षडाम्नाय-देवता-तद्-आचारादि-निर्णय-पूर्वक-चक्र-विवेचनम्॥
शुण्डादण्डप्रचण्डप्रहतिहठदलत्प्रौढदोर्द्दण्डदृप्य-
द्दैत्येन्द्रानीकशुण्डोत्कररचितसमित्ताण्डवक्षोणिशोभः ।
प्रत्यूहध्वान्तधामाधिपतिरधिपतिः सिद्धसिद्धो गणानां
दद्यादद्रीन्द्रकन्यास्मरहरनयनानन्दसंवर्द्धनो वः ॥ १-१ ॥
ब्रह्मोमाधवमाधवात्मकतनुश्छायाननप्रस्फुरन्-
मुग्धाम्भोजमधुव्रताभनयनः साक्षी जगत्कर्मणः ।
ध्वान्तध्वस्तसमस्तविष्टपपरित्राणे निरस्तश्रम-
स्तिग्मांशुस्त्रिदशाग्रणीस्त्रिभुवनस्तुत्योऽस्तु वः श्रेयसे ॥ १-२ ॥
सद्भक्तिप्रणमद्विधित्रिपुरजिद्वृत्राहिताद्यामर-
श्रेष्ठश्रेणिकिरीटकोटिविलसद्रत्नांशुनीराजितम् ।
यत् स्मृत्वा सुधियस्तरन्ति सहसा संसारवारां निधिं
तद्विष्णोश्चरणाम्बुजं दिशतु वः श्रेयो नृसिंहाकृतेः ॥ १-३ ॥
यच्छक्तिः प्रकृतिस्ततो महदभूत्तत्वं ततोऽहङ्कृति-
स्तन्मात्राणि ततश्च भूतनिवहस्तेभ्यः पृथिव्यादिकः ।
भूतेभ्यः करणानि चेति जगदुत्पन्नं यतः सोऽव्ययः
पायाच्चन्द्रकलावतंसरुचिरः सानुग्रहो वः शिवः ॥ १-४ ॥
प्। २) अव्यक्तो मुक्तिमार्गो निगमनिगदितो दुर्ग इत्यागमज्ञाः
स्वाविद्यादीनपोद्यत् पदयुगममृतं लेभिरे भावयन्तः ।
पायात्सा सौरिभघ्नी भवसलिलनिधेस्तारिणी रक्षणीति
ब्रह्माद्यैरद्वितीयेति च सततनुता सिद्धविद्यादितो वः ॥ १-५ ॥
नत्वा श्रीगणनायकं दिनमणिं विष्णुं पशूनां पतिं
दुर्गां दुर्गतितारिणीं भगवतीं गुह्येश्वरीमीश्वरीम् ।
श्रीमत्साहप्रतापसिंहधरणीपालेन नानागमान्
दृष्ट्वा सर्वजनोपकारकपुरश्चर्यार्णवस्तन्यते ॥ १-६ ॥
औदार्येण तपःसुतं सुमहता शौर्येण कर्णद्विषं
सौन्दर्येण मनोभवं जलनिधिं गाम्भीर्यधैर्यादिभिः ।
कीर्त्या चन्द्ररुचं श्रिया हरिहयं भानुं प्रतापेन च
क्ष्मायां निर्जरपादपान् वितरणैर्निर्जित्य यो राजते ॥ १-७ ॥
तस्य क्षोणीमघोनः समरविजयिनोऽशेषशास्त्रार्थविद्भिः
सद्भिः संशोधनीयः सुविमलमतिभिः सम्यगेष प्रबन्धः ।
विद्वद्विद्वेषतर्षैर्विमलपरगुणोत्कर्षविध्वस्तहर्षैः
रोषाद्दोषैकजिज्ञासुभिरतिमलिनैर्दूष्यतां दुर्विदग्धैः ॥ १-८ ॥
विद्वद्भावानभिज्ञैः प्रसभमयमवज्ञायमानोऽप्यनार्यै-
र्न्न स्यादस्मत्प्रबन्धः कथमिव विदुषां मानसोल्लासहेतुः ।
गुञ्जापुञ्जानुरक्तैर्विपिनपरिसरे भिल्लदारैर्विमुक्ता
मुक्ताः किं नाद्रियन्ते दरदलितनवाम्भोजपत्रायताक्ष्यः ॥ १-९ ॥
अत्रादौ देवतानां स्मरहरगदितान् साधु साम्नायभेदान्
भेदानाद्ये तरङ्गे कति चन विदितान् दर्शयामस्तदूर्ध्वम् ।
कालीकंसारितारारघुवरमुरजिच्छैलजावल्लभाना-
मैक्यं युग्मक्रमेणागमगदितमभेदश्च शक्तित्रयस्य ॥ १-१० ॥
प्। ३) रामस्य वक्ष्ये शिवशक्तिरूपता-
मैक्यं च सीताहिमशैलकन्ययोः ।
श्रीरामकामान्तकयोरपि क्रमा-
दैक्यं ततो दैवतपञ्चकस्य ॥ १-११ ॥
ततः परं तान्त्रिकमार्गभेदान्
वक्ष्यामि तेषामधिकारिणश्च ।
ततश्च भेदानपि वैष्णवानां
ततः परं पाशुपतप्रभेदान् ॥ १-१२ ॥
उपासनां चापि बहुप्रभेदा-
मदीक्षितानां तदनर्हतां च ।
ततश्च दीक्षामनुसद्गुरूणां
वक्ष्यामि माहात्म्यमनुक्रमेण ॥ १-१३ ॥
ततः प्रवक्ष्ये गुरुशिष्यलक्षणं
निषिद्धयोर्लक्षणमेतयोस्ततः ।
ततो गृहीतस्य मनोरहेयता-
मसद्गुरूपात्तमनोश्च हेयताम् ॥ १-१४ ॥
पित्रादिमन्त्रग्रहणे निषेधं
विधिं च मन्त्रेष्वधिकारिणश्च ।
स्वप्नाप्तमन्त्रस्य च संस्क्रियाश्च
वक्ष्यामि चक्राणि च तन्निषेधान् ॥ १-१५ ॥
ततो द्वितीये रुचिरे तरङ्गे
वक्ष्यामि दीक्षोचितकालदेशान् ।
मन्त्रेषु शापानपि देवताना-
मुक्त्त्वा तदुद्धारविधिं च वक्ष्ये ॥ १-१६ ॥
प्। ४) ततश्च संस्कारविधिं मनूनां
तज्जागृतिं भूमिपरीक्षणं च ।
वक्ष्यामि शल्योद्धरणप्रकारान्
वास्तोर्विधिं मण्डपलक्षणं च ॥ १-१७ ॥
कुण्डानि च स्रुक्स्रुवयोश्च लक्षणं
तत्रैव वक्ष्यामि ततोऽङ्कुरार्पणम् ।
दीक्षां प्रवक्ष्यामि ततः क्रियावतीं
तरङ्गयोस्तत्र तृतीयतुर्ययोः ॥ १-१८ ॥
दीक्षाविधौ तत्र तृतीयवीचौ
वक्ष्यामि तावद्वरणं गुरूणाम् ।
ततश्च ऋत्विग्वरणं प्रवक्ष्ये
यद्दन्तकाष्ठस्य परीक्षणं तत् ॥ १-१९ ॥
द्वारार्चनं यागगृहप्रवेशं
पूजोपयुक्तानि च मण्डलानि ।
ततः सपर्याविधिमागमोक्तं
वक्ष्ये घटस्थापनपूर्वकं च ॥ १-२० ॥
तुर्ये तरङ्गेऽखिलमग्निकार्यं
वक्ष्ये ततः पायसभोजनं च ।
गुरोः सशिष्यस्य ततोऽभिधास्ये
स्वापं ततः स्वप्नपरीक्षणं च ॥ १-२१ ॥
तत्रैव दीक्षादिवसोचितानि
कर्माण्यशेषाणि मनोः प्रदानम् ।
व्यक्तीकरिष्याम्यथ पञ्चमे तु
प्रयोगमस्याः सकलं तरङ्गे ॥ १-२२ ॥
प्। ५) सङ्क्षेपदीक्षां च ततः प्रवक्ष्ये
ततः परं वर्णमयीं च दीक्षाम् ।
कलावतीं नाम ततश्च दीक्षां
ततः परं वेधमयीं च दीक्षाम् ॥ १-२३ ॥
वक्ष्यामि पाञ्चायतनीश्च दीक्षाः
स्मार्तीं ततो मानसिकीं च दीक्षाम् ।
यौगीं च दीक्षां तदनन्तरं दृग्-
दीक्षां ततः स्पर्शमयीं च दीक्षाम् ॥ १-२४ ॥
दीक्षां प्रवक्ष्यामि ततश्च वचिकीं
मान्त्रीं च हौत्रीं च ततः समासतः ।
शास्त्रीं वदिष्यामि तथाभिषेकिकीं
तत्रैव सङ्क्षिप्ततरां च शाम्भवीम् ॥ १-२५ ॥
ततः प्रवक्ष्याम्युपदेशदीक्षां
ततोऽभिधानं क्रमदीक्षणस्य ।
पूर्णाभिषेकं च ततोऽभिधास्ये
मनोर्ग्रहं देशिकमन्तरेण ॥ १-२६ ॥
षष्ठे तरङ्गेऽथ पुरस्क्रियाया
निरूपयिष्यामि विधिं समग्रम् ।
तत्रापि तावत् समयं च देशान्
वक्ष्यामि वक्ष्ये तत आसनानि ॥ १-२७ ॥
मालाप्रभेदानपि तत्र वक्ष्ये
रुद्राक्षमाहात्म्यमपि प्रसङ्गात् ।
तत्रैव मालाग्रथनप्रकारं
वक्ष्यामि संस्कारविधिं च तस्याः ॥ १-२८ ॥
प्। ६) मुद्राणामपि लक्षणानि नियमान् हेयानि देयानि च
प्रायश्चित्तमनेकमुक्तनियमभ्रष्टोपयुक्तं नरः ।
सक्षोणीगृहकूर्मचक्ररचनां शाक्तानि पीठानि च
प्रातःकृत्यमथोऽजपाविधियुतं वक्ष्यामि तत्रैव च ॥ १-२९ ॥
शौचं तत्र च दन्तधावननिधिं स्नानं च नानाविधं
तन्त्रोक्तं तिलकस्य धारणविधिं तद्वद्विभूतेरपि ।
सन्ध्योपासानदेवतर्पणविधिं नित्यार्चनं तादृशं
होमं प्रस्तुतकर्मणश्च विधिवद्वक्ष्ये ततः सक्रमम् ॥ १-३० ॥
यन्त्रस्य निर्माणमथ प्रमाणं
ततः प्रतिष्ठाविधिमागमोक्तम् ।
वक्ष्ये मनूनामथ सूतकित्वं
स्वापं प्रबोधं च शिखाश्रितं च ॥ १-३१ ॥
वक्ष्यामि तत्रैव च कुल्लुकामनुं
सेतुं च निर्वाणमपि क्रमागतम् ।
तत्रैव मन्त्रं रसनाविशोधनं
ततश्च मन्त्रावयवान् हरेरितान् ॥ १-३२ ॥
जपस्य वक्ष्यामि ततो विधानं
होमव्यवस्थामथ तर्पणं च ।
ततोऽभिषेकस्य विधिं प्रवक्ष्ये
ततः परं ब्राह्मणभोजनं च ॥ १-३३ ॥
ततोऽभिधास्यामि ससिद्धिलक्षणाः
सोपायवर्गाश्च पुरस्क्रियाभिधाः ।
सर्वास्तरङ्गे रुचिरे च सप्तमे
सदूतिकायागसवीरसाधनाः ॥ १-३४ ॥
प्। ७) ततोऽष्टमे चारुतमे तरङ्गे
गणाधिपस्याथ रवेश्च विष्णोः ।
मत्स्यस्य कूर्मस्य वराहमूर्ते-
स्तदीयशक्तेश्च तथा धरिण्याः ॥ १-३५ ॥
श्रीदिव्यसिंहस्य च वामनस्य
त्रिविक्रमस्याथ कुठारपाणेः ।
श्रीरामचन्द्रस्य च भूसुताया-
स्ततः प्रलम्बासुरवैरिणश्च ॥ १-३६ ॥
कृष्णस्य बुद्धस्य तथैव कल्किन-
स्ततो हयग्रीवरथाङ्गरूपयोः ।
अनन्तसञ्ज्ञस्य च गोपसुन्दरी-
मूर्तेस्ततः श्रीधरसञ्ज्ञकस्य ॥ १-३७ ॥
शिवस्य मृत्युञ्जयनीलकण्ठ-
श्रीदक्षिणामूर्तिपुरस्सरैश्च ।
सक्षेत्रपालैर्बटुकादिरूपै-
र्भेदैरनेकैः सहितस्य तद्वत् ॥ १-३८ ॥
मुरारिदेहार्द्धभृतः पुरारे-
स्ततो भवान्याश्च गरुत्मतश्च ।
सकार्तवीर्यस्य समीरसूनोः
स्मरस्य वक्ष्यामि मनूननेकान् ॥ १-३९ ॥
एषां च ऋष्यादिपुरस्सराणि
ध्यानानि वक्ष्यामि पुरस्क्रियाश्च ।
प्रत्येकपूर्वं विधिमत्र नैषां
वक्ष्ये प्रबन्धस्य गुरुत्वभीतेः ॥ १-४० ॥
प्। ८) स्वैः स्वैः प्रभेदैः सहितास्ततो महा-
विद्यास्तरङ्गे नवमे दश क्रमात् ।
वक्ष्यामि तासां च पुरस्क्रियाविधिं
नीलक्रमादीनपि भावसंयुतान् ॥ १-४१ ॥
ततस्त्रिलोकार्चितपादुकाया
वाग्देवताया दशमे तरङ्गे ।
तत्रैव देव्यास्त्वरिताभिधायाः
क्लिन्नान्नपूर्णादिसमन्वितायाः ॥ १-४२ ॥
प्रत्यङ्गिराया अथ कुब्जिकायाः
सुरापगायाश्च सवाग्भवायाः ।
चण्डादिकानां च ततो ग्रहाणां
ग्रहप्रसूनामथ दिग्युतानाम् ॥ १-४३ ॥
मन्त्रान् प्रवक्ष्यामि पुरस्क्रियान्ता-
नथाभिधास्ये जननीं श्रुतीनाम् ।
न्यासानशेषान् क्रमतश्च तस्या
ध्यानं च यन्त्रं यजनक्रमं च ॥ १-४४ ॥
तस्याः सपर्याविधिमप्यशेषं
मुद्राश्च वक्ष्यामि पुरस्क्रियाश्च ।
तारस्य पौरश्चरणं विधानं
मृत्युञ्जयश्रौतमनोस्तथैव ॥ १-४५ ॥
रुद्राध्यायपुरस्क्रिया बहुविधैः सौम्यैः समं वक्ष्यते
सूक्तानां च पुरस्क्रियाविधिमथ श्रौतान् ग्रहाणां मनून् ।
तेषां च त्रिपुरारिभाषितपुरश्चर्याभिधानं ततो
हव्यानामपि च प्रमाणमखिलं वक्ष्यामि सङ्क्षेपतः ॥ १-४६ ॥
प्। ९) तरङ्ग - एकादश - उक्तरीत्या
दुर्गामनूनामथ तान्त्रिकाणाम् ।
वक्ष्यामि पौरश्चरणं विधानं
दुर्गोत्सवस्यापि विधिं समग्रम् ॥ १-४७ ॥
बलिप्रदानस्य विधिं पशूनां
वस्त्वन्तराणामपि दैवतानि ।
तत्रैव वक्ष्यामि कुमारिकायाः
पूजाविधानं च शिवाबलिं च ॥ १-४८ ॥
तत्रैव रेवन्तहयेभपूजा-
विधिं प्रयोगान् नवरात्रकृत्यम् ।
तथैव वक्ष्यामि शिवोपदिष्टं
निराजनं खञ्जनदर्शनं च ॥ १-४९ ॥
ततस्तरङ्गे चरमे मनोरमे
ब्राह्मादिमन्त्रान् सपुरस्क्रियाविधीन् ।
गोरक्षनाथस्य मनूंस्तथाविधान्
वक्ष्ये ततस्तादृशशीतलामनुम् ॥ १-५० ॥
यन्त्राण्यथो यन्त्रपुरस्क्रियाया
विधिं ततो भूतलिपिं च तस्याः ।
तत्रैव पौरश्चरणं विधानं
वक्ष्ये लिपिन्यासपुरस्क्रियाश्च ॥ १-५१ ॥
विद्योतयन्तीमथ मातृकाया-
स्त्रिलोहमुद्रामतुलप्रभावाम् ।
तत्रैव संस्कारविधिं च तस्या-
प्। १०) स्तथैव वक्ष्ये नवरत्नमुद्राम् ॥ १-५२ ॥
षोढान्याससहस्रनामकवचस्तोत्रान्तराणां तत-
स्तद्वत् सप्तशतीस्तवस्य च पुरश्चर्याभिधानं क्रमात् ।
तत्पाठस्य विधिं फलैश्च सहितं होमप्रयोगान्वितम्
मन्त्राणां च विभागमस्य तदनु प्रश्नस्य वक्ष्ये विधिम् ॥ १-५३ ॥
प्राणायामपुरस्क्रिया बुधवरैर्वेद्या ततो वक्ष्यते
मन्त्राणां च पुरस्क्रियामपि विना सिद्धिप्रकारोऽपि वा ।
नानाभैरवयोगिनीसुरवधूज्वालामुखीनां क्रमा-
दन्यासामपि च क्षितेरपि पुरश्चर्यान्वितं साधनम् ॥ १-५४ ॥
तत्र पुरश्चर्याया मन्त्रसिद्धिफलकदेवताराधनविशेष-रूपत्वादाराध्यदेवताया अभ्यर्हितत्वेन षडाम्नायान्तर्गतदेव-तास्तावन्निरूप्यन्ते । तत्र गणेशविशेषस्य मन्त्रनिष्ठं किं चिद्वैलक्षण्यमादाय षडाम्नायवृत्तित्वमुक्तं
मेरुतन्त्रे
एकबीजात्मकं वक्ष्ये विघ्नमन्त्रं सुसिद्धिदम् ।
तत्रादौ वैदिकानां तु गकारः केवलो मतः ॥ १-५५ ॥
दक्षिणानां बिन्दुयुक्तो द्विबिन्दुः पूर्वमार्गिणाम् ।
एतद्द्वययुतः पश्चादूर्ध्वाम्नाये च गौमिति ॥ १-५६ ॥
ग्लौमुत्तरे गोमिति च पातालाम्नाय ईरितम् ।
अत्र दक्षिणाम्नाये लक्ष्मीगणेशहरिद्रागणेशादयः, उर्द्ध्वाम्नाये महागणपत्यादयः, पूर्वाम्नाये विरिञ्चिगण-नायकादयः, पश्चिमाम्नाये क्षिप्रप्रसादनगणेशादयः, उत्तराम्नाये उच्छिष्टगणेशादय, इति भूयांसो गणेशभेदा मेरुतन्त्रे द्रष्टव्याः ।
