अथ त्रयोदशः पटलः
श्री-ईश्वर उवाच
अथ वक्ष्यामि देवेशि विद्यां शक्तिमयीं प्रिये ।
प्रणवं प्रथमं देवि उद्धृत्य कमलानने ॥ १ ॥
ततः कामं समुद्धृत्य प्रणवं तदनन्तरम् ।
ततः प्रणवमुद्धृत्य मायाबीजं समुद्धरेत् ॥ २ ॥
प्रणवं पुनरुच्चार्य शृणु देवि वरानने ।
कामबीजं समुद्धृत्य प्रणवमुद्धरेत् ततः ॥ ३ ॥
ततो मायां समुद्धृत्य (वित्तोद्धारं) वरानने ।
ततः परं महेशानि कन्दर्पमुद्धरेत् प्रिये ॥ ४ ॥
सर्वान्ते वह्निललनां दत्त्वा जपं समारभेत् ।
एषा तु परमेशानि विद्या सप्तदशाक्षरी ॥ ५ ॥
वैष्णवे गाणपत्ये च शैवे च परमेश्वरि ।
शाक्तेषु परमेशानि दशविद्या सुशस्यते ॥ ६ ॥
एषा विद्या वरारोहे सर्वशक्तिमयी प्रिये ।
सर्वशक्तिमयीं विद्यां न जपेत् यदि पामरः ॥ ७ ॥
सर्वं तस्य वृथा देवि हानिः स्यादुत्तरोत्तरम् ।
वृथा पूजा महेशानि जपस्तस्य वृथा भवेत् ॥ ८ ॥
न्यासञ्च विफलं तस्य भूतशुद्धिश्च पार्वति ।
प्राणायामं महेशानि तथैवाचमनं प्रिये ॥ ९ ॥
सर्वाणि तस्य विफलं जायते कमलानने ।
तस्मादादौ जपेद् विद्यां सप्तदशाक्षरीं प्रिये ॥ १० ॥
न जपेद् यदि देवेशि ज्ञात्वा पूजां समाचरेत् ।
सर्वशास्त्रेषु देवेशि वैष्णवे च विशेषतः ॥ ११ ॥
शैवे च गाणपत्ये च प्रशस्ता शक्तिरूपिणी ।
आदौ विद्या महेशानि दशधा जपमाचरेत् ॥ १२ ॥
भूतशुद्ध्यादिकं सर्वं ततः साधक आरभेत् ।
श्री-ईश्वर उवाच
भूतशुद्धि विधायेत्थं मातृकान्यासमाचरेत् ।
ततः परं महेशानि प्राणायामं वरानने ॥ १३ ॥
प्राणायामं विना देवि नहि पूजां समाचरेत् ।
प्राणायामत्रयं दत्त्वा आसनानि समाचरेत् ॥ १४ ॥
॥ इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे त्रयोदशः पटलः ॥ १३ ॥