पाशुपतशास्त्रसूत्रं पञ्चार्थभाष्यम्

[[पाशुपतशास्त्रसूत्रं पञ्चार्थभाष्यम् Source: EB]]

[

पाशुपतशास्त्रसूत्रं पञ्चार्थभाष्यम्

पाशुपतसूत्र, १

अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥ १.१ ॥

हितार्थमखिलं येन सृष्टं ब्रह्मादिकं जगत् । प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् । अर्थातिशयसम्पन्नं ज्ञानातिशयमुत्तमम् । पञ्चार्थं क्रियते भाष्यम्ं कौण्डिन्येनानुपूर्वशः ॥ भाष्यम् १.१ः१
आह वक्ष्यति भगवान् पञ्चार्थम् ॥ भाष्यम् १.१ः२
अथास्यादिसूत्रं किमिति ॥ भाष्यम् १.१ः३
अत्रोच्यते अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः इति ॥ भाष्यम् १.१ः४
एतत्प्रथमसूत्रं शास्त्रादावुच्चार्यते ॥ भाष्यम् १.१ः५
तदनन्तरं पदविग्रहः क्रियते ॥ भाष्यम् १.१ः६
तदुपयोगिनं योगविधिं व्याख्यास्याम इति ॥ भाष्यम् १.१ः७
अष्टपदं सूत्रम् ॥ भाष्यम् १.१ः८
तत्र अथ अतः इति द्वे पदे नैपातिके ॥ भाष्यम् १.१ः९
पशुपतेरित्येतत्पदं परिग्रहार्थेनोच्चार्यते ॥ भाष्यम् १.१ः१०
पाशुपतमिति तद्धितम् ॥ भाष्यम् १.१ः११
योगविधिमिति सामासिकम् ॥ भाष्यम् १.१ः१२
वि आङिति द्वे पदे । ख्यास्याम इत्याख्यातिकम् ॥ भाष्यम् १.१ः१३
आह किं प्रयोजनं पदविग्रहः क्रियते ॥ भाष्यम् १.१ः१४
तदुच्यते अर्थप्रसिद्ध्यर्थम् ॥ भाष्यम् १.१ः१५
कस्मादर्थाप्रसिद्धिः पदानाम् ॥ भाष्यम् १.१ः१६
यस्मात्पृथगर्थानीह पदानि भवन्ति ॥ भाष्यम् १.१ः१७
यस्मादेवं ह्याह ॥ भाष्यम् १.१ः१८
यथा विवृतगात्रोऽ पि शिरसि प्रावृतो नरः । नाभिव्यक्तिं व्रजत्येवं सूत्रं विग्रहवर्जितम् ॥ भाष्यम् १.१ः१९
एवमर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते ॥ भाष्यम् १.१ः२०
आह उक्तः पदविग्रहः प्रयोजनं च ॥ भाष्यम् १.१ः२१
इदं तु वाच्यमथ शास्त्रादिः कः इति ॥ भाष्यम् १.१ः२२
अत्रोच्यते अथातः पशुपतेरित्येष तावच्छास्त्रादिः ॥ भाष्यम् १.१ः२३
तत्र शास्त्रं तन्त्रं ग्रन्थो विद्या च ॥ भाष्यम् १.१ः२४
ग्रन्थार्थयोस्तदधिगमोपायत्वात् ॥ भाष्यम् १.१ः२५
पारिमाण्यमथशब्दादिशिवान्तं प्रवचनम् ॥ भाष्यम् १.१ः२६
संख्या पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं च ॥ भाष्यम् १.१ः२७
अथशब्दातःशब्दव्याख्यानवचनस्नानशयनाद्युपदेशाच्च शिष्याचार्ययोः प्रसिद्धिः ॥ भाष्यम् १.१ः२८
कैवल्यगतानामपि दुःखित्वदर्शनात्कार्यकारणप्रत्यक्षदर्शी विप्रत्वादुपायोपेयप्रत्यक्षदर्शित्वाच्च प्रश्नप्रतिवक्ता ऐश्वर्यावस्थश्चैव मुक्तत्वान्मनोऽमनःसंस्थश्च कामित्वादतः सर्वाचार्यविशिष्टोऽयमाचार्य इति ॥ भाष्यम् १.१ः२९
तथा ब्राह्मणग्रहणात्स्त्रीप्रतिषेधादिन्द्रियजयोपदेशाच्च उक्तं हि । बाधिर्यमान्ध्यमघ्रत्वं मूकता जडता तथा । उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता ॥ भाष्यम् १.१ः३०
आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः ॥ भाष्यम् १.१ः३१
स चान्यविशिष्टोऽयं शिष्य इति ॥ भाष्यम् १.१ः३२
तथा देवादिभ्यश्च क्रीडाधर्मित्वात्क्रीडानिमित्ता ईश्वरप्रवृत्तिः ॥ भाष्यम् १.१ः३३
अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः ॥ भाष्यम् १.१ः३४
तथा भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद्दुःखान्तार्थिनः शिष्यस्येहोपसदनप्रवृत्तिः ॥ भाष्यम् १.१ः३५
न तु धर्मार्थकामकैवल्यार्थात्रेति ॥ भाष्यम् १.१ः३६
तथा कामित्वादिन्द्रकौशिकादिभ्यश्चाचार्यो दिव्यो निरतिशयक्रीडैश्वर्यस्वाभाव्यादित्यर्थः ॥ भाष्यम् १.१ः३७
चोदनोपसदनसंस्कारवश्यादिदुःखैरभिभूतत्वाच्चादिव्या इन्द्रकौशिकाद्याः शिष्या इति ॥ भाष्यम् १.१ः३८
तथा शिष्टप्रामाण्यात्कामित्वादजातत्वाच्च मनुष्यरूपी भगवान् ब्राह्मणकायमास्थाय कायावतरणे अवतीर्ण इति ॥ भाष्यम् १.१ः३९
तथा पद्भ्यामुज्जयिनीं प्राप्तः । कस्मात् । शिष्टप्रामाणत्चिह्नदर्शनश्रवणाच्च । अत्याश्रमप्रसिद्धं लिङ्गमास्थाय प्रवचनमुक्तवान् भस्मस्नानशयनानुस्नाननिर्माल्यैकवासोग्रहणादधिकरणप्रसिद्ध्यर्थं च स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः । अतो रुद्रप्रचोदितः कुशिकभगवानभ्यागत्याचार्ये परिपूर्णपरितृप्त्याद्युत्कर्षलक्षणानि विपरीतानि चात्मनि दृष्ट्वा पादावुपसंगृह्य न्यायेन जातिं गोत्रं श्रुतमनृणत्वं च निवेदयित्वा कृतक्षणमाचार्यं काले वैद्यवदवस्थितमातुरवदवस्थितः शिष्यः पृष्टवान् भगवन् किमेतेषामाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानामैकान्तिकोऽत्यन्तिको व्यपोहोऽस्त्युत नेति । अथोक्तपरिग्रहाधिकारलिप्सासु परापदेशेनोपदेशे सच्छिष्यसाधकपाठप्रसिद्ध्यर्थं कारणपदार्थाधिगमार्थं चात्मनि परापदेशं कृत्वा भगवानेवोक्तवानथेति । अत्र पूर्वप्रकृतापेक्षायामथशब्दः । कथम् । शिष्येणोदीरितं पूर्वं प्रश्नमपेक्ष्योक्तवानथेति । एवमयमथशब्दः पृष्टप्रतिवचनार्थोऽस्ति । स दुःखान्त इत्यर्थः । आह किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः उतापरीक्षितायेति । उच्यते परीक्षिताय । यस्मादाह इति । अत्र अतःशब्दः शिष्यगुणवचने । यस्मादयं ब्रह्मावर्तदेशजः कुलजः पट्विन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतोऽतः शब्दो द्रष्टव्यः । अथ स दुःखान्तः कुतः प्राप्यते केन वाभ्युपायेनेति । तदुच्यते पशुपतेः । प्रसादादिति वाक्यशेषः । अत्र पशूनां पतिः ॥ भाष्यम् १.१ः४०
पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्यकरणाञ्जना निरञ्जनाश्च पशवः । आह किं तेषां पशुत्वम् । उच्यते अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणमस्वातन्त्र्यमनैश्वर्यं बन्धोऽनाडिः । बन्धगुण इत्युपचर्यते । तत्कथंलक्षणमिति चेत् । तदुच्यते पश्यनात्पाशनाच्च पशवः । तत्र पाशा नाम कार्यकरणाख्याः कलाः । ताश्च कला उपरिष्टाद्वक्ष्यामः । ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश्च भूत्वावतिष्ठन्ते इत्यतोऽवगम्यतेऽस्वातन्त्र्यमनैश्वर्यं बन्धः । कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् । तदुच्यते संहृतानामपि पुनः पुनः संबन्धग्रहणाच्छास्त्रे । किं चान्यत् । पश्यनाच्च पशवः । यस्माद्विभुत्वेऽपि चित्समवेतत्वेऽपि च शरीरमात्रमेव पश्यन्त्युपलभन्ति च न बहिर्द्धानि । कार्यकरणरहिताश्च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा । धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच्च । अतः सुष्ठूक्तं पश्यनात्पाशनाच्च पशवः । यस्मादुक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश्च ये । ब्रह्मादयस्तिर्यगन्ताः सर्वे ते पशवः स्मृताः ॥ भाष्यम् १.१ः४१
पतिः कस्मात् । आप्ति पाति च तान् पशूनित्यतः पतिर्भवति । तान् केनाप्नोति केन रक्षति । ततो विभुशक्त्या । यस्मात्तत्रापि शक्तिमस्यानन्तां नातिवर्तन्ते । विप्रत्वाच्चास्यानन्ता ज्ञानशक्तिः अपरिमिता । तया अपरिमितया अपरिमितानेव प्रत्यक्षान् पशूनाप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् । तच्छन्दात्तेषां प्रवृत्तिनिवृत्तिः स्थितिरिष्टानिष्टस्थानशरीरेन्द्रियविषयादिप्राप्तिर्भवति । तत्परिदृष्टानां तत्प्रचोदितानां चेत्यर्थः । एवं ॥ भाष्यम् १.१ः४२
पशुपतेरिति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात् प्रसादात् सदुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वार्यत्यागमात्रादित्यर्थः । आह कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसीदतीति । उच्यते यदानेन तु तत्प्राप्तं भवति । आह किं तदिति । उच्यते पाशुपतमत्र पशुपतिनोक्तं परिगृहीतं पशुपतिमधिकृत्य चारभ्यत इति पाशुपतम् । यथा वैष्णवं मानसमिति । किं तदिति । उच्यते योगम् । अत्रात्मेश्वरसंयोगो योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वादन्यतरकर्मजः स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद्मेषवदुभयकर्मजः । यस्मात्सति विभुत्वे अनधिकारकृतत्वाद्वियोगस्य । वियुक्तस्यैव च संयोग उपदिश्यते । विषयरक्तविरक्तवत्क्रियायोगे । इह तु समाधिलक्षणे योगे संनियम इति । आह किं परिज्ञानमात्रादेव तद्योगः प्राप्यते । उच्यते । यस्मादाह तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः योगविधिरिति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेनावनादिवत् । कस्मात् । क्रियाणां क्षणिकानां समुदायासम्भवात् । यद्येवं विधिः कस्मात् । विधायकत्वाद्विधिः । उपायोपेयभावाच्च । विधिमिति कर्म । एव सदुःखान्तः कार्यं कारणं योगो विधिरिति पञ्चैव पदार्थाः समासत उद्दिष्टाः । ते व्याख्येयाः । व्याख्यानमेतेषां विस्तरविभागविशेषोपसंहारनिगमनानि । तस्मादन्यद्व्याख्येयमन्यद्व्याख्यानम् । यस्मादाह व्याख्यास्यामः । अत्र विः विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु ॥ भाष्यम् १.१ः४३
मानाप्तवचनमिति प्रमाणान्यभिधीयन्ते । तत्र प्रत्यक्षं द्विविधमिन्द्रियप्रत्यक्षमात्मप्रत्यक्षं च । इन्द्रियप्रत्यक्षमिन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धघटाहाः व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः सिद्धम् । आत्मप्रत्यक्षं तदुपहारकृत्स्नतपोदुःखान्तादि वचनात्सिद्धम् । यथा प्रस्थेन मितो व्रीहिः प्रस्थः । परमार्थतस्त्विन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेशकालचोदनाद्यनुगृहीतं सत्प्रमाणमुत्पद्यते । आत्मप्रत्यक्षं तु चित्तान्तःकरणसम्बन्धसामग्र्यम् । अनुमानमपि प्रत्यक्षपूर्वकं चित्तात्मान्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतुकमुत्पत्त्यनुग्रहतिरोभावकालादि । तैश्चोत्तरसृष्टिकर्तृत्वमनुमीयते कारणस्य । अतो नोत्सूत्रम् । तच्च द्विविधं दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टमपि द्विविधं पूर्ववच्छेषवच्च । तत्र पूर्वदृष्टोऽयं षडङ्गुलीयकः स एवेति पूर्ववत् । विषाणादिमात्रदर्शनाद्गौरिति शेषवत् । सामान्यतोदृष्टमपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादिगतिप्रसिद्धिः । त्रैकाल्येऽप्यर्थाधिगमे निमित्तं प्रमाणम् । आगमो नाम आ महेश्वराद्गुरुपारम्पर्यागतं शास्त्रम् । आगमोऽलौकिकादिव्यवहारहेतुराचक्षितः स्मृतः । रुद्रः प्रोवाच वचनात्सिद्धिः । एष्वेवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्यायमानानामन्तर्भावः । एवमेतानि त्रीणि प्रमाणानि । प्रमापयिता भगवांश्चोदकः । प्रमाता पुरुषः । प्रमेयाः कार्यकारणादयः पञ्च पदार्थाः । प्रमितिः संवित् । संवित्संचिन्तनं सम्बोधो विद्याभिव्यक्तिरित्यर्थः । उद्देशनिर्देशाधिगमाच्च विर्विस्तरे भवति । विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसंकरः । विशेषो ॥ भाष्यम् १.१ः४४
नाम साध्यसाधनव्यतिरेकः । आङिति व्याख्यामर्यादायां भवति । पदात्पदं सूत्रात्सूत्रं प्रकरणात्प्रकरणमध्यायादध्यायमा बोधादा परिसमाप्तेरिति मर्यादावस्थस्यैव च वक्ष्यामः । ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिव्यतिरेकेण च व्याख्यास्यामः । स्या इत्येष्ये काले । यावदयमाचार्यो गृहस्थादिभ्योऽभ्यागतं पूर्वमतःशब्दात्परीक्षितं ब्राह्मणं व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तै सद्योजातादिसंस्कृतेन भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च करोति तावदेष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति । उत्थानादिगणे सम्यग्व्वावस्थितस्य व्याख्येयव्याख्यानयोर्भगवानेव क्रमशो वक्ता । स्थूलोपायपूर्वकत्वात्सूक्ष्मविधेयाधिगमस्य पूर्वाश्रमनियमप्रतिषेधार्थमत्याश्रमयमनियमप्रसिद्ध्यर्थं च विधिः प्रथमं व्याख्यायते । इत्यत्रायं पदार्थोपन्यासः परिसमाप्त इति ॥ भाष्यम् १.१ः४५
अत्राह प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदमिदानीं चिन्त्यम् । अथास्य कश्चादिः किं मध्यं कोऽन्तः कत्यङ्गो वा विधिरिति । तदुच्यते भस्मनाद्यो निन्दामध्यो मूढान्तश्च विधिः । स च त्र्यङ्गो दानयजनतपोङ्ग इति । तत्कथमवगम्यते यस्मादिदमारभ्यते ॥ भाष्यम् १.१ः४६

भस्मना त्रिषवणं स्नायीत ॥ १.२ ॥

अत्र भस्म वामद्रव्यं यदग्नीन्धनसंयोगान्निष्पन्नम् ॥ भाष्यम् १.२ः१
तत्परकृतं पार्थिवं भुक्तं दीप्तिमत् ॥ भाष्यम् १.२ः२
ग्रामादिभ्यो भैक्ष्यवद्भस्मार्जनं कर्तव्यम् ॥ भाष्यम् १.२ः३
स्नानशयनानुस्नानकृत्यबन्धुत्वान्निष्परिग्रहत्वादहिंसकत्वादुत्कृष्टमेव शुचि प्रभूतं ग्राह्यं साधनत्वात् ॥ भाष्यम् १.२ः४
अलाभे स्वल्पमपि ग्राह्यम् ॥ भाष्यम् १.२ः५
आधारोऽप्यलाबुचर्मवस्त्रादिरत्र प्रसिद्धः ॥ भाष्यम् १.२ः६
आह किं तेन भस्मना कर्तव्यम् ॥ भाष्यम् १.२ः७
तदुच्यते भस्मनेति तृतीया करणार्थे कर्तुः क्रियामादिशति यथा वाश्या तक्षणं बुद्ध्या पिधानम् ॥ भाष्यम् १.२ः८
आह अथ कस्मिन् काले सा क्रिया कर्तव्येति ॥ भाष्यम् १.२ः९
त्रिषवणमिति ॥ भाष्यम् १.२ः१०
द्विगुः समासः ॥ भाष्यम् १.२ः११
त्रीणीति संख्या ॥ भाष्यम् १.२ः१२
सवनमिति कालनिर्देशः ॥ भाष्यम् १.२ः१३
पूर्वसंध्या मध्याह्नसंध्या अपरसंध्येति संध्यात्रयम् ॥ भाष्यम् १.२ः१४
त्रिषवणं त्रिसंध्यं त्रिकालमित्यर्थः ॥ भाष्यम् १.२ः१५
आह त्रिषवणं किमनेन कर्तव्यम् ॥ भाष्यम् १.२ः१६
तदुच्यते स्नायीत ॥ भाष्यम् १.२ः१७
अत्र स्नानं शौचकार्येण शरीरेष्वागन्तुकानां स्नेहत्वग्लेपमलगन्धादीनां भस्मनापकर्षणं कर्तव्यम् ॥ भाष्यम् १.२ः१८
स्नानं तु भस्मद्रव्यगात्रसंयोजनम् ॥ भाष्यम् १.२ः१९
परमार्थतस्तु स्नानादि पुण्यफलसंयोगधर्मात्मवचनादात्मशौचमेवैतत् ॥ भाष्यम् १.२ः२०
केवलं स्नानाद्यकलुषापहतपाप्मादिवचनात्कार्यकरणव्यपदेशेनात्मशौचं व्याख्यायते ॥ भाष्यम् १.२ः२१
इत इत्येतदाज्ञायां नियोगे च ॥ भाष्यम् १.२ः२२
नियोगत्वान्निगतं नियतत्वान्निगम इत्यर्थः ॥ भाष्यम् १.२ः२३
कस्मात् ॥ भाष्यम् १.२ः२४
प्रतितन्त्रसिद्धत्वादहिंसकत्वान्निःश्रेयसहेतुत्वाच्च ॥ भाष्यम् १.२ः२५
भस्मना स्नेयं न चाद्भिर्विपरीतत्वादित्यर्थः ॥ भाष्यम् १.२ः२६
किं स्नानमेवैवं भस्मना कर्तव्यम् ॥ भाष्यम् १.२ः२७
उच्यते ॥ भाष्यम् १.२ः२८
यस्मादाह ॥ भाष्यम् १.२ः२९

भस्मनि शयीत ॥ १.३ ॥

अत्र भस्म तदेव ॥ भाष्यम् १.३ः१
निरुक्तमस्य पूर्वोक्तम् ॥ भाष्यम् १.३ः२
भस्मनि इत्यौपश्लेषिकं संनिधानम् ॥ भाष्यम् १.३ः३
शय इत्युपशमस्य विश्रामस्याख्या ॥ भाष्यम् १.३ः४
इत इत्येतदाज्ञायां नियोगे च ॥ भाष्यम् १.३ः५
भस्मन्येव रात्रौ स्वप्तव्यं नान्यत्रेत्यर्थः ॥ भाष्यम् १.३ः६
उक्तं हि । यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् । एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥ भाष्यम् १.३ः७
किं च विशेषार्थित्वात् ॥ भाष्यम् १.३ः८
विशेषार्थी चायं ब्राह्मणः ॥ भाष्यम् १.३ः९
उक्तं हि । न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति । हयानामिव जात्यानामर्धरात्रार्धशायिनाम् ॥ भाष्यम् १.३ः१०
तस्मात्परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्याध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश्च श्रान्तेन बाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यमित्यर्थः ॥ भाष्यम् १.३ः११
किमर्थमिति चेत् ॥ भाष्यम् १.३ः१२
उच्यते तपोऽर्थं भूप्रदेशे शौचार्थं विश्रामार्थं वा ॥ भाष्यम् १.३ः१३
समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्यमित्यर्थः ॥ भाष्यम् १.३ः१४
आह किं स्नानं शयनं च भस्मना प्रयोजनद्वयमेवात्र कर्तव्यमुतान्यदपि ॥ भाष्यम् १.३ः१५
सवनान्तस्थस्यास्याशौचकं प्राप्तस्य निर्घातकं किमिति ॥ भाष्यम् १.३ः१६
तदुच्यते ॥ भाष्यम् १.३ः१७

अनुस्नानम् ॥ १.४ ॥

मन्त्रादिस्नानवत् ॥ भाष्यम् १.४ः१
अत्र अनु इति पृष्ठकर्मक्रियायां भवति ॥ भाष्यम् १.४ः२
अनुपानानुगमनवत् ॥ भाष्यम् १.४ः३
स्नानं तु भस्मद्रव्यसंयोजनमेव ॥ भाष्यम् १.४ः४
सवनत्रये स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठीवितमूत्रपुरीषोत्सर्गादिनिमित्तकमशौचकमभिसमीक्ष्य तदनुस्नानं कर्तव्यम् ॥ भाष्यम् १.४ः५
किमर्थमिति चेत्शौचार्थं लिङ्गाभिव्यक्त्यर्थं च ॥ भाष्यम् १.४ः६
स्नेयमित्यर्थः ॥ भाष्यम् १.४ः७
आह किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् ॥ भाष्यम् १.४ः८
भक्तिविवृद्धौ वा अप्रतिषिद्धस्य साधनं किमिति ॥ भाष्यम् १.४ः९
तदुच्यते ॥ भाष्यम् १.४ः१०

निर्माल्यम् ॥ १.५ ॥

अत्र भस्मवल्लोकादिप्रसिद्धं निर्माल्यम् ॥ भाष्यम् १.५ः१
निरिति निर्मुक्तस्याख्या ॥ भाष्यम् १.५ः२
माल्यमिति पुष्पसमूहपर्यायः ॥ भाष्यम् १.५ः३
तत्परकृतं कारणमूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् ॥ भाष्यम् १.५ः४
भक्तिविवृद्ध्यर्थं लिङ्गाभिव्यक्त्यर्थं च तद्धार्यमित्यर्थः ॥ भाष्यम् १.५ः५
आह भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व सिद्धम् ॥ भाष्यम् १.५ः६
तदुच्यते इह ॥ भाष्यम् १.५ः७
यस्मादाह ॥ भाष्यम् १.५ः८

लिङ्गधारी ॥ १.६ ॥

अत्र यथान्येषामपि वर्णाश्रमिणामाश्रमप्रतिविभागकराणि लिङ्गानि भवन्ति ॥ भाष्यम् १.६ः१
तत्र गृहस्थस्य तावद्वासस्त्रयं वैणवी यष्टिः सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् ॥ भाष्यम् १.६ः२
तथा ब्रह्मचारिणोऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि लिङ्गम् ॥ भाष्यम् १.६ः३
तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि लिङ्गम् ॥ भाष्यम् १.६ः४
तथा भिक्षोस्त्रिदण्डमुण्डकमण्डलुकाषायवासोजलपवित्रस्थलपवित्रादि लिङ्गम् ॥ भाष्यम् १.६ः५
एवमिहापि यदेतत्पाशुपतयोगाधिकरणं लिङ्गमित्याश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नाननिर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतमिति लौकिकादिज्ञानजनकं तत् ॥ भाष्यम् १.६ः६
लीयनाल्लिङ्गनाच्च लिङ्गम् ॥ भाष्यम् १.६ः७
तद्धारयन् लिङ्गधारी भवति ॥ भाष्यम् १.६ः८
दण्डधारिवदित्यर्थः ॥ भाष्यम् १.६ः९
आह अथैते स्नानशयनानुस्नानादयोऽर्थाः क्व कर्तव्याः ॥ भाष्यम् १.६ः१०
कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् ॥ भाष्यम् १.६ः११
कुत्रस्थेन वा तद्धार्यम् ॥ भाष्यम् १.६ः१२
कृतलिङ्गेन वा क्व वस्तव्यम् ॥ भाष्यम् १.६ः१३
तदुच्यते आयतने ॥ भाष्यम् १.६ः१४
यस्मादाह ॥ भाष्यम् १.६ः१५

आयतनवासी ॥ १.७ ॥

अथ भस्मनिर्माल्यवल्लोकादिप्रसिद्धमायतनम् ॥ भाष्यम् १.७ः१
आङिति मर्यादायां भवति ॥ भाष्यम् १.७ः२
यस्मादेते गृहस्थादयः प्रयतनियतशुचिसाध्वाचाराः स्वस्वमर्यादयोपतिष्ठन्ते यजन्ति च शान्तिकपौष्टिकादिभिः क्रियाभिरिति ॥ भाष्यम् १.७ः३
यजनाच्चायतनम् ॥ भाष्यम् १.७ः४
तस्मिन् परकृत आयतने वस्तव्यमिति वासी इत्यायतनं च परिगृह्णाति ॥ भाष्यम् १.७ः५
भूप्रदेशे आकाशे वृक्षमूले बहिः प्रादक्षिण्येन वा यत्र क्वचित्प्रतिवसन् शिष्टमर्यादया आयतनवासी भवति ॥ भाष्यम् १.७ः६
पुलिनवासवद्वसेदित्यर्थः ॥ भाष्यम् १.७ः७
पुण्यफलावाप्तिश्चास्याशु भवति ॥ भाष्यम् १.७ः८
उक्तं हि । ग्रामे वा यदि वारण्ये पुण्यस्थानं हि शूलिनः ॥ भाष्यम् १.७ः९
आवासो धर्मतृप्तानां सिद्धिक्षेत्रं हि तत्परम् ॥ भाष्यम् १.७ः१०
आह तस्मिन्नायतने प्रतिवसता काः क्रियाः कर्तव्याः ॥ भाष्यम् १.७ः११
किं स्नानाद्या उपलेपनाद्या वा ॥ भाष्यम् १.७ः१२
आहोस्विद्दृष्टा अस्यान्या वैशेषिक्यः क्रियाः कर्तव्याः ॥ भाष्यम् १.७ः१३
यथा चान्या वैशेषिक्यः क्रियाः कर्तव्याः प्रयोजनं च वक्ष्यामः - ॥ भाष्यम् १.७ः१४

हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेत् ॥ १.८ ॥

अथ त्रिषु स्नानकालेषु सद्योजातादिसंस्कृतेन भस्मना जपता स्नात्वा जपतैवायतनमभिगन्तव्यम् ॥ भाष्यम् १.८ः१
अभिगम्य च यत्पूर्वं जपति तत्प्रत्याहारार्थं जप्यमोमोमों ॥ भाष्यम् १.८ः२
हसितादीनि तु कृत्वा यत्पश्चाज्जपति तन्नियमार्थं जप्यम् ॥ भाष्यम् १.८ः३
तदत्र हसितं नाम यदेतत्कण्ठौष्ठपुटविस्फूर्जनमट्टहासः क्रियते तद्धसितम् ॥ भाष्यम् १.८ः४
गीतमपि गान्धर्वशास्त्रसमयानभिष्वङ्गेण यत्र भगवतो महेश्वरस्य सभायां गौणद्रव्यजकर्मजानि नामानि चिन्त्यन्ते तत् ॥ भाष्यम् १.८ः५
संस्कृतं प्राकृतं परकृतमात्मकृतं वा यद्गीयते तद्गेयम् ॥ भाष्यम् १.८ः६
नृत्तमपि नाट्यशास्त्रसमयानभिष्वङ्गेण हस्तपादादीनामुत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं चलनमनवस्थानम् ॥ भाष्यम् १.८ः७
निगमकाले नियमार्थं गेयसहकृतं नृत्तं प्रयोक्तव्यम् ॥ भाष्यम् १.८ः८
डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगान्निष्पद्यते पुण्यो वृषनादसदृशः सः ॥ भाष्यम् १.८ः९
डुंडुंकरणं डुंडुंकारः ॥ भाष्यम् १.८ः१०
कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः ॥ भाष्यम् १.८ः११
नम इति ॥ भाष्यम् १.८ः१२
नाप्योष्ठीयं कर्तव्यं नोपांशु ॥ भाष्यम् १.८ः१३
मानसं तु नमस्करणं नमस्कारः ॥ भाष्यम् १.८ः१४
कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्यर्थः ॥ भाष्यम् १.८ः१५
जप्यं नाम सद्योजातादिष्वक्षरपङ्क्त्यां मनसा भावस्य संचारविचारः ॥ भाष्यम् १.८ः१६
तज्जप्यम् ॥ भाष्यम् १.८ः१७
उपेति विशेषणे क्रियोपसंहारे समस्तत्वे च ॥ भाष्यम् १.८ः१८
उपहरणादुपहारो व्रतं नियम इत्यर्थः ॥ भाष्यम् १.८ः१९
उपह्रियते निवेद्यते नियोगमात्रकर्तृत्वात्साधकेनेत्युपहारः ॥ भाष्यम् १.८ः२०
उपतिष्ठेत् ॥ भाष्यम् १.८ः२१
अत्रोपेत्यभ्युपगमे ॥ भाष्यम् १.८ः२२
अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्यर्थः ॥ भाष्यम् १.८ः२३
तिष्ठेदित्यैकाग्र्यं प्रत्याहाराभावस्थितिमेवाधिकुरुते ॥ भाष्यम् १.८ः२४
सर्वकरणानां वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकाभिः क्रियाभिरुपहारं कृत्वा भृत्यवदुपहारेण स्थेयम् ॥ भाष्यम् १.८ः२५
अपसव्यं च प्रदक्षिणमुपरिष्टाद्वक्ष्यामः ॥ भाष्यम् १.८ः२६
आह कस्य निर्माल्यं धार्यम् ॥ भाष्यम् १.८ः२७
कस्य वा आयतने वस्तव्यम् ॥ भाष्यम् १.८ः२८
क्व चोपस्थेयमिति ॥ भाष्यम् १.८ः२९
तदुच्यते ॥ भाष्यम् १.८ः३०

