०५

अथ पञ्चमः पटलः
श्री-ईश्वर उवाच

विश्वास-प्रस्तुतिः

मनसा जीवन्संयुक्तः कर्मकर्ता सदा प्रिये ।
मनः प्रविभवे देवि ! उन्मनीसहिता यतः ॥ १ ॥

मूलम्

उन्मनी च महेशानि ! भवपापनिकृन्तनी ।
जीवस्य परमेशानि ! गुप्ततत्त्वं शृणु प्रिये ॥ २ ॥

मूलाधारे स्थितं जीवं प्रदीपकलिकाकृतिम् ।
प्रणवेन समाकृष्य द्वादशान्तं लयेत् सुधीः ॥ ३ ॥

आकाशे च महेशानि ! सुखमोक्षमवाप्नुयात् ।
हृत्पद्मे च महेशानि परं ब्रह्म निरीक्षणम् ॥ ४ ॥

आज्ञायां परमेशानि प्रथमं गुरुदर्शनम् ।
मणिपूरं ततो गत्वा स्नापयेन्मनसा सह ॥ ५ ॥

स्वाधिष्ठानं ततो गत्वा अग्निस्पर्शं समाचरेत् ।
ततो जीवं महेशानि ! मूलाधारं लयेत् प्रिये ॥ ६ ॥

मनःसारथिना देवि ! उन्मनी भवनाशिनी ।
संहत्य सदसत्कर्म जीवः सर्वं करोति हि ॥ ७ ॥

शुद्धसत्त्वात्मको जीवः सदसत्कर्मवर्जितः ।
वामपार्श्वे स्थितं पापं पुरुषेण यदा प्रिये ॥ ८ ॥

संयोगो जायते तत्र असत्कर्म तदाऽकरोत् ।
पापस्य परमेशानि ! संयोगो यदि जायते ॥ ९ ॥

मनसा जीवसंयोगात् सत्कार्यं कुरुते तदा ।
शुद्धसत्त्वात्मको जीवस्तस्य कार्यं कुतः प्रिये ॥ १० ॥

मनश्च परमेशानि उन्मनी संयुता यदि ।
जीवस्य वामपार्श्वे तु तदा तिष्ठति पापधृक् ॥ ११ ॥

दक्षिणे परमेशानि मनश्च उन्मनी यतः ।
उन्मज्जन्ति निमज्जन्ति प्रपञ्चेषु शुचिस्मिते ॥ १२ ॥

उन्मनीकरणं देवि ! दशासु परमेश्वरि ।
जाग्रत्स्वप्नसुषुप्त्यवस्थां चापि परमेश्वरि ॥ १३ ॥

सुषुम्नान्तर्गता चित्रा चन्द्रकोटिसमप्रभा ।
तत्र कुण्डलिनी देवि यातायातं करोति हि ॥ १४ ॥

कदाचित् मासि तं पद्मं कदाचित् रक्तपङ्कजम् ।
कदाचित् शुक्लपद्मं हि वह्निपद्मं कदा प्रिये ॥ १५ ॥

भित्वा पुरीं याति पुनरायाति कुण्डली सदा ।
प्रपञ्चानां महेशानि ! देवानुचरमुत्तमम् ॥ १६ ॥

कथयामि महेशानि सर्वतन्त्रेषु गोपितम् ।
यज्ज्ञात्वा साधको देवि सर्वसिद्धिमवाप्नुयात् ॥ १७ ॥

धर्मार्थकाममोक्षाणां फलभाग् वैष्णवो यतः ।
तव स्नेहान्महेशानि ! निगदामि शुचिस्मिते ॥ १८ ॥

ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च ।
कौमारी वैष्णवी दुर्गा नारसिंही च कालिका ॥ १९ ॥

शिवदूती च वाराही माहेशी कौशिकी तथा ।
शाङ्करी च जयन्ती च विशुद्धपद्मसंस्थिता ॥ २० ॥

मङ्गला कपालिका चैव मेधा च शिवरूपिका ।
शाकम्भरी च भीमा च गाण्डा च भ्रामरी तथा ॥ २१ ॥

