०७

अथ सप्तमः पटलः

श्रीदेवी उवाच

विश्वास-प्रस्तुतिः

भूतशुद्धेर्महेशान रहस्यं परमाद्भुतम् ।
अन्यद् वद महेशान यद्यहं तव वल्लभा ॥ १ ॥

मूलम्

भूतशुद्धेर्महेशान रहस्यं परमाद्भुतम् ।
अन्यद् वद महेशान यद्यहं तव वल्लभा ॥ १ ॥

विश्वास-प्रस्तुतिः

यदि न कथ्यते देव विमुञ्चामि तदा तनुम् ।
शूलपाणे महादेव कृपया कथय प्रभो ॥ २ ॥

मूलम्

यदि न कथ्यते देव विमुञ्चामि तदा तनुम् ।
शूलपाणे महादेव कृपया कथय प्रभो ॥ २ ॥

विश्वास-प्रस्तुतिः

गणसुन्दर देवेश हृदयान्मम साम्प्रतम् ।
रहस्यं न हि देवेशि सम्पुटं हृदये मम ।
तव स्नेहान्महेशानि निगदामि पुनः पुनः ॥ ३ ॥

हृदये सम्पुटे देवि ब्रह्मरन्ध्रे च वर्त्तते ।
यानि यानीह तिष्ठन्ति रहस्यं कमलेक्षणे ॥ ४ ॥

सदा मयि महेशानि गौरवं विहितः प्रिये ।
त्रयोदशात्मकं [देवि] बिन्द्वर्द्धचन्द्रसंयुतम् ॥ ५ ॥

कुरु ब्रह्मविष्णुशिवात्मकं प्रणवं त्रिगुणान्वितं तत्त्वसुखम् ।
ब्रह्मस्थानं सदा सेव्यमानं परमेश्वरि ॥ ६ ॥

————————ब्रह्मा विष्णुशिवोपरि स्थितम् ।
अर्द्धयोनिं तदुपरि बिन्दुं निर्विकारं निरीहम् ॥ ६ ॥

ज्योतिर्मयी सदा संसेव्यमानं ब्रह्मादिभिर्या मूर्ध्नि धत्ते परमेश्वरि ।
तं बिन्दुं सदा भावय पार्वति ॥ ७ ॥

नान्यथा वचनं मम हृदि संस्थितं निरञ्जनं पुरं बिन्दुम् ।
बिन्दुं भावय देवेशि किं जपेन शुचिस्मिते ॥ ८ ॥

श्री-ईश्वर उवाच

विश्वास-प्रस्तुतिः

इति सञ्चिन्त्य हृदये सर्वं पूजाफलं लभेत् ।
पूजाभावे महेशानि हृदये चिन्तयेत् शिवाम् ॥ ९ ॥

सर्वपूजाफलं देवि प्राप्नोति पूजकः प्रिये ।
किं तस्य ध्यानपूजायां बिन्दुं भावय पार्वति ॥ १० ॥

सर्वेषामिन्द्रियाणाञ्च तत्त्वानाञ्च शुचिस्मिते ।
जीवोन्मनी च देवेशि सर्वाणि ब्रह्म कारणम् ॥ ११ ॥

यानि यानीह देवेशि इन्द्रियाणीह पार्वति ।
तानि सर्वाणि देवेशि प्रकृतेः परमं वपुः ॥ ११ ॥

ब्रह्मणः कारणं देवि सदा प्रकृतिरूपिणी ।
प्रकृतिः परमेशानि ब्रह्मणोऽव्यक्तमव्ययम् ॥ १२ ॥

स्वस्त्यर्थे परमेशानि भिन्नतां सततं गता ।
शक्तिं विना महेशानि ब्रह्म वै शवरूपवत् ॥ १३ ॥

निरञ्जनं निराकारं सदा पश्यन्ति योगिनः ।
प्रकृत्या सह संयोगं सदा याति निरञ्जनः ॥ १४ ॥

सृष्टिकर्ता सदा नित्यं जायते कमलानने ।
अत एव महेशानि शक्तिप्राधान्यमुच्यते ॥ १५ ॥

अनन्ताः शक्तयः प्रोक्ता व्याप्य ते सचराचरम् ।
शक्तिं बिना महेशानि ब्रह्माण्डं शवरूपवत् ॥ १६ ॥

