०२

अथ द्वितीयः पटलः

विश्वास-प्रस्तुतिः

ततस्तु प्रमेशानि !
मणिपूरं विभिद्यते
वायुं च तत्र वै नीत्वा
मनसा परमेश्वरि ॥ १ ॥

मूलम्

ततस्तु प्रमेशानि ! मणिपूरं विभिद्यते ।
वायुं च तत्र वै नीत्वा मनसा परमेश्वरि ॥ १ ॥

विश्वास-प्रस्तुतिः

समानं संयुतं कुर्याद्
अपानं परमेश्वरि ! ।
ततो ब्रह्मनदीं भित्त्वा
वायुर् मणिपुरं ययौ ॥ २ ॥

मूलम्

समानं संयुतं कुर्यादपानं परमेश्वरि ! ।
ततो ब्रह्मनदीं भित्त्वा वायुर्मणिपुरं ययौ ॥ २ ॥

विश्वास-प्रस्तुतिः

तत्रस्थं शिवलिङ्गं तु
नीलनीरदसन्निभम् ।
तत्पात्रं कृष्णवर्णं च
अक्षरं कृष्णरूपकम् ॥ ३ ॥

मूलम्

तत्रस्थं शिवलिङ्गं तु नीलनीरदसन्निभम् ।
तत्पात्रं कृष्णवर्णं च अक्षरं कृष्णरूपकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

तन्मध्यस्थं महादेवं
सर्वदेवादिकारणम् ।
मणिपूरं महेशानि !
महा-मरकत-प्रभम् ॥ ४ ॥

मूलम्

तन्मध्यस्थं महादेवं सर्वदेवादिकारणम् ।
मणिपूरं महेशानि ! महामरकतप्रभम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

शिवं सम्भाव्य देवेशि !
दशवर्णं मनुं जपेत्
डकारादिककारान्तं
बिन्द्व्-अर्धसंयुतं कुरु ॥ ५ ॥

मूलम्

शिवं सम्भाव्य देवेशि ! दशवर्णं मनुं जपेत् ।
डकारादिककारान्तं बिन्द्वर्धसंयुतं कुरु ॥ ५ ॥

विश्वास-प्रस्तुतिः

दशपत्रस्थितं वर्णं
पूर्वादिक्रमतो जपेत् ।
दशपत्रं कृष्णवर्णम्
अक्षरं कृष्णरूपकम् ॥ ६ ॥

मूलम्

दशपत्रस्थितं वर्णं पूर्वादिक्रमतो जपेत् ।
दशपत्रं कृष्णवर्णम् अक्षरं कृष्णरूपकम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तन्मध्यस्थं महादेवं
सर्वदेवादिकारणम् ।
दशाक्षरजपाद् देवि
दशजन्माघनाशदम् ॥ ७ ॥

मूलम्

तन्मध्यस्थं महादेवं सर्वदेवादिकारणम् ।
दशाक्षरजपाद् देवि दशजन्माघनाशदम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

ततो वायुर् महेशानि !
अनाहतपुरीं ययौ ।
आदित्य-पत्र-संयुक्तं
वर्णैर्द्वादशभिर्युतम् ॥ ८ ॥

मूलम्

ततो वायुर्महेशानि ! अनाहतपुरीं ययौ ।
आदित्यपत्रसंयुक्तं वर्णैर्द्वादशभिर्युतम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

तत्पत्रं परमेशानि !
वर्णं च शुक्लरूपकम् ।
कादिठान्ताक्षरैर् वर्णैः
शोभितं परमाक्षरम् ॥ ९ ॥

मूलम्

तत्पत्रं परमेशानि ! वर्णं च शुक्लरूपकम् ।
कादिठान्ताक्षरैर्वर्णैः शोभितं परमाक्षरम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

हृत्पद्मं परमेशानि
शुद्धसत्त्वात्मकं सदा ।
प्रदीपकलिकाकारं
तन्मध्ये ब्रह्मरूपिणम् ॥ १० ॥

मूलम्

हृत्पद्मं परमेशानि शुद्धसत्त्वात्मकं सदा ।
प्रदीपकलिकाकारं तन्मध्ये ब्रह्मरूपिणम् ॥ १० ॥

विश्वास-प्रस्तुतिः

वेष्टितं द्वादशवर्णैः
सर्वशक्तिमयं प्रिये ।
सम्मुखे तस्य देवेशि !
जीवस्तिष्ठति सर्वदा ॥ ११ ॥

मूलम्

वेष्टितं द्वादशवर्णैः सर्वशक्तिमयं प्रिये ।
सम्मुखे तस्य देवेशि ! जीवस्तिष्ठति सर्वदा ॥ ११ ॥