महादेवस्य दक्षिणामूर्तेः ॥ १.९ ॥

अत्र महानित्यभ्यधिकत्वे ॥ भाष्यम् १.९ः१
सर्वक्षेत्रज्ञानामभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यभ्यधिकः ॥ भाष्यम् १.९ः२
ऋषिर्विप्रः अधिपतिः ॥ भाष्यम् १.९ः३
सदाशिवत्वमभ्यधिकत्वं च प्रवक्ष्यामः ॥ भाष्यम् १.९ः४
अत्र देव इति दिवु क्रीडायाम् ॥ भाष्यम् १.९ः५
क्रीडाधर्मित्वात् ॥ भाष्यम् १.९ः६
अग्न्युष्णत्ववत् ॥ भाष्यम् १.९ः७
क्रीडावानेव भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यमुत्पादयति अनुगृह्णाति तिरोभावयति च ॥ भाष्यम् १.९ः८
उक्तं हि । अप्रचोद्यः प्रचोद्यैस्तु कामकारकरः प्रभुः । क्रीडते भगवान् लोकैर्बालः क्रीडनकैरिव ॥ भाष्यम् १.९ः९
देवस्य इति षष्ठी ॥ भाष्यम् १.९ः१०
स्वस्वामिभावः सम्बन्धः ॥ भाष्यम् १.९ः११
परिग्रहार्थमेवाधिकुरुते ॥ भाष्यम् १.९ः१२
अत्र दक्षिणेति दिक्प्रतिविभागे भवति ॥ भाष्यम् १.९ः१३
आदित्यो दिशो विभजति ॥ भाष्यम् १.९ः१४
दिशश्च मूर्तिं विभजन्ति ॥ भाष्यम् १.९ः१५
मूर्तिनाम यदेतद्देवस्य दक्षिणे पार्श्वे स्थितेनोदङ्मुखेनोपान्ते यद्रूपमुपलभ्यते वृषध्वजशूलपाणिनन्दिमहाकालोर्ध्वलिङ्गादिलक्षणं यद्वा लौकिकाः प्रतिपद्यन्ते महादेवस्यायतनमिति तत्रोपस्थेयम् ॥ भाष्यम् १.९ः१६
दक्षिणामूर्तिग्रहणात्पूर्वोत्तरपश्चिमानां मूर्तीनां प्रतिषेधः ॥ भाष्यम् १.९ः१७
मूर्तिनियोगाच्च मूर्त्यभावे नियमलोपः ॥ भाष्यम् १.९ः१८
भैक्ष्यानुपयोगान्निर्घातानामुक्तत्वाच्चेत्यर्थः ॥ भाष्यम् १.९ः१९
विधिरित्युपदिष्टानामर्थानां भस्मस्नानोपदेशादप्सु स्नानादीनां प्रतिषेधः ॥ भाष्यम् १.९ः२०
भस्मशयनोपदेशाद्विषयशयनादीनां प्रतिषेधः ॥ भाष्यम् १.९ः२१
आयतने वसत्यर्थोपदेशाच्छेषवसत्यर्थप्रतिषेधः ॥ भाष्यम् १.९ः२२
हसिताद्युपदेशाच्छेषोपहारप्रतिषेधः ॥ भाष्यम् १.९ः२३
निर्माल्योपदेशात्प्रत्यग्राणां माल्यानां प्रतिषेधः ॥ भाष्यम् १.९ः२४
भस्मनिर्माल्यलिङ्गोपदेशाच्छेषलिङ्गप्रतिषेधः ॥ भाष्यम् १.९ः२५
महादेवग्रहणादन्यदेवताभक्तिप्रतिषेधः ॥ भाष्यम् १.९ः२६
दक्षिणामूर्तिग्रहणात्पूर्वपश्चिमानां मूर्तीनां प्रतिषेधः ॥ भाष्यम् १.९ः२७
एवं दक्षिणामूर्तिरित्युक्ते अस्य ब्राह्मणस्य पूर्वप्रसिद्धा नियमा नियमैः प्रतिषिध्यन्ते ॥ भाष्यम् १.९ः२८
कीलकप्रतिकीलकवत्पुराणोदकनवोदकवच्चेति ॥ भाष्यम् १.९ः२९
अत्रेदं भस्मप्रकरणं समाप्तम् ॥ भाष्यम् १.९ः३०
आह नियमाभिधानादेव हि संशयः ॥ भाष्यम् १.९ः३१
यत्र यमास्तत्र नियमाः ॥ भाष्यम् १.९ः३२
मिथुनमेवैतद्यस्मात् ॥ भाष्यम् १.९ः३३
अतो न संशयः ॥ भाष्यम् १.९ः३४
यमा अस्मिन् तन्त्रे के चिन्त्यन्ते ॥ भाष्यम् १.९ः३५
उच्यते प्रसिद्धा यमाः अहिंसादय इति ॥ भाष्यम् १.९ः३६
अत्र त्वन्येषाम् ॥ भाष्यम् १.९ः३७
अहिंसा ब्रह्मचर्यं च सत्यासंव्यवहारकौ । अस्तेयमिति पञ्चैते यमा वै संप्रकीर्तिताः ॥ भाष्यम् १.९ः३८
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्च पञ्चैते नियमाः संप्रकीर्तिताः ॥ भाष्यम् १.९ः३९
तद्वदस्माकं न भवति ॥ भाष्यम् १.९ः४०
कस्मात् ॥ भाष्यम् १.९ः४१
नियमनिवृत्तिदर्शनात् ॥ भाष्यम् १.९ः४२
अस्मिन् हि तन्त्रे कालान्तरिता नियमा निवर्तन्ते ॥ भाष्यम् १.९ः४३
कथमा देहपाताद्यमानां न निवृत्तिरस्ति ॥ भाष्यम् १.९ः४४
कस्मात् ॥ भाष्यम् १.९ः४५
हिंसादिदोषात् ॥ भाष्यम् १.९ः४६
तस्मादहिंसाद्या दश सर्वे ते यमाः प्रत्यवगन्तव्यः ॥ भाष्यम् १.९ः४७
आह यद्येवं निगमनिवृत्तौ भ्रष्टनियमस्य पतनप्रसङ्गः ॥ भाष्यम् १.९ः४८
उच्यते अवसितप्रयोजनत्वान्न पतनप्रसङ्गः ॥ भाष्यम् १.९ः४९
किं च यमानां प्राधान्यात् ॥ भाष्यम् १.९ः५०
उक्तं हि पतति नियमवान् यमेष्वसक्तो न तु यमवान्नियमालसोऽवसीदेत् ॥ भाष्यम् १.९ः५१
इति यमनियमौ समीक्ष्य बुद्ध्या यमबहुलेष्वतिसंदधीत बुद्धिम् ॥ भाष्यम् १.९ः५२
तस्मान्न पतनप्रसङ्गः ॥ भाष्यम् १.९ः५३
अतः प्रसिद्धा यमा अहिंसादयः ॥ भाष्यम् १.९ः५४
आह किं प्रसिद्धा इति कृत्वा गृह्यन्ते आहोस्विच्छक्यमेतेषां यमानां सर्वज्ञोक्तशास्त्रतः सद्भावो वक्तुम् ॥ भाष्यम् १.९ः५५
उच्यते यद्यन्यत्र प्रसिद्धा इति क्व ॥ भाष्यम् १.९ः५६
तत्र चिन्त्यते ॥ भाष्यम् १.९ः५७
कस्मात् ॥ भाष्यम् १.९ः५८
कृतोपदेशात् ॥ भाष्यम् १.९ः५९
यस्मादुक्तं सूत्रतःकृतमित्यत्र ॥ भाष्यम् १.९ः६०
कृताप्रतिषेधा कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्येत्यर्थः ॥ भाष्यम् १.९ः६१
सा च हिंसा त्रिविधा भवति ॥ भाष्यम् १.९ः६२
दुःखोत्पादनमण्डभेदः प्राणनिर्मोचनमिति ॥ भाष्यम् १.९ः६३
तत्र दुःखोत्पादनं नाम क्रोशनतर्जनताडननिर्भर्त्सनादिबहुभेदोऽपि चतुर्विधस्यापि भूतग्रामस्य मनोवाक्कायकर्मभिरभिद्रोहो न कर्तव्यः ॥ भाष्यम् १.९ः६४
एवमहिंसा भवत्येतेषां जन्तूनाम् ॥ भाष्यम् १.९ः६५
अण्डभेदो नाम दाहतापधूमोपरोधपरिहारार्थमग्निकरणादानसम्प्रदानप्रतिनिधानसंधुक्षणादीनि न कुर्यात्नैव कारयेत् ॥ भाष्यम् १.९ः६६
तथा प्राणनिर्मोचनं नाम वस्त्रशिक्यभस्माधारभैक्ष्यभाजनादीनि मुहुर्मुहुर्विवेचयितव्यानि ॥ भाष्यम् १.९ः६७
कस्मात् ॥ भाष्यम् १.९ः६८
प्राणिनो हि सूक्ष्मचारिणः क्षिप्रमेव विलयं प्रयान्ति ॥ भाष्यम् १.९ः६९
तस्मात्सूक्ष्मैरङ्गपवित्रैः पक्ष्मचामरतालवृन्तैर्वस्त्रान्तरैर्वा मुहुर्मुहुर्विग्रन्थोदकेन वा ॥ भाष्यम् १.९ः७०
हरितेषु तृणेषु न संसिक्ते भूप्रदेशे भवति ॥ भाष्यम् १.९ः७१
वसन्तग्रीष्महैमान्तिकानष्टौ मासान् भिक्षुर्विचक्रमेत् ॥ भाष्यम् १.९ः७२
दयार्थं सर्वभूतानामेकत्र वर्षासु वसेत् ॥ भाष्यम् १.९ः७३
वर्षाभेदं तु यः कुर्याद्ब्राह्मणो योगदीक्षितः । प्राजापत्येन कृच्छ्रेण ततः पापात्प्रमुच्यते ॥ भाष्यम् १.९ः७४
शारीरं दृश्यते यत्र भयं कस्यांचिदापदि । दुर्दिने राष्ट्रभङ्गे वा वर्षास्वपि व्यतिक्रमेत् ॥ भाष्यम् १.९ः७५
नासूर्यं च व्रजेन्मार्गं नादृष्टां भूमिमाक्रमेत् । परिपूनाभिरद्भिश्च नित्यं कुर्यात्प्रयोजनम् ॥ भाष्यम् १.९ः७६
संवत्सरकृतं पापं मत्स्यबन्धस्य यद्भवेत् । एकाहात्तदवाप्नोति अपूतजलसंग्रही ॥ भाष्यम् १.९ः७७
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ भाष्यम् १.९ः७८
हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः । तस्मादपूतमुदकं नोपयुञ्जीत योगवित् ॥ भाष्यम् १.९ः७९
अथ नष्टे पवित्रे च गृह्णीयात्त्रिषु वै सकृत् । नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु ॥ भाष्यम् १.९ः८०
काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः । बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् ॥ भाष्यम् १.९ः८१
यदा न कुर्याद्द्रोहं च सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ भाष्यम् १.९ः८२
यो न हिंसति भूतानि स्थावराणि चराणि च । आत्मानमिव सर्वाणि सोऽमृतत्वाय कल्पते ॥ भाष्यम् १.९ः८३
न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्यैर्न च सत्यवाक्यैः । न वेदविद्याध्ययनैर्व्रतैर्वा प्राप्यं फलं यद्यहिंसकस्य ॥ भाष्यम् १.९ः८४
यो दद्यात्काञ्चनं मेरुं कृत्स्नां चैव वसुंधराम् । समुद्रं रत्नपूर्णं वा न तुल्यं स्यादहिंसया ॥ भाष्यम् १.९ः८५
इत्येवमहिंसा तन्त्रे सिद्धा ॥ भाष्यम् १.९ः८६
तथा ब्रह्मचर्यं च तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः८७
कस्मात् ॥ भाष्यम् १.९ः८८
स्त्रीप्रतिषेधातिन्द्रियजयोपदेशाच्च त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्तम् ॥ भाष्यम् १.९ः८९
विशेषेण तु जिह्वोपस्थयोरिति ॥ भाष्यम् १.९ः९०
अत्राह विशेषग्रहणं किंप्रयोजनम् ॥ भाष्यम् १.९ः९१
त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्त्वा जिह्वोपस्थयोर्विशेषग्रहणं किंप्रयोजनं क्रियते ॥ भाष्यम् १.९ः९२
उच्यते प्रधानत्वात् ॥ भाष्यम् १.९ः९३
तन्मूलत्वादितरप्रवृत्तेः ॥ भाष्यम् १.९ः९४
तन्मूला हीतरेषां प्रवृत्तिर्भवति ॥ भाष्यम् १.९ः९५
कथम् ॥ भाष्यम् १.९ः९६
जिह्वेन्द्रियविषये उपस्थेन्द्रियविषये वा सक्तः त्रयोदशभिः प्रवर्तते ॥ भाष्यम् १.९ः९७
अत एतदुक्तं विशेषेण जिह्वोपस्थयोरिति ॥ भाष्यम् १.९ः९८
जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् । तस्मादमित्रवत्पश्येज्जिह्वोपस्थं हि मानवः ॥ भाष्यम् १.९ः९९
अथवा मनःपूर्वकत्वात्सर्ववृत्तीनां तन्निग्रहात्सर्ववृत्तीनां निग्रहः कृतो भवति ॥ भाष्यम् १.९ः१००
उक्तं हि । मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ भाष्यम् १.९ः१०१
पुनरप्युक्तम् । इन्द्रियैः प्रसृतैर्दुःखमिन्द्रियैर्निभृतैः सुखम् । तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना ॥ भाष्यम् १.९ः१०२
इन्द्रियाणि हि तत्सर्वं यत्स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ भाष्यम् १.९ः१०३
अतो जन्म अतो दुःखमतो मृत्युभयं तथा । इन्द्रियाणां प्रसङ्गाद्वै तस्मादेतान् जयामहे ॥ भाष्यम् १.९ः१०४
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ भाष्यम् १.९ः१०५
रज्जुरेषा निबन्धाय या स्त्रीषु रमते मतिः । छित्त्वैनां कृतिनो यान्ति नैनां त्यजति दुष्कृती ॥ भाष्यम् १.९ः१०६
स्त्रीहेतोर्निर्गमो ग्रामात्स्त्रीकृते क्रयविक्रयः । स्त्रियो मूलमनर्थानां नैनां प्राज्ञः परिष्वजेत् ॥ भाष्यम् १.९ः१०७
विषमग्निरसिर्बाणः स्फुटं कृत्वा विभीषिका । माया रूपवती ह्येषा यां स्त्रियं मन्यते जनः ॥ भाष्यम् १.९ः१०८
अमेध्यपूर्णे कृमिजन्तुसंकुले स्वभावदुर्गन्ध अशौच अध्रुवे । कडेबरे मूत्रपुरीषभाजने रमन्ति मूर्खा न रमन्ति पण्डिताः ॥ भाष्यम् १.९ः१०९
माद्यतीति स्त्रियं दृष्ट्वा सुरां पीत्वा न माद्यति । तस्माद्दृष्टिमदां नारीं दूरतः परिवर्जयेत् ॥ भाष्यम् १.९ः११०
अधोमुखेनादंष्ट्रेण जघनान्तरचारिणा । सर्वशास्त्राचिकित्स्येन जगद्दष्टं भगाहिना ॥ भाष्यम् १.९ः१११
लोमशेन कुरूपेण दुर्गन्धेन कुचर्मणा । हरिणीपदमात्रेण सर्वमन्धीकृतं जगत् ॥ भाष्यम् १.९ः११२
दीप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् । ये प्रसक्ता विलीनास्ते ये स्थितास्ते दिवं गताः ॥ भाष्यम् १.९ः११३
यथाग्निरेधःसंवृद्धो महाज्योतिः प्रकाशते । तथेन्द्रियनिरोधेन स्वात्मज्योतिः प्रकाशते ॥ भाष्यम् १.९ः११४
ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः ॥ भाष्यम् १.९ः११५
क्षीरं पिबन्ति मधु ते पिबन्ति सोमं पिबन्त्यमृतेन सार्धम् । मृत्योः पुरस्तादमरा भवन्ति ये ब्राह्मणा ब्रह्मचर्यं चरन्ति ॥ भाष्यम् १.९ः११६
इत्येवं ब्रह्मचर्यं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः११७
तथा सत्यं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः११८
तच्च द्विविधम् ॥ भाष्यम् १.९ः११९
तद्यथा परिदृष्टार्थभूतार्थं वचनं वाक्सत्यं चेति ॥ भाष्यम् १.९ः१२०
तत्र परिदृष्टार्थभूतार्थं वचनं सत्यं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः१२१
कस्मात् ॥ भाष्यम् १.९ः१२२
व्याख्यानोपदेशात्विद्वदुपदेशाच्च ॥ भाष्यम् १.९ः१२३
तथा वाक्सत्यमपि तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः१२४
कस्मात् ॥ भाष्यम् १.९ः१२५
वाग्विशुद्ध्युपदेशात् ॥ भाष्यम् १.९ः१२६
इह स्वशास्त्रोक्तं भाषतोऽनृतमपि सत्यमापद्यते ॥ भाष्यम् १.९ः१२७
कस्मात् ॥ भाष्यम् १.९ः१२८
शुद्धिवृद्धिकरत्वात् ॥ भाष्यम् १.९ः१२९
यस्मादाह । स्वर्गमनृतेन गच्छति दयार्थमुक्तेन सर्वभूतानाम् । सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन ॥ भाष्यम् १.९ः१३०
पुनस्त्वाह । गोब्राह्मणार्थेऽवचनं हिमस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ भाष्यम् १.९ः१३१
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ भाष्यम् १.९ः१३२
यथा हि तेषामेव भूतानां हितमनृतमपि सत्यमापद्यते एवमिहाप्यस्माकं स्वशास्त्रोक्तं भाषतामनृतमपि सत्यमापद्यते ॥ भाष्यम् १.९ः१३३
कस्मात् ॥ भाष्यम् १.९ः१३४
विधिविहितत्वात् ॥ भाष्यम् १.९ः१३५
इत्येतदपि तत्र सिद्धम् ॥ भाष्यम् १.९ः१३६
तथा असंव्यवहारस्तन्त्रे सिद्धः ॥ भाष्यम् १.९ः१३७
कस्मात् ॥ भाष्यम् १.९ः१३८
अव्यक्तप्रेतोन्मत्तमूढोपदेशात् ॥ भाष्यम् १.९ः१३९
नेह लोके अव्यक्तप्रेतोन्मत्तमूढाः संव्यवहारं कुर्वन्ति यस्मादतोऽत्रासंव्यवहारस्तन्त्रे सिद्धः ॥ भाष्यम् १.९ः१४०
संव्यवहारश्च पुनर्द्विविधः ॥ भाष्यम् १.९ः१४१
तद्यथा क्रयावक्रयसंव्यवहारा राजकुलसंव्यवहारश्चेति ॥ भाष्यम् १.९ः१४२
अत एकतरेणाप्यत्राधिकृतस्यात्मपीडा परपीडा चावर्जनीये भवतः ॥ भाष्यम् १.९ः१४३
तत्र यद्यात्मानं पीडयति तेनेहैव लोके दुःखी भवति ॥ भाष्यम् १.९ः१४४
स्यात्परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः प्रचीयते ॥ भाष्यम् १.९ः१४५
तेनामुष्मिन् लोके तीव्रं दुःखमनुभवति ॥ भाष्यम् १.९ः१४६
तस्मादुभयथापि संव्यवहारो वर्जनीयः ॥ भाष्यम् १.९ः१४७
भवति ह्यपि । यश्च पापं प्रकुरुते यश्च पापं प्रशंसति । सहायश्चोपभोक्ता च सर्वे ते समकर्मिणः ॥ भाष्यम् १.९ः१४८
उक्तं हि । विक्रये तु महान् दोषो विक्रयात्पतते यतः । एष एव क्रये दोषस्तस्मात्तं परिवर्जयेत् ॥ भाष्यम् १.९ः१४९
प्रच्छन्नं कुरुते पापं न मे जानाति कश्चन । मुच्यते जनवादेभ्यस्तस्मात्पापान्न मुच्यते ॥ भाष्यम् १.९ः१५०
पुनरप्युक्तम् । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ भाष्यम् १.९ः१५१
नारम्भशीलो न च दम्भशीलः शास्त्रोपदिष्टानि करोत्यदीनः । यमेषु युक्तो नियमेषु चैव मुनिर्भवत्येष्वजरोऽमरश्च ॥ भाष्यम् १.९ः१५२
तथा अस्तेयं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः१५३
कस्मात् ॥ भाष्यम् १.९ः१५४
अवासोपदेशातनुत्सृष्टान्नप्रतिषेधाच्च ॥ भाष्यम् १.९ः१५५
इह विद्यमानस्याप्येकस्य वाससो मलवदवस्थितस्यावासोपदेशात्परिग्रहपरित्याग उपदिश्यते ॥ भाष्यम् १.९ः१५६
किंचान्यदपि ॥ भाष्यम् १.९ः१५७
परित्यक्तानामन्नपानादीनामुपयोगो दृष्टो यस्मात् ॥ भाष्यम् १.९ः१५८
अतोऽत्रास्तेयं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः१५९
स्तेयं च पुनः षड्विधम् ॥ भाष्यम् १.९ः१६०
तत्र अदत्तादानमनतिसृष्टग्रहणमनभिमतग्रहणमनधिकारप्रतिग्रहः अनुपालम्भः अनिवेदितोपयोगश्चेति ॥ भाष्यम् १.९ः१६१
अदत्तस्य ग्रहणमदत्तादानम् ॥ भाष्यम् १.९ः१६२
अनतिसृष्टग्रहणं नाम बालोन्मत्तप्रमत्तवृद्धदुर्बलानां वित्तापहरणम् ॥ भाष्यम् १.९ः१६३
अनभिमतग्रहणं नाम कीटभ्रमरपक्षिपतंगादीनामनभिप्रेतद्रव्यापहरणम् ॥ भाष्यम् १.९ः१६४
अनधिकारप्रतिग्रहो नाम इह शास्त्रे अनभ्यनुज्ञातानामर्थानां गोभूहिरण्यद्विपदचतुष्पदादीनां ग्रहणम् ॥ भाष्यम् १.९ः१६५
अनुपालम्भो नाम कुहककल्कनडम्भविस्मापनवर्धापनादिभिरुपायैः परेभ्यो हिरण्याच्छादनोपयोगः ॥ भाष्यम् १.९ः१६६
अनिवेदितोपयोगो नाम भक्ष्यभोज्यलेह्यपेयचोष्यादीनामन्यतमं यत्किंचिद्गुरवेऽनिवेदितमुपयुङ्क्ते स उच्यते अनिवेदितोपयोग इति ॥ भाष्यम् १.९ः१६७
एवं षड्विधं स्तेयम् ॥ भाष्यम् १.९ः१६८
अस्य षड्विधस्यापि स्तेयस्य परिवर्जनमस्तेयमाहुराचार्याः ॥ भाष्यम् १.९ः१६९
भवति ह्यपि । यदेतद्धनमित्याहुः प्राणा ह्येते बहिश्चराः । स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥ भाष्यम् १.९ः१७०
उक्तं हि । सर्वस्वपरिमोष्टा च जीवितान्तकरश्च यः । द्वावेतौ समकर्माणौ तस्मात्स्तेयं विवर्जयेत् ॥ भाष्यम् १.९ः१७१
न स्तेनस्य परो लोको नायं लोको दुरात्मनः । शङ्कितः सर्वभूतानां द्रोहात्मा पाप एव सः ॥ भाष्यम् १.९ः१७२
मृदमापस्तथा यानं पत्त्रं पुष्पं फलान्यपि । असंवृतानि गृह्णीयात्पवित्रार्थीह कार्यवान् ॥ भाष्यम् १.९ः१७३
नद्यश्च वाप्यः कूपाश्च तटाकानि सरांसि च । असंवृतानि गृह्णीयात्प्राजापत्येन कर्मणा ॥ भाष्यम् १.९ः१७४
इत्येवमस्तेयं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः१७५
अक्रोधस्तन्त्रे सिद्धः ॥ भाष्यम् १.९ः१७६
कस्मात् ॥ भाष्यम् १.९ः१७७
शूद्रप्रतिषेधाततितापोपदेशाच्च ॥ भाष्यम् १.९ः१७८
इहाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वद्वंद्वानां मनसि शरीरे च उपनिपतितानां सहिष्णुत्वमप्रतीकारश्चेति यस्मात्कृतोऽत्राक्रोधस्तन्त्रे सिद्धः ॥ भाष्यम् १.९ः१७९
क्रोधश्च पुनश्चतुर्विधः ॥ भाष्यम् १.९ः१८०
तद्यथा भावलक्षणः कर्मलक्षणः वैकल्यकरः उद्वेगकरश्चेति ॥ भाष्यम् १.९ः१८१
तत्र भावलक्षणो नाम सः यत्रासूयाद्वेषमदमानमात्सर्यादयो भावाः प्रवर्तन्ते ॥ भाष्यम् १.९ः१८२
कर्मलक्षणो नाम यत्र कलहवैरसंप्रहरणाद्या भावाः प्रवर्तन्ते ॥ भाष्यम् १.९ः१८३
वैकल्यकरो नाम यत्र पाणिपादनासाक्ष्यङ्गुलिप्रहरणादयो भावाः प्रवर्तन्ते ॥ भाष्यम् १.९ः१८४
उद्वेगकरो नाम यत्र स्वात्मानं परात्मानं वा प्राणैर्वियोजयति ॥ भाष्यम् १.९ः१८५
इत्येवं चतुर्विधः क्रोधः ॥ भाष्यम् १.९ः१८६
अस्य चतुर्विधस्यापि क्रोधस्य परिवर्जनमक्रोधमाहुराचार्याः ॥ भाष्यम् १.९ः१८७
तस्माद्देशजातिकुलकर्मसम्बन्धनिन्दायां करणक्रियायां कार्यनिन्दायामाहारनिन्दायां वाधिकृतेन क्रोधो न कर्तव्यः ॥ भाष्यम् १.९ः१८८
तत्र देशनिन्दा तावद्भवति ॥ भाष्यम् १.९ः१८९
तद्यथा यत्र भवान् जातस्तत्र देशे ब्राह्मणा एव न सन्तीति यदि कश्चिदधिक्षेपं कुर्यात्तत्र क्रोधो न कर्तव्यः ॥ भाष्यम् १.९ः१९०
तत्रैतत्स्यादेवमभिहिते तीव्रदुःखं मानसमभिव्यज्यते ॥ भाष्यम् १.९ः१९१
कथमत्र क्रोधो न भविष्यतीति ॥ भाष्यम् १.९ः१९२
उच्यते न भविष्यति ॥ भाष्यम् १.९ः१९३
कस्मात् ॥ भाष्यम् १.९ः१९४
परिसंख्यानसामर्थ्यात् ॥ भाष्यम् १.९ः१९५
इह मनुष्यलोके देशोऽयं नाम मातापितृहेतुकः औपचयिकः कार्यपिण्डः शरीराख्यः ॥ भाष्यम् १.९ः१९६
स तस्माद्भवः ॥ भाष्यम् १.९ः१९७
क्षेत्रज्ञस्तु चेतनः सर्वगतः शुचिः ॥ भाष्यम् १.९ः१९८
अस्य चास्माकं चान्तरमविदितम् ॥ भाष्यम् १.९ः१९९
अपरिदृष्टार्थे भवानेतद्वा ब्रूयात् ॥ भाष्यम् १.९ः२००
अतः क्रोधनिमित्तासंभवात्परिसंख्यानसामर्थ्येन क्रोधो न कार्यः ॥ भाष्यम् १.९ः२०१
एवं शेषेष्वपि द्रष्टव्यम् ॥ भाष्यम् १.९ः२०२
भवति ह्यपि । शृङ्गवान्नखवान् दंष्ट्री विकृतो रुधिराशनः । राक्षसो वा पिशाचो वा क्रोधिष्णुर्जायते नरः ॥ भाष्यम् १.९ः२०३
पुनश्चाह । कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च । पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥ भाष्यम् १.९ः२०४
विद्विष्टः सर्वभूतानां बह्वमित्रोऽल्पबान्धवः । क्रूरधर्मा दुराचारः क्रोधिष्णुर्जायते नरः ॥ भाष्यम् १.९ः२०५
क्रुद्धः करोति पापानि क्रुद्धः पापानि भाषते । क्रुद्धो भवति निर्लज्जस्तस्मात्क्रोधं विवर्जयेत् ॥ भाष्यम् १.९ः२०६
तथा चोक्तम् । यत्क्रोधनो जपति यच्च जुहोति यद्वा यद्वा तपस्तप्यति यद्ददाति तत्सर्वम् । वैवस्वतो हरति पूर्तममुष्य सर्वं मिथ्या श्रुतं भवति तस्य शमोऽपि तस्य ॥ भाष्यम् १.९ः२०७
धन्यास्ते पुरुषव्याघ्रा ये बुद्ध्या क्रोधमुत्थितम् । शमयन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ भाष्यम् १.९ः२०८
यतो रूपं ततो ज्ञानं यतो ज्ञानं ततस्तपः । यतस्तपस्ततः सिद्धिर्यतः सिद्धिस्ततः क्षमा ॥ भाष्यम् १.९ः२०९
क्षमा सर्वपरं मित्रं क्रोधः सर्वपरो रिपुः । क्षमावतामयं लोकः परो लोकः क्षमावताम् ॥ भाष्यम् १.९ः२१०
एतस्मात्कारणात्क्षन्तव्यमित्येवमक्रोधस्तन्त्रे सिद्धः ॥ भाष्यम् १.९ः२११
तथा गुरुशुश्रूषा तन्त्रे सिद्धा ॥ भाष्यम् १.९ः२१२
कस्मात् ॥ भाष्यम् १.९ः२१३
व्याख्यानोपदेशाद्विद्वदुपदेशाच्च ॥ भाष्यम् १.९ः२१४
इह चोक्तं विधिं व्याख्यास्यामः इति ॥ भाष्यम् १.९ः२१५
अत्राणिति मर्यादायाम् ॥ भाष्यम् १.९ः२१६
म इति प्रतिज्ञायां भवति ॥ भाष्यम् १.९ः२१७
मयि वर्तते ॥ भाष्यम् १.९ः२१८
मयि तिष्ठतीति ॥ भाष्यम् १.९ः२१९
यदि चेष्टे वत्स्यसि यदि चेष्टे स्थास्यसि ततस्ते वक्ष्यामः ॥ भाष्यम् १.९ः२२०
तत्रेष्टमित्यष्टाङ्गं ब्रह्मचर्यं मर्यादामधिकुरुते ॥ भाष्यम् १.९ः२२१
तद्यथा उत्थानप्रत्युत्थानाभिवादनगुरुकार्यहितकारी अनुत्तरोत्तरवादी पूर्वोत्थायी जघन्यसंवेशी प्रेषिताप्रेषितसर्वकार्यकृतज्ञः सर्वनिवेदितात्मा दक्षो दाक्षिण्यानुरक्तः स्नानोद्वर्तनसंवाहनादिभिः क्रियाविशेषैः छायेवानुगतो नित्यमिदं कृतमिदं करिष्ये किं करवाणीति भूत्वा गुरवेऽहरहर्वर्तितव्यम् ॥ भाष्यम् १.९ः२२२
यस्तु विद्यां गुरोरधिकृत्य बहुभ्यः सम्प्रयच्छति अनेनास्य विद्याया दानेन गुरवः शुश्रूषिता भवन्ति ॥ भाष्यम् १.९ः२२३
क्षीणे च ब्रह्मचर्ये नियतं गुरुषु यद्गौरवं तद्ब्रह्मचर्यम् ॥ भाष्यम् १.९ः२२४
भवति ह्यपि । गुरुर्देवो गुरुः स्वामी गुरुर्माता गुरुः पिता । यस्यैवं निश्चितो भावः श्रेयस्तस्य न दूरतः ॥ भाष्यम् १.९ः२२५
अग्निसूर्येन्दुताराभिश्चाक्षुषोऽर्थः प्रकाशते । भूतं भव्यं भविष्यं च गुरुवाक्यैः प्रकाशते ॥ भाष्यम् १.९ः२२६
देशकैर्गम्यतेऽध्वानं देशकैर्गम्यतेऽर्णवः । देशकैर्गम्यते स्वर्गो गुरुर्मोक्षस्य देशकः ॥ भाष्यम् १.९ः२२७
अमृतस्य प्रदातारं यो गुरुं ह्यवमन्यते । षष्टिवर्षसहस्राणि नरकं पर्युपासते ॥ भाष्यम् १.९ः२२८
गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ भाष्यम् १.९ः२२९
आचार्यं पूजयेद्यस्तु सर्वावस्थं हि नित्यशः । पूजितस्तेन भवति शिवो वै नात्र संशयः ॥ भाष्यम् १.९ः२३०
आचार्यमूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति । तस्माद्वै नावमन्तव्य आचार्यः श्रेय इच्छता ॥ भाष्यम् १.९ः२३१
ग्रन्थार्थविदुषे नित्यं योगमार्गानुदर्शिने । सर्वार्थेनापि कर्तव्यः परितोषो विजानता ॥ भाष्यम् १.९ः२३२
ऋचं वा यदि वार्धर्चं पादं वा यदि वाक्षरम् । सकाशाद्यस्य गृह्णीयान्नियतं तत्र गौरवम् ॥ भाष्यम् १.९ः२३३
लिङ्गकर्त्री यथा माता शास्त्रकर्ता यथा पिता । प्रबोधकृद्गुरुस्तेषां तदेवायतनं महत् ॥ भाष्यम् १.९ः२३४
इत्येवं गुरुशुश्रूषा तन्त्रे सिद्धा ॥ भाष्यम् १.९ः२३५
तथा शौचं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः२३६
कस्मात् ॥ भाष्यम् १.९ः२३७
भस्मस्नानोपदेशात् ॥ भाष्यम् १.९ः२३८
तच्च शौचं त्रिविधम् ॥ भाष्यम् १.९ः२३९
तद्यथा गात्रशौचं भावशौचमात्मशौचं चेति ॥ भाष्यम् १.९ः२४०
तत्र भस्मस्नानोपदेशात्प्रसिद्धं भस्मना गात्रशौचम् ॥ भाष्यम् १.९ः२४१
आह यदुक्तं प्रसिद्धं भस्मना गात्रशौचमिति एतदेवायुक्तम् ॥ भाष्यम् १.९ः२४२
कस्मात् ॥ भाष्यम् १.९ः२४३
पूर्वोत्तरव्याघातात् ॥ भाष्यम् १.९ः२४४
इह पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति ॥ भाष्यम् १.९ः२४५
यदिह भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते ॥ भाष्यम् १.९ः२४६
तस्मादिदं पूर्वोत्तरं न संगच्छति ॥ भाष्यम् १.९ः२४७
व्याहतं च भवति ॥ भाष्यम् १.९ः२४८
एष दोष इत्यतः पूर्वोत्तरव्याघातात् ॥ भाष्यम् १.९ः२४९
तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौचमित्येतदयुक्तम् ॥ भाष्यम् १.९ः२५०
उच्यते नायं दोषः ॥ भाष्यम् १.९ः२५१
कस्मात् ॥ भाष्यम् १.९ः२५२
प्रसिद्धिदर्शनात् ॥ भाष्यम् १.९ः२५३
इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति ॥ भाष्यम् १.९ः२५४
एवं ह्याह । संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः । अन्नपानकृताश्चैव संकरा देहमाश्रिताः । सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि ॥ भाष्यम् १.९ः२५५
पुनश्चाह । केशकीटोपपन्नानि दुष्टान्नानि च यानि वै । भस्मना स्पृष्टमात्राणि भोज्यान्याहुर्मनीषिणः ॥ भाष्यम् १.९ः२५६
पुनरप्युक्तम् । मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मोद्ध्वस्तो भस्मराशौ शयानो रुद्राध्यायी मुच्यते पातकेभ्यः ॥ भाष्यम् १.९ः२५७
यः स्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः । कुलैकविंशमुद्धृत्य स गच्छेत्परमां गतिम् ॥ भाष्यम् १.९ः२५८
एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् ॥ भाष्यम् १.९ः२५९
तस्माद्युक्तं वक्तुं प्रसिद्धा यमा अहिंसादय इति ॥ भाष्यम् १.९ः२६०
तथोपस्पर्शनप्राणायामजप्यैः अकलुषमतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः२६१
भावमन्तर्गतं दुष्टं न स्नानमपकर्षति । भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥ भाष्यम् १.९ः२६२
मृत्तिकानां सहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुरात्मानः पापोपहतचेतसः ॥ भाष्यम् १.९ः२६३
सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचमद्भिः शौचं तु पञ्चमम् ॥ भाष्यम् १.९ः२६४
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा । प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥ भाष्यम् १.९ः२६५
यस्मादाह । सर्वस्वमपि यो दद्यात्कलुषेणान्तरात्मना । न तेन धर्मभाग्भवति भाव एवात्र कारणम् ॥ भाष्यम् १.९ः२६६
यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् । तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥ भाष्यम् १.९ः२६७
इत्येवं भावशौचं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः२६८
तथात्मशौचं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः२६९
कस्मात् ॥ भाष्यम् १.९ः२७०
यस्मादवमानपरिभवपरिवादाद्यैरपहतपाप्मा भवति इत्यात्मशौचं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः२७१
यस्मादन्यैरप्युक्तम् । कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् । अपमानात्परं नास्ति साधनं मनुरब्रवीत् ॥ भाष्यम् १.९ः२७२
इत्येवं शौचं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः२७३
तथा आहारलाघवं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः२७४
कस्मात् । भैक्षोत्सृष्टयथालब्धोपदेशात् ॥ भाष्यम् १.९ः२७५
स्वल्पमपि अनुपायतोऽर्जितमलघु प्रभूतमपि उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् ॥ भाष्यम् १.९ः२७६
उक्तं हि । चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् । अक्रुद्धश्चाप्रहृष्टश्च तपस्तद्धि सनातनम् ॥ भाष्यम् १.९ः२७७
यश्चरेत्सर्वभोज्येषु भैक्ष्यं च व्यवहारतः । भुञ्जीत प्रतिगृह्णीयात्प्रशस्तानां स्वकर्मसु ॥ भाष्यम् १.९ः२७८
चातुर्वर्ण्यं चरेद्भैक्ष्यं पतितांस्तु विवर्जयेत् । पयश्चापश्च भैक्ष्यं च सममेतन्न संशयः ॥ भाष्यम् १.९ः२७९
भैक्ष्यशेषं तु यो भिक्षुर्यदि किंचित्समुत्सृजेत् । ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥ भाष्यम् १.९ः२८०
संनिधानं न कुर्वीत सर्वावस्थोऽपि योगवित् । संनिधानकृतैर्दोषैर्यतिः संजायते कृमिः ॥ भाष्यम् १.९ः२८१
माधुकरमसंकल्पं प्राक्प्रवृत्तमयाचितम् । तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ भाष्यम् १.९ः२८२
गृहाद्गृहं पर्यटंस्तु न गृहं परिवर्जयेत् । परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥ भाष्यम् १.९ः२८३
अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् । स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते ॥ भाष्यम् १.९ः२८४
तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् । स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति ॥ भाष्यम् १.९ः२८५
अकृते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥ भाष्यम् १.९ः२८६
वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् । नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ भाष्यम् १.९ः२८७
दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते । तद्गृहं वर्जयेद्भिक्षुरूषराणीव कर्षकः ॥ भाष्यम् १.९ः२८८
चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् । एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः ॥ भाष्यम् १.९ः२८९
न हसेन्न चाभिप्रेक्षेत्भिक्षामिच्छंस्तु भिक्षुकः । गोदोहमात्रं संतिष्ठेन्नोपतिष्ठेत्कदाचन ॥ भाष्यम् १.९ः२९०
जरामरणगर्भेभ्यो भीतस्य नरकादपि । भयात्क्षपयते यस्मात्तस्माद्भैक्ष्यमिति स्मृतम् ॥ भाष्यम् १.९ः२९१
दधिभक्षाः पयोभक्षा येऽन्ये यावकभक्षिणः । सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥ भाष्यम् १.९ः२९२
तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् । पिबेद्द्वादश वर्षाणि न तद्भैक्ष्यसमं भवेत् ॥ भाष्यम् १.९ः२९३
मासि मासि कुशाग्रेण यः पिबेत्सोममग्रजः । भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा ॥ भाष्यम् १.९ः२९४
भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि । भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः ॥ भाष्यम् १.९ः२९५
यद्यज्जलं निर्धमनेष्वपेयं नदीगतं तत्पुनरेव पेयम् । तथान्नपानं विधिपूर्वमागतं द्विजातिपात्रान्तरितं न दुष्यति ॥ भाष्यम् १.९ः२९६
लवणमलवणं वा स्निग्धमस्नेहिकं वा सहरसविरसं वा शुष्कमन्नं द्रवं वा । यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः ॥ भाष्यम् १.९ः२९७
तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात्प्रतितन्त्रसिद्धान्तसिद्धं सूत्रतोऽर्थनिर्देशं करिष्यामः ॥ भाष्यम् १.९ः२९८
इत्येवमाहारलाघवं तन्त्रे सिद्धम् ॥ भाष्यम् १.९ः२९९
तथा अप्रमादस्तन्त्रे सिद्धः ॥ भाष्यम् १.९ः३००
कस्मात् ॥ भाष्यम् १.९ः३०१
अप्रमादोपदेशात्जप्योपदेशाच्च ॥ भाष्यम् १.९ः३०२
इह नित्यं यमेष्वप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् ॥ भाष्यम् १.९ः३०३
उक्तं हि । अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः । शीलरश्मिसमायुक्तैर्धेयात्मा मानसे रथे ॥ भाष्यम् १.९ः३०४
तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् । छिन्दन्मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते ॥ भाष्यम् १.९ः३०५
इत्येवमप्रमादस्तन्त्रे सिद्धः ॥ भाष्यम् १.९ः३०६
एवं प्रसिद्धा यमा अहिंसादयः ॥ भाष्यम् १.९ः३०७
आह अविशेषदोषान्न प्रसिद्धा यमाः ॥ भाष्यम् १.९ः३०८
इहान्येषामप्यहिंसादीनि धर्मसाधनानि ॥ भाष्यम् १.९ः३०९
इहापि च शास्त्रे तान्येव ॥ भाष्यम् १.९ः३१०
तस्मात्साध्यसाधननिष्ठास्वप्यविशेषः ॥ भाष्यम् १.९ः३११
उच्यते न ॥ भाष्यम् १.९ः३१२
अतिप्रसङ्गादनेकान्ताच्च ॥ भाष्यम् १.९ः३१३
यदि धर्मसाधनास्तित्वमात्रसाधर्म्यादहिंसादीनां त्यागः क्रियते तस्मात्कार्यकारणक्षेत्रज्ञधर्माधर्मसुखदुःखसंसारपदार्थादयोऽपि त्याज्याः ॥ भाष्यम् १.९ः३१४
अथ नैवमनेकान्तः ॥ भाष्यम् १.९ः३१५
किंच त्यागे कृतिहिंसादीनां धर्मसाधनत्वप्रसङ्गः ॥ भाष्यम् १.९ः३१६
किंच अतिदानातियजनातितपोऽतिगत्यनावृत्त्यादिभिः यमनियमगर्भत्वाद्विधेः सिद्धम् ॥ भाष्यम् १.९ः३१७
नियमविशेषणाच्च नाविशेषः ॥ भाष्यम् १.९ः३१८
तस्माद्युक्तमुक्तं प्रसिद्धा यमा अहिंसादय इति ॥ भाष्यम् १.९ः३१९
अत एतदुक्तंमहादेवस्य दक्षिणामूर्तेः इति ॥ भाष्यम् १.९ः३२०
अत्रेदं यमप्रकरणं समाप्तम् ॥ भाष्यम् १.९ः३२१
आह तस्मिन्नायतने प्रतिवसतः का मात्रा ॥ भाष्यम् १.९ः३२२
सा वाच्या गृहस्थादिवत् ॥ भाष्यम् १.९ः३२३
तदुच्यते न ॥ भाष्यम् १.९ः३२४
यस्मादाह ॥ भाष्यम् १.९ः३२५

एकवासाः ॥ १.१० ॥

अत्र एकमिति संख्या ॥ भाष्यम् १.१०ः१
वास इत्याच्छादने भवति ॥ भाष्यम् १.१०ः२
तस्य वासः पञ्चविधमण्डजं वोडजं वालजं वल्कलजं चर्मजं वा ॥ भाष्यम् १.१०ः३
यत्कुशलेनाभ्युपायेनोपपद्यते तदेकपटलमनेकपटलं वा ग्राम्यादिभ्यो निष्परिग्रहं कौपीनप्रच्छादनमात्रं लज्जाप्रतीकारार्थं चैकं वासो ग्राह्यम् ॥ भाष्यम् १.१०ः४
अस्यैव च सूत्रस्य सामर्थ्यात्सर्वद्रव्यपरित्यागे कृते एकवासोमात्रपरिग्रहः संस्कर्तव्यः शिष्यः । आह लज्जाविनिवृत्तिरस्य कदा भवतीति । उच्यते ज्ञानाकलुषाभ्याम् । अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च भवति तदा तस्य लज्जानिवृत्तिः ॥ भाष्यम् १.१०ः५
आह किं विनिवृत्तायामपि लज्जायां नियतमेवैकं वासो ग्राह्यमाहोस्विदनियतमिति । उच्यते अनियतं यस्मादाह ॥ भाष्यम् १.१०ः६

अवासा वा ॥ १.११ ॥

अत्र अकारो वासःप्रतिषेधे वर्तते । अवाससा नग्नेन यथा जातेन निष्परिग्रहेण भवितव्यम् । आह अवासस्त्वे किं ते प्रयोजनम् । तद्वाच्यमेकवासस्त्ववत् । तदुच्यते निष्परिग्रहार्थममङ्गलख्यापनार्थं चेति प्रयोजनद्वयं द्रष्टव्यम् । वाशब्दः शक्त्यशक्त्योर्विचारणे । यद्यशक्तस्तदा अनग्नेनैकवाससा भाव्यम् । यदि शक्तस्तदा अवाससा नग्नेन यथाजातेन निष्परिग्रहेण भवितव्यमित्यर्थः । न तु वा विकल्पे । विकल्पार्थासंभवादित्यर्थः ॥ भाष्यम् १.११ः१
आह तस्मिन्नायतने प्रतिवसता किमा देहपातादनिर्गच्छतैव स्थेयं ध्यानैकनिष्ठेन शिलावदाहोस्विद्दृष्टोऽस्यायतनान्निर्गमः भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादिप्रवेशो वा । उच्यते दृष्टः । यस्मात् ॥ भाष्यम् १.११ः२

मूत्रपुरीषं नावेक्षेत् ॥ १.१२ ॥

अत्र मूत्रं च पुरीषं च मूत्रपुरीषम् । चार्थे द्वंद्वसमासः अत्र मूत्रं नाम यदेतदुदरपर्युषितं निःसरति बहिः स्रवति तन्मूत्रम् ॥ भाष्यम् १.१२ः१
मोचनान्मूत्रम् ॥ भाष्यम् १.१२ः२
मूत्रत्वाभिसम्बन्धाद्धि मूत्रं लोकादिप्रसिद्धमित्यर्थः ॥ भाष्यम् १.१२ः३
पुरीषं नाम यदेतत्पीतखादितावलीढानामाहारविशेषाणामाध्यात्मिकेन अग्निना परिपक्वमपानेन स्खलति तत्पुरीषम् ॥ भाष्यम् १.१२ः४
पुरान्निर्गतत्वात्पुरीषत्वाभिसम्बन्धाद्वा पुरीषं लोकादिप्रसिद्धमित्यर्थः ॥ भाष्यम् १.१२ः५
नकारो दर्शनप्रतिषेधे ॥ भाष्यम् १.१२ः६
न द्रष्टव्यमित्यर्थः ॥ भाष्यम् १.१२ः७
अव इति अपवर्जनं नाम प्रतिषेधे जातिग्रहणेन्द्रियान्तरप्रतिषेधे चेत्यर्थः ॥ भाष्यम् १.१२ः८
ईक्ष दर्शने ॥ भाष्यम् १.१२ः९
यदेतन्निजं बुद्धीन्द्रियं चक्षुरनेन चक्षुषा अनया बुद्ध्या मनुष्यादीनां मूत्रपुरीषं न द्रष्टव्यम् ॥ भाष्यम् १.१२ः१०
न तु गवादीनामित्यर्थः ॥ भाष्यम् १.१२ः११
आह किं मूत्रपुरीषसंदर्शनमात्रमेवास्य प्रतिषिध्यते ॥ भाष्यम् १.१२ः१२
उच्यते न ॥ भाष्यम् १.१२ः१३
यस्मादाह ॥ भाष्यम् १.१२ः१४

स्त्रीशूद्रं नाभिभाषेत् ॥ १.१३ ॥

अत्र स्त्री च शूद्रश्च स्त्रीशूद्रम् ॥ भाष्यम् १.१३ः१
चार्थे द्वंद्वसमासः ॥ भाष्यम् १.१३ः२
अत्र स्त्री नाम सेयं लोकप्रसिद्धा स्तनजघनकेशवती हावभावविलासयुक्ता पुरुषभावस्वभाविका दिव्या मानुषा अतिरतिरसा विषयमूर्तिरिति कृत्वा प्रतिषिध्यते ॥ भाष्यम् १.१३ः३
अनुभाषणपूर्विका चास्याः प्राप्तिर्भविष्यतीत्यतः स्त्री नाभिभाषितव्येत्यर्थः ॥ भाष्यम् १.१३ः४
शूद्रो नामायं लोकादिप्रसिद्धस्त्रिवर्णपरिचारकः ॥ भाष्यम् १.१३ः५
शोचनाद्द्रोहणाच्च शूद्रः ॥ भाष्यम् १.१३ः६
स खल्वदयालुरिति कृत्वा प्रतिषिध्यते ॥ भाष्यम् १.१३ः७
किमर्थम् ॥ भाष्यम् १.१३ः८
तेनाक्रुष्टश्चाभिहतश्च वा क्रुद्धस्तद्वधार्थं प्रवर्तते अतो जातिज्ञानतपःश्रुतहानिर्भवति ॥ भाष्यम् १.१३ः९
सूचिते चावमानाद्यभावेऽवमानाद्यभावात्सूचिवृद्धयोरभावः ॥ भाष्यम् १.१३ः१०
अकलुषसूत्रे चास्य दोषनिर्देशं करिष्यामः ॥ भाष्यम् १.१३ः११
नकारो भाषणप्रतिषेधे ॥ भाष्यम् १.१३ः१२
नाभिभाषितव्यमित्यर्थः ॥ भाष्यम् १.१३ः१३
अभिशब्दः प्रसङ्ग इति ॥ भाष्यम् १.१३ः१४
प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्यर्थः ॥ भाष्यम् १.१३ः१५
भाष व्यक्तायां वाचि ॥ भाष्यम् १.१३ः१६
यदेतत्कर्मेन्द्रियं वागनया वाण्या इति ॥ भाष्यम् १.१३ः१७
अतः स्त्रीशूद्रं नाभिभाषितव्यमित्यर्थः ॥ भाष्यम् १.१३ः१८
आह नावेक्षेन्नाभिभाषेदित्युक्तेऽथ किमनेन साधकेनान्धमूकवदवस्थातव्यमिति ॥ भाष्यम् १.१३ः१९
उच्यते न ॥ भाष्यम् १.१३ः२०
यस्मादाह ॥ भाष्यम् १.१३ः२१

