अथ नवमः पटलः
श्री-ईश्वर उवाच
एवं हि मनसा जीवं दृष्ट्वा हि परमं शिवम् ।
आनन्दपुलकोद्भूते जीवो भवति सुन्दरि ॥ १ ॥
सदाशिवं महेशानि शुद्धस्फटिकसन्निभम् ।
बहुरत्नसमाकीर्णं दीर्घबाहुं मनोहरम् ॥ २ ॥
सुखप्रसन्नवदनं स्वैराप्यं सततं प्रिये ।
श्रवणे कुण्डलोपेते रत्नहारेण शोभितम् ॥ ३ ॥
गोलपद्मसहस्रेण मालया शोभितं वपुः ।
अष्टबाहु। त्रिनयनं शिवं पद्मदलेक्षणम् ॥ ४ ॥
पादयोर्नूपुरं रम्यं शब्दञ्च शब्दब्रह्मवत् ।
एवं स्थूलवपुस्तस्य भावयेत् कमलानने ॥ ५ ॥
शिरसोपरि देवेशि भावयेज्जीवशतं शिवम् ।
सूक्ष्मन्तु परमं दिव्यं निरीहं जडवत् सदा ॥ ६ ॥
सूक्ष्मे ध्यानं महेशानि कदाचिन्न हि जायते ।
स्थूलध्यानं महेशानि कृत्वा मोक्षमवाप्नुयात् ॥ ७ ॥
स्थूलं हि प्रकृते रूपं ध्यानञ्च प्रकृतेः प्रिये ।
आदौ स्थूलतनुं देवि सम्पूज्य कमलानने ॥ ८ ॥
ततस्तु परमेशानि परतेजश्च भावयेत् ।
तेजश्च परमेशानि प्रकृतिर्मोहिनीति च ॥ ९ ॥
प्राधान्यं परमेशानि प्रकृतेः शिवपूजने ।
तस्मात् सर्वासु पूज्सासु शक्तिः प्राधान्यमुच्यते ॥ १० ॥
यदा तु परमेशानि हृदये चिन्तयेद्धरिम् ।
ध्यानं कृत्वा सूक्ष्मतनोः स्थूलं विन्यस्य तत्र वै ॥ ११ ॥
ततः स्थूलतनुं ध्यात्वा हरिं पद्मदलेक्षणम् ।
श्यामलं पीतवासञ्च वनमालाविभूषितम् ॥ १२ ॥
किरीटिनं कुण्डलिनं प्रसन्नमुखपङ्कजम् ।
श्रीवत्सशोभितं वक्षो रत्नहारेण शोभितम् ॥ १३ ॥
कौस्तुभोद्भासि वरदं दीर्घबाहुमरिन्दमम् ।
प्रसन्ननेत्रकमलं चरणे नूपुरं प्रिये ॥ १४ ॥
वेणुवीणानिनादेन शब्दब्रह्मेण सुन्दरि ।
पूरयन्तं जगद् देवि सततं कमलानने ॥ १५ ॥
श्री-ईश्वर उवाच
हरेः सूक्ष्मं महेशानि विभाव्य ध्यानमाचरेत् ।
सूक्ष्मं हि निश्चलं देहं सूक्ष्मा प्रकृतिरूपिणी ॥ १६ ॥
तथापि हरिपूजायां शक्तिप्राधान्यमुच्यते ।
यत्तु ध्यानं धारणञ्च समाधिश्च शुचिस्मिते ॥ १७ ॥
सर्वं हि प्रकृते रूपं नान्यथा वचनं मम ।
ध्यानञ्च परमेशानि सर्वाङ्गचिन्तनं प्रिये ॥ १८ ॥
तदनु परमेशानि एकाङ्गचिन्तनं प्रिये ।
इदन्तु धारणाख्यातं शृणु पार्वति सादरम् ॥ १९ ॥
ध्याञ्च धारणं देवि त्यक्त्वा यद्भावयेत् हृदि ।
एषा समाधिर्विज्ञेयो नात्र कार्या विचारणा ॥ २० ॥
ध्यानञ्च धारणञ्चैव समाधिश्च शुचिस्मिते ।
मयोक्तं यत् तद् देवेशि सर्वं शक्तिमयं स्मृतम् ॥ २१ ॥
सूक्ष्मं स्थूलं महेशानि तथा शक्तिद्वयं प्रिये ।
श्रीदेव्युवाच
देवदेव महादेव षट्चक्रे परमेश्वर ।
