्षपं दीपं तिलतैलस्य वामतः ।
सिता वर्तिर्दक्षिणतो रक्ता वर्तिस्तु वामतः ॥ ३-९५१ ॥
वृक्षेषु दीपो दातव्यो न तु भूमौ कदा चन ।
कृत्वा तु पृथिवीतापं दीपमुत्सृजते नरः ॥ ३-९५२ ॥
सतापपापं नरकं प्राप्नोत्येव शतं समाः ।
नैव निर्वापयेद्दीपं लक्ष्मीनाशकरो यतः ॥ ३-९५३ ॥
(कालिकापुराणे)
लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् ।
न स दीप इति ख्यातो ह्योघवह्निस्तु स श्रुतः ॥ ३-९५४ ॥
शाणं वा दौरं वस्त्रं जीर्णं मलिनमेव वा ।
उपभुक्तं न दद्यात् तु वर्तिकार्थं कदा चन ॥ ३-९५५ ॥
नैव निर्वापयेद्दीपं देवार्थमुपकल्पितम् ।
दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् ॥ ३-९५६ ॥
सर्वंसहा वसुमती सहते न द्वयं त्विदम् ।
अकार्ये पादघातं च दीपतापं तथैव च ॥ ३-९५७ ॥
तत्रान्तरे ।
अङ्गुष्ठाग्रेण देवेशि धृत्वा दीपं निवेदयेत् ।
परावतभ्रमाकारमुद्भ्राम्य नयनावधि ॥ ३-९५८ ॥
दीपपदार्थ उक्तः ।
(कुलार्णवे)
दीर्घाज्ञानमहाध्वान्ताहङ्कारपरिवर्जनात् ।
प्। २४८) परतत्त्वप्रकाशाच्च दीप इत्यभिधीयते ॥ ३-९५९ ॥
(यामले)
नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः ।
पक्वं च देवतावामे आमान्नं देवदक्षिणे ॥ ३-९६० ॥
पक्वापक्वविभेदेन नैवेद्येष्वपि च स्थितिः ।
पुरतो नियमो नास्ति दीपनैवेद्ययोः क्व चित् ॥ ३-९६१ ॥
(रुद्रयामल-) वचनानि ।
तैजसेषु च पात्रेषु सौवर्णे राजते तथा ।
ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथ वा पुनः ॥ ३-९६२ ॥
यज्ञदारुमये वापि नैवेद्यं कल्पयेद्बुधः ।
सर्वाभावे तु माहेयं स्वहस्तघटितं यदि ॥ ३-९६३ ॥
(सारसङ्ग्रह-) वचने तु ।
निधाय स्वर्णजे पात्रे साधारं तच्च मण्डले ।
निधाय चतुरस्रे च संस्कुर्याच्छास्त्रमार्गतः ॥ ३-९६४ ॥
अस्त्रमन्त्रेण सम्प्रोक्ष्य चक्रमुद्राभिरक्षितम् ।
वायुबीजेन संशोध्य वह्निबीजेन तद्दहेत् ॥ ३-९६५ ॥
स्पृशन् दक्षकराग्रेण सुधाबीजेन मन्त्रयेत् ।
धेनुमुद्रां प्रदर्श्याथ गन्धपुष्पैः समर्चयेत् ॥ ३-९६६ ॥
(मेरुतन्त्रे)
देवमभ्यर्च्य कुर्याच्च पुष्पाञ्जलिमनन्यधीः ।
हेमपात्रस्थितं दिव्यं परमान्नं सुसंस्कृतम् ॥ ३-९६७ ॥
पञ्चधा षड्रसोपेतं गृहाण मम सिद्धये ।
मूलमन्त्रं समुच्चार्य स्वाहान्तं जलमर्पयेत् ॥ ३-९६८ ॥
कराभ्यां संस्पृशन् पात्रं नैवेद्यान्ते नमो वदेत् ।
देवस्य दक्षिणे हस्ते जलं दत्वा पठेदिदम् ॥ ३-९६९ ॥
प्। २४९) अमृतोपस्तरणमसि स्वाहा इति नवाक्षरम् ।
दर्शयेद्वामहस्तेन विकचोत्पलसन्निभाम् ॥ ३-९७० ॥