यद्यवेक्षेद्यद्यभिभाषेत् ॥ १.१४ ॥

अत्र यदि यदि इत्याशङ्कायाम् ॥ भाष्यम् १.१४ः१
नाभिभाषेदिति वचनान्निषिद्धेऽप्यर्थे गुर्वर्थमात्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन् प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश्च दर्शनमभिभाषणं च भविष्यतीति कृत्वा ॥ भाष्यम् १.१४ः२
अत एतदुक्तं सर्वज्ञेन भगवता यद्यवेक्षेद्यद्यभिभाषेदिति ॥ भाष्यम् १.१४ः३
अवश्यं भवेदित्यर्थः ॥ भाष्यम् १.१४ः४
आह दृष्टे चाभिभाषिते चोपहतेन निर्घातनं किं कर्तव्यम् ॥ भाष्यम् १.१४ः५
तदुच्यते उपस्पर्शनम् ॥ भाष्यम् १.१४ः६
यस्मात् ॥ भाष्यम् १.१४ः७

उपस्पृश्य ॥ १.१५ ॥

अत्र उप इत्यभ्युपगमे ॥ भाष्यम् १.१५ः१
अभ्युपगमनेन कलुषमतिनेत्यर्थः ॥ भाष्यम् १.१५ः२
स्पृश्य इति भस्मद्रव्यगात्रसंयोजनमेव ॥ भाष्यम् १.१५ः३
उपस्पृश्येति स्नानपर्यायः ॥ भाष्यम् १.१५ः४
सचैलोदकस्पर्शनवत् ॥ भाष्यम् १.१५ः५
स च भस्मना कर्तव्यः नाद्भिः ॥ भाष्यम् १.१५ः६
कस्मात् ॥ भाष्यम् १.१५ः७
पूर्वोत्तरव्याघातात् ॥ भाष्यम् १.१५ः८
स्नानस्याप्रसङ्गाच्च ॥ भाष्यम् १.१५ः९
उपस्पृश्येति निष्ठा ॥ भाष्यम् १.१५ः१०
आह उपस्पृश्य यदि कलुषं न क्षीणं स्यात्ततो निर्घातनं किं कर्तव्यम् ॥ भाष्यम् १.१५ः११
तदुच्यते साकाङ्क्षत्वान्निष्ठाशब्दस्य प्राणायामः कर्तव्यः ॥ भाष्यम् १.१५ः१२
यस्मादाह ॥ भाष्यम् १.१५ः१३

प्राणायामं कृत्वा ॥ १.१६ ॥

अत्र प्राणो नाम य एष मुखनासिकाभ्यां निःसरति वायुरेष प्राणः ॥ भाष्यम् १.१६ः१
तस्य आयामो निग्रहो निरोधः स प्राणायामः ॥ भाष्यम् १.१६ः२
स च पुरुषवृत्तिर्द्रष्टव्यः ॥ भाष्यम् १.१६ः३
कस्मात् ॥ भाष्यम् १.१६ः४
ज्ञानेच्छाप्रयत्नपूर्वकत्वात्प्राणायामस्य च ॥ भाष्यम् १.१६ः५
एकोद्धातो द्विरुद्धातो वा ॥ भाष्यम् १.१६ः६
तथा विंशतिमात्रश्चतुर्विंशतिमात्रस्त्रिंशन्मात्रो वा ॥ भाष्यम् १.१६ः७
मात्रा त्वक्षिनिमेषकालः ॥ भाष्यम् १.१६ः८
स यथाशक्ति यथाबलं कर्तव्यः ॥ भाष्यम् १.१६ः९
तस्मादुपस्पृश्य पद्मकस्वस्तिकोपस्थाञ्जलिकार्धचन्द्रपीठकदण्डायतसर्वतोभद्रादीनामन्यतमेनासनबन्धेन प्राङ्मुख उदङ्मुखो वा उपविश्यैतान्यङ्गानि कृत्वा ग्रीवामुन्नाम्य पूरणपूर्वको वा रेचकपूर्वको वा तावत्कर्तव्यो यावन्निगृहीता वायवो ध्यानीभूतश्च भवति ॥ भाष्यम् १.१६ः१०
तत्र ध्यानीभूतो नाम यदा दन्तिवदन्तःशरीरं पूर्णं भवति ॥ भाष्यम् १.१६ः११
निगृहीतानां तु लक्षणं यदा कूर्मवदन्तःशरीरे उच्छ्वासप्रत्युच्छ्वासा वर्तन्ते स्वच्छेन्द्रियश्च भवति तदा मन्तव्या निगृहीता वायव इति ॥ भाष्यम् १.१६ः१२
ततः शनैः शनैर्मोक्तव्या नासिकया यथोत्पलपत्त्रमपि नासापुटस्थं न कम्पयति ॥ भाष्यम् १.१६ः१३
तदत्र प्रश्नाक्रान्तौ क्रमेणाक्रमितव्यः अन्तर्भावेऽन्तरे वायवो भावयितव्याः ॥ भाष्यम् १.१६ः१४
अन प्राणने ॥ भाष्यम् १.१६ः१५
आङिति आसनबन्धनिभृतनिगृहीतकलुषक्षपणविसर्गादिमर्यादामधिकुरुते ॥ भाष्यम् १.१६ः१६
यमु बन्धने ॥ भाष्यम् १.१६ः१७
बन्धयितव्याः ॥ भाष्यम् १.१६ः१८
डुकृञ्करणे द्रष्टव्यः ॥ भाष्यम् १.१६ः१९
त्वा इति कर्मनिष्ठायाम् ॥ भाष्यम् १.१६ः२०
विच्छेदवदित्यर्थः ॥ भाष्यम् १.१६ः२१
आह अथ कृते प्राणायामे यदि कलुषं न क्षीणं स्यात्ततोऽनेन किं कर्तव्यम् ॥ भाष्यम् १.१६ः२२
तदुच्यते जप्यम् ॥ भाष्यम् १.१६ः२३
यस्मादाह ॥ भाष्यम् १.१६ः२४

रौद्रीं गायत्रीं बहुरूपीं वा जपेत् ॥ १.१७ ॥

अत्र त्वाशब्दसामर्थ्याद्गम्यते प्राणसंयमेन समं जप्यं कर्तव्यम् ॥ भाष्यम् १.१७ः१
उपस्पर्शनवत् ॥ भाष्यम् १.१७ः२
तस्मादत्र रौद्री नाम तत्पुरुषा ॥ भाष्यम् १.१७ः३
रौद्री च कस्मात् ॥ भाष्यम् १.१७ः४
रुद्रस्योपस्थापकत्वाद्रौद्री ॥ भाष्यम् १.१७ः५
रुद्रो वास्यां चिन्त्यते रुद्रप्रापकत्वाद्वा रौद्री ॥ भाष्यम् १.१७ः६
आह सद्योजातादिबहुप्रकारा तत्र का सा रौद्री ॥ भाष्यम् १.१७ः७
तदुच्यते गायत्री ॥ भाष्यम् १.१७ः८
अत्र या रौद्री सा गायत्री ॥ भाष्यम् १.१७ः९
गायत्री च कस्मात् ॥ भाष्यम् १.१७ः१०
गीता गातारं त्रायत इति ॥ भाष्यम् १.१७ः११
गायत्रे वा छन्दसि वर्तत इति गायत्री ॥ भाष्यम् १.१७ः१२
अत्र रौद्रीग्रहणाद्वैदिक्यादिगायत्रीप्रतिषेधः ॥ भाष्यम् १.१७ः१३
इह तु गायत्रीग्रहणात्सद्योजातादीनां प्रतिषेधः ॥ भाष्यम् १.१७ः१४
गायत्रीमिति कर्म ॥ भाष्यम् १.१७ः१५
बहुरूपी नामाघोरा ॥ भाष्यम् १.१७ः१६
बहुरूपी च कस्मात् ॥ भाष्यम् १.१७ः१७
बहुरूपस्योक्तपरिग्रहेष्वाकारेषु वर्तत इति बहुरूपी ॥ भाष्यम् १.१७ः१८
बहुरूपो वा अस्यां चिन्त्यत इति बहुरूपप्रापकत्वाद्बहुरूपी ॥ भाष्यम् १.१७ः१९
बहुरूपीमिति कर्म ॥ भाष्यम् १.१७ः२०
वा इति विकल्पे ॥ भाष्यम् १.१७ः२१
उभयोरपि ब्रह्मत्वमुभयोरपि तुल्यार्थसाधकत्वमुभे अपि महेश्वरपरिगृहीते इत्यत एकामनेकां वा उपस्पृश्य जपेदिति मानसी क्रियेत्यर्थः ॥ भाष्यम् १.१७ः२२
आह उपस्पर्शनप्राणायामजप्याधिकृतस्य का कार्यनिष्पत्तिः ॥ भाष्यम् १.१७ः२३
तदुच्यते अकलुषत्वम् ॥ भाष्यम् १.१७ः२४
यस्मादाह ॥ भाष्यम् १.१७ः२५

अकलुषमतेः ॥ १.१८ ॥

इति ॥ भाष्यम् १.१८ः१
अत्र अकलुषा यस्य मतिः सोऽयमकलुषमतिः ॥ भाष्यम् १.१८ः२
बहुव्रीहिसमासः ॥ भाष्यम् १.१८ः३
अत्राकारः कलुषप्रतिषेधे ॥ भाष्यम् १.१८ः४
भावकालुष्यमेवात्र कालुष्यम् ॥ भाष्यम् १.१८ः५
कथं गम्यते ॥ भाष्यम् १.१८ः६
प्राक्सिद्धत्वात् ॥ भाष्यम् १.१८ः७
इह च पुरस्तादुक्तम् ॥ भाष्यम् १.१८ः८
नावेक्षेन्नाभिभाषेदित्युक्ते अर्थापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते ॥ भाष्यम् १.१८ः९
ते चोत्पन्ना मतावभिव्यज्यन्ते ॥ भाष्यम् १.१८ः१०
कालतिलकादिदर्शनवत् ॥ भाष्यम् १.१८ः११
अभिव्यक्तेश्चोच्यते कलुषितोऽहं व्याहतोऽहं मलिनीकृतोऽहमिति ॥ भाष्यम् १.१८ः१२
अतो द्वेषेच्छाक्रोधनिमित्तत्वान्मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते ॥ भाष्यम् १.१८ः१३
यदा त्वेते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम् ॥ भाष्यम् १.१८ः१४
कलुषमतेरिति ॥ भाष्यम् १.१८ः१५
नैमित्तिकं च कलुषम् ॥ भाष्यम् १.१८ः१६
न च निमित्तानित्यत्वान्नैमित्तिकं नित्यं भवति ॥ भाष्यम् १.१८ः१७
बीजक्षयेऽङ्कुरवत् ॥ भाष्यम् १.१८ः१८
न च यत्रैव कलुषमुत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि ॥ भाष्यम् १.१८ः१९
आयतने तु कर्तव्यानि ॥ भाष्यम् १.१८ः२०
अथापि कलुषमुत्पन्नं प्रध्वस्तं स्यात्तथापि तदर्थं न कर्तव्यानि ॥ भाष्यम् १.१८ः२१
यदा तु तदवस्थितं सम्भवति शिरोरोगादिवत्तदा कर्तव्यानि ॥ भाष्यम् १.१८ः२२
अत्र मतिरिति बुद्धिरित्यनर्थान्तरम् ॥ भाष्यम् १.१८ः२३
अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्यर्थः ॥ भाष्यम् १.१८ः२४
आह अकलुषमतिना साधकेन किं कर्तव्यम् ॥ भाष्यम् १.१८ः२५
तदुच्यते चरितव्यम् ॥ भाष्यम् १.१८ः२६
यस्मादाह ॥ भाष्यम् १.१८ः२७

चरतः ॥ १.१९ ॥

अत्र चरतः इति धर्मार्जनमधिकुरुते ॥ भाष्यम् १.१९ः१
भैक्ष्यचरणवत्तपश्चरितव्यं विहर्तव्यं तपसोऽर्जनं कर्तव्यं न स्थेयमित्यर्थः ॥ भाष्यम् १.१९ः२
चरत इति वर्तमानकालः ॥ भाष्यम् १.१९ः३
अकलुषमतेश्चरतो वा अस्य का कार्यनिष्पत्तिः ॥ भाष्यम् १.१९ः४
तदुच्यते ॥ भाष्यम् १.१९ः५

ततोऽस्य योगः प्रवर्तते ॥ १.२० ॥

अत्र ततः इति चर्यापदेशे ॥ भाष्यम् १.२०ः१
ततः चर्याभिनिवेशादनन्तरं तज्जन्यधर्मादित्यर्थः ॥ भाष्यम् १.२०ः२
अस्य इति साधकापदेशे ॥ भाष्यम् १.२०ः३
योऽयमकलुषमतिश्चरति तस्येत्यर्थः ॥ भाष्यम् १.२०ः४
आह किं भवतीति ॥ भाष्यम् १.२०ः५
तदुच्यते योगः प्रवर्तते ॥ भाष्यम् १.२०ः६
अध्ययनध्यानादिलक्षणः क्रियायोगश्चरतः प्रवर्तत इत्यर्थः ॥ भाष्यम् १.२०ः७
अत्रात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ भाष्यम् १.२०ः८
प्र इति आदिकर्मणि आरम्भे भवति ॥ भाष्यम् १.२०ः९
यदा अकलुषमतिश्चरति तदा प्रवर्तत इत्यर्थात् ॥ भाष्यम् १.२०ः१०
तत्र यतः प्रवर्तते ॥ भाष्यम् १.२०ः११
विषयेभ्यः ॥ भाष्यम् १.२०ः१२
प्रत्याहृतचित्तस्य यत्प्रवर्तते तद्योगः ॥ भाष्यम् १.२०ः१३
यथा प्रवर्तते ॥ भाष्यम् १.२०ः१४
क्रमशः ॥ भाष्यम् १.२०ः१५
येन प्रवर्तते ॥ भाष्यम् १.२०ः१६
तपसा प्रवर्तते ॥ भाष्यम् १.२०ः१७
यस्य प्रवर्तते ॥ भाष्यम् १.२०ः१८
आत्मनः साधकस्य ॥ भाष्यम् १.२०ः१९
यस्मिन् प्रवर्तते ॥ भाष्यम् १.२०ः२०
योऽयमात्मन्यात्मभावः स महेश्वरे प्रवर्तत इत्यर्थः ॥ भाष्यम् १.२०ः२१
एवं यस्माद्द्रव्यावस्थानकालदेशक्रियाप्रयोगोच्चावचप्रयोजनयमनियमवृत्तिवसत्यर्थप्राणायामप्रत्याहारनिमित्तप्रतिषेधसंशयनिर्घातनशौचनियोगफलोपायाश्च व्याख्याताः अतोऽत्रायतनप्रकरणं समाप्तम् ॥ भाष्यम् १.२०ः२२
अत्राह किं प्रयोजननिष्ठं तन्त्रम् ॥ भाष्यम् १.२०ः२३
उच्यते न ॥ भाष्यम् १.२०ः२४
योगनिष्ठम् ॥ भाष्यम् १.२०ः२५
यस्मादाह युक्तोत्तरे सत्यपि पदार्थवैलक्षण्ये रङ्गपताकादिवच्छिष्यप्रलोभनार्थमिदमारभ्यते ॥ भाष्यम् १.२०ः२६

दर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥ १.२१ ॥

अत्र दूरं नाम यदेतद्दर्शनाद्यं विकरणान्तं माहेश्वरमैश्वर्यमनेन कदाचित्प्राप्तपूर्वकं तस्मिंस्तत्प्राप्तौ च ॥ भाष्यम् १.२१ः१
दर्शनादिष्वाधिकारिकोऽत्र दूरशब्दो द्रष्टव्यः ॥ भाष्यम् १.२१ः२
तत्प्राप्तिश्च योगप्रवृत्तितः ॥ भाष्यम् १.२१ः३
आह यद्येवं सूत्रतोऽभिधीयन्तां दर्शनादयः ॥ भाष्यम् १.२१ः४
तदुच्यन्ते ॥ भाष्यम् १.२१ः५
दर्शनमित्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्यम् १.२१ः६
द्रष्टा दर्शनं दृश्यमिति ॥ भाष्यम् १.२१ः७
अत्र द्रष्टा सिद्धः ॥ भाष्यम् १.२१ः८
दर्शनमस्य सिद्धिः ज्ञानम् ॥ भाष्यम् १.२१ः९
द्रष्टव्यानि रूपाणि ॥ भाष्यम् १.२१ः१०
तत्कृत्स्नेषु विषयेषु समासविस्तरविभागविशेषतश्च दर्शनं प्रवर्तत इत्यर्थः ॥ भाष्यम् १.२१ः११
तथा श्रवणमित्यत्रापि नस्त्रिकं चिन्त्यन्ते ॥ भाष्यम् १.२१ः१२
श्रोता श्रवणं श्रव्यमिति ॥ भाष्यम् १.२१ः१३
तत्र श्रोता सिद्धः ॥ भाष्यम् १.२१ः१४
श्रवणमस्य सिद्धिर्ज्ञानम् ॥ भाष्यम् १.२१ः१५
श्रव्याः शब्दाः ॥ भाष्यम् १.२१ः१६
तदस्य सिद्धस्य श्राव्येष्वर्थेषु समासविस्तरविभागविशेषतश्च श्रवणं प्रवर्तत इत्यर्थः ॥ भाष्यम् १.२१ः१७
तथा मननमित्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्यम् १.२१ः१८
मन्ता मननं मन्तव्यमिति ॥ भाष्यम् १.२१ः१९
अत्र मन्ता सिद्धः ॥ भाष्यम् १.२१ः२०
मननमस्य सिद्धिर्ज्ञानम् ॥ भाष्यम् १.२१ः२१
मन्तव्यानि परचित्तानि ॥ भाष्यम् १.२१ः२२
देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्षचित्तानां मन्ता भवतीत्यर्थः ॥ भाष्यम् १.२१ः२३
तथा विज्ञानमित्यत्रापि नस्त्रिकं चिन्त्यन्ते ॥ भाष्यम् १.२१ः२४
विज्ञाता विज्ञानं विज्ञेयमिति ॥ भाष्यम् १.२१ः२५
तत्र विज्ञाता सिद्धः ॥ भाष्यम् १.२१ः२६
विज्ञानमस्य सिद्धिर्ज्ञानम् ॥ भाष्यम् १.२१ः२७
विज्ञेया वृत्तयः ॥ भाष्यम् १.२१ः२८
अस्य सिद्धस्य प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्यर्थः ॥ भाष्यम् १.२१ः२९
अस्य ज्ञानमस्ति नेति ॥ भाष्यम् १.२१ः३०
उच्यते अस्ति ॥ भाष्यम् १.२१ः३१
यस्मादाह ॥ भाष्यम् १.२१ः३२

सर्वज्ञता ॥ १.२२ ॥

अत्रोक्तेषु दृश्यश्रव्यादिषु च अशेषेषु सिद्धेश्वरपश्वादिषु निर्विशेषवाची सर्वशब्दो द्रष्टव्यः ॥ भाष्यम् १.२२ः१
ज्ञता इत्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्यम् १.२२ः२
ज्ञाता ज्ञानं ज्ञेयमिति ॥ भाष्यम् १.२२ः३
तत्र ज्ञाता सिद्धः ज्ञानमस्य सिद्धिर्ज्ञानम् ॥ भाष्यम् १.२२ः४
ज्ञेयं कार्यं कारणं सिद्धाश्चेति ॥ भाष्यम् १.२२ः५
तस्मादेका ज्ञानशक्तिरपरिमितेन ज्ञेयेनानेकेनानेकधोपचर्यते ॥ भाष्यम् १.२२ः६
स्फटिकादित्यवच्चास्य सर्वतः प्रवर्तत इत्यर्थः ॥ भाष्यम् १.२२ः७
आह किमयं सिद्धो ज्ञानमात्रसंतुष्टः पङ्गुवदुत क्रियाशक्तिरप्यस्ति नेति ॥ भाष्यम् १.२२ः८
उच्यते अस्ति ॥ भाष्यम् १.२२ः९
यस्मादाह ॥ भाष्यम् १.२२ः१०

मनोजवित्वम् ॥ १.२३ ॥

अत्रागन्तुकत्वात्सर्वज्ञानशक्तिरुक्ता ॥ भाष्यम् १.२३ः१
न तु ऋषित्वविप्रत्ववदित्यर्थः ॥ भाष्यम् १.२३ः२
यस्मातत्र मनोजववदित्येवं प्राप्ते समानोपमानत्वान्मनोजवित्वमित्युक्तम् ॥ भाष्यम् १.२३ः३
मनोजववत् ॥ भाष्यम् १.२३ः४
आह ॥ भाष्यम् १.२३ः५
कोऽर्थः सूत्रस्य ॥ भाष्यम् १.२३ः६
उच्यते यादृङ्मनसो जवित्वमाशुकारित्वमीदृशमस्य सिद्धस्य कर्तृत्वे शीघ्रत्वम् ॥ भाष्यम् १.२३ः७
न चास्य प्रजापतिवत्तपोनिमित्तत्वाद्भावोत्तरा प्रवृत्तिः ॥ भाष्यम् १.२३ः८
किंतु भावस्य बलीयस्त्वात्प्रवृत्तेरुत्पन्नस्वभावः करोमीति कृतमेव भवति ॥ भाष्यम् १.२३ः९
विनाशयामीति विनष्टं वा ॥ भाष्यम् १.२३ः१०
कस्मात् ॥ भाष्यम् १.२३ः११
दृक्क्रिययोरप्रतीघातत्वात् ॥ भाष्यम् १.२३ः१२
त्वमिति भावनिर्देशाद्गम्यते वित्तमस्य शक्तिः सामर्थ्यम् ॥ भाष्यम् १.२३ः१३
ऐश्वर्यमीदृशमित्यर्थः ॥ भाष्यम् १.२३ः१४
आह किमस्य सिद्धस्य कर्तव्यं करणं कुतो वा करोति ॥ भाष्यम् १.२३ः१५
तदुच्यते ॥ भाष्यम् १.२३ः१६

कामरूपित्वम् ॥ १.२४ ॥

कामरूपी इत्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्यम् १.२४ः१
कामी कामः काम्यमिति ॥ भाष्यम् १.२४ः२
तत्र कामी सिद्धः ॥ भाष्यम् १.२४ः३
कामोऽस्येच्छा ॥ भाष्यम् १.२४ः४
काम्यानि रूपाणि ॥ भाष्यम् १.२४ः५
कथम् ॥ भाष्यम् १.२४ः६
कमु इच्छायां भवति ॥ भाष्यम् १.२४ः७
रूपाणि यावन्ति यादृशानि चेच्छति तावन्ति तादृशानि च करोति ॥ भाष्यम् १.२४ः८
आत्मायत्तानि चास्य रूपकरणानि पृथिव्यादीनि ॥ भाष्यम् १.२४ः९
विभुत्वाच्च करणानां यत्र यत्र रूपाण्यभिनिर्वर्तयति तत्र तत्र चास्य बुद्ध्यादीनां करणानां वृत्तिलाभो भवति ॥ भाष्यम् १.२४ः१०
चक्षुरादिवद्दृष्टान्तात् ॥ भाष्यम् १.२४ः११
नाधिष्ठाता इति चेत् ॥ भाष्यम् १.२४ः१२
तच्च न ॥ भाष्यम् १.२४ः१३
कस्मात् ॥ भाष्यम् १.२४ः१४
यस्मादाह रूपीति ॥ भाष्यम् १.२४ः१५
अत्र रूपाण्यधितिष्ठतीति रूपी ॥ भाष्यम् १.२४ः१६
दण्डिवत् ॥ भाष्यम् १.२४ः१७
रूपिवचनाच्च सर्वेषामेव रूपाणां युगपदेवाधिष्ठाता भवति ॥ भाष्यम् १.२४ः१८
विभुत्वादभिन्नो महेश्वरात् ॥ भाष्यम् १.२४ः१९
इदं च रुद्रसायुज्यनिर्देशाद्गम्यते ॥ भाष्यम् १.२४ः२०
त्वमिति भावनिर्देशाद्गम्यते वित्तमस्य शक्तिः सामर्थ्यम् ॥ भाष्यम् १.२४ः२१
ऐश्वर्यमीदृशमित्यर्थः ॥ भाष्यम् १.२४ः२२
आह परिमितेषु कृत्येषु अशक्तिदर्शनात्संदेहः ॥ भाष्यम् १.२४ः२३
अथ किमयं सिद्धस्तेषां स्वकृतानां रूपाणां संहारे शक्तः उत विश्वामित्रवदशक्तः इति ॥ भाष्यम् १.२४ः२४
उच्यते ॥ भाष्यम् १.२४ः२५
यस्मादाह ॥ भाष्यम् १.२४ः२६

विकरणः ॥ १.२५ ॥

अत्र विः विनाशे विनाकरणे ॥ भाष्यम् १.२५ः१
विकरणो भवति ॥ भाष्यम् १.२५ः२
विशिखविरथवत् ॥ भाष्यम् १.२५ः३
करणप्रतिषेधात्कार्यप्रतिषेधः कृतो भवति ॥ भाष्यम् १.२५ः४
कस्मात् ॥ भाष्यम् १.२५ः५
विशिष्टत्वाद्ग्राहकत्वात्सूक्ष्मत्वाच्च करणानाम् ॥ भाष्यम् १.२५ः६
तस्माद्विकरण इति कैवल्यम् ॥ भाष्यम् १.२५ः७
आह अविशेषादिह सांख्ययोगादीनामपि सहैश्वर्येण कार्यकरणत्यागं कृत्वा कैवल्यनिष्ठा ॥ भाष्यम् १.२५ः८
इहापि च शास्त्रे ॥ भाष्यम् १.२५ः९
कथं तस्मादविशेषः ॥ भाष्यम् १.२५ः१०
अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं तथाप्यतिदानादिभिः साध्यसाधननिष्ठातोऽथ विशेषः उच्यते ॥ भाष्यम् १.२५ः११
नाविशेषः ॥ भाष्यम् १.२५ः१२
यस्मादाह ॥ भाष्यम् १.२५ः१३

धर्मित्वं च ॥ १.२६ ॥

अत्र गुणधर्मेणायं धर्मी भवति ॥ भाष्यम् १.२६ः१
यदेतद्दर्शनाद्यं विकरणान्तं माहेश्वरमैश्वर्यमस्येशप्रसादात्स्वगुणसंवृत्तं तेनायं गुणधर्मेण धर्मी भवति ॥ भाष्यम् १.२६ः२
कुतः ॥ भाष्यम् १.२६ः३
त्वमिति भावनिर्देशाद्गम्यते ॥ भाष्यम् १.२६ः४
ऋतेऽपि कार्यकरणे ज्ञाता कर्ता च भवति ॥ भाष्यम् १.२६ः५
ततश्च कैवल्याद्याः सर्वनिष्ठा विशेषिता भवन्ति ॥ भाष्यम् १.२६ः६
चशब्दोऽत्र ज्ञानक्रियाशक्तिसमारोपणार्थः ॥ भाष्यम् १.२६ः७
एवमत्रास्य सिद्धस्य कामरूपिविकरणवचनात्स्वकृतेषु रूपेषु प्रभुत्वं विभुत्वं गुणधर्मित्वं च व्याख्यातम् ॥ भाष्यम् १.२६ः८
एतद्युक्तोत्तरे प्रसादाद्गुणाः प्रवर्तन्त इत्यर्थः ॥ भाष्यम् १.२६ः९
अत्रेदमाधिकारिकमैश्वर्यप्रकरणं परिसमाप्तमिति ॥ भाष्यम् १.२६ः१०
आह किं परकृतेष्वपि देवमनुष्यतिर्यग्योनिरूपेष्वस्य सिद्धस्य प्रभुत्वं विभुत्वं चास्ति नेति ॥ भाष्यम् १.२६ः११
उच्यते अस्ति ॥ भाष्यम् १.२६ः१२
यस्मादाह ॥ भाष्यम् १.२६ः१३

सर्वे चास्य वश्या भवन्ति ॥ १.२७ ॥

अत्र सर्वे निरवशेषाः पशुधर्माण इत्यर्थः ॥ भाष्यम् १.२७ः१
चशब्दः स्वकृतपरकृतरूपसमुच्चयार्थः ॥ भाष्यम् १.२७ः२
परकृतेष्वपि देवादिरूपेषु प्रभुत्वं विभुत्वं चास्तीति ॥ भाष्यम् १.२७ः३
अस्य इति सिद्धस्येत्यर्थः ॥ भाष्यम् १.२७ः४
वश्याः विधेयाः ॥ भाष्यम् १.२७ः५
वशवर्तिनश्च भवन्तीत्यर्थः ॥ भाष्यम् १.२७ः६
भवन्ति इति भूतार्थवादो निःसंशयम् ॥ भाष्यम् १.२७ः७
आह किमयं सिद्धस्तेषां कदाचिद्वश्यो भवति नेति ॥ भाष्यम् १.२७ः८
उच्यते न ॥ भाष्यम् १.२७ः९
यस्मादाह ॥ भाष्यम् १.२७ः१०

सर्वेषां चावश्यो भवति ॥ १.२८ ॥

अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्यम् १.२८ः१
सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्यम् १.२८ः२
चशब्दोऽभ्यधिकत्वे ॥ भाष्यम् १.२८ः३
अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्यम् १.२८ः४
अवश्य इति ॥ भाष्यम् १.२८ः५
अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति ॥ भाष्यम् १.२८ः६
भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्यम् १.२८ः७
यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां शक्तेरवश्यो भवतीत्यर्थः ॥ भाष्यम् १.२८ः८
आह किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति आहोस्विद्धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ॥ भाष्यम् १.२८ः९
गुरोः शक्तः शिष्यो नाध्याक्रान्तः ॥ भाष्यम् १.२८ः१०
यस्मादाह ॥ भाष्यम् १.२८ः११

सर्वांश्चाविशति ॥ १.२९ ॥

अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः ॥ भाष्यम् १.२९ः१
चशब्दः पूर्वोक्तसमुच्चये ॥ भाष्यम् १.२९ः२
न केवलमस्य ते वश्याः किं त्वावेश्याश्चेति ॥ भाष्यम् १.२९ः३
अत्र आङिति आवेशनमर्यादामधिकुरुते ॥ भाष्यम् १.२९ः४
विश प्रवेशने ॥ भाष्यम् १.२९ः५
स तस्य ज्ञानक्रिययोर्विभुत्वेऽपि शक्तिसंयोगादाविश्य प्रत्ययलोपं कर्तुं समर्थो भवतीत्यर्थः ॥ भाष्यम् १.२९ः६
आह किमयं सिद्धस्तेषां कदाचिदावेश्यो भवति नेति ॥ भाष्यम् १.२९ः७
उच्यते न ॥ भाष्यम् १.२९ः८
यस्मादाह ॥ भाष्यम् १.२९ः९

सर्वेषां चानावेश्यो भवति ॥ १.३० ॥

अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्यम् १.३०ः१
सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्यम् १.३०ः२
चशब्दोऽभ्यधिकत्वे ॥ भाष्यम् १.३०ः३
अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्यम् १.३०ः४
अनावेश्य इति ॥ भाष्यम् १.३०ः५
अकारा भूतपूर्वमावेश्यत्वं प्रतिषेधयति ॥ भाष्यम् १.३०ः६
अनावेश्यधर्मा भवति ॥ भाष्यम् १.३०ः७
न व्याधिशेषवदवस्थानं भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्यम् १.३०ः८
यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चानावेश्यो भवतीत्यर्थः ॥ भाष्यम् १.३०ः९
आह किमावेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवदुत प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं शक्तो भवतीति ॥ भाष्यम् १.३०ः१०
उच्यते शक्तः ॥ भाष्यम् १.३०ः११
यस्मादाह ॥ भाष्यम् १.३०ः१२

सर्वे चास्य वध्या भवन्ति ॥ १.३१ ॥

अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः ॥ भाष्यम् १.३१ः१
चशब्दः समुच्चये ॥ भाष्यम् १.३१ः२
न केवलमस्य ते वश्याः आवेश्याश्च किंतु वध्याश्चेति ॥ भाष्यम् १.३१ः३
अस्य इति सिद्धापदेशे ॥ भाष्यम् १.३१ः४
वध्या इति ॥ भाष्यम् १.३१ः५
वध प्राणविप्रयोगे यातनायां च ॥ भाष्यम् १.३१ः६
प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं समर्थो भवतीत्यर्थः ॥ भाष्यम् १.३१ः७
भवन्ति इति भूतार्थवादो निःसंशये ॥ भाष्यम् १.३१ः८
यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वे चास्य वध्या भवन्तीत्यर्थः ॥ भाष्यम् १.३१ः९
आह किमयं सिद्धस्तेषां कदाचिद्वध्यो भवति नेति ॥ भाष्यम् १.३१ः१०
उच्यते न ॥ भाष्यम् १.३१ः११
यस्मादाह ॥ भाष्यम् १.३१ः१२

सर्वेषां चावध्यो भवति ॥ १.३२ ॥

अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्यम् १.३२ः१
सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्यम् १.३२ः२
चशब्दोऽभ्यधिकत्वे ॥ भाष्यम् १.३२ः३
अभ्यधिकः उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्यम् १.३२ः४
अवध्य इति ॥ भाष्यम् १.३२ः५
अकारो भूतपूर्वं वध्यत्वं प्रतिषेधयति ॥ भाष्यम् १.३२ः६
यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चावध्यो भवतीत्यर्थः ॥ भाष्यम् १.३२ः७
एवं परकृतेष्वपि देवादिशरीरेषु रूपेषु प्रभुत्वं विभुत्वं च व्याख्यातम् ॥ भाष्यम् १.३२ः८
अत्रेदं षट्सूत्रीप्रकरणं परिसमाप्तम् ॥ भाष्यम् १.३२ः९
आह किमस्य सिद्धस्यैतदैश्वर्यं नित्यमाहोस्वित्पार्थिवाप्यतैजसवायव्यव्योममानसाहंकारिकमहदात्मकादिवदनित्यमिति ॥ भाष्यम् १.३२ः१०
उच्यते नित्यम् ॥ भाष्यम् १.३२ः११
यस्मादाह ॥ भाष्यम् १.३२ः१२

अभीतः ॥ १.३३ ॥

अत्र अक्षयादिवचनविरोधादधीतश्चरतीति पाठानुपपत्तिः ॥ भाष्यम् १.३३ः१
तस्मादतीतानागतवर्तमानकालभयं न विद्यत इत्यतोऽभीतः ॥ भाष्यम् १.३३ः२
आह अभीतानामपि ब्रह्मादीनां संहारे क्षयः श्रूयते ॥ भाष्यम् १.३३ः३
तस्मान्नाभीतत्वात्नित्यम् ॥ भाष्यम् १.३३ः४
अभीतस्य वा किं लक्षणम् ॥ भाष्यम् १.३३ः५
तदुच्यते ॥ भाष्यम् १.३३ः६

अक्षयः ॥ १.३४ ॥

अत्र अकारः क्षयप्रतिषेधे ॥ भाष्यम् १.३४ः१
अत्र क्षयो नाम सति पुरुषनित्यत्वे पूर्वमस्य ब्राह्मणस्य तैस्तैरैश्वर्यैरपकर्षः ॥ भाष्यम् १.३४ः२
आहंकारिकमहदात्मकादिभिरनित्यो योगः ॥ भाष्यम् १.३४ः३
अयं तु अनेन नित्येन माहेश्वरेणैश्वर्येण योगात्पुरुषः अक्षयः इत्युपचर्यते ॥ भाष्यम् १.३४ः४
राजकोशवत्कुटुम्बिद्रव्यवत् ॥ भाष्यम् १.३४ः५
आह ईश्वराणामपि ययातिप्रभृतीनां जराभिभवनादथ किमयं जीर्यते नेति ॥ भाष्यम् १.३४ः६
अक्षयस्य वा किं लक्षणम् ॥ भाष्यम् १.३४ः७
तदुच्यते ॥ भाष्यम् १.३४ः८

अजरः ॥ १.३५ ॥

अत्र अकारो जरां प्रतिषेधति ॥ भाष्यम् १.३५ः१
अत्र जरा नाम पलितस्खलित्यादिलक्षणा कार्यस्य दृक्क्रियाशक्तिहानिश्च करणानाम् ॥ भाष्यम् १.३५ः२
कस्मात् ॥ भाष्यम् १.३५ः३
तत्फलभोक्तृत्वादयं जीर्यत इत्युपचर्यते ॥ भाष्यम् १.३५ः४
इदानीं तु कामित्वाद्विकरणधर्मित्वाच्च नास्तीत्यतः अजर इत्युच्यते ॥ भाष्यम् १.३५ः५
आह अजराणामपि देवादीनां संहारादर्वाङ्मृत्युर्दृश्यते ॥ भाष्यम् १.३५ः६
अथ किमस्य मृत्युर्विद्यते नेति ॥ भाष्यम् १.३५ः७
अजरस्य वा किं लक्षणम् ॥ भाष्यम् १.३५ः८
तदुच्यते ॥ भाष्यम् १.३५ः९

अमरः ॥ १.३६ ॥

अत्र अकारो मृत्युप्रतिषेधे ॥ भाष्यम् १.३६ः१
मृङ्प्राणत्यागे ॥ भाष्यम् १.३६ः२
अत्र प्राणादिवृत्तिनिरोधो मृत्युरित्युच्यते ॥ भाष्यम् १.३६ः३
कस्मात् ॥ भाष्यम् १.३६ः४
तत्फलभोक्तृत्वात् ॥ भाष्यम् १.३६ः५
सोऽस्य कामित्वाद्विकरणधर्मित्वाच्च नास्तीत्यतः ॥ भाष्यम् १.३६ः६
अमर इत्युच्यते ॥ भाष्यम् १.३६ः७
तस्मादभीताक्षयादिवचनान्नित्यमैश्वर्यमिति सिद्धम् ॥ भाष्यम् १.३६ः८
आह ॥ भाष्यम् १.३६ः९

सर्वत्र चाप्रतिहतगतिर्भवति ॥ १.३७ ॥

सर्वत्र अभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणापि अप्रतिबन्धधर्मित्वमप्रतीघातः ॥ भाष्यम् १.३७ः१

इत्येतैर्गुणैर्युक्तो भगवतो महादेवस्य महागणपतिर्भवति ॥ १.३८ ॥

इत्येतैः पूर्वोक्तैः अवश्यत्वानावेश्यत्वावध्यत्वाभीतत्वाक्षयत्वाजरत्वामरत्वाप्रतीघातत्वाख्यैः अष्टभिर्गुणैः सिद्धिलक्षणैर्युक्तो भगवतो महादेवस्य महागणपतिर्भवति ॥ भाष्यम् १.३८ः१
सर्वपशुभ्योऽभ्यधिकत्वमैश्वर्यातिशयान्महत्त्वम् ॥ भाष्यम् १.३८ः२
गणाः नन्दिमहाकालादयः ॥ भाष्यम् १.३८ः३
सर्वपश्वादिकार्यस्वामित्वं पतित्वम् ॥ भाष्यम् १.३८ः४
एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्यम् १.३८ः५

अत्रेदं ब्रह्म जपेत् ॥ १.३९ ॥

बृहच्च तेभ्यः सर्वब्रह्मभ्यः स्वयं भवति ॥ भाष्यम् १.३९ः१
जपेदिति च मानसक्रिया ॥ भाष्यम् १.३९ः२
जप्यं प्रत्यवगन्तव्यम् ॥ भाष्यम् १.३९ः३
उक्तमाह जपयज्ञस्तु यज्ञानां विशिष्टो दशभिर्गुणैः ॥ भाष्यम् १.३९ः४
उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ भाष्यम् १.३९ः५
अतो मनसैव जप्तव्यम् ॥ भाष्यम् १.३९ः६
किमर्थमिति चेत् ॥ भाष्यम् १.३९ः७
तदुच्यते अधर्मव्युच्छित्त्यर्थं धर्मस्य चाभिवृद्ध्यर्थं तस्य चाकुशलेभ्यो व्यावर्तनार्थं ब्रह्मण्यनवरतपदपङ्क्त्यामुपनिबन्धनार्थं चेत्यर्थः ॥ भाष्यम् १.३९ः८
आह किं पुनस्तद्ब्रह्मेति ॥ भाष्यम् १.३९ः९
अत्रोच्यते सद्योजाताद्यम् ॥ भाष्यम् १.३९ः१०
अथवात्र ब्रह्माध्याययोर्दूरस्थः सम्बन्धः ॥ भाष्यम् १.३९ः११
कथम् ॥ भाष्यम् १.३९ः१२
पशुपतेरित्युक्ते संदेहः ॥ भाष्यम् १.३९ः१३
किंनरपतिसुरपतिप्रजापतिप्रभृतिवदस्यैश्वर्यं कृतमनित्यमागन्तुकं वा ॥ भाष्यम् १.३९ः१४
किं चास्य जन्म मृत्युर्वा विद्यते नेति ॥ भाष्यम् १.३९ः१५
उच्यते न ॥ भाष्यम् १.३९ः१६
यस्मादाह ॥ भाष्यम् १.३९ः१७

