अथ षष्ठः पटलः
श्री-ईश्वर उवाच
विश्वास-प्रस्तुतिः
शृणु ज्ञानं महेशानि ! विशेषं कथयामि ते ।
यज्ज्ञात्वा परमेशानि शिवोऽहं मृत्युनाशकः ॥ १ ॥
मूलम्

यज्ज्ञात्वा परमेशानि ! ब्रह्मा सृष्टिकरः सदा ।
यज्ज्ञात्वा विष्णुदेवश्च स्थितिकर्ता शुचिस्मिते ॥ २ ॥

यज्ज्ञात्वा तु महेशानि ! नाशकोऽहं महेश्वरि ।
चन्द्रः सूर्यो महेशानि यज्ज्ञात्वा परमेश्वरि ॥ ३ ॥

प्रकाशं कुरुते विश्वं ब्रह्माण्डं सचराचरम् ।
अव्यक्तरूपिणीं रम्यां योगगम्यां सदा प्रिये ॥ ४ ॥

सदा शरीरमाश्रित्य वसते कामरूपिणी ।
शरीरं द्विविधं देवि ! स्थूलं सूक्ष्मं शुचिस्मिते ॥ ५ ॥

मांसास्थिलोमरक्तानि मेदो मज्जा वरानने ! ।
विण्मूत्रस्थे हरं चैव वातपित्ते तु सङ्गतम् ॥ ६ ॥

एतत् स्थूलमयं देवि सूक्ष्मं च कथयामि ते ।
इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी ॥ ७ ॥

दक्षिणे पिङ्गला नाम्नी पुंरूपा सूर्यविग्रहा ।
तन्मध्ये परमेशानि ! सुषुम्ना ब्रह्मरूपिणी ॥ ८ ॥

वामावर्तक्रमेणैव वेष्टनं विषतन्तुवत् ।
मूलादिब्रह्मरन्ध्रान्तं व्याप्य तिष्ठति सर्वदा ॥ ९ ॥

इच्छाज्ञानक्रियारूपा त्रिनाडी सर्वतन्तुषु ।
तिस्रः कोट्यः सहस्रं तु शरीरे नाड्यो मताः ॥ १० ॥

तासु मुख्या दश प्रोक्ता तासु तिस्रो व्यवस्थिताः ।
वामनाड्यां महेशानि ! वायुबीजेन पूरयेत् ॥ ११ ॥

वायुं षोड्शधा जप्त्वा पूरयेद् वामवर्तनि ।
मणिपूरे महेशानि चतुःषष्ठी च धारयेत् ॥ १२ ॥

रेचयेत् कुम्भकार्धेन दक्षनाड्यां शुचिस्मिते ।
वह्निबीजं महेशानि ! हृत्पद्मे पूर्ववत् प्रिये ॥ १३ ॥

संशोध्य वायुबीजेन वह्निबीजेन सन्दहेत् ।
ललाटे वारुणं बीजं शुक्लं सञ्चिन्त्य सुन्दरि ॥ १४ ॥

कुम्भकार्धं जपित्वा वै रेचयेद् दक्षिणे पथे ।
एवं द्वादशधा देवि भूतशुद्धिं समाचरेत् ॥ १५ ॥

बृहच्छुद्धिं महेशानि पञ्चभूतस्य पार्वति ! ।
पूर्वोक्तं परमेशानि सामान्यं शुद्धिमेव च ॥ १६ ॥

देहस्य परमेशानि भूतशुद्धिरितीरिता ।
देहस्य सूक्ष्मरूपस्य भूतशुद्धिरियं प्रिये ॥ १७ ॥

मनसः परमेशानि ! उन्मनीसहिता यदि ।
जीवेन सह देवेशि सुषुम्नायां निमज्जयेत् ॥ १८ ॥

ध्यानधारणयोगेन ब्रह्म साक्षान्न संशयः ।
प्रजपेत् परया भक्त्या मालया वर्णसङ्ख्यया ॥ १९ ॥

मुहूर्तं भावयेद् विद्यां मनोन्मनीयुता प्रिये ।
मनोन्मनीयुते जीवः ब्रह्मरन्ध्रे च सञ्जपेत् ॥ २० ॥

ततो ब्रह्मनदीं प्राप्य स्नानं कृत्वा वरानने ! ।
जीवः शुद्धो भवेद् देवि गणैः परिकरैः सह ॥ २१ ॥

जीवस्य परमेशानि परिवारं शृणु प्रिये ।
अक्षिणी नासिके कर्णौ जिह्वा च कमलेक्षणे ॥ २२ ॥

