अथ चतुर्दशः पटलः
मन्त्रार्थं मन्त्रचैतन्यं योनिञ्चापि न वेत्ति यः ।
शतकोटि जपेनापि तस्य विद्या न सिध्यति ॥ १ ॥
देवदेव महादेव रहस्यं पूर्वसूचितम् ।
एतत्तत्त्वं महादेव कृपया वद शङ्कर ॥ २ ॥
श्री-ईश्वर उवाच
मन्त्रार्थं परमेशानि सावधानावधारय ।
तथा च मन्त्रचैतन्यं निर्वाणपदमुत्तमम् ॥ ३ ॥
प्रसङ्गात् परमेशानि निवदामि तवाज्ञया ।
मूलाधारे मूलविद्यां भावयेदिष्टदेवताम् ॥ ४ ॥
शुद्धस्फटिकसङ्काशां भावयेत् परमाक्षरीम् ।
भावयेदक्षरश्रेणीमिष्टविद्यां सनातनीम् ॥ ५ ॥
मूहूर्त्तार्द्धं विभाव्यैतां पञ्चध्यानपरो भवेत् ।
ध्यानं कृत्वा महेशानि मुहूर्त्तार्द्धं ततः परम् ॥ ६ ॥
ततो जीवो महेशानि मनसा कमलेक्षणे ।
स्वाधिष्ठानं ततो गत्वा भावयेदिष्टदेवताम् ॥ ७ ॥
बन्धूकारुणसङ्काशां जपासिन्दूर आकृतिम् ।
विभाव्य अक्षरश्रेणीं पद्ममध्यगतां शुभाम् ॥ ८ ॥
ततो जीवः प्रसन्नात्मा पक्षिणा सह सुन्दरी ।
मणिपूरं ततो गत्वा भावयेदिष्टदेवताम् ॥ ९ ॥
विभ्राम अक्षरश्रेणीं पद्ममध्यगतां पराम् ।
शुद्धस्फटिकसङ्काशां शिववक्षोपरि स्थिताम् ॥ १० ॥
ततो जीवो महेशानि पक्षिणा सह पार्वति ।
हृत्पद्मं प्रययौ शीघ्रं नीरजायतलोचने ॥ ११ ॥
इति विद्यां महेशानि भावयेत् कमलोपरि ।
विभाव्य अक्षरश्रेणीं महामरकतप्रभाम् ॥ १२ ॥
ततो जीवो वरारोहे विशुद्धं प्रययौ प्रिये ।
तत्पद्मगहनं गत्वा पक्षिणा जीव पार्वति ॥ १३ ॥
इष्टविद्यां महेशानि आकाशोपरि भावयेत् ।
विभाव्य अक्षरश्रेणीं हरिद्वर्णं वरानने ॥ १४ ॥
तत्र आज्ञापुरं देवि प्रययौ जीव पार्वति ।
पक्षिणा सह देवेशि खञ्जनाक्षि शुचिस्मिते ॥ १५ ॥
इष्टविद्यां महेशानि साक्षाद् ब्रह्मस्वरूपिणीम् ।
विभाव्य अक्षरश्रेणीं चतुर्वर्णानुरञ्जिताम् ॥ १६ ॥
आज्ञाचक्राणि (सम्भाव्य) विभाव्य वरवर्णिनि ।
षट्चक्रे परमेशानि ध्यानं कृत्वा शुचिस्मिते ॥ १७ ॥
ध्यानेन परमेशानि यद्रूपं समुपस्थितम् ।
तदेव परमेशानि मन्त्रार्थं विद्धि पार्वति ॥ १८ ॥
प्रषञ्चानि ततोऽतीत्य जीवस्तु पक्षिणा सह ।
प्रययौ परमं रम्यं निर्वाणं परमं पदम् ॥ १९ ॥
सहस्रारं शिवपुरं तन्मध्ये सात्त्विकीं पुरीम् ।
कौशिकीं सततं देवि पुरीं शक्तिमयीं प्रिये ॥ २० ॥
पक्षिणा सह देवेशि जीवः शीघ्रं प्रयाति हि ।
विभाव्य अक्षरश्रेणीममृतान्तु रसायनीम् ॥ २१ ॥
तत् सदा शिवपुरं रम्यं कल्पवृक्षतलस्थितम् ।
नानारत्नसमाकीर्णं तन्मूलं कमलानने ॥ २२ ॥
वृक्षञ्च परमेशानि सततं त्रिगुणात्मकम् ।
