०१

विश्वास-प्रस्तुतिः

प्रथमः पटलः
श्रीदेवी उवाच

देव देव महादेव साम्प्रतं कथय प्रभो ! ।
भूतशुद्धिं देहशुद्धिं प्राणायामं ततः परम् ॥ १ ॥

मूलम्

प्रथमः पटलः
श्रीदेवी उवाच

देव देव महादेव साम्प्रतं कथय प्रभो ! ।
भूतशुद्धिं देहशुद्धिं प्राणायामं ततः परम् ॥ १ ॥

विश्वास-प्रस्तुतिः

क्रमेण कथ्यतां देव शूलपाणे पिणाकधृक् ।
मन्त्रं यन्त्रं महादेव येन शुध्यति भूतले ॥ २ ॥

मूलम्

क्रमेण कथ्यतां देव शूलपाणे पिणाकधृक् ।
मन्त्रं यन्त्रं महादेव येन शुध्यति भूतले ॥ २ ॥

श्री-ईश्वर उवाच

विश्वास-प्रस्तुतिः

कथयामि वरारोहे खञ्जनाक्षि शुचिस्मिते ।
तत्त्वत्रयं प्रवक्ष्यामि गुह्याद् गुह्यतरं महत् ॥ ३ ॥

मूलम्

कथयामि वरारोहे खञ्जनाक्षि शुचिस्मिते ।
तत्त्वत्रयं प्रवक्ष्यामि गुह्याद् गुह्यतरं महत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

तत्त्वत्रयं विना देवि !
सिद्धिविद्यां जपेत् तु यः ।
तस्य सर्वार्थहानिः स्याज्
जपं च विफलं प्रिये ॥ ४ ॥

मूलम्

तत्त्वत्रयं विना देवि ! सिद्धिविद्यां जपेत् तु यः ।
तस्य सर्वार्थहानिः स्याज्जपं च विफलं प्रिये ॥ ४ ॥

विश्वास-प्रस्तुतिः

भूतशुद्धिं महेशानि !
न्यासं परमदुर्लभम् ।
प्राणायामं ततः कुर्यात्
तत्त्वत्रयम् इदं स्मृतम् ॥ ५ ॥

मूलम्

भूतशुद्धिं महेशानि ! न्यासं परमदुर्लभम् ।
प्राणायामं ततः कुर्यात् तत्त्वत्रयमिदं स्मृतम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

सर्वं कुर्यान् महेशानि !
मातृकाक्षर-संयुतम्
अकारादिक्षकारान्तां
मातृकाक्षररूपिणीम् ॥ ६ ॥

मूलम्

सर्वं कुर्यान्महेशानि ! मातृकाक्षरसंयुतम् ।
अकारादिक्षकारान्तां मातृकाक्षररूपिणीम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

वैदिकं तान्त्रिकं स्नानं
कृत्वा सन्ध्याम् उपाश्रयेत्
आगत्य देवदेवेशि !
यागमण्डल-सन्निधिम् ॥ ७ ॥

मूलम्

वैदिकं तान्त्रिकं स्नानं कृत्वा सन्ध्यामुपाश्रयेत् ।
आगत्य देवदेवेशि ! यागमण्डलसनीधिम्+++(=??)+++ ॥ ७ ॥

विश्वास-प्रस्तुतिः

अन्तःस्नानं ततः कृत्वा
अन्तःसन्ध्याम् उपाश्रयेत्
अन्तःस्नानं च सन्ध्यां च
कथयामि शृणु प्रिये ! ॥ ८ ॥

मूलम्

अन्तःस्नानं ततः कृत्वा अन्तःसन्ध्यामुपाश्रयेत् ।
अन्तःस्नानं च सन्ध्यां च कथयामि शृणु प्रिये ! ॥ ८ ॥

विश्वास-प्रस्तुतिः

गुरु-ध्यानं प्रथमतस्
ततः स्नानं समाचरेत् ।
प्रणवेन महेशानि !
जीवं धृत्वा शुचिस्मिते ॥ ९ ॥