सद्योऽजातं प्रपद्यामि ॥ १.४० ॥

अत्र सद्यः इत्यस्मिन् पदेऽर्थद्वयं चिन्त्यते ॥ भाष्यम् १.४०ः१
संश्च आद्यश्च ॥ भाष्यम् १.४०ः२
आप्तिपालनवत् ॥ भाष्यम् १.४०ः३
अत्र सदिति नित्यत्वे ॥ भाष्यम् १.४०ः४
कस्मात् ॥ भाष्यम् १.४०ः५
विनाशहेत्वभावात् ॥ भाष्यम् १.४०ः६
नित्यं ध्रुवमविनाशि पत्युः पतित्वं नान्येषामित्यतोऽभिधीयते सदिति ॥ भाष्यम् १.४०ः७
आह किमयमादिमत्त्वे सति नित्यो मोक्षवत् ॥ भाष्यम् १.४०ः८
उच्यते न ॥ भाष्यम् १.४०ः९
यस्मादाह आद्यः ॥ भाष्यम् १.४०ः१०
तद्व्यतिरिक्तस्य ॥ भाष्यम् १.४०ः११
हेतोरसंभवादाद्यमनागन्तुकं पत्युः पतित्वं नान्येषामित्यर्थः ॥ भाष्यम् १.४०ः१२
आह किं नित्यानादित्वे सति पुरुषवज्जायते ॥ भाष्यम् १.४०ः१३
उच्यते न ॥ भाष्यम् १.४०ः१४
यस्मादाह अजातः ॥ भाष्यम् १.४०ः१५
अत्र अकारो जन्ममृत्युप्रतिषेधे ॥ भाष्यम् १.४०ः१६
जन्ममृत्युरहितो भगवान्निरञ्जनः ॥ भाष्यम् १.४०ः१७
कस्मात् ॥ भाष्यम् १.४०ः१८
साञ्जनवृत्त्यलाभात् ॥ भाष्यम् १.४०ः१९
निरभिमानित्वं नान्येषामित्यतः ॥ भाष्यम् १.४०ः२०
अजातमिति कर्म ॥ भाष्यम् १.४०ः२१
आह अथैतत्सत्त्वमाद्यत्वमजातत्वं च गुणं कारणे ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्यम् १.४०ः२२
तदुच्यते प्रपत्तव्यम् ॥ भाष्यम् १.४०ः२३
यस्मादाह प्रपद्यामि ॥ भाष्यम् १.४०ः२४
इति साधकापदेशः ॥ भाष्यम् १.४०ः२५
यथा अग्ने व्रतपते व्रतं चरिष्यामि इति ॥ भाष्यम् १.४०ः२६
अत्र प्रशब्दः कारणान्तरेषु सत्त्वाद्यत्वाजातत्वप्रतिषेधार्थो भृशार्थश्च ॥ भाष्यम् १.४०ः२७
तस्मात्सर्वभावानभिष्वङ्गेण तदेव कारणं प्रपत्तव्यम् ॥ भाष्यम् १.४०ः२८
शरणमभ्युपगन्तव्यमित्यर्थः ॥ भाष्यम् १.४०ः२९
आह अत्र प्रपन्नः किं करिष्यति ॥ भाष्यम् १.४०ः३०
किं वा दास्यति ॥ भाष्यम् १.४०ः३१
तदुच्यते पूजां करिष्यत्यात्मानं च दास्यति ॥ भाष्यम् १.४०ः३२
यथाह ॥ भाष्यम् १.४०ः३३

सद्योऽजाताय वै नमः ॥ १.४१ ॥

आह सत्त्वमाद्यत्वमजातत्वं च पूर्वोक्तम् ॥ भाष्यम् १.४१ः१
सद्योऽजाताय इति चतुर्थी ॥ भाष्यम् १.४१ः२
वैशब्दः सम्भावने ॥ भाष्यम् १.४१ः३
सत्त्वमाद्यत्वमजातत्वं च धर्मान् संभाव्य ब्रवीति सद्योऽजाताय वै नमः ॥ भाष्यम् १.४१ः४
नम इत्यात्मप्रदाने पूजायां च ॥ भाष्यम् १.४१ः५
नमस्कारेणात्मानं प्रयच्छति पूजां च प्रयुङ्क्त इत्यर्थः ॥ भाष्यम् १.४१ः६
आह किं प्रयोजनमात्मानं महेश्वराय प्रयच्छति ॥ भाष्यम् १.४१ः७
किमस्य दुःखं वा ॥ भाष्यम् १.४१ः८
किं वा महेश्वरान्मृगयते ॥ भाष्यम् १.४१ः९
किं वा स्वयमुत्पादितानुगृहीततिरोभावितानां पशूनां पतिः उत परैरिति ॥ भाष्यम् १.४१ः१०
उच्यते स्वयम् ॥ भाष्यम् १.४१ः११
यस्मादाह ॥ भाष्यम् १.४१ः१२

भवे भवे नातिभवे ॥ १.४२ ॥

अत्र भवे भवे इति वीप्सा ॥ भाष्यम् १.४२ः१
भव इति विद्याकलापशूनां समस्तानां ग्रहणम् ॥ भाष्यम् १.४२ः२
भवः कस्मात् ॥ भाष्यम् १.४२ः३
भवनभावनकृतत्वात् ॥ भाष्यम् १.४२ः४
यस्माद्देवमनुष्यतिर्यक्त्वेन भावयति च तानीश्वरः ॥ भाष्यम् १.४२ः५
धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद्भवः ॥ भाष्यम् १.४२ः६
तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा ॥ भाष्यम् १.४२ः७
वीप्सायाः उत्पत्तावुत्पत्तावनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्यर्थः ॥ भाष्यम् १.४२ः८
नातिभवे इति ॥ भाष्यम् १.४२ः९
नकारः कार्यत्वं प्रतिषेधयति ॥ भाष्यम् १.४२ः१०
अतिशयितभवेषु मा भवामीत्यर्थः ॥ भाष्यम् १.४२ः११
आह किं भवाद्वियोगमात्रमेवैकं मृगयते ॥ भाष्यम् १.४२ः१२
तदुच्यते न ॥ भाष्यम् १.४२ः१३
यस्मादाह ॥ भाष्यम् १.४२ः१४

भजस्व माम् ॥ १.४३ ॥

अत्र भज इत्यनुग्रहे ॥ भाष्यम् १.४३ः१
स्व इति कारणापदेशे ॥ भाष्यम् १.४३ः२
मामित्यात्मापदेशे ॥ भाष्यम् १.४३ः३
भजस्व मां त्रायस्व मामनुगृह्णीष्व मामित्यर्थः ॥ भाष्यम् १.४३ः४
आह कमामन्त्रयते ॥ भाष्यम् १.४३ः५
कं प्रपद्यते ॥ भाष्यम् १.४३ः६
कस्मै नमस्कारं करोति ॥ भाष्यम् १.४३ः७
कस्तं पुरुषं भवान्मोक्षयति ॥ भाष्यम् १.४३ः८
कं वा ब्रवीति भजस्व मामिति ॥ भाष्यम् १.४३ः९
तदुच्यते यस्मादाह ॥ भाष्यम् १.४३ः१०

भवोद्भवः ॥ १.४४ ॥

अत्र भव इति विद्याकलापशूनामेव ग्रहणम् ॥ भाष्यम् १.४४ः१
तस्योत्पत्तिकर्ता भगवानित्यतो भवोद्भव इति ॥ भाष्यम् १.४४ः२
अत्रोत्पादकानुग्राहकतिरोभावकधर्मि कारणमुत्पाद्यानुग्राह्यतिरोभाव्यधर्मि कार्यमित्येतत्कार्यकारणयोर्लक्षणम् ॥ भाष्यम् १.४४ः३
एतस्मिन् कारणे प्रपत्त्यादि क्रमोपयोगि द्रष्टव्यम् ॥ भाष्यम् १.४४ः४
एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्यम्े प्रथमोऽध्यायः सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥ भाष्यम् १.४४ः५

ড়ाशुपतसूत्र, २

वामः ॥ २.१ ॥

नामभिः श्रेष्ठ इत्यर्थः ॥ भाष्यम् २.१ः१
उक्तं हि । पुरुषध्वजशृङ्गेषु हविर्भूषणलक्ष्मसु । वामः श्रेष्ठेष्ववक्रेषु नवस्वर्थेषु कीर्तितः ॥ भाष्यम् २.१ः२
आह किंनिमित्तास्योत्पादकादिप्रवृत्तिः किंप्रयोजना वा ॥ भाष्यम् २.१ः३
तदुच्यते ॥ भाष्यम् २.१ः४

देवस्य ॥ २.२ ॥

इति ॥ भाष्यम् २.२ः१
अत्र देव इति दिवु क्रीडायाम् ॥ भाष्यम् २.२ः२
क्रीडाधर्मित्वात्क्रीडानिमित्ता ॥ भाष्यम् २.२ः३
क्रीडावानेव स भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यमुत्पादयननुगृह्णाति तिरोभावयति चेत्यतो देवः ॥ भाष्यम् २.२ः४
प्रवृत्तिश्चोत्पत्त्यादिफला द्रष्टव्या ॥ भाष्यम् २.२ः५
देवस्य इति तद्धर्मित्वे षष्ठी ॥ भाष्यम् २.२ः६
आह किं नामद्वयमेवात्र कारणे वितन्यते अर्थद्वयमेव वा आहोस्विदन्यदप्यस्ति नेति ॥ भाष्यम् २.२ः७
उच्यतेऽस्ति ॥ भाष्यम् २.२ः८
यस्मादाह ॥ भाष्यम् २.२ः९

ज्येष्ठस्य ॥ २.३ ॥

इति ॥ भाष्यम् २.३ः१
अत्र परत्वाज्ज्येष्ठः ॥ भाष्यम् २.३ः२
केषां केन वा परः ॥ भाष्यम् २.३ः३
तदुच्यते सिद्धसाधकपशूनाम् ॥ भाष्यम् २.३ः४
तदायत्तत्वात्सिद्धसाधकभावस्य सर्वपशूनां च प्रवृत्तिनिवृत्तिस्थित्यादिफलानामित्यतो ज्येष्ठः परतरः ॥ भाष्यम् २.३ः५
परतमश्चेति ॥ भाष्यम् २.३ः६
अकृतकं चास्यैश्वर्यम् ॥ भाष्यम् २.३ः७
उक्तं हि । दृक्क्रियालक्षणा शक्तिस्तत्त्वधर्मोऽस्य नित्यता । श्रेष्ठोऽतः सर्वभूतेषु तस्मादेष परः स्मृतः ॥ भाष्यम् २.३ः८
इत्येवं परत्वाज्ज्येष्ठः ॥ भाष्यम् २.३ः९
अत्रापि ज्येष्ठस्येति तद्धर्मित्वे षष्ठी ॥ भाष्यम् २.३ः१०
आह किं नामत्रयमेवात्र कारणे चिन्त्यते अर्थत्रयमेव वा आहोस्विदन्यदप्यस्ति नेति ॥ भाष्यम् २.३ः११
उच्यतेऽस्ति ॥ भाष्यम् २.३ः१२

रुद्रस्य ॥ २.४ ॥

इति ॥ भाष्यम् २.४ः१
अत्र रुतस्य भयस्य द्रावणात्संयोजनाद्रुद्रः तत्र रुतमभिलाप इत्यनर्थान्तरम् ॥ भाष्यम् २.४ः२
द्रावणं नाम ॥ भाष्यम् २.४ः३
भयं विविधम् ॥ भाष्यम् २.४ः४
उक्तं हि । नानाविधैः कृतैर्यस्माद्भयैश्च विविधैस्तथा । संयोजयति भूतानि तस्माद्रुद्र इति स्मृतः ॥ भाष्यम् २.४ः५
अत्रापि तद्धर्मित्वे षष्ठी ॥ भाष्यम् २.४ः६
आह किं तत् ॥ भाष्यम् २.४ः७
कीदृशं वा तदस्येति ॥ भाष्यम् २.४ः८
उच्यते ॥ भाष्यम् २.४ः९

कलितासनम् ॥ २.५ ॥

अत्र त्रिविधेन कार्येण विद्याकलापशुसंज्ञकेन तत्रैव स्थित्युत्पत्तिप्रलयान् प्राप्नुवता कलितं शोभितशब्दितं नभस्ताराभिरिवेत्यर्थः ॥ भाष्यम् २.५ः१
आह यदेतत्पत्युः पतित्वं शक्तिः सामर्थ्यमैश्वर्यं स्वगुणः सद्भावः सतत्त्वं तत्त्वधर्मः तदासनम् ॥ भाष्यम् २.५ः२
नतु पद्मासनवदुपवेशनलक्षणमित्यर्थः आसनं कस्मात् ॥ भाष्यम् २.५ः३
आस्तेऽस्मिनासनम् ॥ भाष्यम् २.५ः४
कार्यमनेन वा अध्यास्त इत्यासनमित्यर्थः ॥ भाष्यम् २.५ः५
अत आसनम् ॥ भाष्यम् २.५ः६
अतोऽव्ययोऽमृतो भगवान् कामतः स्वशक्तिस्थं कार्यं स्वशक्त्या अध्यास्ते ॥ भाष्यम् २.५ः७
तस्मादासनस्थं कार्यं कारणं चेति ॥ भाष्यम् २.५ः८
आह कार्यकारणयोर्वृत्तिसंकरदोषो गोजाविमहिषीक्षीरवत् ॥ भाष्यम् २.५ः९
तदुत न ॥ भाष्यम् २.५ः१०
अङ्गुल्यग्ररूपादिवदित्यसंकरः ॥ भाष्यम् २.५ः११
दीपादित्यप्रकाशनयनरश्मिवच्चासंकरः ॥ भाष्यम् २.५ः१२
आह संकरे अपरिच्छेददोषः ईश्वरपुरुषविद्याकलानां माक्षिककोटद्रव्यवत् ॥ भाष्यम् २.५ः१३
तदुच्यते एकोत्तरोत्कर्षेण व्याप्यव्यापकभावेनावस्थितानां तत्त्वादीनां नापरिच्छेददोषः सूत्रत्वाद्व्यापकं महेश्वरतत्त्वं व्याप्यं पुरुषादिपञ्चविंशकम् ॥ भाष्यम् २.५ः१४
तथा आत्मत्वाद्व्यापकं पुरुषतत्त्वं व्याप्यं प्रधानादिचतुर्विंशकम् ॥ भाष्यम् २.५ः१५
तथा व्यापकं प्रधानं व्याप्यं बुद्ध्यादित्रयोविंशकम् ॥ भाष्यम् २.५ः१६
व्यापिका भवति बुद्धिः व्याप्यमहंकारादिद्वाविंशकम् ॥ भाष्यम् २.५ः१७
तथा व्यापको भवत्यहंकारः व्याप्यान्येकादशेन्द्रियाणि दशविधं च कार्यम् ॥ भाष्यम् २.५ः१८
व्यापकान्येकादशेन्द्रियाणि व्याप्यानि पञ्चभूतसूक्ष्माणि शब्दादीनि ॥ भाष्यम् २.५ः१९
तथा व्यापकानि पञ्चभूतसूक्ष्माणि शब्दादीनि व्याप्यानि आकाशादीनि पञ्चमहाभूतानि ॥ भाष्यम् २.५ः२०
तथा व्यापकमाकाशं व्याप्यं वाय्वादिभूतचतुष्कम् ॥ भाष्यम् २.५ः२१
तथा व्यापको भवति वायुः व्याप्यं तेजःप्रभृति भूतत्रयम् ॥ भाष्यम् २.५ः२२
तथा व्यापकं भवति तेजः व्याप्यमबादिद्वयम् ॥ भाष्यम् २.५ः२३
तथा व्यापिका भवन्त्यापः व्याप्या पृथिवी ॥ भाष्यम् २.५ः२४
व्यापिका पृथिवी व्याप्यानि भूम्युदकरसलक्षणानि कार्याणि ॥ भाष्यम् २.५ः२५
तथा व्यापकानि भूम्युदकरसलक्षणानि कारणानि व्याप्यं देवमनुष्यतिर्यग्योनि तृणौषधिवृक्षगुल्मलतावनस्पत्यादिकार्यमनेकविधमतो नापरिच्छेददोषः ॥ भाष्यम् २.५ः२६
आह वृत्त्यसंकरग्रहणे दृष्टान्ताभावादयुक्तं तदुच्यते हरिद्रोदकवद्व्याप्यं व्यापकं च तद्यथा हरिद्रोदके स्निग्धत्वशैत्यादिधर्मैरपां ग्रहणं गन्धवर्णघनक्षारत्वादिभिर्हरिद्रायाः ॥ भाष्यम् २.५ः२७
तथार्णवदेवादिस्थानशरीरेन्द्रियविषयादिसंनिवेशेन सुखदुःखसंनिपातेन चेश्वरस्य ॥ भाष्यम् २.५ः२८
एवं पुरुषस्यापि ॥ भाष्यम् २.५ः२९
ईश्वरस्यापि अपरिणामिधर्मित्वात्सुखदुःखदातृत्वाच्च प्रधानधर्माधर्मादीनां ग्रहणम् ॥ भाष्यम् २.५ः३०
तथा प्रधानस्य मानससंकल्पालोचनगमनादिभिः करणग्रामस्य विषयाणां च ग्रहणम् ॥ भाष्यम् २.५ः३१
तथा धृतिसंग्रहपक्तिव्यूहावकाशदानादिभिर्धर्मैः पृथिव्यादीनां ग्रहणमिति प्रधानवादिनो मन्यन्ते ॥ भाष्यम् २.५ः३२
आह अथेह तन्त्रे कथं कार्यकारणावस्थानम् ॥ भाष्यम् २.५ः३३
तद्वाच्यम् ॥ भाष्यम् २.५ः३४
तदुच्यते इह यस्मादाह शर्वसर्वेभ्यः इति वचनाद्यथासम्भवम् ॥ भाष्यम् २.५ः३५
सति विभुत्वे स्ववृत्त्या कार्यकारणयोः सर्वगतत्वेऽपि स्ववृत्त्यसंकरः तस्मादासनस्थं कार्यं कारणं चेति ॥ भाष्यम् २.५ः३६
आह किं तदासनस्थं कार्यमासने नित्यमाहोस्विदनित्यमिति ॥ भाष्यम् २.५ः३७
उच्यते नित्यं कार्यम् ॥ भाष्यम् २.५ः३८
कस्मात् ॥ भाष्यम् २.५ः३९
पत्युर्भवति ॥ भाष्यम् २.५ः४०
कारणेश्वरनित्यत्वात्पतिनित्यत्वम् ॥ भाष्यम् २.५ः४१
इह सद्योजातादिवचनात्पालको नित्यः ॥ भाष्यम् २.५ः४२
पालकनित्यत्वाच्च पाल्यमपि नित्यम् ॥ भाष्यम् २.५ः४३
कस्मात् ॥ भाष्यम् २.५ः४४
न ह्यसति पाल्ये पालक इत्येव ॥ भाष्यम् २.५ः४५
सति नित्यत्वे तान्येव पश्वादीनि संयोजयति ॥ भाष्यम् २.५ः४६
मृल्लोहमयप्राकारादिवद्दृष्टान्तात् ॥ भाष्यम् २.५ः४७
वृत्तिलाभश्चोत्पत्तिरित्युच्यते ॥ भाष्यम् २.५ः४८
स्थितिस्थानशरीरेन्द्रियविषयाद्यायतनानां परस्परोपकाराच्चानुग्रहः ईश्वरचोदनानुग्रहः वियोजनं वृत्तिलोपश्च ॥ भाष्यम् २.५ः४९
लोपोऽभावः ॥ भाष्यम् २.५ः५०
तस्मात्त्रिष्वपि कालेषु आसनस्थं कार्यं द्रष्टव्यम् ॥ भाष्यम् २.५ः५१
पृथिव्यां बीजवदित्यर्थः ॥ भाष्यम् २.५ः५२
आह किं तत्कार्यं भगवान् युगपदुत्पादयति क्रमशो वा ॥ भाष्यम् २.५ः५३
किं वा कर्मापेक्षः अनपेक्षो वा ॥ भाष्यम् २.५ः५४
तदुच्यते यथेष्टम् ॥ भाष्यम् २.५ः५५
यस्मादाह ॥ भाष्यम् २.५ः५६

सार्वकामिक इत्याचक्षते ॥ २.६ ॥

अत्र सर्वशब्दो विद्यादिकार्यनिरवशेषवाची द्रष्टव्यः ॥ भाष्यम् २.६ः१
कामिक इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ भाष्यम् २.६ः२
कामी कामः काम्यमिति च तत्र कामी ईश्वरः ॥ भाष्यम् २.६ः३
कामोऽस्येच्छा ॥ भाष्यम् २.६ः४
काम्यं विद्यादिकार्यम् ॥ भाष्यम् २.६ः५
तदक्रमेण क्रमशो वा यथेष्टमुत्पादयति ॥ भाष्यम् २.६ः६
कस्मात् ॥ भाष्यम् २.६ः७
कामित्वात् ॥ भाष्यम् २.६ः८
अकर्मापेक्षित्वं चास्यात एव सिद्धम् ॥ भाष्यम् २.६ः९
कर्मकामिनश्च महेश्वरमपेक्षन्ते न तु भगवानीश्वरः कर्म पुरुषं वापेक्षते ॥ भाष्यम् २.६ः१०
अतो न कर्मापेक्ष ईश्वरः ॥ भाष्यम् २.६ः११
इतिशब्दोऽर्थानां निर्वचनत्वात्प्रकरणपरिसमाप्त्यर्थः ॥ भाष्यम् २.६ः१२
आह कामित्वं तत्त्ववैधर्म्यं कुर्यात् ॥ भाष्यम् २.६ः१३
कार्यत्वेन वा परिणामित्वमात्मनो बन्धमोक्षविपर्ययं वा कुर्यात् ॥ भाष्यम् २.६ः१४
तदुच्यते यस्मादाह आङिति ॥ भाष्यम् २.६ः१५
आङिति कार्यकारणत्वमात्मनो मुक्तानां च मर्यादा ॥ भाष्यम् २.६ः१६
तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकल्पकत्वाभावकत्वेनापरिणामित्वमात्मनो मुक्तानां च पुनर्दुःखैरसंयोजनमित्येषा कारणमर्यादा ॥ भाष्यम् २.६ः१७
स्थाप्या च कार्यमर्यादा ॥ भाष्यम् २.६ः१८
तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकाल्प्यविकार्यमर्यादा ॥ भाष्यम् २.६ः१९
तदन्यचोद्याधिष्ठेयत्वं च ॥ भाष्यम् २.६ः२०
चक्षिङ्कथने ॥ भाष्यम् २.६ः२१
भगवता कार्येभ्यो भवता रुद्रेणाचक्षितम् ॥ भाष्यम् २.६ः२२
भगवतो महेश्वरस्य शक्तिः सनातनी ॥ भाष्यम् २.६ः२३
तद्विद्यादिकार्यं कलितमित्येषोऽर्थः ॥ भाष्यम् २.६ः२४
तथा चोक्तं वर्णितमित्यर्थः ॥ भाष्यम् २.६ः२५
अत्रेदमाधिकारिकं कार्यकारणप्रकरणं परिसमाप्तमिति ॥ भाष्यम् २.६ः२६
किं नाम कामित्वं रुद्रकामित्वं च ॥ भाष्यम् २.६ः२७
एतदेव कारणे महाभाग्यमाहोस्विदन्यदस्ति ॥ भाष्यम् २.६ः२८
उच्यते अस्ति ॥ भाष्यम् २.६ः२९
यस्मादाह ॥ भाष्यम् २.६ः३०

अमङ्गलं चात्र मङ्गलं भवति ॥ २.७ ॥

अमङ्गलमिति अत्र साधनजातमधिकुरुते तदुद्देशेन तु मङ्गलवचननिर्देशं करोति ॥ भाष्यम् २.७ः१
चशब्दः कारणगुणवचनोपक्षेपे द्रष्टव्यः ॥ भाष्यम् २.७ः२
उपक्षिप्योत्तरत्र मङ्गलं प्रदक्षिणं च वक्ष्यामः ॥ भाष्यम् २.७ः३
तस्मादुभयं रुद्रे देवाश्च पितरश्च इत्युपरिष्टाद्वक्ष्यामः ॥ भाष्यम् २.७ः४
अत्रशब्दे मूर्त्यधिष्ठातरि मनःसंज्ञे कारणे सकले उपतिष्ठता अपसव्यसम्बन्धो द्रष्टव्यः ॥ भाष्यम् २.७ः५
मङ्गलमित्यत्रापि चामङ्गले वक्तव्ये मङ्गलमेव तद्वक्ष्यामः ॥ भाष्यम् २.७ः६
तदुच्यते अत्र अमङ्गलं नाम नग्नत्वापसव्यत्वसम्बन्धो हसिताद्यः साधनवर्गः ॥ भाष्यम् २.७ः७
स त्किह कारणमूर्तिसामर्थ्यान्मङ्गलं भवति ॥ भाष्यम् २.७ः८
शैलोदोमावनवत् ॥ भाष्यम् २.७ः९
मङ्गलं साधनं धर्मनिष्पादकम् ॥ भाष्यम् २.७ः१०
भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्यम् २.७ः११
कारणमूर्तौ क्रियमाणममङ्गलं मङ्गलं भवतीत्यर्थः ॥ भाष्यम् २.७ः१२
आह किं नग्नत्वमपसव्यत्वं वा साधनद्वयमेवोच्यते ॥ भाष्यम् २.७ः१३
न ॥ भाष्यम् २.७ः१४
यस्मादाह ॥ भाष्यम् २.७ः१५

अपसव्यं च प्रदक्षिणम् ॥ २.८ ॥

नग्नत्वं च साधनमेवेत्यर्थः ॥ भाष्यम् २.८ः१
अत्रामङ्गलनिर्देशार्थत्वात्प्रत्याहारवदुपहारसामान्यमात्रख्यापनाच्च पृथगपसव्यारम्भः ॥ भाष्यम् २.८ः२
तस्मादत्र अपसव्यं नाम यत्सव्याद्विपरीतम् ॥ भाष्यम् २.८ः३
चशब्दः समुच्चये ॥ भाष्यम् २.८ः४
न केवलं कारणमूर्तिसामर्थ्यादमङ्गलं मङ्गलमापद्यते अपसव्यं च प्रदक्षिणमापद्यत इत्यर्थः ॥ भाष्यम् २.८ः५
प्रदक्षिणं नाम यदन्येषामपसव्यं तदिह प्रदक्षिणं धर्मनिष्पादकं भवति ॥ भाष्यम् २.८ः६
ननु यत्तेषां प्रदक्षिणं कस्मात् ॥ भाष्यम् २.८ः७
उत्सूत्रादिदोषादप्स्नानादिवदित्यर्थः ॥ भाष्यम् २.८ः८
आह समस्तानां कारणगुणानां तु वचनं किमस्ति नेति ॥ भाष्यम् २.८ः९
उच्यते अस्ति ॥ भाष्यम् २.८ः१०
यस्मादाह ॥ भाष्यम् २.८ः११

तस्मादुभयथा यष्टव्यः ॥ २.९ ॥

इति ॥ भाष्यम् २.९ः१
अत्र तस्माच्छब्दः कारणगुणवचने ॥ भाष्यम् २.९ः२
के कारणगुणा इति ॥ भाष्यम् २.९ः३
तदुच्यते पतित्वसत्त्वाद्यत्वाजातत्वोत्पादकानुग्राहकतिरोभावकत्वतपावावेदे वामदेवज्येष्ठरुद्रकामित्वं च मङ्गलावाप्तिः प्रदक्षिणावाप्तिश्च ॥ भाष्यम् २.९ः४
एतान् कारणगुणान् ज्ञात्वा ॥ भाष्यम् २.९ः५
अतो ब्रवीति तस्मादिति ॥ भाष्यम् २.९ः६
अथैतत्कारणगुणवचनं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्यम् २.९ः७
तदुच्यते उभयथा यष्टव्यः ॥ भाष्यम् २.९ः८
अत्रोभयथा द्विधेत्यर्थः ॥ भाष्यम् २.९ः९
यष्टव्य इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ भाष्यम् २.९ः१०
यष्टा यजनं यष्टव्यमिति ॥ भाष्यम् २.९ः११
अत्र यष्टा साधकः ॥ भाष्यम् २.९ः१२
यष्टव्यो भगवान्महेश्वरः ॥ भाष्यम् २.९ः१३
यजनं भावना ॥ भाष्यम् २.९ः१४
यजनमध्ययनध्यापनस्मरणाद्यम् ॥ भाष्यम् २.९ः१५
तत्फलदेवनित्यता सायुज्यमित्युत्तरत्र वक्ष्यामः ॥ भाष्यम् २.९ः१६
आह अनिर्देशात्संदेहः ॥ भाष्यम् २.९ः१७
कथमुभयथा ॥ भाष्यम् २.९ः१८
द्विधा निर्देशो वाच्यः ॥ भाष्यम् २.९ः१९
तदुच्यते ॥ भाष्यम् २.९ः२०

देववत्पितृवच्च ॥ २.१० ॥

कथमिति ॥ भाष्यम् २.१०ः१
उच्यते पूर्वमस्य ब्राह्मणस्य देवयजने पितृयजने चाधिकारोऽधिगतः ॥ भाष्यम् २.१०ः२
तस्मात्तेभ्यो देवपितृभ्यो भक्तिव्यावर्तनं कृत्वा उभयथापि महेश्वरे भावमवस्थाप्य यजनं कर्तव्यं नान्यस्य ॥ भाष्यम् २.१०ः३
चशब्दः प्रतिषेधे ॥ भाष्यम् २.१०ः४
यत्तत्पूर्वं देवपितृषु कारकत्वं संभावितं तत्तेषु न विद्यते ॥ भाष्यम् २.१०ः५
अतस्तेषां यजनं न कर्तव्यमित्यर्थः ॥ भाष्यम् २.१०ः६
आह यद्येवं तस्मादुच्यतां देवपित्णां को दोषः यस्मात्ते न यष्टव्याः ॥ भाष्यम् २.१०ः७
रुद्रे वा को गुणः यस्मात्स एव यष्टव्यः ॥ भाष्यम् २.१०ः८
इति निर्देशो वाच्यः ॥ भाष्यम् २.१०ः९
अप्स्नानादिवत् ॥ भाष्यम् २.१०ः१०
तदुच्यते ॥ भाष्यम् २.१०ः११

उभयं तु रुद्रे देवाः पितरश्च ॥ २.११ ॥

तत्रोभयं द्वयं समस्तमित्यर्थः ॥ भाष्यम् २.११ः१
तुशब्दो देवपितृषु वैशेषिकं कारणत्वं व्यावर्तयति रुद्रे इति कारणापदेशम् ॥ भाष्यम् २.११ः२
रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्यम् २.११ः३
रुद्र इति वैषयिकं संनिधानम् ॥ भाष्यम् २.११ः४
अत्र शक्तिर्विषय इत्यनर्थान्तरम् ॥ भाष्यम् २.११ः५
ते देवपितरो रुद्रशक्त्यां हार्यधार्यकार्यत्वेन वर्तन्ते आधीयन्ते विषये वर्तन्त इत्यर्थः ॥ भाष्यम् २.११ः६
देवाः पितरश्च ॥ भाष्यम् २.११ः७
तत्र देवा इति ऋभुषु ब्रह्मादिपिशाचान्तेषु मनुष्यतिर्यग्योनिवर्जं सामान्यसंज्ञा ॥ भाष्यम् २.११ः८
विधिवत् ॥ भाष्यम् २.११ः९
पितर इति विशेषसंज्ञा भस्मस्नानादिवदित्यर्थः ॥ भाष्यम् २.११ः१०
ब्राह्मणदेवदत्तादिवच्च ॥ भाष्यम् २.११ः११
अत्राह सामान्यविशेषसंज्ञाभिधाने किं प्रयोजनमिति चेत् ॥ भाष्यम् २.११ः१२
तदुच्यते त्रिविधस्यापि कार्यस्य रुद्रे हार्यधार्यकार्यज्ञापनार्थं किंच कालक्रियास्वाहास्वधामन्त्रान्यत्वदर्शनाद्देवपितृयजनापहृतचित्तव्यावर्तनार्थत्वाच्च ॥ भाष्यम् २.११ः१३
तस्मादन्यानन्यत्वेनापि व्याख्यानमदुष्टम् ॥ भाष्यम् २.११ः१४
चशब्दोऽभ्यधिकत्वे ॥ भाष्यम् २.११ः१५
देवपितृवत्सत्त्वस्य त्रिविधस्यापि कार्यस्येश्वरे प्रतिष्ठाप्रसवसंयोगवियोगसुखमोहबन्धमोक्षदातृत्वेन च स एव परं कारणं समस्तत्वेनाप्यते इत्येवं चशब्दोऽभ्यधिकत्वे द्रष्टव्यः तस्माद्दुःखान्तार्थिना ते देवपितरो न यष्टव्याः ॥ भाष्यम् २.११ः१६
तदर्थे भगवान्महेश्वरो यष्टव्य इत्यर्थः ॥ भाष्यम् २.११ः१७
अत्रेदमानुषङ्गिकं कार्यकारणप्रकरणं परिसमाप्तम् ॥ भाष्यम् २.११ः१८
अत उत्तरस्य विधिप्रकरणस्य सत्यपि पदार्थवैलक्षण्ये साध्यसाधनभावाद्यजनेन सह सम्बन्धं करिष्यामः ॥ भाष्यम् २.११ः१९
कस्मात् ॥ भाष्यम् २.११ः२०
इह पुरस्तादुक्तमुभयथा यष्टव्यः देववत्पितृवच्च ॥ भाष्यम् २.११ः२१
यत्र पूर्वं देवपितृभ्यो व्यावर्तितया भक्त्या महेश्वरं यजतोऽनवगमात्स्वात्मेश्वरसंयोगं योगं प्राप्स्यसि तत्फलं वक्ष्यामः ॥ भाष्यम् २.११ः२२
येन च बलेनोपबृंहितस्य तत्रैव यजने उद्योगोऽभिनिवेशश्च भविष्यति तद्बलं वक्ष्यामः ॥ भाष्यम् २.११ः२३
तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ भाष्यम् २.११ः२४
तदुच्यते ॥ भाष्यम् २.११ः२५

हर्षाप्रमादी ॥ २.१२ ॥

इति ॥ भाष्यम् २.१२ः१
अथवान्यो दूरस्थः सम्बन्धः ॥ भाष्यम् २.१२ः२
यस्मादुच्यते यस्य येनार्थसम्बन्धो दूरस्थस्यापि तेन तदर्थोत्पत्तिः समाना ॥ भाष्यम् २.१२ः३
आनन्तर्येऽपि असंबन्धो ग्रहणक्षयादिवन्न त्वत्र अमङ्गलादिभिः ॥ भाष्यम् २.१२ः४
कस्मात् ॥ भाष्यम् २.१२ः५
शेषाभावात् ॥ भाष्यम् २.१२ः६
एवमिहापि दूरस्थः सम्बन्धः ॥ भाष्यम् २.१२ः७
कस्मात् ॥ भाष्यम् २.१२ः८
इह पुरस्तादुक्तमकलुषमतेः चरतः ततोऽस्य योगः प्रवर्तते ॥ भाष्यम् २.१२ः९
अत्र कलुषव्यतिरेकेण येऽन्ये योगव्याघातकरा हेतवः तान् वक्ष्यामः ॥ भाष्यम् २.१२ः१०
यथा चैका चरितव्या योगप्रापिका इति व्याख्यास्यामः ॥ भाष्यम् २.१२ः११
तथा चर्यान्तरेण तपसा योगप्राप्तिर्यथा भवति तद्बलं वक्ष्यामः ॥ भाष्यम् २.१२ः१२
तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ भाष्यम् २.१२ः१३
हर्षाप्रमादी इति ॥ भाष्यम् २.१२ः१४
अत्र हर्षो नाम दिव्येषु विषयेषु विधानजधर्मप्रकाशितेषु प्रीतितुष्टिप्रमोदाः ॥ भाष्यम् २.१२ः१५
ते त्विह प्राप्त्यादिव विश्वामित्रादिस्वरूपा द्रष्टव्याः ॥ भाष्यम् २.१२ः१६
कथंलक्षणा इति चेत् ॥ भाष्यम् २.१२ः१७
तदुच्यते कार्यकरणविशुद्धिलक्षणाः तत्र कार्यविशुद्धिस्तावद्यदैतद्देवशरीरं ज्वलन्तं भासा दीप्यन्तं दिवि भुव्यन्तरिक्षे च रुक्मदण्डवदुच्छ्रितमात्मानं पश्यति तदा दिवि अणिमा लघिमा महिमा इति त्रयः कार्यगुणा भवन्ति ॥ भाष्यम् २.१२ः१८
अन्तरिक्षे च यस्माद्धर्मविशेषात् ॥ भाष्यम् २.१२ः१९
तथा करणविशुद्धिरपि गरिमादिभिः बाह्यैरन्तः करणेन च दूरविषयग्राहकत्वालोचनसंकल्पाध्यवसायाभिमानादयो भवन्ति ॥ भाष्यम् २.१२ः२०
कस्मात् ॥ भाष्यम् २.१२ः२१
धर्मादिवचनात् ॥ भाष्यम् २.१२ः२२
अपिच प्राप्तिः प्राकाम्यमीशित्वं वशित्वं च यत्र कामावसायित्वमिति पञ्च करणगुणा भवन्ति ॥ भाष्यम् २.१२ः२३
इत्येवं यदन्येषामणिमाद्यष्टगुणं चतुःषष्टिविकल्पं धर्मकार्यमैश्वर्यं तदिह शास्त्रे हर्ष इति संज्ञितम् ॥ भाष्यम् २.१२ः२४
तेषु मदमकुर्वन् हर्षाप्रमादी भवति ॥ भाष्यम् २.१२ः२५
धर्मविद्याबलेनेत्यर्थः ॥ भाष्यम् २.१२ः२६
आह कुत्रस्थस्य ते हर्षा अभिव्यज्यन्ते कीदृशस्य वा ॥ भाष्यम् २.१२ः२७
तदुच्यते ॥ भाष्यम् २.१२ः२८

चर्यायां चर्यायाम् ॥ २.१३ ॥

अत्र चर्यायां चर्यायामिति वीप्सा ॥ भाष्यम् २.१३ः१
आह अनिर्देशादिह वीप्सा एकवचनद्विवचनबहुवचनेषु भवति ॥ भाष्यम् २.१३ः२
तत्रैकवचने तावद्भवति ॥ भाष्यम् २.१३ः३
यस्मादुक्तम् । अद्य ते रुधिरं तीव्रं पिबामि पुरुषाधम । वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥ भाष्यम् २.१३ः४
इति ॥ भाष्यम् २.१३ः५
तथा द्विवचनेऽपि भवति । उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे । संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् ॥ भाष्यम् २.१३ः६
तथा बहुवचनेऽपि भवति ॥ भाष्यम् २.१३ः७
यस्मादुक्तम् । पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता । तुष्यन्ति च पृथक्सर्वे ते मनुष्यास्तथा तथा ॥ भाष्यम् २.१३ः८
इत्यतः संशयः ॥ भाष्यम् २.१३ः९
अतः किमेका चरिः उत चरिद्वयमुत चरिबहुत्वमिति ॥ भाष्यम् २.१३ः१०
उच्यते एका चरिः क्रियाबहुत्वेऽपि भवति ॥ भाष्यम् २.१३ः११
यथायतने लोके च ॥ भाष्यम् २.१३ः१२
तत्रायतने स्नानहसिताद्याः लोके च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः ॥ भाष्यम् २.१३ः१३
तस्मात्सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति ॥ भाष्यम् २.१३ः१४
वृक्षबलिवत् ॥ भाष्यम् २.१३ः१५
किंच माहात्म्यमिति चर्योत्तरसम्बन्धात्कथ्यते एका चरिः क्रियाबहुत्वे भवति ॥ भाष्यम् २.१३ः१६
कार्यकरणविशुद्धिलक्षणा हर्षा इत्युक्तम् ॥ भाष्यम् २.१३ः१७
न च विभा कार्यकरणैश्वर्याभिनिवेशः शक्यते कर्तुमित्यतोऽवगम्यते कार्यकरणवतश्चरतो महिमानोऽभिव्यज्यन्त इत्यर्थः ॥ भाष्यम् २.१३ः१८
आह अप्रमत्तस्याचरतः का कार्यनिष्पत्तिः ॥ भाष्यम् २.१३ः१९
तदुच्यते ॥ भाष्यम् २.१३ः२०

