अथ दशमः पटलः
श्री-ईश्वर उवाच
वनमालादिकं देवि विष्णोर्मतं शुचिस्मिते ।
तत्सर्वं परमेशानि शक्तिरूपं न चान्यथा ॥ १ ॥
सहस्रारे शक्तिपुरे भावयेत् परमेश्वरि ।
जीवस्य ब्रह्मणश्चापि एकतां यत्नतश्चरेत् ॥ २ ॥
ततो ध्यानं प्रकुर्वीत स्वागमे रूढितञ्च यत् ।
जपञ्च परमेशानि मनसा च समाचरेत् ॥ ३ ॥
जपेत् समाहितो भूत्वा मालया वर्णसङ्ख्यया ।
तत आज्ञापुरीं नीत्वा भावयेदिष्टदेवताम् ॥ ४ ॥
ध्यात्वा जप्त्वा च देवेशि साक्षात् सुरगुरुर्भवेत् ।
विशुद्धं प्रति देवेशि लम्बयेन्मनो विद्यया ॥ ५ ॥
विशुद्धं परमं पद्मं षट्चक्रं तत्तु गम्यते ।
षट्चक्रे परमेशानि ध्यात्वा जगन्मयीं शिवाम् ॥ ६ ॥
तडित्कोटिप्रभां तन्वीं ब्रह्माण्डरूपिणीं शिवाम् ।
निरीहां निश्चलां रम्यां महायोगमयीं पराम् ॥ ७ ॥
मोहिनीं सर्वदेवानाम् आनन्दार्थियुतां पराम् ।
विषतन्तुमयीं देवीं साक्षादमृतरूपिणीम् ॥ ८ ॥
शिवस्य युवतीं योग्यां विभाव्य शुद्धवर्तिनि ।
मनसा परमेशानि जपेदष्टशतं प्रिये ॥ ९ ॥
हृत्पद्मं प्रति देवेशि न स्वपेत् परमां पराम् ।
शुद्धध्यानञ्च वर्णानां योगपद्मस्थितां पराम् ॥ १० ॥
योगपद्मे महेशानि जीवो मनसि भावयेत् ।
भुजङ्गरूपिणीं देवीं नित्यां कुण्डलिनीं पराम् ॥ ११ ॥
अव्यक्तरूपिणीं रम्यां ध्यानगम्यां वरानने ।
योगपथे महेशानि जपेदष्टशतं पुनः ॥ १२ ॥
न स्वपेज्जीवमनसा मणिपूरं प्रति प्रिये ।
भुजङ्गभृङ्गसङ्काशं मणिपूरं महाप्रभम् ॥ १३ ॥
तत्रस्थशिवलिङ्गेन योजयेत् कुण्डलीं पराम् ।
ततो जीवो महेशानि तत्क्षणाद् ब्रह्मचाप्नुयात् ॥ १४ ॥
ततस्तु परमेशानि जीवस्तु मनसा वृतः ।
ध्यात्वा ब्रह्ममयीं शुद्धां जपेदष्टशतं प्रिये ॥ १५ ॥
तदनु परमेशानि स्वाधिष्ठानं लयेत् पराम् ।
स्वाधिष्ठानं महेशानि शुद्धस्फटिकसन्निभम् ॥ १६ ॥
भावयेत् तत्र देवेशं शङ्खकुन्दसमप्रभम् ।
संयोज्य परमां दिव्यां शिवेन सह पार्वति ॥ १७ ॥
सर्वं हि परमेशानि मनसा कुरु यत्नतः ।
इन्द्रियाणां प्रधानं हि मनः सर्वत्र गीयते ॥ १८ ॥
तत्र देवं शिवं शान्तं विचिन्त्य मनसा क्षणात् ।
परं ब्रह्ममयं भूत्वा जपेदष्टशतं तथा ॥ १९ ॥
तदनु परमेशानि मूलाधारात् व्रजेत् परम् ।
गुदपद्मं महेशानि मूलाधारं प्रकीर्तितम् ॥ २० ॥
चतुर्दलयुतं रम्यं तरुणारुणविग्रहम् ।
भावयेत् परमेशानं सिन्धुवरुणविग्रहम् ॥ २१ ॥
संयोज्य परमां नित्यां निष्फलां ज्ञानरूपिणीम् ।
शिवसंयोगमात्रेण जीवो ब्रह्ममयो भवेत् ॥
मनसा संयुतो भूत्वा जपेदष्टशतं तथा ॥ २२ ॥
॥ इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे दशमः पटलः ॥ १० ॥