१६

अथ षोडशः पटलः
श्री-ईश्वर उवाच

प्राणायामं महेशानि प्रसङ्गात् कथयामि ते ।
जीवशुद्धिं मनःशुद्धिं प्राणायाममिदं स्मृतम् ॥ १ ॥
द्विविधं परमेशानि प्राणायामं समाचरेत् ।
प्राणायामं विना देवि न पूजां न जपञ्चरेत् ॥ २ ॥
सगर्भञ्च विगर्भञ्च प्राणायामं वरानने ।
जपध्यानादिभिर्युक्तं सगर्भं कमलानने ॥ ३ ॥
विगर्भञ्च तथा देवि वर्णहीनं भवेद् ध्रुवम् ।
पूरयेत् षोडशैर्वायुमिडया परमेश्वरि ॥ ४ ॥
चतुषष्ट्या धारयेत्तु चित्रामध्यगतां प्रिये ।
रेचयेत् कुम्भकार्धेन नाड्या मध्यमया सदा ॥ ५ ॥
एवं द्वादशाद् देवि प्राणायामं समाचरेत् ।
प्राणायामं महेशानि महायोगमयं सदा ॥ ६ ॥
योगं विना महेशानि मन्त्रसिद्धिर्न जायते ।
द्वयोर्द्वयोर्नामयोगो ब्रह्मसंसिद्धिकारणम् ॥ ७ ॥
एवं हि मनसा देवि सदा योगं समभ्यसेत् ।
यस्य यस्य च देवस्य यथा भूषणवाहनम् ॥ ८ ॥
तदेव पूजने तस्य चिन्तयेत् पूरकादिभिः ।
पूरकं धारकं देवि रेचकं नगनन्दिनि ॥ ९ ॥
सर्वशक्तिमयं देवि सर्वतन्त्रेषु निश्चितम् ।
———————वेदान्ते ब्रह्म निर्णितम् ॥ १० ॥
वैशेषिके तु देवेशि परमाणुर्निगीयते ।
न्यासे च परमेशानि ईश्वरं न्याससम्मतम् ॥ ११ ॥
————– ——————- –पुरुषं कूटरूपिणम् ।
मीमांसया तथा देवि ब्रह्मकर्म प्रगीयते ॥ १२ ॥
वेदादौ तुर्यचैतन्यं गीयते सततं प्रिये ।
तत्पुरोऽप्यस्ति देवेशि गुप्तब्रह्म सनातनम् ॥ १३ ॥
निरिन्द्रियं निश्चलं हि साक्षात् सुप्तमिव स्थितम् ।
एतत् सर्वं महेशानि शवरूपं निरिन्द्रियम् ॥ १४ ॥
सर्वेषां परमेशानि शक्तिः प्रकृतिरूपिणी ।
तस्मात् सर्वेषु देवेषु शक्तेः प्राधान्यमुच्यते ॥ १५ ॥
शक्तिः कुण्डलिनी समस्तजननी शतधा वर्तनमयी ।
सदा ताञ्च नमाम्यात्मभूतये कमलेक्षणे ॥ १६ ॥
ततः शक्तिं विना देवि ब्रह्माद्याः शवरूपवत् ।
शवत्वं सर्वदेवेषु विना शक्तिं शुचिस्मिते ॥ १७ ॥
शवरूप इवायाति परं ब्रह्म सदा प्रिये ।
शक्तियुक्तं यदा ब्रह्म तदा देवत्वमाप्नुयात् ॥ १८ ॥
स्वागमं हि महेशानि प्रकृतिं विद्धि पार्वति ।
स्वागमे सर्ववेदानि नानातन्त्राणि विद्यते ॥ १९ ॥
स्वागमं हि विना देवि न किञ्चिद् विद्यते प्रिये ।
तस्मात्तु परमेशानि सर्वं प्रकृतिमयं स्मृतम् ॥ २० ॥
ब्रह्माण्डं कोटिनिर्माणं सर्वशक्तियुतं सदा ।
आधारञ्च तथा देयं पाण्डित्यं यस्तु पार्वति ॥ २१ ॥
मूकत्वं कवितां देवि यद्यदन्यं शुचिस्मिते ।
तत्सर्वं परमेशानि शक्तिं विद्यात् शुचिस्मिते ॥ २२ ॥
शक्तिहिं परमेशानि ब्रह्मद्वन्द्वं सदा प्रिये ।
शब्दब्रह्म परम्ब्रह्म शक्तियुक्तं सदा प्रिये ॥ २३ ॥
एवं ब्रह्मा महेशानि शब्दब्रह्म प्रशस्यते ।
शब्दस्य कारणं देवि मातृकां ब्रह्मरूपिणीम् ॥ २४ ॥
अत एव महेशानि सदा मम हृदि स्थितम् ।
तव भक्त्या मया ख्यातं सुगोप्यं हि शुचिस्मिते ।
न कस्मैचित् प्रवक्तव्यं यदीच्छेत् शुभमात्मनः ॥ २५ ॥
इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे षोडशः पटलः ॥ १६ ॥