दर्शयित्वा प्रासमुद्रां पञ्चप्राणाहुतिं चरेत् ।
प्राणादिमुद्रास्तत्रैवोक्ताः ।
कनिष्ठानामिकाङ्गुष्ठयोगः प्राणस्य मुद्रिका ॥ ३-९७१ ॥
तया प्रासं गृहीत्वा प्राणाय स्वाहेति संवदेत् ।
तर्जनीमध्यमाङ्गुष्ठयोगेनापानकं वदेत् ॥ ३-९७२ ॥
ङेन्तं स्वाहान्तमथ च व्यानाय च ततो वदेत् ।
स्वाहाथ मध्यमानामाङ्गुष्ठयोगेन निर्वपेत् ॥ ३-९७३ ॥
हित्वा कनिष्ठां सर्वाभिरुदानायाग्निगेहिनीम् ।
सर्वाभिस्तु समानाय स्वाहोक्त्वा ग्रासमावपेत् ॥ ३-९७४ ॥
तन्त्रान्तरे ।
स्पृशेत् कनिष्ठोपकनिष्ठिके द्वे
स्वाङ्गुष्ठमूर्ध्ना प्रथमेह मुद्रा ।
तथापरा तर्जनिमध्यमे स्या-
दनामिकामध्यमिके च मध्या ॥ ३-९७५ ॥
अनामिकातर्जनिमध्यमाश्च
तद्वच्चतुर्थी सकनिष्ठकास्ताः ।
स्यात् पञ्चमी मध्यमतः प्रदिष्टाः
प्राणादिमुद्रा निजमन्त्रयुक्ताः ॥ ३-९७६ ॥
(मेरुतन्त्रे)
ततः स्वर्णादिजे पात्रे सुतोयं धेनुमुद्रया ।
अमृतीकृत्य देवाय देयं मन्त्रमिदं पठेत् ॥ ३-९७७ ॥
नमस्ते देवदेवेश सर्वतृप्तिकरं परम् ।
प्। २५०) अन्यानिवेदितं शुद्धं प्रकृतिस्थं सुशीतलम् ॥ ३-९७८ ॥
परमानन्दसम्पूर्णं गृहाण जलमुत्तमम् ।
उक्त्वैवं देवतावामे जलपात्रं निवेशयेत् ॥ ३-९७९ ॥
त्रिभिर्वणैः प्रदातव्यं देवार्थं पाकभोजनम् ।
घृतपक्वं दुग्धसिद्धं साधितं केवलाग्निना ॥ ३-९८० ॥
युक्तं वैक्षवपङ्केन तच्छूद्रस्य प्रशस्यते ।
ततः पुष्पाञ्जलिं दद्यादस्त्रमन्त्रेण बन्धनम् ॥ ३-९८१ ॥
दिशां कृत्वा जवनिकां देवस्य परितो न्यसेत् ।
अमृतात्मकनैवेद्यं नम इत्युच्चरेत् पुनः ॥ ३-९८२ ॥
धेनुमुद्रां प्रदर्श्याथ भुञ्जानां देवतां स्मरेत् ।
अष्टोत्तरशतं जप्त्वा मूलमन्त्रं ददेज्जलम् ॥ ३-९८३ ॥
नैवेद्यान्ते त्वाचमनं दत्वा होमविधिं चरेत् ।
तत्रैव ।
विधाय पूजामेवं हि धूपदीपनिवेद्यकैः ॥ ३-९८४ ॥
तथा ।
वेदिकाया दक्षभागे कृत्वा स्थण्डिलमुत्तमम् ।
संस्थाप्य वह्निं संस्कृत्य वैश्वदेवं समारभेत् ॥ ३-९८५ ॥
यथाविधि ततस्तत्र गन्धाद्यैर्देवतां यजेत् ।
तत्र प्रणवपूर्वाभिर्हुत्वा व्याहृतिभिः पुरा ॥ ३-९८६ ॥
जुहुयान्मूलमन्त्रेण पायसेन घृतेन च ।
पञ्चविंशतिभिः पश्चाद्धुत्वा व्याहृतिभिः पुनः ॥ ३-९८७ ॥
सम्पूज्य तां चन्दनाद्यैः पीठमूर्तौ नियोजयेत् ।
अग्निं विसृज्य सृष्टेन पायसेन वलिं हरेत् ॥ ३-९८८ ॥
पार्षदेभ्यश्चन्दनादिपुष्पाक्षतसमन्वितम् ।
प्। २५१) अत्र वैश्वदेवो नित्यहोम एव ।
(सिद्धान्तसारे)
समाप्य वैश्वदेवं तु भूतेभ्यो वलिमाहरेत् ॥ ३-९८९ ॥
शाक्ते तु बलिदानान्ते दद्याद्भूतवलिं सुधीः ।
