१२

अथ द्वादशः पटलः

श्री-ईश्वर उवाच

एतज्ज्ञानं महेशानि यः कुर्यात् सततं प्रिये ।
महायोगेश्वरः सोऽपि मम तुल्यो न संशयः ॥ १ ॥
तस्य सर्वाणि मन्त्राणि विद्या च परमेश्वरि ।
शीघ्रं सिध्यति देवेशि नात्र कार्या विचारणा ॥ २ ॥
एतद्रहस्यं परमं सदा ब्रह्मविनिर्णयम् ।
योगज्ञानं तपः शास्त्रं विद्या शिल्पानि यानि च ॥ ३ ॥
सर्वं हि प्रकृते रूपं निश्चयं वचनं मम ।
शृणु पार्वति वक्ष्यामि रहस्यं परमव्यम् ॥ ४ ॥
भूतशुद्धेर्महेशानि विद्यां परमगोपिताम् ।
निगदामि शृणु प्राज्ञे नीरजायतलोचने ॥ ५ ॥

श्री-ईश्वर उवाच

अवश्यं भावयेद् देवि विद्यां भागवताभिधाम् ।
कामबीजं महेशानि त्रिरुच्चार्य शुचिस्मिते ॥ ६ ॥
धीमहीति ततो देवि वह्निजायां समुद्धरेत् ।
ततस्तु परमेशानि त्रिविधं काममुद्धरेत् ॥ ७ ॥
भगवत्या इदं देवि तेन भागवतं स्मृतम् ।
भागवताख्यां महाविद्यां दशधा जपमाचरेत् ॥ ८ ॥
दिवसे दिवसे देवि प्रजपेत् यदि मानवः ।
तदेव परमेशानि दीक्षाफलमवाप्नुयात् ॥ ९ ॥
नित्यां कर्म महेशानि विद्यां भागवताभिधाम् ।
विद्यां कल्पद्रुमाकारां धर्मकामार्थमोक्षदाम् ॥ १० ॥
सर्ववेदेषु तन्त्रेषु विद्यां भागवताभिधाम् ।
गीयते परमेशानि नित्या प्रकृतिरूपिणी ॥ ११ ॥
अत एव महेशानि विद्यां भागवताभिधाम् ।
अज्ञानाद् यदि वा मोहात् कामाद्वा कमलेक्षणे ॥ १२ ॥
न जपेद् यदि देवेशि द्विजः शूद्रत्वमाप्नुयात् ।
सर्वं तस्य वृथा देवि कुतः पूजा कुतः सुखम् ॥ १३ ॥
क्षत्रियोऽपि वरारोहे न जपेद् यदि पामरः ।
वैश्यत्वं सहसायाति वैश्यः शूद्रत्वमाप्नुयात् ॥ १४ ॥
क्षत्रियोऽपि वरारोहे प्रजपेद्यदेकधा ।
ब्राह्मणत्वं ततो याति सहसा परमेश्वरि ॥ १५ ॥
वैश्यस्तु परमेशानि क्षात्रत्वं याति तत्क्षणात् ।
ब्राह्मणोऽपि नरश्रेष्ठः साक्षाद् ब्रह्म न संशयः ॥ १६ ॥
शूद्रस्तु परमेशानि वैश्यत्वं याति पार्वति ।
इयं विद्या वरारोहे सदा भागवताभिधा ॥ १७ ॥
इमां विद्यां महेशानि मात्रामेकादशाक्षरीम् ।
अज्ञात्वा परमेशानि पुराणं यस्तु वाचयेत् ॥ १८ ॥
स याति नरकं घोरं सदा संसर्गिणा सह ।
तस्माद् यत्नेन देवेशि वर्जनीयः स तु द्विजः ॥ १९ ॥

श्रीदेव्युवाच

शूद्रस्य पारमेशानि नाधिकारो वृषध्वज ।
वह्निजायान्वितां विद्यां शूद्रस्य कथमुच्चरेत् ॥ २० ॥

