११

अथ एकादशः पटलः
श्री-ईश्वर उवाच

एवं द्वादशधा देवि यतायातः करोति यः ।
स सिद्धः स गमः सोऽपि मम तुल्यः सदा प्रिये ॥ १ ॥
वचोमात्रेण देवेशि तस्य विद्या हि सिद्धये ।
सप्तानां कोटिविद्यानां मन्त्राणाञ्च वरानने ॥ २ ॥
सिद्धमाध्यादिकं देवि अतिगुह्यतरं प्रिये ।
अप्रकाश्यमिदं तत्त्वं पशोर्गोप्यं सदा प्रिये ॥ ३ ॥
हृदये मम देवेशि अजपा सम्पुटे स्थितम् ।
सर्वासां नरनारीणां सम्पुटं हंसपक्षिणम् ॥ ४ ॥
निःसरन्ति महेशानि विद्यामन्त्राणि पार्वति ।
शक्तिप्रसादाद् देवेशि लक्षवर्षं गतस्तदा ॥ ५ ॥
लक्षवर्षं महेशानि भावयामि शुचिस्मिते ।
सम्पुटे परमां विद्यां सर्वविद्यास्वरूपिणीम् ॥ ६ ॥
पुंरूपां प्रकृतिरूपां चन्द्रसूर्यसमप्रभाम् ।
वेदमातां सदा वन्ध्यां योगिनीं योगरूपिणीम् ॥ ७ ॥
संसारतारिणीं देवीं महामोक्षप्रदायिनीम् ।
प्रणमामि सदा शुद्धां नित्यां विग्रहरूपिणीम् ॥ ८ ॥
प्रणम्य परमां दिव्यां निगदामि शुचिस्मिते ।

ईश्वर उवाच

काञ्चनाख्यं समुद्धृत्य रोमञ्च तदनन्तरम् ।
सरिहरिं समुद्धृत्य तदनु काञ्चनं प्रिये ॥ ९ ॥
बिन्द्वर्द्धसंयुतं कृत्वा षट्पद्मे जपमाचरेत् ।
अष्टोत्तरशतं जप्त्वा षट्पद्मे कमलेक्षणे ॥ १० ॥
दशधा प्रजपेद् वापि भूतशुद्धिफलं लभेत् ।
एकधा तु समुद्धृत्य भूतशुद्धिं समाचरेत् ॥ ११ ॥
भूतशुद्धिं महेशानि तदा साङ्गं भवेत् प्रिये ।
अन्यथा विफला पूजा जपञ्च विफलं प्रिये ॥ १२ ॥
युगाक्षरं जपेद् देवि चतुर्युगफलं लभेत् ।
चतुर्युगजपाद्देवि यत्फलं लभते नृणाम् ॥ १३ ॥
तत्फलं समवाप्नोति एकोच्चारेण पार्वति ।
एकोच्चारेण देवेशि मम तोषो न संशयः ॥ १४ ॥
सम्पुटं परमेशानि नित्यां सर्वस्वरूपिणीम् ।
विभाव्य सततं देवि षट्चक्रं सततं शिवे ॥ १५ ॥
एकामुपास्य देवेशि महाविद्यामुपास्महे ।
अन्यथा परमेशानि महाविद्यां वरानने ॥ १६ ॥
तदनु परमेशानि महाविद्यामुपास्महे ।
अन्यथा परमेशानि प्रेतवत् सकलं भवेत् ॥ १७ ॥

श्री-ईश्वर उवाच

अन्यतन्त्रं महेशानि निगदामि पुनः प्रिये ।
तन्त्रं तन्त्रस्य वक्ष्यामि भूतशुद्धिं भवेद् यथा ॥ १८ ॥
पापस्य कारणं देवि पुरुषं पापसंयुतम् ।
क्रोधमोहयुतं कृष्णम् ईषत्पिङ्गं वरानने ॥ १९ ॥
तस्य शुद्धिं प्रवक्ष्यामि नीरजायतलोचने ।
पञ्चानामपि वायूनां शुद्धिं नास्ति वरानने ॥ २० ॥
स्वभावतः सदा शुद्धिं पञ्चभूतात्मकं वपुः ।
रोदनञ्च तथामूर्च्छां भ्रमञ्च कमलानने ॥ २१ ॥
पुरुषात् पापरूपाच्च जायते कमलानने ।
भूतशुद्धेस्तु मन्त्राणि निगदामि शृणु प्रिये ॥ २२ ॥
प्रणवं त्रिविधं देवि वामा ज्येष्ठा च पार्वति ।
ततो रौद्री महेशानि त्रिप्रकारं वरानने ॥ २३ ॥
आद्यन्ते प्रणवं दत्त्वा पञ्चाशन्मातृकां जपेत् ।
बिन्द्वर्द्धसंयुतं कृत्वा विद्यां भव विमोचिनीम् ॥ २४ ॥
माता हि मन्त्रविद्यानां पिता चैव शुचिस्मिते ।
सर्वासां मन्त्रविद्यानां पिता माता च मातृका ॥ २५ ॥
पिता माता च सन्तुष्य अन्यक्रोधो निरर्थकः ।
पुरातनीमविज्ञाय भूतशुद्धिं करोति यः ॥ २६ ॥
विफलं तस्य देवेशि भूतशुद्धिं वरानने ।
भूतशुद्धिं महेशानि जपपूजां न शंशते ॥ २७ ॥
॥ इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे एकादशः पटलः ॥ ११ ॥