यत्र वैष्णवादिकल्पे वक्ष्यमाणवलिदानविधिर्नास्ति तत्रास्मिन्नेव समये भूतवलिर्देय इत्यर्थः ।
(मेरुतन्त्रे)
देवं तृप्तमिति ध्यत्वा नैवेद्यं गतसारकम् ॥ ३-९९० ॥
सञ्चिन्त्य रक्षोदिग्भागे पात्रं तत् स्थापयेत् ततः ।
गोमयाद्भिस्तदस्त्रेण नैवेद्यस्थानशोधनम् ॥ ३-९९१ ॥
देवोच्छिष्टं गृहीत्वा तु निर्माल्यभोजिने नमः ।
इत्यैशान्यां विनिःक्षिप्य हस्तं प्रक्षालयेत् ततः ॥ ३-९९२ ॥
पुनराचमनं दद्यात् करोद्वर्तनमेव च ।
शुद्धमाचमनं दत्वा सुगन्धैर्गन्धयेत् करौ ॥ ३-९९३ ॥
(गौतमीये)
क्षणं विमृष्य मतिमान् दद्याद्गण्डूषकं ततः ।
अमृतापिधानमसि स्वाहेति मनुनामुना ॥ ३-९९४ ॥
(यामले)
सर्वोपकरणादीनि मूलान्ते च निवेदयेत् ।
अशक्तो मनसा दद्यादेतत् कर्म न लोपयेत् ॥ ३-९९५ ॥
द्वितीयविद्याविषये तु विशेष उक्तो (नीलतन्त्रे)
सर्वं मन्त्रमयं कृत्वा देवतायै निवेदयेत् ।
श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ चोच्चरेत् ॥ ३-९९६ ॥
मूलेनाग्निप्रियान्तेन सतारेण च साधकः ।
तारः प्रणवस्तस्य चान्वय आदावेव सम्प्रदायसिद्धः । अयं च मन्त्रः सर्वासामपि तारादिदेवतानां पूजायामविरुद्ध एवेति सुधार्णवकृतः ।
प्। २५२) श्रीविद्याविषये तु (मानसोल्लासे)
सम्बुद्ध्या प्रवदेन्मन्त्री उपचारान् सदैव तु ॥ ३-९९७ ॥
तथा ।
सर्वोपचारमन्त्राश्च त्रिताराद्याः समीरिताः- इत्युक्तम् ।
तारत्रयं च श्री। ह्री। क्ली। इति । (यामले)
(ज्ञानार्णवे) ऽवाङ्माया कमले चेऽ त्युक्तम् ।
पुनश्च चुल्लुकं दद्याद्दत्वा ताम्बूलमुत्तमम् ॥ ३-९९८ ॥
एलालवङ्गकर्पूरजातीफलादिसंयुतम् ।
तमालदलकर्पूरपुगभागैस्तरङ्गितम् ॥ ३-९९९ ॥
(मेरुतन्त्रे)
ततो दद्याच्च ताम्बूलं विष्णवे द्वादशाङ्गकम् ।
खदि१रैला२लवङ्गे३न्दु४चूर्णं५पर्णतमालकम्६ ॥ ३-१००० ॥
जातीकोशदलात्वग्भिः७ कस्तूरी८केशरै९र्युतम् ।
पुगीफल१०मथ प्रोक्तं दशाङ्गं भास्करस्य तु ॥ ३-१००१ ॥
मृगनाभितमालाभ्यां हीनं विघ्नेश्वरस्य तु ।
पञ्चाङ्गं चूर्ण१खदिर२पर्ण३पूगीफले४न्दुकम्५ ॥ ३-१००२ ॥
शैलं देव्या जातिकोशयुतं तच्च महेशितुः ।
तत्रैव ।
दर्शयेच्च तथादर्शं कल्पयेच्छत्रचामरैः ॥ ३-१००३ ॥
अथोपचारमुद्राः ।
आसने पद्ममुद्रा स्याद्धस्तद्वयमधोमुखम् ।
मुद्रैषा कुशलप्रश्ने तदेवोर्ध्वमुखं पुनः ॥ ३-१००४ ॥
मुद्रा स्यात् स्वागते चार्घ्यमुद्रा त्वञ्जलिरुच्यते ।
अनामाङ्गुष्ठयोगाच्च सैवोक्ता पाद्यमुद्रिका ॥ ३-१००५ ॥
उत्तानं दक्षहस्तं तु कृत्वा निम्नतलं सुधीः ।
