अथ पञ्चदशः पटलः
श्री-ईश्वर उवाच
धन्यं यशस्यमायुष्यं कलिकल्मषनाशनम् ।
यः कुर्यान्मातृकान्यासं स एव श्रीसदाशिवः ॥ १ ॥
विना न्यासं महेशानि यो जपेन्मातृकाक्षरम् ।
स याति नरकं घोरं विघ्नस्तस्य पदे पदे ॥ २ ॥
ब्रह्मादयोऽपि यां कृत्वा सृष्टिस्थित्यन्तकारकाः ।
द्वारकानायकः कृष्णःयां कृत्वापि युगे युगे ॥ ३ ॥
यां कृत्वा परमेशानि श्रीकृष्णः स्त्रीषु मोहनः ।
मातृकावर्णमाश्रित्य श्रीकृष्णः कमलानने ॥ ४ ॥
षोडशस्त्रीसहस्राणि स रेमे मातृकाकारणात् ।
श्रीरामश्च महेशानि अयोध्यायां वरानने ॥ ५ ॥
वीर्याधिकारी देवेशि भुङ्क्ते राज्यमकण्टकम् ।
दशवर्षसहस्राणि रामो राज्यमाचीकरत् ॥ ६ ॥
हत्वा च त्रिविधान् वीरान् वारणादिनिशाचरान् ।
मातृकावर्णमाश्रित्य सर्वं कुर्याद्रघूत्तमः ॥ ७ ॥
पञ्चाशन्मातृकां देवीं जननीं विश्वमोहिनीम् ।
पूर्वोक्ततन्त्रवद् देवि सर्वं कुर्याद् विचक्षणः ॥ ८ ॥
प्रथमं मातृकागायत्रीं ध्यानपूर्वां शुचिस्मिते ।
ततो जपं मातृकायाः कुर्यात् साधकयत्नतः ॥ ९ ॥
षडङ्गयुगलं देवि ततः कुर्यात् समाहितः ।
ततस्तु मातृकाध्यानं बहिर्न्यासं ततः परम् ॥ १० ॥
ततः परं महेशानि मातृकापानमुत्तमम् ।
एवमष्टमकं देवि मातृकान्यासमाचरेत् ॥ ११ ॥
पठित्वा कवचं देवि देहेषु न्यासमाचरेत् ।
न्यासस्य परमेशानि वरस्य गुरुरूपकम् ॥ १२ ॥
यन्नोक्तं सर्वतन्त्रेषु प्रसङ्गात् कथयामि ते ।
त्रिगुणस्य महेशानि न्यासं वक्ष्यामि संशृणु ॥ १३ ॥
यं विना परमेशानि व्यर्थ——————————-।
शिवविष्णुब्रह्मयुतं बिन्द्वर्ध्वचन्द्रसंयुतम् ॥ १४ ॥
रजः सत्त्वं तमो देवि अर्द्ध योनी शुचिस्मिते ।
सर्वोपरि महेशानि बिन्दु ब्रह्मस्वरूपिणम् ॥ १५ ॥
न्यासश्च त्रिगुणोपेतं विन्यसेत् तस्य सन्धिषु ।
पञ्चाशन्मातृकास्थाने त्रिगुणं न्यासमाचरेत् ॥ १६ ॥
ततो भावय देवेशि न्यासं त्रैलोक्यमोहनम् ।
न्यासस्य परमेशानि रहस्यं परमाद्भुतम् ॥ १७ ॥
प्रपञ्चानां महेशानि दलेषु त्रिगुणं न्यसेत् ।
गतञ्च परमेशानि त्रिधा वर्तनतो भवेत् ॥ १८ ॥
अष्टधा त्रिगुणं देवि सहस्रारे ततो न्यसेत् ।
अष्टोत्तरशतं देवि भिन्नायां त्रिगुणं न्यसेत् ॥ १९ ॥
न्यासाधिकारी देवेशि ततो भवति साधकः ।
त्रिगुणन्यासमात्रेण अधिकारीति गीयते ॥ २० ॥
अन्यथा विफलं न्यस्यं जपञ्च विफलं भवेत् ।
न्यासञ्च विविधं देवि नानातन्त्रेषु गीयते ॥ २१ ॥
मातृकापरमाध्यानं सदा ब्रह्मादिभिः प्रिये ।
न्यासानां परमेशानि मातृका विश्वमोहिनी ॥ २२ ॥
स्रष्टा च परमेशानि गीयते आगमैः प्रिये ।
तस्मात्तु यत्नतो देवि मातृकान्यासमाचरेत् ॥ २३ ॥
रहस्यं परमं दिव्यं त्रिगुणन्यासकर्मणि ।
अतः परं मातृकायाः षोढा मोक्षप्रदायिनी ॥ २४ ॥
अकृत्वा मातृकां षोढां न्यासमन्यं करोति यः ।
षोढा च विफलं तस्य मातृका विफलं भवेत् ॥ २५ ॥
कृत्वा तु परमेशानि यानि न्यासानि आचरेत् ।
सफलानि सदा तस्य अन्यथा रोदनं वने ॥ २६ ॥
तस्मात्तु यत्नतः षोढां शृणु देवि वरानने ।
षोढा तु परमेशानि साक्षाद् ब्रह्मस्वरूपिणी ॥ २७ ॥
निरक्षरा साक्षरा वा कोटिचन्द्रसमप्रभाम् ।
ब्रह्मविष्णुनुतां रम्यां मम सम्पुटसंस्थिताम् ॥ २८ ॥
मम प्राणसमां विद्यां साक्षाज्ज्योतिर्मयीं शिवाम् ।
मातृषोढां वरारोहे सावधानावधारय ॥ २९ ॥
मन्त्रौङ्कारक्रमेणैव प्रसङ्गात् कथयामि ते ।
त्रिगुणे पुटितां कृत्वा पञ्चाशन्मातृकां प्रिये ॥ ३० ॥
परयत्नेन देवेशि पञ्चाशत् स्थानसन्धिषु ।
प्रथममनुलोमे तु विलोमं तदनन्तरम् ॥ ३१ ॥
ततः परं वरारोहे त्रिगुणं न्यासमाचरेत् ।
अष्टोत्तरशतं कृत्वा सर्वसिद्धीश्वरो भवेत् ॥ ३२ ॥
न्यासमात्रेण देवेशि जीवन्मुक्तो भवेन्नरः ।
प्रपञ्चानां दले देवि प्रथमं न्यासमाचरेत् ॥ ३३ ॥
ततः परं महेशानि बाह्यन्यासं समाचरेत् ।
शूद्रस्तु परमेशानि चतुर्दशस्वरं न्यसेत् ॥ ३४ ॥
कवचं हि विना देवि प्रथमं न्यासमाचरेत् ।
चतुर्दशस्वरं पुण्यं दीर्घप्रणवमुच्यते ॥
तस्मात् सर्वत्र शूद्रस्तु दीर्घप्रणवमुच्यते ॥ ३५ ॥
॥ इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे पञ्चदशः पटलः ॥ १५ ॥