प्।११) सूर्यस्य द्वादशभेदवतोऽपि दक्षिण एवाम्नायः ॥ १-५७ ॥
तदुक्तं तत्रैव
एक एवास्य चाम्नायो दक्षिणः परिकीर्तितः ।
यथायं यवनं विप्रं सममेव करैः स्पृशेत् ॥ १-५८ ॥
उपासना तथैवास्य स्वधर्माचारपूर्विका ।
चतुर्युगेषु प्रत्यक्षो देवोऽयं सर्वसम्मतः ॥ १-५९ ॥
सर्वेषामेव देवानां नेत्रभूतो जगत्पतिः ।
द्वादशभेदाः
वरुणः१ सूर्य२वेदाङ्गौ३ भानु४रिन्द्रो५ रवि६स्तथा ॥ १-६० ॥
गभस्ति७स्तु यमः८ स्वर्णरेता९श्चाथ दिवाकरः१० ।
मित्रो११विष्णु१२रिति प्रोक्ता आदित्या द्वादश क्रमात् ॥ १-६१ ॥
तपन्ति माघादारभ्य क्रमादमिततेजसः ।
इति तत्रैवोक्ताः
विष्णोः शिवस्य चाम्नायप्रयुक्तभेदोऽनुपलभ्यमानः । अवतारमन्त्रध्यानादिप्रयुक्तास्त्वनन्ता एव भेदाः, तेषु कति चिद्भेदाः पुरश्चरणप्रकारकथनावसरे स्फुटीभविष्यन्तीति अत्र नोक्ताः । देवीभेदानामनन्तत्वेन वक्तुमशक्यत्वेऽपि वाडवानलीयतन्त्रोक्ताः कति चिद् भेदा इह प्रदर्श्यन्ते ।
तदुक्तं वडवानलीयतन्त्रे
एकैवाद्या जगत्सूतिः सच्चिदानन्दविग्रहा ॥ १-६२ ॥
तत्तद्विभूतिभेदेन भिन्नानेकत्वमागता ।
प्। १२) पूर्णेशी भुवनेशानी ललिता चापराजिता ॥ १-६३ ॥
लक्ष्मीः सरस्वती वाणी पारिजातपदाङ्किता ।
अन्नपूर्णा जयाद्याश्च पूर्वाम्नायसमाश्रिताः ॥ १-६४ ॥
निशेशी दक्षिणाकाली बगला छिन्नमस्तका ।
भद्रा तारा च मातङ्गी दक्षिणाम्नायदेवताः ॥ १-६५ ॥
बहुप्रभेदसंयुक्ता कुब्जिका च कुलालिका ।
मातङ्ग्यमृतलक्ष्म्याद्याः पश्चिमाम्नायदेवताः ॥ १-६६ ॥
एतेन मातङ्ग्या आम्नायद्वयवृत्तित्वमाहितम्, दक्षिणाम्नायेऽपि तस्या अभिधानात् । तथा -
सिद्धिलक्ष्मीर्गुह्यकाली महाभीमसरस्वती ।
धूम्रा कामकला काली महाकाली कपालिनी ॥ १-६७ ॥
महाश्मशानकाली च कालसङ्कर्षिणी तथा ।
प्रत्यङ्गिरा महारात्रिर्योगेशी सिद्धिभैरवी ॥ १-६८ ॥
एता बहुविधायुक्ताः सर्वविद्योत्तमोत्तमाः ।
उत्तराम्नायपीठस्थाश्चतुर्वर्गफलप्रदाः ॥ १-६९ ॥
ताराच्छिन्नमस्तयोरपि उत्तराम्नायवृत्तित्वमुक्तं
मुण्डमालायाम्
भेदास्त्वेकोनपञ्चाशदुत्तराम्नायवर्त्मनि ।
गुह्यकाली ततः प्रोक्ता सिद्धिलक्ष्मीस्ततः परम् ॥ १-७० ॥
स्वर्णकोटीश्वरी तत्र राजराजेश्वरी तथा ।
गुह्येश्वरी तथा प्रोक्ता तथा तारा त्रिरूपिणी ॥ १-७१ ॥
छिन्नमस्ता महादेवी ततः प्रोक्तातिभीषणा ।
एवंविधास्तु सङ्केताः सदा गोप्याः प्रकीर्तिताः ॥ १-७२ ॥
प्।१३) वाडवानलीये
कामेशी ललिता बाला महात्रिपुरसुन्दरी ।
त्रिपुरा भैरवी ह्येता ऊर्ध्वाम्नायसमाश्रिताः ॥ १-७३ ॥
ललितायाः पूर्वाम्नायेऽप्युक्तत्वादाम्नायद्वयवृत्तित्वं बोधितम् । क्व चित्त्वरितेति पाठः ।
योगिनी वज्रपूर्वा च पन्नगी नैऋतेश्वरी ।
अधराम्नायपीठस्था जैनमार्गप्रपूजिताः ॥ १-७४ ॥
अत्रैव प्रधानतया भीमादेवी
महाकालसंहितायामुक्ता
निशामयाधराम्नायगोचरान् देवतामनून् ।
यत्राद्यभूता विख्याता भीमादेवी भयानका ॥ इति ॥ १-७५ ॥
कुलबाला च दुर्गा च सर्वाम्नायप्रपूजिता ।
कुलबाला, कुमारी । तथा -
तयोः पूजा तु सर्वत्र नित्यत्वेनाभिधीयते ॥ १-७६ ॥
तयोर्दुर्गाकुमार्योः । एतास्तु दश देवता महाविद्यात्वेन प्रसिद्धाः ।
तदुक्तं शक्तिसङ्गमे
काली१ तारा२ छिन्नमस्ता३ सुन्दरी४ बगला५ रमा६ ।
मातङ्गी७ भुवनेशानी८ सिद्धविद्या च भैरवी९ ॥ १-७७ ॥
धूमावती१० च दशमी महाविद्या दश स्मृताः ।
तत्रैव
एतासां प्रत्येकं भैरवमाह -
कालिकाया महाकालः सुन्दर्या ललितेश्वरः ॥ १-७८ ॥
प्। १४) तारायाश्च तथाक्षोभ्यश्छिन्नाया विकरालकः ।
भुवनाया महादेवो धूम्रायाः कालभैरवः ॥ १-७९ ॥
नारायणो महालक्ष्म्या भैरव्या बटुकः स्मृतः ।
मातङ्ग्यास्तु मतङ्गः स्यादथ वा स्यात् सदाशिवः ॥ १-८० ॥
मृत्युञ्जयस्तु बगलाविद्यायाः परिकीर्तितः ।
ललितेश्वरस्त्रिपुरभैरवः, विकरालः क्रोधभैरवः, कालभैरवोघोरः । यद्यपि रुद्रयामले ताराच्छिन्नमस्तादीनां सद्योजातकालरुद्रादय उक्ताः, तथापि एतेषामेव भैरवाणां नामान्तराणि तत्रोक्तानि न तु भैरवान्तराणीत्यविरोधः ।
शक्तिसङ्गमे
क्रोधभैरवसंयोगाद्यक्षिण्यः सिद्धिदा यथा ॥ १-८१ ॥
तथा विद्याः प्रसिद्ध्यन्ति पुंयोगादेव पार्वति ।
रुद्रयामले
केवलं यो जपेच्छाक्तं मनुं शैवं न योजयेत् ॥ १-८२ ॥
जन्मकोटिषु जप्तोपि न मनुः सिद्धिभाग् भवेत् ।
यस्या देव्यास्तु यो देवः शिवस्तस्याः शिवो भवेत् ॥ १-८३ ॥
तेन विद्या महादेवि कलौ सिद्ध्यति सत्वरम् ।
मेरुतन्त्रे
स्त्रीमन्त्रो भोगदः प्रोक्तः पुम्मन्त्रो मोक्षदः परम् ॥ १-८४ ॥
उभयोपासनं देवा भुक्तिमुक्तिप्रदायकम् ।
तन्त्रान्तरे
शक्त्या विना शिवे शुष्के नाम धाम न विद्यते ॥ १-८५ ॥
प्। १५) शिवं विना चित्कलानां कलात्वं न क्वचिद् भवेत् ।
बीजाङ्कुरन्याययोगाच्छिवशक्त्यात्मकं महः ॥ १-८६ ॥
सदा जागर्ति देवेशि नानारूपाणि दर्शयेत् ।
षडाम्नायदेवताराधनफलान्याह
मेरुतन्त्रे
दक्षिणोपासकः काल ऊर्ध्वः सायुज्यमाप्नुयात् ॥ १-८७ ॥
देवतायास्तथा पूर्वः सारूप्यं लभते परम् ।
समीप्यं चोत्तरो लोके पश्चिमस्त्वैहिकं फलम् ॥ १-८८ ॥
लाभस्त्यागश्चोपकारो ह्यधोमार्गेऽप्युदर्क युक् ।
काल इति, महाकालस्वरूपी शिव एव भवेदित्यर्थः । यत्तु काले इति सप्तम्यन्तं पदं, तेन दक्षिणोपासक ऊर्ध्वाम्नायोपासकश्च काले देहान्तसमये सायुज्यमाप्नुयादित्यर्थ इति कैश्चिदुक्तं, तदसत् ।
पञ्चलक्षणसंयुक्तो ब्राह्मणः काल एव सः ॥ १-८९ ॥
इति पूर्वग्रन्थविरोधात् ।
यत्प्रसादादहं त्वं च जातः काल इवापरः ।
इत्युत्तरग्रन्थविरोधाच्च । उत्तरो लोके इति, उत्तराम्नायदेवतोपासकः सालोक्यं प्राप्नुयादित्यर्थः । इदमुत्तराम्नाये गुह्येश्वर्यादिदेवतोपासकविषयम् ।
तदुपासकानां तु चतुर्विधमुक्तिप्राप्तिरुक्ता
प्।१६) महाकालसंहितायामनुस्मृतिप्रकरणे
सालोक्यं चैव सामीप्यं सारूप्यं च तृतीयकम् ॥ १-९० ॥
सायुज्यमिति देवेशि मुक्तिरुक्ता चतुर्विधा ।
तास्वन्योपासकानां स्यादेकैका मुक्तिरीश्वरि ॥ १-९१ ॥
गुह्यकाल्याराधकस्य क्रमान्मुक्तिचतुष्टयम् ।
जायते नात्र सन्देहस्त्रिपुरघ्नानुशासनात् ॥ १-९२ ॥
षडाम्नायेषु देवेशि भूयस्यः सन्ति देवताः ।
तासु काश्चित् कृतयुगे त्रेतायां काश्चिदीरिताः ॥ १-९३ ॥
द्वापरे फलदाः काश्चित् कलौ काश्चित् फलप्रदाः ।
चतुर्युगेषु फलदा दश विद्या मयेरिताः ॥ १-९४ ॥
तासु तिस्रो विशिष्यन्ते काली तारा च सुन्दरी ।
तिसृष्वपि शिवे तासु कलौ काली विशिष्यते ॥ १-९५ ॥
नवविधासु कालीषु गुह्यकाली प्रशस्यते ।
अनया सदृशी विद्या नास्ति ब्रह्माण्डगोलके ॥ १-९६ ॥
विद्याराज्ञी गुह्यकाली भिद्यते न कदाचन ।
नवविधाकाली
तत्रैवोक्ता
काली नवविधा प्रोक्ता सर्वतन्त्रेषु गोपिता ॥ १-९७ ॥
आद्या दक्षिणकाली च भद्रकाली तथा परा ।
अन्या श्मशानकाली च कालकाली चतुर्थिका ॥ १-९८ ॥
पञ्चमी गुह्यकाली च पूर्वं या कथिता मया ।
प्। १७) षष्ठी कामकलाकाली सप्तमी धनकालिका ॥ १-९९ ॥
अष्टमी सिद्धिकाली च नवमी चण्डिकालिका ।
एवमन्यासां भेदा ग्रन्थान्तरेभ्योऽवगन्तव्याः ।
शक्तिसङ्गमे
चतुर्युगानां राज्ञी वै कालिका परिकीर्तिता ॥ १-१०० ॥
विद्याराज्ञी सिद्धिविद्या कलौ शीघ्रफलप्रदा ।
कालीकृष्णयोरैक्यमुक्तं
महाकालसंहितायाम्
स्त्रीणां त्रैलोक्यजातानां कामोन्मादैकहेतवे ॥ १-१०१ ॥
वंशीधरः कृष्णदेवः प्रकृतिर्विष्णुरुच्यते ।
उभयोर्मेलनाद्देवि शिवशक्तिर्हि गीयते ॥ १-१०२ ॥
कृष्णस्य कालीस्वरूपत्वं, रामस्य तारास्वरूपत्वं, तिसृणां शक्तीनामैक्यं चोक्तं
शक्तिसङ्गमे
कदा चिदाद्या ललिता पुंरूपा कृष्णविग्रहा ।
लोकसम्मोहनार्थाय स्वरूपं बिभ्रती परम् ॥ १-१०३ ॥
वेणुनादसमारम्भसर्वसम्मोहनक्षमम् ।
कदा चिदाद्या श्रीकाली शैवतारास्ति पार्वती ॥ १-१०४ ॥
कदा चिदाद्या श्रीतारा पुंरूपा रामविग्रहा ।
रावणस्य वधार्थाय देवानां स्थापनाय च ॥ १-१०५ ॥
दैत्यसंहरणार्थाय पुंरूपं बिभ्रती परम् ।
आद्या तारा महाशक्तिः सैव काली महेश्वरी ॥ १-१०६ ॥
प्। १८) या महावैष्णवी माया सा महासुन्दरी मता ।
नैव स्त्री न पुमानेषा नैव चापि नपुंसकम् ॥ १-१०७ ॥
यद्यच्छरीरमाधत्ते युज्यते तेन तेन सा ।
हरिहरयोरैक्यमुक्तं
तत्रैव
एकस्मिन् समये पूर्वं विष्णुरूपावुभावपि ॥ १-१०८ ॥
विष्णुस्वरूपसिद्ध्यर्थं तपस्तेपे हरः स्वयम् ।
शिवस्वरूपसिद्ध्यर्थं तपस्तेपे हरिः स्वयम् ॥ १-१०९ ॥
षड्वृन्दयुगसङ्ख्यातमुभौ तपःपरौ शिवे ।
शिवो विष्णुस्वरूपत्वं विष्णुश्च शिवरूपताम् ॥ १-११० ॥
उभौ हरिहरात्मानौ ह्यर्द्धनारीश्वरौ परौ ।
मुख्यरूपमिदं देवि द्वयोः सङ्गममम्बिके ॥ १-१११ ॥
तेजःपुञ्जमिदं देवि ब्रह्मरूपं सनातनम् ।
रामस्य शिवशक्त्यात्मकत्वं
तत्रैवोक्तम्
रामः शक्तिरिति ख्यातः स शिवः परिकीर्तितः ॥ १-११२ ॥
शिवशक्त्यात्मकं ब्रह्म रामरामेति गीयते ।
गौरीसीतयोः शिवरामयोश्चैक्यमुक्तं
तत्रैव
गौरीरूपा परा सीता महासाम्राज्यनायिका ॥ १-११३ ॥
रामः परशिवो ज्ञेयो नावतारो नरोऽपि च ।
यत्परं ब्रह्म विख्यातं तद्रामेत्यक्षरद्वयम् ॥ १-११४ ॥
प्। १९) रामोपनिषदि
रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि ।
रामनामपदेनासौ परं ब्रह्माभिधीयते ॥ १-११५ ॥
गणेशादिपञ्चदेवतानामैक्यमुक्तं
रुद्रयामले
गणेशार्कहरीशानां दुर्गारूपा सरस्वती ।
महाश्यामा महाविद्या पूजनीया यथाक्रमम् ॥ १-११६ ॥
न कुर्याद् भेदमेतेषां कौलिको वैष्णवस्तथा ।
गणेशार्कहरीशानदुर्गाणां परमार्थवित् ॥ १-११७ ॥
पूजयेदैक्यभावेन देवीभक्तश्च बुद्धिमान् ।
देवीचक्रेऽर्चयेत् सर्वान् शिवलिङ्गेऽथवा शिवे ॥ १-११८ ॥
शालग्रामशिलायां वा सूर्यपीठेऽथवा शिवे ।
श्रीगणेश्वरचक्रे वा न भेदं कारयेत् सुधीः ॥ १-११९ ॥
भेदं वै कुरुते यस्तु स शैवः शिवहा भवेत् ।
शैव इत्युपलक्षणम् ।
दशमहाविद्यादशावताराणामैक्यमुक्तं
मुण्डमालातन्त्रे
कृष्णस्तु कालिका साक्षाद् राममूर्तिश्च तारिणी ॥ १-१२० ॥
वराहो भुवना प्रोक्ता नृसिंहो भैरवीश्वरी ।
धूमावती वामनः स्याच्छिन्ना भृगुकुलोद्भवः ॥ १-१२१ ॥
कमला मत्स्यरूपः स्यात् कूर्मस्तु बगलामुखी ।
मातङ्गी बौद्ध इत्येषा षोडशी कल्किरूपिणी ॥ १-१२२ ॥
इति ।
कालीपदव्युत्पत्तिमाह
प्। २०) कामधेनुतन्त्रे
कालसङ्कलनात् काली कालग्रासं करोत्यतः ।
त्रिपुराशब्दर्थमाह
सुन्दरीस्तवे
ब्राह्मी रौद्री वैष्णवीति शक्तयस्तिस्र एव हि ॥ १-१२३ ॥
पुरं शरीरं यस्यां सा त्रिपुरेति प्रकीर्तिता ।
ताराशब्दार्थमाह
मत्स्यसूक्ते
लीलया वाक्प्रदा चैव तेन नीलसरस्वती ॥ १-१२४ ॥
तारकत्वप्रदा तारा सुखमोक्षप्रदायिनी ।
उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता ॥ १-१२५ ॥
आम्नायभेदेन मार्गभेदनिर्णयमाह
वाडवानलीये
पूर्वाम्नाये दक्षमार्गो वामः स्यात् पश्चिमे परे ।
दक्षिणोत्तरयोरूर्द्धे मार्गौ तौ वामदक्षिणौ ॥ १-१२६ ॥
विहाय सर्वं सर्वत्र कौलमार्गः प्रशस्यते ।
मार्गत्रयव्यवस्था च