विश्वास-प्रस्तुतिः

तत्र जीवो महेशानि
सदा तिष्ठति पार्वति ! ।
वायुं तेजोयुतं जीवं
दृष्ट्वा मनोलयं कुरु ॥ १२ ॥

मूलम्

तत्र जीवो महेशानि सदा तिष्ठति पार्वति ! ।
वायुं तेजोयुतं जीवं दृष्ट्वा मनोलयं कुरु ॥ १२ ॥

विश्वास-प्रस्तुतिः

आत्मरूपं वायुरूपं
निरीहं निर्मलं सदा ।
यकारस्याष्टसम्बीजं
जीवं हेमप्रभं सदा ॥ १३ ॥

मूलम्

आत्मरूपं वायुरूपं निरीहं निर्मलं सदा ।
यकारस्याष्टसम्बीजं जीवं हेमप्रभं सदा ॥ १३ ॥

विश्वास-प्रस्तुतिः

तत्रादित्याक्षरं देवि
बिन्द्वर्धसंयुतं कुरु ।
कृत्वा जपं महेशानि !
यत्नेन कुरु सुन्दरि ॥ १४ ॥

मूलम्

तत्रादित्याक्षरं देवि बिन्द्वर्धसंयुतं कुरु ।
कृत्वा जपं महेशानि ! यत्नेन कुरु सुन्दरि ॥ १४ ॥

विश्वास-प्रस्तुतिः

जन्मभिश्च द्वादशभिर्देवि
यत् [कृतम्] पापमर्जितम् ।
तत्सर्वं नाशयत्येव
तत्क्षणात् परमेश्वरि ॥ १५ ॥

मूलम्

जन्मभिश्च द्वादशभिर्देवि यत् [कृतम्] पापमर्जितम् ।
तत्सर्वं नाशयत्येव तत्क्षणात् परमेश्वरि ॥ १५ ॥

विश्वास-प्रस्तुतिः

एवं हि मरुतो भित्त्वा
विशुद्धं प्रति गच्छति
विशुद्धं निर्मलं शुद्धं
षोडशस्वरसंयुतम् ॥ १६ ॥

मूलम्

एवं हि मरुतो भित्त्वा विशुद्धं प्रतिगच्छति ।
विशुद्धं निर्मलं शुद्धं षोडशस्वरसंयुतम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

धूम्रवर्णं महेशानि !
विशुद्धाख्यं मनोहरम् ।
तस्य मध्ये स्थितं
देवि आकाशं शक्तिरूपिणम् ॥ १७ ॥

मूलम्

धूम्रवर्णं महेशानि ! विशुद्धाख्यं मनोहरम् ।
तस्य मध्ये स्थितं देवि आकाशं शक्तिरूपिणम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

क्रमाज्जीवं कुण्डलिन्या
प्रणवेण समाहरेत् ।
मनस्तत्र महेशानि !
सारथिः सर्वतः सदा ॥ १८ ॥

मूलम्

क्रमाज्जीवं कुण्डलिन्या प्रणवेण समाहरेत् ।
मनस्तत्र महेशानि ! सारथिः सर्वतः सदा ॥ १८ ॥

विश्वास-प्रस्तुतिः

सर्वं मनसि कर्तव्यं
भूतशुद्ध्यादिकं प्रिये ! ।
स्वरं च षोडशं देवि
बिन्द्व्-अर्धसंयुतं कुरु ॥ १९ ॥

मूलम्

सर्वं मनसि कर्तव्यं भूतशुद्ध्यादिकं प्रिये ! ।
स्वरं च षोडशं देवि बिन्द्वर्धसंयुतं कुरु ॥ १९ ॥

विश्वास-प्रस्तुतिः

ततस्तु परमेशानि !
जपेत् षोडशमक्षरम् ।
पूर्वादिक्रमतो देवि
दशधा प्रजपेत् प्रिये ॥ २० ॥

मूलम्

ततस्तु परमेशानि ! जपेत् षोडशमक्षरम् ।
पूर्वादिक्रमतो देवि दशधा प्रजपेत् प्रिये ॥ २० ॥

विश्वास-प्रस्तुतिः

जन्मभिः षोडशभिर्यत् तु
(कृतं) पापं शुभाशुभम् ।
दहेत् तस्य जपाद् देवि
तृणं वह्निर् यथा दहेत् ॥ २१ ॥

मूलम्

जन्मभिः षोडशभिर्यत् तु (कृतं) पापं शुभाशुभम् ।
दहेत् तस्य जपाद् देवि तृणं वह्निर्यथा दहेत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