यथा पूजां यथा ध्यानं कृत्वा जपं समाचरेत् ॥ २२ ॥
रहस्यं परमं गुह्यं मम हर्षविवर्द्धनम् ।
कृपया कथय मे नाथ तवाहं परिचारिका ॥ २३ ॥
श्री-ईश्वर उवाच
देवेशि तव दासोऽहं कथयामि शुचिस्मिते ।
क्षणार्द्धं न हि जीवामि त्वां विना कमलेक्षणे ॥ २४ ॥
त्वद्वक्त्राम्बुजपानेन अमृतेन शुचिस्मिते ।
शिवोऽहं परमेशानि मृत्युं जित्वा वरानने ॥ २५ ॥
शृङ्गाररससंयोगात् कालकूटं पिबाम्यहम् ।
ममापि परमेशानि तनुवज्रसमं सदा ॥ २६ ॥
देवेशि तव दासोहऽमन्तर्बाह्ये शुचिस्मिते ।
अन्तरे त्वां महेशानि विभाव्य सूक्ष्मरूपिणी ॥ २७ ॥
भावनात् परमेशानि लक्षवर्षो गतो मम ।
बाह्यज्ञानं मया देवि जायते मम योगिनी ॥ २८ ॥
मयि च परमेशानि त्वमेव सूक्ष्मरूपिणी ।
दृष्ट्वा तच्चरणद्वन्द्वं तव वक्त्रं वरानने ॥ २९ ॥
आत्मज्ञानं परित्यज्य चरणे पतितो ह्यहम् ।
प्रकाराच्च महेशानि शृणु सम्प्रति मद्वचः ॥ ३० ॥
यदुक्तं भूतशुद्ध्यादि सर्वं त्वं नगनन्दिनि ।
सद्योगत्वं महेशानि स्वागमं कथयामि ते ॥ ३१ ॥
स्घागमं परमं ज्ञानं चक्षुः प्रज्ञानसंयुतम् ।
विज्ञानेन मतं देवि देवमातरमेव च ॥ ३२ ॥
वेदाश्च परमेशानि यानि यानि यथा तथा ।
दर्शनानि तथा देवि सकलानि पृथक् पृथक् ॥ ३३ ॥
चतुर्दशानि तन्त्राणि तथा नानाविधानि च ।
स्वागमाश्च प्रसूयन्ते सततं परमेश्वरि ॥ ३४ ॥
मम प्राणसमं देवि स्वागमं मम सम्पुटम् ।
हृदये मम देवेशि संस्थितं कमलानने ॥ ३५ ॥
यस्मिन् क्षणे महेशानि अन्तर्ध्यात्वा हरो ह्यहम् ।
स्वागमं भावितं देवि तत्क्षणे परमेश्वरि ॥ ३६ ॥
अन्तर्ध्यानं हृतं देवि स्वागमं हृदये स्थितम् ।
अन्तर्ध्यानं समाहृत्य बाह्यदृष्टिं सदा मम ॥ ३७ ॥
तदाहं सहसा देवि कथयामि तवाग्रतः ।
विभाव्य परमेशानि स्वागमं हृदयात्मनि ॥ ३८ ॥
अन्यथा परमेशानि स्वागमं कथयामि ते ।
स्वागमं लक्षग्रन्थं हि नाना विद्या शुचिस्मिते ॥ ३९ ॥
महेषु परमेशानि निर्मितं ब्रह्मरूपिणम् ।
स्वागमं परमं पुण्यं ब्रह्माण्डबीजमव्यम् ॥ ४० ॥
स्वागमं शृणु वक्ष्यामि गिरिजा च त्रिलोचने ।
नानाशास्त्रे च विद्यासु स्वागमस्तु प्रशस्यते ॥ ४१ ॥
स्वागमं परमां विद्यां नानातन्त्रविनिर्मिताम् ।
शिवे विष्णौ महेशानि सूर्ये च नगनन्दिनि ॥ ४२ ॥
तथा च सर्वदेवेषु वन्ह्यादिषु शुचिस्मिते ।
तथा च सर्वशास्त्रेषु शक्तेः प्राधान्यमुच्यते ।
शङ्खाव(सङ्ख्ययैव)क्रमाद्देवि शक्तिः सर्वत्र गीयते ॥ ४३ ॥
॥ इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे नवमः पटलः ॥ ९ ॥