०३

अथ तृतीयः पटलः

श्री-ईश्वर उवाच

विश्वास-प्रस्तुतिः

शृणु पार्वति ! वक्ष्यामि रहस्यं परमाद्भुतम् ।
गुह्याद् गुह्यतरं देवि सुगोप्यं भुवनत्रये ॥ १ ॥

मूलम्

ब्रह्मरन्ध्रे सहस्रारे यत्र देवः सदाशिवः ।
संवेष्ट्य परमा देवी यत्रास्ते परमेश्वरि ! ॥ २ ॥

कुण्डलीं योजयेत् तत्र एकत्वं जायते तदा ।
अकारादिक्षकारान्ताः सर्वबीजे नियोजयेत् ॥ ३ ॥

आदौ मनसि देवेशि ! प्राणविद्यां वरानने ।
प्रजप्य दशधा देवि ! कुण्डलीं परमां व्रजेत् ॥ ४ ॥

पुरीं शक्तिमयीं देवि नित्यानन्दमयं सदा ।
सहस्रदलसंयुक्तं पद्मं नित्यागमं प्रिये ॥ ५ ॥

पद्ममध्ये महेशानि ! पुरीं शक्तिमयीं प्रिये ।
सदाशिवो महेशानि ! यत्रास्ते परमेश्वरि ॥ ६ ॥

शुद्धतत्त्वादिकं देवं निर्मलं निश्चलं सदा ।
शिवं प्राप्य महेशानि ! कुण्डली शिवसन्निधौ ॥ ७ ॥

शिवस्य मुखपद्मं हि चुचुम्बे कुण्डली प्रिये ।
सर्वत्र सम्पुटं दत्त्वा मोहयेत् परमं शिवम् ॥ ८ ॥

सदाशिवः शिवस्तत्र शान्तो भवति सुप्रिये ।
पद्ममध्ये स्थितं देवं निरीहं शवरूपवत् ॥ ९ ॥

शवरूपो महादेवो हृद्यो नास्ति कदाचन ।
शक्तिसंयोगमात्रेण कर्मकर्ता स उच्यते ॥ १० ॥

तस्मात् तत् परमेश्वानि ! शक्तेः प्राधान्यमुच्यते ।
शक्तिं विना महेशानि न किञ्चिदपि वर्तते ॥ ११ ॥

सदाशिवो महाप्रेतः केवलं निश्चयं प्रिये ।
सदाशिवपुरं देवि वैकुण्ठं परमं पदम् ॥ १२ ॥

सदाशिवपुरं गत्वा कुण्डली परदेवता ।
सदाशिवेन च समं क्षणमात्रं रमेत् प्रिये ! ॥ १३ ॥

सदाशिवेन देवेशि सङ्गमं जायते प्रिये ।
अमृतं जायते देवि तत्क्षणात् परमेश्वरि ।
तेनामृतेन देवेशि षट्चक्रं प्लावयेत् क्रमात् ॥ १४ ॥

शृणु पार्वति ! वक्ष्यामि रहस्यं भुवि दुर्लभम् ।
गुह्याद् गुह्यतरं रम्यं त्रिषु लोकेषु दुर्लभम् ॥ १५ ॥

अपानमूर्धगं कृत्वा दिव्यमर्थं प्रपूर्य च ।
प्राणमन्त्रेण देवेशि ! शक्तिं कुण्डलिनीं पराम् ॥ १६ ॥

क्रमाच्चक्राणि निर्भिद्यं जीवात्मानमनोहरात् ।
सहस्रारे शिरःपद्मे परे ब्रह्मणि योजयेत् ॥ १७ ॥

बुद्ध्यहङ्कारचित्तानि तत्त्वानि प्रकृतिर्वपुः ।
तस्मात् सर्वाणि तत्त्वानि बीजरूपेण भावयेत् ॥ १८ ॥

ततः शून्ये शरीरे च कुक्षौ वामे विचिन्तयेत् ।
सर्वपापात्मकं क्रूरं पुरुषं पिङ्गमूर्धजम् ॥ १९ ॥

ततो नाभौ वायुबीजं धूम्रं सञ्चिन्त्य तज्जपेत् ।
दशधा वायुमुत्षाद्य वपुः पापं विशोधयेत् ॥ २० ॥

स पापं तु ततो मन्त्री हृदये वह्निबीजकम् ।
रक्तं विभाव्य दशधा तज्जपाच्च हुताशनम् ॥ २१ ॥

समुत्पाद्य दहत्येनं सपापं तद्वपुः प्रिये ।
ललाटे वारुणं बीजं शुद्धं सञ्चिन्त्य तज्जपात् ॥ २२ ॥

दशधामृतविष्टिन्तु समुत्पाद्य शुचिस्मिते ।
सर्वव्यथाविनिर्मुक्तं जातं दिव्यवपुस्ततः ॥ २३ ॥

निष्पापं प्लावयेत् तस्मात् तथा भावेन तत्परः ।
अवगत्य धराबीजं मूलाधारे विचिन्तयेत् ॥ २४ ॥

दशधा तज्जपाद् देवि ! पृथ्वीमुत्पाद्य सुन्दरि ।
ततः सर्वाणि बीजानि तत्त्वानि च शुचिस्मिते ॥ २५ ॥