तत्रैव
योगात् पञ्चमकाराणां वामहस्तेन पूजनात् ॥ १-१२७ ॥
जपाद्धोमाच्च वामः स्याद्दक्षिणस्तद्विपर्ययात् ।
तत्त्वतर्पणमन्त्रं तु वामहस्तेन दक्षिणे ॥ १-१२८ ॥
दक्षहस्तेन वामेऽपि विशेषः परिकीर्तितः ।
प्। २१) दक्षवामक्रियायुक्तः कौलश्चोभयमिश्रितः ॥ १-१२९ ॥
मकारावश्यकत्वाच्च दक्षतर्पणपूजनात् ।
क्व चिद्वामेन देवेशि कौलो मार्गस्तृतीयकः ॥ १-१३० ॥
रुद्रयामले
त्रीणि बीजानि दुर्गायास्तदाचारास्त्रयः स्मृताः ।
प्रथमो दक्षिणाचारो वामाचारो द्वितीयकः ॥ १-१३१ ॥
तृतीयस्तु कुलाचारो विधिं तेषां शृणु प्रिये ।
प्रभाते स्नानसन्ध्यादि मध्याह्ने जप ईश्वरि ॥ १-१३२ ॥
और्णमासनमात्मार्थं भक्ष्यं पायसशर्करम् ।
माला रुद्राक्षसम्भूता पात्रं पाषाणसम्भवम् ॥ १-१३३ ॥
भोगः स्वकीयकान्ताभिर्दक्षिणाचार इत्ययम् ।
द्रव्येण मधुना देवि सिद्धिहानिकरो मतः ॥ १-१३४ ॥
वामाचारं प्रवक्ष्यामि श्रीदुर्गासाधनं परम् ।
यं विधाय कलौ शीघ्रं मान्त्रिकः सिद्धिभाग् भवेत् ॥ १-१३५ ॥
माला नृदन्तसम्भूता पात्रं पाषाणमुण्डकम् ।
आसनं सिद्धचर्मादि कङ्कणं स्त्रीकचोद्भवम् ॥ १-१३६ ॥
द्रव्यमासवतत्त्वाढ्यं भक्ष्यं मांसादिकं शिवे ।
चर्वणं बालमत्स्यादि मुद्रा वीणारवः कथा ॥ १-१३७ ॥
मैथुनं परकान्ताभिः सर्ववर्णसमानता ।
वामाचार इति प्रोक्तः सर्वसिद्धिप्रदः शिवे ॥ १-१३८ ॥
अन्यथा सिद्धिहानिः स्यान्मन्त्रस्यास्य महेश्वरि ।
कुलाचारं प्रवक्ष्यामि सेव्यं योगिभिरुत्तमैः ॥ १-१३९ ॥
प्। २२) कुलस्त्रियं कुलगुरुं कुलदेवीं महेश्वरि ।
नित्यं यत् पूजयेद्विश्वं स कुलाचार उच्यते ॥ १-१४० ॥
कुलस्त्रियं शिवे ज्ञात्वा नुत्वा नत्वा महेश्वरि ।
हठादानीय सम्पूज्य ततो भोगं विधाय च ॥ १-१४१ ॥
तेजसा तर्पयेद्देवीं श्रीदुर्गां चक्रनायिकाम् ।
नीलकण्ठं च विधिना जपं कुर्याद्विशेषतः ॥ १-१४२ ॥
तत्पूर्वकं चरेद्धोमं कुलकान्तां विभूषयेत् ।
पानैः पेयैस्तथा भक्ष्यैः सन्तर्प्य कुलयोषितम् ॥ १-१४३ ॥
प्रत्यहं वै चरेदेवं कुलाचार इति स्मृतः ।
कौलादिभेदेन वाममार्गविधिरुक्तो,
मेरुतन्त्रे
कौलिकोऽङ्गुष्ठतां प्राप्तो वामः स्यात्तर्जनीसमः ॥ १-१४४ ॥
चीनक्रमो मध्यमः स्यात् सिद्धान्तीयोऽवरो भवेत् ।
कनिष्ठः शाबरो मार्ग इति वामस्तु पञ्चधा ॥ १-१४५ ॥
मार्गभेदेनाधिकारिभेद उक्तो,
वाडवानलीये
ब्राह्मणाह् क्षत्रिया वैश्या दक्षमार्गाधिकारिणः ।
द्विजवर्जास्त्रयो वर्णा वामकौलाधिकारिणः ॥ १-१४६ ॥
दक्षमार्गपरिभ्रष्टो ब्राह्मणो वाममार्गगः ।
इहैव सिद्धिमाप्नोति नापवर्गं कदाचन ॥ १-१४७ ॥
वेदमार्गपरित्यागी कैवल्येच्छाविवर्जितः ।
सिद्धिकामी वाममार्गी ब्राह्मणो नारकी भवेत् ॥ १-१४८ ॥
प्। २३) वेदमार्गं परित्यज्य तन्त्रमार्गैकतत्पराः ।
ब्राह्मणा निरयं भुक्त्वा भवेयुर्ब्रह्मराक्षसाः ॥ १-१४९ ॥
वैदिकं तान्त्रिकं मार्गं दक्षिणं ब्राह्मणश्चरन् ।
इह सिद्धीश्वरोभूत्वा देहान्तेऽमृतमश्नुते ॥ १-१५० ॥
एतेन वचननिचयेन दक्षिणे एव मार्गे ब्राह्मणस्य, मार्गत्रयेऽपि क्षत्रियवैश्ययोः, वामे कौले च शूद्रस्याधिकार इति व्यवस्थाप्य सिद्ध्यादिलोभाद्वामे कौले वा प्रवर्तमानस्य ब्राह्मणस्य केवलं भोग एव न मोक्षः, तदुभयं तु श्रौतमार्गसंवलिततन्त्रोक्त-दक्षिणमार्गेण समुचितेष्टदेवताराधकस्यैव ब्राह्मणस्यैति सिद्धान्तितम् । न च -
वामाचारैर्द्विजैः पूर्वं कर्तव्यं कुलदीक्षणम् ।
पश्चाद्दीक्षा तु सावित्र्या व्यत्यासात् पतितो भवेत् ॥ १-१५१ ॥
इति ब्राह्मणानां वाममार्गाधिकारित्वप्रकाशकेन मेरुतन्त्रवचनेन विरोध इति वाच्यम् । तत्र द्विजपदस्य ब्राह्मणेतरद्विज-परत्वकल्पनेन विरोधाभावात् । अत एव -
ब्राह्मणानां वाममार्गो नरकायैव जायते ।
इति तन्त्रान्तरवचनान्तरमपि सङ्गच्छते, अधिकारिविशेषानुष्ठितस्य वाममार्गस्यापि भुक्तिमुक्तिजनकतया ब्राह्मणानां तदधिकारित्वे तस्य तन्निरयहेतुत्वानुपपत्तेः । तथा च -
यो दाक्षिण्यं विना विप्रो महामायां प्रपूजयेत् ॥ १-१५२ ॥
स पापः स्वर्गलोकात्तु च्युतो भवति रोगधृक् ।
इति कालिकापुराणवचनाद्दक्षिणमार्गे एव ब्राह्मणस्याधिकार इति बोध्यम् । एवं च क्षत्रियवैश्ययोरपि दक्षिणमार्ग एव प्रशस्तः, तयोर्वाममार्गाधिकारित्वकथनं तु रागात् (प्। २४) प्रवृत्तयोरपि न पातित्यमित्यभिप्रायेण, ब्राह्मणस्यैव तथाविधस्य तच्छवणात् । वाममार्गस्तु शूद्राणामेव प्रशस्तः ।
शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता ॥ १-१५३ ॥
इति मेरुतन्त्रवचनात् । आचारमधिकृत्य -
वामादिना यजेच्छूद्रो दक्षिणेन द्विजातयः ।
इति महाकालवचनात् । द्विजातय इति, ब्राह्मणक्षत्रियवैश्या इत्यर्थः । वामादिनेत्यादिशब्देन कुलाचारः सङ्गृह्यते, सोऽपि पूर्ववच्छूद्राणामेव प्रशस्तः, क्षत्रियवैश्ययोर्न प्रशस्तो नापि निषिद्धो, ब्राह्मणानां तु निषिद्ध एव ।
ब्राह्मण्यहानिहेतुत्वात् कुलाचारं न चाचरेत् ॥ १-१५४ ॥
इति सिद्धान्तसारवचनात् ।
ये विप्राः शापनिर्दग्धा ब्रह्मकर्मविवर्जिताः ।
तेषां तु कौलधर्मोऽयं भुक्तिमुक्त्योस्तु साधनम् ॥ १-१५५ ॥
ये विप्राः पापसञ्जाताः शापनिर्दग्धविप्लुताः ।
तेषां कुलाधिकारोऽयं मार्गस्यास्य प्रजायते ॥ १-१५६ ॥
इत्यादिमेरुतन्त्रवचनेन दक्षयज्ञे पारिषदशापाद्वेदमार्ग-बहिर्भूतानां विनष्टब्राह्मणत्वानामेव विप्राणां तदधिकारित्वबोधनाच्च । यदि च स्वतन्त्रवक्तुरीशस्य वचनानां वैचित्र्याद् ब्राह्मणानामपि वामकौलाधिकारित्वबोधकवचनान्तर-मुपलभ्येत तदा पञ्चसु लक्षणेषु यत्किञ्चिल्लक्षणोपलक्षिता हीनब्राह्मणास्तत्र बोद्धव्याः, तादृशानां तु तदधिकारोऽस्त्येव ।
प्। २५) एतच्च मेरुतन्त्रे एवेश्वरचरणैर्व्यक्तीकृतम् । यथा
ब्रह्मवीर्यं१ तथा क्षेत्रं२ संस्कारा ब्रह्मसम्भवाः३ ।
ब्राह्मणाचरणा४द्ब्रह्मविद्याभि५र्ब्राह्मणो भवेत् ॥ १-१५७ ॥
यस्य वश्या वयं यस्य वाचमर्थोऽनुधावति ।
एकस्मि।ल्लक्षणे हीने वागर्थमनुधावति ॥ १-१५८ ॥
द्विहीनलक्षणो देवि स्वाचाराद्ब्राह्मणो भवेत् ।
लक्षणत्रयहीनो यस्तन्त्रमार्गेण सिद्ध्यति ॥ १-१५९ ॥
चतुर्लक्षणहीनानां मार्गाः स्युः कौलिकादयः ।
लक्षणहानिश्च निर्देशक्रमप्रातिलोम्येन बोध्या ।
तत्रैव
पूर्वोक्तलक्षणेष्वेकं यस्मिन् विप्रे प्रदृश्यते ॥ १-१६० ॥
तप्यते चोपतापेन किञ्चिद्ब्राह्मणतां गतः ।
अधिकारो न मे जातः समस्तब्रह्मकर्मणाम् ॥ १-१६१ ॥
इह लोके परत्रापि कथं प्राप्स्याम्यहं सुखम् ।
अन्धश्च यः परद्रव्ये परस्त्रीषु नपुंसकः ॥ १-१६२ ॥
परापवादे यो मूको नित्यमित्थं विचारयेत् ।
तस्यैव ब्राह्मणस्यात्र वामे स्यादधिकारिता ॥ १-१६३ ॥
एकमिति, ब्रह्मवीर्योत्पन्नत्वम् ।
तथा
पञ्चलक्षणसंयुक्तो ब्राह्मणः काल एव सः ।
अहं ब्रह्मा तथा विष्णुस्तदाज्ञावशवर्तिनः ॥ १-१६४ ॥
स चेद्वामपथं प्राप्तः पुनः श्वा चाभिजायते ।
प्। २६) चतुर्लक्षणसंयुक्तो वामस्तस्य फलप्रदः ॥ १-१६५ ॥
ताभ्यां दत्तो भाग्यवश्यात्तान्त्रिकः कोऽपि चेन्मनुः ।
सद्यः फलति चाद्यस्य क्रियया चापरस्य तु ॥ १-१६६ ॥
लक्षणत्रययुक्तो यस्तस्य वैदिकतान्त्रिके ।
यथोक्ताचरणादेव फलदस्तेन वामकः ॥ १-१६७ ॥
लक्षणद्वयसंयुक्तस्तस्य वामश्च दक्षिणः ।
समौ तुल्यफलौ स्यातां न कदाचन वैदिकः ॥ १-१६८ ॥
एकलक्षणसंयुक्तो वामस्तस्य फलप्रदः ।
शूद्रादियवनान्तानां सिद्धिर्वामपथे स्थिता ॥ १-१६९ ॥
वाममार्गस्थितो विप्रस्तुलसीं न क्वचित् स्पृशेत् ।
न स्पृशेद्वैष्णवं विप्रं प्रणमेन्न च वैदिकम् ॥ १-१७० ॥
निन्दन्तु बान्धवाः सर्वे त्यजन्तु स्त्रीसुतादयः ।
जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा ॥ १-१७१ ॥
रोगदारिद्र्यदुःखाद्यैः पीडितोऽप्यनिशं त्वहम् ।
लक्ष्मीस्तिष्ठतु वा यातु न मुञ्चामि पदं त्विदम् ॥ १-१७२ ॥
एवं यस्य दृढा भक्तिः स वामे सिद्धिमाप्नुयात् ॥ १-१७२एफ़् ॥
रुद्रयामले
वामे चन्द्रमुखी मुखे च मदिरा पात्रं कराम्भोरुहे
मूर्द्ध्नि श्रीगुरुचिन्तनं भगवतीध्यानास्पदं मानसम् ।
जिह्वायां जपसाधनं परिणतिः कौलक्रमाभ्यागमे
येषां वै नियतं पिबन्तु सुरसं ते भुक्तिमुक्ती गताः ॥ १-१७३ ॥
वामे रामा रमणकुशला दक्षिणे चालिपात्रम्
अग्रे मुद्राश्चणकवटकाः शूरणश्चौष्ठशुद्धिः ।
प्। २७) तन्त्रीवीणा सरसमधुरा सद्गुरुः सत्कथायां
वामाचारः परमगहनो योगिनामप्यगम्यः ॥ १-१७४ ॥
मेरुतन्त्रे
पेयं मद्यं पलं खाद्यं समालोक्यं प्रियामुखम् ।
इत्येवाचरणं श्रेष्ठं पामराः प्रवदन्ति च ॥ १-१७५ ॥
मद्यपानेन मनुजो यदि सिद्धिं लभेत चेत् ।
मद्यपानरताः सर्वे किं सिद्धा न भवन्त्युमे ॥ १-१७६ ॥
मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् ।
क्रव्यादानां तदा मोक्षो मांसादन्यो न युज्यते ॥ १-१७७ ॥
स्त्रीसम्भोगेन भो देवा यदि मोक्षोऽभिजायते ।
तदा सर्वेऽपि मुक्ताः स्युः कस्य जन्म भविष्यति ॥ १-१७८ ॥
कृपाणधारागमनाद् व्याघ्रकर्णावलम्बनात् ।
भुजङ्गावरणान्नूनमशक्यं कुलवर्त्मनि ॥ १-१७९ ॥
अथ वैष्णवभेदाः ।
तदुक्तं शक्तिसङ्गमे
वैखानसो१ भवेदादौ श्रीराधावल्लभ२स्तथा ।
गौकुलेशो३ महेशानि तथा वृन्दावनी४ भवेत् ॥ १-१८० ॥
पाञ्चरात्रः५ पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः६ ।
रामानन्दी७ हरिव्यासी८ निम्बार्क९श्च महेश्वरि ॥ १-१८१ ॥
ततो भागवतो१० देवि दश भेदाः प्रकीर्तिताः ।
वैखानसादिदीक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः ॥ १-१८२ ॥
वैष्णवाचारनिरतो विष्णुमन्त्रैकपारगः ।
प्। २८) अनन्यचेताः शान्तात्मा विष्णुचिह्नपरायणः ॥ १-१८३ ॥
श्रीराधावल्लभो देवि गोकुलेशं शृणु प्रिये ।
नानाभरणसम्पन्नो नानासौगन्ध्यभूषितः ॥ १-१८४ ॥
गवां कुलं प्रीणयतः कलिकृष्णस्य रूपधृक् ।
शरीरमर्थं प्राणांश्च तन्निवेदनकारकः ॥ १-१८५ ॥
अन्तः शक्तिपरो देवि बहिर्वैष्णवरूपधृक् ।
गन्धर्वाचारनिरतो लतावेष्टित तत्परः ॥ १-१८६ ॥
सम्प्रदायो गौकुलेशः सर्वसिद्धिकरो भुवि ।
विगताशः प्रसन्नात्मा विष्णुभक्तिपरायणः ॥ १-१८७ ॥
कामिनीसङ्गचपलो वनक्रीडाविनोदधृक् ।
सौगन्ध्यभूषिततनुः स्त्रीध्यानैकपरायणः ॥ १-१८८ ॥
विष्णुसारूप्यतत्त्वज्ञः प्रोक्तो वृन्दावनी शिवे ।
पञ्चरात्रव्रतं प्राप्ताः पाञ्चरात्राः प्रकीर्तिताः ॥ १-१८९ ॥
दिनपञ्चकपर्यन्तं शैवा नाम त्रिलोचनाः ।
गोपालपद्धतौ
कायेन मनसा वाचा भजते विष्णुमेव यः ॥ १-१९० ॥
स वीरवैष्णवः प्रोक्तो देवतान्तरनिन्दकः ।
चराचरमिदं विश्वं जानन् नारायणात्मकम् ॥ १-१९१ ॥
कं चिन्न द्वेष्टि यः सोऽयमुत्तमो वीरवैष्णवः ।
तत्रैव
हृदयाम्भोजमध्यस्थे श्रीरामे परमात्मनि ॥ १-१९२ ॥
आनन्दं भजते यस्तु रामानन्दी स उच्यते ।
प्। २९) शक्तिसङ्गमे
पापसंहरणासक्तो विष्णुभक्तो जितेन्द्रियः ॥ १-१९३ ॥
यमादिनियमैर्युक्तो युक्ताचारपरायणः ।
स्वोपयुक्तपरिग्राही परकार्यपरायणः ॥ १-१९४ ॥
हरिव्यासी महेशानि शिवशक्तिस्वरूपधृक् ।