माहात्म्यमवाप्नोति ॥ २.१४ ॥

माहात्म्यं नाम अर्यमप्रकाशवत् ॥ भाष्यम् २.१४ः१
तदुत यस्य सांनिध्यादयं ब्राह्मणः परिदृष्टार्थोऽपि भूत्वा दुष्टाश्वतररथस्थानीयैर्देहेन्द्रियादिभिरपनीयते अपह्रियते तदमाहात्म्यम् ॥ भाष्यम् २.१४ः२
विधियोगाभिनिवेशासामर्थ्यमधर्मबलम् ॥ भाष्यम् २.१४ः३
उक्तं हि । ह्रियते बुद्धिर्मनोऽपि नरस्य देहेन्द्रियैः । अमूढसंज्ञो दुर्दान्तैर्दुष्टाश्वैरिव सारथिः ॥ भाष्यम् २.१४ः४
माहात्म्यमतो विपरीतम् ॥ भाष्यम् २.१४ः५
यस्य सांनिध्यादयं ब्राह्मणः स्नानशयनानुस्नानादिक्राथनस्पन्दनाध्ययनध्यानस्मरणकरणसमर्थो भवति परया श्रद्धया युक्तस्तन्माहात्म्यम् ॥ भाष्यम् २.१४ः६
आह किं तदिति ॥ भाष्यम् २.१४ः७
उच्यते यदेतत्प्रभ्रष्टस्य तपसो वीर्यं तपोबलं तपःशक्तिस्तन्माहात्म्यम् ॥ भाष्यम् २.१४ः८
कथं गम्यते ॥ भाष्यम् २.१४ः९
चर्यानन्तरोक्तत्वात् ॥ भाष्यम् २.१४ः१०
यदनन्तरं यदवाप्नोति तत एव तदासादयतीत्यर्थः ॥ भाष्यम् २.१४ः११
आह प्राप्नोतीति अस्तु पाठः ॥ भाष्यम् २.१४ः१२
लब्धुर्भविष्यतीत्युच्यते ॥ भाष्यम् २.१४ः१३
अवरम्य क्षणगतिप्रीतिप्राप्त्यर्थत्वात्तेन विधिचरणेन रक्षते हर्षविशेषाणामभिप्रीतिविशेषणमतिगतिसंस्तवनावाप्तिश्च ॥ भाष्यम् २.१४ः१४
तस्मान्मन्त्रबलवद्धर्मबलमेवास्य माहात्म्यमवाप्नोतीत्यर्थः ॥ भाष्यम् २.१४ः१५
आह कः सोऽभ्युपायः ॥ भाष्यम् २.१४ः१६
कानि वा तानि धर्मसाधनानि यैर्हर्षोत्पत्तिर्माहात्म्यलाभश्च भवति ॥ भाष्यम् २.१४ः१७
चरिक्रियाणां वा कतिविधो विभागः ॥ भाष्यम् २.१४ः१८
दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति ॥ भाष्यम् २.१४ः१९
उच्यतेऽस्ति ॥ भाष्यम् २.१४ः२०
यस्मादाह ॥ भाष्यम् २.१४ः२१

अतिदत्तमतीष्टम् ॥ २.१५ ॥

अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि ॥ भाष्यम् २.१५ः१
कस्मात् ॥ भाष्यम् २.१५ः२
अनैकान्तिकानात्यन्तिकसातिशयफलत्वात्कुपथाध्वप्रवादाच्च ॥ भाष्यम् २.१५ः३
तस्मादत्र अतिशब्दो विशेषणम् ॥ भाष्यम् २.१५ः४
अतिदानं चात्मप्रदानम् ॥ भाष्यम् २.१५ः५
कस्मात् ॥ भाष्यम् २.१५ः६
आत्मनः दातृत्वाद्भूयो दानप्रयोजनाभावात् ॥ भाष्यम् २.१५ः७
स्थानशरीरेन्द्रियविषयाद्यप्रापकत्वात् ॥ भाष्यम् २.१५ः८
ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवानावृत्तिफलत्वादसाधारणफलत्वाच्चात्मप्रदानमतिदानम् ॥ भाष्यम् २.१५ः९
तथा कुयजनान्यग्निष्टोमादीनि ॥ भाष्यम् २.१५ः१०
कस्मात् ॥ भाष्यम् २.१५ः११
संग्रहप्रतिग्रहहिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात्पत्त्रीरात्रिजदेवतादिसाधारणफलत्वादनित्यसातिशयसंकीर्णफलत्वाच्च कुयजनान्यग्निष्टोमादीनि ॥ भाष्यम् २.१५ः१२
तस्मादत्रातिशब्दो विशेषणम् ॥ भाष्यम् २.१५ः१३
अतियजनं नाम यदायतने लोके वा ॥ भाष्यम् २.१५ः१४
तत्रायतने स्नानहसिताद्या लोके च क्राथनस्पन्दनाद्या विधिक्रिया ॥ भाष्यम् २.१५ः१५
कस्मात् ॥ भाष्यम् २.१५ः१६
संग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् ॥ भाष्यम् २.१५ः१७
अतश्चेत्युच्यते अतियजनम् ॥ भाष्यम् २.१५ः१८
आह किं दानं यजनं च साधनद्वयमेवात्रातिशब्देन विशिष्टं कर्तव्यमिति ॥ भाष्यम् २.१५ः१९
उच्यते न ॥ भाष्यम् २.१५ः२०
यस्मादाह ॥ भाष्यम् २.१५ः२१

अतितप्तं तपस्तथा ॥ २.१६ ॥

अतिशब्दो विशेषणे ॥ भाष्यम् २.१६ः१
नायान्त्याध्यात्मिकाधिभौतिकाधिदैविकास्तेषां स्वशास्त्रोक्तेन क्रमेण मनसि संमतानां मतानामनुपायतः प्रतीकारमकुर्वतां तपो निष्पद्यते ॥ भाष्यम् २.१६ः२
यत्र तृतीयायामात्मसंयोगान्निष्पद्यते तत्तप इत्यर्थः ॥ भाष्यम् २.१६ः३
तदा शयनार्थे कथम् ॥ भाष्यम् २.१६ः४
तथातितापेभ्योऽतितपो निष्पद्यते तथा दानयजनाभ्यामपीति ॥ भाष्यम् २.१६ः५
तथाशब्दः साधनत्रयोपसंहारार्थः ॥ भाष्यम् २.१६ः६
यदा ददाति तदा यजति तप्यति च ॥ भाष्यम् २.१६ः७
यदापि यजति तदा ददाति तप्यति च ॥ भाष्यम् २.१६ः८
यदा तप्यति तदा ददाति यजति च ॥ भाष्यम् २.१६ः९
एवमादिदीक्षाप्रभृतिरस्य ब्राह्मणस्य ॥ भाष्यम् २.१६ः१०
एभिस्त्रिभिरुपायैर्गङ्गास्रोतोवद्धर्मस्यायोऽधर्मस्य व्ययो भवति तदातिदानादिनिष्पन्नेन प्रकृष्टेन तपसा अस्य ब्राह्मणस्य हर्षोत्पत्तिर्माहात्म्यलाभश्च सम्भवतीत्यर्थः ॥ भाष्यम् २.१६ः११
आह अतिदानादिनिष्पन्नेन प्रकृष्टेन तपसास्य ब्राह्मणस्य का गतिर्भवतीति ॥ भाष्यम् २.१६ः१२
उच्यते अभ्युदयकैवल्यव्यतिरेकेण ॥ भाष्यम् २.१६ः१३

अत्यागतिं गमयते ॥ २.१७ ॥

अत्र अतिशब्दो विशेषणे ॥ भाष्यम् २.१७ः१
आङिति मर्यादायां भवति ॥ भाष्यम् २.१७ः२
कथमध्ययनध्यानादिरहितमपि साधकं तपोऽतिगतिं गमयति तदभ्यासो हरत्येनमिति वचनात् ॥ भाष्यम् २.१७ः३
अतिगतिरिति योगपर्यायः ॥ भाष्यम् २.१७ः४
कथं गम्यते ॥ भाष्यम् २.१७ः५
तपःकार्यत्वादानन्त्यब्रह्मसायुज्यवत् ॥ भाष्यम् २.१७ः६
सांख्ययोगाभ्युदयादिगतिविशेषविशेषितत्वादुपरिष्टाद्वर्तत इत्यर्थः ॥ भाष्यम् २.१७ः७
तस्मात्तपसः फलं विशेषार्थमभिधीयते योगोऽतिगतिमिति ॥ भाष्यम् २.१७ः८
अतिगतिमिति कर्म ॥ भाष्यम् २.१७ः९
गमयते ॥ भाष्यम् २.१७ः१०
न तावद्गतः गमिष्यति किंतु गमयतीत्यर्थः ॥ भाष्यम् २.१७ः११
आह अतिदानाद्यथावत्तपसो गुणवचनं किमस्ति नेति ॥ भाष्यम् २.१७ः१२
उच्यते अस्ति ॥ भाष्यम् २.१७ः१३
यस्मादाह ॥ भाष्यम् २.१७ः१४

तस्मात् ॥ २.१८ ॥

इति ॥ भाष्यम् २.१८ः१
अत्र तस्माच्छब्दस्तपसो गुणवचने ॥ भाष्यम् २.१८ः२
तस्मादतिदानादिनिष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति ॥ भाष्यम् २.१८ः३
न स्थानशरीरेन्द्रियविषयादिप्राप्तौ ॥ भाष्यम् २.१८ः४
ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवानावृत्तिफलत्वं च दृष्ट्वा ॥ भाष्यम् २.१८ः५
अतो ब्रवीति तस्मादिति ॥ भाष्यम् २.१८ः६
आह अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं कर्तव्यम् ॥ भाष्यम् २.१८ः७
तदुच्यते तदर्थमेव ॥ भाष्यम् २.१८ः८

भूयस्तपश्चरेत् ॥ २.१९ ॥

अत्र भूयः पुनःसंधाने द्रष्टव्यः इष्टापूर्तवत् ॥ भाष्यम् २.१९ः१
कथम् ॥ भाष्यम् २.१९ः२
हर्षेष्वभिसक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा संधाने भूयःशब्दोऽभिहितः ॥ भाष्यम् २.१९ः३
तस्मादत्र तपस्तदेव ॥ भाष्यम् २.१९ः४
निरुक्तमस्य पूर्वोक्तम् ॥ भाष्यम् २.१९ः५
चरेदित्यर्जनमधिकुरुते ॥ भाष्यम् २.१९ः६
धर्मानेकसंशयान्यत्वाच्च अपुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ भाष्यम् २.१९ः७
आह यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते ॥ भाष्यम् २.१९ः८
माहात्म्यस्य वा को गुणः यस्मात्तद्ग्राह्यमिति ॥ भाष्यम् २.१९ः९
तदुच्यते कुरुते माहात्म्यम् ॥ भाष्यम् २.१९ः१०
यस्मादाह ॥ भाष्यम् २.१९ः११

नान्यभक्तिस्तु शंकरे ॥ २.२० ॥

अयं नकारोऽन्यभक्तिप्रतिषेधे ॥ भाष्यम् २.२०ः१
भक्तिर्भावनेत्यर्थः ॥ भाष्यम् २.२०ः२
तुशब्दो विशेषणे ॥ भाष्यम् २.२०ः३
कथम् ॥ भाष्यम् २.२०ः४
ये हर्षेष्वभिसक्ताः दूष्यतः तस्करत्वमापन्नाः ते विशेषेण तु शंकराद्दूरस्था भवन्ति ॥ भाष्यम् २.२०ः५
शंकरः कस्मात् ॥ भाष्यम् २.२०ः६
समस्तसुखनिर्वाणकरत्वाच्छंकरः ॥ भाष्यम् २.२०ः७
शंकरे इत्यौपश्लेषिकं संनिधानम् ॥ भाष्यम् २.२०ः८
शंकरे भावना कर्तव्या नान्यत्रेत्यर्थः ॥ भाष्यम् २.२०ः९
उक्तं हि । कर्मणा मनसा वाचा यदश्लक्ष्णं निषेवते । तदभ्यासो हरत्येनं तस्मात्कल्याणमाचरेत् ॥ भाष्यम् २.२०ः१०
एवमेते महात्मानः प्राहुरध्यात्मचिन्तकाः । यच्चित्तस्तन्मयो भावो गुह्यमेतत्सनातनम् ॥ भाष्यम् २.२०ः११
गच्छंस्तिष्ठन् शयानो वा जाग्रच्चैव स्वपंस्तथा । शंकरे भावनां कुर्याद्यदीच्छेद्योगमात्मनः ॥ भाष्यम् २.२०ः१२
यस्मात्क्षयान्ते त्रैलोक्यं शंकरे याति संक्षयम् । तस्मात्संवर्तको धाता शंकरस्त्वभिधीयते ॥ भाष्यम् २.२०ः१३
एवं शंकरे भाव उपश्लेषितव्यो नान्यत्रेत्यर्थः ॥ भाष्यम् २.२०ः१४
एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्यम् २.२०ः१५

अत्रेदं ब्रह्म जपेत् ॥ २.२१ ॥

इति ॥ भाष्यम् २.२१ः१
अस्य पूर्वोक्तोऽर्थः ॥ भाष्यम् २.२१ः२
आह धर्मपरिणामकत्वात्शंकरत्वात्सुखद ईश्वरोऽभिहितः ॥ भाष्यम् २.२१ः३
अथान्तरसृष्ट्यां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवदुत नेति ॥ भाष्यम् २.२१ः४
उच्यते अत्र य उपायः सुखदः तथा वक्ष्यामः यथावान् यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ॥ भाष्यम् २.२१ः५
ननु कोर्यकलवन्निरधिकारस्तथा वक्ष्यामो विस्तरशश्चास्मिन् ब्रह्मणि कारणशक्तिं वक्ष्यामः ॥ भाष्यम् २.२१ः६
शक्तिं च ज्ञात्वा यथा साधकोऽष्टभिर्नमस्कारैरात्मानं ददाति तथा वक्ष्यामः ॥ भाष्यम् २.२१ः७
अत इदमारभ्यते ॥ भाष्यम् २.२१ः८

वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २.२२ ॥

इति ॥ भाष्यम् २.२२ः१
प्रयोगान्यत्वात्प्रयोजनान्यत्वाच्चापुनरुक्ता वामदेवादिशब्दा द्रष्टव्याः ॥ भाष्यम् २.२२ः२
अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च पूर्वोक्तम् ॥ भाष्यम् २.२२ः३
वामदेवज्येष्ठरुद्रायेति चतुर्थी ॥ भाष्यम् २.२२ः४
नम इत्यात्मप्रदाने पूजायां च ॥ भाष्यम् २.२२ः५
सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वनमस्कारा द्रष्टव्याः ॥ भाष्यम् २.२२ः६
आह किं चतुष्कमेवात्र कारणे चिन्त्यते ॥ भाष्यम् २.२२ः७
नामचतुष्कापदेशेन वा नाम्नि नमस्कारो द्रष्टव्यः ॥ भाष्यम् २.२२ः८
उच्यते न ॥ भाष्यम् २.२२ः९
यस्मादाह ॥ भाष्यम् २.२२ः१०

कालाय नमः ॥ २.२३ ॥

अत्र काल इत्येष महेश्वरपर्यायः कस्मात्पूर्वोत्तरसूत्रसामर्थ्यात् ॥ भाष्यम् २.२३ः१
कालयते यस्मात्क्षेत्रसाधिनिष्ठानि स्थानानि कलादिशरीरेन्द्रियविषयादिभ्यो वियोगेनेति ततः कालः ॥ भाष्यम् २.२३ः२
उक्तं हि ॥ भाष्यम् २.२३ः३
ब्रह्मादिभूर्जपर्यन्तं जगदेतच्चराचरम् । यतः कलयते रुद्रः कालरूपी ततः स्मृतः ॥ भाष्यम् २.२३ः४
काल्यान् कलयते यस्मात्कलाभ्यः कालपर्ययात् । कलनात्कालनाच्चापि काल इत्यभिधीयते ॥ भाष्यम् २.२३ः५
एवं कालो हि भगवान् ॥ भाष्यम् २.२३ः६
काल्याः क्षेत्रज्ञाः ॥ भाष्यम् २.२३ः७
स्थानानि तु ब्रह्मेन्द्रदेवपित्रादिवचनाद्ब्राह्मं प्राजापत्यं सौम्यमैन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति ॥ भाष्यम् २.२३ः८
तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्नादिवचनात्तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् ॥ भाष्यम् २.२३ः९
तथा योगेश्वरा देवेष्वन्तर्भूताः ॥ भाष्यम् २.२३ः१०
कस्मात् ॥ भाष्यम् २.२३ः११
धर्मबाहुल्यात् ॥ भाष्यम् २.२३ः१२
तथा नारकास्तिर्यक्ष्वन्तर्भूताः ॥ भाष्यम् २.२३ः१३
कस्मात् ॥ भाष्यम् २.२३ः१४
अधर्मबाहुल्यात् ॥ भाष्यम् २.२३ः१५
एवं स्थानतश्चतुर्दशकः संसार इत्युपचर्यते ॥ भाष्यम् २.२३ः१६
एतेषु कलादिवचनान्महेश्वरो निमित्तम् ॥ भाष्यम् २.२३ः१७
कस्मात् ॥ भाष्यम् २.२३ः१८
पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् ॥ भाष्यम् २.२३ः१९
आदिमान् संसारो द्रष्टव्यः ॥ भाष्यम् २.२३ः२०
तत्फलभोक्तृत्वात्कार्यकरणयोरनादित्वादनादिरकृताभ्यागमादित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कालाय नमः ॥ भाष्यम् २.२३ः२१
अत्रापि कालाय इति चतुर्थी ॥ भाष्यम् २.२३ः२२
नम इत्यात्मप्रदाने पूजायां च ॥ भाष्यम् २.२३ः२३
सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्यम् २.२३ः२४
आह अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः कर्ता भवति नेति ॥ भाष्यम् २.२३ः२५
उच्यते प्रभुः कर्तैव ॥ भाष्यम् २.२३ः२६
यस्मादाह ॥ भाष्यम् २.२३ः२७

कलविकरणाय नमः ॥ २.२४ ॥

अत्र कला नाम कार्यकरणाख्याः कलाः ॥ भाष्यम् २.२४ः१
तत्र कार्याख्याः पृथिव्यापस्तेजो वायुराकाशः ॥ भाष्यम् २.२४ः२
आकाशः शब्दगुणः ॥ भाष्यम् २.२४ः३
शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि । ते रसश्च जले ज्ञेयास्ते च गन्धः क्षितावपि ॥ भाष्यम् २.२४ः४
शब्दस्पर्शरूपरसगन्धाः ॥ भाष्यम् २.२४ः५
तथा करणाख्याः श्रोत्रं त्वक्चक्षुः जिह्वा घ्राणं पादः पायुः उपस्थः हस्तः वाक्मनः अहंकारः बुद्धिरिति ॥ भाष्यम् २.२४ः६
तासां विकरणो भगवानीश्वरः ॥ भाष्यम् २.२४ः७
कस्मात् ॥ भाष्यम् २.२४ः८
दृक्क्रियाशक्त्योरप्रतीघातात् ॥ भाष्यम् २.२४ः९
विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसंनिवेशेन विस्तरविभागविशेषतश्च कार्यकरणाख्याभिः कलाभिर्धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः ॥ भाष्यम् २.२४ः१०
अत्रापि कलविकरणाय इति चतुर्थी । नम इत्यात्मप्रदाने पूजायां च ॥ भाष्यम् २.२४ः११
सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमःशदः ॥ भाष्यम् २.२४ः१२
आह कालनविकरणत्वादवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे चापेक्षते नेति ॥ भाष्यम् २.२४ः१३
धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान् प्रभुर्भवति नेति ॥ भाष्यम् २.२४ः१४
उच्यते प्रभुः ॥ भाष्यम् २.२४ः१५
यस्मादाह ॥ भाष्यम् २.२४ः१६

बलप्रमथनाय नमः ॥ २.२५ ॥

बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि इच्छाद्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि ॥ भाष्यम् २.२५ः१
प्र इति भृशार्थे कामित्वाकर्षणे च ॥ भाष्यम् २.२५ः२
मथनत्वं नाम बलवृत्तिनिरोधनमुदधिमथनवत् ॥ भाष्यम् २.२५ः३
न वाग्निज्ञानादीनि दुर्बलानि ॥ भाष्यम् २.२५ः४
यस्मादुक्तम् । न ह्यतेजस्विनाशाय तैजसाः प्रभवन्ति वै । बलान्यतिबलान्यस्य न भवेऽतिबलानि वै ॥ भाष्यम् २.२५ः५
इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं बलप्रमथनाय नमः ॥ भाष्यम् २.२५ः६
अत्रापि बलप्रमथनाय इति चतुर्थी ॥ भाष्यम् २.२५ः७
नम इत्यात्मप्रदाने पूजायां च ॥ भाष्यम् २.२५ः८
सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्यम् २.२५ः९
आह केषां कालनविकरणमथनानि करोति ॥ भाष्यम् २.२५ः१०
तदुच्यते भूतानाम् ॥ भाष्यम् २.२५ः११
यस्मादाह ॥ भाष्यम् २.२५ः१२

सर्वभूतदमनाय नमः ॥ २.२६ ॥

अत्र कलावचने पुनरुक्तिदोषान्न पृथिव्यादिषु सर्वशब्दः ॥ भाष्यम् २.२६ः१
किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः ॥ भाष्यम् २.२६ः२
आह भूतत्वानुपपत्तेर्न चेतनेषु सर्वभूतशब्दः ॥ भाष्यम् २.२६ः३
तदुच्यते दमनाय ॥ भाष्यम् २.२६ः४
शमु दमु उपशमे ॥ भाष्यम् २.२६ः५
देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधिवासना तत्सर्वमन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय नमः ॥ भाष्यम् २.२६ः६
अत्रापि सर्वभूतदमनाय इति चतुर्थी ॥ भाष्यम् २.२६ः७
नम इत्यात्मप्रदाने पूजायां च ॥ भाष्यम् २.२६ः८
सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्यम् २.२६ः९
आह कीदृशे महेश्वरे कालनादिशक्तिरुच्यते किं सकले निष्कले उत उभयोरपि ॥ भाष्यम् २.२६ः१०
उच्यते उभयोरपि ॥ भाष्यम् २.२६ः११
यस्मादाह ॥ भाष्यम् २.२६ः१२

मनोऽमनाय नमः ॥ २.२७ ॥

अत्र मनःशब्देनान्तःकरणं तत्तन्त्रत्वादुदाहरणार्थत्वाच्च मनोग्रहणस्य उभयात्मकत्वाच्च मनसः सर्वकरणग्रहणानुग्रहणाच्च कार्यग्रहणमित्यतः कार्यकरणाधिष्ठातृत्वाच्च सकल इत्युपचर्यते ॥ भाष्यम् २.२७ः१
तथा चैतादृशमनसः प्रतिषेधादत्र कार्यकरणरहितो निष्कलो भगवानमन इत्युच्यते ॥ भाष्यम् २.२७ः२
तस्मात्सकलेतरानुग्राहकानादिशक्तिर्विद्यते ॥ भाष्यम् २.२७ः३
उक्तं हि । अपाणिपादोदरपार्श्वजिह्वः अतीन्द्रियो व्यापिस्वभावसिद्धः । पश्यत्यचक्षुः स शृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति । स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ भाष्यम् २.२७ः४
इत्येतद्भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं वक्तुं मनोऽमनाय नमः ॥ भाष्यम् २.२७ः५
मनोऽमनाय इति चतुर्थी ॥ भाष्यम् २.२७ः६
नमु इत्यात्मप्रदाने पूजायां च ॥ भाष्यम् २.२७ः७
सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वे नमःशब्दा द्रष्टव्याः ॥ भाष्यम् २.२७ः८

ড়ाशुपतसूत्र, ३

अव्यक्तलिङ्गी ॥ ३.१ ॥

इति ॥ भाष्यम् ३.१ः१
अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति ॥ भाष्यम् ३.१ः२
अवसितप्रयोजनः पूर्वोक्तैर्लिङ्गोपकरणैरनुस्नाननिर्माल्यैकवासाद्यैः प्रयोजनैर्विनिवृत्तैर्लोकतस्त्रिषु स्नानं कुर्वन्नपि ॥ भाष्यम् ३.१ः३
षडाश्रमलिङ्गानुपलब्धावनवधृतोक्तलिङ्गवदव्यक्ताः क्रियाः कार्याः ॥ भाष्यम् ३.१ः४
आह कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या ॥ भाष्यम् ३.१ः५
तदुच्यते ॥ भाष्यम् ३.१ः६

व्यक्ताचारः ॥ ३.२ ॥

अत्र व्यक्तशब्दो दिवसमधिकुरुते ॥ भाष्यम् ३.२ः१
व्यक्ताः स्फुटाः प्रकाशाः ॥ भाष्यम् ३.२ः२
अहनीत्यर्थः ॥ भाष्यम् ३.२ः३
आङित्यवमानादिनिष्पत्तिमर्यादामधिकुरुते ॥ भाष्यम् ३.२ः४
चार इति क्राथनादीनामुद्देशः ॥ भाष्यम् ३.२ः५
तान् क्राथनादीन् साधको नटदवस्थितो रङ्गवल्लौकिकानधिजन्य नाटकवदाचारानाचरति करोति प्रयुङ्क्त इत्यतोऽयं व्यक्ताचारः ॥ भाष्यम् ३.२ः६
आह अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः ॥ भाष्यम् ३.२ः७
तदुच्यते अवमानः ॥ भाष्यम् ३.२ः८
यस्मादाह ॥ भाष्यम् ३.२ः९

अवमतः ॥ ३.३ ॥

अत्र अव वर्जने ॥ भाष्यम् ३.३ः१
मानेन तेषां लिङ्गाचारज्ञानविधिविपरीतप्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयतान्यतोऽयमबहुमतत्वं प्राप्नोति ॥ भाष्यम् ३.३ः२
उक्तं च ॥ भाष्यम् ३.३ः३
अमृतस्येव लिप्सेत नैव मानं विचक्षणः । विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥ भाष्यम् ३.३ः४
सुखं ह्यवमतः शेते सर्वसङ्गविवर्जितः । दोषान् परस्य न ध्यायेत्तस्य पापं सदा मुनिः ॥ भाष्यम् ३.३ः५
आह केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ॥ भाष्यम् ३.३ः६
तदुच्यते ॥ भाष्यम् ३.३ः७

सर्वभूतेषु ॥ ३.४ ॥

अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः ॥ भाष्यम् ३.४ः१
कस्मादुच्यते वर्णाश्रमिष्विति ॥ भाष्यम् ३.४ः२
भूतेषु इत्युक्तं नतु देवतिर्यग्योनिम्लेच्छादिषु ॥ भाष्यम् ३.४ः३
कस्मात् ॥ भाष्यम् ३.४ः४
व्यक्ताचारावमानदानादानविरोधात् ॥ भाष्यम् ३.४ः५
उक्तं हि । धन्यो देशो यत्र गावः प्रभूताः मेध्यं चान्नं पार्थिवा धर्मशीलाः । पुण्या नद्यः सर्वलोकोपभोग्यास्तांस्तान् देशान्सिद्धिकामो व्रजेत ॥ भाष्यम् ३.४ः६
भूतेषु इति सामीपिकं संनिधानम् ॥ भाष्यम् ३.४ः७
भूतसमीपे भूताभ्याशे भूतानामध्यक्ष इत्यर्थः ॥ भाष्यम् ३.४ः८
सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतरत्वादस्य विध्याचरणम् ॥ भाष्यम् ३.४ः९
असुरेषु इत्याचरणज्ञापकाच्च ॥ भाष्यम् ३.४ः१०
आह अवमतेन सर्वभूतेषु किं कर्तव्यम् ॥ भाष्यम् ३.४ः११
तदुच्यते चरितव्यम् ॥ भाष्यम् ३.४ः१२
यस्मादाह ॥ भाष्यम् ३.४ः१३

परिभूयमानश्चरेत् ॥ ३.५ ॥

अत्र परि सर्वतोभावे ॥ भाष्यम् ३.५ः१
पगक्ष्याः परीक्ष्या इत्यर्थः ॥ भाष्यम् ३.५ः२
भूय इति बहुधा ॥ भाष्यम् ३.५ः३
यष्टिमुष्ट्यादिभिः संयोजनं परिभवः ॥ भाष्यम् ३.५ः४
कायिक इत्यर्थः ॥ भाष्यम् ३.५ः५
मान इति साधककालकर्माभिधाने ॥ भाष्यम् ३.५ः६
परिभूयमानेनैव ॥ भाष्यम् ३.५ः७
स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः ॥ भाष्यम् ३.५ः८
कनकपाषाणवदिन्द्रकीलकवच्च भवितव्यम् ॥ भाष्यम् ३.५ः९
चरेदित्यर्जनमधिकुरुते ॥ भाष्यम् ३.५ः१०
धर्मार्जने नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ भाष्यम् ३.५ः११
आह अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव उत शुद्धिरप्यस्ति ॥ भाष्यम् ३.५ः१२
उच्यते अस्ति ॥ भाष्यम् ३.५ः१३
यस्मादाह ॥ भाष्यम् ३.५ः१४

अपहतपाप्मा ॥ ३.६ ॥

भवतीति वाक्यशेषो वचनाधिकाराद्गम्यते ॥ भाष्यम् ३.६ः१
अत्र अप वर्जने आघाते नाशे च ॥ भाष्यम् ३.६ः२
अपहता अन्यतनष्टा इत्यर्थः ॥ भाष्यम् ३.६ः३
पाप्मानोऽत्र द्विविधाः सुलक्षणाः दुःखलक्षणाश्च ॥ भाष्यम् ३.६ः४
तत्र सुखलक्षणाः उन्मादः मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं बहुभोजनमित्येवमाद्याः ॥ भाष्यम् ३.६ः५
तथा दुःखलक्षणाःशिरोरोगदन्तरोगाक्षिरोगाद्याः ॥ भाष्यम् ३.६ः६
एवमेते पाप्मान आत्मगताः कायकरणेष्वादर्शप्रतिरूपकवदभिव्यक्ताः ॥ भाष्यम् ३.६ः७
कृत्स्नाः अपहताः पाप्मानः सोऽयमपहतपाप्मा भवतीत्यर्थः ॥ भाष्यम् ३.६ः८
आह किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य पापक्षयशुद्धिहेतुः आहोस्विद्वाचिकमप्यस्ति नेति ॥ भाष्यम् ३.६ः९
उच्यते यस्मादाह ॥ भाष्यम् ३.६ः१०

परेषां परिवादात् ॥ ३.७ ॥

अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः संयोजयन्ति तेषाम् ॥ भाष्यम् ३.७ः१
परेषामिति षष्ठीबहुवचनम् ॥ भाष्यम् ३.७ः२
आह स्वपरवाक्यावमानादिभिः शुद्धिरेवास्य न तु वृद्धिः ॥ भाष्यम् ३.७ः३
सा च साधकस्य फलाभिधानादतिदानादिष्वित्युच्यते न पूर्वकृतसुकृतदानविवक्षया ॥ भाष्यम् ३.७ः४
परि इति च सर्वतोभावे ॥ भाष्यम् ३.७ः५
वद वादः ॥ भाष्यम् ३.७ः६
अव्यक्तोऽयं प्रेतोऽयमुन्मत्तोऽयं मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्काम्यसम्यक्कारी असम्यग्वादी इत्येवमुग्रैर्वचोभिरभिघ्नन्तीति वादाः ॥ भाष्यम् ३.७ः७
वादादिति निमित्तपञ्चमी द्रष्टव्या ॥ भाष्यम् ३.७ः८
तस्मादवमानादिभिः परान् संयोजयता स्वयमेवात्मा संयोक्तव्यः ॥ भाष्यम् ३.७ः९
अन्यथा पाशमात्रः स्यादिति ॥ भाष्यम् ३.७ः१०
पाप्मनां वा जानपदेशात्संदेहः ॥ भाष्यम् ३.७ः११
कस्य कार्यं पाप्मनः ॥ भाष्यम् ३.७ः१२
कथं वा तेषां कार्यकरणेष्वभिव्यक्तानां परसमुत्थैरवमानादिभिर्निर्घातनं भवति ॥ भाष्यम् ३.७ः१३
तदुच्यते ॥ भाष्यम् ३.७ः१४
यस्मादाह ॥ भाष्यम् ३.७ः१५

पापं च तेभ्यो ददाति ॥ ३.८ ॥

अत्र पापमित्यधर्मपर्यायः ॥ भाष्यम् ३.८ः१
तद्यथा । आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् । पापं पाप्मानं वृजिनं स्तेयम् ॥ भाष्यम् ३.८ः२
इत्येकार्थवाचकाः शब्दाः ॥ भाष्यम् ३.८ः३
इह चोक्तं पापमिति ॥ भाष्यम् ३.८ः४
पापं च कस्मात् ॥ भाष्यम् ३.८ः५
पावकपासकत्वात्पापम् ॥ भाष्यम् ३.८ः६
पावयति यस्मात्शिरोरोगदन्तरोगाक्षिरोगादिभिः पातयति नरकादिषु पासयति वानिष्टाभिः कार्यकरणाख्याभिः कलाभिरिति ॥ भाष्यम् ३.८ः७
अतः पावकपातकपासकत्वात्पापम् ॥ भाष्यम् ३.८ः८
एवंच बीजाङ्कुरवत्पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः ॥ भाष्यम् ३.८ः९
बीजपापप्रसवाः पाप्मान इत्यर्थः ॥ भाष्यम् ३.८ः१०
तेभ्य इति चतुर्थी सम्प्रदानार्था ॥ भाष्यम् ३.८ः११
अथ एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति संक्रामयतीत्यर्थः ॥ भाष्यम् ३.८ः१२
आह किमवमानादिभिः शुद्धिरेवास्य न तु वृद्धिरिति ॥ भाष्यम् ३.८ः१३
तदुच्यते वृद्धिरप्यस्ति ॥ भाष्यम् ३.८ः१४
यस्मादाह ॥ भाष्यम् ३.८ः१५

सुकृतं च तेषामादत्ते ॥ ३.९ ॥

अत्र सु प्रशंसायाम् ॥ भाष्यम् ३.९ः१
कृतमिति धर्मपर्यायः ॥ भाष्यम् ३.९ः२
चशब्दः शुद्धिसमुच्चयार्थः पूर्वधर्मनियोगार्थश्च ॥ भाष्यम् ३.९ः३
तेषामिति ॥ भाष्यम् ३.९ः४
ये अवमानादिभिः संयोजयन्ति तेषामित्यर्थः ॥ भाष्यम् ३.९ः५
तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य कृत्स्नस्यादानज्ञापनार्थम् ॥ भाष्यम् ३.९ः६
आदत्ते ॥ भाष्यम् ३.९ः७
आ ग्रहणे ॥ भाष्यम् ३.९ः८
स्वात्मनि करोति विषमं वा इहातुरवदित्यर्थः ॥ भाष्यम् ३.९ः९
आह अतिदानाद्यतितपोवदवमानादिसाधनं गुणवचनं किमस्ति नेति ॥ भाष्यम् ३.९ः१०
उच्यते अस्ति ॥ भाष्यम् ३.९ः११
यस्मादाह ॥ भाष्यम् ३.९ः१२

तस्मात् ॥ ३.१० ॥

इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने ॥ भाष्यम् ३.१०ः१
कथम् ॥ भाष्यम् ३.१०ः२
यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ॥ भाष्यम् ३.१०ः३
यस्माच्च तन्निष्ठालौकिकशरीरेन्द्रियविषयादिप्रापकः ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तिरेकान्तेनात्यन्तिकी भवति ॥ भाष्यम् ३.१०ः४
अतो ब्रवीति तस्मादिति ॥ भाष्यम् ३.१०ः५
आह अथैतदवमानादिसाधनमेव कर्तव्यम् ॥ भाष्यम् ३.१०ः६
किं वा अव्यक्तावस्थानैव चरितव्यम् ॥ भाष्यम् ३.१०ः७
तदुच्यते न ॥ भाष्यम् ३.१०ः८
यस्मादाह ॥ भाष्यम् ३.१०ः९

प्रेतवच्चरेत् ॥ ३.११ ॥

अत्र पुरुषाख्यः प्रेतः न मृताख्यः ॥ भाष्यम् ३.११ः१
कस्मात् ॥ भाष्यम् ३.११ः२
आचरणोपदेशात् ॥ भाष्यम् ३.११ः३
वदिति किंचिदुपमा ॥ भाष्यम् ३.११ः४
उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् ॥ भाष्यम् ३.११ः५
अतो वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते ॥ भाष्यम् ३.११ः६
प्रयोजननिष्पत्तिश्च भवति अवमानादि ॥ भाष्यम् ३.११ः७
चरेदित्याज्ञामधिकुरुते ॥ भाष्यम् ३.११ः८
धर्मार्जने नियोगे च ॥ भाष्यम् ३.११ः९
संशयान्यत्वाच्चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ भाष्यम् ३.११ः१०
आह चरतोऽस्य के क्रियाविशेषाः ॥ भाष्यम् ३.११ः११
का वार्थनिष्पत्तिः ॥ भाष्यम् ३.११ः१२
आचाराणां वा को विस्तारः ॥ भाष्यम् ३.११ः१३
तदुच्यते ॥ भाष्यम् ३.११ः१४

क्राथेत वा ॥ ३.१२ ॥

अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः तदा आचार्यसकाशान्निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां समूहस्तत्र तेषां नातिदूरे नातिसंनिकर्षे यत्र च तेषां नोपरोधो दृष्टिनिपातश्च भवति तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि ॥ भाष्यम् ३.१२ः१
तत्रैवानेनासुप्तेन सुप्त इव भवितव्यम् ॥ भाष्यम् ३.१२ः२
ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः कर्तव्यः ॥ भाष्यम् ३.१२ः३
ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः प्रपद्यन्ते परिभवन्ति च ॥ भाष्यम् ३.१२ः४
अनेनानृताभियोगेनास्य यत्तेषां सुकृतं तदागच्छति ॥ भाष्यम् ३.१२ः५
अस्यापि च यत्पापं तत्तान् प्रति ॥ भाष्यम् ३.१२ः६
एवं क्राथनमिति क्रिया ॥ भाष्यम् ३.१२ः७
इत इत्यभियजन आज्ञायां नियोगे च ॥ भाष्यम् ३.१२ः८
वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ भाष्यम् ३.१२ः९
आह अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः हसितादिवत् ॥ भाष्यम् ३.१२ः१०
कस्माद्भाविवचनं भवति ॥ भाष्यम् ३.१२ः११
उच्यते पृथगभिधाने सत्यपि हसितगीतनृत्यवत्संदेहः ॥ भाष्यम् ३.१२ः१२
पृथगभिधाने सत्यपि हसितगीतयोः पृथक्पृथक्प्रयोगः ॥ भाष्यम् ३.१२ः१३
अत्र विभक्तयोस्तु गीतनृत्ययोः ॥ भाष्यम् ३.१२ः१४
अध्ययनयन्त्रणयोश्च ॥ भाष्यम् ३.१२ः१५
तस्मात्पृथगभिधानमनुरतो वा विभागे भवतान्यदोषः ॥ भाष्यम् ३.१२ः१६
ततः क्राथनक्रिययावमानादिषु निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् ॥ भाष्यम् ३.१२ः१७
यथा लौकिकानां सम्प्रत्ययो भवति किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति ॥ भाष्यम् ३.१२ः१८
अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् ॥ भाष्यम् ३.१२ः१९
यस्मादाह ॥ भाष्यम् ३.१२ः२०

स्पन्देत वा ॥ ३.१३ ॥

अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते ॥ भाष्यम् ३.१३ः१
कस्मात् ॥ भाष्यम् ३.१३ः२
ज्ञानेच्छाप्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः ॥ भाष्यम् ३.१३ः३
द्रष्टारो हि वायुसंसृष्टोऽयमिति लौकिकाः प्रतिपद्यन्ते परिभवन्ति च ॥ भाष्यम् ३.१३ः४
अनेनानृताभियोगेनास्य तत्पुण्यमागच्छति अस्यापि च यत्पापं तान् गच्छति ॥ भाष्यम् ३.१३ः५
एवं स्पन्दनमिति क्रिया ॥ भाष्यम् ३.१३ः६
इत इत्यभियजन आज्ञायां नियोगे च ॥ भाष्यम् ३.१३ः७
एवमादिसाधने सति वा विकल्पे रौद्रीबहुरूपीवत् ॥ भाष्यम् ३.१३ः८
अवस्थानक्राथनोत्थानस्पन्दनादौ वाशब्दो द्रष्टव्यः ॥ भाष्यम् ३.१३ः९
आह अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति ॥ भाष्यम् ३.१३ः१०
उच्यते अस्ति ॥ भाष्यम् ३.१३ः११
यस्मादाह ॥ भाष्यम् ३.१३ः१२