हस्तपादौ महेशानि गुह्योपस्थौ क्रमात् प्रिये ।
नाभिं च परमेशानि ! मनश्च परमेश्वरि ॥ २३ ॥

सर्वेषामिन्द्रियाणां च मनः सर्वत्र सारथिः ।
मनश्च परमेशानि ! उन्मनी भवनाशिनी ॥ २४ ॥

उन्मनी सारथिर्देवि दशा तु निर्गुणाः प्रिये ।
जाग्रत्स्वप्नसुषुप्त्यवस्था एतद् देवि त्रयं स्मृतम् ॥ २५ ॥

ततः परं महेशानि तु [सू] र्यावस्था विधीयते ।
इन्द्रियाणां तु सर्वेषां मनः परमसारथिः ॥ २६ ॥

सदसत्कर्मकर्तृत्वाज्जीवस्य सारथिर्मनः ।
स्वकर्म भजते देवि ! उन्मनी सततं प्रिये ॥ २७ ॥

असत्कर्म महेशानि पापयोगात् प्रजायते ।
रोदनं मोहमूर्च्छे च क्षुधा तृष्णा शुचिस्मिते ॥ २८ ॥

पुरुषात् पापमु[स्यो]त्पत्तिर्जायते कमलेक्षणे ।
जोबो नित्योऽव्ययः सूक्ष्मः सर्वगः सर्ववित् परः ॥ २९ ॥

यथा ब्रह्म तथा जीवः प्रदीपकलिका इव ।
प्रदीपकलिकाकारः सर्वः प्राप्य विजृम्भते ॥ ३० ॥

मनसा परमेशानि ध्यात्वा नाडीं परां शिवाम् ।
कोटिसूर्यप्रतीकाशां स्वर्णदीं पापनाशिनीम् ॥ ३१ ॥

तन्मध्ये परमेशानि सुषुम्नां भुवि तत्पराम् ।
साक्षाद् ब्रह्मह्रदाकारां नानासुखविहारिणीम् ॥ ३२ ॥

सुखसेव्यां सदाराध्यां साक्षाद् ब्रह्मस्वरूपिणीम् ।
ज्ञानविज्ञानसंयुक्तां चिदाकारां सनातनीम् ॥ ३३ ॥

परं ब्रह्म महेशानि यस्याः पालङ्कमिच्छति ।
वामपार्श्वे स्थितां नित्यां ब्रह्मरूपां तडिन्मयीम् ॥ ३४ ॥

दक्षिणे पिङ्गलां देवीं पुंरूपां सूर्यसन्निभाम् ।
तन्मध्यस्थां महेशानि अमृतभवपूरिताम् ॥ ३५ ॥

विचित्रां परमां सूक्ष्मां महामोक्षप्रदायिनीम् ।
वामनाडी महेशानि सुप्तिरूपा पुरःस्थिता ॥ ३६ ॥

स्वप्नन्तु परमेशानि तुरीया परिगीयते ।
—————दक्षिणे पिङ्गलाश्रिता ॥ ३७ ॥
मूलम्
स्वप्नन्तु परमेशानि तुरीया परिगीयते ।
—————दक्षिणे पिङ्गलाश्रिता ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सुषुम्ना परमेशानि जागद्रूपा सनातनी ।
विचित्रा परमेशानि तुरीया परिगीयते ॥ ३८ ॥

चित्रा मध्यगता भूत्वा जीवः शुद्धमना भवेत् ।
शुद्धः सत्त्वात्मको जीव इष्टदेवीं हृदि न्यसेत् ॥ ३९ ॥

हृदि ध्यात्वा महेशानि जीवो ब्रह्मपरं भवेत् ।
वारत्रयं महेशानि यातायातं करोति हि ॥ ४० ॥

एतद्रहस्यं परमं ब्रह्मलोके सुदुर्लभम् ।
न कस्मैचित् प्रवक्तव्यं पशवे कमलेक्षणे ॥ ४१ ॥

एतत् प्रकाशनाद्देवि हानिः स्यादुत्तरोत्तरम् ।
एतत्तत्वं महेशानि हृदये कुरु यत्नतः ॥ ४२ ॥

एतत्तत्वं महेशानि ब्रह्म जानाति केशवः ।
एतत्तत्त्वं विना देवि मन्त्रसिद्धिर्न जायते ।
एतत्तत्त्वं महेशानि ब्रह्मविष्णुशिवात्मकम् ॥ ४३ ॥

॥ इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे षष्ठः पटलः ॥ ६ ॥