मूलम्

गुरुध्यानं प्रथमतस्ततः स्नानं समाचरेत् ।
प्रणवेन महेशानि ! जीवं धृत्वा शुचिस्मिते ॥ ९ ॥

विश्वास-प्रस्तुतिः

मूलाधारात् समाकृष्य
द्वादशार्णं नयेत् सुधीः ।
स्नायाच् च विमले तीर्थे
पुष्करे हृदयान्विते ॥ १० ॥

मूलम्

मूलाधारात् समाकृष्य द्वादशार्णं नयेत् सुधीः ।
स्नायाच्च विमले तीर्थे पुष्करे हृदयान्विते ॥ १० ॥

विश्वास-प्रस्तुतिः

मूलाधारात् महेशानि
सहस्र-दलम् आनयेत्
सङ्गं परशिवे कृत्वा
आनन्द उपजायते ॥ ११ ॥

मूलम्

मूलाधारात् महेशानि सह स्रदलमानयेत् ।
सङ्गं परशिवे कृत्वा आनन्द उपजायते ॥ ११ ॥

विश्वास-प्रस्तुतिः

तेनानन्देन देवेशि
स्नायाज् जीवम् अनाहते ।
ततस्तु परमेशानि
अजपां+++(=“सोहम्”)+++ प्राणरूपिणीम् ॥ १२ ॥

मूलम्

तेनानन्देन देवेशि स्नायाज्जीवमनाहते ।
ततस्तु परमेशानि अजपां प्राणरूपिणीम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

अष्टोत्तरशतं जप्त्वा
स्नातो भवति पार्वति ! ।
अन्तःसन्ध्यां महेशानि !
कुरु यत्नेन पार्वति ॥ १३ ॥

मूलम्

अष्टोत्तरशतं जप्त्वा स्नातो भवति पार्वति ! ।
अन्तःसन्ध्यां महेशानि ! कुरु यत्नेन पार्वति ॥ १३ ॥

विश्वास-प्रस्तुतिः

शिवशक्तिसमायोगो
यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलसाधूनां
समाधि-स्थः प्रतीयते ॥ १४ ॥

एवं तु ते महेशानि !
सन्ध्यापूतो भवेद् ध्रुवम् ।

मूलम्

शिवशक्तिसमायोगो यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलसाधूनां समाधिस्थः प्रतीयते ॥ १४ ॥ एवं तु ते महेशानि ! सन्ध्यापूतो भवेद् ध्रुवम् ।

श्रीदेवी उवाच

विश्वास-प्रस्तुतिः

अजपां परमेशान !
कथ्यतां मे दयानिधे ! ॥ १५ ॥

मूलम्

अजपां परमेशान ! कथ्यतां मे दयानिधे ! ॥ १५ ॥

श्री-ईशवर उवाच

विश्वास-प्रस्तुतिः

शृणु वक्ष्यामि देविशि !
गुह्याद् गुह्यतरं प्रिये ।
ध्यानमस्याः प्रवक्ष्यामि
यथा ध्यात्वा जपेन्नरः ॥ १६ ॥

मूलम्

शृणु वक्ष्यामि देविशि ! गुह्याद् गुह्यतरं प्रिये ।
ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा जपेन्नरः ॥ १६ ॥

विश्वास-प्रस्तुतिः

“हंसं” नित्यम् अनन्तम् अक्षय-गुणं स्वाभावतो निर्गता ।
यान्ती स्वाश्रयम् अर्क-कोटि-रुचिरा ध्येया जगन् मोहिनी

इति ध्यानं महेशानि
कृत्वा समारभेत् जपम् ।
षट्चक्रं मध्यगं कृत्वा
अजपां परमाक्षराम् ॥ १७ ॥

मूलम्

हंसं नित्यमनन्तमक्षयगुणं स्वाभावतो निर्गता ।
यान्ती स्वाश्रयमर्ककोटिरुचिरा ध्येया जगन्मोहिनी
इति ध्यानं महेशानि कृत्वा समारभेत् जपम् ।
षट्चक्रं मध्यगं कृत्वा अजपां परमाक्षराम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