नित्यार्चनक्रमाशक्तः स्वतन्त्रैकपरायणः ॥ १-१९५ ॥
बाह्यपूजादिनिरतोऽनन्यभक्तः प्रसन्नधीः ।
आर्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः ॥ १-१९६ ॥
स्वतन्त्रः स्मार्त्तविद्वेषी निम्बार्को भगवान् हरिः ।
विष्णुभक्तैकनिपुणो विजितात्मा प्रसन्नधीः ॥ १-१९७ ॥
स्मार्त्तगर्वान्वितो देवि तदन्याचारतत्परः ।
शैवद्वेषी तस्य सङ्गात् पुनः स्नानपरायणः ॥ १-१९८ ॥
केवलं विष्णुभक्तिज्ञः प्रोक्तो भागवतः शिवे ।
परमभागवतलक्षणं तु
एकादशस्कन्धे
सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः ॥ १-१९९ ॥
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ।
अन्यच्च तत्रैव
गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ॥ १-२०० ॥
विष्णोर्मायामिदं पश्येत् स वै भागवतोत्तमः ॥ १-२००एफ़् ॥
तथा
त्रिभुवनविभवहेतवेऽप्यकुण्ठ
स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
प्। ३०) न चलति भगवत्पदारविन्दा-
ल्लवनिमिषार्द्धमसौ तु वैष्णवाग्र्यः ॥ १-२०१ ॥
मध्यमलक्षणं तत्रैव
ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ १-२०२ ॥
प्राकृतभागवतलक्षणं तत्रैव
अर्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ १-२०३ ॥
अथ शैवभेदाः ।
शक्तिसङ्गमे
शिखी१ मुण्डी२ जटी३ चैव द्वि४त्रिडण्डी५ क्रमेण च ।
एकदण्डी६ महेशानि वीरशैव७स्तथैव च ॥ १-२०४ ॥
सप्त पाशुपताः प्रोक्ता दशधा वैष्णवास्तथा ।
अथ पाशुपतानां च वासनां शृणु पार्वति ॥ १-२०५ ॥
शिखी पाशुपतो देवि शिखासूत्रधरः शुभः ।
समाधितत्परो देवि समाधौ शिवपीठधृक् ॥ १-२०६ ॥
रुद्राक्षं च तथा भस्म लिङ्गं शैवाभिधं शिवे ।
प्रसन्नात्मा शान्तचित्तो ब्रह्मचारी प्रकीर्तितः ॥ १-२०७ ॥
मतं श्रीबिन्दुमालिन्याः समाश्रित्य प्रतिष्ठितः ।
मुण्डी त्रिंशद्विधो देवि तारासूक्ते प्रकाशितः ॥ १-२०८ ॥
तत्र पाशुपताचारसम्पन्नो मुण्डितो भवेत् ।
त्रिजटैकजटाधारी तथा वक्रजटाधरः ॥ १-२०९ ॥
प्। ३१) नग्नस्तपस्वी शान्तात्मा देहक्लेशपरायणः ।
कर्मत्रितयसम्पन्नो जटी पाशुपतः स्मृतः ॥ १-२१० ॥
द्विदण्डी तु महेशानि वाङ्मनोदण्डसंयुतः ।
कायवाङ्मनसां दण्डी त्रिदण्डी परिकीर्तितः ॥ १-२११ ॥
मनोमात्रस्य दण्डी य एकदण्डी प्रकीर्तितः ।
केवलं शिवसम्पन्नः स्वस्य देवस्य निन्दकः ॥ १-२१२ ॥
वीरशैव इति ख्यातः, इति ।
अन्यत्र वैष्णवत्वेन प्रसिद्धास्त्रिदण्ड्यादयः शैवा अपि सम्भवन्तीति दर्शिताः ।
युगभेदेन मार्गभेदप्राधान्यमाह
रुद्रयामले
कृते श्रुत्युक्तमार्गः स्यात् त्रेतायां स्मृतिभाषितः ।
द्वापरे वै पुराणोक्तः कलावागमसम्भवः ॥ १-२१३ ॥
प्रधान इति शेषः ।
आगमस्य वेदाङ्गत्वमाह
मेरुतन्त्रे
न वेदः प्रणवं त्यक्त्वा मन्त्रो वेदसमन्वितः ।
तस्माद्वेदपरो मन्त्रो वेदाङ्गश्चागमः स्मृतः ॥ १-२१४ ॥
आगमशब्दार्थो,
रुद्रयामले
आगतः शिववक्त्रेभ्यो गतश्च गिरिजामुखे ।
मग्नस्तस्या हृदम्भोजे तस्मादागम उच्यते ॥ १-२१५ ॥
आगमस्य वेदाङ्गत्वेऽपि वैदिककौलिकयोर्विरोधमाह
प्। ३२) तत्रैव
कौलिकं कुर्वतः कर्म वैदिकं नाभिधीयते ।
विरोधा दुभयं नष्टं तस्मादेकपथा चरेत् ॥ १-२१६ ॥
वामदक्षिणमार्गयोरपि विरोधमाह
मेरुतन्त्रे
वाममार्गी यदा दक्षं प्रविशेत्तत्सुरैः स तु ।
विघ्न्यते पीड्यते चापि न सिद्धिमधिगच्छति ॥ १-२१७ ॥
दक्षमार्गी यदा वामं प्रविशेत्तत्सुरास्तथा ।
लोकद्वयाद्धापयन्ति तं ग्रसन्ति च वामिनम् ॥ १-२१८ ॥
तस्मात् स्वकुलमार्गं तु ज्ञात्वा कुर्यादुपासनाम् ।
उपासनाभेदास्तत्रैवोक्ताः
श्रीशिव उवाच ।
महाकालेन यत् प्रोक्तं यन्महामायया श्रुतम् ॥ १-२१९ ॥
रहस्यातिरहस्यं तत् सर्वमन्त्रेषु गोपितम् ।
आम्नायानां रहस्यं तदाह्निकं प्रोच्यतेऽधुना ॥ १-२२० ॥
शृण्वन्तु सर्वे भो देवाः साधकानां प्रसिद्धिदम् ।
तत्र नित्यं त्रिधा प्रोक्तं गुणत्रयविभेदतः ॥ १-२२१ ॥
अधिकारिविभेदेन तदपि त्रिविधं भवेत् ।
शुद्धं मिश्रं च गलितं तत्तथैव फलप्रदम् ॥ १-२२२ ॥
शुद्धं सम्पूर्णफलदं मिश्रं किञ्चित्फलप्रदम् ।
अकृते प्रत्यवायो न गलिते सत्फलं न च ॥ १-२२३ ॥
अहङ्कारविहीनं यन्मानसं ज्ञानपूर्वकम् ।
प्। ३३) स्वस्थचित्तेन यतिना कृतं तच्छुद्धमुच्यते ॥ १-२२४ ॥
तादृशं चेद् गृहस्थेन निर्द्रव्येणाथ वा कृतम् ।
रुग्णेन पथिकेनापि कारागृहगतेन वा ॥ १-२२५ ॥
भक्तितो वापि तन्मिश्रं बाह्यपूजाधिकारतः ।
शीतादिभीत्यादाविष्टसङ्क्षयादल्पकार्यतः ॥ १-२२६ ॥
स्त्र्यादेर्नियोगाद् गलितो गृहीतो मानसं मतम् ।
बाह्यपूजादिकं यच्च एकान्ते नियमेन च ॥ १-२२७ ॥
भक्त्या कृतं गृहस्थेन तच्छुद्धं राजसं मतम् ।
पूजार्थं यद्याचयित्वा श्रद्धाभक्ती विहाय वा ॥ १-२२८ ॥
लोकभीत्या देवभीत्या यत् तद्राजसमिश्रितम् ।
प्रतारणार्थं लोकानां याचितं देवनामतः ॥ १-२२९ ॥
द्रव्यं कृतं तद्वेषेण गलितं तत्तु राजसम् ।
वाममार्गं समाश्रित्य कौलं धर्मं विचार्य च ॥ १-२३० ॥
अन्यधर्मस्य चाद्वेषात् कृतं शुद्धं तु तामसम् ।
कृतं यत् कामतः कर्म वैदिकं पारलौकिकम् ॥ १-२३१ ॥
वाममार्गं समाश्रित्य मिश्रितं तत्तु तामसम् ।
जिह्वालोभेन यत् खानं पानं यत् कामतो रतम् ॥ १-२३२ ॥
अथवा मारणाद्यर्थं गलितं तत्तु तामसम् ।
शुद्धसत्त्वेन मोक्षः स्यात् स्वर्गः स्यान्मिश्रसत्त्वतः ॥ १-२३३ ॥
सिद्धिर्गलितसत्त्वात् स्यादैहिकी च मनुष्यता ।
स्वर्गः स्याद्राजसाच्छुद्धात् कामः स्यान्मिश्रराजसात् ॥ १-२३४ ॥
गलिताद्राजसात् तिर्यग्योनावपि सुखं भवेत् ।
प्। ३४) सात्त्विकात्तामसाद्देवयोनित्वं प्राप्नुयान्नरः ॥ १-२३५ ॥
मिश्रतामसतो दुःखी नारकी चान्ततामसात् ।
कर्म पञ्चविधं प्रोक्तं पञ्चधा मुक्तिदायकम् ॥ १-२३६ ॥
प्रसर्पण१मुपादान२मिज्या३ऽध्याय४स्तथा भुवि ।
सम्मार्जनोपलेपादिसंस्कारा देवमन्दिरे५ ॥ १-२३७ ॥
भक्त्यार्चनं सर्पणं स्याद्देवसालोक्यकारकम् ।
पूजासाधनसामग्र्या मेलनं भक्तसेवनम् ॥ १-२३८ ॥
तत्प्रीतिः स्यादुपादानं देवतारूपदायकम् ।
पीठपूजनपूर्वं यत् षोडशाद्युपचारकैः ॥ १-२३९ ॥
मूर्त्तेर्यन्त्रेऽथवा पूजा सेज्या सामीप्यकारिका ।
तच्छास्त्राध्ययनं सम्यक् कृत्वा मन्त्रार्थभावनम् ॥ १-२४० ॥
कृत्वा जपः स्यात् स्वाध्यायो देवसायुज्यकारकः ।
गुरुदेवात्मकालानां सम्यगैक्यविभावनम् ॥ १-२४१ ॥
संयोगो देहलिङ्गस्य नाशकः कालयोगकृत् ।
अथ पथिकादिकर्तृकोपासना
तत्रैवोक्ता
अथापराह्णिकं वक्ष्ये तत् स्थानदशके भवेत् ॥ १-२४२ ॥
मार्गे१ प्रवासे२ दुर्गे३ च नान्नप्राप्तौ४ मनोभये५ ।
कारागृहे६ऽशुभे७ऽस्थाने८ चौरव्याघ्रादिजे भये९ ॥ १-२४३ ॥
परचक्रागमे१० कुर्याच्छौचाद्यं च यथा तथा ।
मन्त्रस्नानादिकं किञ्चित् कृत्वा मानसपूजनम् ॥ १-२४४ ॥
मनसा हृदयस्यान्तर्ध्यात्वा योगाख्यपीठकम् ।
प्। ३५) तत्रैव पृथिवीमध्ये पूजां देवस्य चाचरेत् ॥ १-२४५ ॥
यथा पुष्पादिभिः पूजा बहिर्देशे विधीयते ।
तथा हृद्यपि कर्त्तव्याः सर्वास्ताः प्रतिपत्तयः ॥ १-२४६ ॥
मनसा जठरे होम एतद्विपदि चाह्निकम् ।
अथ रोगार्तकर्तृकोपासना
तत्रैवोक्ता
अथातुराह्निकं वक्ष्ये नित्यं कष्टाधिकस्य तत् ॥ १-२४७ ॥
यदि लङ्घनपर्यन्तो व्याधिरात्मनि दृश्यते ।
तदा पूजा न कर्तव्या स्थण्डिले प्रतिमासु च ॥ १-२४८ ॥
न स्नानं दन्तकाष्ठं वा कुर्याद्धोममथापि वा ।
रविमण्डलमालोक्य प्रतिमामथवा पुनः ॥ १-२४९ ॥
मूलमन्त्रं सकृज्जप्त्वा पुष्पं साक्षतमुत्सृजेत् ।
श्रान्तो व्याधिभिरत्युग्रैर्जरसा चेन्द्रियच्युतः ॥ १-२५० ॥
निजसामयिकैर्वापि स्वकर्तव्यं समापयेत् ।
रुङ्निवृत्तस्ततः स्नात्वा पूजयित्वाग्निदेवताः ॥ १-२५१ ॥
गुरून् विप्रांस्तदग्रे च वाक्यमेतदुदीरयेत् ।
एतावत्कालविच्छिन्ना पूजा, युष्मत्प्रसादतः ॥ १-२५२ ॥
न दोषोऽस्विति सम्प्रार्थ्य पुनः पूर्ववदाचरेत् ।
यस्तु रोगवशाद्दोषो जातस्तत्क्षालनं चरेत् ॥ १-२५३ ॥
जपेन वाथ दानेन होमेन ध्यानतोऽपि वा ।
अथ सूतकिकर्तृकोपासना
तत्रैवोक्ता
अथ सूतकिनो नित्यं वैदिकं तु स्मृतीरितम् ॥ १-२५४ ॥
प्। ३६) कृत्वा तान्त्रिकपूजादि मनसैव समाचरेत् ।
कामनार्थं प्रयोगश्चेत् तदा पूर्ववदाचरेत् ॥ १-२५५ ॥
मृतगेहं परित्यज्य वामाचारेण सूतके ।
स्पृहां हित्वा ज्ञानपूर्वं कुलजो धर्ममागतम् ॥ १-२५६ ॥
यः पालयेद्वामधर्मं देवता तु स जायते ।
अथ महाभये आपतिते पूजासामग्र्यभावे वा यत्कर्तव्यं तदाह
सन्त्रस्तेन न चेल्लब्धमर्घ्यपात्रादि साधनम् ॥ १-२५७ ॥
पूजोदकेन कर्तव्या, तोयं चेन्नैव विद्यते ।
तदा सम्पूजयेद्देवं भावनाकुसुमादिभिः ॥ १-२५८ ॥
भक्तिः श्रद्धा भावना च पूजानां जीव उच्यते ।
जडाह्निकमाह
जडानामाह्निकं वक्ष्ये तथा सङ्क्षेपकर्मणि ॥ १-२५९ ॥
रत्नमण्डप१धर्मादिचतुष्क२मुरगा३ऽम्बुजम् ।
मूल५ मूर्ति६ षडङ्गानि७ तेषां पूजा विधीयते ॥ १-२६० ॥
एतन्न्यासक्रमेणैव स्पृशेदङ्गानि नित्यशः ।
सर्वेषामपि वस्तूनामलाभे भावनैव हि ॥ १-२६१ ॥
निर्मलेनोदकेनैव पूजयेत् स्थिरमानसः ।
सामान्यतस्त्रिधा पूजा सोत्तमा१ मध्यमा२ऽधमा३ ॥ १-२६२ ॥
अधिकारिनिमित्ताभ्यां भिद्यते शतधा पुनः ।
योगोपकरणैः कृत्स्नैः क्रियमाणोत्तमा मता ॥ १-२६३ ॥
यथालब्धैर्विनिष्पाद्या द्रव्यैः पूजा तु मध्यमा ।
पत्रपुष्णाम्बुनिष्पाद्या पूजा चाधमसञ्ज्ञका ॥ १-२६४ ॥
प्। ३७) विहिताखिलवेदोक्तैर्ब्रह्मर्षिभिरकल्मषैः ।
क्रियमाणा तु या पूजा सात्त्विकी सा विमुक्तिदा ॥ १-२६५ ॥
राजर्षिभिस्तपोनिष्ठैर्भगवत्तत्त्ववेदिभिः ।
या पूजा क्रियते सम्यग्राजसी सा सुखप्रदा ॥ १-२६६ ॥
स्त्रीबालवृद्धमूर्खाद्यैर्भक्तैरक्षुब्धमानसैः ।
या पूजा क्रियते नित्यं तामसी सा प्रकीर्तिता ॥ १-२६७ ॥
अरण्ये स्वल्पकामानां सिद्ध्यर्थं पूजनं स्मृतम् ।
निष्कामानां गृहस्थानां हितं गेहे तु पूजनम् ॥ १-२६८ ॥
कदा चिदपि न त्याज्यो वेदमार्गो द्विजैः सदा ।
वेदच्युतानां विप्रत्वं देवत्वं चापि दुर्लभम् ॥ १-२६९ ॥
तथा
उपासना त्रिधा प्रोक्ता श्रेष्ठा तत्र तु सात्त्विकी ।
तस्यां च मानसौ पूजाजपौ मुख्यतमौ स्मृतौ ॥ १-२७० ॥
राजसो दक्षिणो मार्गः प्रतिमायां प्रपूजनम् ।
बाह्योपचारैः पुष्पाद्यैस्तदाद्यानां विशिष्यते ॥ १-२७१ ॥
तामसोपासनं प्रोक्तं पीठादौ बलिदानतः ।
वाममार्गेण तच्चाद्यं वर्णं हित्वा प्रशस्यते ॥ १-२७१ ॥
एषा व्यवस्था सम्प्रोक्ता वामदक्षिणयोः परा ।
उपासना द्विधा प्रोक्ता सकामाकामविश्रुता ॥ १-२७२ ॥
मोक्षबीजं तु निष्कामा सकामा भवबीजकम् ।
उपासनायां च गुरूपदेशं विनानधिकारित्वमाह
प्। ३८) तत्रैव
द्विजानामनुपनीतानां स्वकर्माध्ययनादिषु ॥ १-२७३ ॥
तथा चादीक्षितानां च मन्त्रदेवार्चनादिषु ।
नाधिकारोऽस्त्यतः कुर्यादात्मानं मन्त्रसंस्कृतम् ॥ १-२७४ ॥
मन्त्रमुक्तावल्याम्
जपो देवार्चनविधिः कार्यो दीक्षान्वितैर्नरैः ।
तथा गौरीयामले
यदृच्छया श्रुतं मन्त्रं छद्मनाथ बलेन च ॥ १-२७५ ॥
पत्रे स्थितं तु गाथावत् प्रजप्तमपि निष्फलम् ।
