दीक्षाकालदेशवास्तुयागकुण्डमण्डपादिनिर्णयपूर्वकमङ्कुरार्पणविधानम्॥
अथ दीक्षाकालनिर्णयः ।
तत्रादौ मासफलम् । तदुक्तम् (यामले)
वैशाखे तु शिवा दीक्षा विपुलां श्रियमादिशेत् ।
ज्येष्ठे मृत्युप्रदा चैव आषाढे सुखसम्पदौ ॥ २-१ ॥
श्रावणे रत्नलाभः स्याद्भाद्रे दुःखप्रदा मता ।
आश्विने सर्वसिद्धिः स्यात् कार्तिके ज्ञानसिद्धिदा ॥ २-२ ॥
शुभकृन्मार्गशीर्षे च पौषे ज्ञानविनाशिनी ।
मेधावृद्धिकरी माघे फाल्गुने सर्ववश्यकृत् ॥ २-३ ॥
चैत्रे च पीडाजननी मलमासं विवर्जयेत् ।
(सिद्धान्तशेखरे)
शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा ॥ २-४ ॥
फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षा च मध्यमा ।
आषाढे माघमासे च कनिष्ठा सा प्रकीर्तिता ॥ २-५ ॥
निन्दितश्चैत्रमासस्तु पौषो भाद्रपदस्तथा ।
गोपालमन्त्रदीक्षायां तु चैत्रोऽपि प्रशस्तः । तदुक्तं गौतमेन ।
मन्त्रारम्भस्तु चैत्रे स्यात् समस्तपुरुषार्थदः ॥ २-६ ॥
वैशाखे रत्नलाभः स्यात् ज्येष्ठे तु मरणं ध्रुवम् ।
आषाढे बन्धुनाशः स्यात् पूर्णायुः श्रावणे भवेत् ॥ २-७ ॥
प्रजानाशो भवेद्भाद्रे आश्विने रत्नसञ्चयः ।
कार्तिके मन्त्रसिद्धिः स्यात् मार्गशीर्षे तथा भवेत् ॥ २-८ ॥
पौषे तु शत्रुपीडा स्यान्माघे मेधाविवर्धनम् ।
फाल्गुने सर्वकामाः स्युर्मलमासं विवर्जयेत् ॥ २-९ ॥
प्। ७६) अथ पक्षफलम् । तदुक्तम् (रुद्रयामले)
शुक्लपक्षे शुभा दीक्षा कृष्णेऽप्यापञ्चमीदिनम् ।
क्षीणेन्दौ व्रतदीक्षां च न कुर्यान्मन्त्रवित्तमः ॥ २-१० ॥
कृष्णाष्टमीमारभ्य शुक्लचतुर्दशीं यावत् क्षीणचन्द्रः ।
अथ तिथिफलम् । तदुक्तम् (यामले)
प्रतिपत्संस्कृता दीक्षा ज्ञाननाशकरी मता ।
द्वितीयायां भवेज्ज्ञानं तृतीयायां सुखी भवेत् ॥ २-११ ॥
चतुर्थ्यां धननाशः स्यात् पञ्चम्यां बुद्धिवर्धनम् ।
षष्ठ्यां ज्ञानक्षयं सौख्यं लभते सप्तमीदिने ॥ २-१२ ॥
अष्टम्यां बुद्धिनाशः स्यान्नवम्यां वपुषः क्षयः ।
दशम्यां राजसौभाग्यमेकादश्यां शुचिर्भवेत् ॥ २-१३ ॥
द्वादश्यां सर्वसिद्धिः स्यात् त्रयोदश्यां दरिद्रता ।
तिर्यग्योनिश्चतुर्दश्यां कृमिर्मासावसानके ॥ २-१४ ॥
पक्षान्ते सर्वसिद्धिः स्यादस्वाध्यायं विवर्जयेत् ।
सन्ध्यागर्जननिर्घोषे भूकम्पोल्कानिपातने ॥ २-१५ ॥
त्रिरात्रं वर्जयेन्मन्त्री श्रुत्युक्तानपि वर्जयेत् ।
(तत्त्वसारसंहितायाम्)
तां तां तिथिं समालोच्य तद्भक्ता।स्तत्र दीक्षयेत् ॥ २-१६ ॥
ब्रह्मणः पूर्णमास्युक्ता द्वादशी चक्रधारिणः ।
चतुर्दशी शिवस्योक्ता वाचः प्रोक्ता त्रयोदशी ॥ २-१७ ॥
द्वितीया च श्रियाः प्रोक्ता पार्वत्याश्च तृतीयका ।
चतुर्थी गणनाथस्य भानोः प्रोक्ता च सप्तमी ॥ २-१८ ॥
नित्यामार्गेषु पार्वत्या अष्टमी च चतुर्दशी ।
अथ मासान्तपक्षान्तावित्युक्तत्वान्मासान्तं सङ्क्रान्तेर्गतदिनं पक्षान्तं पूर्णमास्यवास्ये । तदुक्तम् (गौतमीये)
प्। ७७) सौरमासि शुभा दीक्षा न चान्द्रे न च तारके ॥ २-१९ ॥
इति वचनान्मासान्तं सौरमासान्तं ज्ञेयम् ।
अथ वारफलम् ।
रविवारे भवेद्वित्तं सोमे शान्तिर्भवेत् किल ।
आयुरङ्गारके हन्ति तत्र दीक्षां विवर्जयेत् ॥ २-२० ॥
बुधे सौन्दर्यमाप्नोति ज्ञानं स्यात् तु बृहस्पतौ ।
शुक्रे सौभाग्यमाप्नोति यशोहानिः शनैश्चरे ॥ २-२१ ॥
अथ नक्षत्रफलम् । तदुक्तम् (त्रिपुरार्णवे)
अश्विन्यां सुखमाप्नोति भरण्यां मरणं ध्रुवम् ।
कृत्तिकायां भवेद्दुःखी रोहिण्यां वाक्पतिर्भवेत् ॥ २-२२ ॥
मृगशीर्षे सुखावाप्तिरार्द्रायां बन्धुनाशनम् ।
पुनर्वसौ धनाढ्यः स्यात् पुष्ये शत्रुविनाशनम् ॥ २-२३ ॥
आश्लेषायां भवेन्मृत्युर्मघायां दुःखमोचनम् ।
सौन्दर्यं पूर्वफाल्गुन्यां प्राप्नोतीति न संशयः ॥ २-२४ ॥
ज्ञानं चोत्तरफाल्गुन्यां हस्तायां च बली भवेत् ।
चित्रायां ज्ञानसिद्धिः स्यात् स्वात्यां शत्रुविनाशनम् ॥ २-२५ ॥
विशाखायां भवेत् सौख्यमनुराधा च बुद्धिदा ।
ज्येष्ठायां सुतहानिः स्यान्मूलायां कीर्तिवर्धनम् ॥ २-२६ ॥
पूर्वाषाढोत्तराषाढे भवेतां कीर्तिदायिके ।
श्रवणायां भवेद्दुःखी धनिष्ठायां दरिद्रता ॥ २-२७ ॥
बुद्धिः शतभिषायां स्यात् पूर्वभाद्रे सुखी भवेत् ।
सौख्यं चोत्तरभाद्रे स्याद्रेवत्यां कीर्तिवर्धनम् ॥ २-२८ ॥
(रत्नावल्याम्)
प्रतिपत्पूर्वाषाढा च पञ्चमीकृत्तिका तथा ।
प्। ७८) पूर्वभाद्रपदा षष्ठ्यां दशमीरोहिणी तथा ॥ २-२९ ॥
द्वादश्यां सार्पनक्षत्रमर्यम्णा च त्रयोदशी ।
नक्षत्रलुप्ता इत्येते देवानामपि नाशदा ॥ २-३० ॥
अथ लग्नफलम् (राजमार्तण्डे)
गुर्वर्कभार्गवाशुद्धौ दीक्षा दारिद्र्यकारिणी ।
शुभेऽह्नि शुभलग्ने च दीक्षैश्वर्यप्रदायिनी ॥ २-३१ ॥
(रुद्रयामले)
वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके ।
चन्द्रतारानुकूलेऽह्नि दद्याद्दीक्षां सदा गुरुः ॥ २-३२ ॥
(मेरुतन्त्रे)
सदा दुःखं सदा हानिर्वामिनां मिथुने शुभम् ।
वामिनां यवनानां च निरुद्धं बहुधा शुभम् ॥ २-३३ ॥
(स्मृतिसंहितायाम्)
स्थिर लग्नं विष्णुमन्त्रे शिवमन्त्रे चरं स्मृतम् ।
द्विस्वभावगतं लग्नं शक्तिमन्त्रेषु शस्यते ॥ २-३४ ॥
(गौतमीये सौभाग्यरत्नाकरे च)
त्रि३षडा६य१ग१ताः पापाः सौम्याः के१४७न्द्र१०त्रिको५ण९गाः ।
दीक्षायां तु शुभाः प्रोक्ता रन्ध्रस्थाः सर्वनाशकाः ॥ २-३५ ॥
स्थिरे लग्ने शुभा दीक्षा द्विस्वभावे च मध्यमा ।
नैव कुर्याच्चरे लग्ने दीक्षां चैव शुभेच्छुभिः ॥ २-३६ ॥
तृतीयैकादशः षष्ठो दशमस्थः शुभः शशी ।
अथ योगफलम् (मेरुतन्त्रे)
विष्कम्भादिकयोगानां नामतुल्यं फलं भवेत् ॥ २-३७ ॥
आनन्दादिकयोगानां सर्वत्राविकलं फलम् ।
प्। ७९) मन्वाद्यासु युगाद्यासु दीक्षा सर्वसमृद्धिदा ॥ २-३८ ॥
ताश्चोक्ताः (मुहूर्तचिन्तामणौ)
मन्वाद्यास्त्रितिथी मधौ तिथिरवी ऊर्जे शुचौ दिक्तिथी
ज्येष्ठेऽन्त्ये च तिथिस्त्विषे नव तपस्यश्वाः सहस्ये शिवाः ।
भाद्रेऽग्निश्च सिते त्वमाष्ट नभसः कृष्णे युगाद्यासिते
गोग्नी बाहुलराधयोर्मदनदर्शौ भाद्रमाघासिते ॥ २-३९ ॥
(अग्निपुराणे)
नवम्यां शुक्लपक्षस्य कार्तिके निरगात् कृतम् ।
त्रेतासिततृतीयायां वैशाखे द्वापरं युगम् ॥ २-४० ॥
दर्शे तु माघमासस्य त्रयोदश्यां नभस्यके ।
कृष्णे कलिर्द्विसप्तास्तु ज्ञेया मन्वन्तरादयः ॥ २-४१ ॥
(योगिनीतन्त्रे)
रविसङ्क्रमणे चैव सूर्यस्य ग्रहणे तथा ।
तत्र लग्नादिकं किञ्चिन्न विचार्यं कदाचन ॥ २-४२ ॥
महाष्टम्यां विशेषेण धर्मकामार्थसिद्धये ।
(बृहच्छ्रीक्रमे)
विषुवेऽयनयोर्द्वन्द्वे सङ्क्रान्त्यां मदनोत्सवे ॥ २-४३ ॥
गुरुपर्वदिने चैव दीक्षा शुभफलप्रदा ।
गुरुपर्वाणि च (भुवनेश्वरी तन्त्रे)
षष्ठीभाद्रपदे मासि इषे कृष्णा त्रयोदशी ॥ २-४४ ॥
कार्तिके नवमी शुक्ला तृतीया मार्गशीर्षके ।
पौषस्य नवमी शुक्ला माघे चैव चतुर्थिका ॥ २-४५ ॥
फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी ।
वैशाखे चाक्षया चैव ज्येष्ठे दशहरा तथा ॥ २-४६ ॥
आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी ।
प्। ८०) एतानि गुरुपर्वाणि पुण्यान्याहुर्मनीषिणः ॥ २-४७ ॥
(सारसङ्ग्रहे)
पञ्चम्येकादशी शुक्ला सप्तमी च त्रयोदशी ।
दशमी शुक्लपक्षस्य द्वादशी तु विशेषतः ॥ २-४८ ॥
तृतीया विहिता नित्यं षष्ठी सर्वत्र निन्दिता ।
विष्णुयामले ।
देवीबोधं समारभ्य यावत् स्यान्नवमीतिथिः ॥ २-४९ ॥
(रत्नावल्याम्)
योगाश्च प्रीतिरापुष्मान् सौभाग्यः शोभनः शुभः ।
सुकर्मा च धृतिर्वृद्धिर्ध्रुवः सिद्धिश्च हर्षणः ॥ २-५० ॥
वरीया।श्च शिवः सिद्धो ब्रह्मा इन्द्रश्च षोडश ।
अथ करणनिर्णयः (गौतमीयतन्त्रे)
शुभानि करणान्याहुर्दीक्षायां च विशेषतः ॥ २-५१ ॥
शकुन्यादीनि विष्टिं च विशेषेण विवर्जयेत् ।
अथ सूर्यराशिफलम् (सारसङ्ग्रहे)
मन्त्राद्यारम्भणे मेषो धनधान्यप्रदो भवेत् ॥ २-५२ ॥
वृषे मरणमाप्नोति मिथुनेऽपत्यनाशनम् ।
कर्कटे सर्वसिद्धिः स्यात् सिंहे मेधाविवर्धनम् ॥ २-५३ ॥
कन्या लक्ष्मीप्रदा नित्यं तुलायां सर्वसिद्धयः ।
वृश्चिके सर्वसिद्धिः स्याद्धनुर्ज्ञानविनाशनम् ॥ २-५४ ॥
मकरः पुत्रदः प्रोक्तः कुम्भो धनसमृद्धिदः ।
मीनो दुःखप्रदो नित्यमेवं राशिफलं प्रिये ॥ २-५५ ॥
(गार्ग्यसंहितायाम्)
निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ।
सूर्यग्रहणकालस्य समानो नास्ति भूतले ॥ २-५६ ॥
तत्र यद्यत् कृतं कर्म अनन्तफलदं भवेत् ।
प्। ८१) एता एव महेशानि दश विद्याः प्रकीर्तिताः ॥ २-५७ ॥
नात्र सिद्धाद्यपेक्षास्ति नक्षत्रादिविचारणा ।
कालादिशोधनं नास्ति साध्यादिदूषणं न हि ॥ २-५८ ॥
(समयातन्त्रे)
अयने विषुवे चैव युगाद्यासु तथैव च ।
ग्रहणे च महातीर्थे न कालस्य विचारणा ॥ २-५९ ॥
तुलसीनिकटे बिल्वमूले धात्रीतले तथा ।
अनादिदेवसान्निध्ये महाक्षेत्रे गवां गृहे ॥ २-६० ॥
देवीपूजादिने वापि नास्ति कालस्य निर्णयः ।
(यामले)
मन्वाद्यासु युगाद्यासु दीक्षा सर्वसमृद्धिदा ॥ २-६१ ॥
ताश्चोक्ता (मुहूर्तचिन्तामणौ)
मन्वाद्यास्त्रितिथी मधौ तिथिरवी ऊर्जे शुचौ दिक्तिथी
ज्येष्ठेऽन्त्ये च तिथिस्त्विषे नव तपस्यश्वाः शिवा ।
भाद्रेऽग्निश्च सिते त्वमाष्ट नभसः कृष्णे युगाद्यासिते
गोग्नी बाहुलराधयोर्मदनदर्शौ भाद्रमाघासिते ॥ २-६२ ॥
(अग्निपुराणे)
नवम्यां शुक्लपक्षस्य कार्तिके निरगात् कृतम् ।
त्रेतासियतृतीयायां वैशाखे द्वापरं युगम् ॥ २-६३ ॥
दर्शे तु माघमासस्य त्रयोदश्यां नभस्यके ।
कृष्णे कलिर्द्विसप्तास्तु ज्ञेया मन्वन्तरादयः ॥ २-६४ ॥
(योगिनी तन्त्रे)
रविसङ्क्रमणे चैव सूर्यस्य ग्रहणे तथा ।
तत्र लग्नादिकं किञ्चिन्न विचार्यं कदाचन ॥ २-६५ ॥
महाष्टम्यां विशेषेण धर्मकामार्थसिद्धये ।
प्। ८२) (बृहच्छ्रीक्रमे)
विषुवेऽयनयोर्द्वन्द्वे सङ्क्रान्त्यां मदनोत्सवे ॥ २-६६ ॥
गुरुपर्वदिने चैव दीक्षा शुभफलप्रदा ।
गुरुपर्वाणि च (भुवनेश्वरी तन्त्रे)
षष्ठीभाद्रपदे मासि इषे कृष्णा त्रयोदशी ॥ २-६७ ॥
कार्तिके नवमी शुक्ला तृतीया मार्गशीर्षके ।
पौषस्य नवमी शुक्ला माघे चैव चतुर्थिका ॥ २-६८ ॥
फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी ।
वैशाखे चाक्षया चैव ज्येष्ठे दशहरा तथा ॥ २-६९ ॥
आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी ।
एतानि गुरुपर्वाणि पुण्यान्याहुर्मनीषिणः ॥ २-७० ॥
(सारसङ्ग्रहे)
पञ्चम्येकादशी शुक्ला सप्तमी च त्रयोदशी ।
दशमी शुक्लपक्षस्य द्वादशी तु विशेषतः ॥ २-७१ ॥
तृतीया विहिता नित्यं षष्ठी सर्वत्र निन्दिता ।
विष्णुयामले ।
देवीबोधं समारभ्य यावत् स्यान्नवमीतिथिः ॥ २-७२ ॥
कृता तासु बुधैर्दीक्षा सर्वाभीष्टफलप्रदा ।
बोधने चैव दुर्गायाः कालाकालं न शोधयेत् ॥ २-७३ ॥
अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा ।
(स्मृतिसंहितायाम्)
व्यतीपातो वैधृतिश्च दीक्षायोगाः शुभावहाः ॥ २-७४ ॥
तदुक्तम् (राजमार्तण्डे)
श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके ।
यद्यमा रविवारेण व्यतीपातः स उच्यते ॥ २-७५ ॥
प्। ८३) नागदैवतमाश्लेषा । मस्तके प्रथमपदे ।
कन्यायां यदि वा स्यातां मेषे भूमिजभानुजौ ।
तामसी शनिवारे च सप्तमी कुम्भभास्करे ॥ २-७६ ॥
सूर्यग्रहशतैस्तुल्यो व्यतीपातः स उच्यते ।
तामसी कृष्णा । (महोग्रताराकल्पे)
कृष्णपक्षस्य चाष्टम्यां शुभलग्ने शुभे क्षणे ॥ २-७७ ॥
पूर्वभाद्रपदे शुक्ले मित्रतारासुसंयुते ।
अथवा चानुराधायां रेवत्यां तु प्रशस्यते ॥ २-७८ ॥
जानीयाच्छोभनं कालं मन्त्रस्य ग्रहणं प्रति ।
एषे चैव विशेषेण कार्तिके च विशेषतः ॥ २-७९ ॥
महाचीनक्रमेणैव न दोषो नीलशारदे ।
(शैवागमे)
धर्मदः प्रातःकालः स्यात् सङ्गमो राज्यदायकः ॥ २-८० ॥
मध्याह्ने सर्वसिद्धिः स्यात् सायाह्नो मध्यमो भवेत् ।
रजनी मन्त्रदाने तु निषिद्धा दैशिकोत्तमैः ॥ २-८१ ॥
(क्रियाकाण्डशेखरे)
मौमुक्षवीं प्रत्यथ न कालादिनियमः स्मृतः ।
निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये ॥ २-८२ ॥