रुद्ररुपिण्यम्बिका च क्षमा च वह्निरूपिणी ।
एतास्तु परमेशानि ! हृत्पद्मे संस्थिताः सदा ॥ २२ ॥

धात्री च वह्निरूपा च मध्यमा च शुचिस्मिते ! ।
अपर्णा च महेशानि तथा वामा महोदरी ॥ २३ ॥

घोररूपा महाकाली तथा चैव भयङ्करी ।
क्षेमङ्करी च देविशि ! मणिपूरे स्थिता सदा ॥ २४ ॥

उग्रचण्डा च देवेशि तथा चण्डावती प्रिये ।
चण्डा चैव प्रचण्डा च चण्डनायकसेविता ॥ २५ ॥

चण्डिका चैव देवेशि ! स्वाधिष्ठाने स्थिता सदा ।
महादेवी महेशानि तथैव मोहरुपिणी ॥ २६ ॥

तथा प्रियङ्करी चैव तथा चैव सनातनी ।
एतास्तु परमेशानि मूलाधारे स्थिताः सदा ॥ २७ ॥

फलविकरिणीरूपा बलप्रमथिनी तथा ।
अक्षरं युगलं देवि आज्ञाचक्रे स्थिता सदा ॥ २८ ॥

अस्यास्तु परमेशानि विशेषं शृणु पार्वति ।
एतज्ज्ञानं महेशानि सदाशिवव्यवस्थितम् ॥ २९ ॥

अस्य ज्ञानप्रभावेण संहरामि जगत् त्रयम् ।
स्थितिकर्ता भवेद् विष्णुर्ब्रह्मा सृष्टिकरं सदा ॥ ३० ॥

यस्य यस्य च देवेशि ! यद् बीजं पूर्वसूचितम् ।
तद्बीजे पुटितं कृत्वा देवानां जपमाचरेत् ॥ ३१ ॥

भूतशुद्धिस्तदा देवि ! सिद्धो भवति पार्वति ।
अन्यथा प्रेतवच्छुद्धिर्जायते कमलेक्षणे ॥ ३२ ॥

पञ्चाशन्मातृणां देवि षट्चक्रे क्रमतो जपेत् ।
षट्चक्रे परमेशानि ! यत्नतो जपमाचरेत् ॥ ३३ ॥

तदैव महती सिद्धिः साधकस्याषि जायते ।
कलावृक्षे समो भूत्वा साधकः खेचरो भवेत् ॥ ३४ ॥

अणिमादिगुणाधारं तथा भवति साधकः ।
अणिमा सूक्ष्मरूपं च लघिमा स्थूलरूपकम् ॥ ३५ ॥

सर्वैश्वर्यपदप्राप्तिं प्राप्तिं परममुच्यते ।
मनःक्लेशकरं चैव प्राकाश्यं कमलानने ॥ ३६ ॥

महिमा सर्वलोकेषु गीयते कमलानने ।
तदैव महिमा देवि ! मम ज्ञानेषु वर्तते ॥ ३७ ॥

ब्रह्माण्डव्यापकं रूपम् ईशित्वं च प्रकीर्तितम् ।
ब्रह्माण्डवशरूपं च वशित्वं कथितं प्रिये ! ॥ ३८ ॥

कन्दर्पध्वंसजननमेतत् कामवशायिता ।
अणिमादिगुणं देवि ! तव भक्त्या प्रकाशितम् ॥ ३९ ॥

न कस्मैचित् प्रवक्तव्यं तव योनिं यथा प्रिये ।
शृणु देवि प्रवक्ष्यामि भूतशुद्धेस्तु कारणम् ॥ ४० ॥

——-महेशानि ! अष्टोत्तरशतं जपेत् ।
तारं व्योमाग्नि गुण्डी तथा ज्योतिर्मनुः स्मृतः ।
एतज्ज्ञानप्रभावेण भूतशुद्धेः फलं भवेत् ॥ ४१ ॥

॥ इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे पञ्चमः पटलः ॥ ५ ॥