योगिनीतन्त्रे
अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः ॥ १-२७६ ॥
न भवेत्तु फलं तेषां शिलायामुप्तबीजवत् ।
महाकालसंहितायामपि
न शास्त्रमालोक्य वदेन्नाचरेन्न जपेदपि ॥ १-२७७ ॥
न पश्येन्नोपदिश्याच्च न कुर्यान्नैव साधयेत् ।
गुरूपदेशतो लब्धे जपन्यासार्चनादिके ॥ १-२७८ ॥
पश्चात्तत्साधयेत्सर्वं सदा तद्भवभावितः ।
दीक्षाया आवश्यकत्वमाह
रुद्रयामले
यस्य दीक्षा शिवे नास्ति जीवनान्तं च जन्मिनः ॥ १-२७९ ॥
स जातु नोत्तरेद्देवि निरयाम्बुनिधेः क्वचित् ।
दीक्षाहीनस्य देवेशि पशोः कुत्सितजन्मनः ॥ १-२८० ॥
प्। ३९) पापौघोऽन्तिकमायाति पुण्यं दूरं पलायते ।
तस्माद्यत्नेन दीक्षैषा ग्राह्यो कृतिभिरुत्तमा ॥ १-२८१ ॥
दत्तात्रेययामले
अथ दीक्षाविहीनो यो वर्त्तते भुवि पापभुक् ।
मोहान्धकारे नरके गर्ते पतति दुःखितः ॥ १-२८२ ॥
अनीश्वरस्य मर्त्यस्य नास्ति त्राता यथा भुवि ।
तथा दीक्षाविहीनस्य नेह स्वामी परत्र च ॥ १-२८३ ॥
आगमकल्पद्रुमे
उपचारसहस्रैस्तु योजितां भक्तिसंयुताम् ।
अदीक्षितार्चनां देवा न गृह्णन्ति कदाचन ॥ १-२८४ ॥
कर्माखिलं वृथा यस्मात् तस्मात् पशुरदीक्षितः ।
मत्स्यसूक्ते
अदीक्षितानां मर्त्यानां शृणु देवि महेश्वरि ॥ १-२८५ ॥
अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् ।
तत्कृतं तस्य वा श्राद्धं सर्वं संयात्यधोगतिम् ॥ १-२८६ ॥
दीक्षामाहात्म्यमाह
कुलार्णवे
उपपातकलक्षाणि महापातककोटिकाः ।
क्षणाद्दहति देवेशि दीक्षा हि विधिना कृता ॥ १-२८७ ॥
रुद्रयामले
दीक्षितो ब्राह्मणो याति ब्रह्मलोकं सुधामयम् ।
प्। ४०) ऐन्द्रं लोकं क्षत्रियोऽपि प्राजापत्यं विशस्तथा ॥ १-२८८ ॥
याति गन्धर्वनगरं शूद्रो दीक्षाप्रसादतः ।
दीक्षां विना न मोक्षः स्यात् प्राणिनां शिवशासनात् ॥ १-२८९ ॥
सा च न स्याद्विनाचार्यमित्याचार्यपरम्परा ।
वैशम्पायनसंहितायाम्
सर्वसिद्धिकरी दीक्षा सर्वसम्पत्प्रदायिनी ॥ १-२९० ॥
प्रतिमास्वरवर्णानि कान्तिपुष्टिधनानि च ।
मोहनस्तम्भनाकृष्टिमारणोच्चाटनानि च ॥ १-२९१ ॥
वशीकारं च कवितां बुद्धिं वै धारणायुताम् ।
तारणं च समुद्रस्य वह्नेः शैत्यं रणे जयम् ॥ १-२९२ ॥
विपिने चाभयं चैव शोकदुःखापहं तथा ।
धर्मार्थकाममोक्षांश्च ददात्येषा न संशयः ॥ १-२९३ ॥
दीक्षाशब्दार्थ उक्तो
रुद्रयामले
दिव्यज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् ।
तेन दीक्षेति लोकेऽस्मिन् कीर्तिता मन्त्रपारगैः ॥ १-२९४ ॥
मेरुतन्त्रे
दीयते ज्ञानविज्ञानं क्षीयन्ते पापराशयः ।
तेन दीक्षेति हि प्रोक्ता प्राप्ता चेत् सद्गुरोर्मुखात् ॥ १-२९५ ॥
असद्गुरुः स्वयं नष्टः कथं तारयते परम् ।
आगमसारे
गुरोर्मुखान्महाविद्यां गृह्णीयात् पापनाशिनीम् ॥ १-२९६ ॥
तस्माद्यत्नाद् गुरुं कृत्वा मन्त्रसाधनमाचरेत् ।
प्। ४१) (चामुण्डातन्त्रे)
उपविद्यासु सर्वासु षट्कर्मादिप्रसाधने ॥ १-२९७ ॥
नात्र दीक्षाद्यपेक्षास्ति नात्राङ्गादिप्रपूजनम् ।
उपविद्या यक्षिण्याद्याः । षट्कर्मादिसाधनमन्त्राश्च महामन्त्रातिरिक्ताः साधनमन्त्राः । अत्र दीक्षापदं क्रियावत्यादिदीक्षापरम् । उपदेशदीक्षा तु सर्वत्रावश्यकी ।
पुस्तके लिखितो मन्त्रो येन सुन्दरि जप्यते ॥ १-२९८ ॥
न तस्य जायते सिद्धिर्हानिरेव पदे पदे ।
गुरुमुख्याः क्रियाः सर्वा भुक्तिमुक्तिफलप्रदाः ॥ १-२९९ ॥
गुर्वनुक्ताः क्रियाः सर्वा निष्फलाः स्युर्यतो ध्रुवम् ।
इत्यादिवचनात् ॥ न च
शास्त्राद्वा गुरुवक्त्राद्वा ज्ञात्वा मन्त्रं प्रसाधयेत् ॥ १-३०० ॥
इति वचनात् पुस्तकादपि मन्त्रज्ञानं सिद्धिजनकमिति वाच्यम् । गुरोर्गृहीतमन्त्रः साधको मन्त्रसाधनप्रकारं शास्त्राद्गुरु-मुखाद्वा ज्ञात्वा मन्त्रं साधयेदित्यस्यैव तदर्थत्वात् ॥
मन्त्रपदार्थमाह (पिङ्गलामते)
मननाद्विश्वविज्ञानं त्राणं संसारबन्धनात् ।
यतः करोति संसिद्धिं मन्त्र इत्युच्यते ततः ॥ १-३०१ ॥
मन्त्रमाहात्म्यमाह (मेरुतन्त्रे)
मन्त्र एवेश्वरः साक्षान्मन्त्र एव महौषधम् ।
नहि मन्त्रात् परं कश्चित् सर्वसिद्धिप्रदायकः ॥ १-३०२ ॥
तत्रैव-
साधकानां फलं दातुं तत्तद्रूपं धृतं सुरैः ।
मुख्यस्वरूपं तेषां तु मन्त्रा एव न चेतरत् ॥ १-३०३ ॥
प्। ४२) (सारसङ्ग्रहे)
यथा देवे तथा मन्त्रे यथा मन्त्रे तथा गुरौ ।
यथा गुरौ तथा स्वात्मन्येवं भक्तिक्रमः स्मृतः ॥ १-३०४ ॥
गुरुमाहात्म्यमाह (रुद्रयामले)
गुरुरेव परो मन्त्रो गुरुरेव परो जपः ।
गुरुरेव परा विद्या नास्ति किञ्चिद्गुरुं विना ॥ १-३०५ ॥
यस्य तुष्टा गुरुर्देवि तस्य तुष्टा महेश्वरी ।
येन सन्तोषितो देवि गुरुः स हि सदाशिवः ॥ १-३०६ ॥
तस्माद्गुरुं भजेद्भक्त्या तोषयेत् सततं गुरुम् ।
गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्त्तते ॥ १-३०७ ॥
कर्णौ तत्र पिधातव्यौ यद्वा दूरं पलायनम् ।
(ब्रह्मवैवर्त्ते)
यैः शिष्यैः शश्वदाराध्या गुरवो ह्यवमानिताः ॥ १-३०८ ॥
पुत्रमित्रकलत्रादिसम्पद्भ्यः प्रच्युता हि ते ।
ये गुरुद्रोहिणो मूढाः सततं पापकारिणः ॥ १-३०९ ॥
तेषां तु यावत् सुकृतं दुष्कृतं स्यान्न संशयः ।
प्रातिकूल्यं गुरोर्नित्यं मनसा वन्दनं चरेत् ॥ १-३१० ॥
सदाशिवधिया नित्यमेकग्रामनिवासिनम् ।
गुरुं वन्देत चेद्दूरे मनसा वन्दनं चरेत् ॥ १-३११ ॥
ब्रह्मविष्णुशिवादीनां पूजने यत् फलं भवेत् ।
तत् फलं समवाप्नोति प्रत्यहं वन्दने गुरोः ॥ १-३१२ ॥
अविद्यो वा सविद्यो वा गुरुरेव तु दैवतम् ।
प्। ४३) अमार्गस्थोऽथ मार्गस्थो गुरुरेव परा गतिः ॥ १-३१३ ॥
यथा सिद्धरसस्पर्शात् ताम्रं भवति काञ्चनम् ।
सन्निधाने गुरोरेवं शिष्यः शिवमयो भवेत् ॥ १-३१४ ॥
तथा-
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
तस्मान्मन्येत् सततं पितुरप्यधिकं गुरुम् ॥ १-३१५ ॥
(वसन्तललितभैरव्याम्)
दिव्यज्ञानोपदेष्टारं दैशिकं परमेश्वरम् ।
पूजयेत् परया भक्त्या तस्याज्ञां नैव लङ्घयेत् ॥ १-३१६ ॥
यथा गुरुस्तथैवेशो यथैवेशस्तथा गुरुः ।
पूजनीयावुभौ भक्त्या न भेदो विद्यते तयोः ॥ १-३१७ ॥
नो द्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् ।
अद्वैतं भावयेद्भक्त्या गुरुमीशः स जायते ॥ १-३१८ ॥
अन्यत्रापि
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
तस्मात् सर्वप्रयत्नेन गुरुमेव प्रसादयेत् ॥ १-३१९ ॥
(मेरुतन्त्रे)
घृणा१ शङ्का२ भयं३ लज्जा४ जुगुप्सा५ चेति पञ्चमी ।
कुलं६ शीलं७ तथा शक्ति८रष्टौ पाशाः प्रकीर्तिताः ॥ १-३२० ॥
पाशबद्धः पशुः प्रोक्तः पाशमुक्तः सदाशिवः ।
तस्मात् पाशहरो योऽत्र स गुरुर्नान्य उच्यते ॥ १-३२१ ॥
तथा-
शङ्कया भक्षितं सर्वं त्रैलोक्यं सचराचरम् ।
सा शङ्का भक्षिता येन स गुरुर्दुर्लभः क्षितौ ॥ १-३२२ ॥
प्। ४४) (कुलरत्नावल्याम्)
अत्रिनेत्रं शिवः साक्षादचतुर्बाहुरच्युतः ।
अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ १-३२३ ॥
सदाशिवस्य देवस्य श्रीगुरोरपि पार्वति ।
उभयोरन्तरं नास्ति यः करोति स पातकी ॥ १-३२४ ॥
यथा घटश्च कलशः कुम्भश्चैकार्थवाचकाः ।
तथा देवश्च मन्त्रश्च गुरुश्चैकार्थ उच्यते ॥ १-३२५ ॥
न गुरोः सदृशं वस्तु न देवः शङ्करोपमः ।
न च कौलात् परो योगो न विद्या कालिकासमा ॥ १-३२६ ॥
(मेरुतन्त्रे)
गुरुभक्तिविहीनस्य तपो विद्या व्रतं कुलम् ।
व्यर्थं सर्वं शवस्येव नानालङ्कारभूषणम् ॥ १-३२७ ॥
गुरुशब्दार्थमाह (आगमसारे)
गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः ।
उकारः शिव इत्युक्तस्त्रितयात्मा गुरुः परः ॥ १-३२८ ॥
दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम् ।
कृतज्ञं पापभीतं च साधुसज्जनसङ्गमम् ॥ १-३२९ ॥
आस्तिकं दानशीलं च सर्वभूतहिते रतम् ।
गुरुलक्षणम् (कुलार्णवे)
श्रीगुरुः परमेशानि शुद्धवर्णो मनोहरः ॥ १-३३० ॥
सर्वलक्षणसम्पन्नः सर्वावयवशोभितः ।
सर्वागमार्थतत्त्वज्ञः सर्वमन्त्रप्रधानवित् ॥ १-३३१ ॥
लोकसम्मोहनाकारो देववत्प्रियदर्शनः ।
प्। ४५) इङ्गताकारचेष्टाभि र्दूरतः कृतदुर्जनः ॥ १-३३२ ॥
अन्तर्मुखो बहिर्दृष्टिः सर्वज्ञो देशकालवित् ।
आज्ञासिद्धस्त्रिकालज्ञो निग्रहानुग्रहक्षमः ॥ १-३३३ ॥
वेदवेदाङ्गविच्छान्तः सर्वजीवदयापरः ।
स्वाधीनेन्द्रियसञ्चारः षड्वर्गविजयक्षमः ॥ १-३३४ ॥
अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् ।
निर्मलो नित्यसन्तुष्टो निर्द्वन्द्वो नित्यशक्तिमान् ॥ १-३३५ ॥
सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्ववाक् ।
भक्तिप्रियः सर्वसमो दयालुः शिष्यशासिता ॥ १-३३६ ॥
स्वेष्टदेवगुरुः प्राज्ञो वनितापूजनोत्सुकः ।
नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते ॥ १-३३७ ॥
रागद्वेषभयक्रोधदम्भाहङ्कारवर्जितः ।
स्वविद्यानुष्ठानतपोविद्यानां च प्रकाशकः ॥ १-३३८ ॥
यदृच्छालाभसन्तुष्टो गुणदोषविभेदकः ।
स्त्रीधनादिष्वनासक्तो दुःसङ्गव्यसनोञ्झितः ॥ १-३३९ ॥
अलोलुपोऽहिंस्रकश्चापक्षपाती विचक्षणः ।
वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी ॥ १-३४० ॥
निःसङ्कल्पो निर्विकल्पो निर्णीतात्मातिधार्मिकः ।
तुल्यनिन्दास्तुतिर्मौनी निरपेक्षो नियामकः ॥ १-३४१ ॥
इत्यादिलक्षणोपेतः कथितः श्रीगुरुः प्रिये ।
अथ निषिद्धगुरुलक्षणम् (तत्त्वसारे)
बह्वाशी दीर्घसूत्री च विषयादिषु लोलुपः ॥ १-३४२ ॥
हेतुवादरतो दुष्टो वाग्वादी गुरुनिन्दकः ।
प्। ४६) अरोमा बहुरोमा च निन्दिताश्रमसेवकः ॥ १-३४३ ॥
कालदन्तोऽसितोष्ठश्च दुर्गन्धिश्वासवाहकः ।
दुष्टलक्षणसम्पन्नो यद्यपि स्वयमीश्वरः ॥ १-३४४ ॥
बहुप्रतिग्रहासक्त आचार्यः श्रीक्षयावहः ।
अथ शिष्यलक्षणम् (कुलार्णवे)
सच्छिष्यं तं कुलेशानि सर्वलक्षणसंयुतम् ॥ १-३४५ ॥
शमादिसाधनोपेतं गुणशीलसमन्वितम् ।
शुद्धदेहान्ववायज्ञं धार्मिकं शुद्धमानसम् ॥ १-३४६ ॥
विश्वासविनयोपेतं वित्तशाठ्यविवर्जितम् ।
असाध्यसाधकं शूरं बलकान्तिसमन्वितम् ॥ १-३४७ ॥
अनुकूलक्रियायुक्तमप्रमत्तं विचक्षणम् ।
हितसत्यमितस्निग्धभाषिणं मुक्तदूषणम् ॥ १-३४८ ॥
सकृदुक्तगृहीतार्थं चतुरं बुद्धिविस्तरम् ।
गृहमत्यासवोत्सङ्ग निर्विकारमसेवकम् ॥ १-३४९ ॥
विमृश्यकारिणं वीरं मनोदारिद्र्यवर्जितम् ।
सर्वकार्यातिकुशलं धीरं सर्वोपकारकम् ॥ १-३५० ॥
अत्यर्थं परनिन्दायां विमुखं सुमुखं प्रिये ।
जितेन्द्रियं सुसन्तुष्टं धीमन्तं ब्रह्मचारिणम् ॥ १-३५१ ॥
त्यक्ताधिव्याधिचापल्यं दुःशङ्कातङ्कवर्जितम् ।
गुरुध्यानस्तुतिकथासेवनाभजनोत्सुकम् ॥ १-३५२ ॥
गुरुदैवतभक्तं च कामिनी भजनोत्सुकम् ।
गुर्वाज्ञापालकं देवि गुरुकीर्तिप्रशंसकम् ॥ १-३५३ ॥
प्। ४७) गुरुवाक्यप्रमाणज्ञं गुरुशुश्रुषणे रतम् ।
चित्तानुवर्तिनं प्रेक्ष्यकारिणं कुलनायिके ॥ १-३५४ ॥
लज्जाभिमानगर्वादिवर्जितं गुरुसन्निधौ ।
निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम् ॥ १-३५५ ॥