मण्टेत वा ॥ ३.१४ ॥

वेति पादवैकल्यमधिकुरुते ॥ भाष्यम् ३.१४ः१
मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहतमस्य पादेन्द्रियम् ॥ भाष्यम् ३.१४ः२
कृत्स्नस्याशुभस्य च वृत्तिरस्मिञ्छरीरे उपलभ्यते ॥ भाष्यम् ३.१४ः३
उक्तं हि । दारिद्र्यं व्याधिभूयिष्ठता मूर्खत्वं चारूपता भ्रंशतापि । देहोत्पत्तिर्वर्णहीने कुले वा प्रत्यादेशः कर्मणां दुष्कृतानाम् ॥ भाष्यम् ३.१४ः४
द्रष्टारो हि उपहतपाद इति प्रपद्यन्ते परिभवन्ति च ॥ भाष्यम् ३.१४ः५
अनेनानृताभियोगेन यत्तेषां सुकृतं तदस्यागच्छति ॥ भाष्यम् ३.१४ः६
अस्यापि च यत्पापं तान् गच्छति ॥ भाष्यम् ३.१४ः७
एवं मण्टनमिति क्रिया ॥ भाष्यम् ३.१४ः८
इत इत्यभियजने आज्ञायां नियोगे च ॥ भाष्यम् ३.१४ः९
वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः ॥ भाष्यम् ३.१४ः१०
आह स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति ॥ भाष्यम् ३.१४ः११
उच्यते अस्ति ॥ भाष्यम् ३.१४ः१२
यस्मादाह ॥ भाष्यम् ३.१४ः१३

शृङ्गारेत वा ॥ ३.१५ ॥

अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते ॥ भाष्यम् ३.१५ः१
कथम् ॥ भाष्यम् ३.१५ः२
स्त्रीजनसमूहस्यानुपरोधे नातिदूरे नातिसंनिकर्षे अधिदृष्टिनिपाते स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियमधिकृत्यालोचनसंकल्पाध्यवसायाभिमानादयः प्रयोक्तव्याः ॥ भाष्यम् ३.१५ः३
अयुक्ता चेच्छावलोके हि सति केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि ॥ भाष्यम् ३.१५ः४
ततः स्त्रीपुंनपुंसकादयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति ॥ भाष्यम् ३.१५ः५
अनेनानृताभियोगेनास्य यत्तेषां सुकृतं तदागच्छति अस्यापि यत्पापं तत्तेषां गच्छत्येव ॥ भाष्यम् ३.१५ः६
शृङ्गारणमिति क्रिया ॥ भाष्यम् ३.१५ः७
इत इत्यभियजने आज्ञायां नियोगे च वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां विकल्पे ॥ भाष्यम् ३.१५ः८
क्रियान्यत्वाच्चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ भाष्यम् ३.१५ः९
आह क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्यत्वात् ॥ भाष्यम् ३.१५ः१०
उक्तं हि । ये हि वै दीक्षितं यजमानं पृष्ठतोऽपवदन्ति ते तस्य पाप्मानमभिव्रजन्ति ॥ भाष्यम् ३.१५ः११
पृष्ठतः पदमग्रतः पार्श्वतश्च योज्यम् ॥ भाष्यम् ३.१५ः१२
तस्मात्क्राथेत वा स्पन्देत वा मण्टेत वा शृङ्गारेत वा ॥ भाष्यम् ३.१५ः१३
कस्मात् ॥ भाष्यम् ३.१५ः१४
अतियजनादिविशेषितत्वात् ॥ भाष्यम् ३.१५ः१५
कस्मात् ॥ भाष्यम् ३.१५ः१६
सर्वज्ञवचनादर्थाविसंवादित्वाच्च लोकापरिग्रहाभावः ॥ भाष्यम् ३.१५ः१७
आह क्रियाचतुष्कमेवात्र कर्तव्यमिति ॥ भाष्यम् ३.१५ः१८
उच्यते न ॥ भाष्यम् ३.१५ः१९
यस्मादाह ॥ भाष्यम् ३.१५ः२०

अपितत्कुर्यात् ॥ ३.१६ ॥

अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने ॥ भाष्यम् ३.१६ः१
तदिति अनैकान्ते ॥ भाष्यम् ३.१६ः२
कुर्यादिति कुशलां हासवृत्तिमधिकुरुते ॥ भाष्यम् ३.१६ः३
यमानामविरोधिनां शुविरूपकाणां द्रव्याणां काष्ठलोष्टादीनां ग्रहणधारणसंस्पर्शनादीनि कर्तव्यानि ॥ भाष्यम् ३.१६ः४
ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः कार्याकार्ययोरविभागज्ञ इति ॥ भाष्यम् ३.१६ः५
अनेनानृताभियोगेनास्य धर्माधर्मयोश्च हानादानशुद्धिर्भवति ॥ भाष्यम् ३.१६ः६
आह किं क्रियापञ्चकमेवात्र कर्तव्यम् ॥ भाष्यम् ३.१६ः७
तदुच्यते न ॥ भाष्यम् ३.१६ः८
यस्मादाह ॥ भाष्यम् ३.१६ः९

अपितद्भाषेत् ॥ ३.१७ ॥

अत्र अपिशब्दः सर्वेन्द्रियवृत्त्यपादानसम्भावने ॥ भाष्यम् ३.१७ः१
तदिति अनैकान्ते ॥ भाष्यम् ३.१७ः२
भाषेदिति वाक्यवृत्तिमधिकुरुते ॥ भाष्यम् ३.१७ः३
इत्पदमपार्थकं पुनरुक्तं व्याहतं भाषितव्यमिति ॥ भाष्यम् ३.१७ः४
ततस्ते वक्तारो वदन्ति असम्यग्वादी वाच्यावाच्ययोरविभागज्ञ इति ॥ भाष्यम् ३.१७ः५
अनेनानृताभियोगेनास्य धर्माधर्मयोस्त्यागादानशुद्धिर्भवति ॥ भाष्यम् ३.१७ः६
आह किं हसितादिवद्यथापाठक्रमेणैव क्राथनादयः प्रयोक्तव्याः ॥ भाष्यम् ३.१७ः७
किं वा प्रयोजनं कर्तव्यम् ॥ भाष्यम् ३.१७ः८
तदुच्यते परिभवादिनिष्पत्त्यर्थम् ॥ भाष्यम् ३.१७ः९
यस्मादाह ॥ भाष्यम् ३.१७ः१०

येन परिभवं गच्छेत् ॥ ३.१८ ॥

अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च ॥ भाष्यम् ३.१८ः१
परिभवः पूर्वोक्तः ॥ भाष्यम् ३.१८ः२
गच्छेदित्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः ॥ भाष्यम् ३.१८ः३
एवमत्र व्यक्ताचारसमासोक्तानां क्राथनादीनामाचाराणां विस्तरविभागविशेषोपसंहारादयश्च व्याख्याता इत्यर्थः ॥ भाष्यम् ३.१८ः४
आह कियन्तं कालं परिभवादयः प्राप्तव्याः ॥ भाष्यम् ३.१८ः५
कीदृशेन वा ॥ भाष्यम् ३.१८ः६
तदुच्यते ॥ भाष्यम् ३.१८ः७

परिभूयमानो हि विद्वान् कृत्स्नतपा भवति ॥ ३.१९ ॥

अत्र परि सर्वतोभावे ॥ भाष्यम् ३.१९ः१
भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः ॥ भाष्यम् ३.१९ः२
मान इत्यस्य पूर्वोक्तोऽर्थः ॥ भाष्यम् ३.१९ः३
हिशब्दः कृत्स्नतपौत्कर्षे ॥ भाष्यम् ३.१९ः४
उत्कर्षापेक्षो द्रष्टव्यः ॥ भाष्यम् ३.१९ः५
विद्या नाम या ग्रन्थार्थवर्तिपदार्थानामभिव्यञ्जिका विप्रत्वलक्षणा ॥ भाष्यम् ३.१९ः६
न्यायात्पदार्थानामधिगतप्रत्ययो लाभमलोपायाभिज्ञः विद्वानित्युच्यते ॥ भाष्यम् ३.१९ः७
कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधिकुरुते न तु हर्षादिप्राप्तावित्यर्थः ॥ भाष्यम् ३.१९ः८
कृत्स्नतपाः पर्याप्ततपाः साधक इत्यर्थः ॥ भाष्यम् ३.१९ः९
भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्यम् ३.१९ः१०
यदा यमनियमेषु दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति ॥ भाष्यम् ३.१९ः११
कृत्स्नस्य तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् ॥ भाष्यम् ३.१९ः१२
एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्यम् ३.१९ः१३

अत्रेदं ब्रह्म जपेत् ॥ ३.२० ॥

इति ॥ भाष्यम् ३.२०ः१
अस्य पूर्वोक्तोऽर्थः ॥ भाष्यम् ३.२०ः२
किंपुनस्तद्ब्रह्मेति ॥ भाष्यम् ३.२०ः३
तदुच्यते ॥ भाष्यम् ३.२०ः४

अघोरेभ्यः ॥ ३.२१ ॥

अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति ॥ भाष्यम् ३.२१ः१
कथम् ॥ भाष्यम् ३.२१ः२
मनोग्रहणाद्रूपादिविहीना अर्थाः ॥ भाष्यम् ३.२१ः३
किं तानि सुरूपाणि सलक्षणानि विलक्षणानि उत सलक्षणविलक्षणानीति ॥ भाष्यम् ३.२१ः४
किं परिमितानि उत अपरिमितानि उत परिमितापरिमितानि ॥ भाष्यम् ३.२१ः५
उच्यते कारणत्वबहुत्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरिमितत्वं चोच्यते अघोरेभ्यः ॥ भाष्यम् ३.२१ः६
अकारो रूपाणां घोरत्वं प्रतिषेधति ॥ भाष्यम् ३.२१ः७
अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः ॥ भाष्यम् ३.२१ः८
एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ भाष्यम् ३.२१ः९
आह किमेतान्येव एभ्य एव वा ॥ भाष्यम् ३.२१ः१०
तदुच्यते न ॥ भाष्यम् ३.२१ः११
यस्मादाह ॥ भाष्यम् ३.२१ः१२

अथ घोरेभ्यः ॥ ३.२२ ॥

अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः घोराणि अशिवानि अशान्तानि अननुग्रहकारीणीत्यर्थः ॥ भाष्यम् ३.२२ः१
एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ भाष्यम् ३.२२ः२
आह किमेतान्येव द्विसंस्थानसंस्थेभ्य एव वा ॥ भाष्यम् ३.२२ः३
उच्यते यस्मादाह ॥ भाष्यम् ३.२२ः४

घोरघोरतरेभ्यश्च ॥ ३.२३ ॥

अत्र घोर इत्येतद्भगवतो नामधेयम् ॥ भाष्यम् ३.२३ः१
द्वितीयो घोरशब्दो रूपेषु द्रष्टव्यः ॥ भाष्यम् ३.२३ः२
तर विशेषणे ॥ भाष्यम् ३.२३ः३
शानतरादिवत् ॥ भाष्यम् ३.२३ः४
तेभ्यो घोरेभ्योऽघोरेभ्यश्च यान्यन्यानि पशूनां सम्मोहकराणि तानि घोरतराणीत्यर्थः ॥ भाष्यम् ३.२३ः५
एभ्य इत्यपरिमितासंख्यातेभ्य इत्यर्थः ॥ भाष्यम् ३.२३ः६
चशब्दो घोराघोररूपोपसंहारे द्रष्टव्यः ॥ भाष्यम् ३.२३ः७
एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः ॥ भाष्यम् ३.२३ः८
आह कुतस्तानि रूपाणि करोति ॥ भाष्यम् ३.२३ः९
कुत्रस्थानि वा ॥ भाष्यम् ३.२३ः१०
तदुच्यते ॥ भाष्यम् ३.२३ः११

सर्वेभ्यः ॥ ३.२४ ॥

अत्र यानि रूपकारणे ॥ भाष्यम् ३.२४ः१
सर्वत्वं कस्मात् ॥ भाष्यम् ३.२४ः२
सर्वत्रानवकाशदोषात्सूच्यग्रे द्विनाभीयबदरवत् ॥ भाष्यम् ३.२४ः३
किंतु कारणशक्तेरव्याहतत्वाच्च ॥ भाष्यम् ३.२४ः४
सर्वत्र तानीत्यर्थः ॥ भाष्यम् ३.२४ः५
आह रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् ॥ भाष्यम् ३.२४ः६
तदुच्यते इह ॥ भाष्यम् ३.२४ः७
यस्मादाह ॥ भाष्यम् ३.२४ः८

शर्वसर्वेभ्यः ॥ ३.२५ ॥
अत्र शर्व इत्येतद्भगवतो नामधेयम् ॥ भाष्यम् ३.२५ः१
शर्वः कस्मात् ॥ भाष्यम् ३.२५ः२
विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते ॥ भाष्यम् ३.२५ः३
सर्वं विद्यादिकार्यं रुद्रस्थम् ॥ भाष्यम् ३.२५ः४
सर्वस्मिंश्च भगवांश्चोदकः कारणत्वेन सर्वत्र ॥ भाष्यम् ३.२५ः५
सर्वशब्दः त्रिसंख्येष्वपि एषु निरवशेषवाची द्रष्टव्यः ॥ भाष्यम् ३.२५ः६
एभ्य इत्यपरिमितासंख्येभ्य इत्यर्थः ॥ भाष्यम् ३.२५ः७
आह अथैतां रूपविभूतिं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्यम् ३.२५ः८
तदुच्यते ॥ भाष्यम् ३.२५ः९

नमस्ते अस्तु रुद्ररूपेभ्यः ॥ ३.२६ ॥

अत्र नम इत्यात्मप्रयुक्त इत्यर्थः ते इति कारणापदेशे ॥ भाष्यम् ३.२६ः१
नमस्तुभ्यं नमस्ते ॥ भाष्यम् ३.२६ः२
अथवा नमस्कारेणात्मानं प्रदाय धर्मप्रचयपरिग्रहमिच्छन्ति ॥ भाष्यम् ३.२६ः३
अथ कतमोऽयं परिग्रहः ॥ भाष्यम् ३.२६ः४
तदुच्यते विशिष्टे परिग्रहात् ॥ भाष्यम् ३.२६ः५
तदुच्यतेऽत्र रुद्र इति कारणापदेशे ॥ भाष्यम् ३.२६ः६
रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्यम् ३.२६ः७
रूपाणि यानि शरीराण्युत्पादयति तेभ्यो रूपेभ्य इत्यर्थः ॥ भाष्यम् ३.२६ः८
अत्र रूपव्यपदेशेन रूपिणि नमस्कारो द्रष्टव्यः ॥ भाष्यम् ३.२६ः९
कस्मात् ॥ भाष्यम् ३.२६ः१०
तदभिसंधिप्रयोगात् ॥ भाष्यम् ३.२६ः११
शिवपुरि उपस्थानवत् ॥ भाष्यम् ३.२६ः१२
एभ्य इति ॥ भाष्यम् ३.२६ः१३
अपरिमितासंख्यातेभ्य इत्यर्थः ॥ भाष्यम् ३.२६ः१४
रूपनिर्देशार्थान्यत्वाच्च पुनरुक्तापुनरुक्ताभ्यां शब्दा द्रष्टव्याः ॥ भाष्यम् ३.२६ः१५

ড়ाशुपतसूत्र, ४

गूढविद्या तपआनन्त्याय प्रकाशते ॥ ४.१ ॥

गुहू रक्षणे ॥ भाष्यम् ४.१ः१
रक्षितव्या न प्रकाशयितव्येत्यर्थः ॥ भाष्यम् ४.१ः२
गोपनं नामाप्रकाशनम् ॥ भाष्यम् ४.१ः३
विद्या पूर्वोक्ता स्वपरान्यप्रकाशिका प्रदीपवत् ॥ भाष्यम् ४.१ः४
लिङ्गैर्गोप्या रूढविद्या साधके इत्यर्थः ॥ भाष्यम् ४.१ः५
आह गूढविद्ये साधके का कार्यनिष्पत्तिः ॥ भाष्यम् ४.१ः६
तदुच्यते तपआनन्त्याय प्रकाशते इत्येष पाठः ॥ भाष्यम् ४.१ः७
अथवा कुरवोन्महितवत्तपोऽनन्त्याय प्रकाशत इत्येष वा पाठः ॥ भाष्यम् ४.१ः८
तस्मादत्र तपस्तदेव ॥ भाष्यम् ४.१ः९
निरुक्तमस्य पूर्वोक्तम् ॥ भाष्यम् ४.१ः१०
अनित्यपि नियोगपर्यायः गम्यते ॥ भाष्यम् ४.१ः११
तपःकार्यत्वादतिगतिसायुज्यवत् ॥ भाष्यम् ४.१ः१२
आह किं परिमितेष्वर्थेष्वानन्त्यशब्दः उतापरिमितेषु किं वा परिमितापरिमितेष्विति ॥ भाष्यम् ४.१ः१३
उच्यते परिमितापरिमितेष्वर्थेषु आनन्त्यशब्दः ॥ भाष्यम् ४.१ः१४
तत्र तावदीश्वरस्यैकैकशः परिमितेषु तेष्वेव विभुत्वादपरिमितेषु तथा परिमितापरिमितेष्वर्थेषु अभिव्यक्तास्य शक्तिः ॥ भाष्यम् ४.१ः१५
तस्य कुशलाकुशलेषु भावेष्वानन्त्यशब्दः ॥ भाष्यम् ४.१ः१६
यस्मादुक्तं न चैतास्तनवः केवलं मम इति ॥ भाष्यम् ४.१ः१७
तथा रुद्रः समुद्रो हि अनन्तो भास्करो नभः । आत्मा ब्रह्म च वाक्चैव न शक्यं भेददर्शनम् ॥ भाष्यम् ४.१ः१८
अनात्मविद्भिरध्यस्तां पङ्क्तिं योजनमायताम् । वेदवित्पुनते पार्थ नियुक्तः पङ्क्तिमूर्धनि ॥ भाष्यम् ४.१ः१९
तथा च वेदवित्पङ्क्तिमात्मवित्पुनते द्विजः । आनन्त्यं पुनते विद्वान्नाभात्वं यो न पश्यति ॥ भाष्यम् ४.१ः२०
आनन्त्याय इति चतुर्थी तस्मात्तप एतत्न तु विद्या कार्या ॥ भाष्यम् ४.१ः२१
प्रकाशो नाम भावप्रकाश्यं न तु प्रदीपवत् ॥ भाष्यम् ४.१ः२२
कथम् ॥ भाष्यम् ४.१ः२३
योगाधिकृतस्य प्रदीपस्थानीतयमानैजस्थानीयमावारकमभिभूय प्रकाशते ॥ भाष्यम् ४.१ः२४
चक्षुःस्थानीयया विद्यया कुशलविवेकादिकार्यं माहात्म्यातिगतिप्रकाशप्रवृत्तिस्मृतिसायुज्यस्थित्यादिप्रकाशनं तपःकार्यमित्यर्थः एवं च गुप्ते ब्राह्मणे तप आनन्त्याय प्रकाशत इत्यर्थः ॥ भाष्यम् ४.१ः२५
आह स्वभावगुप्तत्वादतीन्द्रियात्मगती विद्या गोप्येति ॥ भाष्यम् ४.१ः२६
तदुच्यते अव्यक्तप्रेताद्यवस्थानैर्लिङ्गैर्गोप्या इत्यर्थः ॥ भाष्यम् ४.१ः२७
आह कानि पुनस्तानि विद्यालिङ्गानि यैर्गुप्तैर्विद्या गुप्ता भवति ॥ भाष्यम् ४.१ः२८
तदुच्यते व्रतादीनि ॥ भाष्यम् ४.१ः२९
यस्मादाह ॥ भाष्यम् ४.१ः३०

गूढव्रतः ॥ ४.२ ॥

अत्र गूढं प्रच्छन्नमप्रकाशमित्यर्थः ॥ भाष्यम् ४.२ः१
व्रतं नाम यदायतने स्नानहसिताद्यः साधनवर्गस्तद्व्रतम् ॥ भाष्यम् ४.२ः२
कस्मात् ॥ भाष्यम् ४.२ः३
साकृतत्वाद्यस्मादयं ब्राह्मणस्तथा प्रयुङ्क्ते यथा लौकिकानां धर्मसाधनभावो न विद्यत इति अतो गूढव्रत इति ॥ भाष्यम् ४.२ः४
आह अव्यक्तप्रेतत्वादेव गूढत्वप्राप्तेः पुनरुक्तमिति ॥ भाष्यम् ४.२ः५
उच्यतेऽर्थान्यत्वादपुनरुक्तम् ॥ भाष्यम् ४.२ः६
तत्रावस्थानमात्रमेवाव्यक्तम् ॥ भाष्यम् ४.२ः७
इह तु स्नानहसितादिगोपनम् ॥ भाष्यम् ४.२ः८
अपि च तत्र निष्पन्नं लिङ्गमव्यक्तम् ॥ भाष्यम् ४.२ः९
इह तु निष्पत्तिकाले च गोपनोपदेशः ॥ भाष्यम् ४.२ः१०
न वाव्यक्तप्रेतत्वं वा विद्यालिङ्गम् ॥ भाष्यम् ४.२ः११
अतश्चापुनरुक्तम् ॥ भाष्यम् ४.२ः१२
तस्माद्गूढव्रतोपदेशाय स्थानापदेशापवादाय स्थाने वस्तव्यम् ॥ भाष्यम् ४.२ः१३
स्नानहसितादयश्च गूढाः कर्तव्याः ॥ भाष्यम् ४.२ः१४
एवं विद्या गुप्ता भवतीत्यर्थः ॥ भाष्यम् ४.२ः१५
आह किं व्रतमेवैकं विद्यालिङ्गं गोप्यमाहोस्विदन्यदप्यस्ति नेति ॥ भाष्यम् ४.२ः१६
उच्यतेऽस्ति ॥ भाष्यम् ४.२ः१७
यस्मादाह ॥ भाष्यम् ४.२ः१८

गूढपवित्रवाणिः ॥ ४.३ ॥

अत्र गूढा गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः ॥ भाष्यम् ४.३ः१
पवित्रा नाम सत्या संस्कृता अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः ॥ भाष्यम् ४.३ः२
सा गोप्या ॥ भाष्यम् ४.३ः३
किमर्थमिति चेत् ॥ भाष्यम् ४.३ः४
तदुच्यते जातिज्ञानतपःस्तवसूचनार्थम् ॥ भाष्यम् ४.३ः५
यथा शरदं कुररः सूचयति ॥ भाष्यम् ४.३ः६
उक्तं हि । शरदं कुररः प्राह वसन्तं प्राह कोकिलः । प्राह वर्षा मयूरश्च वाक्पवित्राह ब्राह्मणम् ॥ भाष्यम् ४.३ः७
तथा । वागेव हि मनुष्यस्य श्रुतमाख्याति भाषिता । दीपयन्ती यथा सर्वं प्रभा भानुमिवामला ॥ भाष्यम् ४.३ः८
अतो जातिज्ञानतपःस्तवा भवन्ति ॥ भाष्यम् ४.३ः९
स्तविते चावसानादिमत्त्वयोः पुण्यपापक्षयवृद्ध्योरभावः ॥ भाष्यम् ४.३ः१०
अत एतदुक्तं गूढपवित्रवाणिरिति ॥ भाष्यम् ४.३ः११
आह किं व्रतं वाणी च द्वयमेवात्र गोप्यमाहोस्विदन्यदप्यस्ति नेति ॥ भाष्यम् ४.३ः१२
उच्यते अस्ति ॥ भाष्यम् ४.३ः१३
यस्मादाह ॥ भाष्यम् ४.३ः१४

सर्वाणि द्वाराणि पिधाय ॥ ४.४ ॥

इति ॥ भाष्यम् ४.४ः१
अत्र सर्वशब्दो द्वारप्रकृतेर्निरवशेषवाची द्रष्टव्यः ॥ भाष्यम् ४.४ः२
द्वाराणि क्राथनादीनि ॥ भाष्यम् ४.४ः३
द्वाराणि च कस्मात् ॥ भाष्यम् ४.४ः४
धर्माधर्मयोरायव्ययहेतुत्वाद्द्वाराणि ॥ भाष्यम् ४.४ः५
द्वाराणीति बहुवचनं विज्ञानयन्त्रेन्द्रियवत् ॥ भाष्यम् ४.४ः६
पिधाय इति प्राक्साधनप्रयोगमधिकुरुते ॥ भाष्यम् ४.४ः७
कथम् ॥ भाष्यम् ४.४ः८
अस्थानकालदेशक्रियाप्रयोगप्रयोजनान्तराणि विधिवद्विवेच्य यदा सम्यङ्मायया संनाद्यभेदक्रमेण प्रयुक्तानि तदा पिहितानि भवन्तीत्यर्थः ॥ भाष्यम् ४.४ः९
आह केन तानि पिधेयानि ॥ भाष्यम् ४.४ः१०
तदुच्यते ॥ भाष्यम् ४.४ः११

बुद्ध्या ॥ ४.५ ॥

यस्मादस्य श्रोत्रेन्द्रियवत्पिधायेति सम्यग्ज्ञानप्रयोगे सर्वज्ञेन भगवता विद्यानुगृहीतया बुद्ध्या पिधानमुक्तं तस्मादत्र करणाख्या बुद्ध्येति न ज्ञानाख्या ॥ भाष्यम् ४.५ः१
कथं गम्यते ॥ भाष्यम् ४.५ः२
बुद्ध्येति तृतीयाप्रयोगात् ॥ भाष्यम् ४.५ः३
भस्मना स्नानवत् ॥ भाष्यम् ४.५ः४
न ज्ञानाख्या ॥ भाष्यम् ४.५ः५
यस्य विज्ञानाख्या बुद्धिर्न ज्ञानाख्या कथं गम्यते ॥ भाष्यम् ४.५ः६
तस्य प्राग्ज्ञानोत्पत्तेरचेतनपुरुषस्तस्य ह्यज्ञानादसंबोध्यः स्यात् ॥ भाष्यम् ४.५ः७
तस्मादत्र त्रिकं चिन्त्यते पिधाता पिधानं पिधेयमिति तत्र पिधाता साधकः ॥ भाष्यम् ४.५ः८
पिधानमस्य विद्यानुगृहीता बुद्धिः ॥ भाष्यम् ४.५ः९
पिधेयं व्रतं वाणी द्वाराणि चेति ॥ भाष्यम् ४.५ः१०
क्रमवृत्तित्वाच्च बुद्धेरेव प्रयुङ्क्ते शेषाण्यकर्तृत्वेनैवाप्रयुक्तानि ॥ भाष्यम् ४.५ः११
तदा पिहितानि भवन्तीत्यर्थः ॥ भाष्यम् ४.५ः१२
अत्रेदं विद्याज्ञानप्रकरणं परिसमाप्तमिति ॥ भाष्यम् ४.५ः१३
आह किमव्यक्तप्रेत इत्यवस्थानद्वयमेवात्र कर्तव्यम् ॥ भाष्यम् ४.५ः१४
वागादीनि वा गोपायित्वा साधकेन किं कर्तव्यम् ॥ भाष्यम् ४.५ः१५
उच्यते ॥ भाष्यम् ४.५ः१६

उन्मत्तवदेको विचरेत लोके ॥ ४.६ ॥

अत्र बुद्ध्या अन्तःकरणानां श्रोत्रादीनां च बाह्यानां वृत्तिविभ्रमः कर्तव्योऽसति विषये विषयग्रहणम् ॥ भाष्यम् ४.६ः१
अत्र । पञ्चोन्मादाः समाख्याता वातपित्तकफात्मकाः । चतुर्थः संनिपातस्तु अभिघातस्तु पञ्चमः ॥ भाष्यम् ४.६ः२
एवं ग्रहबहुत्वे सति योऽयं वातपित्तश्लेष्मणां समूहः सांनिपातिकोऽयं महाग्रहः ॥ भाष्यम् ४.६ः३
एवं साधनप्रयोगः कर्तव्यः ॥ भाष्यम् ४.६ः४
तत्र यदि कश्चिद्ज्ञानजिज्ञासनार्थं दयार्थमनुग्रहार्थं वा पृच्छति तं निवर्तयित्वा ब्रूयात्समयतः प्रविशस्वेति ॥ भाष्यम् ४.६ः५
ततो द्वारेण प्रविश्य विपरीतमविपरीतं वा यदि कश्चिद्ब्रूयात्को भवानिति ततो वक्तव्यं माहेश्वरोऽहं कौमारोऽहमिति दुरत्ययं कृतं च ममानेनेति ॥ भाष्यम् ४.६ः६
ततो जिघांसनार्थं मया स्पृष्टो न तु विषयक्रीडार्थं वा ॥ भाष्यम् ४.६ः७
ततः परिवर्जयति इत्येवं लौकिकपरीक्षकाणां सम्मोहनार्थमुक्तमुन्मत्तवदिति ॥ भाष्यम् ४.६ः८
किंचिदुन्मत्तप्रेतवत्तस्यान्तःकरणादिवृत्तिविभ्रममात्रं परिगृह्यते ॥ भाष्यम् ४.६ः९
एक इत्यसंवहता चिन्त्यते ॥ भाष्यम् ४.६ः१०
एकेनेतरेभ्यो विच्छिन्नेनासहायेनेत्यर्थः आह एकेन किं कर्तव्यमिति ॥ भाष्यम् ४.६ः११
उच्यते विहर्तव्यम् ॥ भाष्यम् ४.६ः१२
यस्मादाह विचरेत ॥ भाष्यम् ४.६ः१३
अत्र विर्विस्तरे ॥ भाष्यम् ४.६ः१४
चरेत्यार्जनमधिकुरुते धर्मार्जने ॥ भाष्यम् ४.६ः१५
ईत इत्याज्ञायां नियोगे च ॥ भाष्यम् ४.६ः१६
विस्तरनियोग विशेषतश्च विहर्तव्यमित्यर्थः ॥ भाष्यम् ४.६ः१७
आह क्व विहर्तव्यमिति ॥ भाष्यम् ४.६ः१८
उच्यते लोके ॥ भाष्यम् ४.६ः१९
त्रिवर्णाश्रमिषु लोकसंज्ञा न तु ब्रह्मलोकादिषु ॥ भाष्यम् ४.६ः२०
कस्मात् ॥ भाष्यम् ४.६ः२१
उत्कृष्टेष्वसंभवात् ॥ भाष्यम् ४.६ः२२
लोके इति सामीपिकं संनिधानम् ॥ भाष्यम् ४.६ः२३
परवर्णा लोकास्तेषु तदध्यक्षेषु विहर्तव्यमित्यर्थः ॥ भाष्यम् ४.६ः२४
आह कां वृत्तिमास्थाय लोके विहर्तव्यं सर्वभक्षमेव ॥ भाष्यम् ४.६ः२५
उच्यते न ॥ भाष्यम् ४.६ः२६
यस्मादाह ॥ भाष्यम् ४.६ः२७

कृतान्नमुत्सृष्टमुपाददीत ॥ ४.७ ॥

अत्र कृतग्रहणादकृतानां बीजकाण्डफलादीनां प्रतिषेधः ॥ भाष्यम् ४.७ः१
कृतं भिन्नोद्भिन्नाद्यं तद्भैक्षमुत्सृष्टं यथालब्धं विधिना प्राप्तमुपयोज्यम् ॥ भाष्यम् ४.७ः२
अत्र कृतग्रहणादकृतप्रतिषेधः अकृतप्रतिषेधाच्च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्या ॥ भाष्यम् ४.७ः३
आह किं तत्कृतं नाम बुद्धिघटाद्यम् ॥ भाष्यम् ४.७ः४
तदुच्यते न ॥ भाष्यम् ४.७ः५
यस्मादाह अन्नम् ॥ भाष्यम् ४.७ः६
तत्रान्नवचनादनन्नप्रतिषेधः ॥ भाष्यम् ४.७ः७
तच्च द्वियोनि इन्द्राभिषिक्तमिन्द्रियाभिषिक्तं च तत्रेन्द्राभिषिक्तं व्रीहियवाद्यम् ॥ भाष्यम् ४.७ः८
इन्द्रियाभिषिक्तं तु मांसम् ॥ भाष्यम् ४.७ः९
तत्पञ्चविधं भक्ष्यं भोज्यं लेह्यं पेयं चोष्यमिति ॥ भाष्यम् ४.७ः१०
तथा षड्रसं मधुराम्ललवणतिक्तकटुकषायमिति ॥ भाष्यम् ४.७ः११
आह तस्य कृतान्नस्यार्जनं कुतः कर्तव्यम् ॥ भाष्यम् ४.७ः१२
तदुच्यते उत्सृष्टम् ॥ भाष्यम् ४.७ः१३
अत्रोत्सृष्टग्रहणाद्भैक्षयथालब्धप्रतिषेधः ॥ भाष्यम् ४.७ः१४
किं कारणम् ॥ भाष्यम् ४.७ः१५
सूनादिदोषपरिहारार्थत्वान्नस्तेयप्रतिग्रहादिदोषात् ॥ भाष्यम् ४.७ः१६
तच्च त्रिविधमुत्सृष्टम् ॥ भाष्यम् ४.७ः१७
तद्यथा निसृष्टं विसृष्टमतिसृष्टमिति ॥ भाष्यम् ४.७ः१८
तत्र सनिमित्तं परित्यक्तमन्नं पानं वा तन्निसृष्टम् ॥ भाष्यम् ४.७ः१९
गोब्राह्मणादिनिमित्तं त्यक्तं विसृष्टम् ॥ भाष्यम् ४.७ः२०
अतिसृष्टमन्यतः परित्यक्तम् ॥ भाष्यम् ४.७ः२१
दयार्थमानृशंसार्थं वा यदि कश्चिद्दद्यात्तदपि ग्राह्यमेव ॥ भाष्यम् ४.७ः२२
आह अनेन साधकेन किं कर्तव्यमिति ॥ भाष्यम् ४.७ः२३
उच्यते उपयोक्तव्यम् ॥ भाष्यम् ४.७ः२४
यस्मादाह उपाददीत अत्रोपेत्यभ्युपगमे ॥ भाष्यम् ४.७ः२५
अत्यन्तासन्मानसयन्त्रस्थेनेत्यर्थः ॥ भाष्यम् ४.७ः२६
आददीत इत्युपयोगे ग्रहणे च विवक्षितसूत्रग्रहणे त्वावद्भवति ॥ भाष्यम् ४.७ः२७
तदुक्तम् । संचित्वा नरमेवैनं कामानामवितृप्तिकम् । व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ भाष्यम् ४.७ः२८
इति ॥ भाष्यम् ४.७ः२९
उपयोगेऽपि नाथकणादवत्सम् ॥ भाष्यम् ४.७ः३०
तस्मादुपयोक्तव्यमिति ॥ भाष्यम् ४.७ः३१
ईत इत्याज्ञायां नियोगे च ॥ भाष्यम् ४.७ः३२
तदुत्सृष्टं विधिप्राप्तमुपयोक्तव्यम् ॥ भाष्यम् ४.७ः३३
अन्यथा हि विधिव्यपेतेन क्रमेण वृत्त्यर्जनं न कर्तव्यमित्यर्थः ॥ भाष्यम् ४.७ः३४
आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च वर्ततः के वार्था निष्पद्यन्ते ॥ भाष्यम् ४.७ः३५
असन्मानप्रकरणस्य वा परिसमाप्तिः किमस्ति नेति ॥ भाष्यम् ४.७ः३६
उच्यते अस्ति ॥ भाष्यम् ४.७ः३७
यस्मादाह ॥ भाष्यम् ४.७ः३८

उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः ॥ ४.८ ॥

अत्र उन्मत्तः स एव ॥ भाष्यम् ४.८ः१
निरुक्तमस्य पूर्वोक्तं मूढ इति ॥ भाष्यम् ४.८ः२
मुहु अपरिज्ञाने ॥ भाष्यम् ४.८ः३
अव्यक्तोऽयं प्रेतोऽयमुन्मत्तोऽयं मूढोऽयं मूर्खोऽयमिति वक्तारो वदन्तीत्यर्थः ॥ भाष्यम् ४.८ः४
इतिशब्दोऽर्थानां निर्वचनत्वात्प्रकरणपरिसमाप्त्यर्थः ॥ भाष्यम् ४.८ः५
एवं यस्मादवस्थानकालदेशक्रियाप्रयोगप्रयोजनगोपनवसत्यर्थकृत्स्नतपांसि च व्याख्यातानि ॥ भाष्यम् ४.८ः६
एवमित्यतिक्रान्तापेक्षणे ॥ भाष्यम् ४.८ः७
मन्यते इत्यवधारणे ॥ भाष्यम् ४.८ः८
इतरे इति गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषण्डिनां ब्रह्मचर्याधिकृतानां ग्रहणम् ॥ भाष्यम् ४.८ः९
जना इति ॥ भाष्यम् ४.८ः१०
जनी प्रादुर्भावे ॥ भाष्यम् ४.८ः११
जना इति वर्णाश्रमिणां जनानामधिकृतानां ग्रहणमुक्तं हि । जनेन हि जनो जातः जनं जनयसे जन । जनं शोचसि नात्मानं मात्मानं शोच मा जनम् ॥ भाष्यम् ४.८ः१२
इत्येवं वक्तारो वदन्तीत्यर्थः ॥ भाष्यम् ४.८ः१३
अत्रेदमाधिकारिकमसन्मानचरिप्रकरणं समाप्तम् ॥ भाष्यम् ४.८ः१४
आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च ततः को गुणः यं गुणं ज्ञात्वा अव्यक्तप्रेतोन्मत्ताद्या वादा निष्पाद्या इति ॥ भाष्यम् ४.८ः१५
तदुच्यते तं गुणं ज्ञात्वा वक्ष्यामः ॥ भाष्यम् ४.८ः१६
अपि च अव्यक्तप्रेतोन्मत्ताद्यं ब्राह्मणकर्मविरुद्धं क्रमं दृष्ट्वा यावदयं शिष्यः एनमर्थं न ब्रवीति तत्तस्य हृदिस्थमशङ्कितमुपलभ्योत्तरं ब्रूम इति कृत्वा भगवानिदं सूत्रमुवाच ॥ भाष्यम् ४.८ः१७

असन्मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः ॥ ४.९ ॥

अत्र अकारो मानप्रतिषेधे ॥ भाष्यम् ४.९ः१
मानोऽत्र द्विविधः ॥ भाष्यम् ४.९ः२
जात्यभिमानो गृहस्थाभिमानश्च ॥ भाष्यम् ४.९ः३
तत्र जात्यभिमानो नाम ब्राह्मणोऽहमिति ॥ भाष्यम् ४.९ः४
पूज्यत्वादूर्ध्वगमनादीनां कार्याणामुच्छ्रितत्वात्त्रयाणामपि वर्णानामुपदेशेन गुरुत्वाद्यज्ञकर्तृत्वात्त्रैलोक्यस्थितिहेतोः ब्राह्मणोऽहमिति प्रथमो मानो जात्युत्कर्षात् ॥ भाष्यम् ४.९ः५
तथा ब्राह्मणानामपि गृहस्थादीनां पूज्यत्वात्तत्कृतमानश्च ॥ भाष्यम् ४.९ः६
एतच्च मानद्वयमव्यक्तलिङ्गवचनात्प्रतिषिद्धम् ॥ भाष्यम् ४.९ः७
तथा वित्तं बन्धुर्यशः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ भाष्यम् ४.९ः८
एतानि चैकवासःप्रेताचरणगूढव्रतोपदेशिना सूत्रतः प्रतिषिद्धानीत्यतो मानो न कर्तव्यः ॥ भाष्यम् ४.९ः९
सनिति प्रशंसायामस्तित्वे च ॥ भाष्यम् ४.९ः१०
अग्रे तदसन्मानचरिप्रकरणविशिष्टं च ॥ भाष्यम् ४.९ः११
हिशब्दोऽयमुत्तमोत्कर्षापेक्षो द्रष्टव्यः ॥ भाष्यम् ४.९ः१२
यन्त्राणि अग्निष्टोमादीनि मासोपवासादीनि च गृहस्थादीनां शुद्धिवृद्धिकराणि ॥ भाष्यम् ४.९ः१३
यन्त्राणि च कस्मात् ॥ भाष्यम् ४.९ः१४
यन्त्रं कर्मादयः ॥ भाष्यम् ४.९ः१५
यस्मादयन्त्रा लौकिका अमर्यादावस्था भवन्तीत्यतो यन्त्राणाम् ॥ भाष्यम् ४.९ः१६
यन्त्राणामिति षष्ठीबहुवचनम् ॥ भाष्यम् ४.९ः१७
आह बहुवचनप्रयोगात्संदेहः अथ कियतां यन्त्राणाम् ॥ भाष्यम् ४.९ः१८
तदुच्यते सर्वेषाम् ॥ भाष्यम् ४.९ः१९
अत्र सर्वेषामित्यशेषाणामित्यर्थः ॥ भाष्यम् ४.९ः२०
सर्वेषामिति षष्ठीबहुवचनम् ॥ भाष्यम् ४.९ः२१
आह षष्ठ्याः साकाङ्क्षत्वात्संदेहः ॥ भाष्यम् ४.९ः२२
तेषां कारणात्मानो वर्तन्ते ॥ भाष्यम् ४.९ः२३
तदुच्यते उत्तमः ॥ भाष्यम् ४.९ः२४
अत्रोत्तम इति श्रेष्ठत्वे परमविशुद्धित्यागादानभावादिषु ॥ भाष्यम् ४.९ः२५
उक्तं हि । वरेण्यः सत्तमो मुख्यो वरिष्ठः शोभनोऽथवा । उत्तमश्चापरार्धश्च स्वर्थः श्रेष्ठार्थवाचकाः ॥ भाष्यम् ४.९ः२६
श्रेष्ठः ॥ भाष्यम् ४.९ः२७
इह चोक्तमुत्तम इति ॥ भाष्यम् ४.९ः२८
आह असन्मानः सर्वयन्त्राणामुत्तम इति क्व सिद्धम् ॥ भाष्यम् ४.९ः२९
उच्यते इह ॥ भाष्यम् ४.९ः३०
यस्मादाह स्मृतः ॥ भाष्यम् ४.९ः३१
अत्र स्मृत इत्युक्तपर्यायः महेश्वरेणोक्तं प्रोक्तं कथितं वर्णितमित्यर्थः ॥ भाष्यम् ४.९ः३२
विशिष्टः कस्मात् ॥ भाष्यम् ४.९ः३३
सर्वज्ञवचनादविसंवादित्वाच्च ॥ भाष्यम् ४.९ः३४
नहि प्रत्यक्षदर्शिनां वचनानि विसंवदन्तीत्यर्थः ॥ भाष्यम् ४.९ः३५
आह अस्मिन् क्रमे उत्तमत्वेन व्याख्यायमानं क आद्यः शोधकः ॥ भाष्यम् ४.९ः३६
केन वा इदं विधानं चीर्णम् ॥ भाष्यम् ४.९ः३७
आचरता वा किं फलं प्राप्तम् ॥ भाष्यम् ४.९ः३८
सोऽस्मत्प्रत्ययार्थं वाच्यः ॥ भाष्यम् ४.९ः३९
तदुच्यते ॥ भाष्यम् ४.९ः४०

इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत् ॥ ४.१० ॥

अत्र देवतानां राजा इन्द्रः ॥ भाष्यम् ४.१०ः१
कथं गम्यते असुरेष्वाचरणवचनात् ॥ भाष्यम् ४.१०ः२
ब्राह्मणश्चायमिन्द्रः श्रेष्ठः ॥ भाष्यम् ४.१०ः३
सूत्रे ब्राह्मणग्रहणात्शूद्रप्रतिषेधाच्च ॥ भाष्यम् ४.१०ः४
इदि परमैश्वर्ये धातुः तस्येन्द्रः ॥ भाष्यम् ४.१०ः५
इन्द्र उत्कृष्टः श्रेष्ठः देवगन्धर्वयक्षराक्षसपितृपिशाचादीनां श्रेष्ठो न तु ब्रह्मादीनाम् ॥ भाष्यम् ४.१०ः६
किं तु स्वर्गिणां मध्ये ऐश्वर्येण विद्यया आज्ञया चेत्यतः श्रेष्ठत्वादिन्द्रः ॥ भाष्यम् ४.१०ः७
वाशब्दः सम्भावने ॥ भाष्यम् ४.१०ः८
अन्यैरपि देवश्रेष्ठैरिदं विधानमाचीर्णम् ॥ भाष्यम् ४.१०ः९
कुतस्तर्हि युष्मदादिभिर्मनुष्यमात्रैः ॥ भाष्यम् ४.१०ः१०
तस्मात्संभाव्योऽयमर्थः ॥ भाष्यम् ४.१०ः११
आह कदा चीर्णमिति ॥ भाष्यम् ४.१०ः१२
उच्यतेऽग्रे ॥ भाष्यम् ४.१०ः१३
अत्राग्र इति पूर्वकालमधिकुरुते ॥ भाष्यम् ४.१०ः१४
कुशिकेशानसम्बन्धात्प्राक् ॥ भाष्यम् ४.१०ः१५
प्रथमममरैश्चीर्णम् ॥ भाष्यम् ४.१०ः१६
कृतत्रेताद्वापरादिषु युगेष्वित्यर्थः ॥ भाष्यम् ४.१०ः१७
आह केष्वाचीर्णमिति ॥ भाष्यम् ४.१०ः१८
उच्यते असुरेषु ॥ भाष्यम् ४.१०ः१९
अत्रासुरा नाम सुरेतराः स्तेययुक्ताः ॥ भाष्यम् ४.१०ः२०
प्राणापहरणाद्वा असुराः प्रजापतिपुत्रा विज्ञेयाः ॥ भाष्यम् ४.१०ः२१
असुरेष्विति सामीपिकं संनिधानम् ॥ भाष्यम् ४.१०ः२२
असुरसमीपे असुराभ्याशे असुराणामध्यक्ष इत्यर्थः ॥ भाष्यम् ४.१०ः२३
आह किं तदिति ॥ भाष्यम् ४.१०ः२४
उच्यते पाशुपतम् ॥ भाष्यम् ४.१०ः२५
अत्र पशुपतिनोक्तपरिग्रहाधिकारेषु वर्तत इति पाशुपतम् ॥ भाष्यम् ४.१०ः२६
पशुपतिर्वास्मिन् चिन्त्यत इति पाशुपतम् ॥ भाष्यम् ४.१०ः२७
पशुपतिप्रापकत्वाद्वा पाशुपतम् ॥ भाष्यम् ४.१०ः२८
पाशुपतमिति समस्तस्य सम्पूर्णस्य विधानस्यैतद्ग्रहणम् ॥ भाष्यम् ४.१०ः२९
कस्मात् ॥ भाष्यम् ४.१०ः३०
व्यक्तलिङ्गपूर्वकत्वादव्यक्तादिक्रमस्य ॥ भाष्यम् ४.१०ः३१
तस्मात्कृत्स्नमिदमेव विधानमाचीर्णमिन्द्रेण दुःखान्तार्थिना शुद्धिवृद्ध्यर्थम् ॥ भाष्यम् ४.१०ः३२
धर्मबाहुल्यात्सुराणां भुव्याचीर्णम् ॥ भाष्यम् ४.१०ः३३
अचरदित्यतीतः कालः ॥ भाष्यम् ४.१०ः३४
अतीते काले चीर्णवानित्यर्थः ॥ भाष्यम् ४.१०ः३५
आह इन्द्रेणासुरेष्वाचरता किं फलं प्राप्तम् ॥ भाष्यम् ४.१०ः३६
तदुच्यते ॥ भाष्यम् ४.१०ः३७

स तेषामिष्टापूर्तमादत्त ॥ ४.११ ॥

स इतीन्द्रग्रहणं तेषामित्यसुरनिर्देशः ॥ भाष्यम् ४.११ः१
इष्टापूर्तमिति द्वंद्वसमासः ॥ भाष्यम् ४.११ः२
इष्टं च पूर्तं चेष्टापूर्तं तत्र यन्मन्त्रपूर्वकेण विधिना दत्तं हुतं स्तुत्यादिनिष्पन्नं सुकृतं तदिष्टम् ॥ भाष्यम् ४.११ः३
यदमन्त्रपूर्वकेणैव तत्पूर्तम् ॥ भाष्यम् ४.११ः४
इन्द्रेणासुरेभ्यः केनोपायेन दत्तमिति ॥ भाष्यम् ४.११ः५
उच्यते ॥ भाष्यम् ४.११ः६

मायया सुकृतया समविन्दत ॥ ४.१२ ॥

क्राथनस्पन्दनादिप्रयोगैः धिक्कृतस्य निद्राविष्टो वायुसंस्पृष्टो मन्दकारी असम्यक्कारी असम्यग्वादीति योऽयं दुष्टशब्दोऽभियोगशब्दश्च निष्पद्यते तस्मिन्ननृते मायासंज्ञा ॥ भाष्यम् ४.१२ः१
मानसकायिकाभियोगे च ॥ भाष्यम् ४.१२ः२
मायया इति तृतीया ॥ भाष्यम् ४.१२ः३
सुकृतया इति ॥ भाष्यम् ४.१२ः४
सु प्रशंसायां तया सुकृतया सम्यक्प्रयुक्तयेति साधकसाधनप्राधान्यम् ॥ भाष्यम् ४.१२ः५
अविन्दत इति प्राप्तौ प्राधान्ये च ॥ भाष्यम् ४.१२ः६
स तेषामिष्टापूर्तमादत्तेति ॥ भाष्यम् ४.१२ः७
उक्तं हि । आक्रोशमानो नाक्रोशेन्मन्युरेव तितिक्षति । स तेषां दुष्कृतं दत्त्वा सुकृतं चास्य विन्दति ॥ भाष्यम् ४.१२ः८
आह उत्तम इन्द्रः ॥ भाष्यम् ४.१२ः९
स तेषामिष्टापूर्तमित्युक्ते परापदेशेनास्य वृत्तिर्निर्गुणीकृता ॥ भाष्यम् ४.१२ः१०
अथात्मापदेशोऽत्र किमस्ति नेति ॥ भाष्यम् ४.१२ः११
उच्यते अस्ति ॥ भाष्यम् ४.१२ः१२
यस्मादाह ॥ भाष्यम् ४.१२ः१३

निन्दा ह्येषानिन्दा तस्मात् ॥ ४.१३ ॥

अत्रावमानपरिभवाद्या निन्दा ॥ भाष्यम् ४.१३ः१
कुत्सा गर्हा इत्यर्थः ॥ भाष्यम् ४.१३ः२
शब्दो निन्दोत्तमोत्कर्षोपक्षेपे द्रष्टव्यः ॥ भाष्यम् ४.१३ः३
उत्तमाधिकाराद्गम्यते ॥ भाष्यम् ४.१३ः४
एषा इत्यतिक्रान्तापेक्षणे ॥ भाष्यम् ४.१३ः५
अवमानपरिभवपरिवादाद्या निन्देत्यर्थः ॥ भाष्यम् ४.१३ः६
अनिन्दा इत्यकारो निन्दितत्वं प्रतिषेधति ॥ भाष्यम् ४.१३ः७
अनिन्दा अकुत्सा अगर्हा इत्यर्थः ॥ भाष्यम् ४.१३ः८
अत्र तस्माच्छब्दः पूर्वोत्तरं चापेक्षते ॥ भाष्यम् ४.१३ः९
तत्र पूर्वाकाङ्क्षायां तावत्कृत्स्ना निन्दाप्रकरणगुणवचने ॥ भाष्यम् ४.१३ः१०
यस्मादिन्द्रस्यापि शुद्धिवृद्धिकारिणी आत्मापदेशेन परापदेशेन च भगवता असन्मानचरिर्गुणीकृता तस्मादित्यर्थः ॥ भाष्यम् ४.१३ः११
आह निराकाङ्क्षानिर्देशात्संदेहो यथा यथा वर्णितं तथा तथा च व्याख्यातम् ॥ भाष्यम् ४.१३ः१२
निन्दाया अनिन्दितत्वं गुणं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्यम् ४.१३ः१३
तदुच्यते ॥ भाष्यम् ४.१३ः१४

निन्द्यमानश्चरेत् ॥ ४.१४ ॥

अत्र निन्दा पूर्वोक्ता ॥ भाष्यम् ४.१४ः१
निन्द्यमानेनैव निन्दायाः वर्तमानकाल इत्यर्थः ॥ भाष्यम् ४.१४ः२
चरेदित्यार्जनमधिकुरुते ॥ भाष्यम् ४.१४ः३
धर्मार्जने नियोगे च ॥ भाष्यम् ४.१४ः४
संशयान्यत्वाच्चापुनरुक्तश्चरिशब्दो द्रष्टव्यः ॥ भाष्यम् ४.१४ः५
अत्रेदमानुषङ्गिकमसन्मार्गचरिप्रकरणं परिसमाप्तम् ॥ भाष्यम् ४.१४ः६
आह निन्द्यमानश्चरेदित्युक्त्वा आद्यं विधानमाचरतः कोऽर्थो निष्पद्यते ॥ भाष्यम् ४.१४ः७
निष्पन्नेन वा कथमभिलप्यते ॥ भाष्यम् ४.१४ः८
तदुच्यते ॥ भाष्यम् ४.१४ः९

अनिन्दितकर्मा ॥ ४.१५ ॥

अत्र चर्योत्तरसम्बन्धाद्गम्यते यदेतदनिन्दितं कर्म धर्मः स एव निन्द्यमानस्याचरतो निष्पद्यते ॥ भाष्यम् ४.१५ः१
अतः अनिन्दितकर्मा भवतीत्यर्थः ॥ भाष्यम् ४.१५ः२
आह निन्द्यमानस्याचरतोऽनिन्दितं कर्म भवतीति क्व सिद्धम् ॥ भाष्यम् ४.१५ः३
तदुच्यते इह यस्मादाह ॥ भाष्यम् ४.१५ः४

सर्वविशिष्टोऽयं पन्थाः ॥ ४.१६ ॥

अत्र अयमिति प्रत्यक्षे ॥ भाष्यम् ४.१६ः१
यथायं पुरुषः ॥ भाष्यम् ४.१६ः२
यथाविधिश्चरिरिति याः क्रियाः अत्राधिकृतस्यानिन्दितं कर्म भवतीत्याह भगवान् ॥ भाष्यम् ४.१६ः३

सत्पथः ॥ ४.१७ ॥

कस्मात् । रुद्रसमीपप्रापणसामर्थ्यात् ॥ भाष्यम् ४.१७ः१
अनावृत्तिप्रापणसामर्थ्याच्चाविकलः ॥ भाष्यम् ४.१७ः२
तस्मात्सर्वज्ञवचनाविसंवादित्वाच्चायं सत्पथ इत्यर्थः ॥ भाष्यम् ४.१७ः३
आह किमन्यत्र पन्थानो न सन्ति इति ॥ भाष्यम् ४.१७ः४
उच्यते सन्ति ॥ भाष्यम् ४.१७ः५
किंतु ॥ भाष्यम् ४.१७ः६

कुपथास्त्वन्ये ॥ ४.१८ ॥

अत्र कु कुत्सायां भवति ॥ भाष्यम् ४.१८ः१
कस्मात् ॥ भाष्यम् ४.१८ः२
कुशब्दप्रयोगाद्गम्यते ॥ भाष्यम् ४.१८ः३
कुपुरुषवत् ॥ भाष्यम् ४.१८ः४
पन्थानो विधय उपाया इत्यर्थः ॥ भाष्यम् ४.१८ः५
तुशब्दोऽनावृत्त्युत्कर्षे ॥ भाष्यम् ४.१८ः६
अन्ये इति ॥ भाष्यम् ४.१८ः७
गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषाण्डिनां पन्थानः ॥ भाष्यम् ४.१८ः८
ते कुपथाः ॥ भाष्यम् ४.१८ः९
न ॥ भाष्यम् ४.१८ः१०
आह अयमेव सत्पथः शेषाः कुपथा इति क्व सिद्धम् ॥ भाष्यम् ४.१८ः११
किं वास्य सत्पथत्वम् ॥ भाष्यम् ४.१८ः१२
शेषाणां वा कुपथत्वं किमिति ॥ भाष्यम् ४.१८ः१३
उच्यते इह ॥ भाष्यम् ४.१८ः१४
यस्मादाह ॥ भाष्यम् ४.१८ः१५

अनेन विधिना रुद्रसमीपं गत्वा ॥ ४.१९ ॥

अत्र अनेन इत्यनपेक्षणे । विधिना भस्मस्नानक्राथनादिनोपायेनेत्यर्थः ॥ भाष्यम् ४.१९ः१
विधिनेति तृतीया ॥ भाष्यम् ४.१९ः२
रुद्र इति कालोपदेशे ॥ भाष्यम् ४.१९ः३
रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्यम् ४.१९ः४
समीपमिति योगपर्यायः ॥ भाष्यम् ४.१९ः५
कथं गम्यते ॥ भाष्यम् ४.१९ः६
विध्यनन्तरोक्तत्वात् ॥ भाष्यम् ४.१९ः७
सति विधिविषयत्वे पुरुषेश्वरयोर्विषयाधिकारकृतं वियोगं दृष्ट्वा ज्ञानपरिदृष्टेन विधिनाध्ययनध्यानाधिकृतो विशुद्धभावः समीपस्थ इत्यर्थः ॥ भाष्यम् ४.१९ः८
गतिः प्राप्तिर्भावस्येत्यर्थः ॥ भाष्यम् ४.१९ः९
त्वा इति विधिकर्मणोर्निष्ठा ॥ भाष्यम् ४.१९ः१०
आह अत्रैवं विध्याचरणं समीपगमनं च कस्योपदिश्यते ॥ भाष्यम् ४.१९ः११
उच्यते न तीर्थयात्रादिधर्मवत्सर्वेषाम् ॥ भाष्यम् ४.१९ः१२
किंतु संस्कारवद्ब्राह्मणस्यैव ॥ भाष्यम् ४.१९ः१३
यस्मादाह ॥ भाष्यम् ४.१९ः१४

न कश्चिद्ब्राह्मणः पुनरावर्तते ॥ ४.२० ॥

अत्र नकारोपदेशोऽन्याचरणप्रतिपत्तिप्रतिषेधार्थः ॥ भाष्यम् ४.२०ः१
कश्चिदिति गृहस्थाद्यः ॥ भाष्यम् ४.२०ः२
स्थानमात्रवैलक्षण्यदर्शनाद्ब्राह्मणेष्वेव कश्चिच्छब्दः ॥ भाष्यम् ४.२०ः३
गृहस्थो ब्रह्मचारी वानप्रस्थो भिक्षुरेकवेदो द्विवेदस्त्रिवेदश्चतुर्वेदो गायत्रीमात्रसारो वानेन विधिना रुद्रसमीपं प्राप्तः सन्न कश्चिद्ब्राह्मणः पुनरावर्तत इत्यर्थः ॥ भाष्यम् ४.२०ः४
ब्राह्मणग्रहणं ब्राह्मण्यावधारणार्थं ब्राह्मण एव नान्य इत्यर्थः ॥ भाष्यम् ४.२०ः५
क्षेत्रज्ञे च ब्राह्मणसंज्ञा ॥ भाष्यम् ४.२०ः६
कस्मात् ॥ भाष्यम् ४.२०ः७
उपचयजन्मयोगात्संस्कारयोगात्श्रुतयोगाच्च ब्राह्मणः ॥ भाष्यम् ४.२०ः८
पुनःशब्दः पुनरावृत्तिप्रतिषेधे ॥ भाष्यम् ४.२०ः९
यथा पूर्वसंज्ञानादिभिर्गत्वा आवर्तते पुनः पुनः तथानेन विधिना रुद्रसमीपं गत्वा न सकृदावर्तते ॥ भाष्यम् ४.२०ः१०
पुनः पुनः सर्वथापि नावर्तत इत्यर्थः ॥ भाष्यम् ४.२०ः११
आङिति स्वशास्त्रोक्तमर्यादामधिकुरुते अभिविध्यर्थं च ॥ भाष्यम् ४.२०ः१२
ये चानेन विधिनाक्षपिताज्ञानकलुषपापमायादयः क्षीणाः ते पुनः पुनरावर्तन्ते ॥ भाष्यम् ४.२०ः१३
न तैः सह संयोगो भवति ॥ भाष्यम् ४.२०ः१४
न चापरं जन्म प्रतिपद्यत इत्यर्थः ॥ भाष्यम् ४.२०ः१५
एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्यम् ४.२०ः१६

अत्रेदं ब्रह्म जपेत् ॥ ४.२१ ॥
अस्य पूर्वोक्तोऽर्थः ॥ भाष्यम् ४.२१ः१
आह किं पुनस्तद्ब्रह्म ॥ भाष्यम् ४.२१ः२
तदुच्यते कारणादिभावेनोक्तस्य भगवत एकत्वं साधको ज्ञात्वा तत्साधनमारभते ॥ भाष्यम् ४.२१ः३

तत्पुरुषाय विद्महे ॥ ४.२२ ॥

अत्र पूर्वं कारणत्वबहुत्वनानात्वेनोपदिष्टस्य परामर्शः तदिति ॥ भाष्यम् ४.२२ः१
पुरुष इति पौरुष्यानुपूरणाच्च पुरुषः ॥ भाष्यम् ४.२२ः२
पौरुष्यमस्यानेकेषु रूपेष्ववस्थानात् ॥ भाष्यम् ४.२२ः३
तत्संस्थानि रूपाणि अघोरादीनि ॥ भाष्यम् ४.२२ः४
तत्पुरुषायेति चतुर्थी ॥ भाष्यम् ४.२२ः५
यथा ग्रामाय तत्त्वं ज्ञातुमिच्छति तथा पुरुषाय तत्त्वं ज्ञातुमिच्छति ॥ भाष्यम् ४.२२ः६
विद्मह इति ॥ भाष्यम् ४.२२ः७
विद ज्ञाने ॥ भाष्यम् ४.२२ः८
विद्महे जानीमहे उपलभामह इत्यर्थः ॥ भाष्यम् ४.२२ः९
आह पुरुषबहुत्वात्संदेहः ॥ भाष्यम् ४.२२ः१०
अथ कतमस्मै पुरुषाय ॥ भाष्यम् ४.२२ः११
तदुच्यते ॥ भाष्यम् ४.२२ः१२

महादेवाय धीमहि ॥ ४.२३ ॥

अत्र महादेवत्वं च पूर्वोक्तं महादेवायेति चतुर्थी ॥ भाष्यम् ४.२३ः१
धीमहि इति ॥ भाष्यम् ४.२३ः२
धीङ्संश्लेषणे ॥ भाष्यम् ४.२३ः३
ध्यायेमहि लीयामहे ज्ञानक्रियाशक्तिभ्यां संयुज्यामह इत्यर्थः ॥ भाष्यम् ४.२३ः४
अत्र धी इति ज्ञानशक्तिपर्यायः ॥ भाष्यम् ४.२३ः५
यया सर्वपदार्थानां तत्त्वमधिगच्छति सा ज्ञानशक्तिः ॥ भाष्यम् ४.२३ः६
महि इति क्रियाशक्तिपर्यायः ॥ भाष्यम् ४.२३ः७
यया विधियोगाचरणसमर्थो भवति सा क्रियाशक्तिरित्यर्थः ॥ भाष्यम् ४.२३ः८
आह अथैते दृक्क्रियाशक्ती महादेवात्साधकः किं स्वशक्तित आसादयति आहोस्वित्परशक्तितः उतोभयशक्तितः ॥ भाष्यम् ४.२३ः९
तदुच्यते परशक्तितः ॥ भाष्यम् ४.२३ः१०
यस्मादाह ॥ भाष्यम् ४.२३ः११

तन्नो रुद्रः प्रचोदयात् ॥ ४.२४ ॥

तदिति दृक्क्रियाशक्त्योर्ग्रहणम् ॥ भाष्यम् ४.२४ः१
न इत्यात्मापदेशे ॥ भाष्यम् ४.२४ः२
अस्माकमित्यर्थः ॥ भाष्यम् ४.२४ः३
रुद्र इति कारणापदेशे ॥ भाष्यम् ४.२४ः४
रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्यम् ४.२४ः५
प्र इत्यादिकर्मणि ॥ भाष्यम् ४.२४ः६
चुद प्रेरणे ॥ भाष्यम् ४.२४ः७
चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः ॥ भाष्यम् ४.२४ः८
यादिति लिप्सा ॥ भाष्यम् ४.२४ः९
संयोजयस्व मामित्यर्थः ॥ भाष्यम् ४.२४ः१०
उक्तं हि रुद्रस्येच्छापूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः तच्चोदनमाहुराचार्याः ॥ भाष्यम् ४.२४ः११

ড়ाशुपतसूत्र, ५

असङ्गः ॥ ५.१ ॥

अत्र अकारः सङ्गप्रतिषेधे ॥ भाष्यम् ५.१ः१
अत्र सङ्गो नाम यदेतत्पुरुषे विषयित्वम् ॥ भाष्यम् ५.१ः२
तेन विषयित्वेन योगादधर्मेण चायं पुरुषो यदा अध्ययनध्यानादिभ्यश्च्यवति ॥ भाष्यम् ५.१ः३
दृष्टान्तश्रवणप्रेक्षणलक्षणो वनगजवत्त्रैकाल्यमित्यर्थः ॥ भाष्यम् ५.१ः४
असङ्गित्वमप्यतीतानागतवर्तमानानां विषयाणामनुचिन्तनं भिक्षुवत् ॥ भाष्यम् ५.१ः५
एवं महेश्वरे भावस्थितिस्तदसङ्गित्वमित्यर्थः ॥ भाष्यम् ५.१ः६
आह किमसङ्गित्वमेवैकमुक्तं नान्यल्लक्षणम् ॥ भाष्यम् ५.१ः७
उच्यते यस्मादाह ॥ भाष्यम् ५.१ः८

योगी ॥ ५.२ ॥

इति ॥ भाष्यम् ५.२ः१
अत्र योगो नामात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ भाष्यम् ५.२ः२
उक्तं हि । शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गतिवादितैः । क्रियमाणैर्न बुध्येत एतद्युक्तस्य लक्षणम् ॥ भाष्यम् ५.२ः३
इति ॥ भाष्यम् ५.२ः४
आह किं लक्षणद्वयमेवात्र युक्तस्योच्यते ॥ भाष्यम् ५.२ः५
न ॥ भाष्यम् ५.२ः६
यस्मादाह ॥ भाष्यम् ५.२ः७

नित्यात्मा ॥ ५.३ ॥

अत्र नित्यत्वविशेषणेनानित्यत्वं निवर्तते ॥ भाष्यम् ५.३ः१
नित्यत्वं नाम सति विभुत्वे पुरुषेश्वरयोर्मनसा सह गतस्यात्मताभावस्य वृत्त्याकारस्य विषयं प्रति क्रमोऽक्षोपोऽवस्थानं वृक्षशकुनिवत् ॥ भाष्यम् ५.३ः२
तस्मिन्निर्वृत्ते महेश्वरे युक्तो नित्य इत्युच्यते ॥ भाष्यम् ५.३ः३
आत्मा इति क्षेत्रज्ञमाह ॥ भाष्यम् ५.३ः४
कथं गम्यते ॥ भाष्यम् ५.३ः५
चित्तस्थित्युपदेशाद्योगार्थं विद्याचरणोपदेशादसङ्गयोगियुक्तात्माजमैत्रादीनां चेतने सम्भवात्न त्वचेतनेषु कार्यकरणप्रधानादिषु ॥ भाष्यम् ५.३ः६
तस्मिंश्चेतने आत्मशब्दः ॥ भाष्यम् ५.३ः७
आत्मा च कस्मात् ॥ भाष्यम् ५.३ः८
अततीत्यात्मा ॥ भाष्यम् ५.३ः९
आपूर्य कार्यकरणं विषयांश्चेतयतीत्यात्मा ॥ भाष्यम् ५.३ः१०
उक्तं हि । यदाप्नोति यदादत्ते यच्चात्ति विषयान् पुनः । यच्चास्य सततं भावः तस्मादात्मेति संज्ञितः ॥ भाष्यम् ५.३ः११
स च श्रोता स्प्रष्टा द्रष्टा रसयिता घ्राता मन्ता वक्ता बोद्धा इत्येवमादिः ॥ भाष्यम् ५.३ः१२
उक्तं हि । पुरुषश्चेतनो भोक्ता क्षेत्रज्ञः पुद्गलो जनः । अणुर्वेदोऽमृतः साक्षी जीवात्मा परिभूः परः ॥ भाष्यम् ५.३ः१३
इति । तस्य सुखदुःखेच्छाद्वेषप्रयत्नचैतन्यादिभिर्लिङ्गैरधिगमः क्रियत इत्यर्थः ॥ भाष्यम् ५.३ः१४
आह किं लक्षणत्रयमेवास्य युक्तस्योच्यते ॥ भाष्यम् ५.३ः१५
न यस्मादाह ॥ भाष्यम् ५.३ः१६

अजः ॥ ५.४ ॥

अत्र अज इत्यर्थान्तरप्रादुर्भावप्रतिषेधोऽभिधीयते ॥ भाष्यम् ५.४ः१
अत्रार्थान्तरं नाम शब्दस्पर्शरूपरसगन्धान्तरमध्ययनध्यानस्मरणादयः ॥ भाष्यम् ५.४ः२
तेषु न जायत इति अजः ॥ भाष्यम् ५.४ः३
आह किं लक्षणचतुष्कमेवास्य युक्तस्योच्यते ॥ भाष्यम् ५.४ः४
न ॥ भाष्यम् ५.४ः५
यस्मादाह ॥ भाष्यम् ५.४ः६

मैत्रः ॥ ५.५ ॥

अत्र मैत्र इति समतायां भवति ॥ भाष्यम् ५.५ः१
यथा मैत्र आदित्यः ॥ भाष्यम् ५.५ः२
सर्वभूतस्थिते च महेश्वरे स्थितचित्तः इच्छाद्वेषविनिवृत्तोऽप्रवृत्तिमान्मैत्र इत्युच्यते ॥ भाष्यम् ५.५ः३
तस्मात्कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन जायते ॥ भाष्यम् ५.५ः४
आह अथ कथं पुनरेतद्गम्यते ॥ भाष्यम् ५.५ः५
यथा कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन जायते ॥ भाष्यम् ५.५ः६
उच्यते गम्यते ॥ भाष्यम् ५.५ः७
यस्मादाह ॥ भाष्यम् ५.५ः८

अभिजायते ॥ ५.६ ॥

अत्र अभिशब्दो विशेषणे ॥ भाष्यम् ५.६ः१
को विशेष इति चेत् ॥ भाष्यम् ५.६ः२
तदुच्यते ॥ भाष्यम् ५.६ः३
यस्मादयं सङ्गी अयोगी अनित्यात्मा अनजोऽमैत्रश्च भूत्वा असङ्गादिभावेन जायत इत्येष विशेषः ॥ भाष्यम् ५.६ः४
जायते इति ॥ भाष्यम् ५.६ः५
जनी प्रादुर्भावे ॥ भाष्यम् ५.६ः६
तस्मात्कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन युगपज्जायते अवश्यादिवदित्यर्थः ॥ भाष्यम् ५.६ः७
असङ्गादिभावे कोऽसावभ्युपायो येन जायते ॥ भाष्यम् ५.६ः८
उच्यते ॥ भाष्यम् ५.६ः९

इन्द्रियाणामभिजयात् ॥ ५.७ ॥

अत्र जितता जयः ॥ भाष्यम् ५.७ः१
तस्माज्जयादसङ्गतादि भवति ॥ भाष्यम् ५.७ः२
अत्र परिग्रहतयेश्वराणि इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि ॥ भाष्यम् ५.७ः३
तेषामभिजयादित्यर्थः ॥ भाष्यम् ५.७ः४
आह कथं बुद्धिसिद्धिरिति चेत् ॥ भाष्यम् ५.७ः५
तदुच्यते सिद्धत्वात् ॥ भाष्यम् ५.७ः६
अत्र मतिबुद्धिपिधानस्थापनोद्देशाद्घटपटवत्सिद्धत्वाच्च बुद्धिः सिद्धा तथा परोपदेशात्स्वात्मपरात्मप्रतिविभागदर्शनात्सुरोऽहं नरोऽहमिति भिन्नवृत्तित्वाच्चाहंकारः सिद्धः ॥ भाष्यम् ५.७ः७
तथा मनः प्रवर्तते मनोजवी मनोऽमन इति संकल्पविकल्पवृत्तिनानात्वं च सिद्धम् ॥ भाष्यम् ५.७ः८
एवं त्रिकालवृत्त्यन्तःकरणं पुरुषस्य व्याख्यातम् ॥ भाष्यम् ५.७ः९
तथा बुद्धीन्द्रियाणां श्रोत्रं व्याख्यातम् ॥ भाष्यम् ५.७ः१०
परपरिवादादिवचनादुच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं सामन्ताच्छब्दव्यञ्जनसमर्थं सिद्धम् ॥ भाष्यम् ५.७ः११
तथातितपोपदेशात्त्वगन्तर्बहिश्च शरीरं व्याप्य संनिविष्टा स्पर्शव्यञ्जनसमर्था सिद्धा ॥ भाष्यम् ५.७ः१२
तथा मूत्रपुरीषदर्शनप्रतिषेधात्कृतान्नादिवचनाच्च चक्षुः उच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं घटरूपादि व्यञ्जनसमर्थं सिद्धम् ॥ भाष्यम् ५.७ः१३
तथा मांसलवणोपदेशाज्जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा ॥ भाष्यम् ५.७ः१४
तथा प्राणायामोपदेशाद्घ्राणं प्रमुखे उच्चैरुभयथा द्विरधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् ॥ भाष्यम् ५.७ः१५
एवमधिकारिवृत्तिभिर्बुध्यत्येभिः पुरुष इति बुद्धीन्द्रियाणि ॥ भाष्यम् ५.७ः१६
तथा कर्मेन्द्रियाणि ॥ भाष्यम् ५.७ः१७
मण्टनविहरणोपदेशात्पादेन्द्रियमधस्ताद्द्विरधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् ॥ भाष्यम् ५.७ः१८
तथा मूत्रपुरीषदर्शनप्रतिषेधात्पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टमुत्सर्गक्रियासमर्थं सिद्धम् ॥ भाष्यम् ५.७ः१९
तथा स्त्रीप्रतिषेधादुपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टमानन्दक्रियासमर्थं सिद्धम् ॥ भाष्यम् ५.७ः२०
तथा अपि तत्कर्मोपदेशाथस्तेन्द्रियमुच्चैरुभयथा द्विरधिष्ठाने भुजान्तर्देशे संनिविष्टमादानक्रियासमर्थं सिद्धम् ॥ भाष्यम् ५.७ः२१
तथा अपि तद्भाषणोपदेशाद्वागिन्द्रियं वाक्तालुजिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् ॥ भाष्यम् ५.७ः२२
अत्र विकारतद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि एवमेतानि त्रयोदश करणानीन्द्रियाणि सूत्रतो व्याख्यातानि ॥ भाष्यम् ५.७ः२३
कस्मात् ॥ भाष्यम् ५.७ः२४
इन्द्रियाणामिति सामान्यग्रहणाद्विकरणवत्सामान्यप्रतिषेधाच्च ॥ भाष्यम् ५.७ः२५
इन्द्रियाणामिति षष्ठीबहुवचनम् ॥ भाष्यम् ५.७ः२६
उक्तं हि । आदानाद्ग्रहणात्त्यागाद्रङ्गणाद्गमनात्तथा । इङ्गनाद्रवणाच्चैव तस्मादिन्द्रियमुच्यते ॥ भाष्यम् ५.७ः२७
अभिजयादिति ॥ भाष्यम् ५.७ः२८
अभिशब्दः अत्यन्तविजये वशीकरणे च ॥ भाष्यम् ५.७ः२९
आक्रम्य वशीकर्तव्यानि ॥ भाष्यम् ५.७ः३०
वायुकामक्रोधपाटलिपुत्रवत् ॥ भाष्यम् ५.७ः३१
तस्मादकुशलेभ्यो व्यावर्तयित्वा कामतः कुशलं योजितानि तदा जितानि भवन्ति ॥ भाष्यम् ५.७ः३२
तस्मादुक्तमिन्द्रियाणामभिजयादिति असङ्गादिजन्मनिमित्तत्वात्पञ्चमी द्रष्टव्या ॥ भाष्यम् ५.७ः३३
आह अन्यत्र सांख्ययोगादीनामसङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ताः ॥ भाष्यम् ५.७ः३४
निरभिलप्या मुक्ता इत्युच्यन्ते मुक्त एव न युक्त इति क्व सिद्धम् ॥ भाष्यम् ५.७ः३५
तदुच्यते इह यस्मादाह ॥ भाष्यम् ५.७ः३६

रुद्रः प्रोवाच तावत् ॥ ५.८ ॥

तत्र रुद्र इति कारणापदेशे ॥ भाष्यम् ५.८ः१
रुद्रत्वं पूर्वोक्तम् ॥ भाष्यम् ५.८ः२
प्र इत्यभिधानविशुद्धौ ॥ भाष्यम् ५.८ः३
प्रसन्नेन्द्रियवत् ॥ भाष्यम् ५.८ः४
वच व्यक्तायां वाचि ॥ भाष्यम् ५.८ः५
प्रोवाच इति ॥ भाष्यम् ५.८ः६
एवं यत्सांख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ता इति तदविशुद्धं तेषां दर्शनम् ॥ भाष्यम् ५.८ः७
तैमिरिकस्य चक्षुषश्चन्द्रदर्शनवत् ॥ भाष्यम् ५.८ः८
अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं द्रष्टव्यम् ॥ भाष्यम् ५.८ः९
कस्मात् ॥ भाष्यम् ५.८ः१०
सर्वज्ञवचनादविसंवादित्वाच्चैतद्गम्यम् ॥ भाष्यम् ५.८ः११
एवमेतन्नान्यथेत्यर्थः ॥ भाष्यम् ५.८ः१२
किंचान्यदिदमथशब्दादि शिवान्तं प्रवचनं रुद्रप्रोक्तं तावत्सर्वतन्त्राणां श्रेष्ठम् ॥ भाष्यम् ५.८ः१३
तस्मात्कारणशास्त्रयोः परप्रमाणभावोऽवधार्यत इत्यर्थः ॥ भाष्यम् ५.८ः१४
अत्र श्लोको निर्वचनः ॥ भाष्यम् ५.८ः१५
आह किमेतानीन्द्रियाणि परिज्ञानमात्रादेव जितानि भवन्ति प्रधानवत् ॥ भाष्यम् ५.८ः१६
तदुच्यते न ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः यस्मादेषां जये भगवता वसत्यर्थवृत्तिबलक्रियालाभाय वसता इत्यतस्तज्जये वसत्यर्थ एव तावदुच्यते ॥ भाष्यम् ५.८ः१७
यस्मादाह ॥ भाष्यम् ५.८ः१८

शून्यागारगुहावासी ॥ ५.९ ॥

इति ॥ भाष्यम् ५.९ः१
अत्र शून्यमेवागारं शून्यागारम् ॥ भाष्यम् ५.९ः२
शून्यं विविक्तं निर्जनमित्यर्थः ॥ भाष्यम् ५.९ः३
आगारमिति गृहपर्यायः आगारं गृहं वेश्म सदनमिति पर्यायः ॥ भाष्यम् ५.९ः४
गुहू संवरणे ॥ भाष्यम् ५.९ः५
प्रविष्टं साधकमावरयति गोपयतीति गुहा ॥ भाष्यम् ५.९ः६
आह आवरकत्वाविशेषाच्छून्यागारगुहयोरविशेष इति चेत्तदुच्यते मृत्तृणकाष्ठादिकृतमगारं पर्वतगुहाद्या गुहा ॥ भाष्यम् ५.९ः७
तस्मान्नाविशेष इति ॥ भाष्यम् ५.९ः८
यथा सति विभुत्वे ज्ञत्वं साधर्म्यं पुरुषेश्वरयोः सर्वज्ञत्वतो विशेषः ॥ भाष्यम् ५.९ः९
तस्मादायतनेऽविविक्तदोषं दृष्ट्वा शून्यागारे गुहायां वा यथोपपत्तितो विचार्य विविक्तं विवेच्य यन्मात्रस्थानासनशयनादिभिरुपजीवति तन्मात्रं संस्करणमर्यादयोपयोगक्रियाभिनिविष्टेन वस्तव्यम् ॥ भाष्यम् ५.९ः१०
वसतिसंयोगाद्गुहावासी भवति ॥ भाष्यम् ५.९ः११
पुलिनवासिवत् ॥ भाष्यम् ५.९ः१२
आह तत्कथं ज्ञेयं यथा जितानीन्द्रियाणि ॥ भाष्यम् ५.९ः१३
तेषां जितानां वा किं लक्षणम् ॥ भाष्यम् ५.९ः१४
तदुच्यते ॥ भाष्यम् ५.९ः१५

देवनित्यः ॥ ५.१० ॥

अत्र देवो भगवान् ॥ भाष्यम् ५.१०ः१
तत्र यदास्य भगवति देवे नित्यता कथम् ॥ भाष्यम् ५.१०ः२
अध्ययनध्यानाभ्यां देवेऽधिकृतस्य प्राधान्येन निश्चलता वर्तते ॥ भाष्यम् ५.१०ः३
स्वल्पतरव्यवधानेऽपि अतियोगाभ्यासनिरन्तरप्राप्तिः ॥ भाष्यम् ५.१०ः४
स्मृतिस्तु देवनित्यतेत्यर्थः ॥ भाष्यम् ५.१०ः५
आह देवनित्यतायाः किं लक्षणम् ॥ भाष्यम् ५.१०ः६
तदुच्यते जितेन्द्रियत्वम् ॥ भाष्यम् ५.१०ः७
यस्मादाह ॥ भाष्यम् ५.१०ः८