ततो वायुं महेशानि !
द्रुतमाज्ञापुरीं नयेत् ।
तत्पुरीं परमेशानि
द्विदलं युगवर्णकम् ॥ २२ ॥

मूलम्

ततो वायुं महेशानि ! द्रुतमाज्ञापुरीं नयेत् ।
तत्पुरीं परमेशानि द्विदलं युगवर्णकम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

वर्णं हेमप्रभं देवि !
पुरीं चन्द्रप्रभं सदा ।
बिन्द्वर्धसंयुतं कृत्वा
साधको जपम् आचरेत् ॥ २३ ॥

मूलम्

वर्णं हेमप्रभं देवि ! पुरीं चन्द्रप्रभं सदा ।
बिन्द्वर्धसंयुतं कृत्वा साधको जपमाचरेत् ॥ २३ ॥

विश्वास-प्रस्तुतिः

मनःसारथिना देवि ! जीवं कुण्डलिनीं प्रिये ।
आज्ञां पुरीं नयेत् शीघ्रं मनो मनसि भावनम् ॥ २४ ॥

मूलम्

मनःसारथिना देवि ! जीवं कुण्डलिनीं प्रिये ।
आज्ञां पुरीं नयेत् शीघ्रं मनो मनसि भावनम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

मनसः परमेशानि ! आज्ञापुर्यां स्थितिः सदा ।
गुरोराज्ञाधारणात् तु आज्ञापुरमिमं स्मृतम् ॥ २५ ॥

मूलम्

मनसः परमेशानि ! आज्ञापुर्यां स्थितिः सदा ।
गुरोराज्ञाधारणात् तु आज्ञापुरमिमं स्मृतम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

सदाशिवपुरद्वारं गवाक्षं परमेश्वरि ! ।
एवं प्रपञ्चं भित्त्वा वै कुण्डलीं जीवसंयुताम् ॥ २६ ॥

मूलम्

सदाशिवपुरद्वारं गवाक्षं परमेश्वरि ! ।
एवं प्रपञ्चं भित्त्वा वै कुण्डलीं जीवसंयुताम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

मनःसारथिना देवि सदाशिवपुरं नयेत् ।
पञ्चप्राणसमायुक्ता चतुर्विंशतिसंयुता ॥ २७ ॥

मूलम्

मनःसारथिना देवि सदाशिवपुरं नयेत् ।
पञ्चप्राणसमायुक्ता चतुर्विंशतिसंयुता ॥ २७ ॥

विश्वास-प्रस्तुतिः

इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ।
बुद्ध्यहङ्कारचित्तानि नयेत् शिवपुरं प्रति ॥ २८ ॥

मूलम्

इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ।
बुद्ध्यहङ्कारचित्तानि नयेत् शिवपुरं प्रति ॥ २८ ॥

विश्वास-प्रस्तुतिः

सहस्रारे ततो नीत्वा मनसा योजयेत् सदा ।

श्रीदेवी उवाच

तत्र गत्वा महेशान कुण्डली किमकरोत् प्रभो ॥ २९ ॥

मूलम्

सहस्रारे ततो नीत्वा मनसा योजयेत् सदा ।

श्रीदेवी उवाच

तत्र गत्वा महेशान कुण्डली किमकरोत् प्रभो ॥ २९ ॥

विश्वास-प्रस्तुतिः

श्री-ईश्वर उवाच

चतुर्विंशतितत्त्वेन पञ्चप्राणेन सुन्दरि ।
इन्द्रियैरक्षरैर्देवि ! एकत्वं जायते यदा ॥ ३० ॥

मूलम्

श्री-ईश्वर उवाच

चतुर्विंशतितत्त्वेन पञ्चप्राणेन सुन्दरि ।
इन्द्रियैरक्षरैर्देवि ! एकत्वं जायते यदा ॥ ३० ॥

विश्वास-प्रस्तुतिः

तत्र देवि महेशानि कुण्डलीं भावतत्पराम् ।
पूर्वोक्तध्यानमार्गेण परां तत्र विभावयेत् ॥
सर्वात्मसम्पुटं देवि ! सर्वविद्याभिधारणम् ॥ ३१ ॥

मूलम्

तत्र देवि महेशानि कुण्डलीं भावतत्पराम् ।
पूर्वोक्तध्यानमार्गेण परां तत्र विभावयेत् ॥
सर्वात्मसम्पुटं देवि ! सर्वविद्याभिधारणम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे द्वितीयः पटलः ॥ २ ॥

मूलम्

इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे द्वितीयः पटलः ॥ २ ॥