गुरुध्यानादिनिरतं मोक्षमार्गाभिकाङ्क्षिणम् ।
इत्यादिलक्षणोपेतं गुरुः शिष्यं परिग्रहेत् ॥ १-३५६ ॥
कुत्सितशिष्यलक्षणं तत्रैव -
दुष्टान्ववायजं दुष्टं गुणहीनं विरूपितम् ।
परशिष्यं च पाखण्डं धूर्तं पण्डितमानिनम् ॥ १-३५७ ॥
हीनाधिकविकाराङ्गं विकलावयवान्वितम् ।
पङ्गुमन्धं च वधिरं मलिनं व्याधिपीडितम् ॥ १-३५८ ॥
उच्छिष्टं दुर्मुखं चापि स्वेच्छावेशधरं विटम् ।
दुर्भिदग्धं कुचेष्टं च कुटिलं भीमवीक्षणम् ॥ १-३५९ ॥
निद्रालस्ययुतं तन्द्राद्यूतादिव्यसनान्वितम् ।
कपाटकुड्यस्तम्भादौ तिरोहिततनुं सदा ॥ १-३६० ॥
शून्यमुक्तकरं क्षुद्रं श्रद्धाभक्तिविवर्जितम् ।
किमेकवादिनं स्तब्धं दूषकं चपलं शठम् ॥ १-३६१ ॥
धनस्त्रीशुद्धिरहितं निषेधविधिवर्जितम् ।
रहस्यभेदकं चापि वेदकार्यार्थघातकम् ॥ १-३६२ ॥
मार्जारबकवृत्तिं च रन्ध्रान्वेषणतत्परम् ।
मायान्वितं कृतघ्नं च प्रच्छन्नान्तरदायकम् ॥ १-३६३ ॥
प्। ४८) विश्वासघातक्तं देवद्रोहिणं पापकारिणम् ।
अविश्वासमविद्याङ्गमनर्थसिद्धिकाङ्क्षिणम् ॥ १-३६४ ॥
आततायिनमादित्सुं कुत्सितं कूटसाक्षिणम् ।
सर्वत्र याचकं देवि सर्वाकृष्टाभिगामिनम् ॥ १-३६५ ॥
असत्यनिष्ठं चासक्तं ग्राम्यादिबहुभाषिणम् ।
दुर्विचारवितर्कादिकारकं कलहप्रियम् ॥ १-३६६ ॥
वृथाक्षेपकरं भ्रान्तं भ्रामकं वाग्विडम्बकम् ।
परोक्षे दूषणकरं प्रत्यक्षे प्रियवादिनम् ॥ १-३६७ ॥
वाग्रुक्षवादिनं विद्याचौरमात्मप्रशंसकम् ।
गुणासहिष्णुं सद्भीतमतिक्रोधसमन्वितम् ॥ १-३६८ ॥
चार्वाकं दुर्जनसखं सर्वलोकविगर्हितम् ।
पिशुनं परसन्तापं सर्वप्राणिभयङ्करम् ॥ १-३६९ ॥
अक्लेशवादिनं मित्रद्रोहिणं भ्रातृवञ्चकम् ।
जिह्वोपस्थपरं देवि तस्करं पशुचेष्ठितम् ॥ १-३७० ॥
अकारणद्वेषहास्यक्लेशक्रोधादिकारिणम् ।
अतिहास्यस्य कर्तारं भ्रमान्तःपरिहासकम् ॥ १-३७१ ॥
कामुकं चाटिनिर्लज्जं मिथ्यादुश्चेष्टसूचकम् ।
असूयामदमात्सर्यदम्भाहङ्कारसंयुतम् ॥ १-३७२ ॥
ईर्ष्यापैशुन्यपारुष्यकार्पण्यक्रोधमानिनम् ।
अधीरं दुःखितं द्वेष्यमशक्तं तत्त्ववर्जितम् ॥ १-३७३ ॥
असिद्धकुमतिं मूढं चिन्ताकुलितमानसम् ।
तृष्णालोभयुतं दीनमतुष्टं सर्वयाचकम् ॥ १-३७४ ॥
प्। ४९) बह्वाशिनं कपटिनं भ्रामकं कुटिलं प्रिये ।
भक्तिश्रद्धादयाशान्तिधर्माचारविवर्जितम् ॥ १-३७५ ॥
मातापितृगुरुप्राज्ञमहतां हास्यकारकम् ।
कुलद्रव्यादिवीभत्सं गुरुसेवाभिमानिनम् ॥ १-३७६ ॥
स्त्रीदुष्टं समयभ्रष्टं गुरुशप्तं महेश्वरि ।
इत्यादिविगुणोपेतं गुरुः शिष्यं परित्यजेत् ॥ १-३७७ ॥
स्नेहाद्वा लोभतो वापि यदि गृह्णाति दीक्षयेत् ।
तस्मिन् गुरौ सशिष्ये च देवताशाप आपतेत् ॥ १-३७७ ॥
तस्मादेवं विधं शिष्यं न गृह्णीयात् कदाचन ।
यदि गृह्णाति मोहेन तत्पापैः प्राप्यते गुरुः ॥ १-३७८ ॥
मन्त्रिपापं च राजानं पतिं जायाकृतं यथा ।
तथा शिष्यकृतं पापं प्रायो गुरुमपि स्पृशेत् ॥ १-३७९ ॥
ज्ञानेन कृपया वापि गुरुः शिष्यं परीक्षयेत् ।
संवत्सरं तदर्द्धं वा तदर्द्धं वा तदर्द्धतः ॥ १-३८० ॥
उत्तमानधमे कार्ये नीचानुत्तमकर्मणि ।
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समागमैः ॥ १-३८१ ॥
तन्मर्मसूचकैर्वाक्यैर्मायाभिः क्रूरचेष्टितैः ।
पक्षपातैरुदासीनैरनेकैश्च मुहुर्मुहुः ॥ १-३८२ ॥
आहृष्टः पीडितश्चापि यो विषादं न याति च ।
गुरुः कृपां करोतीति मुदा संवेदयेत् सदा ॥ १-३८३ ॥
श्रीगुरुस्मरणे वापि कीर्त्तने चापि वन्दने ।
परिचर्यायामाह्वाने प्रेषणेऽन्वेषणे प्रिये ॥ १-३८४ ॥
प्। ५०) आनन्दकम्परोमाञ्चस्वरनेत्रादिविक्रिया ।
येषां स्यात् ते न योग्याः स्युर्मन्त्रसिद्धिरपीश्वरि ॥ १-३८५ ॥
(मन्त्रमुक्तावल्याम्)
तयोर्वत्सरमात्रेण ज्ञातान्योन्यं भविष्यति ।
गुरुता शिष्यता वापि नान्यथेति विनिश्चयः ॥ १-३८६ ॥
(मेरुतन्त्रे)
धनार्थिनस्तु गुरवः शिष्याः सिद्ध्यर्थिनः कलौ ।
तस्मान्न चोभयोः सिद्धिर्देवतानां विडम्बनम् ॥ १-३८७ ॥
(लिङ्गागमे)
शिष्यश्च सद्गुरोर्मन्त्रं हृहीत्वा तं परित्यजेत् ।
गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवम् ॥ १-३८८ ॥
(रुद्रयामले)
गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता ।
गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् ॥ १-३८९ ॥
कौलिकेन पशोर्मन्त्रग्रहणे तु तत्परित्यागोऽपि देव्यागमे उक्तः ।
यदि दैवात् पशोर्विद्या लभ्यते कुलजैर्नरैः ।
द्विजं तु कौलिकं प्राप्य पुनर्विद्यामुपालभेत् ॥ १-३९० ॥
यो गृह्णाति पशोर्दीक्षां तस्याधिर्गात्रपीडनम् ।
भवत्येव न सन्देहो बन्धनं चैव वा भवेत् ॥ १-३९१ ॥
वटपत्रे लिखित्वा च तन्मन्त्रं श्रोतसि क्षिपेत् ।
सद्गुरुं वा समाश्रित्य गृह्णीयात् संस्कृतं मनुम् ॥ १-३९२ ॥
(कुलार्णवे)
श्रीगुरुं लक्षणोपेतं संशयच्छेदकारकम् ।
प्। ५१) लब्ध्वा ज्ञानप्रदं देवि न गुर्वन्तरमाश्रयेत् ॥ १-३९३ ॥
अनभिज्ञं गुरुं प्राप्य संशयाच्छेदकारकम् ।
शिष्यो गुर्वन्तरं गत्वा तद्दोषैर्नानुलिप्यते ॥ १-३९४ ॥
(शैवागमे)
गुरवो बहवः सन्ति कुमन्त्रौषधवेदिनः ।
निगमागमशास्त्रोक्तमन्त्रज्ञो दुर्लभो भुवि ॥ १-३९५ ॥
सुविज्ञश्चोद्धरेन्मूर्खं न मूर्खो मूर्खमुद्धरेत् ।
शिलां सन्तारयेन्नौर्हि किं शिलां तारयेच्छिला ॥ १-३९६ ॥
मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ १-३९७ ॥
(वाराहीतन्त्रे)
स्वनाम्ना न गुरुः कार्यो भार्या च मातृनामिका ।
अथोक्तलक्षणलक्षितस्यापि गुरोर्विशेषमाह । (रुद्रयामले)
वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शाक्तिके ॥ १-३९८ ॥
शैवः शाक्तोऽपि सर्वत्र दीक्षास्वामी न संशयः ।
व्युत्क्रमेण महेशानि मन्त्रसिद्धिर्भवेन्न हि ॥ १-३९९ ॥
न पत्नीं दीक्षयेद्भर्त्ता न पिता दीक्षयेत् सुताम् ।
न पुत्रं च तथा भ्राता भ्रातरं च न दीक्षयेत् ॥ १-४०० ॥
न पत्नीं दीक्षयेद्भर्तेति पशुकल्पे । वीरकल्पे तु -
वीराणां कौलिकानां च भर्ता दीक्षणमाचरेत् ।
भर्तुर्दीक्षाप्रदाने तु न दोषः कौलिकागमे ॥ १-४०१ ॥
शिवेन दीक्षा पूर्वं तु गौर्यै दत्ता शुभावहा- इत्युक्तम् ।
तथा-
पितुर्मन्त्रं न गृह्णीयात् तथा मातामहादपि ॥ १-४०२ ॥
प्। ५२) सोदराच्च कनिष्ठाद्वा वैरिपक्षाश्रितात् तथा ।
(गणेशविमर्षिण्याम्)
पितुर्दीक्षा यतेर्दीक्षा दीक्षा च वनवासिनः ॥ १-४०३ ॥
विविक्ताश्रमिणो दीक्षा सा न कल्याणदायिनी ।
(योगिनीतन्त्रे)
निर्वीर्यं हि पितुर्मन्त्रं तथा मातामहस्य च ॥ १-४०४ ॥
सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ।
प्रमादाद्वा तथाज्ञानात् पितृदीक्षां यदाचरेत् ॥ १-४०५ ॥
प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् ।
अत्र पितुरित्यनादरे षष्ठी तेन पित्रादिष्वभक्तिरूपोऽनादरोऽतिपरि-चयादिना यदि भवति तदा पुत्रादिना मन्त्रो न ग्राह्य इत्यर्थः । इति सुधार्णवकृतः ।
मत्स्यसूक्ते तु -
निर्वीर्यं हि पितुर्मन्त्रं शैवे शाक्ते न दुष्यति - इत्युक्तम् ॥ १-४०६ ॥
(ताराकल्पे)
कथमपि मनुमेतं प्राप्य शिष्याय कस्मै
निजकुलतिलकाय ज्येष्ठपुत्राय दद्यात् - इदं ताराविषयकम् । श्री विद्याविषयेऽपि न पितृदीक्षानिषेधः । तदुक्तं (श्रीक्रमे)
मनुर्विमृश्य दातव्यो ज्येष्ठपुत्राय धीमते ।
स्वीयमन्त्रग्रहणे तु गुरुविचारो न कर्तव्यः ।
स्वीयमन्त्रोपदेशे तु न कुर्याद्गुरुचिन्तनम् ॥ १-४०७ ॥ ॥
इति भैरवत्रन्त्रवचनात् ।
तथा च -
ब्रह्मणा कथितं पूर्वं वशिष्ठाय महात्मने ।
वसिष्ठोऽपि स्वपुत्राय मत्पित्रे दत्तवान् स्वयम् ॥ १-४०८ ॥
प्। ५३) प्रसन्नहृदयः स्वच्छः पिता मे करुणानिधिः ।
कुरुक्षेत्रे महातीर्थे सूर्यपर्वणि दत्तवान् ॥ १-४०९ ॥
इति विष्णुमन्त्रमधिकृत्य वैशम्पायनसंहितायां शौनकं प्रति व्यासवाक्याद्विष्णुमन्त्रेऽपि न पितृदीक्षानिषेधः ।
स तूपदेश्यः पुत्रश्च व्यत्ययी च सुतस्तथा ।
इति नारायणीयवचनादभक्तस्यैव पुत्रस्य पितृदीक्षानिषेधः । इति सम्प्रदायविदः । व्यत्ययी मन्त्रान्तरं दत्वा मन्त्रान्तरग्राहकः ।
(योगिनीतन्त्रे)
स्त्रियो दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता ॥ १-४१० ॥
साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया ।
सर्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता ॥ १-४११ ॥
गुरुयोग्या भवेत् सा हि विधवा परिवर्जिता ।
(वैशम्पायनसंहितायाम्)
स्वप्नलब्धं स्त्रिया दत्तं संस्कारेणैव सिद्ध्यति ॥ १-४१२ ॥
संस्कारश्च तत्रैव -
स्वप्नलब्धे च कलशे गुरोः प्राणान् निवेशयेत् ।
वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं कृतम् ॥ १-४१३ ॥
ततः सिद्धिमवाप्नोति विफलं त्वन्यथा भवेत् ।
सिद्धमन्त्रग्रहणे तु न कश्चिद्विचारः । तदुक्तं (शक्तियामले)
सिद्धमन्त्रो यदि भवेत् तदा पत्नीं सुदीक्षयेत् ॥ १-४१४ ॥
शक्तित्वेन वरारोहे न च सा पुत्रिका भवेत् ।
पिता तथाविधः पुत्र्यै तथा दीक्षां समाचरेत् ॥ १-४१५ ॥
भ्राता सिद्धमनुर्भूयात् गुरुर्भ्रातुस्तु शक्तितः ।
सिद्धमन्त्रो नरः सर्वमयोग्यं योग्यतां नयेत् ॥ १-४१६ ॥
प्। ५४) (महाकपिलपञ्चरात्रे)
न मन्त्रे चाधिकारोऽस्ति शूद्राणां नियमः परः ।
मन्त्राभावादमन्त्रेण भाषितं सर्वकर्म हि ॥ १-४१७ ॥
(सातातपसंहितायाम्)
यावन्त्यर्णानि मन्त्राणां स्त्रीशूद्रादेः प्रदापयेत् ।
तावत्यो ब्रह्महत्याः स्युः स्वयमाह प्रजापतिः ॥ १-४१८ ॥
इति वैदिकादिमन्त्रपरम् ॥
(भविष्योत्तरे)
ब्राह्मणा क्षत्रिया वैश्याः शूद्रा ये शुचयोऽमलाः ।
तेषां मन्त्राः प्रदेया वै न तु सङ्कीर्णवर्णिनाम् ॥ १-४१९ ॥
(देवीयामले)
स्वाहाप्रणवसंयुक्तं मन्त्रं शूद्रे ददद्द्विजः ।
शूद्रो निरयगामी स्याद्विप्रः शूद्रत्वमाप्नुयात् ॥ १-४२० ॥
(ब्रह्मपुराणे)
वैदिको मिश्रितो वापि विप्रादीनां विधीयते ।
तान्त्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥ १-४२१ ॥
(भागवते ११ स्कन्धे)
वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना मां समर्च्चयेत् ॥ १-४२२ ॥
(साम्बपुराणे)
श्रुतिभ्रष्टः श्रुतिप्रोक्तप्रायश्चित्ते भयं गतः ।
क्रमेण श्रुतिसिद्ध्यर्थं ब्राह्मणस्तं समाश्रयेत् ॥ १-४२३ ॥
पञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम् ।
वेदभ्रष्टान् समुद्दिश्य कमलापतिरुक्तवान् ॥ १-४२४ ॥
(आचारकुसुमावल्याम्)
ब्रह्मवीर्यसमुत्पन्नो ब्राह्मणीगर्भसम्भवः ।
प्। ५५) वेदोक्ताशेषसंस्कारसंस्कृतः सर्वदा शुचिः ॥ १-४२५ ॥
अधीतवेदवेदाङ्गो वेदान्तार्थविचक्षणः ।
त्रिकालविहितस्नानसन्ध्योपासनतर्पणः ॥ १-४२६ ॥
नित्यं सहस्रगायत्रीजापको वैश्वदेवकृत् ।
अग्निहोत्री सावधानो दैवे पैत्रे च कर्मणि ॥ १-४२७ ॥
स्वकर्मच्युतिभीतश्च भीतः कालव्यतिक्रमात् ।
प्रायश्चित्तेष्वभीतश्च सदाचारेषु सादरः ॥ १-४२८ ॥
गर्हिताचारविमुखः शान्तो दान्तः प्रसन्नधीः ।
इत्यादिलक्षणोपेतः कथितो वैदिको बुधैः ॥ १-४२९ ॥
