अथ सप्तदशः पटलः
श्री-ईश्वर उवाच
एतत् तन्त्रं महेशानि स्वर्गमर्त्यरसातले ।
प्रशस्तं स्यात् सदा देवि नान्यथा मम भाषितम् ॥ १ ॥
यस्मिन् राज्ये महेशानि एतत् तन्त्रं हि वर्तते ।
नोत्पातस्तत्र देवेशि न च भीतिः कदाचन ॥ २ ॥
नाशयुर्व्याधयो देवि तस्मिन् राज्ये न कुत्रचित् ।
न च मारीभयं तत्र न च रोगस्तदा प्रिये ॥ ३ ॥
सर्वधर्मेषु यद्धर्मः सर्वयज्ञेषु यत् फलम् ।
तत्फलं लभते देवि पुस्तकस्य च पूजनात् ॥ ४ ॥
यद्गृहे विद्यते देवि पुस्तकं मम दुर्लभम् ।
कामरूपसमं देवि तद्गृहं भुवि दुर्लभम् ॥ ५ ॥
पुस्तकञ्च महेशानि यद्गृहे विद्यते सदा ।
काश्यादीनि च तीर्थानि सर्वाणि तस्य मन्दिरे ॥ ६ ॥
यद्गृहे पुस्तकं देवि विद्यते कमलानने ।
सर्वदेवमयः सर्वदेवमयः सदा ॥ ७ ॥
एतत् तन्त्रं महेशानि सततं यस्य मन्दिरे ।
सर्वागममयं सोऽपि स नान्यथा तु कदाचन ॥ ८ ॥
सततं मन्दिरे यस्य एतत् तन्त्रं वरानने ।
सर्वशास्त्रसमः सोऽपि नान्यथा वचनं मम ॥ ९ ॥