यथास्थाने न्यसेद् बीजम् आज्ञाचक्रात् शुचिस्मिते ।
आज्ञादिगुणपद्मान्तं संस्थाप्य परमेश्वरि ! ॥ २६ ॥

क्रमं तस्य प्रवक्ष्यामि सावधानाऽवधारय ।
एतद् रहस्यं परमं सदा मम हृदि स्थितम् ॥ २७ ॥

यन्मन्त्रसहितं देवि क्रमात् सुन्दरि तत् शृणु ।
बीजं कुण्डलिनीं देवि आज्ञाचक्रं समानयेत् ॥ २८ ॥

तस्मिन् चक्रे महेशानि आत्मा मनःसमन्वितः ।
पञ्चाशन्मातृकामन्त्रं दशधा प्रजपेत् प्रिये ॥ २९ ॥

तत्र युग्मकलां ध्यात्वां मूलमन्त्रेण तर्पयेत् ।
लम्बयेत् परमेशानि जीवं कुण्डलिनीसह ॥ ३० ॥

मनसा संयुतं कृत्वा विशुद्धौ लम्बयेत् प्रिये ! ।
तच्चक्रे परमेशानि मातृकावर्णमुत्तमम् ॥ ३१ ॥

प्रजपेद् दशधा देवि ! मनःसारथिना प्रिये ।
सर्वं हि मनसा कार्यं मनः सर्वार्थसाधकम् ॥ ३२ ॥

तत्रस्थां षोडशकलां मूलमन्त्रेण तर्पयेत् ।
लम्बयेत् प्रणवैर्देवि पुरीं[प्रति]ध्वनिमयीं प्रति ॥ ३३ ॥

तत्रस्थं देवदेवेशं महादेवं च तर्पयेत् ।
प्रणवेन तु मन्त्रेण तर्पयेत् शिवरूपिणम् ॥ ३४ ॥

तत्रस्थां द्वादशकलां तडित्कोतिसमप्रभाम् ।
तर्पयेत् मूलमन्त्रेण मातृकाजपपूर्वकम् ॥ ३५ ॥

लम्बयेत् मणिपूरे च शिवं तत्र प्रतर्पयेत् ।
तत्रस्थां दशकलां देवि ! मूलमन्त्रेण तर्पयेत् ॥ ३६ ॥

मातृकां प्रथमे जप्त्वा तर्पयेत् परमां कलाम् ।
तदधः परमेशानि ! स्वाधिष्ठानेषु लम्बयेत् ॥ ३७ ॥

स्वाधिष्ठानं महेशानि ! शुक्लं हीरकसन्निभम् ।
तत्रस्थं शिवदेवं च मूलमन्त्रेण तर्पयेत् ॥ ३८ ॥

मूलमन्त्रं महेशानि ! प्रासादं परमं शिवम् ।
तत्रस्थां षट्कलां दिव्यां मायाबीजेन तर्पयेत् ॥ ३९ ॥

मूलाधारं ततो नीत्वा बीजं कुण्डलिनीसह ।
मनःसारथिना देवि ! शिवं सम्भाव्य यत्नतः ॥ ४० ॥

तर्पयेन्मूलमन्त्रेण प्रासादेन शिवं प्रिये ! ।
ततो युगकलां नित्यां मूलमन्त्रेण तर्पयेत् ॥ ४१ ॥

मातृकां दशधा जप्त्वा शिवं सन्तोषयेत् सदा ।
स्वस्थानं प्राप्य देवेशि ! कुण्डली परदेवता ॥ ४२ ॥

ब्रह्मविष्णुशिवयुता विषतन्तुतनीयसीम् ।
जवासिन्दूरसङ्काशामुद्यद्भास्करसन्निभाम् ॥ ४३ ॥

शिवस्य युवतीं योग्यां वह्निरूपधरां प्रिये ! ।
ततस्तु परमेशानि ! जीवं पुष्करमानयेत् ॥ ४४ ॥

हृदिस्थं पुष्करं पद्मं जीवस्थां सदा स्मृतम् ।
ब्रह्मस्थानं च तद् देवि ! सूर्यमण्डलसन्निभम् ॥ ४५ ॥

शब्दब्रह्म परं ब्रह्म शब्दास्तिष्ठन्ति तत्र वै ।
प्रदीपकलिकाकारं शब्दब्रह्म शुचिस्मिते ॥ ४६ ॥

प्रदीपकलिकाकारं जीवं च परमेश्वरि ! ।
शब्दब्रह्म परं ब्रह्म शक्तियुक्तं सदा प्रिये ! ॥ ४७ ॥

जलसूर्याग्निचन्द्रेषु शक्तिः सर्वत्र वर्तते ।
शक्तिः सर्वेषु देवेषु देवीषु च शुचिस्मिते ॥ ४८ ॥

शक्तियुक्तं जायते सर्वं यो न जानाति पामरः ।
प्रेतलोकं स गत्वा वै शूकरत्वं प्रजायते ॥ ४९ ॥

॥ इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे तृतीयः पटलः ॥ ३ ॥