एतदन्यब्राह्मणा ये वेदभ्रष्टाश्च ते मताः ।
वेदभ्रष्टद्विजातीनां मिश्रोऽध्वा सिद्धिदः कलौ ॥ १-४३० ॥
वेदोक्त एव मार्गः स्याद्वैदिकस्य द्विजस्य च ।
परित्यक्तश्रौतमार्गः पतितः कथ्यते द्विजः ॥ १-४३१ ॥
(नारदपञ्चरात्रे)
स्त्रीशूद्रेभ्यो मनुं दद्यात् स्वाहाप्रणववर्जितम् ।
(कुलार्णवे)
स्त्रीशूद्राणामयं मन्त्रो नमोऽन्तश्च सुखावहः ॥ १-४३२ ॥
एतज्ज्ञात्वा महेशानि चाण्डालानपि दीक्षयेत् ।
(याज्ञवल्क्यसंहितायाम्)
न वैदिकं जपेच्छूद्रः स्त्रियश्चैव कदाचन ॥ १-४३३ ॥
नमोऽन्तं शैवमन्त्रं वा वैष्णवं चेष्यते बुधैः ।
(मेरुतन्त्रे)
मोहाद्वा कामतः शूद्रः पुराणं संहितां स्मृतिम् ॥ १-४३४ ॥
पठन्नरकमाप्नोति पितृभिः सह पापकृत् ।
प्। ५६) यः शूद्रो बुद्धिपूर्वं तु शृणुयाच्छ्रावयेद्द्विजः ॥ १-४३५ ॥
वेदं तौ दुःखितौ स्तोऽस्मिन् भवेऽन्यत्र तु नारकौ ।
अधिकारमदाद्यस्तु धनस्य मदतोऽपि वा ॥ १-४३६ ॥
शूद्रस्तु शृणुयाद्वेदं स निर्वंशश्च निर्धनः ।
अज्ञानाच्चेच्छुतो वेदः श्रावितो वा द्विजन्मना ॥ १-४३७ ॥
प्राजापत्यत्रयं कृत्वा तौ द्वौ शुद्धौ भविष्यतः ।
भूतशुद्धितन्त्रोक्तानि तन्त्रचिन्तामणिलिखितवचनानि ।
प्रणवोच्चारणाद्धोमाच्छालग्रामशिलार्चनात् ॥ १-४३८ ॥
ब्राह्मणीगमनाच्चैव शूद्रश्चाण्डालतां व्रजेत् ।
शूद्रस्य प्रणवोच्चारं पुराणासम्मतं प्रिये ॥ १-४३९ ॥
तस्माद्यत्नेन कर्तव्यं तन्त्रोक्तं शूद्रजातिना ।
महाविद्याप्रभावेण शूद्रो वैश्यत्वमाप्नुयात् ॥ १-४४० ॥
प्रणवाद्यं महेशानि गृह्णीयुः शूद्रजातयः ।
एतद्दीक्षापरं तत्त्वं सुगोप्यं परमेश्वरि ॥ १-४४१ ॥
(रुद्रयामले)
प्रवृत्ते भैरवीतन्त्रे सर्वे वर्णा द्विजातयः ।
निवृत्ते भैरवी तन्त्रे सर्वे वर्णाः पृथक् पृथक् ॥ १-४४२ ॥
अत्र द्विजातय इति वर्णद्वयजाताः । कुण्डादय इति नागोजिभट्टाः ।
(सौत्रामणितन्त्रे)
मायाबीजं ब्राह्मणः स्याच्छ्रीबीजं क्षत्रियः स्मृतः ।
कामबीजं भवेद्वैश्यो वाग्भवं शूद्र ईरितः ॥ १-४४३ ॥
चतुर्बीजपरित्यक्तो मन्त्रः पौलस्त्यसञ्ज्ञकः ।
चतुर्बीजं ब्राह्मणानां क्षत्रियाणां त्रिबीजकम् ॥ १-४४४ ॥
बीजद्वयं तु वैश्यानां शूद्राणां त्वेकबीजकम् ।
प्। ५७) (ब्रह्मपुराणे)
ओङ्कारादिसमायुक्तं नमस्कारान्तमीरितम् ।
स्वनाम सर्वसत्त्वानां मन्त्र इत्यभिधीयते ॥ १-४४५ ॥
(यामले)
स्वताराराशिकोष्ठानामनुकूलान् भजेन्मनून् ।
शिष्यानुकूलं चक्रेभ्यो ज्ञात्वा दद्यान्मनुं गुरुः ॥ १-४४६ ॥
अथ चक्रविचारः । तदुक्तम् (भुवनेश्वरी तन्त्रे)
ताराशुद्धिर्वैष्णवानां कोशशुद्धिः शिवस्य च ।
राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः ॥ १-४४७ ॥
अकडमो वामनस्य गणेशे दन्तचक्रकम् ।
दन्तचक्रं वराहस्य महालक्ष्म्याः कुलाकुले ॥ १-४४८ ॥
नामादिचक्रे सर्वेषां भूतचक्रे तथैव च ।
दोषान् संशोध्य गृह्णीयाद्गुरुवाक्येन जल्पकः ॥ १-४४९ ॥
(वाराहसंहितायाम्)
ताराचक्रं राशिचक्रं नामचक्रं तथैव च ।
अत्र चेत् सगुणो मन्त्रो नान्यचक्रं विचारयेत् ॥ १-४५० ॥
अथ वक्ष्ये विचारोऽयं चक्राणां सिद्धिहेतवे ।
ततस्तु प्रथमं वक्ष्ये स्वकुलाकुलचक्रकम् ॥ १-४५१ ॥
कारणात् पञ्चभूतानामुद्भूता मातृका यतः ।
अतो भूतात्मका वर्णाः पञ्चपञ्चविभागतः ॥ १-४५२ ॥
वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्च ह्रस्वाः पञ्च दीर्घा विन्द्वन्ताः सन्धिसम्भवाः ॥ १-४५३ ॥
पञ्चशः कादयः षक्षलसहान्ताः समीरिताः ।
पञ्चपञ्चेति दशवर्णा इत्यर्थः । वाय्वग्निभूजलाकाशा इति । अ-आ-एकचटतपयषा मारुताः । इ-ई-र्-एखछठथफरक्षा आग्नेयाः । उ-ऊ-ओगजडदबललाः भौमाः ।
प्। ५८) ऋ-ॠ औघझढधभवसा जलीयाः । ऌ ॡ अङ्ङञणनमशहा नाभसाः । पञ्चह्रस्वा इति अ इ उ ऋ ऌ । पञ्चदीर्घा इति आ ई ऊ ॠ ॡ । विन्द्वन्ता इति विन्दुरन्ते यस्य तेन अम् इत्यर्थः । सन्धिसम्भवा इति ए ऐ ओ औ ।
स्वनामाद्यक्षराणां तु मित्रं वा स्वकुलं वरम् ॥ १-४५४ ॥
तद्यथा -
साधकस्याक्षरं पूर्वं मन्त्रस्यापि तथाक्षरम् ।
यद्येकभूतदैवत्यं जानीयात् स्वकुलं हि तत् ॥ १-४५५ ॥
मित्रमिति परस्परमैत्रम् । तदुक्तम् (दीपिकायाम्)
पार्थिवं वारुणं मैत्रमाग्नेयस्यापि मारुतम् ।
पार्थिवानामक्षराणां शत्रुत्वे मारुतं स्थितम् ॥ १-४५६ ॥
आग्नेयस्याम्भसं शत्रुरम्भसस्तैजसं स्मृतम् ।
एतेषामेव सर्वेषामविरोधि तु नाभसम् ॥ १-४५७ ॥
परस्परविरुद्धानां न कुर्यान्मेलनं सुधीः ।
उक्तं कुलाकुलं चक्रं समस्तपुरुषार्थकम् ॥ १-४५८ ॥
वायुः
अग्निः
भूः
जलम्
आकाशः
अ
इ
उ
ऋ
ऌ
आ
ई
ऊ
ॠ
ॡ
ए
ऐ
ओ
औ
अं
क
ख
ग
घ
ङ
च
छ
ज
झ
ञ
ट
ठ
ड
ढ
ण
त
थ
द
ध
ण
प
फ
ब
भ
ंअ
य
र
ल
व
श
ष
क्ष
ल
स
ःअ
इति कुलाकुलचक्रम् ।
प्। ५९) वक्ष्ये अकथहं चक्रं प्राग्लिखेच्चतुरस्रकम् ।
मध्ये रेखाद्वयं दद्यात् प्रागग्रमुदगग्रगम् ॥ १-४५९ ॥
चतुरस्रं भवेत् तत्र चतुष्कोष्ठसमन्वितम् ।
पूर्वापरायतं दद्यान्मध्ये रेखाद्वयं ततः ॥ १-४६० ॥
उदग्दक्षिणदीर्घं च दद्याद्रेखाद्वयं ततः ।
ततः षोडशकोष्ठाढ्यं जायते चक्रमुत्तमम् ॥ १-४६१ ॥
आदिक्षान्ता।ल्लिखेद्वर्णान् क्रमेणानेन मन्त्रवित् ।
इन्द्व१ग्नि३रुद्र११नव९नेत्र२युगा४ऽर्क१२दिक्षु१०
ऋत्व६ष्ट८षोडश१६चतुर्दश१४भौतिकेषु५ ।
पाताल७पञ्चदश१५वह्निहिमांशु१३कोष्ठे
वर्णा।ल्लिखेल्लिपिभवान् क्रमशस्तु धीमान् ॥ १-४६२ ॥
आदौ चतुश्चतुष्कोष्ठे सिद्धादीन् परिकल्पयेत् ।
प्रदक्षिणक्रमादेवं स्वनामाक्षरमाद्यतः ॥ १-४६३ ॥
सिद्धसाध्यसुसिद्धारिक्रमेण गणयेद्बुधः ।
सिद्धादीन् सिद्धिदः सिद्धो जपात् साध्यो हुतादिभिः ॥ १-४६४ ॥
सुसिद्धः प्राप्तिमात्रेण साधकं भक्षयेदरिः ।
सिद्धार्णा बान्धवा ज्ञेया साध्यास्ते सेवका मताः ॥ १-४६५ ॥
सुसिद्धाः पोषकाश्चैवं शत्रवो घातकाः स्मृताः ।
(पिङ्गलामते)
सिद्धः सिद्ध्यति कालेन साध्यस्तु जपहोमतः ॥ १-४६६ ॥
सुसिद्धो ग्रहणादेव शत्रुर्मूलानि कृन्तति ।
(मेरुतन्त्रे)
आदौ ज्ञेयं चतुष्केषु सिद्धाद्यं विदिशासु च ॥ १-४६७ ॥
प्। ६०) तत्स्थानसमकोष्ठात् तु पुनर्गण्यं गुरूक्तितः ।
(पिङ्गलामते)
सिद्धादीन् शोधयेन्मन्त्री पुनः सिद्धादिभिः स्मृतः ॥ १-४६८ ॥
सिद्धिसिद्धो जपात् सिद्धिर्द्विगुणात् सिद्धिसाध्यकः ।
सिद्धः सुसिद्धोऽर्धजपात् सिद्धारिर्हन्ति बान्धवान् ॥ १-४६९ ॥
साध्यसिद्धो द्विगुणकः साध्यसाध्यो निरर्थकः ।
साध्यसुसिद्धोऽर्धजपात् साध्यारिर्हन्ति गोत्रजान् ॥ १-४७० ॥
सुसिद्धसिद्धोऽर्धजपात् फलं दद्याद्यथेप्सितम् ।
सुसिद्धसाध्यं सततं जपात् सिद्धिर्न चान्यथा ॥ १-४७१ ॥
सुसिद्धसिद्धो यो मन्त्रः पूर्वजन्मकृतश्रमः ।
तस्मात् तं सर्वसिद्धीनां साधने योजयेन्मनुम् ॥ १-४७२ ॥
सुसिद्धारिर्विशेषेण स्वकुलं नाशयेद्ध्रुवम् ।
अरिसिद्धः सुतं हन्ति अरिसाध्यस्तु कन्यकाम् ॥ १-४७३ ॥
पत्नीमपि सुसिद्धस्तु अर्यरिर्मूलघातकः ।
अकथह
१
उङप
२
आखदक्ष
३
ऊचफ
४
ओडव
५
ऌझम
६
औढश
७
ॡञय
८
ईघन
९
ॠजभ
१०
इगध
११
ॠछब
१२
अः तस
१३
ऐठल
१४
अण्णष
१५
एटर
१६
प्। ६१) अथ ऋणिधनिचक्रम् । तत्र मन्त्राणां साधकानाम् ऋणित्वे धनित्वे च हेतुमाह (तन्त्रराजे)
पूर्वजन्मकृताभ्यासात् पापादस्याफलाप्तिकृत् ॥ १-४७४ ॥
पापे नष्टे फलावाप्तिः काले देहक्षयादृणी ।
मन्त्रसम्प्राप्तिमात्रेण प्राक् पूतः सिद्धये भवेत् ॥ १-४७५ ॥
सिद्धमन्त्रान् गुरोर्लब्ध्वा मन्त्री यत्सिद्धिभाग्नरः ।
लक्ष्मीवान् स सदा पूज्यो मन्त्रभोगमवाप्नुयात् ॥ १-४७६ ॥
स मन्त्रोऽस्य ऋणी ज्ञेयो भजनं तस्य पूर्वगम् ।
तस्मादृणविशुद्धिस्तु कार्या सर्वैस्तु सर्वतः ॥ १-४७७ ॥
तदुक्तम् (सुन्दरीरहस्यवृत्तौ)
पूर्वापरायतं लेख्यं रेखाद्वादशकं क्रमात् ।
क्रमेणैवात्र जायन्ते कोष्ठा एकादश क्रमात् ॥ १-४७८ ।
तेषु वर्णा।ल्लिखेन्मन्त्री स्वरादिक्रमयोगतः ।
द्वौ द्वौ स्वरौ पञ्चसु कोष्ठकेषु
शेषान् स्वरान् षट्सु षडेकमेकम् ।
कादीन् हशेषान् विलिखेत् ततोऽर्णा-
नेकैकमेकादशमात्रकेषु ॥ १-४७९ ॥
साध्याङ्कान् विलिखेदूर्ध्वे साधकाङ्कानधो लिखेत् ।
इन्द्र१४र्क्ष२७नेत्र२रवि१२पञ्चदश१५र्तु६वेद४-
वन्ह्या३युधा८ष्ट८नव९भिर्गुणिता।श्च साध्यान् ।
दि१०ग्भू१मुनि७श्रुति४गजा८ग्नि३मुनी७षु५वेद४-
ष६ड्वह्नि३भिश्च गुणितानथ साधकार्णान् ॥ १-४८० ॥
प्। ६२) साध्याङ्कान् साधकाङ्का।श्च पूरयेद्गृहसङ्ख्यया ।
नामाक्षरादकथहाद्गजभक्तशेषं
ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् ॥ १-४८१ ॥
मन्त्रो यद्यधिकाङ्कः स्यात् तदा मन्त्रं जपेत् सुधीः ।
समेऽपि च जपेन्मन्त्री न जपेत् तदृणाधिके ॥ १-४८२ ॥
(मेरुतन्त्रे)
ऋणी तु साधको ज्ञेयः साधकाङ्को यदाधिकः ।
यावत् स्यादधिकस्तावत्सङ्ख्याकानि यदाचरेत् ॥ १-४८३ ॥
पुरश्चरणसञ्ज्ञानि तदास्य समता भवेत् ।
पुरश्चर्यां पुनः कृत्वा तदा स्यात् कार्यसाधकः ॥ १-४८४ ॥
(सुन्दरीरहस्यवृत्तौ)
गुणिते तु कृतेऽङ्कानां यच्छेषं जायते स्फुटम् ।
तदङ्कं कथयाम्यत्र एकादशगृहस्थितम् ॥ १-४८५ ॥
षट्६काल६काल६विय०दग्नि३समुद्र४वेद४-
खा०ऽकाश० शून्य० दहानाः३ खलु साध्यवर्णाः ।
युग्म२द्वि२पञ्च५वियद०म्बर०युक्२शशाङ्क१-
व्योमा०ऽब्धि४ वेद४ शशिनः१ खलु साधकार्णाः ॥ १-४८६ ॥
नामाक्षरादकथहाद्गजभक्तशेषं
ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् ॥ १-४८६एफ़् ॥
प्। ६३)
१
२
३
४
५
६
७
८
९
१०
११
६
६
६
०
३
४
४
०
०
०
३
१४
२७
२
१२
१५
६
४
३
८
८
९
अ आ
इ ई
उ ऊ
ऋ ॠ
ऌ ॡ
ए
ऐ
ओ
औ
अम्
अः
क
ख
ग
घ
ङ
च
छ
ञ
झ
ञ
ट
ठ
ड
ढ
ण
त
थ
द
ध
न
प
फ
ब
भ
म
य
र
ल
व
श
ष
स
ह
१०
१
७
४
८
३
७
५
४
६
३
२
२
५
०
०
२
१
०
४
४
१
इति ऋणिधनिचक्रम् ।
अथ वर्गचक्रम् । तदुक्तम् (तन्त्रराजे)
मन्त्राणामरिशोधार्थं नामाद्यक्षरपूर्वकम् ।
अष्टौ कोष्ठान् समालिख्य वर्गानष्टौ लिखेत् ततः ॥ १-४८७ ॥
पक्षिमार्जारपञ्चास्यश्वानः सर्पाखुदन्तिनः ।
मेष क्रमादकारादिवसुवर्गयुता इमे ॥ १-४८८ ॥
पक्षिमार्जारयोर्वैरं वैरं मार्जारपक्षिणोः ।
वैरं पक्षिभुजङ्गानां शात्रवं गजसिंहयोः ॥ १-४८९ ॥
मेषकुक्कुरयोर्वैरं प्रीतिं युक्त्या विचारयेत् ।
भुजङ्गसिंहयोर्मैत्री मेषमूषकयोस्तथा ॥ १-४९० ॥
लोकादन्यच्च विज्ञेयं व्यवहारप्रयोगतः ।
एवं यन्त्रवरं ज्ञात्वा हृह्णीयान्मन्त्रमुत्तमम् ॥ १-४९१ ॥
तदुक्तम् (वाराही तन्त्रे)
मार्जारकुक्कुरव्यालैः पक्षिणां वैरिता भवेत् ।
प्। ६४) मार्जारस्य शुनाखुभ्यां सिंहस्य दन्तिना सदा ॥ १-४९२ ॥
कुक्कुरस्य खगौतुभ्यां खगाखुभ्यां च भोगिनः ।
उन्दुरस्योतुसर्पाभ्यां हरिणा सह दन्तिनः ॥ १-४९३ ॥
गरुत्मत्सर्पयोर्वैरं तथा च गजसिंहयोः ॥ १-४९३एफ़् ॥
अ १६
पक्षी
क ५
मार्जारः
च ५
सिंहः
ट ५
श्वा
त ५
नागः
प ५
आखुः
य ५
गज।ः
श ४
मेषः
इति वर्गचक्रम् ।
अथ राशिचक्रं तत्रैव-
सूत्रद्वयं पूर्वपरायतं तन्मध्ये द्वयं याम्यकुबेरभेदात् ।
एकैकमीशाननिशाचरे तु हुताशवाय्वोर्विलिखेत् ततोऽर्णान् ॥ १-४९४ ॥
वेदा४ऽग्नि३वह्नि३युगल२श्रवणा२सङ्ख्यान्