सर्वास्तारा ग्रहाः सर्वे नक्षत्राणि च राशयः ।
यस्मिन्नहानि सन्तुष्टो गुरुः सर्वे शुभावहाः ॥ २-८३ ॥
सन्तुष्टे तु गुरौ तत्र सन्तुष्टाः सर्वदेवताः ।
यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ॥ २-८४ ॥
न कालनियमस्तत्र न देशनियमस्तथा ।
गुरुं सन्तोषयेद्भक्त्या स्वयमेव तथा भवेत् ॥ २-८५ ॥
प्। ८४) अथ दीक्षास्थाननिर्णयः । तदुक्तं (पूर्णपद्धतौ)
गोशालायां गुरोर्गेहे देवागारे च कानने ।
पुण्यक्षेत्रे तथोद्याने नदीतीरे च स्वाश्रमे ॥ २-८६ ॥
धात्रीबिल्वसमीपे च पर्वताग्रे गुहासु च ।
गङ्गायां तत्कृतं सर्वं कोटिकोटिगुणं भवेत् ॥ २-८७ ॥
(यामले)
पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये ।
प्रयागे श्रीगिरौ काश्यां कालाकालं न शोधयेत् ॥ २-८८ ॥
(योगिनीतन्त्रे)
गयायां भास्करक्षेत्रे विरजे चन्द्रपर्वते ।
चत्वरे च मतङ्गे च तथा कन्याश्रमेषु च ॥ २-८९ ॥
न गृह्णीयात् ततो दीक्षां तीर्थेष्वेतेषु पार्वति ।
अथ मन्त्रविशेषेषु देवताविशेषाणां शापाः प्रोक्ताः (मेरुतन्त्रे)
सुरया सुधया पूर्वदेवा देवा विमोहिताः ॥ २-९० ॥
यदा तदा तु भगवान् प्रोवाच मधुसूदनः ।
कः पूज्यो भवतां मध्ये श्रेष्ठस्तन्मे निगद्यताम् ॥ २-९१ ॥
उन्मत्ताश्च तदा देवाः श्रेष्ठोऽहमिति चाब्रुवन् ।
किञ्चित् स्मित्वा तु भगवान् मोहयन्नात्ममायया ॥ २-९२ ॥
इत्यवोचद्यस्य वाक्यं शापे चानुग्रहे क्षमम् ।
स एव देवः श्रेष्ठोऽत्र पूर्वो वाप्यपरोऽपि वा ॥ २-९३ ॥
इति श्रुत्वा वचो विष्णोरशप।श्च परस्परम् ।
मन्त्ररूपाण्यतो देवि संस्कारैः शापमोक्षणम् ॥ २-९४ ॥
विना तु शापमोक्षेण कः सिद्धिं प्राप्नुयाज्जनः ।
श्रीदेव्युवाच ।
शापः केन कथं दत्तः शप्ते जप्ते च किं फलम् ॥ २-९५ ॥
प्। ८५) निःशापत्वं कथं तेषां सिद्धिः स्यादिति मे वद ।
श्रीशिव उवाच ।
आदिमध्यावसानेषु वायुर्यस्य व्यवस्थितः ॥ २-९६ ॥
चतुराद्यो चैकबीजोऽनेकधा यत्र सङ्गतः ।
केनाथवा समाक्रान्तः स मन्त्रश्छेदितोऽसिना ॥ २-९७ ॥
कार्तिकेयेन तज्जापाच्छिद्यन्तेऽस्य मनोरथाः ।
आदौ मध्येऽवसाने वा भूबीजयुगलं भवेत् ॥ २-९८ ॥
आदौ यद्वा द्विधा वज्री त्रिधा मध्ये ततो द्विधा ।
रुद्धौ शुक्रस्य शापेन भुक्तिमुक्तिविवर्जितौ ॥ २-९९ ॥
जातो मन्त्रो वामदक्षमार्गयोरपि सेवितौ ।
ह्रीमो।फ्रे।श्री।ष्वेकतमं यत्र बीजं न दृश्यते ॥ २-१०० ॥
हू।कारो वा स मन्त्रस्तु शक्तिहीनः कृतः सुरैः ।
एतादृशश्चेत् सञ्जप्तः सामर्थ्यं हन्ति मन्त्रिणः ॥ २-१०१ ॥
शक्तिहीनस्य वामस्य मरणं नात्र संशयः ।
नादौ ह्री। न च मध्ये क्ली। क्रो।ते वा नैव दृश्यते ॥ २-१०२ ॥
असौ पराङ्मुखो मन्त्रो जातः सूर्यस्य शापतः ।
पराङ्मुखं भजेन्मन्त्री देवता स्यात् पराङ्मुखी ॥ २-१०३ ॥
दैवात् कार्येऽपि संसिद्धे लोकः स्याच्च पराङ्मुखः ।
आदावन्ते तथा मध्ये हं वा सं वा न दृश्यते ॥ २-१०४ ॥
बधिरास्ते कृता मन्त्रा देवाचार्येण शापतः ।
जप्ते तु बधिरे मन्त्रे विस्मृतिस्तस्य जायते ॥ २-१०५ ॥
जायते बधिरो नूनं महाकालेन भाषितम् ।
सूर्यबीजं हकारः स्याच्चन्द्रबीजं तु सः स्मृतः ॥ २-१०६ ॥
प्। ८६) रेफोऽग्निबीजमुद्दिष्टमेतन्नेत्रत्रयं मम ।
पञ्चाक्षरे यन्त्रमन्त्रे यत्रैकमपि नास्ति चेत् ॥ २-१०७ ॥
मम शापान्नेत्रहीनो दुःखशोकामयप्रदः ।
नादौ मध्ये न चान्ते वा ह्सो। वा हंस वाथ हौ। ॥ २-१०८ ॥
ऐ। वा फ्रे। वाथवा हू। वा नमो वा ह्री। मनुः स तु ।
शापेन कीलितो देवि राजदेवेन पार्वति ॥ २-१०९ ॥
यदा तु कीलितो मन्त्रो न सिद्धिमुपगच्छति ।
मध्ये एको लकारो वा फट् वान्ते लद्वयं यदि ॥ २-११० ॥
फट्द्वयं वा त्रयं वान्ते न चेत् स स्तम्भितो मनुः ।
शापेन भैरवेणास्मात् सिद्धं भवति शोभनम् ॥ २-१११ ॥
कदाचिन्नैव दुःखं च प्रायशो बहुलं भवेत् ।
आदौ तु यस्य मन्त्रस्य क्रमात् सप्ताक्षराणि चेत् ॥ २-११२ ॥
रेफेण वा यकारेण संयुक्तानि मनुः स तु ।
वाय्वग्निशापसन्दग्धः साधकं परितापयेत् ॥ २-११३ ॥
तस्मात् संस्कारयेद्देवि सिद्धये साधकोत्तमः ।
द्वाभ्यां त्रिभिरथो षड्भिरष्टभिर्वा प्रदृश्यते ॥ २-११४ ॥
यदाक्षरैरन्तरितः फट्कारः स निगद्यते ।
नारसिंहस्य शापेन त्रस्तः सन्त्रासयेत् सदा ॥ २-११५ ॥
स्वप्नादौ साधनं नैव सिद्धिः सन्दृश्यते क्वचित् ।
ओ। वा ह। वा सकारो वा नादौ भीतो मनुः स तु ॥ २-११६ ॥
ब्रह्मशापाद्धीनसिद्धिर्भवेदत्यन्तकष्टदः ।
आदिमध्यावसानेषु मिलित्वा मचतुष्टयम् ॥ २-११७ ॥
प्। ८७) स मन्त्रो मलिनो मायाशापान्मालिन्यकारकः ।
हू। चादौ वा मन्त्रमध्ये वान्ते फट्- युगलं भवेत् ॥ २-११८ ॥
तिरस्कृतो रुद्रशापात् साध्यं कुर्यात् तिरस्कृतम् ।
आदौ तारद्वयं चान्ते वषडस्त्रं च मध्यगम् ॥ २-११९ ॥
कुटुम्बकलहं कुर्याद्बालाशापेन भेदितः ।
हकारेण सकारेण रहितस्त्र्यक्षरस्तु यः ॥ २-१२० ॥
सुषुप्तः सिंहशापेन प्रोक्तोऽभीष्टफलापहः ।
अष्टादशाक्षरादिर्यः पञ्चफट्कारपूर्वकः ॥ २-१२१ ॥
चामुण्डाशापतो जातो मदोन्मत्तो न शोभनः ।
मध्ये चेत् पञ्च फट्काराः कालिकाशापतः स तु ॥ २-१२२ ॥
मूर्छितो मूर्छितं कुर्याद्वामिनं तु विशेषतः ।
एवमन्ते च फट्कारपञ्चकं स तु रम्भया ॥ २-१२३ ॥
हृतवीर्यस्तु शापेन कृतः क्षीणत्वकारकः ।
चत्वारो यत्र फट्कारा आदिमध्यावसानिकाः ॥ २-१२४ ॥
अष्टादशाक्षरो हीनो हानिर्भैरवशापतः ।
एकोनविंशत्यर्णश्च ह्री।क्रोमो।कारसंयुतः ॥ २-१२५ ॥
प्रध्वस्तः कामशापेन ध्वंसयेत् कामकारणात् ।
सप्तवर्णो मनुर्बालः कुमारोऽष्टाक्षरः स्मृतः ॥ २-१२६ ॥
षोडशार्णस्तु तरुणः प्रौढो व्योमाब्धिवर्णकः ।
त्रिंशत्कलाः शतं वेदकाष्ठावर्णास्तु यत्र तु ॥ २-१२७ ॥
सकृद्धि एते कालेन शप्ता दुःखानि कुर्वते ।
नवार्ण ओ।कारयुतश्चामुण्डाशापतो मनुः ॥ २-१२८ ॥
निस्त्रिंशः साधकं छिन्द्यान्निस्त्रिंशेन न संशयः ।
प्। ८८) अन्ते नमो वा स्वाहा वा नास्ति वा यस्य मध्यतः ॥ २-१२९ ॥
वषट् वौषट् सहू।फट् च एतद्वा नास्त्यसौ मनुः ।
निर्बीज इति संशप्तो भुवनेश्यास्य साधकः ॥ २-१३० ॥
सेवां कुर्याल्लभेद्वंशनाशं वंशत्रयादितः ।
आदिमध्यावसानेषु फट्फट्कारस्तु यस्य तु ॥ २-१३१ ॥
कौमार्यस्तु स शापेन सिद्धिहीनो न सिद्धिकृत् ।
दशाक्षरो यस्तु मन्त्रः स गणेशस्य शापतः ॥ २-१३२ ॥
मन्दो जप्तस्तु मूर्खत्वं कुर्याज्जन्मनि जन्मनि ।
आदिव्यञ्जनसंयोग एक एव स्वरो भवेत् ॥ २-१३३ ॥
तत् कूटं कूटतो हानिर्मातङ्ग्याः शापतः स्मृतः ।
द्विवर्णः सत्त्वहीनः स्यादाश्विनेयस्य शापतः ॥ २-१३४ ॥
नाशयेत् साधकबलं राज्ञः सैन्यं विनाशयेत् ।
चतुर्वर्णः केकरस्तु जातः सूर्यातिशापतः ॥ २-१३५ ॥
जपित्वा केकरं मन्त्रं चक्षुषा नैव पश्यति ।
षडक्षराणि बीजहीना जाता रावणशापतः ॥ २-१३६ ॥
नाशयेत् साधकबलं राज्ञः सैन्यं विनाशयेत् ।
वंशवृद्धिर्न तज्जापादन्यथा स्त्रीसुखं न हि ॥ २-१३७ ॥
सार्धत्रिसप्तसूर्यार्णा धूमावत्याश्च शापतः ।
धूमताव्याकुलं चित्तं जायते साधकस्य तु ॥ २-१३८ ॥
विंशत् तथैकविंशच्च त्रिंशद्वर्णस्तु तारया ।
शप्त आलिङ्गितश्चायं जपात् स्वप्नरते मृतिः ॥ २-१३९ ॥
द्वाविंशत्यक्षरो मन्त्रः सरस्वत्यास्तु शापतः ।
मोहितं साधकं कुर्यात् पानादिव्यसनाकुलम् ॥ २-१४० ॥
प्। ८९) चतुर्विंशतिवर्णो यः सप्तविंशतिवर्णकः ।
क्षुधार्तो राजमातङ्ग्याः शापाद्दारिद्र्यकारकः ॥ २-१४१ ॥
त्रयोविंशास्त्रयो रुद्रा वर्णाः कौलिकशापतः ।
मन्त्रा दृप्तास्तज्जपेन छान्दसो जायते जनः ॥ २-१४२ ॥
षद्विंशदेकोनत्रिंशत् त्रिंशत् षट्त्रिंशदक्षरः ।
पूष्णः शापादङ्गहीनः कामनापूरको न हि ॥ २-१४३ ॥
अष्टाविंशदेकत्रिंशद्वर्णौ नन्दीशशापतः ।
अतिक्रूरः साध्यनाशं कृत्वा नश्येच्च साधकः ॥ २-१४४ ॥
अष्टत्रिंशाक्षरो मन्त्रो मातृकाणां तु शापतः ।
अतिक्रुद्धस्तज्जपेन स्वकृतः स्वस्य सङ्क्षयः ॥ २-१४५ ॥
चत्वारिंशत् समारभ्य त्रिषष्टिं यावदक्षरम् ।
सव्रीडा मालिकाशापात् सव्रीडास्तस्य साधकाः ॥ २-१४६ ॥
पञ्चषष्ट्यक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः ।
कामशापेन तज्जापादुद्योगस्य फलं न हि ॥ २-१४७ ॥
षट्षष्टितो नवनवतिपर्यन्तं कुलस्य तु ।
स्थानभ्रष्टास्तु शापेन जातास्तादृक् च साधकः ॥ २-१४८ ॥
क्वातिधृतिर्व्यतिधृतिः क्वङ्कयुग्मं द्विगोकराः ।
शतत्रयं यत्र वर्णाः शापिताश्छिन्नमस्तया ॥ २-१४९ ॥
यूयं भवत निःस्नेहाः साधकानां भयापहाः ।
निष्काममतिभिर्जप्ताः संसारस्नेहनाशकाः ॥ २-१५० ॥
चतुःशतान्यथारभ्य यावद्वर्णसहस्रकम् ।
अतिवृद्धा यज्ञशापात् पौष्टिकादिषु वर्जिताः ॥ २-१५१ ॥
सहस्रार्णाधिका मन्त्रा दण्डपाणेस्तु शापतः ।
प्। ९०) दण्डकाख्यापीडिताश्च तज्जपात् कष्टमाप्नुयात् ॥ २-१५२ ॥
द्विसहस्राधिका मन्त्रा भार्गवस्य तु शापतः ।
खण्डीकृताः सप्तधा ते सिद्धिखण्डकराः स्मृताः ॥ २-१५३ ॥
अन्यछृण्वन्तु भो देवा मुनीनां जपतां यदा ।
सिद्धिर्न जाता तु तदा दत्तः शापः सुदारुणः ॥ २-१५४ ॥
आश्वासनं देवतानां जातं सिद्धेरकारणात् ।
उपदेशे गुरुं कुर्यात् तस्मात् तन्मन्त्रशोधनम् ॥ २-१५५ ॥
मन्त्रशोधनप्रकारमाह ।
तत्प्रकारं प्रवक्ष्यामि शृण्वन्तु सकलाः सुराः ।
गुरुः सिद्धासने संस्थो गुदमेढ्रान्तरं दृढम् ॥ २-१५६ ॥
वामेन पार्ष्णिनापीड्य तस्योपरि तु विन्यसेत् ।
पादं तु दक्षिणं गुल्फग्रन्थ्योरन्योन्यमर्दनम् ॥ २-१५७ ॥
यथा स्यात् तत् प्रकर्तव्यं ततो दक्षिणपार्ष्णिना ।
लिङ्गमूलं विनिष्पीड्य स्थिरकाय उपाविशेत् ॥ २-१५८ ॥
गुदमाकुञ्च्य पवनमपानाख्यं तथा गुरुः ।
उत्थापयेत् ततः प्राणवायुं सम्यङ्निरोधयेत् ॥ २-१५९ ॥
अपानप्राणयोः कुर्यात् सङ्घट्टं चैकदृङ्मनाः ।
मूलाधारे चित्स्वरूपकुण्डल्यां परमात्मनि ॥ २-१६० ॥
जातदोषं स्वस्य मन्त्रं चिन्तयेत् तत्र सद्गुरुः ।
तस्य मन्त्रस्याक्षराणि क्रमादेकैकशस्ततः ॥ २-१६१ ॥
सुषुम्णायास्तु मार्गेण मूलाधारे प्रवेशयेत् ।
स्वाधिष्ठाने ततश्चक्रे मणिपूरे ह्यनाहते ॥ २-१६२ ॥
प्। ९१) विशुद्ध आज्ञाचक्रे च भित्त्वाभित्त्वा प्रवेशयेत् ।
एवं नीत्वा ब्रह्मरन्ध्रं तत्रत्यात् सोममण्डलात् ॥ २-१६३ ॥
निर्गतामृतसंसिक्तान् मन्त्रार्णान् सुविभावयेत् ।
पुनः सुषुम्णामार्गेण आज्ञाचक्रेऽवतारयेत् ॥ २-१६४ ॥
विशुद्धेऽनाहते वापि मणिपूरे च चक्रके ।
स्वाधिष्ठाने ततो भेदान्मूलाधारे प्रवेशयेत् ॥ २-१६५ ॥
ततस्तन्मन्त्रमृष्यादिन्यासपूर्वं जपेत् पुनः ।
अष्टोत्तरसहस्रं तु तेन शुद्धो भवेन्मनुः ॥ २-१६६ ॥
अनुक्तशापान्निर्मुक्तं पश्चादुपदिशेच्च तम् ॥ २-१६६एफ़् ॥
अनुक्तशापादिति मानसशापादित्यर्थः । वाचिकशापानां तु वक्ष्यमाणदशसंस्करनाश्यत्वादिति भावः । छिन्नत्वादिदोषाणामुक्तयोनिबन्धनाश्यत्वं नागभट्टैरप्युक्तम् ।
छिन्ना रुद्धास्तम्भिताः कीलका ये
सुप्ता मन्त्रा मूर्च्छिता हीनवीर्याः ।
दग्धास्त्रस्ताः शत्रुपक्षे स्थिता ये
बाला वृद्धा गर्विता यौवनेन ॥ २-१६७ ॥
ये निर्जीवा ये च सत्त्वेन हीनाः
षण्ढीभूताश्चाङ्गमन्त्रैर्विहीनाः ।
एते मुद्राबन्धनेनैव योन्या
मन्त्राः सर्वे वीर्यवन्तो भवन्ति ॥ २-१६८ ॥
प्। ९२) (शारदायाम्)
दोषानिमानविज्ञाय यो मन्त्रान् भजते जडः ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ २-१६९ ॥
मन्त्राणां दशसंस्कारास्तत्रैव ।
जननं१ जीवनं२ पश्चात् ताडनं३ बोधनं४ तथा ।
तथाभिषेको५ विमलीकरणा६ऽप्यायने७ पुनः ॥ २-१७० ॥
तर्पणं८ दीपनं९ गुप्ति१०र्दशैता मन्त्रसंस्क्रियाः ।
जननादिप्रकारास्तु (मेरुतन्त्रे)
वाचिकानां तु शापानां नाशाद्यर्थमथोच्यते ॥ २-१७१ ॥
श्रीपर्ण्या वा चन्दनस्य पीठे चूतादिकस्य वा ।
कस्तूरीकुङ्कुमाज्यैश्च विलिखेत् पाञ्चभौतिकम् ॥ २-१७२ ॥
चक्रमावाहयेत् तत्र मातृकाख्यां सरस्वतीम् ।
यथोक्तविधिना पूजां कृत्वा चाष्टोत्तरं शतम् ॥ २-१७३ ॥
जपित्वा मातृकां तस्या मध्यात् स्वाभीष्टमन्त्रकम् ।
स्वरव्यञ्जनविन्दू।श्च सर्गयोगाक्षराणि च ॥ २-१७४ ॥
पृथक् पृथगथोद्धृत्य चैकीकृत्य गुरूक्तितः ।