पञ्चभूतात्मकं वृक्षं पञ्चशाखासमन्वितम् ॥ २३ ॥
चतुःशाखा चतुर्वेदं चक्रतत्त्वसमन्वितम् ।
चतुर्वर्णयुतं पुष्पं शुक्लं रक्तं शुचिस्मिते ॥ २४ ॥
पीतं कृष्णं महेशानि पुष्पद्वयं परं शृणु ।
हरितञ्च महेशानि विचित्रं सर्वमोहनम् ॥ २५ ॥
षट्पुण्यञ्च महेशानि————- मिदं स्मृतम् ।
अन्यानि यानि शाखानि क्षुद्राणि नीललोचने ॥ २६ ॥
तानि सर्वाणि पत्राणि सर्वशास्त्राणि सुन्दरि ।
त्वगस्थिमेधामज्जानि वृक्षशाखानि च प्रिये ॥ २७ ॥
तानि सर्वाणि देवेशि इन्द्रियाणि प्रकीर्तितम् ।
सर्वशक्तिमयीं देवि दिव्यां नीरजलोचने ॥ २८ ॥
एवम्भूतं महावृक्षं भ्रमरैः परिशोभितम् ।
इतिहासपुराणानि सर्वाणि वृक्षसंस्थितम् ॥ २९ ॥
कोकिलैः परमेशानि शोभितं बहुपक्षिभिः ।
नानापक्षियुतं रम्यं दिव्यस्त्रीगणसंयुतम् ॥ ३० ॥
देवदानवगन्धर्वशोभितं कमलानने ।
बन्धुभिः शोभितं देवि गणैरत्नादिकाङ्क्षभिः ॥ ३१ ॥
सूक्ष्मं हि परमं दिव्यं पर्यङ्कं सर्वमोहनम् ।
चन्द्रकोटिसमं देवि सर्वकोटिसमप्रभम् ॥ ३२ ॥
शीतांशुरश्मिसंयुक्तं नानागन्धानुमोदितम् ।
नानापुष्पसमूहेन रचितं हेममालया ॥ ३३ ॥
ततः परं महेशानि सदाशिवः स्वयं पुनः ।
जीवः पक्षियुतो देवि भावयेत् तत्र पार्वति ॥ ३४ ॥
सदाशिवो महेशानि महाकुण्डलिनीयुतः ।
एवं कल्पद्रुमं ध्यात्वा तदधो रत्नवेदिकाम् ॥ ३५ ॥
तत्रोपरि महेशानि पर्यङ्कं भावयेत् प्रिये ।
कामिनीकोटिसंयुक्तं चामरैर्हस्तसंस्थितम् ॥ ३६ ॥
एवं विभाव्य मनसि सदाजीवं शुचिस्मिते ।
यस्य यस्य महेशानि यदिष्टं कमलानने ॥ ३७ ॥
तस्य ध्यानसमायुक्तो मनसा परमेश्वरि ।
जीवो ध्यानपरो भूत्वा जपेदष्टशतं प्रिये ॥ ३८ ॥
मन्त्राक्षराणि देवेशि मातृकापुटितं क्रमात् ।
कृत्वा जीवः प्रसन्नात्मा जपेदष्टशतं प्रिये ॥ ३९ ॥
अनुलोमविलोमेन कुर्यात् परमयत्नतः ।
अनेन क्रमतो देवि चैतन्यं विद्धि सुन्दरि ॥ ४० ॥
मन्त्रार्थं मन्त्रचैतन्यं कथितं तव भक्तितः ।
न कस्मैचित् प्रवक्तव्यं यदीच्छेच्छुभमात्मनः ॥ ४१ ॥
इदं रहस्यं परमं गोपनीयं वरानने ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ४२ ॥
वैष्णवेऽपि महेशानि कुर्याच्चैतन्यमद्तम् ।
विष्णुमन्त्रे महेशानि शिवमन्त्रेऽप्युपासते ॥ ४३ ॥
चैतन्यं बहुरत्नेन वैष्णवो यत्नतश्चरेत् ।
ततः सिद्धो भवेन्मन्त्रो विद्या च कमलानने ॥ ४४ ॥
सिद्धमन्त्रस्तु यः कुर्यात् स शिवो नात्र संशयः ।
ब्रह्माण्डभाण्डमध्ये तु विहरेत् स च साधकः ॥ ४५ ॥
शतकोटि महेशानि तत्पुरश्चरणं स्मृतम् ।