शिवबीजं+++(=??)+++ समुद्धृत्य
भृगुबीजं+++(=??-)+++ ततः परम् ।
बिन्द्व्-अर्द्धं चन्द्रसंयुक्तं
कुरु यत्नेन सुन्दरि ! ॥ १८ ॥

मूलम्

शिवबीजं समुद्धृत्य भृगुबीजं ततः परम् ।
बिन्द्वर्द्धं चन्द्रसंयुक्तं कुरु यत्नेन सुन्दरि ! ॥ १८ ॥

विश्वास-प्रस्तुतिः

एषा विद्या वरारोहे !
चातुर्वर्णेषु शस्यते ।
एतज्जपं विना देवि
भूतशुद्धिश्च निष्फला ॥ १९ ॥

मूलम्

एषा विद्या वरारोहे ! चातुर्वर्णेषु शस्यते ।
एतज्जपं विना देवि भूतशुद्धिश्च निष्फला ॥ १९ ॥

विश्वास-प्रस्तुतिः

तस्मादादौ जपेद् विद्याम्
अजपां प्राणरूपिणीम् ।
अष्टोत्तरशतं जप्त्वा
भूतशुद्धिं समाचरेत् ॥ २० ॥

मूलम्

तस्मादादौ जपेद् विद्यामजपां प्राणरूपिणीम् ।
अष्टोत्तरशतं जप्त्वा भूतशुद्धिं समाचरेत् ॥ २० ॥

विश्वास-प्रस्तुतिः

षट्चक्र-दल-संस्थाने
यानि वर्णानि पार्वति ! ।
तानि सर्वाणि देवेशि
जीवं सन्न्यस्य पार्वति ॥ २१ ॥

मूलम्

षट्चक्रदलसंस्थाने यानि वर्णानि पार्वति ! ।
तानि सर्वाणि देवेशि जीवं सन्न्यस्य पार्वति ॥ २१ ॥

विश्वास-प्रस्तुतिः

भूतशुद्धिं महेशानि
यत्नतः समुपास्महे ।
मूलाधारान्महेशानि !
मूलपद्मं शुचिस्मिते ॥ २२ ॥

मूलम्

भूतशुद्धिं महेशानि यत्नतः समुपास्महे ।
मूलाधारान्महेशानि ! मूलपद्मं शुचिस्मिते ॥ २२ ॥

विश्वास-प्रस्तुतिः

चतुर्दलयुतं मूलं
दशवर्णेन संयुतम् ।
रक्तवर्णं सदा सेव्यं
योगिभिः परमेश्वरि ! ॥ २३ ॥

मूलम्

चतुर्दलयुतं मूलं दशवर्णेन संयुतम् ।
रक्तवर्णं सदा सेव्यं योगिभिः परमेश्वरि ! ॥ २३ ॥

विश्वास-प्रस्तुतिः

त्रिकोणं सुन्दरं शुद्धं
पृथ्वीबीजं तु मध्यगम् ।
तन्मध्ये भावयेद् देवं
शिवं श्यामलसुन्दरम् ॥ २४ ॥

मूलम्

त्रिकोणं सुन्दरं शुद्धं पृथ्वीबीजं तु मध्यगम् ।
तन्मध्ये भावयेद् देवं शिवं श्यामलसुन्दरम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

अत्र कुण्डलीनी देवि
परं प्रकृतिरूपिणी ।
शिवं वेष्ट्य महेशानि !
सर्वदा तत्र तिष्ठति ॥ २५ ॥

मूलम्

अत्र कुण्डलीनी देवि परं प्रकृतिरूपिणी ।
शिवं वेष्ट्य महेशानि ! सर्वदा तत्र तिष्ठति ॥ २५ ॥

विश्वास-प्रस्तुतिः

प्रसुप्तभुजगाकारं
विद्युत्कोटिनिभां पराम् ।
ब्रह्मविष्णुस्तुतां देवीं
कुण्डलीं ब्रह्मरूपिणीम् ॥ २६ ॥

