रमिति जलधारया वह्निप्राकारं विचिन्त्य
स्वाङ्के उत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं दीपकलिकाकारं मूलाधारस्थ कुलकुण्डलिन्या सह
सुषुम्नावर्त्मना मूलाधारस्वाधिष्ठानमणिपूरकानाहत विशुद्धाज्ञाख्यषट् चक्राणि भित्त्वा
शिरोऽवस्थिताधोमुख सहस्रदलकमलकर्णिकान्तर्गतपरमात्मनि संयोज्य
तत्रैव
पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्द-
नासिका -जिह्वा-चक्षुस्त्वक्श्रोत्रवाक्पाणिपादपायुपस्थ-
प्रकृतिमनोबुद्ध्याहङ्कार-रूपचतुर्विंशतितत्त्वानि लीनानि विभाव्य
यमिति वायुबीजं धूम्रवर्णं वामनासापुटे विचिन्त्य तस्य षोडशवारजपेन ।
वायुना देहमापूर्य नासापुटौ धृत्वा तस्य चतुःषष्ठिवारजपेन कुम्भकं कृत्वा
वामकुक्षिस्थकृष्णवर्ण-पापपुरुषेण सह देहं संशोष्य
तस्य द्वात्रिंशद्वारजपेन दक्षिणनासया वायुं रेचयेत्,
दक्षिणनासापुटे रमिति वह्निबीजं रक्तवर्णं ध्यात्वा तस्य षोडशवारजपेन वायुना देहमापूर्य नासापुटौ धृवा
तस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा
पापपुरुषेण सह देहं मूलाधारोत्थितवह्निना दग्ध्वा
तस्य द्वात्रिंशद्वारजपेन वामनासया भस्मना सह
ठमिति चन्द्रबीजं शुक्लवर्णं वामनासायां ध्यात्वा
तस्य षोडशवारजपेन ललाटे चन्द्रं नीत्वा नासापुटौ धृत्वा
वमिति वरुणबीजस्य चतुःषष्टिवारजपेन
तस्माल् ललाटस्थचन्द्राद् गलितसुधया मातृकावर्णात्मिकया समस्तदेहं विरचय्य
लमिति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन देहं सुदृढं विचिन्त्य दक्षिणेन वायुं रेचयेत् ।
इति श्रीभूतशुद्धितन्त्रं समाप्तम् ।