गृहीतं जनयेन्मन्त्रं प्रोक्तं सञ्जननं त्विदम् ॥ २-१७५ ॥
आद्यन्तं प्रणवं कृत्वा प्रणवान्तरितं जपेत् ।
अष्टोत्तरशतं मन्त्रं वर्णानेतत् तु जीवनम् ॥ २-१७६ ॥
रोचनाकुङ्कुमाभ्यां च भूर्जपत्रे लिखेन्मनुम् ।
प्रत्यक्षरं शतं वारं ताडयेच्चन्दनाम्भसा ॥ २-१७७ ॥
समुच्चरन् वायुबीजमेतत् ताडनमुच्यते ।
प्। ९३) कुण्ठिताः शाबरा मन्त्रास्ताडिताः सिद्धिकारकाः ॥ २-१७८ ॥
पूर्वोक्तपीठे संलिख्य तन्मन्त्राक्षरसङ्ख्यया ।
आदाय करवीरस्य पुष्पाण्यथ समुच्चरन् ॥ २-१७९ ॥
प्रत्यक्षरं च तैः पुष्पैः शतवारं हुनेदिति ।
उच्चरन् वह्निबीजं च बोधनं त्वेतदुच्यते ॥ २-१८० ॥
(शारदायां) तु हुनेदित्युक्ते हन्यादित्युक्तम् ।
विलिखेन्मन्त्रयन्मन्त्री प्रसूनैः करवीरजैः ।
तन्मन्त्राक्षरसङ्ख्यातैर्हन्याद्रान्तेन बोधितम्- इति ।
रान्तेन वह्निबीजेन (मैरौ)
प्राग्वत् पीठे च तैर्द्रव्यैः पद्ममष्टदलं लिखेत् ॥ २-१८१ ॥
तत्कर्णिकायां मालत्या लिखेत् कलिकयैकया ।
एकैकार्णं तु मन्त्रस्य तन्मन्त्राक्षरसङ्ख्यया ॥ २-१८२ ॥
बोधिद्रुपल्लवान् गृह्य तमेवं मन्त्रमुच्चरन् ।
अभिषिञ्चाम्यमुं मन्त्रं नम इत्यभिषेचयेत् ॥ २-१८३ ॥
नानासुगन्धितोयेन पल्लवैकेन चाक्षरम् ।
एकमष्टोत्तरशतमभिषिञ्चेदयं स्मृतः ॥ २-१८४ ॥
अभिषेको मन्त्रशुद्धिं कुर्यान्नॄणां यथा जलम् ।
ज्योतिर्मन्त्रश्चिन्तनीयो मूलाधारेऽग्निमण्डले ॥ २-१८५ ॥
संस्कर्त्तव्यं मनुं तस्य ऊर्ध्वमेवं विभावयेत् ।
आणवाख्यः साहजिक आगन्तुः कार्मणः स्मृतः ॥ २-१८६ ॥
योगाख्यो मायिकः प्रोक्तः स्वमन्त्रे तु मलत्रयम् ।
प्। ९४) ज्योतिर्मन्त्रेण निर्दग्धमेकमेकं विचिन्तयेत् ॥ २-१८७ ॥
एवं तु विमलो जातः स्वमन्त्र इति चिन्तयेत् ।
ज्योतिर्मन्त्रस्तु वेदादिह्रौमिति द्व्यक्षरो मतः ॥ २-१८८ ॥
विमलीकरणं ह्येतत् प्रयोगान्तेऽपि कारयेत् ।
प्राग्वत् पीठे कुङ्कुमादिद्रव्यैर्मन्त्रं विलेखयेत् ॥ २-१८९ ॥
ताम्रादिपात्रं कर्पूरवासितेन जलेन च ।
शुद्धेनापूर्य लिखितमन्त्रेणाष्टोत्तरं शतम् ॥ २-१९० ॥
अभिमन्त्र्य जलं तेन मन्त्रेण कुशविन्दुभिः ।
प्रत्यक्षरं प्रोक्षयेत् त्रिरेतदाप्यायनं मतम् ॥ २-१९१ ॥
पुरश्चर्याक्लेशितानां समावर्त्तनवत् त्विदम् ।
कस्तूर्याद्यैस्ताम्रपात्रमध्ये मन्त्रं विलेखयेत् ॥ २-१९२ ॥
पात्रान्तरे च कर्पूरादिकवासितसज्जलम् ।
गृहीत्वा चार्घपात्रेण पठन्मन्त्रमिमं मनुम् ॥ २-१९३ ॥
तर्पयामि नमश्चेति तर्पयेदिति तर्पणम् ।
ॐ ह्री। श्री। पूर्वकं मन्त्रं जपेदष्टोत्तरं शतम् ॥ २-१९४ ॥
जपेदेतद्दीपनं स्यात् सर्वमन्त्रेष्वपीष्यते ।
जप्पमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ॥ २-१९५ ॥
संस्कारा दश सम्प्रोक्ताः सर्वतन्त्रेषु गोपिताः ।
यान् कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमश्नुते ।
अथ मन्त्राणां जागृतिस्तत्रैव ।
अथादौ सर्वमन्त्राणां जागृतिः प्रोच्यते मया ॥ २-१९६ ॥
गुरुणा सा प्रकर्तव्या शिष्यस्य सिद्धिहेतवे ।
प्। ९५) तारान्त्याग्नि वियद्युक् च यस्मिन्नाग्नेयकः स तु ॥ २-१९७ ॥
अन्यः सौम्यः स्वापकाल इडायामग्निरूपिणः ।
सौम्यस्य पिङ्गलायां स्यात् तयोरन्यत्र जागृतिः ॥ २-१९८ ॥
प्रबोधकाले सञ्जप्तो जाग्रतो जायते मनुः ।
अथ वा सम्पुटीकृत्य लान्तानाद्यान् स बिन्दुकान् ॥ २-१९९ ॥
पुनश्च सविसर्गान्तान् क्षकारं केवलं पठेत् ।
एवं जप्तो यदीष्टश्चेत् प्रबुद्धः शीघ्रसिद्धिदः ॥ २-२०० ॥
शाबरमन्त्रेषु विशेष उक्तस्तत्रैव ।
अथ शाबरमन्त्राणां जागृतिं शृणु पार्वति ।
कांस्यभाजनमानीय शुद्धं भस्मादिभिः कृतम् ॥ २-२०१ ॥
प्। ९६) प्रजपेद्रविरात्रौ तु यामे यामे शताष्टकम् ।
खादिर्या ताडयेद्यष्ट्या कांस्यपात्रं वदेदिति ॥ २-२०२ ॥
जाग्रतो भव मन्त्रस्य भाषयाथ तुरीयके ।
यामे दद्याद्वलिं काल्या मन्त्रजं भैरवस्य तु ॥ २-२०३ ॥
कुक्कुटऽञ्चान्यदेवेषु स्फोटयेन्नारिकेरकम् ।
मन्त्रस्य भाषयेति । यद्देशीयभाषात्मकः शाबरमन्त्रस्तद्देशीय-भाषयैव मन्त्रं सम्बोध्य त्वं जाग्रतो भवेति वदेदित्यर्थः ।
अथ दीक्षोपयुक्तमपण्डपार्थं भूमिपरीक्षा ।
प्लवस्थानं च गम्भीरं दीर्घतोयाशयाश्रयः ॥ २-२०४ ॥
अग्निशालाग्निहोतॄणां पुण्यस्थानं परिश्रुतम् ।
द्विजानां सव्रतानां च आश्रयः स्वाश्रमोऽथवा ॥ २-२०५ ॥
दीक्षायामतिशस्तानि स्थानान्येतानि पार्वति ।
न च दीक्षां प्रकुर्वीत निकुञ्जे गहने वने ॥ २-२०६ ॥
द्विसीम्नि च महारण्ये मात्सर्यमृगसेविते ।
(तन्त्रान्तरे)
महानदीनां तीराणि गङ्गासागरसङ्गमः ॥ २-२०७ ॥
प्रशस्तानि च तीर्थानि क्षेत्राणि चाश्रमा अपि ।
अरण्यानि च सर्वाणि पर्वताः सकला अपि ॥ २-२०८ ॥
सनिर्झराप्यपगिरि देवतायतनान्यपि ।
(महाकपिलपञ्चरात्रं)
तत्र भूमिं परीक्षेत वास्तुज्ञानविशारदः ॥ २-२०९ ॥
स्फुटिता च सशल्या च वल्मीकारोहिणी तथा ।
दूरतः परिवर्ज्या भूः कर्तुरायुर्धनापहा ॥ २-२१० ॥
स्फुटिता मरणं कुर्यादूषरा धननाशिनो ।
सशल्या क्लेशदा नित्यं विषमा शत्रुतो भयम् ॥ २-२११ ॥
प्। ९७) ईशकोणप्लवा सा च कर्तुः श्रीदाशु निश्चितम् ।
पूर्वप्लवा वृद्धिकरी वरदा तूत्तरप्लवा ॥ २-२१२ ॥
दक्षिणप्लवा या भूमिर्नित्यं मृत्युभयप्रदा ।
गृहक्षयकरी सा च भूमिर्यानैरृतप्लवा ॥ २-२१३ ॥
धनहानिकरी पृथ्वी कीर्तिता वरुणप्लवा ।
वायुप्लवा तथा भूमिर्नित्यमुद्वेगकारिणी ॥ २-२१४ ॥
अग्निकोणप्लवा या च पुत्रायुर्धननाशिनी ।
(गौतमीये)
भूमेः परिग्रहं कुर्याद्यावदायतनं भवेत् ॥ २-२१५ ॥
शुक्लमृत्स्ना च या भूमिर्ब्राह्मी सा परिकीर्तिता ।
क्षत्रिया रक्तमृत्स्ना च हरिद्वैश्या प्रकीर्तिता ॥ २-२१६ ॥
कृष्णा भूमिर्भवेछूद्रा चतुर्धा परिकीर्तिता ।
(महाकपिलपञ्चरात्रे)
ब्राह्मणी भूः कुशोपेता क्षत्रिया स्याच्छराकुला ॥ २-२१७ ॥
कुशकाशाकुला वैश्या शूद्रा सर्वतृणाकुला ।
(गौतमीयतन्त्रे)
ब्राह्मी सर्वार्थसिद्ध्यैः स्यात् क्षत्रिया राज्यदा तथा ॥ २-२१८ ॥
धनधान्यकरी वैश्या शूद्रा तु निन्दिता मुने ।
(वासिष्ठ्याम्)
खन्यमाने यदा कुण्डे पाषाणाः प्राप्यते भुवि ॥ २-२१९ ॥
तदापमृत्यवे चास्थिकेशाङ्गारैर्धनक्षयः ।
भस्मनाग्निभयं प्रोक्तं तुषैः प्रोक्ता दरिद्रता ॥ २-२२० ॥
शल्यज्ञानार्थमहिबलचक्रमाह (आदियामले)
अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञभाषितम् ।
द्रव्यं शल्यं तथा शून्यं येन जानन्ति साधकाः ॥ २-२२१ ॥
प्। ९८) निधिर्निवर्तनैकस्थः सम्भ्रान्तो यत्र भूतले ।
तत्र चक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम् ॥ २-२२२ ॥
अहिगत्या च नक्षत्रं तत्काले यत्र चन्द्रमाः ।
द्रव्यं शल्यं भवेत् तत्र चन्द्रभास्करसादजम् ॥ २-२२३ ॥
ऊर्ध्वरेखाष्टकं लेख्यं तिर्यक् पञ्च तथैव च ।
अहिचक्रे भवन्त्मत्येवमष्टाविंशतिकोष्ठकाः ॥ २-२२४ ॥
तत्र पौष्णाश्विनीयाम्यकृत्तिकामघभाग्यकम् ।
उत्तराफाल्गुनी लेख्या पङ्क्तौ तत्सप्तके ध्रुवम् ॥ २-२२५ ॥
अहिर्बुध्न्याजपादर्क्षं शतभं भ्राह्म्यसार्पभम् ।
पुष्यं हस्तं समालेख्यं द्वितीयपङ्क्तिसंस्थितम् ॥ २-२२६ ॥
अभिजिद्विष्णुधनिष्ठाः सौम्यं रौद्रं पुनर्वसुम् ।
चित्रभं च तृतीयायां पङ्तौ धिष्ण्यादिसप्तके ॥ २-२२७ ॥
विश्वर्क्षं तोयभं मूलं ज्येष्ठां मैत्रं विशाखभम् ।
स्वातीं पङ्क्तौ चतुर्थ्यां तु कृत्वा चक्रं विलोकयेत् ॥ २-२२८ ॥
अहिबलचक्रम् ।
रे
२७ चम्
अ
१ चं
भ
२ चं
कृ
३ चं
ंअ
१० चं
पू
११
उ
१२
उ
२६
पू
२५ चं
श
२४
रो
४
श्ले
९ चं
पु
८ चं
ह
१३
अभि
श्र
२२ चं
ध
२३ चं
मृ
५
आअ
६ चं
पु
७ चं
चि
१४
उ
२१ चं
पू
२० चं
मू
१९
ज्ये
१८
आ
१७
वि
१६
स्वा
१५
प्। ९९) रेवत्यश्विनीभरणीकृतिकामघापूर्वोत्तराः प्रथमपङ्क्तौ । उत्तरभाद्रपदपूर्वभाद्रपदशतभिषारोहिण्याश्लेषापुष्यहस्ता द्वितीयपङ्क्तौ । अभिजित्श्रवणधनिष्ठामृगशिर-आर्द्रापुनर्वसुचित्रास्-तृतीयपङ्क्तौ । तत उत्तराषाढापूर्वाषाढामूलज्येष्ठानुरा-धाविशाखास्वात्यश्चतुर्थपङ्क्तौ ।
एवं प्रजायते चक्रे प्रस्तारः पन्नगाकृतिः ।
द्वारशाखे मघायाम्ये द्वारस्था कृत्तिका मता ॥ २-२२९ ॥
अश्वीशपूर्वषाढादित्रिकपञ्चचतुष्टयम् ।
रेवतीपूर्वभाद्रेन्दोर्भानि शेषाणि भास्वतः ॥ २-२३० ॥
उदयादिगता नाड्यो भघ्नाः षष्ट्याप्तशेषके ।
दिनेन्दुभुक्तयुक्तोऽसौ भवेत् तत्कालचन्द्रमाः ॥ २-२३१ ॥
षष्टिघ्न तं निशानाथं शरवेदाप्तकं पुनः ।
युगैः शेषं भवेद्यत् तत् प्रागादिचक्रवक्रगम् ॥ २-२३२ ॥
चन्द्रवत् साधयेत् सूर्यमृक्षस्थं चेष्टकालिकम् ।
पश्चाद्विलोकयेत् तौ च स्व ऋक्षेऽथान्यभे स्थितौ ॥ २-२३३ ॥
चन्द्र ऋक्षे यदार्केन्दू तत्र स्यान्निश्चितो निधिः ।
भानु ऋक्षे स्थितौ तौ चेत् तदा शल्यं न चान्यथा ॥ २-२३४ ॥
स्वस्वभे द्वितयं ज्ञेयं नास्ति किं चिद्विपर्यये ।
स्थितं न लभते द्रव्यं चन्द्रे क्रूरग्रहान्विते ॥ २-२३५ ॥
हेमतारं च ताम्रारं रत्नं ताम्रायसं त्रपुः ।
नागं चन्द्रे विजानीयाद्भास्करादिग्रहे स्थिते ॥ २-२३६ ॥
मिश्रैर्मिश्रं भवेद्द्रव्यं शून्य दृष्टिविपर्यये ।
सर्वग्रहस्थिते चन्द्रे निर्दिष्टोऽसौ महानिधिः ॥ २-२३७ ॥
शुभक्षेत्रगते चन्द्रे लाभो भवति निश्चितम् ।
प्। १००) पापक्षेत्रे न लाभः स्याज्ज्ञातव्यं स्वरवेदिभिः ॥ २-२३८ ॥
पुष्टे चन्द्रे भवेन्मुद्रा क्षीणे चन्द्रेऽल्पको निधिः ।
ग्रहदृष्टिवशात् सोऽपि विज्ञेयो नवधा बुधैः ॥ २-२३९ ॥
हेमतारं च ताम्रारं पाषाणं मृन्मयायसम् ।
सूर्यादिगृहगे चन्द्रे द्रव्यभाण्डं प्रजायते ॥ २-२४० ॥
भुक्तराश्यंशमानेन भूमानं कांविकैः करै- रिति ।
तद्यथा ।
चन्द्रस्थाने निधिर्ज्ञेयः सूर्यस्थाने च शल्यकम् ॥ २-२४१ ॥
इदं च निर्वत्तनं परिमितभूमावेकमेव कुर्यात् ।
निर्वत्तनस्वरूपं च ।
दण्डस्तु दशहस्तः स्यात् त्रिंशद्दण्डैर्निवर्तनम् ।
इति ।
अथ वा महाकपिलपञ्चरात्रोक्तप्रकारेण शल्योद्धारः कर्त्तव्यः । तद्यथा ।
प्रासादारम्भकाले च यदङ्गं स्पृशते पुमान् ॥ २-२४२ ॥
वास्तुदेहे दृढं तत्र शल्यं विद्याद्विचक्षणः ।
कण्डूयति शिरः पुंसः शिरःशल्यं समुद्धरेत् ॥ २-२४३ ॥
शल्यं तत्रास्थि विज्ञेयं खन्यमाने करत्रये ।
अग्निदाहश्च रोगश्च धनहानिश्च जायते ॥ २-२४४ ॥
यत्नेनोत्पाटयेच्छल्यं यदीच्छेत् सिद्धिमात्मनः ।
बाहौ कण्डूयमाने तु निर्दिशेल्लोहशृङ्खलम् ॥ २-२४५ ॥
हस्तद्वयेन सन्तिष्ठेल्लक्षणं कथितं तव ।
स्वामिनो मरणं विद्याद्विदेशगमनं तथा ॥ २-२४६ ॥
यत्नेनोत्पाटयेच्छल्यं यदीच्छेद्भद्रमात्मनः ।
ऊरौ कण्डूयमाने तु कांस्यशल्यं विनिर्दिशेत् ॥ २-२४७ ॥
हस्तैकेन च सन्तिष्ठेल्लक्षणं कथितं तव ।
प्। १०१) असती च भवेद्भार्या यशोहानिश्च जायते ॥ २-२४८ ॥
यत्नेनोत्पाटयेच्छल्यं यदीच्छेद्भद्रमात्मनः ।
हस्ते कण्डूयमाने तु कङ्कालं च विनिर्दिशेत् ॥ २-२४९ ॥
त्रिहस्तेन च सन्तिष्ठेत् खन्यमाने न चान्यथा ।
अग्निदाहश्च रोगश्च सशल्यं मरणं ध्रुवम् ॥ २-२५० ॥
यत्नेनोत्पाटयेच्छल्यं यदीच्छेद्भद्रमात्मनः ।
पृष्ठे कण्डूयमाने तु बाहुशल्यं विनिर्दिशेत् ॥ २-२५१ ॥
हस्तेनैकेन सन्तिष्ठेन्नात्र कार्या विचारणा ।
स्वामिनाशो भवेत् तत्र भार्या वा जायतेऽसती ॥ २-२५२ ॥
पादे कण्डूयमाने तु हस्तशल्यं विनिर्दिशेत् ।
सार्धहस्तेन सन्तिष्ठेल्लक्षणं गदितं तव ॥ २-२५३ ॥
गोनाशो राजदण्डश्च सस्यहानिश्च जायते ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेत् सिद्धिमात्मनः ॥ २-२५४ ॥
कुक्षौ कण्डूयमाने तु पाषाणं तत्र निर्दिशेत् ।
हस्तद्वितयमानेन लक्षणं गदितं तव ॥ २-२५५ ॥
भुजङ्गदंशस्तत्र स्यात् तस्माच्छल्यं समुद्धरेत् ।
जानौ कण्डूयमाने तु भस्म तत्र विनिर्दिशेत् ॥ २-२५६ ॥
हस्तद्वयेन सन्तिष्ठेल्लक्षणं गदितं तव ।
अग्निदाहो महा।स्तापः क्लेशदुःखभयानि च ॥ २-२५७ ॥
करोत्येवंविधं कर्म तस्मात् तं वै समुद्धरेत् ।
गोशृङ्गं पीतमण्डूकः शङ्खं शुक्तिश्च मण्डपः ॥ २-२५८ ॥
शम्बूकश्च प्रशस्ताः स्युर्याश्चान्या रत्नजातयः ।