श्री-ईश्वर उवाच

तन्त्रोक्तं प्रणवं देवि वह्निजायाञ्च सुन्दरि ।
प्रजपेत् सततं देवि नात्र कार्या विचारणा ॥ २१ ॥
शक्तिविद्यान्विता देवि जायते यदि पार्वति ।
प्रजपेत् सहसा देवि तदा सिद्धिश्च जायते ॥ २२ ॥
गायत्र्यक्षरसंयुक्तं न जपेद् भागवताभिधाम् ।
शूद्रस्य परमेशानि विद्यां भागवतीं शृणु ॥ २३ ॥
मन्मथं त्रिगुणं देवि समुद्धृन्य वरानने ।
प्रथमं चतुर्दशं दत्त्वा स्वयं प्रणवरूपिणीम् ॥ २४ ॥
वह्निजायां परे दत्त्वा प्रजपेत् दशधा यदि ।
शूद्रोऽपि परमेशानि वैश्यत्वं याति तत्क्षणात् ॥ २५ ॥
तदैव महती सिद्धिः शूद्रस्य कमलेक्षणे ।
इमां भागवतीं विद्यां स्वागमं विद्धि पार्वति ॥ २६ ॥
स्वागमं परमं ब्रह्म अनन्तशक्तिसंयुतम् ।
तव स्नेहात् समाख्यातं सुगोप्यं कमलेक्षणे ॥ २७ ॥
सारात्सारं महेशानि विद्यां भागवताभिधाम् ।
शूद्रस्य सकलं देवि कथयामि वरानने ॥ २८ ॥
मन्मथत्रयमुद्धृत्य धीकारं तदनन्तरम् ।
वह्निजायां परे दत्त्वा मन्मथत्रयमुद्धरेत् ॥ २९ ॥
इयं भागवती विद्या शूद्रवाच्या विधीयते ।
इति ते कथितं तत्त्वं महाभक्त्या वरानने ॥ ३० ॥
कस्मैचित् प्रवक्तव्यं यदीच्छेदात्मनः सुखम् ।
शान्ताय ऋजवे देवि भक्तिश्चाण्डालजातिषु ॥ ३१ ॥
अभक्ताय महेशानि ब्राह्मणाय न दापयेत् ।
अभक्तभ्योऽपि पुत्रेभ्यो न दद्यात् कमलेक्षणे ॥ ३२ ॥
भक्ताय शान्तचित्ताय दद्याद् विद्यां वरानने ।
अभक्तेभ्योऽपि पुत्रेभ्यस्तत्र मृत्युमवाप्नुयात् ॥ ३३ ॥
यत् किञ्चिद् दृश्यते देवि त्रैलोक्यं सचराचरम् ।
तत्सर्वं परमेशानि शक्तियुक्तं सुनिश्चितम् ॥ ३४ ॥
सर्वतत्त्वं महेशानि परा शक्तिश्च मोहिनी ।
रूपादि यानि तत्त्वानि तानि तत्त्वानि कुण्डली ॥ ३५ ॥
रूपं हि षड्विधं देवि सर्वतन्त्रेषु निश्चितम् ।
रसस्तु षड्विधः स्वाहा नानास्वादः स्यान्निश्चितम् ॥ ३६ ॥
गन्धं हि द्विविधं देवि सर्वशक्तियुतं प्रिये ।
अन्यानि यानि तत्त्वानि चतुर्विंशति सुन्दरि ॥ ३७ ॥
सर्वं शक्तिमयं विज्ञे क्रमेण कमलेक्षणे ।
शुक्लं रक्तं तथा पीतं हरितं कृष्णमेव च ॥ ३८ ॥
विचित्राणि क्रमतो वर्णं कृष्णवर्णं प्रकीर्तितम् ।
रसस्तु द्विविधं देवि सुगन्धि प्रतिगन्धकम् ॥
एवं सर्वं विजानीयात् सदा शक्तिमयं प्रिये ॥ ३९ ॥
॥ इति श्रीभूतशुद्धितन्त्रे हरगौरिसंवादे द्वादशः पटलः ॥ १२ ॥