प्। २५३) कनिष्ठहीनाः संयुक्ताश्चतस्रोऽङ्गुल्य उन्नताः ॥ ३-१००६ ॥
मुद्रैषाचमने प्रोक्ताधोमुखी च त्वनामया ।
स्पृष्टाङ्गुष्ठा भवेन्मुद्रा मधुपर्के वरानने ॥ ३-१००७ ॥
अधोमुखी दक्षहस्तकृता मुष्टिः कनिष्ठया ।
विमुक्ता स्नानमुद्रैषा गदिता परमेश्वरि ॥ ३-१००८ ॥
उत्तानं दक्षिणं हस्तं कृत्वा तन्मध्यमां पुनः ।
अङ्गुष्ठेन स्पृशेदेषा मुद्रा वस्त्रस्य कीर्तिता ॥ ३-१००९ ॥
एषैवानामिकास्पर्शान्मुद्रा भूषणसञ्ज्ञिता ।
कनिष्ठास्पर्शतो ह्येषा उपवीतस्य मुद्रिका ॥ ३-१०१० ॥
ज्येष्ठाग्रेण कनिष्ठाग्रं स्पृशेद्गन्धस्य मुद्रिका ।
तन्त्रान्तरे ।
मध्यमानामिकाङ्गुष्ठैरङ्गुल्यग्रेण पार्वति ॥ ३-१०११ ॥
दद्याच्च विमलं गन्धं मूलमन्त्रेण साधकः ।
अङ्गुष्ठतर्जनीभ्यां तु यन्त्रे पुष्पं निवेदयेत् ॥ ३-१०१२ ॥
अधोमुखं करं कृत्वा तर्जन्यग्रे तु योजयेत् ।
अङ्गुष्ठाग्रं तु मुद्रेयं पुष्पाख्या परमेश्वरि ॥ ३-१०१३ ॥
यथा गन्धं तथा देवि धूपं दद्याद्विचक्षणः ।
मध्यमानामिकाभ्यां तु मध्ये पर्वणि देशिकः ॥ ३-१०१४ ॥
अङ्गुष्ठाग्रेण देवेशि धृत्वा दीपं निवेदयेत् ।
तथा ।
अङ्गुष्ठाग्रेण तर्जन्याः स्पृशेदग्रं महेश्वरि ॥ ३-१०१५ ॥
प्। २५४) धूपमुद्रेयमाख्याता सर्वदेवप्रियङ्करी ।
अनामाग्रं स्पृशेद्देवि ज्येष्ठाग्रेण तु देशिकः ॥ ३-१०१६ ॥
नैवेद्यमुद्रा कथिता देवतातृप्तिकारिणी ।
अन्यत्र ।
उत्तोलनं त्रिधा कृत्वा गायत्र्या मूलयोगतः ॥ ३-१०१७ ॥
तत्त्वाख्यमुद्रया देवि नैवेद्यं तु निवेदयेत् ।
मूलेनाचमनं दद्यात् ताम्बूलं तत्त्वमुद्रया ॥ ३-१०१८ ॥
(सिद्धान्तसारे)
मूलमन्त्रेण सम्पूज्य स्वस्वकल्पोक्तमन्त्रतः ।
देवतायै वलिं दत्वा विघ्नादिभ्यो वलिं हरेत् ॥ ३-१०१९ ॥
(ज्ञानार्णवे)
ईशानवह्निनैरृत्यवायुकोणेषु पूर्ववत् ।
मण्डलानि विधायाथ पूर्ववत् पूजयेत् प्रिये ॥ ३-१०२० ॥
पूर्ववद्वलिदानं च दद्यात् सर्वसमृद्धये ।
वटुकानि महेशानि योगिनीभ्यश्च वल्लभे ॥ ३-१०२१ ॥
गणेशक्षेत्रपालाभ्यां पूर्ववद्वलिमुत्सृजेत् ।
(समयाचारे)
दक्षिणे वटुकं दद्यादुत्तरे योगिनीगणे ॥ ३-१०२२ ॥
पूर्वे भूतवलिं दद्यात् क्षेत्रपालाय पश्चिमे ।
तथा ।
अङ्गुष्ठनामिकाभ्यां तु वटुकाय वलिर्मतः ॥ ३-१०२३ ॥
कनिष्ठाङ्गुष्ठयोगेन योगिनीवलिमाहरेत् ।
अङ्गुष्ठतर्जनीभ्यां तु क्षेत्रपालवलिं हरेत् ॥ ३-१०२४ ॥
अङ्गुलीभिश्च सर्वाभिरुक्तो भूतवलिः प्रिये ।
तथ्यमुष्टेस्तु मध्यस्थामङ्गुलिं दण्डवत् कुरु ॥ ३-१०२५ ॥
प्। २५५) गजदन्तमहामुद्रा गणपस्य वलौ भवेत् ।