चैतन्यरहितं देवि यो जपेत् न च पापकृत् ॥ ४६ ॥
मन्त्रार्थं मन्त्रचैतन्यं सुगोप्यं भुवनत्रये ।
तव भक्त्या मयाख्यातं दासोऽहं तव सुन्दरि ॥ ४७ ॥
अहं मृत्युञ्जयो देवि प्रसादात् तव सुन्दरि ।
त्वद्वक्त्राम्बुजपीयूषपानेन कमलानने ॥ ४८ ॥
वज्रतुल्यं मम वपुः सदाविभववर्द्धनम् ।
ब्रह्माण्डं सकलं देवि तव रूपमयं सदा ॥ ४९ ॥
या शक्तिः परमेशानि सा त्वं भवसि सर्वदा ।
कृपामयि महेशानि प्रकृतिः शरीरमाश्रिता ॥ ५० ॥
सती त्वं परमेशानि पार्वतीत्वं गता प्रिये ।
सतीत्वं परमं प्राप्ता इदानीं पार्वती प्रिये ॥ ५१ ॥
सती स्नेहं महेशानि त्यक्त्वा सुन्दरि यत् कृता ।
पार्वन्तीत्वं गता भद्रे मेनकायां शुचिस्मिते ॥ ५२ ॥
एतस्मिन्नन्तरे काले सदा ध्यानपरो ह्यहम् ।
इति ध्यानं समागच्छन् भूत्वा तिष्ठामि सुन्दरि ॥ ५३ ॥
ध्यानमार्गपरो भूत्वा करोमि स्वागमं जपम् ।
स्वावासं शक्तिरूपं सदा यत् हृदि संस्थितम् ॥ ५४ ॥
स्वावासं वर्णपुञ्जानि नानाविद्यानि पार्वति ।
नानाविद्यासु देवेशि दश विद्या प्रगीयते ॥ ५५ ॥
एतानि स्वागमं देवि सारात्सारं परात्परम् ।
जपित्वा लक्षवर्षाणि स्वागमं शक्तिरूपिणम् ॥ ५६ ॥
सिद्धिं गता महेशानि स्वागमे परमेश्वरि ।
ध्यानमार्गं परित्यज्य तव पादेषु गीयते ॥ ५७ ॥
यदिष्टं ध्यानमार्गेण तत्सर्वं कथयामि ते ।
स्वागमं हि विना देवि न किञ्चिद् वर्त्तते प्रिये ॥ ५८ ॥
सर्वं हि परमेशानि ब्रह्माण्डं स्वागमे स्थितम् ।
स्वागमाच्च प्रसूयन्ते कोटिशः कुण्ड (म) ग्नयः ॥ ५९ ॥
ब्रह्माण्डं कोटिशो देवि निर्माणं स्वागमात् प्रिये ।
पुराणानि महेशानि तन्द्रणि विविधानि च ॥ ६० ॥
यत् किञ्चिद् दृश्यते देवि स्थूलसूक्ष्मं शुचिस्मिते ।
तत् सर्वं परमेशानि स्वागमात् कमलानने ॥ ६१ ॥
सृष्टिञ्च कुरुते देवि ब्रह्मा स्वागमात् कमलानने ।
स्थितिञ्च कुरुते विष्णुः स्वागमात् नगनन्दिनि ॥ ६२ ॥
संहरामि जगत् सर्वं त्रैलोक्यं सचराचरम् ।
ब्रह्मा विष्णुश्च रुद्रश्च सर्वे स्वागमरूपिणः ॥ ६३ ॥
स्वागमो ब्रह्मणो रूपं स्वागमं परमं पदम् ।
तेजःपुञ्जं महेशानि यदुक्तं कमलानने ॥ ६४ ॥
तेजःपुञ्जन्तु देवेशि स्त्रीरूपं स्वागमं प्रिये ।
स्वागमं मुक्तिकैवल्यं निर्वाणपदमव्ययम् ॥ ६५ ॥
स्वागमन्तु विना देवि सदेवासुरमानुषम् ।
स्वागमं परमेशानि मम इष्टं सदा प्रिये ॥
रहस्यं स्वागमोपेतं प्रसङ्गात् कथितं मया ॥ ६६ ॥
॥ इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे चतुर्दशः पटलः ॥ १४ ॥