प्। १०२) अङ्गारं वै तुषं केशमस्थिशल्यं विवर्जयेत् ॥ २-२५९ ॥
अथ वा ब्रह्मयामलोक्तप्रकारेण शल्यं ज्ञात्वा तदुद्धारः कर्तव्यः । तत्र शल्यज्ञानं यथा ।
नवकोष्ठे कृते चक्रे पूर्वादिषु च दिक्षु च ।
व क च त ए ह स प या वर्णा लेख्या अनुक्रमात् ॥ २-२६० ॥
ब्रह्मयामलोक्तशल्योद्वारचक्रम् ।
प्रकारान्तरम् ।
प्
व
क
प
व
क
स
य
च
स
य
च
ह
ए
त
ह
ए
त
गन्धपुष्पादिनैवेद्यधूपदीपादिभिर्गृहे ।
शिशुमानीय सुस्नातं प्रष्टव्यं फलपुष्पकैः ॥ २-२६१ ॥
पूर्वार्धे पुष्पनाम्ना च शेषार्धे फलनामतः ।
दिनस्य शल्यं नास्त्यस्ति फलपुष्पाद्यवर्णतः ॥ २-२६२ ॥
कोष्ठारे पुष्पफलयोर्भवेदाद्यक्षरं यदि ।
तदा शल्यं च तत्कोष्ठे यदि तत्रास्ति नास्ति तत् ॥ २-२६३ ॥
सपादहस्तभूमिस्थं नृशल्यं नरनाशनम् ।
खरशल्यं सर्पशल्यं भीतिदं सार्धहस्ततः ॥ २-२६४ ॥
हस्तद्वये वाजिशल्यं गृहिणां मृत्युदुःखदम् ।
सार्धद्विहस्ते हस्तिशल्यं गृहशून्यप्रवासदम् ॥ २-२६५ ॥
श्वशल्ये महिषे मृत्युः सपादद्वयहस्तके ।
विडालशल्यं हस्तेन त्रिहस्ते मित्रनाशनम् ॥ २-२६६ ॥
सार्धत्रये कपेः शल्यं दुःस्वप्नं धननाशकम् ।
प्। १०३) वास्तुमात्रे चाखुशल्यं कुलवित्तविनाशनम् ॥ २-२६७ ॥
नरादिशल्यं ज्ञातव्यं वकारादावनुक्रमात् ।
यदङ्गं स्पृशते दूतस्तदङ्गोद्भवशल्यकम् ॥ २-२६८ ॥
नवभागं गृहं कृत्वा तद्भागं च पुनःपुनः ।
यद्भागे पुष्पफलयोराद्यवर्णं च तत्फलम् ॥ २-२६९ ॥
(तत्त्वकौमुद्यां) तु
गृहारम्भे कण्डूतिश्च स्वाम्यङ्गे यत्र जायते ।
शल्यमस्तीति वक्तव्यं प्रासादे भवनेऽपि वा ॥ २-२७० ॥
कवचतैहसपयाः शल्याक्षराणि । नरखरोष्ट्रशिशुमार्जारगो-कपिपुरुषद्विजास्थीनि नदीपुष्।पफलदेवतानां नामानि ।
शिशुसीमन्तिनीमूर्खवक्त्रात् तत्क्षणमागतम् ।
अक्षरं द्विगुणं कृत्वा मात्रां चैव चतुर्गुणाम् ॥ २-२७१ ॥
नवभिश्च हरेद्भागं विषमे शल्यं समे न हि ।
धरणीधारणीकरणभूत्यै नमः, इति शल्योद्धारणमन्त्र इति विशेष उक्तः । अन्यत् सर्वं ब्रह्मयामलोक्तवदिति ।
चत्वारः शल्योद्धारप्रकारा दर्शिताः । एतेषामन्यतमेन प्रकारेण शल्योद्धारं विधाय निर्दोषां भूमिं ज्ञात्वा वक्ष्यमाणप्रकारेण वास्तुयागं विधाय तत्र मण्डपं कुर्यात् । शल्योद्धारप्रकारान्तरेण भूमेः परीक्षा कर्तव्या तत्प्रकारश्च (प्रयोगसारे) ।
वितस्तिमात्रविस्तारं निर्माय विवरं भुवि ॥ २-२७२ ॥
निःक्षिपेत् ता मृदस्तस्मि।स्तासु शिष्टासु शोभनम् ।
समासु मध्यमं विद्यान्न्यूनास्वधममुच्यते ॥ २-२७३ ॥
(गौतमीयतन्त्रे)
ततो भूमिं परीक्षेत वास्तुज्ञानविशारदः ।
शल्यादिशोधनं कुर्यात् तुषाङ्गारादि दूरयेत् ॥ २-२७४ ॥
एतस्याकरणे मन्त्री न किञ्चित् फलमाप्नुयात् ।
प्। १०४) (महाकपिलपञ्चरात्रे)
खन्यमाने जलं यावत् शल्यदोषो विनश्यति ॥ २-२७५ ॥
दूरनीचस्थितं वारि खनितुं नैव शक्यते ।
पञ्चहस्तं प्रखातव्यं शल्यदोषोपशान्तये ॥ २-२७६ ॥
शल्योद्धारं ततः कृत्वा पूरयेत् सुसमं यथा ।
वास्तुयागं ततः कुर्यात् सर्वविघ्नोपशान्तये ॥ २-२७७ ॥
वास्तुयागस्यावश्यकत्वमाह यमः ।
गृहादिकरणे यत्र नार्चितो वास्तुदैवतः ।
तत्र शून्यं भवेत् सर्वं रक्षोविघ्नादिभिर्हतम् ॥ २-२७८ ॥
तस्माद्वास्त्वर्चनं सम्यक् कार्यं सम्पदभीप्सुभिः ।
(महाकपिलपञ्चरात्रे)
भूमेः परिग्रहे पूर्वं शिलानां स्थापने तथा ॥ २-२७९ ॥
जलाधारगृहार्थं च यतेद्वास्तुं विशेषतः ।
अपरेष्वपि कार्येषु यागहोमादिकेषु च ॥ २-२८० ॥
वास्तुमण्डलकं कुर्यात् सूत्रयित्वा समं गुरुः ।
वास्तुयागोत्पत्तिमाह (मेरुतन्त्रे)
वास्तुनामा पुरा कश्चिदसुरोऽभून्महाबलः ॥ २-२८१ ॥
त्रैलोक्यं निर्जितं तेन त्रिपञ्चाशच्च देवताः ।
ये रणे सम्मुखे यातास्तेन ते विनिपीडिताः ॥ २-२८२ ॥
पुनःपुनर्जिता युद्धे स एवासीत् प्रजापतिः ।
दिव्यवर्षसहस्रान्ते देवाः शरणमागताः ॥ २-२८३ ॥
विष्णोर्मम च पार्वत्या दैत्येन्द्रेणापि तच्छ्रुतम् ।
योद्धुकामः सोऽभ्यधावन्नारदेन प्रचोदितः ॥ २-२८४ ॥
कृतं युद्धं तेन सार्धमस्माभिर्वर्षपञ्चकम् ।
ततो दैत्यो मदोत्सिक्तो विष्णुमायाविमोहितः ॥ २-२८५ ॥
प्। १०५) उवाच वचनं तुष्टो व्रियतां व्रियतामिति ।
नेन्द्रेण न कुबेरेण मम तोषकरं कृतम् ॥ २-२८६ ॥
ससैन्येनापि तद्युद्धं त्वया तु जटिलेन हि ।
कृतं विष्णुसहायेन पार्वत्यर्धाङ्गधारिणा ॥ २-२८७ ॥
तेनाहं तुष्टिमापन्नस्त्रैलोक्यपरमेश्वरः ।
अदेयं नास्ति मे किञ्चिद्याचयन्तु त्रयोऽपि च ॥ २-२८८ ॥
इत्याकर्ण्य वचस्तस्य शिवयोर्भ्रूप्रचोदितः ।
हरिः प्राह महाधन्य दैत्येन्द्र त्वत्समोऽस्ति कः ॥ २-२८९ ॥
सत्यं त्रिवारं कुरुषे तदा याच्यो मया वरः ।
शिवेनापि च पार्वत्या एक एवापरो न हि ॥ २-२९० ॥
त्रिरुवाच ततो दैत्यस्तदा विष्णुर्व्यजिज्ञपत् ।
यथा ते त्वरितं मृत्युः स उपायः प्रदृश्यताम् ॥ २-२९१ ॥
विष्णोश्छलमिति ज्ञात्वा दैत्येन्द्रः समभाषत ।
अवश्यमेव गन्तव्यं सर्वैः कालमुखे हरे ॥ २-२९२ ॥
तथा च स्वप्रतिज्ञार्थं यो गच्छति स जीवति ।
परं त्वेकं न मे वंशे यैश्च मत्सेवनं कृतम् ॥ २-२९३ ॥
तस्य मार्गं दर्शयित्वा देहोऽयं विनिपात्यताम् ।
काले तस्मि।श्च भो देवा वागुवाचाशरीरिणी ॥ २-२९४ ॥
दैत्येन्द्र कुरु मा शोकं भूमेर्जन्म तवाभवत् ।
तत्रैव त्वं लयं याहि त्वत्तोषार्थं वरं शृणु ॥ २-२९५ ॥
ये वर्णाः स्वस्य भोगार्थं करिष्यन्ति नवं गृहम् ।
तत्र त्वदुत्सवमृते नानादुःखैरुपद्रुताः ॥ २-२९६ ॥
कालवर्ण्यादिका दास्यो विनायकमुखाश्च ते ।
प्। १०६) सेवकाः पीडयिष्यन्ति इत्याज्ञा पारमेश्वरी ॥ २-२९७ ॥
इत्याकर्ण्य वचः सोऽपि गर्तं गत्वा महाविलम् ।
प्रविवेश ततो देवैर्मृत्पाषाणैः प्रपूरितम् ॥ २-२९८ ॥
तेन ये निर्जिता देवाः पुनरुद्गमशङ्कया ।
तस्यार्थं च त्रिपञ्चाशन्निवासं चक्रुरुद्यताः ॥ २-२९९ ॥
तस्मादवश्यं ते पूज्या गृहवाससुखेच्छया ।
अथ वास्तुयागविधिस्तत्रैव ।
शृण्वन्तु तद्विधिं देवा वामदक्षिणमार्गतः ॥ २-३०० ॥
पाषाणे प्रतिमायां वा वास्तोष्पते प्रतिज्ञाति ।
इति वैदिकमन्त्रेण तस्यावाहनपूजनम् ॥ २-३०१ ॥
नाममन्त्रेण चान्येषां पूजां कृत्वा प्रपूरयेत् ।
नैरृत्यकोणे गेहस्य चतुरस्राकृतिं शुभाम् ॥ २-३०२ ॥
कृत्वा समतलां भूमिं वितस्त्युच्चां च वेदिकाम् ।
विस्तारायामतो हस्तमात्रां तत्र लिखेद्बुधः ॥ २-३०३ ॥
(महाकपिलपञ्चरात्रे) तु विशेषः ।
गृहप्रासादकूपानां मण्डपस्य जलस्य च ।
वास्तुमण्डलकं कार्यमष्टहस्तं तु नापरम् ॥ २-३०४ ॥
भद्रभूमिं प्रशोध्येत दशदण्डं समालिखेत् ।
अधोऽधस्तिर्यगादौ च तेनैकाशीतिकोष्ठकम् ॥ २-३०५ ॥
(मेरौ)
एकाशीतिपदं चक्रं वैदिकास्तत्र दैवताः ।
मध्यकोष्ठेषु नवसु त्वादौ ब्रह्माण१मर्चयेत् ॥ २-३०६ ॥
आपवत्सं २तदीशाने प्रागर्यम्णं३ त्रिकोष्ठके ।
आग्नेये सवितारं४च विवस्वन्त५मवाक्त्रिषु ॥ २-३०७ ॥
प्। १०७) इन्द्रं नैरृतदिग्भागे मित्रं७ पश्चिमगं त्रिषु ।
वायव्ये राजयक्ष्माणं८ सुमेरुं९चोत्तरत्रये ॥ २-३०८ ॥
वेदकोष्ठेषु चैशान्यामीशकोणाच्च देवताः ।
शिखी१०पर्जन्य११ आप१२श्च दितिः १३प्राक्कोष्ठयोर्द्वयोः ॥ २-३०९ ॥
क्रमादेते पञ्च देवा ज्ञातव्याः सव्यमार्गतः ।
जयन्ते१४न्द्रौ १५सूर्य१६सत्यौ १७भृश१८आग्नेयकोणके ॥ २-३१० ॥
अन्तरिक्षं१९तथा वातः २०पूषा २१सावित्र२२ एव च ।
चतुष्क ईशतो देवास्ततो दक्षिणपञ्चके ॥ २-३११ ॥
युग्मक्रमाच्च वितथो२३बृहत्क्षेत्र२४यमौ २५तथा ।
गन्धर्वो२६भृङ्गराज२७श्च नैरृताष्टचतुष्टके ॥ २-३१२ ॥
ईशानीतो जय२८मृगौ२९ पितृ३०दौवारिकौ३१ तथा ।
ततः पश्चाद्द्विके पञ्च सुग्रीवः३२पुष्पदन्तकः३३ ॥ २-३१३ ॥
वरुणा३४सुर३५शोषा३६श्च वायव्ये ईशतस्त्वहिः३७ ।
रुद्र३८श्च पापयक्ष्मा३९ च रोग४०श्चोत्तरपञ्चसु ॥ २-३१४ ॥
मुख्यो४१ भल्लाट४२सोमौ४३ च भुजग४४श्चादिति४५स्तथा ।
देवा एते पञ्चचत्वारिंशदर्च्यास्तु भक्तितः ॥ २-३१५ ॥
इदमेकाशीतिपदं वैदिकं वास्तुमण्डलम् ।
तान्त्रिकमार्गे चतुःषष्टिपदं वास्तुमण्डलं तत्रैवोक्तम् ।
अथ तान्त्रिकमार्गे तु चतुःषष्टिपदे तथा ॥ २-३१६ ॥
कोणयोः सूत्रयुगलं मध्ये ब्रह्माणमर्चयेत् ।
(गौतमीयतन्त्रे)
विप्राशिषा वेदघोषैर्मङ्गलाचारपूर्वकैः ॥ २-३१७ ॥
वास्तोर्मण्डलकं कुर्याद्यथाशोभं यथाविधि ।
प्। १०८)
एकाशीतिपदं वास्तुचक्रम् ।
शिखि
पर्जन्यः
जयन्तः
इन्द्रः
सूर्यः
सत्यः
भृशः
अन्तरिक्षः
वातः
दितिः
आपः
जयन्तः
इन्द्रः
सूर्यः
सत्यः
भृशः
सावित्रः
पूषा
अदितिः
अदितिः
आप-
वत्सः
अर्यमा
अर्यमा
अर्यमा
सविता
वितथः
वितथः
भुजगः
भुजगः
सुमेरुः
ब्रह्मा
ब्रह्मा
ब्रह्मा
विवस्वान्
बृहत्-क्षेत्रः
बृहत्-क्षेत्रः
सोमः
सोमः
सुमेरुः
ब्रह्मा
ब्रह्मा
ब्रह्मा
विवस्वान्
यमः
यमः
भल्लाटः
भल्लाटः
सुमेरुः
ब्रह्मा
ब्रह्मा
ब्रह्मा
विवस्वान्
गन्धर्वः
गन्धर्वः
मुख्यः
मुख्यः
राजय-क्ष्मा
मित्रः
मित्रः
मित्रः
इन्द्रः
भृङ्ग-राजः
भृङ्ग-राजः
अहिः
रुद्रः
शोषः
असुरः
वरुणः
पुष्प-दन्तः
सुग्रीवः
जयः
मृगः
रोगः
पाप-यक्ष्मा
शोषः
असुरः
वरुणः
पुष्प-दन्तः
सुग्रीवः
दौवारिकः
पिता
(शारदायाम्)
पूर्वापरायतं सूत्रं विन्यसेद्धस्तमानतः ॥ २-३१८ ॥
तन्मध्यं किञ्चिदालम्ब्य मत्स्यौ द्वौ परितो लिखेत् ।
तयोर्मध्ये स्थितं सूत्रं विन्यसेद्दक्षिणोत्तरम् ॥ २-३१९ ॥
द्वाभ्यां द्वाभ्यां तथाग्राभ्यां कोणेषु मकरा।ल्लिखेत् ।
मत्स्यमध्ये स्थिताग्राणि तत्र सूत्राणि पातयेत् ॥ २-३२० ॥
चतुरस्रं भवेत् तत्र चतुष्कोष्ठसमन्वितम् ।
तत् पुनर्विभजेन्मन्त्री चतुःषष्टिपदं यथा ॥ २-३२१ ॥
ईशानाद्राक्षसं यावद्यावदग्नेः प्रभञ्जनम् ।
प्। १०९) एवं सूत्रद्वयं दद्यात् कर्णसूत्रं समाहितः ॥ २-३२२ ॥
ब्रह्माणं१ पूजयेदादौ मध्यकोष्ठचतुष्टये ।
दिक्चतुष्के तु पूर्वादि यजेदार्य२मनन्तरम् ॥ २-३२३ ॥
विवस्वन्तं३ततो मित्रं४ महीधर५मनन्तरम् ।
कोणार्धकोष्ठद्वन्द्वेषु वह्न्यादि परितः पुनः ॥ २-३२४ ॥
सावित्रं६ सवितारं च७ शक्र८मिन्द्रजयं९ पुनः ।
रुद्रं१० रुद्रजयं११ विद्वानापं१२ चाथापवत्सकम्१३ ॥ २-३२५ ॥
तत्कर्णसूत्रोभयतः कोष्ठद्वन्द्वेषु दैशिकः ।
शर्वं१४ गुहं१५ चार्यमाणं१६ जृम्भकं१७ पिलपिच्छिकाम्१८ ॥ २-३२६ ॥
चरकीं१९ च विदारीं२० च पूतना२१ मर्चयेत् क्रमात् ।
पूजयेद्दिक्षु पूर्वादिसार्द्धाद्यन्तपदेष्विमान् ॥ २-३२७ ॥
अष्टावष्टविभागेन दैवतान् दैशिकोत्तमः ।
क्रमादीशान२२पर्जन्य२३जयन्ताः २४शक्र२५भास्करौ२६ ॥ २-३२८ ॥
सत्यो२७वृषा२८न्तरिक्षौ२९ च दिशि प्राच्यां व्यवस्थिताः ।
अग्निः३० पूषा३१ च वितथो३२ यम३३श्च गृहरक्षकः३४ ॥ २-३२९ ॥
गन्धर्वो३५ भृङ्गराज३६श्च मृगो३७ दक्षिणदिग्गताः ।
निरृति३८र्दौवारिकश्च३९ सुग्रीव४०वरुणौ४१ ततः ॥ २-३३० ॥
पुष्पदन्ता४२ऽसुरौ४३ शोष४४ रोगौ४५ प्रत्यग्दिशि स्थिताः ।
वायु४६र्नाग४७श्च मुख्य४८श्च सोमो४९ भल्लाट५० एव च ॥ २-३३१ ॥
अर्गलाख्यो५१ दित्य५२दिती५३कुवेरस्य दिशि स्थिताः ।
देवा एते त्रिपञ्चाशत् पूजनीयाः प्रयत्नतः ॥ २-३३२ ॥
(हयशीर्षपञ्चरात्रे)
एकाशीतिपदं वास्तु गृहकर्मणि शस्यते ।
चतुःषष्ठिपदं वास्तु प्रासादेषु प्रशस्यते ॥ २-३३३ ॥
प्। ११०)
चतुःषष्टिपदं वास्तुचक्रम्
ईशानः
अदितिः
पर्जन्यः
जयन्तः
शक्रः
भास्करः
सत्यः
वृषः
अन्तरिक्षः
अग्निः
अदितिः
पर्जन्यः
दितिः
जयन्तः
शक्रः
भास्करः
सत्यः
वृषः
पूषा
पूषा
अर्गलः
अर्गलः
आपवत्सः
आपः
आर्यमा
आर्यमा
सविता
सोवित्रः
वितथः
वितथः
भल्लाटः
भल्लाटः
महीधरः
ब्रह्मा
ब्रह्माः
विवस्वान्
यमः
यमः
सोमः
सोमः
महीधरः
ब्रह्मा
ब्रह्मा
विवस्वान्
गृहरक्षकः
गृहरक्षकः
मुख्यः
मुख्यः
रुद्रः
रुद्रजयः
मित्रः
मित्रः
शक्रः
इन्द्रजयः
गन्धर्वः
गन्धर्वः
नागः
नागः
शोधः
असुरः
पुष्पदन्तः
वरुणः
सुग्रीवः
भृङ्गराजः
दौवारिकः
भृङ्गराजः
वयुः
रोगः
शोषः
असुरः
पुष्पदन्तः
वरुणः
सुग्रीवः
दौवारिकः
मृगः
निरृतिः
अर्यमा विदा-ई ।
(मेरुतन्त्रे)
ब्रह्मस्थानं रक्तवर्णैर्दिशः पीतैर्विदिक् सितैः ।
ततो दिशस्तु हरितैर्विदिशः कृष्णवर्णकैः ॥ २-३३४ ॥