अङ्गुलीभिश्च सर्वाभिरुक्तो भूतवलिः प्रिये ॥ १०२६ ॥
वलिद्रव्याण्युक्तानि (महाकालसंहितायाम्)
तत्रादौ दक्षिणाचारे ।
माषभक्तं तथा लाजा धानाः शक्तव एव वा ।
पृथुकास्तण्डुला वापि स्विन्ना व्रीहय एव वा ॥ १०२७ ॥
आमिक्षा वा यवागूर्वा कृशरं पायसं तथा ।
आज्याभिषिक्तं दधि वा पक्वान्नानि फलानि वा ॥ १०२८ ॥
वामाचारे ।
दग्धमीनो भर्जितं वा तेमनीकृतमेव वा ।
मदिरा वा प्रदातव्या वलित्वेन वरानने ॥ १०२९ ॥
सर्वसाधारणत्वेन वलिर्नैष प्रकीर्त्त्यते ।
अधिकारिविशेषेण दातुं शक्यो वलिस्त्वयम् ॥ १०३० ॥
वलिदानमन्त्रास्तु (ज्ञानार्णवे)
एह्येहि देवीपुत्रान्ते वटुकान्ते च नाथ च ।
कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च ॥ १०३१ ॥
ज्वालामुखं च सर्वान्ते विघ्नान् नाशय नाशय ।
सर्वोपचारसहितं वलिं गृह्ण द्विधा पदम् ॥ १०३२ ॥
वह्निजायान्वितो मन्त्रो वटुकस्य समीरितः ।
अनेन मनुना देवि वटुकस्य वलिं हरेत् ॥ १०३३ ॥
(मेरौ)
योगिनीनां वलेर्मन्त्रं साधनान्ते पठेदिमम् ।
प्। २५६) या। योगिनीभ्यः स्वाहेति क्वङ्कार्णं स्रग्धरान्वितम् ॥
रुर्ध्वं ब्राह्माण्डतो वा दिवि गगनतले भूतले निष्कले
पाताले वानले वा सलिलपवनयोर्यत्र तत्र स्थिता वा ।
क्षेत्रे पाठोपीठादिषु च कृतपदाः पुष्पधूपादिकेन
प्रीतादेव्यः सदानः शुभवलिविधिनापान्तु वीरेन्द्रवन्द्याः ॥
(ज्ञानार्णवे) तूक्तश्लोकमुक्त्वा-
एतदन्ते महेशानि या। बीजं योगिनी ततः ॥ १०३४ ॥
भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत् ।
कवचं चास्त्रमालिख्य वह्निजायां पुनर्लिखेत् ॥ १०३५ ॥
अनेन मनुना देवि योगिनीवलिमाहरेम्- इत्युक्तम् ।
तया ।
षड्दीर्घस्वरसम्भिन्नं क्षकारं पुनरालिखेत् ॥ १०३६ ॥
पुनः क्षेत्रपदं पालधूपदीपादि चालिखेत् ।
सहितं वलिमालिख्य गृह्ण गृह्ण ततो वदेत् ॥ १०३७ ॥
वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि ।
अनेन मनुना देवि क्षेत्रपाल वलिं हरेत् ॥ १०३८ ॥
गा। गी। गू। त्रयमालिख्य ङेन्तं गणपतिं वदेत् ।
वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् ॥ १०३९ ॥
मे वशं चानयेत्युक्त्वा वलिं गृह्ण द्विधा पदम् ।
वह्निजायान्वितो मन्त्रो गणपस्यवलिं हरेत् ॥ १०४० ॥
सिद्धान्तसारोद्धृतसामान्यपद्धतौ तु पूर्वादिप्रादक्षिण्येन गणेशादिभ्यो वलिप्रदानमुक्तम् ।
प्। २५७) गणेशवटुकक्षेत्रपालेभ्यो वलिमाहरेत् ।
योगिनीभ्यश्च पूर्वादिप्रादक्षिण्येन देशिकः- इति ॥ १०४१ ॥
महाकालेनापि गणेशादिक्रम उक्तः ।
