अथ अथाष्टमः पटलः
श्री-ईश्वर उवाच
एतस्मिन् समये देवि स्वविद्यां प्रजपेत् सुधीः ।
अष्टोत्तरशतं जप्त्वा सिद्धो भवति नान्यथा ॥ १ ॥
मनःसारथिना जीवः उन्मनी मनसारथिः ।
तस्मिन् क्षणे महेशानि पुरुषं पापरुपिणम् ॥ २ ॥
सखावत् मनसा देवि जीवो ब्रह्मपुरं यदा ।
पापस्य गमनं नास्ति सदाशिवपुरं प्रिये ॥ ३ ॥
सदाशिवपुरं देवि सर्वशक्तिमयं स्मृतम् ।
षट्चक्रे परमेशानि क्षणं ध्यात्वा जपेन्मनुम् ॥ ४ ॥
तदनु परमेशानि प्रतिचक्रेषु सञ्जपेत् ।
षट्चक्रं परमं दिव्यं सदा शिवपुरीसमम् ॥ ५ ॥
षट्चक्रे परमेशानि षट्शक्तिर्विद्यते नृणाम् ।
मुहूर्ताभ्यन्तरे देवि यातायातं करोति यः ॥ ६ ॥
स शिवः स च विष्णुश्च स सिद्धः परमेश्वरि ।
यः करोति प्रसन्नात्मा सुषुम्नामध्यवर्तिनि ॥ ७ ॥
यो जपेत् परया भक्त्या स्वविद्यां कमलेक्षणे ।
एकोच्चारेण गिरिजे कोटिपूजाफलं लभेत् ॥ ८ ॥
किं तस्य बाह्यपूजायां सर्वं व्यर्थं कदर्थनम् ।
मानसोच्चारणाद् देवि जपात् सिद्धिः प्रजायते ॥ ९ ॥
मनसा ध्यानमात्रेण सर्वसिद्धिर्न संशयः ।
अन्तःपूजा महेशानि बाह्यकोटिसमं स्मृतम् ॥ १० ॥
पूजा हि परमेशानि द्विविधं कमलानने ।
अन्तः सूक्ष्मं बहिः स्थूलं सर्वागममतं प्रिये ॥ ११ ॥
एकं हि सूक्ष्मपूजायां कोटिस्थूलं भवेत् प्रिये ।
न शुद्धिं परमेशानि वस्त्रादीनि शुचिस्मिते ॥ १२ ॥
सर्वासु बाह्यपूजासु अन्तःपूजा विधीयते ।
अन्तःपूजा महेशानि तेजःपुञ्जस्य भावनम् ॥ १३ ॥
तेजःपुञ्जं महेशानि अनन्तशक्तिसंयुतम् ।
सूक्ष्मदेहे महेशानि सूक्ष्मपूजा विधीयते ॥ १४ ॥
स्थूलपूजा स्थूलदेहे पूजाद्वयमिहोच्यते ।
सुक्ष्मा तु परमा पूजा साक्षात् प्रकृतिरूपिणी ॥ १५ ॥
या पूजा परमेशानि स्त्रीरूपा शक्तिरूपिणी ।
ब्रह्मविष्णुशिवादीनां सा पूजा इष्टदेवता ॥ १६ ॥
विष्णुं वा पूजयेद् यस्तु शिवं वा कमलेक्षणे ।
सर्वं हि परमेशानि परतेजसि लीयते ॥ १७ ॥
यानि यानि महेशानि नैवेद्यं दीपमुत्तमम् ।
सर्वं तदक्षयं याति परतेजसि अर्पणात् ॥ १८ ॥
निश्चयं परमं ब्रह्म कुतः प्रीतिः कुतः सुखम् ।
निराकारं निरीहञ्च रहितमिन्द्रियेण च ॥ १९ ॥
सर्वं हि परमेशानि व्याप्य तिष्ठति मोहिनी ।
यद् यत् कर्मकृतं पुण्यं तत्तदक्षयमाप्नुयात् ॥ २० ॥
ब्रह्मरूपं महेशानि शक्तिश्च निश्चयं प्रिये ।
तस्य पूजा महेशानि कदाचिन्नास्ति पार्वति ॥ २१ ॥
अत एव महेशानि ब्रह्मणः शक्तिकारणम् ।
कार्यञ्च परमेशानि शक्तिश्च सततं प्रिये ॥ २२ ॥
अतः परं महेशानि न कार्यकारणं प्रिये ।
यस्तु सततं देवि ईश्वरे निश्चलः सदा ॥ २३ ॥
शक्तियुक्तं जपेद् देवम् ईश्वरं सततं प्रिये ।
अत एव महेशानि ब्रह्मशक्तिः परा सदा ॥ २४ ॥
शक्त्या बिना महेशानि न हि मुक्तिः प्रजायते ।
तस्माच्छक्तिश्च मुक्तिश्च स्त्रीरूपी शक्तिरूपिणी ॥ २५ ॥
भक्त्या बिना महेशानि न हि मुक्तिः प्रजायते ।
मुक्तेस्तु कारणं देवि भक्तिः परमदुर्लभा ॥ २६ ॥
अतस्त्रयं महेशानि स्त्रीमयं सचराचरम् ।
श्री-ईश्वर उवाच
षट्चक्राणां महेशानि क्रमाद् वक्ष्यामि शोधनम् ।
मूलाधारस्थितं भूमिं स्वाधिष्ठानस्वरूपकम् ॥ २७ ॥
मणिपूरे जलं देवि ततश्च मरुतं तथा ।
विशुद्धौ च महेशानि आकाशं कमलानने ॥ २८ ॥
आज्ञाचक्रे महेशानि मनः सर्वार्थसाधकम् ।
तदूर्ध्वे परमेशानि पद्ममूर्ध्वमुखं तथा ॥ २९ ॥
शक्तिपुरं महेशानि सदाशिवपुरोपरि ।
सदाशिवपुरं प्राप्य शुद्धस्फटिकसन्निभम् ॥ ३० ॥
सहस्रादित्यसङ्काशं महाकालेन सङ्गतम् ।
महानन्दिगणाकीर्णं मनसा भावयेत् सदा ॥ ३१ ॥
॥ इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे अष्टमः पटलः ॥