अरुणः परिधिः कार्यः सुन्दरं मण्डलं भवेत् ।
मध्ये पदानां नवकं मार्जयित्वा प्रपूरयेत् ॥ २-३३५ ॥
सितेन रजसा भूयस्तद्दिक्षु चतसृष्वपि ।
षट्कं सम्मार्ज्य रजसा रक्तेन परिपूरयेत् ॥ २-३३६ ॥
तयोर्मध्ये चतुर्दिक्षु कोष्ठं द्वादशसङ्ख्यकम् ।
प्। १११) मार्जयित्वा हरिद्वर्णैर्यर्थाशोभं प्रपूरयेत् ॥ २-३३७ ॥
कोणे कोणेऽष्टयुग्मं पीतवर्णेन पूरयेत् ।
शिष्टानि च पदान्यत्र यथाशोभं प्रकल्पयेत् ॥ २-३३८ ॥
विचित्राणि ततो मध्ये ब्रह्माणं सम्प्रपूजयेत् ।
(गौतमीयतन्त्रे)
उक्तानामपि देवानां पदान्यापूर्य पञ्चभिः ॥ २-३३९ ॥
रजोभिस्तेष्वथो तेभ्यः पायसान्नैर्वलिं हरेत् ।
पायसैर्मधुरैः सर्वान् संयजेन्मधुरान्वितैः ॥ २-३४० ॥
तत्तद्द्रव्यैर्वा मतिमान् पूजयेद्दोषशान्तये ।
(मेरुतन्त्रे)
व्रीहिमुद्गयवैः क्षौद्रघृतदुग्धप्लुतैः क्रमात् ॥ २-३४१ ॥
अष्टोत्तरशतं वाष्टोत्तरविंशतिमेव वा ।
प्रत्येकं तैर्हुनेद्द्रव्यैर्मन्त्रैस्तद्वच्च पायसैः ॥ २-३४२ ॥
वलिं च तेषां कुर्वीत पायसैर्व्यञ्जनान्वितैः ।
ससितैर्दुग्धकदलीफलापूपादिसंयुतैः ॥ २-३४३ ॥
एवं सिंहगते भानौ पूर्णायां प्रतिवत्सरे ।
स्वगेहे वास्तुपूजायां मण्डपेषु समाचरेत् ॥ २-३४४ ॥
न बालमरणं व्याधिर्भूतप्रेतादिकानि च ।
न सर्पपीडा नान्योन्यकलहाद्यशुभानि च ॥ २-३४५ ॥
पुत्रपौत्रधनारोग्यं पशुदासीसमृद्धिभाक् ।
अरोगी विजयख्यातश्चिरं जीवति तद्गृहे ॥ २-३४६ ॥
राजवेश्मसु सर्वत्र तथा च महिषीगृहे ।
सचिवामात्यसेनानीभवनेषु परे तथा ॥ २-३४७ ॥
विदध्यात् प्रतिवर्षं तु प्रोक्तसिद्ध्यै तु दैशिकः ।
प्। ११२) न चेदुक्तान्यथारूपफलैः क्लेशोऽनिशं भवेत् ॥ २-३४८ ॥
भैरवक्षेत्रपालानां योगिनीनां विशेषतः ।
वामाचारैर्वलिः कार्यो महिषैर्वापि कुक्कुटैः ॥ २-३४९ ॥
आराधितास्तु वामेन जायन्तेऽतिबुभुक्षिताः ।
देवता बलिमिच्छन्ति तद्धीनं घ्नन्ति साधकम् ॥ २-३५० ॥
वास्तुध्यानम् (सोमशम्भुतन्त्रे)
आकुञ्चितकरं वास्तुमुत्तानमसुराकृतिम् ।
स्मरेत् पूजासु कुड्यादिनिवेशे त्वधराननम् ॥ २-३५१ ॥
जनुनीकूर्पराशक्ते दिशि वातहुताशयोः ।
पैत्र्यां पादपुटौ रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः ॥ २-३५२ ॥
पैत्र्यामिति । प्रकृतिमण्डले पितृदेवताधिष्ठितायां रक्षोदिशि न तु दक्षिणस्यामिति ध्येयम् ।
(महाकपिलपञ्चरात्रेऽपि)
पूर्वमासीन्महानुग्रः सर्वभूतभयङ्करः ।
स देवैर्निहतो भूमौ स वास्तुपुरुषः स्मृतः ॥ २-३५३ ॥
यावद्भूमिः स्थिरा लोके तावद्वास्त्वसुरः स्थितः ।
संहारे तु लयं याति देवैः सर्वग्रहादिभिः ॥ २-३५४ ॥
विस्तारोऽस्य समन्ताच्च शतकोटिस्तु योजनम् ।
संस्थितोऽसौ धरां व्याप्य प्रोत्तानः कृष्णवर्णकः ॥ २-३५५ ॥
अत्रायं क्रमः । आदौ यजमान आचार्यं ब्रूयात् । तत आचार्यः प्रोक्तलक्षणां भूमिं परिगृह्य तस्याः शुद्धिं विधाय पञ्चगव्यैः संसिच्य तन्मध्ये शुक्लडोरकं प्रसार्य कनकशलाकया रत्नेन रजतशलाकया वा तदभावे पुष्पफलधान्यानामन्यतमेन वा ।
शान्ता१ यशोवती२ कान्ता३विलासा४ प्राणवाहिनी५ ।
प्। ११३) सती६ वसुमती७ नन्दा८ सुभद्रा९ नवमी मता ॥ २-३५६ ॥
इति नव रेखाः प्रागपरायता दक्षिणोपक्रमा उदगपवर्गा विलिख्य
हिरण्या१ सुव्रता२ लक्ष्मी३र्विभूति४र्विमला५ प्रिया६ ।
जया७ काला८ विशोका९ च नवमी संस्कृता बुधैः ॥ २-३५७ ॥
इति नव रेखा दक्षिणोत्तरायताः पश्चिमोपक्रमाः पूर्वापवर्गा विलिख्यैवं चतुःषष्टिपदं वास्तुमण्डलं निर्माय पञ्चरजोभिः पदानि परिपूर्य मध्येऽष्टदलं वक्ष्यमाणरीत्या निर्माय तन्मध्ये ब्रह्माणं ध्यात्वा आवाह्य तत्तत्पदेषु तत्तद्देवताश्चावाह्य प्रणवादिनमोऽन्तैस्तन्नाममन्त्रैः पूजयेत् । मण्डलाद्बहिःकोष्ठेषु कोष्ठचतुष्टयमतिरक्तं निर्माय तत्र गुरुगणेशदुर्गाक्षेत्रपालान् पूजयेत् । ऐशान्यां कलशं संस्थाप्य वरुणं यथाविधि पूजयेदिति राघवभट्टाः ।
एषां ध्यानानि तत्रान्तरे -
उक्तानां सर्वदेवानां स्वरूपं च निगद्यते ।
अक्षमालां श्रुवं दक्षे वामे दण्डकमण्डलुम् ॥ २-३५८ ॥
दधानमष्टनयनं यजेन्मध्येऽम्बुजासनम् ।
सर्वे चतुर्भुजा देवा वास्तुदेहे व्यवस्थिताः ॥ २-३५९ ॥
कृताञ्जलिपुटा ऊर्द्धं खड्गखेटकपाणयः ।
ब्रह्माणं सन्न्निरीक्षन्ते तद्वक्राभिमुखाश्च ते ॥ २-३६० ॥
स्वस्वस्थानस्थिताश्चैव साधारणमुदाहृतम् ।
मरीचिः श्वेतवर्णः स्याद्विवस्वानभ्रवर्णकः ॥ २-३६१ ॥
शातकुम्भनिभो मित्रः कृष्णवक्त्रस्तु भूधरः ।
सविता नीलवर्णाभः सावित्रो धूम्रविग्रहः ॥ २-३६२ ॥
इन्दुश्चारुणवर्णाभः शुक्लश्चेन्द्रजयस्तथा ।
रुद्रः प्रवालसदृशः पीतो रुद्रजयस्तथा ॥ २-३६३ ॥
आपो गोक्षीरधवल आपवत्सो जपाद्युतिः ।
ईशानः क्षीरधवलः पर्जन्योऽञ्जनसन्निभः ॥ २-३६४ ॥
जयन्तोऽञ्जनसङ्काशो महेन्द्रः श्यामलद्युतिः ।
प्। ११४) आदित्यो रक्तवर्णः स्यात् सत्यकश्चित्रवर्णकः ॥ २-३६५ ॥
वृषो बन्धूकपुष्पाभः कुन्दाभश्चान्तरिक्षकः ।
उद्यद्दिनकराभोऽग्निः पूषा रत्नाभसन्निभः ॥ २-३६६ ॥
वितथश्चेन्द्रचापाभो विद्युद्वर्णो गृहरक्षकः ।
निरृतिः पावकाभश्च पीतो दौवारिकः स्मृतः ॥ २-३६७ ॥
सुग्रीवो नीलकण्ठाभश्चन्द्राभः पुष्पदन्तकः ।
वरुणः स्फटिकाभाङ्गो भृङ्गाभश्चासुरो मतः ॥ २-३६८ ॥
यमश्चाञ्जनसङ्काशो गन्धर्वः पद्मरागवत् ।
भृङ्गराजश्च भृङ्ङ्गाभो मृगो जीमूतसन्निभः ॥ २-३६९ ॥
शोषश्चोत्पलसङ्काशो रोगश्चैवेन्द्रनीलवत् ।
वायुः कृष्णाभवर्णः स्यान्नागः शेषेन्दुसन्निभः ॥ २-३७० ॥
मुख्यो मौक्तिकसङ्काशो भल्लाटः श्वेतपद्मवत् ।
सोमः स्फटिकसङ्काशोऽर्गलो रक्तोत्पलद्युतिः ॥ २-३७१ ॥
दितिः कुन्देन्दुधवला कपिला चादितिः स्मृता ।
चरकी शङ्खसदृशी विदारी पावकद्युतिः ॥ २-३७२ ॥
पूतना हिमसङ्काशा मेघाभा पिलपिच्छिका ।
खड्गं च पानपात्रं च छुरिकां कर्तरीं तथा ॥ २-३७३ ॥
दधाना भीमरूपास्ता राक्षस्यः परिकीर्तिताः ।
सितो रक्तश्च पीतश्च कृष्णः स्कन्दादिका ग्रहाः ॥ २-३७४ ॥
वज्रं शक्तिं च खड्गं च पाशं च विकृताननाः ।
दधाना भीषणाः प्रोक्ता ग्रहाः स्कन्दादिकाश्च ते ॥ २-३७५ ॥
एवं ध्यात्वा पञ्चोपचारैः सम्पूज्य वास्तुपुरुषमपि यथोक्तं ध्यात्वा वैदिकमते उक्तवैदिकमन्त्रेण तान्त्रिकमते तु ओ।वास्तोष्पतये नमः इति मन्त्रेण पञ्चोपचारैः सम्पूज्य तत्पूर्वदिशि तत्पश्चिमदिशि वा हस्तमात्रं त्रिमेखलं कुण्डं स्थण्डिलं वा निर्माय तत्र वक्ष्यमाणक्रमेणाग्निमुपसमाधाय मण्डलाद्ब्रह्मादिदेवतास्तत्रावाह्य
प्। ११५) तेभ्यः पूर्वोक्तसङ्ख्यया आहुतीर्हुत्वा पूर्णाहुतिं विधाय पुनर्मण्डले देवानानीय तेभ्यः प्रत्येकं बलिं दद्यात् ।
बलिमन्त्रा द्रव्यभेदाश्च (गौतमीयमहाकपिलपञ्चरात्रयोः)
पायसौदनलाजैश्च युक्तं धूपप्रसूनकैः ।
अन्नादिभिश्च संयुक्तं माषभक्तादिमण्डितम् ॥ २-३७६ ॥
गृहाणेमं वलिं ब्रह्मन् वास्तुदोषं प्रणाशय ।
गन्धादिशर्करारूपं पायसोपरिसंयुतम् ॥ २-३७७ ॥
आर्यकाख्य गृहाणेमं सर्वदोषं प्रणाशय ।
चन्दनाद्यर्चितं नाथ कर्पूरागुरुमण्डितम् ॥ २-३७८ ॥
विवस्वन् वै गृहाणेमं सर्वदोषं प्रणाशय ।
सगुडं पायसं नाथ पुष्पादिसुसमन्वितम् ॥ २-३७९ ॥
गृहाणेमं वलिं हृद्यं मित्र शान्तिं प्रयच्छ मे ।
माषौदनं समांसं च गन्धादिक्षीरसंयुतम् ॥ २-३८० ॥
गृहाणेमं महीभृत् त्वं सर्वदोषं प्रणाशय ।
एवं मध्ये तु सम्पूज्य ईशानादि वलिं हरेत् ॥ २-३८१ ॥
एतेन पूजायामाग्नेयादिक्रमेऽपि वलावीशानादिक्रमः ।
अन्यत्रापि ।
ईशानाद्दक्षिणावर्तो वलिः सामान्यभाषितः ।
सर्वेषां खलु वस्तूनां विशेषः पदनिर्णये ॥ २-३८२ ॥
क्वचित् तु पूजापि तथैवोक्ता ।
ईशकोणादिषु सुरान् पूजयेच्च विधानतः ।
ईशानादिचतुष्कोणसंस्थितान् पूजयेद्बुधः- इति ॥ २-३८३ ॥
तथा ।
क्षीरखण्डसमायुक्तं पुष्पादिभिरलङ्कृतम् ।
गृहाणेमं वलिं गृह्यमाप शान्तिं प्रयच्छ मे ॥ २-३८४ ॥
प्। ११६) दधीदं गुडसम्मिश्रं गन्धादिभिः सुसंयुतम् ।
गृहाणेमं वलिं वत्स विघ्नमत्र प्रणाशय ॥ २-३८५ ॥
पुष्पादिकुशपानीयं शर्करागुरुवासितम् ।
सावित्र वै गृहाणेमं शान्तिमत्र प्रयच्छ मे ॥ २-३८६ ॥
पिष्टकं सगुडं नाथ रक्तगन्धादिशोभितम् ।
गृहाणेमं वलिं सूर्य विघ्नमत्र प्रणाशय ॥ २-३८७ ॥
शीतमन्नं तथा पुष्पं कुङ्कुमादिसुमण्डितम् ।
गृहाणेमं वलिं गृह्यं शक्रदेव नमोऽस्तु ते ॥ २-३८८ ॥
ओदनं घृतसंयुक्तं वस्त्रगन्धादिमण्डितम् ।
गृहाणेमं वलिं गृह्यमिन्द्रजय नमोऽस्तु ते ॥ २-३८९ ॥
पक्वापक्वमिदं मांसं वस्त्रपुष्पादिसंयुतम् ।
गृहाणेमं वलिं गृह्यं रुद्रदेव नमोऽस्तु ते ॥ २-३९० ॥
समांसं घृतसम्पक्वं गन्धपुष्पादिसंयुतम् ।
गृहाणेमं वलिं रुद्रजय स्वस्ति नमोऽस्तु ते ॥ २-३९१ ॥
रक्तपुष्पं समांसं वै रक्तवस्त्रादिसंयुतम् ।
विदारि वै गृहाणेमं रक्षोविघ्नं विनाशय ॥ २-३९२ ॥
पित्तरक्तास्थिसंयुक्तं रक्तगन्धादिमण्डितम् ।
गृहाणेमं पूतने त्वं रक्षोविघ्नं विनाशय ॥ २-३९३ ॥
सघृतं माषभक्तं च रक्तगन्धादिसंयुतम् ।
वलिं गृहाण शर्व त्वं रक्षोविघ्नं विनाशय ॥ २-३९४ ॥
मांसपुष्पादिसंयुक्तं माषभक्तोपशोभितम् ।
गृहाणेमं वलिं स्कन्द रक्षोविघ्नं विनाशय ॥ २-३९५ ॥
श्वमांसं पिष्टकैर्युक्तं पक्वमांसोदकान्वितम् ।
अर्यमन् वै गृहाणेमं सर्वविघ्नं विनाशय ॥ २-३९६ ॥
प्। ११७) रक्तमांसौदनं मत्स्यं गन्धधूपसमन्वितम् ।
जृम्भक त्वं गृहाणेमं रक्षोविघ्नं विनाशय ॥ २-३९७ ॥
छागकर्णान्वितं मांसं वस्त्रगन्धादिसंयुतम् ।
पिलपिच्छे गृहाणेमं रक्षोविघ्नं विनाशय ॥ २-३९८ ॥
घृतेन साधितं मांसं वस्त्रगन्धादिसंयुतम् ।
चरकि त्वं गृहाणेमं रक्षोविघ्नं विनाशय ॥ २-३९९ ॥
सघृतं साक्षतं भक्तं वस्त्रगन्धाद्यलङ्कृतम् ।
गृहाणेमं वलिं त्वीश वास्तुदोषापहारकम् ॥ २-४०० ॥
उत्पलं पायसैर्युक्तं वस्त्रादिकसमन्वितम् ।
गृहाणेमं वलिं गृह्यं मेघराज नमोऽस्तु ते ॥ २-४०१ ॥
पञ्चहस्तं सुपीतं च ध्वजं भक्तादिमण्डितम् ।
गृहाणेमं वलिं गृह्यं जिष्णुसुत नमोऽस्तु ते ॥ २-४०२ ॥
ओदनं घृतसम्पूर्णं पञ्चरत्नादिमण्डितम् ।
गृहाणेमं वलिं गृह्यं देवराज नमोऽस्तु ते ॥ २-४०३ ॥
रक्तपुष्पयुतं भक्तं रक्तगन्धादिभिर्युतम् ।
गृहाणेमं वलिं हृद्यं भास्कराय नमोऽस्तु ते ॥ २-४०४ ॥
वितानं धूम्रवर्णाभं गन्धादिकसुशोभितम् ।
रक्तपुष्पं गृहाणेमं वलिं सत्य नमोऽस्तु ते ॥ २-४०५ ॥
इदं तु मांसभक्तं वै वस्त्रगन्धादिपूजनम् ।
गृहाणेमं वृष वलिं वास्तुदोषं विनाशय ॥ २-४०६ ॥
इदं तु शाद्वलं मांसं नैवेद्यादिसंयुतम् ।
गृहाणेमं वलिं हृद्यं व्योम शान्तिं प्रयच्छ मे ॥ २-४०७ ॥
सुवर्णं पिष्टकं चाथ वस्त्रगन्धादिभिर्युतम् ।
प्। ११८) घृतान्वितं गृहाणेमं सप्तजिह्व नमोऽस्तु ते ॥ २-४०८ ॥
क्षीरं लाजासमायुक्तं गन्धपुष्पादिसंयुतम् ।
गृहाणेमं वलिं हृद्यं पूषदेव नमोऽस्तु ते ॥ २-४०९ ॥
मांसौदनं गन्धमाल्ययुतं वस्त्रादिभूषितम् ।
वितथेश वलिं गृह्ण्न् वास्तुदोषं विनाशय ॥ २-४१० ॥
मत्स्यमांसयुतं भक्तं गन्धपुष्पाद्यलङ्कृतम् ।
यमराज गृहाणेमं वलिं शान्तिं प्रयच्छ मे ॥ २-४११ ॥
पक्वमांसौदननवनीतं वस्त्रादिमण्डितम् ।
गृहाणेमं प्रीतिकरं गृहरक्ष नमोऽस्तु ते ॥ २-४१२ ॥
नानागन्धसमायुक्तं रक्तगन्धादिभिर्युतम् ।
वलिं गृहाण गन्धर्व सर्वदोषं प्रणाशय ॥ २-४१३ ॥
इमां तु शाकुनीं जिह्वां माषभक्तोपरिस्थिताम् ।
गृहाणेमं भृङ्गराज वलिं शान्तिं प्रयच्छ मे ॥ २-४१४ ॥
एवं तिलघृतोपेतं गन्धपुष्पादिभिर्युतम् ।
गृहाणेमं बलिं हृद्यं मृगदेव नमोऽस्तु ते ॥ २-४१५ ॥
शर्करामण्डितं खण्डं वस्त्रगन्धाद्यलङ्कृतम् ।
प्रीतो वलिं गृहाणेमं रक्षोराज नमोऽस्तु ते ॥ २-४१६ ॥
चन्दनागुरुकाखण्डं वस्त्रगन्धादिभिर्युतम् ।
गृहाणेमं वलिं हृद्यं दौवारिक नमोऽस्तु ते ॥ २-४१७ ॥
इदं तु पायसं नाथ गन्धपुष्पादिमिश्रितम् ।
सुग्रीव वै गृहाणेमं वलिं शान्ति प्रयच्छ मे ॥ २-४१८ ॥
यवाग्वलङ्कृतं दुग्धं भक्तोपरिसमन्वितम् ।
गृहाणेमं वलिं हृद्यं जलदेव नमोऽस्तु ते ॥ २-४१९ ॥
प्। ११९) माषभक्तं कुशस्तम्बं घृतगन्धादिसंयुतम् ।