गणाधिपतये पश्चाद्वटुकाय निवेदयेत्- इत्यादि ।
वस्तुतो दक्षिणमार्गे गणेशादिक्रमो वाममार्गे वटुकादिक्रमः ।
अवश्यमादौ वामादौ कुर्याद्वटुकपूजनम् ॥ १०४२ ॥
मार्गेऽस्मिन् वटुको मुख्यः सुराद्यं तेन निर्मितम् ।
इति वाममार्गप्रकरणीय- (मेरुतन्त्रे-) वचनात् ।
अथ भूतवलिः (मेरुतन्त्रे)
उपविश्यासने मन्त्री दद्याद्भूतवलिं ततः ॥ १०४३ ॥
ईशाने मण्डलं कृत्वा साधरं तत्र निःक्षिपेत् ।
अन्नं व्यञ्जनतोयाढ्यं पात्रं पुष्पादिपूरितम् ॥ १०४४ ॥
तत्र भूतानि सम्पूज्य ततस्तेभ्यो वलिं हरेत् ।
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥ १०४५ ॥
योगिन्योऽप्युग्ररूपाश्च गणानामधिपाश्च ये ।
भूचराः खेचराश्चैव ये तिष्ठन्त्यन्तरिक्षगाः ॥ १०४६ ॥
सर्वे ते प्रीतमनसो भूता गृह्णन्त्विमं वलिम् ।
वामहस्तेन तत्पात्रे जलाधारं समर्पयेत् ॥ १०४७ ॥
पुष्पाञ्जलिं समादाय भूतानि प्रार्थयेदिति ॥ १०४७एफ़् ॥
भूतानि यानीह वसन्ति भूतले
वलिं गृहीत्वा विधिवत्प्रयुक्ताम् ।
सन्तोषमासाद्य व्रजन्तु सर्वे
क्षमन्तु तान्यत्र नमोऽस्तु तेभ्यः ॥ ३-१०४८ ॥
दत्वा पुष्पाञ्जलिं नत्वा विहरन्तु यथासुखम् ।
भूतानीति च नाराचमुद्रया विसृजेत् ततः ॥ ३-१०४९ ॥
प्। २५८) (शारदायाम्)
सहस्रावृत्त्या सञ्जप्य मूलमन्त्रमनन्यधीः ।
तं जपं सर्वसम्पत्त्यै देवतायै समर्पयेत् ॥ ३-१०५० ॥
(मेरुतन्त्रे)
अष्टोत्तरसहस्रं तु तदर्धे त्रिशतं तु वा ।
अष्टोत्तरशतं वापि जपेन्मूलमतन्द्रितः ॥ ३-१०५१ ॥
समाप्ते तु जपे मालां निदध्यान्मस्तकोपरि ।
अर्घपात्राज्जलं हस्ते गृहीत्वेदं पठेत् ततः ॥ ३-१०५२ ॥
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादाज्जगत्पते ॥ ३-१०५३ ॥
देवस्य दक्षिणे हस्ते तोयं दत्वा समर्पयेत् ।
तथा ।
ततस्तु गीतस्तुतिभिर्घण्टावादनपूर्वकम् ॥ ३-१०५४ ॥
ब्राह्मणो वेदमन्त्राद्यैः क्षत्रियः संहितादिभिः ।
पौराणिकाद्यैर्वैश्यस्तु शूद्रस्तु प्राकृतादिभिः ॥ ३-१०५५ ॥
(यामले)
ततश्च देवतां भक्त्या परिक्रम्य नमेद्बुधः ।
परिक्रम्येति प्रदक्षिणीकृत्य ।
प्रदक्षिणफलमुक्तं तन्त्रान्तरे ।
वेदविद्भ्यो धरां दत्वा यत् फलं लभते नरः ॥ ३-१०५६ ॥
तत् फलं लभते भक्त्या कृष्णं कृत्वा प्रदक्षिणम् ।
कृण्षमित्युपलक्षणम् ।
प्रदक्षिणभेदा उक्ता (यामले)
त्रिकोणाकारकं देवि शक्तेः कुर्यात् प्रदक्षिणम् ॥ ३-१०५७ ॥
अर्धचन्द्रं महेशस्य पृष्ठतश्च समीरितम् ।
प्। २५९) शिवप्रदक्षिणे मन्त्री अर्धचन्द्रक्रमेण च ॥ ३-१०५८ ॥
सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् ।
प्रसार्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः ॥ ३-१०५९ ॥
दर्शयेद्दक्षिणं पार्श्वं मनसापि च दक्षिणः ।
त्रिधा च वेष्टयेत् सम्यग्देवतायाः प्रदक्षिणे ॥ ३-१०६० ॥
एकहस्तप्रमाणो वा एकं वापि प्रदक्षिणम् ।
अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥ ३-१०६१ ॥
तन्त्रान्तरे ।
एकं चण्ड्यां रवौ सप्त त्रीणि दद्याद्विनायके ।
चत्वारि केशवे दद्याच्छिवस्यार्धं प्रदक्षिणम् ॥ ३-१०६२ ॥
प्रणामभेदास्तु विष्णुकल्पलतायामुक्ताः ।
तद्भ्यां१ कराभ्यां२ जानुभ्या३ मुरसा४ शिरसा५ दृशा६ ।
वचसा७ मनसा८ चेति प्रणामोऽष्टाङ्ग ईरितः ।
बाहुभ्यां१ च सजानुभ्यां२ शिरसा३ वचसा४ दृशा५ ॥ ३-१०७८ ॥
पचाङ्गोऽयं प्रणामः स्यात् पुजासु प्रवराविमौ ।
तथा ।
भूमौ निपत्य यः कुर्यात् कृष्णे दृष्टे नतिं सुधीः ॥ ३-१०६३ ॥
सहस्रजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् ।
(विष्णुधर्मे)
जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ॥ ३-१०६४ ॥
कृत्वा प्रणामान् देवस्य सर्वान् कामानवाप्नुयात् ।
परमाणूनि यावन्ति ललाटे पुरुषस्य तु ॥ ३-१०६५ ॥
पार्थिवानि भवन्तीह नमतो मधुसूदनम् ।
तावतोऽब्दा।स्तु विप्रेन्द्र स्वर्गलोके महीयते ॥ ३-१०६६ ॥
प्। २६०) (शारदायाम्)
ततः शम्भोर्दिशि गुरुर्विकिरे पूर्वसञ्चिते ।
हेमवस्त्रादिसंयुक्तां कर्करीं तोयपूरिताम् ॥ ३-१०६७ ॥
संस्थाप्य तस्यां सिंहस्थां खड्गखेटकधारिणीम् ।
घोररूपां पश्चिमास्यां पूजयेदस्त्रदेवताम् ॥ ३-१०६८ ॥
चलासनेन सम्पूज्य तामादाय गुरुः पुनः ।
रक्षेति लोकपालानां नालमुक्तेन वारिणा ॥ ३-१०६९ ॥
देवाज्ञां श्रावयन्नन्तः परिवृत्य प्रदक्षिणम् ।
अस्त्रमन्त्रं समुच्चार्य यथापूर्वं निवेशयेत् ॥ ३-१०७० ॥
अभ्यर्च्य भूयो गन्धाद्यैर्वक्त्रं तस्य स्थिरासनः ।
कर्करी वर्द्धनी सा च सनाला घटी ।
(क्रियासङ्ग्रहे)
यथास्थानं निवेश्याथ कर्करीमस्त्ररूपिणीम् ॥ ३-१०७१ ॥
आचार्य आत्मनः कुण्डे वह्निसंस्कारमाचरेत् ॥ ३-१०७१एफ़् ॥
बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत-
स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
सद्युक्तिस्फुटमौक्तिकोत्करचमत्कारे तृतीयस्तर-
ङ्गोऽयं श्रीनरदेवनिर्मितपुरश्चर्यार्णवेऽस्मिन्नगात् ॥ ३-१०७२ ॥
इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहविरचिते पुरश्चर्यार्णवे दीक्षाविधौ गुरुवरणादिपूर्वकदेवतार्चनविधानं नाम तृतीयस्तरङ्गः ॥ ३ ॥