०४

अथ चतुर्थः पटलः
श्री-ईश्वर उवाच

विश्वास-प्रस्तुतिः

नाभिमध्ये तु वामा च ज्येष्ठा च हृदि संस्थिता ।
रौद्री च परमेशानि ! सदा शिरसि संस्थिता ॥ १ ॥

मूलम्

वामा ब्रह्मा महेशानि ! ज्येष्ठा च विष्णुरीरिता ।
रौद्री रुद्रं तु विज्ञेया बिन्दुत्रयमितीरिता ॥ २ ॥

ब्रह्मा विष्णुश्च रुद्रश्च सदा प्रकृतिरूपिणी ।
बिन्दुना परमेशानि ! कर्मकर्ता सदा प्रिये ॥ ३ ॥

ब्रह्मविष्णुमहेशानां बिन्दुबीजं शुचिस्मिते ! ।
बिन्दुना जायते सृष्टिः पालनं च शुचिस्मिते ॥ ४ ॥

बिन्दुना हरते सृष्टिं क्रमतः परमेश्वरि ! ।
बिन्दुं विना महेशानि ! सकलं प्रेतवत् प्रिये ॥ ५ ॥

अतः परं प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
मूलाधारे महेशानि ! त्र्यक्षरीं दशधा जपेत् ॥ ६ ॥

त्र्यक्षरीं शृणु देवेशि ! सावधानाऽवधारय ।
शिवबीजं समुद्धृत्य पृथ्वीबीजपुटं कुरु ॥ ७ ॥

बिन्द्वर्धसंयुतं कृत्वा साधको जपमारभेत् ।
हृत्पद्मे रञ्जितशिवा समुद्धृत्य शुचिस्मिते ॥ ८ ॥

शिवबीजे पुटीकृत्य बिन्द्वर्धसंयुतं कुरु ।
ललाटे परमेशानि ! रलबीजं समुद्धर ॥ ९ ॥

कलावती पुटीकृत्वा बिन्द्वर्धसंयुक्तं कुरु ।
एता विद्या महेशानि ! भूतशुद्धेस्तु कारणम् ॥ १० ॥

श्रीदेवी उवाच

कथ्यतां देवदेवेश ! ज्ञानचक्षुस्तपोमयम् ।
कृपया कथयेशान ! यद्यहं तव वल्लभा ॥ ११ ॥

वामपार्श्वे स्थितं देवं सन्दह्य परमेश्वर ! ।
जीवः शुद्धात्मको भूत्वा मनसा परमेश्वर ॥ १२ ॥

पूजयेदिष्टदेवं च जपेद् विद्यां प्रसन्नधीः ।
पुनस्तु पुरुषं पापं कथमुत्पद्यते तथा ॥ १३ ॥

एतत्तु संशयं देव हृदये शाल्यवन्मम ।
संशयं मे महादेव ! छिन्धि देव दयानिधे ॥ १४ ॥

मूलम्

एतत्तु संशयं देव हृदये शाल्यवन्मम ।
संशयं मे महादेव ! छिन्धि देव दयानिधे ॥ १४ ॥

विश्वास-प्रस्तुतिः

श्री-ईश्वर उवाच

शृणु कमलपत्राक्षि ! रहस्यं परमाद्भुतम् ।
शोषणैर्दहनैर्देवि ! पुरुषं पापरूपकम् ॥ १५ ॥

सन्दह्य परमेशानि ! पुनरुत्पद्यते सदा ।
इडा तु वामदेशे हि सदा तिष्ठति पार्वति ॥ १६ ॥

वामनाड्या कृतं पापं वामकुक्षौ स्थितं प्रिये ।
नाडीसंयोगमात्रेण पापमूलं निकृन्तति ॥ १७ ॥

अत एव महेशानि ! पुरुषं कृष्णमूर्धजम् ।
पुनरुत्पद्यते देवि ! जपपूजाविधेरनु ॥ १८ ॥

शृणु कमलपत्राक्षि ! रहस्यं हृदये स्थितम् ।
दहन्तं शेषपापं च नाशनं यदि चेच्छसि ॥ १९ ॥

तत् पापस्यापनोदे च विद्यामेनां जपं कुरु ।
कामनया तथा देवि ! मन्मथं परमेश्वरि ॥ २० ॥

अष्टोत्तरशतं जप्त्वा तस्मात् पापाद् विमुच्यते ।
मनो जीवात्मनोः शुद्धिः प्राणयामेन सुन्दरि ॥ २१ ॥

एतत् शुद्धिर्महेशानि सर्वतन्त्रेषु शस्यते ।
सर्वेषु विष्णुमन्त्रेषु शिवमन्त्रे गणाधिपे ॥ २२ ॥

शक्तौ सूर्ये महेशानि ! अन्यदेवगणेषु च ।
एवं ते कथितं देवि ! रहस्यं परमाद्भुतम् ॥ २३ ॥

आधारं पृथ्वीतत्त्वं वै स्वाधिष्ठानं जलं प्रिये ।
मणिपुरम् अग्नितत्त्वं वायुतत्त्वमनाहते ॥ २४ ॥

कण्ठे च परमेशानि ! शून्यतत्त्वं सदा स्मृतम् ।
मनस्तत्त्वं तदूर्ध्वं च मनः सर्वत्र व्यापकम् ॥ २५ ॥

विभुत्वाद् व्यापकत्वाच्च साक्षाद् बिन्दुमयं मनः ।
यावस्ति परमेशानि भूतशुद्ध्यान्दि यानि च ॥ २६ ॥

तानि सर्वाणि देवेशि ! मनसैव प्रणीयते ।
सर्वगामी सर्ववेत्ता सर्वसाक्षी सदा मनः ॥ २७ ॥

पापपुण्ये महेशानि रक्षकं स्यात् मनः प्रिये ।
मनसा वाक्यमुत्पन्नं मनसैव प्रणीयते ।
मन्त्रं विद्या महेशानि ! मनसा जपमाचरेत् ॥ २८ ॥

॥ इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे चतुर्थः पटलः ॥ ४ ॥