पुष्पदन्त गृहाणेमं वास्तुदोषं प्रणाशय ॥ २-४२० ॥
मधुना साधितं पिष्टं गन्धाद्यैरुपशोभितम् ।
वलिं गृहाणासुरेन्द्र सर्वदोषं प्रणाशय ॥ २-४२१ ॥
घृतं चान्नसमायुक्तं कर्पूरादिसमायुतम् ।
गृहाणेमं वलिं शोष सर्वशान्तिं प्रयच्छ मे ॥ २-४२२ ॥
यवजं तण्डुलं नाथ गन्धपुष्पादिशोभितम् ।
गृहाणेमं वलिं रोग सर्वदोषं प्रणाशय ॥ २-४२३ ॥
सघृतं मोदकं चेदमन्नाद्यैरुपशोभितम् ।
गृहाणेमं वलिं हृद्यं मृगवाह नमोऽस्तु ते ॥ २-४२४ ॥
इदं तु कृसरान्नं मे दुग्धगन्धादिसाधितम् ।
पातालेश गृहाणेमं विघ्नमत्र प्रणाशय ॥ २-४२५ ॥
नारिकेलोदकं भक्तं पीतवस्त्रादिसंयुतम् ।
गृहाणेमं वलिं मुख्य वास्तुदोषं प्रणाशय ॥ २-४२६ ॥
दधिगन्धादिभिर्युक्तं पीतपुष्पसमन्वितम् ।
वलिः प्रगृह्यतां सोम सर्वदोषं प्रणाशय ॥ २-४२७ ॥
ओदनं घृतसम्मिश्रं गन्धपुष्पसमन्वितम् ।
गृहाणेमं वलिं गृह्यं भल्लाटक नमोऽस्तु ते ॥ २-४२८ ॥
माषान्नं तु घृताभ्यक्तं गन्धपुष्पादिमण्डितम् ।
गृहाणेमं वलिं हृद्यमर्गलाख्य नमोऽस्तु ते ॥ २-४२९ ॥
क्षीरखण्डसमायुक्तं नानापुष्पोपशओभितम् ।
दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय ॥ २-४३० ॥
प्। १२०) पौरिकां मधुसम्मिश्रां वस्त्रगन्धादिसंयुताम् ।
गृहाणेमं वलिं गृह्यं देवमातर्नमोऽस्तु ते ॥ २-४३१ ॥
स्वर्गपातालमर्त्येषु देवता वास्तुदेवताः ।
गृह्णन्त्विमं वलिं हृद्यं तुष्टा यान्तु स्वमन्दिरम् ॥ २-४३२ ॥
मातरो भूतवेताला ये चान्ये वलिकाङ्क्षिणः ।
विष्णोः पारिषदा ये च तेऽपि गृह्णन्त्विमं वलिम् ॥ २-४३३ ॥
पितृभ्यः क्षेत्रपालेभ्यो वलिं दत्वा प्रकामतः ।
अभावादुक्तमार्गस्य कुशपुष्पादिभिर्यजेत् ॥ २-४३४ ॥
(प्रयोगसारे)
वास्तुशेषः क्रियापूतः सर्वरक्षाविधानकृत् ।
भूतिप्रीतिकरश्चास्मिन् दिशां वलिमुदीरयेत् ॥ २-४३५ ॥
दिक्पालपरिषत्सर्वभूतानुद्दिश्य नामभिः ।
पूजाविसर्जनान्तो यः स विज्ञेयो दिशो वलिः ॥ २-४३६ ॥
दध्यम्बुरजनी पुष्पलाजसक्तुतिलान्धसा ।
द्रव्येण वितरेद्दिश्यं वलिं दिक्क्रमयोगतः ॥ २-४३७ ॥
सुराणां तेजसां चैव प्रजानां रक्षसामपि ।
तथा जलानां प्राणानां नक्षत्राणां च तत्पुनः ॥ २-४३८ ॥
विद्यानामधिपानां च नान्यथोक्तान् वलिं हरेत् ।
सवाहनपदं प्रोक्ता परिवाराय शक्तये ॥ २-४३९ ॥
तत्पार्षदेभ्यश्च ततः सर्वेभ्य इति संयुतः ।
भूतेभ्यश्च क्रमाद्भूयः प्रादक्षिण्यान् क्षिपेद्वलिम् ॥ २-४४० ॥
द्विषत्पिशाचवेतालरक्षोरक्षार्थिनामिह ।
प्। १२१) दिशां वलिर्विशेषेण सर्वसम्पत्समृद्धिदः ॥ २-४४१ ॥
वास्तौ गृहप्ररोहे भूतद्रोहे गृहप्रवेशे च ।
वितते च शान्तिहोमे दिशां वलिः सिद्धये प्रयोक्तव्यः ॥ २-४४२ ॥
इति बलिं दत्त्वा पुनस्तान् समभ्यर्च्य यथाशक्ति जप्त्वा स्तुत्वा प्रणम्य विसर्जयेत् ।
विसर्जनमन्त्रो यथा ।
यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् ।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥ २-४४३ ॥
इति देवान् विसृज्य कुद्दालं पूजयेत्
तदुक्तं तत्रान्तरे ।
भद्रं मुहूर्तमाश्रित्य खन्यतां वास्तुकोष्ठकम् ।
स्वर्णकुद्दालरूपत्वं भूमेः खननकर्मणि ॥ २-४४४ ॥
विश्वकर्मायुधो नित्यं नमस्ते चास्त्रमूर्तये ।
इति स्वर्णकुद्दालं प्रपूज्य खनितृपुरुषं विश्वकर्मधिया पूजयेत् ।
द्विभुजः पीतदेहस्तु जटाधारी कजासनः ॥ २-४४५ ॥
विश्वकर्मा सदा गौरो ज्ञानमुद्राक्षसूत्रभृत् ।
विश्वकर्मन् जगद्व्यापिन् संसारसृष्टिकारक ॥ २-४४६ ॥
अत्र कुद्दालहस्तस्त्वं विश्वकर्मन्नमोऽस्तु ते ।
एकाशीतिकोष्ठभेदे वास्तौ विश्वात्मकर्मक ॥ २-४४७ ॥
कुद्दालं गृह्यतामत्र खननं कुरु साम्प्रतम् ।
इति तद्धस्ते कुद्दालं दक्षिणां च दद्यात् । ततः पृथिवीं प्रार्थयेत् ।
कुद्दालदारितैरत्र कीटकोटिशतैरपि ॥ २-४४८ ॥
क्षम्यतां पृथिवीदेवि विष्णुस्थापनहेतवे ।
इति पृथ्वीं सम्प्रार्थ्य विश्वकर्मात्मकखनितृपुरुषो वास्तुपुरुषस्य कक्षान्तरे खननं कुर्यात् ।
प्। १२२) तदुक्तं तन्त्रान्तरे ।
शुभाशुभानि वास्तूनां क्रमेणैव वदाम्यहम् ॥ २-४४९ ॥
कक्षान्तरे च नित्यं च सर्वत्र भद्रमादिशेत् ।
शीर्षे चैव भवेन्मृत्युः कण्ठे वै दुःखभागिता ॥ २-४५० ॥
हस्ते चौरभयं विद्यादुरसा पशुनाशनम् ।
जानौ विदेशगमनं पादाभ्यां च निरर्थकम् ॥ २-४५१ ॥
वामदक्षिणमित्येवं वास्तुक्षेत्रमुदीरितम् ।
निपुणः कारयेन्मन्त्री कल्याणं पूर्णताकृतम् ॥ २-४५२ ॥
समाहितमना भूत्वा खनयेद्वास्तुकक्षके ।
इति वास्तुयागविधिः ।
अथदीक्षोपयुक्तमण्डपनिर्णयः ।
तत्रादौ मण्डपरचनार्थं पूर्वादिदिग्ज्ञानोपायः ।
तदुक्तं (क्रियासारे)
कृत्वा भूमिं समां तत्र वृत्तं हस्तमितं समम् ॥ २-४५३ ॥
द्वादशाङ्गुलमानोच्च शङ्कुं खादिरनिर्मितम् ।
अलाभे यज्ञवार्क्षं वा तत्र संस्थापयेत् सुधीः ॥ २-४५४ ॥
तच्छाया संस्पृशेद्यत्र तन्मध्ये मध्यमं स्मृतम् ।
तिर्यक् प्रसारयेत् सूत्रं मध्ये याम्योत्तरे स्मृते ॥ २-४५५ ॥
कोणाः स्युरन्ये चत्वारश्चतुःसूत्रप्रसारणात् ।
एवं मानपरिज्ञानं समाख्यातं यथा स्फुटम् ॥ २-४५६ ॥
ज्ञात्वैवं मण्डपादीनि कुर्यात् सम्यग्विचक्षणः ।
(महाकपिलपञ्चरात्रे)
विषुवे तु गते सूर्ये शङ्कुमानं समाचरेत् ॥ २-४५७ ॥
खादिरं विन्यसेच्छङ्कुं द्वादशाङ्गुलविस्तृतम् ।
निश्चलीकृत्य हन्तव्यं गृहीत्वा लोहमुद्गरम् ॥ २-४५८ ॥
अष्टधा च स्वयं हन्यात् प्रशस्तं क्रमतो लघु ।
प्। १२३) हन्यमाने यदा शङ्कौ हस्तात् पतति मुद्गरः ॥ २-४५९ ॥
तदा ताडयितुः शोको जायते दुस्तरो महान् ।
मौञ्जं कार्पासकौशेयं प्राणिवालजमेव च ॥ २-४६० ॥
चतुर्यवपरीणाहं सूत्रं शङ्कौ तु वेष्टयेत् ।
वेष्ट्यमानं यदा सूत्रं शङ्कुं मुञ्चति तत्क्षणम् ॥ २-४६१ ॥
पुत्रस्य मरणं विद्याच्छिन्ने वै स्वविनाशनम् ।
तत्रापि नारसिंहेन होमेनाशुभनाशनम्- इति ॥ २-४६२ ॥
(शारदायाम्)
नक्षत्रराशिवाराणामनुकूले शुभेऽहनि ।
ततो भूमितले शुद्धे तुषाङ्गारादिवर्जिते ॥ २-४६३ ॥
पुण्याहं वाचयित्वा तु मण्डपं रचयेच्छुभम् ।
पञ्चभिः सप्तभिर्हस्तैर्नवभिर्वामिनां वरम् ॥ २-४६४ ॥
अत्र यथाश्रुतव्याख्याने कुण्डाष्टकवेद्यृत्विक्प्रचारस्थलाद्यनुप-पत्त्या पञ्चभिः सप्तभिरित्यनेन द्वादशहस्तः पञ्चभिर्नवभिरित्यनेन चतुर्दशहस्तः सप्तभिर्नवभिरित्यनेन च षोडशहस्तो मण्डप इति राघवभट्टैः पदार्थादर्शे व्याख्यातम् । ताराभक्तिसुधार्णवे नृसिंहठक्कुरैरपि तथैवोक्तम् । एतेन द्वादशहस्तः कनीयान्, चतुर्दशहस्तो मध्यमः, षोडशहस्तश्चोत्तम इति त्रिविधो मण्डप उक्तः ।
तदुक्तम् (प्रतिष्ठासारसङ्ग्रहे)
स्वल्पो द्वादशहस्तोऽयं द्विद्विवृद्ध्या ततः क्रमात् ।
यत् तु
राज्ञां होमाभिषेकादिप्रयोगार्थं तु मण्डपम् ॥ २-४६५ ॥
विदध्यान्नवहस्तेन विस्तारायामसंयुतम् ।
इति (तन्त्रराजवचनम्) तद्दीक्षातिरिक्तकर्मोपयुक्तमण्डपपरम् ।
(सिद्धान्तशेखरे)
स्थूलादर्काङ्गुलोच्छ्रायं मण्डपस्थलमीरितम् ॥ २-४६७ ॥
प्। १२४) (महाकपिलपञ्चरात्रे तु)
उच्छ्रायो हस्तमानं स्यात् सुसमं च सुशोभनम्- इत्युक्तम् ।
(शारदायाम्)
षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः ॥ २-४६८ ॥
अष्ट हस्ताः समुच्छ्रायाः संस्थाप्या द्वादशाभितः ।
पञ्चहस्तप्रमाणास्ते निश्छिद्रा ऋजवः शुभाः ॥ २-४६९ ॥
तत्पञ्चमांशं निखनेन्मेदिन्यां तन्त्रवित्तमः ।
(वास्तुशास्त्रे)
पञ्चमांशं न्यसेद्भूमौ सर्वसाधारणो विधिः ॥ २-४७० ॥
(शारदायाम्)
नारिकेलदलैर्बाह्ये छादयेत् तत्समन्ततः ।
नारिकेलदलैरित्युपलक्षणम् ।
तथा च (मेरुतन्त्रे)
नारिकेलदलैर्वंशैः कटैराच्छादयेत् पुनः ॥ २-४७१ ॥
झञ्झामारुतवृष्ट्यादिभयं न स्याद्यथा तथा ।
(वास्तुशास्त्रेऽपि)
कटैः सद्भिस्तु सञ्छाद्या विजयाद्यास्तु मण्डपाः- इति ॥ २-४७२ ॥
स्तम्भनिवेशनं चाग्नेयादिक्रेमेण कार्यम् ।
स्तम्भोच्छ्राये शिलान्यासे सूत्रयोजनकीलके ।
खननावटसंस्कारप्रारम्भो वह्निगोचरे- इति वचनात् ॥ २-४७३ ॥
(सिद्धान्तशेखरे)
मध्ये स्तम्भचतुष्कं स्यात् तन्मध्ये वेदिका मता ।
वेदीकोणेषु विन्यस्य स्तम्भान् वेदस्वरूपकान् ॥ २-४७४ ॥
(पञ्चरात्रे)
सारदारुभवान् स्तम्भान् दृढान् कुर्यादृजून् समान् ।
(क्रियासारे)
याज्ञीयवृक्षो वेणुर्वा क्रमुकः स्तम्भकर्मणि ॥ २-४७५ ॥
प्। १२५) अन्ये विशुद्धवृक्षा वा भवेयुर्नापभूरुहः ।
गृहशल्यः स्वयं शुष्कः कुटिलश्च पुरातनः ॥ २-४७६ ॥
असौम्यभूमिजनितः सन्त्याज्यः स्तम्भकर्मणि ।
(मन्त्रमुक्तावल्याम्)
दिक्षु द्वाराणि चत्वारि विदध्यात् पञ्चमांशतः ॥ २-४७७ ॥
(पञ्चरात्रे)
कनीयसि स्याद्द्विकरं चतुरङ्गुलवृद्धितः ।
मध्यमोत्तमयोर्द्वारमिति पश्येन्मनोहरम् ॥ २-४७८ ॥
(सोमशम्भुमते)
प्लक्षोदुम्बरिकाश्वत्थवटजास्तोरणाः क्रमात् ।
पूर्वादितो विधातव्या यद्वाद्यन्तविपर्ययः ॥ २-४७९ ॥
अलाभादेकमेवैषां सर्वाशासु निवेशयेत् ।
(सिद्धान्तशेखरे)
एकमेषामलाभे स्यात् तदभावे शमीद्रुमः ॥ २-४८० ॥
जम्बूः खदिरसारश्च तालो वा तोरणे स्मृताः ।
(महाकपिलपञ्चरात्रे)
देवास्तोरणरूपेण संस्थिता यज्ञमण्डपे ॥ २-४८१ ॥
विघ्नविध्वंसनार्थं च रक्षार्थं त्वध्वरस्य च ।
न्यसेन्न्यग्रोधमैन्द्र्यां तु याम्यां चोदुम्बरं तथा ॥ २-४८२ ॥
वारुण्यां पिप्पलं चैव कौबेर्यां प्लक्षकं न्यसेत् ।
सुशोभनं तु पूर्वस्यामृग्वेदादिसुमन्त्रितम् ॥ २-४८३ ॥
इषे त्वेति च मन्त्रेण सुभद्राख्यं तु दक्षिणे ।
सुकर्माख्यं तु वारुण्यां सामवेदादिकेन तु ॥ २-४८४ ॥
शन्नो देवीति मन्त्रेण सुहोत्रं तूत्तरे न्यसेत् ।
ऋग्वेदादीति । अग्निमीडे पुरोहितमिति मन्त्रेणाभिमन्त्रितमित्यर्थः । सामवेदादिकेन अग्न आयाहीति मन्त्रेण ।
प्। १२६) (शारदायाम्)
द्वारेण तोरणानि स्युः क्रमात् क्षीरमहीरुहाम् ॥ २-४८५ ॥
स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक् पृथक् ।
दशाङ्गुलप्रमाणेन तत्परीणाह ईरितः ॥ २-४८६ ॥
तिर्यक्फलकमानं स्यात् स्तम्भमानार्धमानतः ।
शूलानि कल्पयेन्मध्ये तोरणे हस्तमानतः ॥ २-४८७ ॥
सप्तहस्तैरित्यधममण्डपपक्षे ।
तदुक्तम् (वास्तुशास्त्रे)
पञ्चहस्तप्रमाणास्ते विस्तारेण द्विहस्तकाः ।
षडङ्गुलादिवृद्ध्या तु सप्तहस्तास्तथोत्तमे ॥ २-४८८ ॥
षडङ्गुलादीति । तेनाधममण्डपे तोरणस्तम्भयोरन्तरालभूमिर्द्विहस्ता । मध्यमे षडङ्गुलाधिकद्विहस्ता । उत्तमे द्वादशाङ्गुलाधिकद्विहस्ता । एतेन मण्डपतिर्यक्फलकमानमप्युक्तं भवति । अधमोत्तमयोः पञ्चहस्तसप्तहस्तोच्छ्रायकथनान्मध्यमे षड्ढस्तोच्छ्रायतोक्ता । भवतीति सुधार्णवकृतः । शूलादिकल्पयेदिति । त्रिशूलविन्यासः शैवशाक्तादौ । वैष्णवे तु विशेष उक्तः ।
(मेरुतन्त्रे)
वैष्णवे द्वादशांशेन शङ्खचक्रगदाम्बुजान् ।
प्रागादिक्रमयोगेन न्यसेत् सौरोऽपि वैष्णवः ॥ २-४८९ ॥
(शारदायाम्)
दीक्षु ध्वजान्निबध्नीयाल्लोकपालसमप्रभाम् ।
वितानदर्भमालाद्यैरलङ्कुर्वीत मण्डपम् ॥ २-४९० ॥
(प्रतिष्ठासारसङ्ग्रहे)
पीतरक्तादिवर्णाश्च पञ्चहस्ता ध्वजा स्मृताः ।
द्विपञ्चहस्तैर्दण्डैस्ते वंशजैः संयुता समाः ॥ २-४९१ ॥
द्विपञ्चहस्तैर्दशहस्तैः
प्। १२७) अन्यत्रापि ।
पञ्चहस्ता ध्वजाः कार्या वैकल्पे तु द्विहस्तकाः ।
दण्डश्च दशहस्तश्च दशदिक्षु च तान् न्यसेत् ॥ २-४९२ ॥
(हयशीर्षपञ्चरात्रे)
दर्पणैश्चामरैर्घण्टैस्तम्भान् वस्त्रैर्विभूषयेत् ।
कलशैर्घण्टिकाभिश्च साधारैः कर्करैस्तथा ॥ २-४९३ ॥
तत्र प्रतितोरणमेकैकः कलशः स्थाप्यः । प्रतिद्वारपार्श्वं द्वौ द्वौ । प्रतिकोणं चैकैकः ।
तदुक्तम् ।
गन्धपुष्पाम्बरोपेतान् कुम्भा।स्तेषु विनिःक्षिपेत् ।
तेषु तोरणेषु ।
ध्रुवं धरां वाक्पतिं च विघ्नेशं तेषु पूजयेत् ॥ २-४९४ ॥
मण्डपस्य तु कोणस्थकलशेषु क्रमादमी ।
अमृतो दुर्जयश्चैव सिद्धार्थो मङ्गलस्तथा ॥ २-४९५ ॥
पूजाद्वारस्थकुम्भेषु शक्राद्यास्तन्मनूत्तमैः ।
अन्यत्रापि ।
मण्डपे कलशौ द्वौ द्वौ द्वारे द्वारे निवेशयेत् ॥ २-४९६ ॥
गलितोदकसम्पूर्णावाम्रपल्लवशोभितौ ।
(शारदायाम्)