या शक्तिः परमेशानि मुक्तिस्तु परिगीयते ।
सा स्त्रीरूपा महादेवि हेतुभूता सनातनी ॥ १७ ॥
यत्किञ्चित् क्रियते कार्यं सर्वं तेजसि लीयते ।

शृणु वक्ष्यामि देवेशि रहस्यं परमाद्भुतम् ।
सारात्सारतरं रम्यम् आत्ममध्यस्थितं सदा ॥ १८ ॥

ततो जीवो महेशानि ध्यायेत् परमसुन्दरीम् ।
शिवस्य युवतीं भद्रां कोटिकन्दर्पसंयुताम् ॥ १९ ॥

तस्या कटाक्षमात्रेण ब्रह्माद्या जडवत् प्रिये ।
तन्त्रोक्तविधिना देवि ध्यायेत् परमसुन्दरीम् ॥ २० ॥

इष्टविद्यां महेशानि अष्टोत्तरशतं जपेत् ।
मूलादिब्रह्मरन्ध्रान्तं नदीं ब्रह्मस्वरूपिणीम् ॥ २१ ॥

तत्र नद्यां महेशानि स्नातो जीवः सदा शुचिः ।
वायुं वह्निं तदा देवि वरुणं तदनन्तरम् ॥ २२ ॥

बिन्द्वर्द्धसंयुतं कृत्वा सदा मनसि भावयेत् ।
भूतशुद्धिर्महेशानि तत्क्षणादपि जायते ॥ २३ ॥

ततो जीवः प्रसन्नात्मा सूक्ष्मशुद्धिमवाप्नुयात् ।
इन्द्रियाणाञ्च सर्वेषां सर्वतत्त्वं शुचिस्मिते ॥ २४ ॥

तानि सर्वाणि सूक्ष्माणि प्रकृतिस्था सदा शिवे ।
शरीरं द्विविधं देवि स्थूलं सूक्ष्ममिदं स्मृतम् ॥ २५ ॥

सूक्ष्मञ्च प्रकृते रूपं स्थूलञ्च परमेश्वरि ।
सूक्ष्मं संशोध्य विधिवत् स्थूलञ्च तदनन्तरम् ॥ २६ ॥

शृणु कमलपत्राक्षि भावयेदिष्टदेवताम् ।
जीवञ्च परमेशानि ब्रह्मनद्यां शुचिस्मिते ॥ २७ ॥

स्नानं हि विधिवत् कृत्वा सदा शिवपुरं व्रजेत् ।
ततो जीवो महेशानि वामनासापुटे प्रिये ॥ २८ ॥

विशुद्धां परमां सुक्ष्मां विषतन्तुतनीयसीम् ।
समानीय वह्निरूपं साक्षात् परमसुन्दरीम् ॥ २९ ॥

सदा शिवपुरे भद्रे भावयेत् परदेवताम् ।
तत्र गत्वा महेशानि भावयेदिष्टदेवताम् ॥ ३० ॥

तन्त्रोक्तविधिना देवि ध्यात्वामृतमयीं शिवाम् ।
सदा षोडशवर्षीयां नवयौवनसंयुताम् ॥ ३१ ॥

पूर्णचन्द्रनिभां रक्तां सदा चञ्चललोचनाम् ।
शुक्लकृष्णारुणयुतां पीतां नीलसमावृताम् ॥ ३२ ॥

नानारत्नयुतां रम्यां पादौ नूपुरशोभिताम् ।
किङ्किणी च तथा कट्यां रत्नकाञ्चनमण्डिताम् ॥ ३३ ॥

योगिनीकोटिभिर्युक्तां नानासुखविहारिणीम् ।
कन्दर्पकोटिलावण्यां सदामृतविवर्द्धिनीम् ॥ ३४ ॥

प्रफुल्लचञ्चलापाङ्गि प्रबोध्य परमं शिवम् ।
मुखारविन्दगन्धेनामोदितं परमं शिवम् ॥ ३५ ॥

प्रबोध्य परमेशानि तत्रोप(चोप)विशेत् प्रिये ।
शक्तिसंयोगमात्रेण सारत्वं तस्य नश्यति ।
शिवशक्तिसमायोगादानन्दं जायते द्रुतम् ॥ ३६ ॥

॥ इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे सप्तमः पटलः ॥ ७ ॥