पञ्चे५षु५वाण५शर५पञ्च५चतुष्टया४न्तान् ।
मेषादितः प्रतिलिखेत् सकला।स्तु वर्णान्
कन्यागतान् प्रविलिखेदथ शाद्यवर्णान् ॥ १-४९५ ॥
(वाराही तन्त्रे)
वेदा४ग्नि३वह्नि३ युगल२श्रवण२ द्वि२वाण५-
वाणे५षु५वाणे५षु५पयोधि४सङ्ख्यान् ।
मेषादिकोष्ठेष्वभिलिख्य वर्णान्
षडेव शादीन् युवतौ लिखित्वा ॥ १-४९६ ॥
प्। ६५) यदाहुराचार्याः ।
चतुर्भिर्यादिभिः सार्धं स्यात् क्षकारस्तु मीनगः । इति ॥
एको वाप्यथ पञ्चमोऽथ नवमो राशेः स्वकाद्बान्धवो
राशेः स्याद्दशमो द्वितीयसहितः षष्ठो भवेत् सेवकः ।
रुद्राग्निस्वरसङ्ख्यया निगदितो मन्त्रः स्वयं पोषकः
स्याच्चेदष्टमवत्सरश्रुतिमितो मन्त्रः स्वयं घातकः ॥ १-४९७ ॥
लग्नो १धनं २भ्रातृ३शत्रु४पुत्र५मित्र६कलत्रकाः७ ।
मरणं८धर्म९कर्मा१०ऽय११ व्यया१२ द्वादश राशयः ॥ १-४९८ ॥
अत्र राशिचक्रे चतुर्थस्थानं शत्रुर्न तु बन्धुः । एवं षष्ठस्थानं बन्धुर्न च शत्रुरिति केचित् ।
अन्यच्च ।
जप्तुः स्वराशितो वर्ज्याः षष्ठाष्टरविगाः शुभाः ।
एकद्वित्रिचतुष्पञ्चसप्ताङ्कदशरुद्रगाः ॥ १-४९९ ॥
लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्मायव्यया द्वादश राशयः ॥ १-५०० ॥
नामानुरूपमेतेषां शुभाशुभफलं दिशेत् ।
स्वराशेर्मन्त्र पर्यन्तं गणनीयं विचक्षणैः ॥ १-५०१ ॥
राशीनां शुद्धता ज्ञेया त्यजेच्छत्रुमृती व्ययम् ।
तस्यायमुपदेशः ।
पूर्वपश्चिमायतं रेखाद्वयम् । दक्षिणोत्तरायतं रेखाद्वयम् । ईशानराक्षसकोणयो रेखाद्वयम् । अग्निवायव्यकोणयो रेखाद्वयम् । एवं रेखाष्टकम् । तत्कोष्ठेषु पञ्चाशद्वर्णान् मेषादितो वक्ष्यमाणक्रमेण लिखेत् ।
तद्यथा ।
अ आ इ ई मेषे । उ ऊ ऋ वृषे । ऋ ऌ ॡ मिथुने । ए ऐ कर्कटे । ओ औ सिंहे । अम् अः श ष स ह कन्यायाम् । क ख ग घ ङ तुलायाम् । च छ ज झ ञ वृश्चिके । ट ठ ड ढ ण धनुषि । त थ द ध न मकरे । प फ ब भ म कुम्भे । य र ल व क्ष मीने ।
प्। ६६)
उ ऊ ऋ २
ॠ ऌ ॡ ३
अ आ
इ ई
१
य र ल व
क्ष १२
प फ ब भ म ११
ए ऐ ४
त थ द ध न १०
ओ औ ५
अम् अः
श ष स ह ६
क ख ग
घ ङ
७
ट ठ ड
ढ ९
च छ ज
झ ञ ८
इति राशिचक्रम् ।
अथ नक्षत्रचक्रं तत्रैव ।
पूर्वापरायता रेखा दश देयाः प्रयत्नतः ॥ १-५०२ ॥
उदग्दक्षिणदीर्घा च देया रेखाचतुष्टयी ।
नवत्रितयसंयुक्ता कोष्ठानां सप्तविंशतिः ॥ १-५०३ ॥
जायते च तथा कुर्याल्लिखेद्वर्णा।स्तु तेषु च ॥
पक्षै२क१त्र्य३ब्धि४रूपा१वनि१भुज२शशि१यु२ग्युग्म२भू१युग्म२पक्षा२
युग्मै२क१द्वि२त्रि३रूप१त्र्य३वनि१शशि१शशि१द्व्ये२क१पक्षा२ग्नि३वेदाः४ ।
अश्विन्यादिक्रमेणाक्षरमिह गदितं शेषभे विन्दुसर्गौ
जप्तुर्नक्षत्रभूतादथ परिगणयेज्जन्मसम्पत्क्रमेण ॥ १-५०४ ॥
जन्म सम्पद्विपत् क्षेमः प्रत्यरिः साधको बधः ।
मैत्रातिमैत्रताराः स्युस्त्रिरावृत्त्या नवैव हि ॥ १-५०५ ॥
गणयेत् तत्क्रमादेव फलं नामानुरूपतः ।
जन्मर्क्षे च भवेद्धानिः सम्पत्तिः स्याच्च सम्पदि ॥ १-५०६ ॥
प्। ६७) विपत्तारे विपत्तिः स्यात् क्षेमे मङ्गलमादिशेत् ।
प्रत्यरौ शत्रुवृद्धिः स्यात् साधके सिद्धिसाधनी ॥ १-५०७ ॥
बधर्क्षेषु बधो ज्ञेयो मित्रर्क्षे मित्रवर्द्धनम् ।
अतिमित्रे भवेत् सौख्यं ताराचक्रमिति स्मृतम् ॥ १-५०८ ॥
विपद्बधः प्रत्यरिश्च परित्याज्यो मनीषिभिः ।
राश्यज्ञाने ।
निजनामादिकं वर्णमादाय पुरतः प्रिये ॥ १-५०९ ॥
मन्त्राद्यक्षरपर्यन्तं गणनीयाश्च सूरिभिः ।
इत्यविज्ञातराश्यादिविषयम् ।
तथा च ।
प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो बुधः ॥ १- ५१० ॥
प्रणष्टजन्मभं यस्य तस्य नामर्क्षतो बुधः ।
पिङ्गलामते ।
प्रायं२सोमं १गुणं३वेदं४रूपं१रूपं१यमं२शशि१ ॥ १- ५११ ॥
प्रायं२प्रायं२तथाचन्द्रं१त्रिप्रायम् सोम१युग्मकम्२ ।
गुणै३क१त्रि३गुणंसोमं यमाख्यं सोम१यु२ग्गुणम्३ ॥ १-५१२ ॥
वेदं४ चेति न्यसेदङ्का।स्तत्सङ्ख्यां च न्यसेल्लिपिम् ।
रसा६ष्टन८व९भद्राणि युग्मयुग्मप्रभेदतः ॥ १-५१३ ॥
इतराणि न भद्राणि ज्ञातव्यं मन्त्रकोविदैः ।
आरभ्य जन्मनक्षत्रं मन्त्रतारावसानिकम् ॥ १-५१४ ॥
प्। ६८)
अ आ
अश्विनी
देवः
इ
भरणी
मनुष्यः
ई उ ऊ
कृत्तिका
राक्षसः
ऋ ॠ ऌ ॡ
रोहिणी
मनुष्यः
ए
मृगशिराः
देवः
ऐ
आर्द्रा
मनुष्यः
ओ औ
पुनर्वसुः
देवः
क
पुष्यः
देवः
ख ग
आश्लेषा
राक्षसः
घ ङ
मघा
राक्षसः
च
पूर्वफा०
मनुष्यः
छ ज
उत्तरफा०
मनुष्यः
ञ्ह ञ
हस्तः
देवः
ट ठ
चित्रा
राक्षसः
ड
स्वाती
देवः
ढ ण
विशाखा
राक्षसः
त थ द
अनुराधा
देवः
ध
ज्येष्ठा
राक्षसः
न प फ
मूलम्
राक्षसः
ब
पूर्वाषा०
मनुष्यः
भ
उत्तराषा०
मनुष्यः
म
श्रवणा
देवः
यर
धनिष्ठा
राक्षसः
ल
शतभिषा
राक्षसः
वश
पूर्वभाद्रः
मनुष्यः
ष स ह
उत्तरभाद्रः
मनुष्यः
लक्ष अम् अः
रेवती
देवः
इति नक्षत्रचक्रम् ।
अथ गणचक्रम् (तत्रैव)
पूर्वोत्तरत्रयं पश्चाद्भरण्यार्द्राथ रोहिणी ।
इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥ १-५१५ ॥
प्। ६९) ज्येष्ठाशतभिषामूलधनिष्ठाश्लेषकृत्तिकाः ।
चित्रामघाविशाखाः स्युस्तारा राक्षसदैवताः ॥ १-५१६ ॥
अश्विनीरेवतीपुष्यस्वातीहस्ताः पुनर्वसुः ।
अनुराधामृगशिरःश्रवणा देवतारकाः ॥ १-५१७ ॥
अन्यच्च ज्योतिःशास्त्रे ।
दे- मा- रा- मा- दे- मा- दे- दे- रा- रा- मा- म- दे- रा- द- रा- ।
दे- रा- रा- म- म- दे- रा- रा- मा- मा- दे- गणभानि च ॥ १-५१८ ॥
तदुक्तम् (दीपिकायाम्)
हस्तस्वातिमृगाश्विनीहरिगुरुः पौष्णानुराधादिति-
रार्द्रारोहिणिकोत्तराणि भरणी पूर्वाणि भानि त्रयम् ।
ज्येष्ठाश्लेषविशाखमूलवरुणा वस्वग्निचित्रामघाः
कथ्यन्ते मुनिभिर्यथाक्रममिमे देवा नरा राक्षसाः ॥ १-५१९ ॥
इति गणचक्रम् ।
अथाकडमचक्रं तत्रैव ।
चक्रं वक्ष्येऽकडमाख्यं प्रसिद्धं सर्वसिद्धिदम् ।
मन्त्राणां ग्रहणे मन्त्री सर्वथा तं विचारयेत् ॥ १-५२० ॥
राशिचक्रं लिखेन्मन्त्री वर्णान् क्लीबविवर्जितान् ।
अकारादिक्षकारान्तान् विलिखेत् क्रमतः सुधीः ॥ १-५२१ ॥
आदिकोष्ठे यथा वर्णा जायन्तेऽकडमाः क्रमात् ।
विलिख्य गणयेज्जप्तुर्नामाद्यक्षरपूर्वकम् ॥ १-५२२ ॥
सिद्धसाध्यसुसिद्धारिक्रमेणैव पुनः पुनः ।
अन्यच्च ।
अकारादिक्षकारान्तं दक्षपार्श्वक्रमेण तु ॥ १-५२३ ॥
मेषादितोऽभिमीनान्तं गणयेत् क्रमतः सुधीः ।
प्। ७०) जप्तुः स्वनामतो मन्त्री यावन्मन्त्राद्यमक्षरम् ॥ १-५२४ ॥
सिद्धसाध्यसुसिद्धारिक्रमेणैव पुनः पुनः ।
सिद्धः सिद्ध्यति कालेन साध्यः सिद्ध्यति वा न वा ॥ १-५२५ ॥
सुसिद्धो ग्रहणादेव रिपुर्मूलं निकृन्तति ।
अः ठ
भज्ञः
अं
टबक्ष
अ कडम
आख
ढय
इग
णर
औञफल
ईघतल
ओ झ
पह
ऐ जनस
एछधष
उङथव
ऊ
चदश
इत्यकडमचक्रम् ।
अथोदितचक्रम् । तदुक्तम् (सुन्दरी रहस्यवृत्तौ)
उदिताख्यं महाचक्रं कथयामि समासतः ॥ १-५२६ ॥
षट्कोणं विलिखेच्चक्रं समरेखं मनोहरम् ।
पूर्वादि विलिखेद्वर्णानादिक्षान्तान् यथाक्रमम् ॥ १-५२७ ॥
उदिते सम्पदुद्दिष्टा द्वितीये सम्पदां क्षयः ।
तृतीये च धृतिं विद्याच्चतुर्थे बन्धुविप्लवः ॥ १-५२८ ॥
पञ्चमे संशयात्मा स्यात् षष्ठे सर्वविनाशकः ।
नामाद्यक्षरमारभ्य यावन्मन्त्राद्यदर्शनम् ॥ १- ५२९ ॥
प्। ७१)
इत्युदितचक्रम् ।
अथ षट्पदमातृकाचक्रम् । (मेरुतन्त्रे)
यस्तु बीजात्मको मन्त्रस्तत्र षट्पदमातृका ।
विज्ञेयं तत्र पद्मं तु रचयेत् षट्दलं शुभम् ॥ १-५३० ॥
तत्र न्यसेन्मातृकार्णान् कूटषण्ढविवर्जितान् ।
स्वनामाद्यक्षरं यत्र तदारभ्य विचारयेत् ॥ १-५३१ ॥
सम्पद्दारिद्र्यधैर्याणि बन्धुविग्रहसंशयाः ।
सर्वनाशक्रमादेतन्नामाद्यर्णस्य कोष्ठतः ॥ १-५३२ ॥
कूटं शकारः । षण्ढवर्णा ऋकारादयश्चत्वारः ।
प्। ७२)
पुरश्चर्यार्णवस्य प्रथमतरङ्गे
अ एक छड धम ष
ऊ अः च ठद भ श
आ ऐ खजढ नयस
व ङ ब थट अम् उ
ओ इणप गझ रह
ल फघ ञत औ लक्ष ई
इति षट्पदमातृकाचक्रम् ।
(वाराहीतन्त्रे)
कोष्ठशुद्धिर्वराहे च महालक्ष्म्यां कुलाकुलम् ।
नामादिचक्रं सर्वेषां भूतचक्रं तथैव च ॥ १-५३३ ॥
ताराशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवे भवेत् ।
त्रैपुरे राशिशुद्धिः स्याद्गोपालेऽकडमः स्मृतः ॥ १-५३४ ॥
अपवादमाह (यामले)
यदि मन्त्रा न शोभन्ते विचारेण कथञ्चन ।
तदा निषेधमाश्रित्य गृह्णीयान्मन्त्रमुत्तमम् ॥ १-५३५ ॥
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
नित्यानां हंसमन्त्राणां सिद्धादीन् नैव शोधयेत् ॥ १-५३६ ॥
तथा च (कालिकापुराणे)
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
एकाक्षरद्व्यक्षराणां सिद्धादीन् नैव शोधयेत् ॥ १-५३७ ॥
(अग्निपुराणे)
हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च ।
नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ १-५३८ ॥
नपुंसको नमोऽन्तः ।
प्। ७३) तदुक्तम् (शारदायाम्)
मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे ।
मन्त्रविद्याविभेदेन द्विविधा मन्त्रजातयः ॥ १-५३९ ॥
मन्त्राः पुन्देवता ज्ञेया विद्याः स्त्री देवताः स्मृताः ।
पुंस्त्रीनपुंसकात्मानो मन्त्राः सर्वे समीरिताः ॥ १-५४० ॥
पुम्मन्त्रा हू।फडन्ताः स्युर्द्विठान्ताः स्युः स्त्रियो मताः ।
नपुंसका नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा ॥ १-५४१ ॥
(सनत्कुमारसंहितायाम्)
सिद्धः साध्यः सुसिद्धश्च अरिश्चैव च नारद ।
गोपालेषु न बोद्धव्यः स्वप्रकाशो यतः स्वयम् ॥ १-५४२ ॥
(गणेशविमर्षिण्याम्)
एकाक्षरे तथा कूटे मालामन्त्रे त्रिबीजके ।
स्वप्नलब्धे स्त्रिया दत्ते सिद्धादीन्नैव शोधयेत् ॥ १-५४३ ॥
मालामन्त्रलक्षणं च (नारायणी तन्त्रे)
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः प्रकीर्तिताः ।
(देवी पुरेणे)
कालिकायां च तारायां कुल्लुकायां त्रिकूटके ॥ १-५४४ ॥
तथैकाक्षरकूटे च शिवपञ्चाक्षरेऽपि च ।
षडक्षरे तु तस्यैव विष्णोरष्टाक्षरेऽपि वा ॥ १-५४५ ॥
विष्णोर्द्वादशवर्णे च राममन्त्रेऽथ तारके ।
वैष्णवेषु च भैरव्यां सुन्दरी मन्त्रवर्यके ॥ १-५४६ ॥
सारस्वते च बालायां सिद्धादीन्नैव शोधयेत् ।
प्। ७४) (गौतमीये)
सर्वेषु मन्त्रवर्णेषु श्रेष्ठो वैष्णव उच्यते ॥ १-५४७ ॥
वैष्णवेषु च सर्वेषु कृष्णमन्त्राः फलाधिकाः ।
विशेषतो दशार्णोऽयं जपमात्रेण सिद्ध्यति ॥ १-५४८ ॥
स्त्रिया दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणाधिका ।
स्वप्नलब्धा च या विद्या तत्र नास्ति विचारणा ॥ १-५४९ ॥
(योगिनी तन्त्रे)
गारुडादिषु सौरेषु वैष्णवे बौद्धजैनयोः ।
महामन्त्रेषु कूटेषु नैव सिद्धादिशोधनम् ॥ १-५५० ॥
बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत-
स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
सद्युक्तिस्फुटमौक्तिकोत्कररुचोत्तुङ्गस्तरङ्गो गतः
आद्यः श्रीनरदेवनिर्मितपुरश्चर्यार्णवे प्रस्फुरन् ॥ १-५५१ ॥
इति श्रीमन्महाराजाधिराजप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे षडाम्नायदेवतातदाचारादिनिर्णयपूर्वकचक्रविवेचनं नाम प्रथमस्तरङ्गः ।