तत्त्रिभागमिते क्षेत्रेऽरत्निमात्रसमुच्छ्रिताम् ॥ २-४९७ ॥
चतुरस्रां ततो वेदीं मण्डलाय प्रकल्पयेत् ॥ २-४९७एफ़् ॥
(त्रिपुरासारसमुच्चये)
चतुर्द्वारयुक्तं ततस्तस्य मध्ये
बुधस्तत्त्रिभागैकभागेन वेदीम् ।
अरत्निप्रमाणोन्नतां दर्पणान्त-
र्निभायां मनोहारिणीं चापि कुर्यात् ॥ २-४९८ ॥
अत्रारत्निमात्रोन्नतां हस्तमात्रसमुच्छ्रिताम् ।
प्। १२८) तैश्चतुर्भिर्भवेन्मुष्टिर्वितस्तिस्तैस्त्रिभिर्गुणैः ।
अरत्निस्तद्द्वयेन स्याद्धस्तस्तद्वदतः शिवे ॥ २-४९९ ॥
इति मन्त्रराजवचनादरत्निहस्तशब्दयोः पर्यायतोक्तेति सुधार्णवकृतः ।
(क्रियासारेऽपि)
त्रिभागं मण्डपं कृत्वा मध्यभागे तु वेदिका ।
हस्तमानं तदुत्सेधश्चतुरस्रं समं यथा ॥ २-५०० ॥
(मेरुतन्त्रे)
त्रिधारं वामदीक्षायां शङ्खाभं वैष्णवे मखे ।
चतुरस्रा चतुष्कोणा वेदी सर्वफलप्रदा ॥ २-५०१ ॥
तत्रैव ।
मण्डपोपरि बध्नीयादतिश्वेतं वितानकम् ।
अलङ्कुर्यात् पुष्पमालादिभिरेनं तु वेष्टयेत् ॥ २-५०२ ॥
आम्राश्वत्थदलोत्पन्नयुक्तया दीर्घमालया ।
स्तम्भान् दुकूलैः संवेष्ट्य मध्ये कुर्याच्च वेदिकाम् ॥ २-५०३ ॥
इष्टिकाभिरपक्वाभिर्हस्तविस्तृतपिण्डिकाम् ।
मण्डपायामरुद्रांशनवसप्तेषुरामकैः ॥ २-५०४ ॥
अंशैः समुन्नतां वापि तारतम्यं विलोक्य च ।
सामग्र्यादेः समावेशो यथा स्यादिति मण्डपः ॥ २-५०५ ॥
इति मण्डपलक्षणम् ।
अथ कुण्डानि ।
(शारदायाम्)
प्राक्प्रोक्ते मण्डपे विद्वान् वेदिकाया बहिस्त्रिधा ।
क्षेत्रं विभज्य मध्यांशे पूर्वादि परिकल्पयेत् ॥ २-५०६ ॥
अष्टास्वाशासु कुण्डानि रम्याकाराण्यनुक्रमात् ।
चतुरस्रं योनिमर्धचन्द्रं त्र्यस्रं च वर्तुलम् ॥ २-५०७ ॥
प्। १२९) षडस्रं पङ्कजाकारमष्टास्रं तानि नामतः ।
आचार्यकुण्डं मध्ये स्याद्गौरीपतिमहेन्द्रयोः ॥ २-५०८ ॥
(त्रिपुरासारसमुच्चयेऽपि)
वेदास्रं१योनि२मर्धोडुपनिभ३मनलास्रं४सुवृत्तं५षडस्रं६
पद्माकारं७गजास्रं८हरिहरहरिदारभ्य तस्यां विदध्यात् ।
मध्ये वृत्तं च गौरीपतिसुरपदिशोः पण्डिताः केचिदूचु-
र्वायव्ये पञ्चकोणं९दिशि मदनरिपोः सप्तकोणं१०च कुण्डम् ॥ २-५०९ ॥
क्रमेणैषां लक्षणानि तत्रैव ।
प्राक् सूत्रं प्रथमं निधाय विदधीतार्धेन तस्याङ्कितं
मध्ये मत्स्ययुगं दिशोरमलधीः कीनाशवित्तेशयोः ।
ताभ्यां सूत्रमपि प्रसार्य चतुरः कोणा।स्ततो लाञ्छयेत्
क्षेत्रं स्याच्चतुरस्रमत्र रचयेदन्यानि कुण्डान्यपि ॥ २-५१० ॥
क्षेत्रे क्षिप्त्वा बहिरिह च पुरो भूतभागांशमेकं
कोणार्धार्धं सुनिशितमतिर्भ्रामयेत् सम्प्रगृह्य ।
यावत्कोणं परमपि तथा सूत्रयुग्मस्य पातं
मध्ये कुर्याद्भवति तदिदं मन्मथावासकुण्डम् ॥ २-५११ ॥
परित्यज्य भागद्वयं पङ्क्तिभागी-
कृतेऽत्रोपरिष्टादधस्ताच्च विद्वान् ।
परिभ्रामयेत् तेन मानेन सम्यग्-
भवेदर्धचन्द्राह्वयं कुण्डमेतत् ॥ २-५१२ ॥
शर्वरीशार्धभागीकृतक्षेत्रतः
पार्श्वयोर्न्यस्य भागद्वयं पण्डितः ।
तेन मानेन सूत्रद्वयं विन्यसेत्
कुण्डमेतद्भवेदुद्रनेत्रास्रकम् ॥ २-५१३ ॥
प्। १३०) दिग्गजाभ्यधिकपङ्क्तिभागतः क्षेत्रतो निशितधीर्बहिर्न्यसेत् ।
भागमेककमनेन सर्वतो भ्रामयेद्भवति वृत्तमुत्तमम् ॥ २-५१४ ॥
भूयांसेंशद्वयमिह बहिः पार्श्वयोर्न्यस्य मध्यात्
क्षेत्राभ्यासे तु विमलमतिस्तेन मानेन कृत्वा ।
पार्श्वद्वन्द्वे झषयुगयुगं सूत्रषट्कस्य पातं
कुर्यात् कुण्डं भवति तदिदं तर्ककोणं मनोज्ञम् ॥ २-५१५ ॥
दशांशेऽत्र विन्यस्य बाह्येंशमेकं
परिभ्राम्य तेनैव वृत्तं दलानाम् ।
बहिर्मध्यमे कर्णिकां चापि कुर्याद्-
भवेदष्टपत्रं बुधः पद्मकुण्डम् ॥ २-५१६ ॥
क्षेत्रे क्षिप्त्वात्र बाह्ये दिशि दिशि मिहिरद्वन्द्वकांशेंशमेकं
कृत्वा नेत्राब्धिकोणं पुनरपि मतिमान् कोणतोऽर्घं गृहीत्वा ।
तत्कोणाभ्यां विदध्यादिह खलु परितस्तेन मानेन चिह्नान्यष्टास्रं स्यात् समन्तादपि च वितनुयादष्टसूत्रप्रयोगम् ॥ २-५१७ ॥
हयांशेऽत्र भागे बहिर्न्यस्य वृत्तं
परिभ्राम्य भूयो युगांशीकृतांशैः ।
त्रिभिः पट्टदीर्घं भवेत् पञ्चसूत्रं
प्रयोगादिदं तेन पञ्चास्रकुण्डम् ॥ २-५१८ ॥
क्षेत्रव्यासैर्दशांशैर्बहिरिह विनिधायैकमंशं सुवृत्तं
मानेनानेन कृत्वा पुनरपि च चतुःषष्टिभागीकृतेऽत्र ।
पट्टायामप्रमाणं दृढमतिरमुना सत्रिकैस्त्रिंशदंशैः
कुर्यात् सप्तास्रकुण्डं भवति हि तदिदं सप्तसूत्रप्रयोगात् ॥ २-५१९ ॥
अत्र चतुर्विंशत्यङ्गुलानि हस्तमात्रकुण्डस्य व्यासः ।
तदुक्तम् (शारदायाम्)
प्। १३१) चतुर्विंशत्यङ्गुलाद्यं हस्तं यन्त्रविदो विदुः ।
कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः ॥ २-५२० ॥
मध्यस्य दैर्घ्यमानेन मानाङ्गुलमुदाहृतम् ।
तन्त्रान्तरे ।
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ॥ २-५२१ ॥
प्रथमं तत्प्रमाणज्ञास्त्रसरेणुं प्रचक्षते ।
त्रसरेणवस्ते त्वष्टौ बालाग्रं तत् स्मृतं बुधैः ॥ २-५२२ ॥
बालाग्राण्यष्ट लिक्षा तु यूका लिक्षाष्टकं स्मृतम् ।
अष्टौ यूका यवं प्राहुरङ्गुलं तु यवाष्टकम् ॥ २-५२३ ॥
हस्तश्चतुर्विंशतिभिरङ्गुलैः समुदाहृतम् ।
द्विहस्तादौ तद्द्विगुणादिवृद्धिप्रकारस्तु एकहस्तकुण्डकोणसूत्रेण द्विहस्तकुण्डमध्यसूत्रमेवं तत्कोणसूत्रेण चतुर्हस्तकुण्डमध्य-सूत्रमवगन्तव्यम् । एवमग्रेऽपि ।
तदुक्तम् (गौतमीयतन्त्रे)
कर्णसूत्रप्रमाणेन द्विहस्तं कुण्डमुद्धरेत् ॥ २-५२४ ॥
सर्वकुण्डेषु सर्वत्र वर्धयेद्विधिनामुना ।
अत्र कर्णसूत्रपदं कोणसूत्रपरम् ।
तदुक्तम् तत्रैव ।
पूर्वपूर्वस्य कुण्डस्य कोणसूत्रं तु यद्भवेत् ॥ २-५२५ ॥
उत्तरोत्तरकुण्डानां मानं तद्वदुदीरितम् ॥ २-५२५एफ़् ॥
एतेन द्विहस्तकुण्डस्य चतुस्त्रिंशदङ्गुलानि व्यासः । एकचत्वारिं-शदङ्गुलानि पञ्च यवाश्च त्रिहस्तस्य । अष्टचत्वारिंशदङ्गुलानि चतुर्हस्तस्य । त्रिपञ्चाशदङ्गुलानि षड्यवाश्च पञ्चहस्तस्य । अष्टपञ्चाशदङ्गुलानि सप्त यवाश्च षड्ढस्तस्य । त्रिषष्टिरङ्गुलानि चत्वारो यवाश्च सप्तहस्तस्य । सप्तषष्टिरङ्गुलानि सप्त यवाश्चाष्टहस्तस्य । द्वासप्ततिरङ्गुलानि नवहस्तस्य । पञ्चसप्ततिरङ्गुलानि सप्त यवाश्च दशहस्तस्य । एकहस्तकुण्डस्य क्षेत्रफलं तु षट्सप्तत्यधिकपञ्चशताङ्गुलानि । एवं द्विहस्तादावपि बोद्धव्यम् । यद्यपि हस्तमात्रकुण्डस्यैव दीक्षोपयुक्तत्वेन द्विहस्तदिकुण्डानि दीक्षायामनुपयुक्तानि तथा च वक्ष्यमाणपुरश्चरणाङ्गहोमे उपयुज्यन्त इति प्रदर्शितानि ।
खातमानं मेखलालक्षणं च (त्रिपुरासारसमुच्चये)
प्। १३२) यावन्मानं कुण्डविस्तार उक्तं
तावत् खातस्यापि मानं प्रदिष्टम् ।
कुण्डाकारं पण्डितो यादृशं तत्
तादृग्रूपं मेखलायां विदध्यात् ॥ २-५२६ ॥
एतावत्कुण्डकरणाशक्तस्तु पञ्चकुण्डानि कुर्यात् । तत्राप्यशक्तस्तु एकमेवकुण्डं कुर्यात् ।
नव पञ्चाथ चैकं वा कर्तव्यं लक्षणान्वितम् ।
इत्याम्नायरहस्यवचनात् ।
अष्टाशक्तौ तु चत्वारि दिक्षु कुण्डानि तान्त्रिके ॥ २-५२७ ॥
तदशक्तावेकमेव चतुरस्रं प्रकल्पयेत् ॥ इति (मेरुतन्त्रवचनाच्च) पञ्चकुण्डपक्षे तन्निवेशनम् (ज्ञानरत्नावल्यामुक्तम्)
दिक्षु वेदास्रवृत्तानि पञ्चमं त्वीशगोचरम् ॥ २-५२८ ॥
इत्येककुण्डपक्षे तन्निवेशनमुक्तमाचार्यैः ।
अथवा दिशि कुण्डमुत्तरस्यां
प्रविध्याच्चतुरस्रमेकमेव- इति ।
(पिङ्गलामते)
कुण्डमेककरं वृत्तं मेखलाकण्ठनाभिमत् ।
नित्ये कर्मणि दीक्षायां शान्तौ पुष्टौ मतं शुभम् ॥ २-५२९ ॥
कण्ठमानमाह (महाकपिलपञ्चरात्रे)
चतुर्विंशतिभागेन कण्ठो वै परिकीर्तितः ।
खाताद्बाह्येऽङ्गुलः कण्ठः सर्वकुण्डेष्वयं विधिः ॥ २-५३० ॥
चतुर्विंशतिमं भागमङ्गुलं परिकल्पयेत् ॥ ५३०एफ़् ॥
तिस्रः कुण्डे मेखला मेखले द्वे
यद्वा चैकां मेखलां वै प्रकुर्यात् ।
कुर्यादूर्ध्वं मेखलाया गजोष्ठा-
कारां योनिं चापि होतुर्दिशीह ॥ २-५३१ ॥
प्। १३३) एतेन योनेः कुण्डाङ्गत्वमुक्त्वा तस्याः स्थानस्वरूपदिङ्नियमाश्चोक्ताः । (क्रियासारे)
नाभियोनिसमायुक्तं कुण्डं श्रेष्ठं त्रिमेखलम् ।
कुण्डं द्विमेखलं मध्ये नीचं स्यादेकमेखलम् ॥ २-५३२ ॥
(सोमशम्भौ)
त्रिमेखलं द्विजे कुण्डं क्षत्रियस्य द्विमेखलम् ।
मेखलैका तु वैश्यस्य — — — — — — — — इति ॥ २-५३३ ॥
कुण्डतारतम्यतो मेखलातारतम्यमुक्तम् । (त्रिपुरासारसमुच्चये)
मुष्टिमात्रे तु तां मेखलां द्व्यङ्गुलैका-
ङ्गुलार्धाङ्गुलोत्सेधताराः क्रमात् स्युः ।
रत्निमात्रे तु तास्त्र्यङ्गुलार्धाङ्गुलैका-
ङ्गुलोत्सेधतारा भवेयुः पुरस्तात् ॥ २-५३४ ॥
युगाप्पित्तनेत्राङ्गुलोत्सेधताराः
स्युरेताः क्रमाद्धस्तमात्रे तु कुण्डे ।
करद्वन्द्वमात्रे रसाम्भोधिवह्न्य-
ङ्गुलोत्सेधतारा भवेयुः पुरस्तात् ॥ २-५३५ ॥
वेदकरेऽस्मिन् सिन्धुरतर्क्वा
द्व्यङ्गुलतारोत्सेधयुताः स्युः ।
षट्करगात्रेऽस्मिन् दशकर्य-
ङ्गाङ्गुलतारोत्सेधसमेताः ॥ २-५३६ ॥
भास्करपङ्क्तिगजाङ्गुलतारो-
त्सेधयुताः स्युरिमा वसुहस्ते ।
नाभिमिहाम्बुजमेव विदध्या-
दष्टदलं सहकर्णिकयान्तः ॥ २-५३७ ॥
प्। १३४) नाभिमिति । कुण्डमध्ये सकर्णिकाष्टदलकमलरूपां नाभिं कुर्यादित्यर्थः । तत्रैव योन्यादेः कुण्डपरिमाणानुसारं परिमाणमुक्तम् ।
मुष्टिमात्रे रसाम्भोधिनेत्राङ्गुलायामतारोन्नतिर्योनिरुक्ता बुधिः ।
नेत्रवेदाङ्गुलोत्सेधतारान्विता नाभिरप्यत्र योन्योष्ठमेकाङ्गुलम् ॥ २-५३८ ॥
योन्या लक्षणमेतद्गदितमरत्निमात्रकुण्डस्य ।
कुण्डस्यैव मयोक्तं तदेव खलु हस्तमात्रस्य ॥ २-५३९ ॥
द्विहस्तादिकुण्डेषु योन्यादिवृद्धिप्रकारस्तत्रैव ।
एकैकेनाङ्गुलेनामलनिशितमतिर्वर्धयेदन्यकुण्डे-
ष्वेनां योनिं च नाभिं खलु यवयुगलेनेह योन्यास्तथौष्ठम् ।
कुर्यान्नाभिं च वृत्ताकृतिमपि यदि वा कुण्डरूपान्यरूपां
योन्याकारेऽत्र योनिं सरसिजसदृशे नो विदध्याच्च नाभिम् ॥ २-५४० ॥
कुर्यादित्यनेन नाभ्याकारविकल्प उक्तः । योन्याकार इति । योनिकुण्डे योनिं पद्मकुण्डे नाभिं न कुर्यादित्यर्थः ।
मतान्तरमाह तत्रैव ।
कुण्डस्येके हस्तमात्रस्य योनिं
प्राहुर्भूतद्व्यङ्गुलायामताराम् ।
व्यासत्र्यंशैकांशकोत्सेधयुक्तां
कुर्याद्बोधिक्ष्माजपत्रानुरूपाम् ॥ २-५४१ ॥
तत्पक्षे नाभिवृद्धिं तद्रचनाप्रकारं चाह ।
नेत्रभूताङ्गुलोत्सेधतारान्वितां
नाभिमंशद्वये तद्दलान्यष्ट च ।
व्यासवह्न्यंशतोंशेन तत्कर्णिकां
मध्यभागे विदध्याद्बुधः कुण्डतः ॥ २-५४२ ॥
नेमिपरिमाणमाह तत्रैव ।
कुण्डस्यैककरस्य चारु परितो नेमिर्भवेदङ्गुले-
नैकेनैव ततो विलोचनकरादारभ्य संवर्धयेत् ।
प्। १३५) कुण्डे दिक्करकुण्डकावधि बुधः प्रत्येकमर्धाङ्गुलं
तद्बाह्ये खलु मेखलात्रितयकं कुर्याद्यथोक्तक्रमात् ॥ २-५४३ ॥
वैदिकमते तु नाभिकण्ठयोन्यो न कार्याः ।
ख्यातान्येतानि कुण्डानि तान्त्रिके स्मार्त्तकर्मणि ।
अनाभिकान्यकण्ठानि वियोनीति श्रुतेरिति ॥ २-५४४ ॥
इति मेरुतन्त्रवचनात् ।
नालमाह । (शारदापञ्चरात्रयोः)
स्थलादारभ्य नालं स्याद्योन्या मध्ये सरन्ध्रकम् ।
स्थूलमूलं तु सूक्ष्माग्रं बाह्यमेखलया समम्- इति ॥ २-५४५ ॥
(ज्ञानार्णवे)
मेखलानां बहिःस्थानं स्थलमित्यभिधीयते ।
चतुरस्रस्थलाल्लब्धं नालं मध्ये सरन्ध्रकम् ॥ २-५४६ ॥
आहुतितारतम्यतः कुण्डानां तारतम्यमुक्तम् ।
(त्रिपुरासारसमुच्चये)
शतार्धहोमे खलु मुष्टिमात्र-
मरत्निमात्रं शतहोमकुण्डम् ।
हस्तं सहस्रे त्वयुते द्विहस्तं
लक्षे चतुर्हस्तमिदं प्रदिष्टम् ॥ २-५४७ ॥
दशलक्षे रसहस्तं वसुहस्तं कोटिहोमे स्यात् ।
कोट्यर्धेष्वष्टकरं होमेऽष्टागमविदो ब्रुवते ॥ २-५४८ ॥
मतान्तरमाह ।
केचिद्धस्तं लक्षहोमे द्विहस्तं
लक्षद्वन्द्वे वह्निलक्षे त्रिहस्तम् ।
होमे कुण्डं वेदहस्तेऽब्धिलक्षं
प्राहुर्दोष्णां पञ्चकं पञ्चलक्षे ॥ २-५४९ ॥
रसहस्तं रसलक्षे सप्तकरं सप्तलक्षे स्यात् ।
प्। १३६) वसुहस्तं वसुलक्षे नवलक्षे नवकरं कुण्डम् ॥ २-५५० ॥
दशहस्तं दशलक्षे दशकरमेवेह कोटिहोमेऽपि ।
दशहस्तान्न हि कुण्डं परमस्ति महीतलेऽमुष्मिन् ॥ २-५५१ ॥
कुण्डानां पृथक् पृथक् फलं तत्रैव ।