मूलम्

प्रसुप्तभुजगाकारं विद्युत्कोटिनिभां पराम् ।
ब्रह्मविष्णुस्तुतां देवीं कुण्डलीं ब्रह्मरूपिणीम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

मूलाधारे मनो देवि
विन्यस्य भावयेत् सदा ।
चतुर्दलयुतं वर्णं
तारणं विघ्ननाशनम् ॥ २७ ॥

मूलम्

मूलाधारे मनो देवि विन्यस्य भावयेत् सदा ।
चतुर्दलयुतं वर्णं तारणं विघ्ननाशनम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

बिन्द्वर्धसंयुतं कृत्वा
दशधा प्रजपेत् ततः ।
अजपानां महेशानि !
चतुर्दल-गतं कुरु ॥ २८ ॥

मूलम्

बिन्द्वर्धसंयुतं कृत्वा दशधा प्रजपेत् ततः ।
अजपानां महेशानि ! चतुर्दलगतं कुरु ॥ २८ ॥

विश्वास-प्रस्तुतिः

स्वाधिष्ठाने ततो नीत्वा
पुष्पहंस-समन्वितम् ।
तत्पुरीं च महेशानि !
नीरेण परिपूरितम् ॥ २९ ॥

मूलम्

स्वाधिष्ठाने ततो नीत्वा पुष्पहंससमन्वितम् ।
तत्पुरीं च महेशानि ! नीरेण परिपूरितम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

मूलाधारं यथा पृथ्व्या
शोभते परमेश्वरि ।
नीरेण शोभितं देवि !
स्वाधिष्ठानं शुचिस्मिते ॥ ३० ॥

मूलम्

मूलाधारं यथा पृथ्व्या शोभते परमेश्वरि ।
नीरेण शोभितं देवि ! स्वाधिष्ठानं शुचिस्मिते ॥ ३० ॥

विश्वास-प्रस्तुतिः

षडङ्गविद्युदाधारं
षडक्षरसमन्वितम् ।
व - भ - म - य - र - लैर्युक्तं
कुन्दपुष्पसमन्वितम् ॥ ३१ ॥

मूलम्

षडङ्गविद्युदाधारं षडक्षरसमन्वितम् ।
व - भ - म - य - र - लैर्युक्तं कुन्दपुष्पसमन्वितम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

स्वाधिष्ठानस्थितं देवि
शिवं सर्वज्ञभावनम् ।
मूलाधारात् समुत्थाप्य
कुण्डलीं ब्रह्मरूपिणीम् ॥ ३२ ॥

मूलम्

स्वाधिष्ठानस्थितं देवि शिवं सर्वज्ञभावनम् ।
मूलाधारात् समुत्थाप्य कुण्डलीं ब्रह्मरूपिणीम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

नीत्वा मणिपुरं देवि !
तद्वर्णं जपमाचरेत् ।
बिन्द्वर्धसंयुतं कृत्वा
शोभितं शिवम् अर्चयेत् ॥ ३३ ॥

मूलम्

नीत्वा मणिपुरं देवि ! तद्वर्णं जपमाचरेत् ।
बिन्द्वर्धसंयुतं कृत्वा शोभितं शिवमर्चयेत् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तत्रैव परमेशानि !
षडक्षरजपं कुरु
षट्-पापं नाशयेद् देवि !
तत्क्षणात् परमेश्वरि ! ।
षड्दलं षड्गुणं देवि !
गुदं च चतुरङ्गुलम् ॥ ३४ ॥

मूलम्

तत्रैव परमेशानि ! षडक्षरजपं कुरु ।
षट्पापं नाशयेद् देवि ! तत्क्षणात् परमेश्वरि ! ।
षड्दलं षड्गुणं देवि ! गुदं च चतुरङ्गुलम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

॥ इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे प्रथमः पटलः ॥ १ ॥

मूलम्

॥ इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे प्रथमः पटलः ॥ १ ॥