सर्वसिद्धिकरमम्बुधिकोणं पुत्रदं मनसिजावसथान्तम् ।
अर्धचन्द्रसदृशं शुभदं स्यादग्निकोणमरिवर्धनहेतुः ॥ २-५५२ ॥
शान्तिकर्मणि भवेत् सुवर्तुलं छेदमारणकरं षडस्रकम् ।
पद्मकुण्डमिह वृष्टिकारणं रोगशान्तिकरमष्टकोणकम् ॥ २-५५३ ॥
वर्णभेदेन कुण्डभेदमाह ।
चतुरस्रं विप्राणां राज्ञामिह वर्तुलं कुण्डम् ।
वणिजामर्धशशाङ्काकारं त्र्यस्रं तु शूद्राणाम् ॥ २-५५४ ॥
चतुरस्रं सर्वेषां प्रशस्तमिति के चिदाहुराचार्याः ।
वाञ्छितफलदं यत् तत् कुण्डं भुवि भुक्तिमुक्तिकरम् ॥ २-५५५ ॥
षट्कोणमर्धचन्द्राकारं चापि प्रजाकरं कुण्डम् ।
मुक्तिकरं पञ्चास्रं वसुकोणं राज्यदा योनिः ॥ २-५५६ ॥
तथा ।
नित्ये नैमित्तिके च प्रविरलमतयः प्राहुरेकेऽब्धिकोणं
कुण्डं हस्तप्रमाणं स्मरगृहसदृशं चाथ वृद्धं प्रशस्तम् ।
षट्कोणं चार्धदोषाकरसदृशयुतं स्थण्डिलं रत्निमात्रा-
यामं स्वाङ्गुष्ठपूर्वोन्नतमपि सुसमं निर्मितं बालुकाभिः ॥ २-५५७ ॥
(मेरुतन्त्रे)
अनेकदोषं वै कुण्डं मानं न्यूनाधिकं यदि ।
तस्मात् सम्यक् परीक्ष्येदं कर्तव्यं शुभमिच्छता ॥ २-५५८ ॥
खाताधिके भवेद्रोगी हीने धेनुधनक्षयः ।
वक्रकुण्डे तु सन्तापो मरणं च्छिन्नमेखले ॥ २-५५९ ॥
प्। १३७) मेखलारहिते शोकोऽभ्यधिके वित्तसंशयः ।
भार्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् ॥ २-५६० ॥
अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्जितम् ।
शृङ्गाररहितं यच्च कुण्डं जर्जरमेखलम् ॥ २-५६१ ॥
यजमानविनाशाय प्रोच्चाटः स्फुटितो भवेत् ।
सूत्राधिके सुहृद्द्वेषः सूत्रहीने दरिद्रता ॥ २-५६२ ॥
अनाले जठरे रोगश्छिन्नकुण्डे त्ववाच्यता ॥ ५६२एफ़् ॥
इति कुण्डलक्षणम् ।
चतुरस्रम् ।
योनिः ।
अर्धचन्द्रम् ।
त्र्यस्रम् ।
प्। १३८)
वृत्तम् ।
षडस्रम् ।
पद्मम् ।
अष्टास्रम् ।
पञ्चास्रम् ।
सप्तास्रम् ।
स्थण्डिललक्षणम् (शारदायाम्)
प्। १३९) कुण्डमेकविधं कष्टं स्थण्डिलं तु समाचरेत् ।
चतुरस्रं स्थण्डिलं तु प्रशस्तं सर्वकर्मसु ॥ २-५६३ ॥
(चन्द्रपीठे तु)
त्रिरस्रं चतुरस्रं च वितस्त्युच्छ्रयसम्मितम् ।
सिकताद्यैर्विधातव्यं स्थण्डिलं हस्तमात्रकम्- इत्युक्तम् ॥ २-५६४ ॥
अथ स्रुग्लक्षणम् (शारदायाम्)
प्रकल्पयेत् स्रुचं यागे वक्ष्यमाणेन वर्त्मना ।
श्रीपर्णीशिंशपाक्षीरशाखिष्वेकतमं गुरुः ॥ २-५६५ ॥
गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः ।
विंशत्यंशैर्भवेद्दण्डो वेदिस्तैरष्टभिर्भवेत् ॥ २-५६६ ॥
एकांशेन मितः कण्ठः सप्तभागमितं मुखम् ।
वेदीत्र्यंशेन विस्तारः कण्ठस्य परिकीर्तितः ॥ २-५६७ ॥
अग्रं कण्ठसमानं स्यान्मुखे मार्गं प्रकल्पयेत् ।
कनिष्ठाङ्गुलिमानेन सर्पिषो निर्गमाय च ॥ २-५६८ ॥
वेदिमध्ये विधातव्या भागेनैकेन कर्णिका ।
विदधीत बहिस्तस्या एकांशेनाभितोऽवटम् ॥ २-५६९ ॥
तस्य खातं त्रिभिर्भागैर्वृत्तमर्धांशतो बहिः ।
अंशेनैकेन परितो दलानि परिकल्पयेत् ॥ २-५७० ॥
मेखलामुखवेद्योः स्यान्नेमिरर्धांशमानतः ।
दण्डशूलाग्रयोः कुम्भो गुणवेदाङ्गुलैः क्रमात् ॥ २-५७१ ॥
गण्डीयुगं यमांशैः स्याद्दण्डस्यानाह ईरितः ।
षड्भिरंशः पृष्ठभागो वेद्याः कूर्माकृतिर्भवेत् ॥ २-५७२ ॥
प्। १४०) हंसस्य हस्तिनो वापि पोत्रिणो वा लिखेन्मुखम् ।
मुखस्य पृष्ठभागे तु सम्प्रोक्तं लक्षणं स्रुचः ॥ २-५७३ ॥
श्रीपर्णी गम्भारीति प्रसिद्धा । क्षीरशाखिनोऽश्वत्थोदुम्बरवटप्ल-क्षाः । हस्तमात्रमिति बाहुमात्रमित्यर्थः ।
स्रुचं बाहुप्रमाणेन होमार्थं विदधीत वै ।
इत्यगस्त्यसंहितावचनात् । गण्डी कलशः ।
(फेत्कारिणीतन्त्रे)
कारस्करेणामलकीपलाशखदिरैरपि ॥ २-५७४ ॥
सुवर्णरूप्यताम्रैर्वा अयोभिरपि कारयेत् ।
(वायवीसंहितायाम्)
स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ २-५७५ ॥
यज्ञदारुमयौ वापि तान्त्रिकौ शिल्पिसम्मतौ ।
पर्णैर्वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उच्छ्रिते ॥ २-५७६ ॥
अत्रायसे विधिनिषधौ क्रूरसौम्यविषयौ ।
तदुक्तं तन्त्रान्तरे ।
सौवर्णौ स्रुक्स्रुवौ स्यातां सौम्यकर्मणि सर्वतः ।
भवेतामायसावेतौ स्तम्भनादिषु कर्मसु ॥ २-५७७ ॥
(वसिष्ठसंहितायाम्)
पलाशपत्रे निश्छिद्रे रुचिरे स्रुक्स्रुवौ मतौ ।
विदध्याद्वाश्वत्थपत्रे सङ्क्षिप्ते होमकर्मणि ॥ २-५७८ ॥
(मन्त्रमुक्तावल्याम्)
कण्ठाधः कारयेन्मार्गे विद्वानाज्यस्य दुर्गमे ।
वेधं च मुखतः कुर्यात् तप्तलोहशलाकया ॥ २-५७९ ॥
अथ स्रुवलक्षणम् (शारदायाम्)
स्रुचश्चतुर्विंशतिभिर्भागैरारचयेद्ध्रुवम् ।
द्वाविंशत्या दण्डमानमंशैरेतस्य कीर्तितम् ॥ २-५८० ॥
चतुर्भिरंशैरानाहः कर्षाज्यग्राहितच्छिरः ।
प्। १४१) अंशद्वयेन निखनेत् पङ्कैर्मृगपदाकृतिः ॥ २-५८१ ॥
दण्डमूलाग्रयोर्गण्डी भवेत् कङ्कणभूषिता ।
स्रुवस्य विधिराख्यात — — — — — — — — — इति ॥ २-५८२ ॥
अथाङ्कुरापर्णम् (शारदायाम्)
प्रागेव दीक्षादिवसात् सप्तभिर्विधिवद्दिनैः ।
सर्वमङ्गलसम्पत्त्यै विदध्यादङ्कुरार्पणम् ॥ २-५८३ ॥
(सिद्धान्तशेखरे)
प्रतिष्ठायां च दीक्षायां स्नापने चोत्सवे तथा ।
सम्प्रोक्षणे च शान्त्यर्थं विवाहे मौञ्जिबन्धने ॥ २-५८४ ॥
सर्वमङ्गलकार्येषु विदध्यादङ्कुरार्पणम् ।
(मेरुतन्त्रे)
सप्तभिर्नवभिर्वापि दिनैर्दीक्षादिनात् पुरा ॥ २-५८५ ॥
बीजारोपणकर्मेदं कर्तव्यं सर्वकामदम् ।
मण्डपोत्तरदिग्भागे सुसंवृत्तपरं परे ॥ २-५८६ ॥
भवने मण्डलं कुर्याद्दाक्ष्यां प्राग्वरुणायते ।
याम्योदीच्यायते वामदीक्षायां सम्प्रशस्यते ॥ २-५८७ ॥
भवन इति मण्डपान्तरे तच्च दक्षिणैकद्वारयुक्तं ज्ञेयम् ।
तथा ।
गोमयेनोपलिप्तायां भूमौ दक्षेऽथ वामके ।
सतैलतण्डुलेनैव सतैलविजयाद्रवैः ॥ २-५८८ ॥
तत्र रेखाः पञ्चकरदीर्घाकारास्तु पञ्च च ।
वितस्त्यन्तरतो रुद्ररेखाः कार्यास्तथायताः ॥ २-५८९ ॥
चत्वारिंशत्कोष्ठकाः स्युश्चतुर्विंशतिकोष्ठकैः ।
बाह्यगैस्तत्र वीथी स्यात् पूरयेद्रक्तचूर्णकैः ॥ २-५९० ॥
प्। १४२) पश्चात् कोष्ठचतुष्कं यद्ब्रह्मस्थानं तदीरितम् ।
आग्नेयकोष्ठमारभ्य ईशानान्तं प्रपूरयेत् ॥ २-५९१ ॥
पीतरक्तश्वेतकृष्णरजोभिः श्रेष्ठमार्गतः ।
कोष्ठद्वयं ततो वीथी रक्तेनैव प्रपूरयेत् ॥ २-५९२ ॥
विष्णुस्थानं तदग्रे तु ज्ञेयं कोष्ठचतुष्टयम् ।
प्राग्वद्रजोभिरापूर्य तदग्रेऽपि च वीथिका ॥ २-५९३ ॥
प्राक्स्थं कोष्ठचतुष्कं च रुद्रस्थानं तदीरितम् ।
तत्पूर्वं पूर्ववद्रक्तैरारक्तैः सर्वरेखिकाः ॥ २-५९४ ॥
विस्तारोन्नतिदैर्घ्येण हस्तमात्रास्तु पालिकाः ।
कार्या डमरुकाकाराश्चतस्रो विष्णुदेवताः ॥ २-५९५ ॥
दूर्वाम्रपल्लवाश्वत्थदलोपेताश्च वेष्टिताः ।
सूत्रेण विष्णुस्थानस्य चतुष्कोष्ठे निवेशयेत् ॥ २-५९६ ॥
वैरिञ्च्यः पञ्चमुख्यस्ताः कोष्ठजाः षोडशाङ्गुलैः ।
आयामोच्छ्रायदैर्घाद्यैर्युक्ताः पश्चान्निवेशयेत् ॥ २-५९७ ॥
ब्रह्मस्थाने पल्लवादिसूत्रैः प्राग्वच्च योजिताः ।
शैवाः शरावाश्चत्वारो भान्वङ्गुलसमुच्छ्रयाः ॥ २-५९८ ॥
प्रक्षाल्य सूत्रैः संवेष्ट्य प्राग्वदन्यादिषु न्यसेत् ।
शालिपञ्जेषु गन्धादिदर्भकूर्चयुगेषु च ॥ २-५९९ ॥
डमरुकाकृतयोऽतिगम्भीराः शरावा एव पालिकाः । मुखपञ्चकयुक्-तास्तादृशा एव पात्रविशेषाः पञ्चमुख्यः ।
तदुक्तं तन्त्रान्तरे ।
दिक्षु चत्वारि वक्त्राणि मुखमेकं तदूर्ध्वगम्- इति ।
(मेरौ)
पूरयेत् तानि पात्राणि वालुकामृत्करीषकैः ॥ २-६०० ॥
प्। १४३) मृत्तिकाहरणे विशेष उक्तः (सिद्धान्तशेखरे)
गन्धादिभिश्च कुद्दालं पूजयित्वा दिनान्तरे ।
गीतनृत्यसमायुक्तं गजवाजिसमन्वितम् ॥ २-६०१ ॥
गुर्वादयो रथारूढा गजारूढास्तथापरे ।
गत्वा तीरं तडागस्य नद्याः पुष्पवनस्य वा ॥ २-६०२ ॥
तत्र शुद्धं भुवो भागं दर्भैः सम्मृज्य चास्त्रतः ।
अभ्युक्ष्य चार्घतोयेन तत्तन्मन्त्रमनुस्मरेत् ॥ २-६०३ ॥
हृदा भूमिं समावाह्य गन्धपुष्पैः समर्चयेत् ।
कुद्दालीमस्त्रमन्त्रेण खात्वा भूमिमथो मृदम् ॥ २-६०४ ॥
गृहीत्वा वामदेवेन पूरयेत् कांस्यपात्रके ।
हृदा मृदं च सम्पूज्य वस्त्रेणाच्छाद्य धारयेत् ॥ २-६०५ ॥
पुरं वा निलयं वापि सर्वमङ्गलनिःस्वनैः ।
गुरुप्रदक्षिणं कृत्वा मण्डपं त्वानयेत् ततः ॥ २-६०६ ॥
एतत् कर्म दिवाकाले कुर्याद्रात्रौ न बुद्धिमान् ।
एतत् कर्मेति मृत्तिकाहरणकर्मेत्यर्थः ।
बीजारोपणं तु रात्रावेव ।
कुजानामधिपः सोमस्तस्माद्रात्रौ तु निर्वपेत् ॥ २-६०७ ॥
इति तत्रत्यादेव वचनात् ।
तथा ।
शङ्खस्वनेन नादैश्च पञ्चभिर्ब्राह्मणाशिषा ।
ततः स्वर्णादिके पात्रे दश बीजानि वापयेत् ॥ २-६०८ ॥
वं बीजं प्रजपेन्मन्त्री दुग्धेन क्षालयेत् ततः ।
मूलमन्त्राभिजप्तानि — — — — — इति शारदायाम् ॥ २-६०९ ॥
तथा ।
तानि प्रियङ्गुश्यामाकतिलसर्षपशालयः ।
मुद्गाढकी सुनिष्पावा खल्वा माषाः प्रकीर्तिताः ॥ २-६१० ॥
प्। १४४) श्यामाका भाषया सामा इति प्रसिद्धा । आढकी भाषया रहर इति प्रसिद्धा । निष्पावः सिम्बिः । खल्वाः कुलित्थाः ।
तथा ।
ब्रह्मपात्रे तु विकिरेत् प्रथमं वैष्णवे ततः ।
ततः शैवे पञ्चवाद्यब्रह्मघोषपुरस्सरम् ॥ २-६११ ॥
हरिद्रोदैश्च संसिच्य वस्त्रैराच्छादयेत् ततः ।
सन्ध्ययोरुभयोरर्धरात्रौ चापि बलिं हरेत् ॥ २-६१२ ॥
गुरुपदिष्टमार्गेण सम्यक् पात्रत्रयाग्रतः ।
नवाहं तु वलिं दद्यात् तत्तदुद्दिश्य दैवतम् ॥ २-६१३ ॥
शाल्योदनं तिला लाजाः सक्तवः प्रथमे दिने ।
हरिद्राचूर्णसंयुक्तो भूतेभ्योऽयं वलिर्मतः ॥ २-६१४ ॥
एवं द्वितीयदिवसे पितृभ्यस्तिलतण्डुलैः ।
तृतीये सक्तवो लाजा यक्षेभ्यो दधिसंयुताः ॥ २-६१५ ॥
नागेभ्यः सक्तवस्तुर्ये नारिकेलजलप्लुताः ।
दद्यात् पद्माक्षतवलिं पञ्चमे ब्रह्मणे मुदा ॥ २-६१६ ॥
षष्ठे शिवाय वापूपयुक्तं भक्तं प्रशस्यते ।
गुडोदकं सप्तमेऽह्नि विष्णवे विनिवेदयेत् ॥ २-६१७ ॥
विष्णोरेवाष्टमदिने दुग्धोदनवलिः स्मृतः ।
कृसरान्नं तु नवमे विष्णोरेव प्रशस्यते ॥ २-६१८ ॥
वाममार्गे तु विशेष उक्तस्तत्रैव ।
वाममार्गे चतुर्दिक्षु मण्डलस्य वलिं हरेत् ।
ब्रह्मस्थाने तु वेतालो मेषस्तस्य बलिः पुरः ॥ २-६१९ ॥
विष्णुस्थाने भैरवी स्यादजस्तस्य बलिर्मतः ।
भैरवस्तु शिवस्थाने महिषं वलिमिच्छति ॥ २-६२० ॥
प्। १४५) गौडी माध्वी च पैष्टी च सुरास्तत्र क्रमान्मताः ।
मत्स्यमांसं मद्ययुक्तं भूतेभ्यो वलिरिष्यते ॥ २-६२१ ॥
पितृभ्यः सासवपलं यक्षेभ्यः कुक्कुटो मधु ।
भेकोन्दुरुवलिर्नागे वाममार्गे वलिस्त्वयम् ॥ २-६२२ ॥
(सिद्धान्तशेखरे)
सोमं सम्पूजयेन्नित्यमधिवासदिनावधि ।
अधिवासदिने प्राप्ते सोममुद्वासयेद्गुरुः ॥ २-६२३ ॥
(सारस्वतमते)
प्ररूढाण्यङ्कुराण्यन्यो न वीक्षेत कदाचन ।
आचार्य एव प्रविशेत् तच्छिष्यो वा तदाज्ञया ॥ २-६२४ ॥
(मेरुतन्त्रे)
एवं गतेषु नवसु दिवसेषु विलोकयेत् ।
सम्यक् कस्योद्गमो जातः किं नष्टं मध्यमं च किम् ॥ २-६२५ ॥
सम्यगभ्युद्गते सिद्धिः कुण्ठिते विघ्नमाप्नुयात् ।
कीटभुक्तेऽत्यल्पफलं शटिते सर्वनाशनम् ॥ २-६२६ ॥
सिद्धिः प्रियङ्गुभिर्ज्ञेया श्यामाकैः स्त्रीसुखं भवेत् ।
तिलैः पूज्यजनोल्लासः सर्षपैर्नाभिचारकः ॥ २-६२७ ॥
शालिभिः सर्वमान्यत्वं मुद्गैर्देवकृपा भवेत् ।
चतुष्पादास्तथाढक्या निष्पावात् क्षेत्रमन्दिरे ॥ २-६२८ ॥
खल्वैः सत्कर्मसिद्धिश्च माषैः शान्तिररेर्भवेत् ।
सर्वैः समुद्गतैर्वामे सिद्धिः पातस्ततोऽन्यथा ॥ २-६२९ ॥
(सिद्धान्तसारे)
अङ्कुरेऽनुद्गते नष्टे शान्तिहोमं समाचरेत् ।
मूलमन्त्रेण जुहुयादघोरास्त्रेण वा शतम् ॥ २-६३० ॥
इत्यङ्कुरार्पणाविधिः ।
प्। १४६) बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत-
स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
सद्युक्तिस्फुटमौक्तिकोत्करचमत्कारे द्वितीयस्तर-
ङ्गोऽयं श्रीनरदेवनिर्मितपुरश्चर्यार्णवेऽस्मिन्नगात् ॥ २-६३१ ॥
इति श्रीमन्महाराजाधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे
दीक्षाकालदेशवास्तुयागकुण्डमण्डपादिनिर्णयपूर्वकमङ्कुरार्पणविधानं नाम द्वितीयस्तरङ्गः ॥ २ ॥