जितेन्द्रियः ॥ ५.११ ॥

अत्र जितेन्द्रियत्वं नाम उत्सर्गनिग्रहयोग्यत्वम् ॥ भाष्यम् ५.११ः१
इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि पूर्वोक्तानि ॥ भाष्यम् ५.११ः२
तानि यदा अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशले योजितानि हतविषदर्वीकरवदवस्थितानि भवन्ति तदा देवनित्यो जितेन्द्रिय इत्यर्थः ॥ भाष्यम् ५.११ः३
आह किं देवनित्यतैवास्य परो निष्ठायोगः ॥ भाष्यम् ५.११ः४
उच्यते न ॥ भाष्यम् ५.११ः५
यस्मादाह ॥ भाष्यम् ५.११ः६

षण्मासान्नित्ययुक्तस्य ॥ ५.१२ ॥

अथवान्यो दूरस्थः सम्बन्धः ॥ भाष्यम् ५.१२ः१
यस्मादुक्तम् । यस्य येनार्थसम्बन्धो दूरस्थमपि तेन हि । अर्थतोऽन्यसमानानामानन्तर्येऽप्यसंगतिः ॥ भाष्यम् ५.१२ः२
एवमिहापि दूरस्थः सम्बन्धः कस्मात् ॥ भाष्यम् ५.१२ः३
इह पुरस्तादुक्तं विज्ञानानि चास्य प्रवर्तन्ते इति एतैर्गुणैर्युक्त इति च ॥ भाष्यम् ५.१२ः४
कियता कालेनास्य ते गुणाः प्रवर्तन्ते ॥ भाष्यम् ५.१२ः५
किं युक्तस्य किं वियुक्तस्य किं युगपत्क्रमशो वा किं सकलस्य निष्कलस्य वेति ॥ भाष्यम् ५.१२ः६
इत्येषामर्थानामनिर्वचनानां निर्वचनार्थमिदमारभ्यते ॥ भाष्यम् ५.१२ः७
यस्मादाह षण्मासान्नित्ययुक्तस्य ॥ भाष्यम् ५.१२ः८
अत्र षडिति संख्या मासानिति कालनिर्देशः ॥ भाष्यम् ५.१२ः९
मनुष्यगणनया त्रिंशद्दिवसो मासः ॥ भाष्यम् ५.१२ः१०
द्वादश मासाः संवत्सरः ॥ भाष्यम् ५.१२ः११
द्वादश पक्षा अर्धसंवत्सरः ॥ भाष्यम् ५.१२ः१२
षण्मासानिति ॥ भाष्यम् ५.१२ः१३
तस्मात्षष्ठप्रथममासयोरभ्यन्तरे ॥ भाष्यम् ५.१२ः१४
नित्ययुक्तस्य ॥ भाष्यम् ५.१२ः१५
संततमविच्छिन्नमित्यर्थः ॥ भाष्यम् ५.१२ः१६
युक्त इति ॥ भाष्यम् ५.१२ः१७
आत्मेश्वरसंयोगो योगः ॥ भाष्यम् ५.१२ः१८
नित्ययुक्तस्य इति षष्ठी ॥ भाष्यम् ५.१२ः१९
आह अस्य युक्तस्य किं भवति ॥ भाष्यम् ५.१२ः२०
तदुच्यते ॥ भाष्यम् ५.१२ः२१

भूयिष्ठं सम्प्रवर्तते ॥ ५.१३ ॥

अत्र भूयिष्ठमिति क्रमे प्राये च भवति ॥ भाष्यम् ५.१३ः१
यथा क्रमशो ददाति आदित्यो वा गतो भूयिष्ठम् ॥ भाष्यम् ५.१३ः२
तस्मात्सूच्यग्रेणोत्पलपत्त्रशतभेदनक्रमवत्क्रमाद्दूरदर्शनादयः प्रवर्तन्त इत्यर्थः ॥ भाष्यम् ५.१३ः३
समित्येकीभावे ॥ भाष्यम् ५.१३ः४
निष्कलस्य कार्यकरणरहितस्येत्यर्थः ॥ भाष्यम् ५.१३ः५
प्र इत्यादिकर्मण्यारम्भे भवति ॥ भाष्यम् ५.१३ः६
युक्तोत्तरे प्रभावाद्गुणाः प्रवर्तन्ते इत्यर्थः ॥ भाष्यम् ५.१३ः७
वर्तते कस्मिन् ॥ भाष्यम् ५.१३ः८
दर्शनं दृश्ये श्रवणादि श्रव्यादिष्वित्यर्थः ॥ भाष्यम् ५.१३ः९
तस्मात्षष्ठप्रथममासयोरभ्यन्तरे नित्ययुक्तस्य क्रमशो गुणाः सम्प्रवर्तन्ते ॥ भाष्यम् ५.१३ः१०
कुतः ॥ भाष्यम् ५.१३ः११
महेश्वरप्रसादात् ॥ भाष्यम् ५.१३ः१२
अशिवत्वसंज्ञके विनिवृत्ते शिवत्वप्रसादाभ्यां गुणाः प्रवर्तन्ते ॥ भाष्यम् ५.१३ः१३
गुणशब्दो दूरदर्शनादिवचनः ॥ भाष्यम् ५.१३ः१४
आह कां वृत्तिमास्थाय शून्यागारे गुहायां वासः कार्यः ॥ भाष्यम् ५.१३ः१५
तदुच्यते ॥ भाष्यम् ५.१३ः१६

भैक्ष्यम् ॥ ५.१४ ॥

भिक्षाणां समूहो भैक्ष्यं कापोतवत् ॥ भाष्यम् ५.१४ः१
तच्च नगरग्रामादिभ्यो गृहाद्गृहं पर्यटतो भक्ष्यभोज्यादीनामन्यतमं यत्प्राप्यते कृतान्नादिवचनाद्भैक्ष्यम् ॥ भाष्यम् ५.१४ः२
भयक्षपणाद्भैक्ष्यम् ॥ भाष्यम् ५.१४ः३
भिक्षावचनादभैक्ष्यप्रतिषेधः ॥ भाष्यम् ५.१४ः४
आह आधारात्तु कृत्वा संदेहः अथ कुत्र तद्भैक्ष्यं ग्राह्यम् ॥ भाष्यम् ५.१४ः५
तदुच्यते पात्रे ॥ भाष्यम् ५.१४ः६
यस्मादाह ॥ भाष्यम् ५.१४ः७

पात्रागतम् ॥ ५.१५ ॥

अत्र भैक्ष्यवत्प्रसिद्धं पात्रम् ॥ भाष्यम् ५.१५ः१
अलाबुदारुवस्त्रादीनामन्यतमं यत्प्राप्यते तत्खलु हिंसास्तेयादिरहितेन क्रमेणाहारे यत्पर्याप्तं ग्राह्यम् ॥ भाष्यम् ५.१५ः२
तस्मिन् तदफलके पात्रे आगतं पात्रागतमित्यर्थः ॥ भाष्यम् ५.१५ः३
आह ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति ॥ भाष्यम् ५.१५ः४
तत्किं मधुमांसादीन्येकान्तेनैव दुष्टानीति ॥ भाष्यम् ५.१५ः५
तदुच्यते न ॥ भाष्यम् ५.१५ः६
यस्मादाह ॥ भाष्यम् ५.१५ः७

मांसमदुष्यं लवणेन वा ॥ ५.१६ ॥

तत्र भैक्ष्यवत्प्रसिद्धं मांसम् ॥ भाष्यम् ५.१६ः१
यस्य माहिषवाराहादीनामन्यतमं यत्प्राप्यते तत्खलु हिंसास्तेयरहितत्वात् ॥ भाष्यम् ५.१६ः२
लवणेन वा ॥ भाष्यम् ५.१६ः३
अत्र लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत्प्रसिद्धम् ॥ भाष्यम् ५.१६ः४
तदेतन्मांससमसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् ॥ भाष्यम् ५.१६ः५
अदुष्यमकुत्सितमगर्हितमित्यर्थः ॥ भाष्यम् ५.१६ः६
वा विकल्पे ॥ भाष्यम् ५.१६ः७
मांसेन वा लवणेन वा उभाभ्यामपि साक्षाद्वा अदुष्यमित्यर्थः ॥ भाष्यम् ५.१६ः८
आह भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् ॥ भाष्यम् ५.१६ः९
तदुच्यते अपः पीत्वा स्थेयम् ॥ भाष्यम् ५.१६ः१०
यस्मादाह ॥ भाष्यम् ५.१६ः११

आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ ५.१७ ॥

अत्र आणापः आपः ॥ भाष्यम् ५.१७ः१
आङिति अत्र संवृतपरिपूतादिमर्यादामधिकुरुते कृतान्नोत्सृष्टवदपदान्तरितत्वात् ॥ भाष्यम् ५.१७ः२
द्वितीयास्थाने प्रथमा द्रष्टव्या ॥ भाष्यम् ५.१७ः३
आपोऽत्र लोकादिप्रसिद्धाः ॥ भाष्यम् ५.१७ः४
तृणादिव्यावृत्तमुदकमित्यर्थः ॥ भाष्यम् ५.१७ः५
वा विभागे ॥ भाष्यम् ५.१७ः६
अन्यद्भैक्ष्यमन्या आप इति ॥ भाष्यम् ५.१७ः७
अपिशब्दः सम्भावने ॥ भाष्यम् ५.१७ः८
अप्यपः पीत्वा स्थेयं न तु शास्त्रव्यपेतेन क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः ॥ भाष्यम् ५.१७ः९
यथा इतिशब्दः समानार्थे ॥ भाष्यम् ५.१७ः१०
यथा भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं तथा अपः पीत्वेति ॥ भाष्यम् ५.१७ः११
कालोऽत्र द्विविधः अलाभकालः अपर्याप्तिकालश्च ॥ भाष्यम् ५.१७ः१२
तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किंचिदासादयति सः अलाभकालः अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा आसादयति तदा अपः पीत्वापि स्थेयम् ॥ भाष्यम् ५.१७ः१३
आह एवं स्थितेन किमनेन कर्तव्यम् ॥ भाष्यम् ५.१७ः१४
तदुच्यते उपयोक्तव्यम् ॥ भाष्यम् ५.१७ः१५
यस्मादाह अश्नीयादनुपूर्वशः इति ॥ भाष्यम् ५.१७ः१६
अश्नीयादिति योगक्रियानुपरोधेनाहारलाघवमर्यादामधिकुरुते ॥ भाष्यम् ५.१७ः१७
अश भोजने ॥ भाष्यम् ५.१७ः१८
अश्नीयादनुपूर्वशः ॥ भाष्यम् ५.१७ः१९
अनु पृष्ठकर्मक्रियायाम् ॥ भाष्यम् ५.१७ः२०
अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च ॥ भाष्यम् ५.१७ः२१
यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्तिकाले वा तदनु पश्चादपः पीत्वा स्थेयमिति कृत्वा भगवता एतदुक्तमश्नीयादनुपूर्वश इति ॥ भाष्यम् ५.१७ः२२
अत्र श्लोको निर्वचनः ॥ भाष्यम् ५.१७ः२३
आह शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं चिन्त्यते किमकलुषत्वमेव ॥ भाष्यम् ५.१७ः२४
तदुच्यते न ॥ भाष्यम् ५.१७ः२५
यस्मादाह ॥ भाष्यम् ५.१७ः२६

गोधर्मा मृगधर्मा वा ॥ ५.१८ ॥

अत्र गौर्लोकादिप्रसिद्धो मृगवत्खुरककुदविषाणसास्नादिमानिति ॥ भाष्यम् ५.१८ः१
तथा मृगोऽपि गोद्रव्यवल्लोकादिप्रसिद्धः कृष्णमृगादीनामन्यतमः ॥ भाष्यम् ५.१८ः२
तयोस्तु सति धर्मबहुत्वे समानो धर्मो गृह्यते आध्यात्मिकादिद्वंद्वसहिष्णुत्वम् ॥ भाष्यम् ५.१८ः३
तदुत्तरत्र वक्ष्यामः ॥ भाष्यम् ५.१८ः४
गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् ॥ भाष्यम् ५.१८ः५
वाशब्दो विकल्पार्थः ॥ भाष्यम् ५.१८ः६
क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवदेकधर्मेण चैकधर्मेण वा स्थेयमित्यर्थः ॥ भाष्यम् ५.१८ः७
आह केन बलेनास्य कार्यनिष्पत्तिः ॥ भाष्यम् ५.१८ः८
तदुच्यते ॥ भाष्यम् ५.१८ः९

अद्भिरेव शुचिर्भवेत् ॥ ५.१९ ॥

अत्र अद्भिः आङिव अद्भिरेव आपो जलमित्यादिप्रसिद्धाः पूर्वोक्ताः ॥ भाष्यम् ५.१९ः१
अद्भिरिति तृतीया ॥ भाष्यम् ५.१९ः२
आङिति पूर्वप्रसिद्धमात्रादिमर्यादामधिकुरुते ॥ भाष्यम् ५.१९ः३
गोमृगवद्द्वंद्वसहिष्णुत्वमर्यादायां च ॥ भाष्यम् ५.१९ः४
इव इति उपमायाम् ॥ भाष्यम् ५.१९ः५
यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि भवन्ति तद्वत् ॥ भाष्यम् ५.१९ः६
गोमृगधर्मित्वेन बलेन शुचिर्भवतीति ॥ भाष्यम् ५.१९ः७
उच्यते न ॥ भाष्यम् ५.१९ः८
यस्मादाह गोमृगयोरकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं सिद्धशक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः ॥ भाष्यम् ५.१९ः९
तदाह ॥ भाष्यम् ५.१९ः१०

सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ ५.२० ॥

असिद्धस्तु सर्वथापि वर्तमानो लिप्यत इत्यर्थः ॥ भाष्यम् ५.२०ः१
अतो योगी सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थमुक्तं सिद्धयोगी इति ॥ भाष्यम् ५.२०ः२
अत्र ॥ भाष्यम् ५.२०ः३
योगो नामात्मेश्वरयोर्योगः ॥ भाष्यम् ५.२०ः४
तेनायं योगी ॥ भाष्यम् ५.२०ः५
सिद्धो नाम दर्शनाद्यैश्वर्यं प्राप्तः ॥ भाष्यम् ५.२०ः६
स खलु वशीकरणावेशनपालनादिप्रवीणः ॥ भाष्यम् ५.२०ः७
न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्यम् ५.२०ः८
आह केन न लिप्यते ॥ भाष्यम् ५.२०ः९
तदुच्यते कर्मणा ॥ भाष्यम् ५.२०ः१०
अत्र कर्मणेत्युच्यते ॥ भाष्यम् ५.२०ः११
कस्मात् ॥ भाष्यम् ५.२०ः१२
कृतकत्वात् ॥ भाष्यम् ५.२०ः१३
कर्मणेति तृतीया ॥ भाष्यम् ५.२०ः१४
इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्यम् ५.२०ः१५
आह अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते आहो अथ किमशुभेन कर्मणा लिप्यते नेति ॥ भाष्यम् ५.२०ः१६
तदुच्यते न ॥ भाष्यम् ५.२०ः१७
यस्मादाह पातकेन ॥ भाष्यम् ५.२०ः१८
अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रियविषयगतोऽशुभं भुङ्क्ते तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत इत्यर्थः ॥ भाष्यम् ५.२०ः१९
वा त्रिकल्पे ॥ भाष्यम् ५.२०ः२०
पातकेन वा अपातकेन वा समस्ताभ्यां वा वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्यम् ५.२०ः२१
कस्मात् ॥ भाष्यम् ५.२०ः२२
सिद्धिसामर्थ्यात् ॥ भाष्यम् ५.२०ः२३
असिद्धश्चायं योगी ब्राह्मणो गोमृगधर्मावस्थो यदि सर्वथापि गोमृगवत्प्रवर्तते ततो लिप्यते ॥ भाष्यम् ५.२०ः२४
तस्माद्गोमृगयोरकुशलधर्मो न ग्राह्यः ॥ भाष्यम् ५.२०ः२५
कुशलधर्मश्च स्वाध्यात्मिकादिद्वंद्वसहिष्णुत्वं परिगृह्यते ॥ भाष्यम् ५.२०ः२६
तेनायं शुचिर्भवति ॥ भाष्यम् ५.२०ः२७
आह किमस्याशौचम् ॥ भाष्यम् ५.२०ः२८
तदुच्यते द्वंद्वैर्योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः शीतादिभिरन्यैर्वा ॥ भाष्यम् ५.२०ः२९
न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्यम् ५.२०ः३०
कस्मात् ॥ भाष्यम् ५.२०ः३१
प्राप्तबलत्वादित्यर्थः ॥ भाष्यम् ५.२०ः३२
अत्र श्लोको निर्वचनः ॥ भाष्यम् ५.२०ः३३
आह शून्यागारगुहावस्थस्येन्द्रियजये वर्ततः काः क्रियाः कर्तव्याः ॥ भाष्यम् ५.२०ः३४
किं स्नानहसिताद्याः क्राथनस्पन्दनमण्टनाद्या वा ॥ भाष्यम् ५.२०ः३५
तदुच्यते न ॥ भाष्यम् ५.२०ः३६
यस्मादाह ॥ भाष्यम् ५.२०ः३७

ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः ॥ ५.२१ ॥

अत्र ऋचमृचामित्यप्यदुष्टः पाठः ॥ भाष्यम् ५.२१ः१
अत्र ऋचा नामाघोरा ॥ भाष्यम् ५.२१ः२
कथं गम्यते ॥ भाष्यम् ५.२१ः३
ऋङ्मध्यात् ॥ भाष्यम् ५.२१ः४
सद्योजाततत्पुरुषेशानवदर्चिवर्चगाः ॥ भाष्यम् ५.२१ः५
इष्टा चेयं तत्र तत्र जप्तव्यत्वेन गुणीकृतत्वात् ॥ भाष्यम् ५.२१ः६
पूर्वोत्तरसूत्रेषु जप्तव्यत्वेन गायत्र्या सहाध्यानादाशुभावसमाध्यासादनाच्च इष्टा ॥ भाष्यम् ५.२१ः७
अध्ययनमिति जप्यपर्यायः ॥ भाष्यम् ५.२१ः८
ईत इत्याज्ञायां नियोगे च ॥ भाष्यम् ५.२१ः९
मानसमेवाधीयीतेत्यर्थः ॥ भाष्यम् ५.२१ः१०
आह किमृचैवैकाध्येतव्या ॥ भाष्यम् ५.२१ः११
उच्यते न ॥ भाष्यम् ५.२१ः१२
यस्मादाह गायत्रीमिति ॥ भाष्यम् ५.२१ः१३
गायत्री नाम तत्पुरुषा ॥ भाष्यम् ५.२१ः१४
निरुक्तमस्याः पूर्वोक्तम् ॥ भाष्यम् ५.२१ः१५
मानसमेवाधीयीतेत्यर्थः ॥ भाष्यम् ५.२१ः१६
आह कीदृशोऽधीयीतेति ॥ भाष्यम् ५.२१ः१७
तदुच्यते आत्मयन्त्रितः ॥ भाष्यम् ५.२१ः१८
आत्मयन्त्रणमिति प्रत्याहारपर्यायः ॥ भाष्यम् ५.२१ः१९
आत्मेति क्षेत्रज्ञ उच्यते ॥ भाष्यम् ५.२१ः२०
आत्मत्वमस्य चैतन्यम् ॥ भाष्यम् ५.२१ः२१
आप्तव्यं कार्यं करणं विषयाश्च ॥ भाष्यम् ५.२१ः२२
आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते ॥ भाष्यम् ५.२१ः२३
यन्त्रणं नाम यथायमात्मभावो ब्रह्मण्यक्षरपदपङ्क्त्यां युक्तो वर्तते तदात्मा यन्त्रितो भवति ॥ भाष्यम् ५.२१ः२४
कथम् ॥ भाष्यम् ५.२१ः२५
नृत्यप्रसक्तचित्तदृष्टान्तात्कस्मात् ॥ भाष्यम् ५.२१ः२६
आत्मात्मभावयोरव्युच्छेदात् ॥ भाष्यम् ५.२१ः२७
गुणगुणिनोरपि तथा युगपद्भावः ॥ भाष्यम् ५.२१ः२८
कथम् ॥ भाष्यम् ५.२१ः२९
यष्टुं प्रवृत्तो यन्त्रयितुं च प्रवृत्त एव भवति ॥ भाष्यम् ५.२१ः३०
भिक्षुवत् ॥ भाष्यम् ५.२१ः३१
तस्माद्यन्त्रणमेवैष प्रत्याहार इति ॥ भाष्यम् ५.२१ः३२
आह अत्र गायत्रीबहुत्वात्संदेहः ॥ भाष्यम् ५.२१ः३३
कथमवगम्यते ऋचा अघोरेण वा तत्पुरुषेणेति ॥ भाष्यम् ५.२१ः३४
उच्यते गम्यते ॥ भाष्यम् ५.२१ः३५
यस्मादाह ॥ भाष्यम् ५.२१ः३६

रौद्रीं वा बहुरूपीं वा ॥ ५.२२ ॥

अत्र रौद्री नाम तत्पुरुषा ॥ भाष्यम् ५.२२ः१
निरुक्तमस्याः पूर्वोक्तम् ॥ भाष्यम् ५.२२ः२
वाशब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः ॥ भाष्यम् ५.२२ः३
बहुरूपी नामाघोरा ॥ भाष्यम् ५.२२ः४
वा विकल्पे ॥ भाष्यम् ५.२२ः५
तुल्यफलत्वात् ॥ भाष्यम् ५.२२ः६
वेत्यत एका चैका वा ॥ भाष्यम् ५.२२ः७
आत्मयन्त्रितोऽधीयीत इत्यर्थः ॥ भाष्यम् ५.२२ः८
आह आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ॥ भाष्यम् ५.२२ः९
तदुच्यते ॥ भाष्यम् ५.२२ः१०

अतो योगः प्रवर्तते ॥ ५.२३ ॥

अत्र अत इति कारणापदेशे ॥ भाष्यम् ५.२३ः१
आत्मयन्त्रितोऽधीयीतेत्यर्थः ॥ भाष्यम् ५.२३ः२
तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः ॥ भाष्यम् ५.२३ः३
योग इति ॥ भाष्यम् ५.२३ः४
आत्मेश्वरसंयोगो योग इति मन्तव्यः ॥ भाष्यम् ५.२३ः५
प्र इत्यादिकर्मणि ॥ भाष्यम् ५.२३ः६
प्रवर्तते इत्यस्य पूर्वोक्तोऽर्थः ॥ भाष्यम् ५.२३ः७
अत्र श्लोको निर्वचनः ॥ भाष्यम् ५.२३ः८
आह ऋचमधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव स्थेयम् ॥ भाष्यम् ५.२३ः९
आहोस्विद्दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रियाध्याननमःस्तव्यम् ॥ भाष्यम् ५.२३ः१०
उच्यते दृष्टा ॥ भाष्यम् ५.२३ः११
यस्मादाह ॥ भाष्यम् ५.२३ः१२

ओंकारमभिध्यायीत ॥ ५.२४ ॥

अत्र ओमित्येष जप्यपर्यायो वामदेवादिवत् ॥ भाष्यम् ५.२४ः१
कारशब्दोऽवधारणे द्रष्टव्यः ॥ भाष्यम् ५.२४ः२
किंकारणम् ॥ भाष्यम् ५.२४ः३
उक्तं हि । प्रणवे नित्ययुक्तस्य व्याहृतिषु च सप्तसु । त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ भाष्यम् ५.२४ः४
इत्यत ओंकार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ॥ भाष्यम् ५.२४ः५
अभिरभ्यासे ॥ भाष्यम् ५.२४ः६
ओंकारसंनिकृष्टचित्तेन भवितव्यम् ॥ भाष्यम् ५.२४ः७
ध्यै चिन्तायाम् ॥ भाष्यम् ५.२४ः८
ध्यानं चिन्तनमित्यर्थः ॥ भाष्यम् ५.२४ः९
उक्तं हि । ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चौंकारलक्षणम् । धीयते लीयते वापि तस्माद्ध्यानमिति स्मृतम् ॥ भाष्यम् ५.२४ः१०
मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ॥ भाष्यम् ५.२४ः११
ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ भाष्यम् ५.२४ः१२
ईत इत्याज्ञायां नियोगे च ॥ भाष्यम् ५.२४ः१३
ओंकार एव ध्येयो नान्य इत्यर्थः । आह ओंकारो ध्येयः ॥ भाष्यम् ५.२४ः१४
को वा ध्यानदेशः ॥ भाष्यम् ५.२४ः१५
कस्मिन् वा देशे धारणा कर्तव्या ॥ भाष्यम् ५.२४ः१६
ध्यायमानेन वा किं कर्तव्यम् ॥ भाष्यम् ५.२४ः१७
तदुच्यते ॥ भाष्यम् ५.२४ः१८

हृदि कुर्वीत धारणाम् ॥ ५.२५ ॥

तत्र हृदि इत्यात्मपर्यायः ॥ भाष्यम् ५.२५ः१
कस्मात् ॥ भाष्यम् ५.२५ः२
पूर्वोत्तरसामर्थ्यात् ॥ भाष्यम् ५.२५ः३
योऽर्थो यत्र मिलति स तत्र स्थापयितव्यः स एवार्थो धारयितव्यः ॥ भाष्यम् ५.२५ः४
किंच वेदप्रामाण्यादुक्तम् । अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ भाष्यम् ५.२५ः५
अन्यत्रापि आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता । आत्मप्रजो भविष्यामि परमं हृदयं हि सः ॥ भाष्यम् ५.२५ः६
अतो हृदयमात्मेत्युक्तम् ॥ भाष्यम् ५.२५ः७
प्रकुरुते भावं बुद्धिरध्यवसायिताम् ॥ भाष्यम् ५.२५ः८
हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः ॥ भाष्यम् ५.२५ः९
तथा लोकेऽपि सन्ति वक्तारो हृदयं ते ज्ञास्यति ॥ भाष्यम् ५.२५ः१०
किमुक्तं भवति ॥ भाष्यम् ५.२५ः११
आत्मा ते ज्ञास्यतीति ॥ भाष्यम् ५.२५ः१२
अतोऽवगम्यते हृदीत्यात्मपर्यायः ॥ भाष्यम् ५.२५ः१३
हृदीति औपश्लेषिकं संनिधानम् ॥ भाष्यम् ५.२५ः१४
अत्र तु ओंकारो धार्यो नात्मा किंतु य एवात्मन्यात्मभावः ॥ भाष्यम् ५.२५ः१५
तस्योंकारात्प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण गतस्य प्रत्यानयनं प्रत्याहारः ॥ भाष्यम् ५.२५ः१६
प्रत्याहृत्य हृदि धारणा कर्तव्या ॥ भाष्यम् ५.२५ः१७
धार्यं चोंकारानुचिन्तनम् ॥ भाष्यम् ५.२५ः१८
तत्रैव सुदीर्घकालमवस्थानमध्ययनम् ॥ भाष्यम् ५.२५ः१९
तद्धारणाहितं परं ध्यानम् ॥ भाष्यम् ५.२५ः२०
निष्ठायोगस्तु स्थापयित्वेति वक्ष्यामः ॥ भाष्यम् ५.२५ः२१
कुर्वीत इति ॥ भाष्यम् ५.२५ः२२
डुकृञ्करणे ॥ भाष्यम् ५.२५ः२३
तस्य सप्तम्यन्ते कुर्वीतेति भवति ॥ भाष्यम् ५.२५ः२४
हृदि धारणा कर्तव्या ॥ भाष्यम् ५.२५ः२५
ईत इत्याज्ञायां नियोगे च ॥ भाष्यम् ५.२५ः२६
पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः ॥ भाष्यम् ५.२५ः२७
हृदि धार्या नान्यत्रेत्यर्थः ॥ भाष्यम् ५.२५ः२८
आह ओंकारः किं परप विष्णुरुमा कुमारश्च चतस्रोऽर्धमात्रा वा ॥ भाष्यम् ५.२५ः२९
उत समानपुरुष इति ॥ भाष्यम् ५.२५ः३०
उच्यते न ॥ भाष्यम् ५.२५ः३१
यस्मादाह ॥ भाष्यम् ५.२५ः३२

ऋषिर्विप्रो महानेषः ॥ ५.२६ ॥

अत्र ऋषिः इत्येतद्भगवता नामधेयम् ॥ भाष्यम् ५.२६ः१
ऋषिः कस्मात् ॥ भाष्यम् ५.२६ः२
ऋषिः क्रियायाम् ॥ भाष्यम् ५.२६ः३
ऋषित्वं नाम क्रियाशंसनादृषिः ॥ भाष्यम् ५.२६ः४
तथा कृत्स्नं कार्यं विद्याद्यमीशत इत्यतः ऋषिः ॥ भाष्यम् ५.२६ः५
तथा विप्र इत्येतदपि भगवतो नाम ॥ भाष्यम् ५.२६ः६
विप्रः कस्मात् ॥ भाष्यम् ५.२६ः७
विद ज्ञाने ॥ भाष्यम् ५.२६ः८
विप्रत्वं नाम ज्ञानशक्तिः ॥ भाष्यम् ५.२६ः९
व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ॥ भाष्यम् ५.२६ः१०
तथा महानित्यभ्यधिकत्वे ॥ भाष्यम् ५.२६ः११
यदेतद्दृक्क्रियालक्षणमस्ति अनागन्तुकमकृतकमैश्वर्यं तद्गुणसद्भावः सतत्त्वं तत्त्वधर्मः तदकृतकं पुरुषचैतन्यवत्तन्नान्यस्येत्यतोऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति महान् ॥ भाष्यम् ५.२६ः१२
एष इति प्रत्यक्षे ॥ भाष्यम् ५.२६ः१३
एष यो मया पूर्वमोमिति श्रोत्रप्रत्यक्षीकृतोऽर्थः असौ विष्णूमाकुमारादीनामन्यतमो न भवति ॥ भाष्यम् ५.२६ः१४
कस्मात् ॥ भाष्यम् ५.२६ः१५
ऋषित्वाद्विप्रत्वान्महत्त्वाच्चेत्यर्थः ॥ भाष्यम् ५.२६ः१६
आह ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ॥ भाष्यम् ५.२६ः१७
कीदृशो वा ओंकारो ध्येयः ॥ भाष्यम् ५.२६ः१८
तदुच्यते ॥ भाष्यम् ५.२६ः१९

वाग्विशुद्धः ॥ ५.२७ ॥

अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् ॥ भाष्यम् ५.२७ः१
न अमी इत्यन्यो भगवान् ॥ भाष्यम् ५.२७ः२
स यथा ह्यथो हित्वा वाणीं मनसा सह रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः ॥ भाष्यम् ५.२७ः३
यस्मादुक्तम् । आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे । येन प्राप्तं योगे मुहूर्तमपि तत्परो योगः ॥ भाष्यम् ५.२७ः४
परमयोग इत्यर्थः ॥ भाष्यम् ५.२७ः५
आह अथ यथायं बालवन्निष्कलस्तथा किं समानपुरुषः ॥ भाष्यम् ५.२७ः६
तदुच्यते न ॥ भाष्यम् ५.२७ः७
यस्मादाह तदाप्ययम् ॥ भाष्यम् ५.२७ः८

महेश्वरः ॥ ५.२८ ॥

अत्रानाद्यज्ञानद्यतिना ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण महेश्वर इति सिद्धमिह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं समानपुरुषवदनीश्वर इत्यस्य संशयस्य संव्युदासार्थमुच्यते महेश्वर इति ॥ भाष्यम् ५.२८ः१
यस्मादस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ॥ भाष्यम् ५.२८ः२
तदकृतकत्वं पुरुषचैतन्यवत् ॥ भाष्यम् ५.२८ः३
अतस्तदाप्ययं महानेवेश्वरो महेश्वरः ॥ भाष्यम् ५.२८ः४
तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ॥ भाष्यम् ५.२८ः५
एवमोंकारमिति ध्येयमुक्तम् ॥ भाष्यम् ५.२८ः६
ध्येयगुणीकरणमुक्तमृषिर्विप्रो महानेष इति ॥ भाष्यम् ५.२८ः७
ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति ॥ भाष्यम् ५.२८ः८
ध्येयशक्तिप्रशंसा चोक्ता महेश्वर इति ॥ भाष्यम् ५.२८ः९
एवं यस्मादिन्द्रियजये वर्तते अतो वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ भाष्यम् ५.२८ः१०
अतोऽत्र युक्तं वक्तुम् ॥ भाष्यम् ५.२८ः११
शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥ भाष्यम् ५.२८ः१२
आह शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च प्राप्ता भवति तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेन दुःखान्तप्राप्तेः स्थेयम् ॥ भाष्यम् ५.२८ः१३
आहोस्विद्दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रियालाभाश्चेति ॥ भाष्यम् ५.२८ः१४
उच्यते दृष्टः ॥ भाष्यम् ५.२८ः१५
यस्मादाह ॥ भाष्यम् ५.२८ः१६

(…) ॥ ५.२९ ॥

आह शून्यागारगुहामुत्सृज्य प्रयोजनाभावात्श्मशाने संक्रान्तिरयुक्तेति चेत् ॥ भाष्यम् ५.२९ः१
तदुच्यते न ॥ भाष्यम् ५.२९ः२
योगव्यासङ्गपरिहारार्थत्वात् ॥ भाष्यम् ५.२९ः३
इहावस्थानादवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रियालाभादयोऽयुतसिद्धा वक्तव्याः ॥ भाष्यम् ५.२९ः४
तत्रादिधर्मा अप्यस्य तावदायतने वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ॥ भाष्यम् ५.२९ः५
तथा असन्मानपरिभवोपदेशादायतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वमिन्द्रियद्वारपिधानं च क्रिया इन्द्रियाणि पिधाय उन्मत्तवदवस्थानं पापक्षयाच्छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते ॥ भाष्यम् ५.२९ः६
तथा वसत्यर्थः शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययनध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता जितेन्द्रियत्वं चेति ॥ भाष्यम् ५.२९ः७
तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा ॥ भाष्यम् ५.२९ः८
यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु सायुज्यम् ॥ भाष्यम् ५.२९ः९
तथोत्तरत्र ऋषिरिति वसत्यर्थः बलमप्रमादः प्रसाद उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति ॥ भाष्यम् ५.२९ः१०
तथोक्तं च । पञ्च लाभान्मलान् पञ्च पञ्चोपायान् विशेषतः । यस्तु बुध्यति पञ्चार्थे स विद्वान्नात्र संशयः ॥ भाष्यम् ५.२९ः११
प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् । योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥ भाष्यम् ५.२९ः१२
अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च । अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥ भाष्यम् ५.२९ः१३
वासो ध्यानमखिलकरणनिरोधस्तथा स्मृतिश्चैव । प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥ भाष्यम् ५.२९ः१४
वासार्थो लोकश्च शून्यागारं तथा श्मशानं च । रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ भाष्यम् ५.२९ः१५
तस्माद्युक्तमुक्तम् ॥ भाष्यम् ५.२९ः१६
स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ॥ भाष्यम् ५.२९ः१७
अत्र श्मशानं नाम यदेतल्लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि परित्यजन्ति तत् ॥ भाष्यम् ५.२९ः१८
शवसम्बन्धात्श्मशानं तस्मिन्नाकाशे वृक्षमूले यथानभिष्वङ्गमर्यादया जितद्वंद्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम् ॥ भाष्यम् ५.२९ः१९
वसतिसंयोगात्श्मशानवासी भवति पुलिनवासिवदित्यर्थः ॥ भाष्यम् ५.२९ः२०
आह किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ॥ भाष्यम् ५.२९ः२१
तदुच्यते न ॥ भाष्यम् ५.२९ः२२
यस्मादाह ॥ भाष्यम् ५.२९ः२३

श्मशानवासी ॥ ५.३० ॥

अत्र धर्मो नाम य एष यमनियमपूर्वकोऽभिव्यक्तो माहात्म्यादिधर्मः स पूर्वोक्तः ॥ भाष्यम् ५.३०ः१
सोऽस्यात्मनि प्रचितः ॥ भाष्यम् ५.३०ः२
तेन धर्मेण धर्मात्मा भवतीत्यर्थः ॥ भाष्यम् ५.३०ः३
आह किमस्य भैक्ष्यमेव वृत्तिः ॥ भाष्यम् ५.३०ः४
उच्यते न ॥ भाष्यम् ५.३०ः५
यस्मादाह ॥ भाष्यम् ५.३०ः६

धर्मात्मा ॥ ५.३१ ॥

अत्र यथा इति समानार्थे अम्लादिषु जितेन्द्रियत्वात् ॥ भाष्यम् ५.३१ः१
लब्धमासादितमप्रार्थितमित्यर्थः ॥ भाष्यम् ५.३१ः२
उप इति समीपधारणे ॥ भाष्यम् ५.३१ः३
तद्यथालब्धमन्नपानं श्मशानादनिर्गच्छता दिवसे दिवसे जीवनाय स्थित्यर्थं तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ भाष्यम् ५.३१ः४
आह किं जीवनमेव परो लाभ इति ॥ भाष्यम् ५.३१ः५
उच्यते न ॥ भाष्यम् ५.३१ः६
यस्मादाह ॥ भाष्यम् ५.३१ः७

यथालब्धोपजीवकः लभते रुद्रसायुज्यम् ॥ ५.३२ ॥

अत्र लभते विन्दते आसादयतीत्यर्थः रुद्र इति कारणापदेशे ॥ भाष्यम् ५.३२ः१
रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्यम् ५.३२ः२
साक्षाद्रुद्रेण सह संयोगः सायुज्यम् ॥ भाष्यम् ५.३२ः३
भावग्रहणमात्मेश्वराभ्यामन्यत्र प्रतिषेधार्थम् ॥ भाष्यम् ५.३२ः४
योगस्य सम्यक्त्वं सायुज्यमिति योगपर्यायोऽवगम्यते ॥ भाष्यम् ५.३२ः५
धर्मात्मवचनादतिगत्यानन्त्यवदित्यर्थः ॥ भाष्यम् ५.३२ः६
आह तत्केनोपायेन लभते ॥ भाष्यम् ५.३२ः७
किमध्ययनध्यापनाभ्यामेव ॥ भाष्यम् ५.३२ः८
तदुच्यते न ॥ भाष्यम् ५.३२ः९
यस्मादाह ॥ भाष्यम् ५.३२ः१०

सदा रुद्रमनुस्मरेत् ॥ ५.३३ ॥

अत्र सदा नित्यं सततमव्युच्छिन्नमिति रुद्रमिति कारणापदेशे ॥ भाष्यम् ५.३३ः१
रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्यम् ५.३३ः२
रुद्रमिति द्वितीया कर्मणि ॥ भाष्यम् ५.३३ः३
अनु पृष्ठकर्मक्रियायाम् ॥ भाष्यम् ५.३३ः४
पूर्वोक्तो ध्येयोऽर्थः सततमनुस्मर्तव्यः । स्मृतिः चिन्तायाम् ॥ भाष्यम् ५.३३ः५
ऊष्मवदवस्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततमनुस्मर्तव्यः ॥ भाष्यम् ५.३३ः६
स्मृतिस्तु देवनित्यतेत्यर्थः ॥ भाष्यम् ५.३३ः७
ततः क्षीणे कर्मणि तद्दोषहेतुजालमूलविशिष्टस्य प्रत्यासैकनिमित्ताभावात्सायुज्यप्राप्तौ न पुनः संसारः ॥ भाष्यम् ५.३३ः८
अत्र श्लोको निर्वचनः ॥ भाष्यम् ५.३३ः९
आह अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात्संदेहः ॥ भाष्यम् ५.३३ः१०
सूक्ष्मवदवस्थिते कर्मणि क्षीणेऽत्यन्तविशुद्धः सायुज्यमासादयति आहोस्विदविशुद्ध इति ॥ भाष्यम् ५.३३ः११
उच्यते विशुद्धः ॥ भाष्यम् ५.३३ः१२
यस्मादाह ॥ भाष्यम् ५.३३ः१३

छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥ ५.३४ ॥

अत्र व्युत्क्रमाभिधानाच्छेदः क्रमशो योजनीयः ॥ भाष्यम् ५.३४ः१
यन्त्रणधारणात्मकश्छेदो द्रष्टव्यः ॥ भाष्यम् ५.३४ः२
किमर्थम् ॥ भाष्यम् ५.३४ः३
सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं वसत्यर्थादिनिर्देशार्थत्वात् ॥ भाष्यम् ५.३४ः४
किंच अर्थानामनिर्वचनार्थत्वात्तत्र जप एव केवलोऽभिहितः ॥ भाष्यम् ५.३४ः५
इह तु यत इन्द्रियाणि जेतव्यानि यो जेता यया जेतव्यानि यथा जेतव्यानि यत्प्रयोजनं जेतव्यानि यस्मिंश्च जिते जितानि भवन्ति तद्वक्ष्यामः ॥ भाष्यम् ५.३४ः६
तथा यस्यात्मवृत्तिरध्ययनध्यानस्मरणादि च वक्ष्यामः ॥ भाष्यम् ५.३४ः७
तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं छेदप्रयोजनं छेद्यं छित्तिं यस्मिन् छिन्ने छिन्नं भवति तद्वक्ष्यामः ॥ भाष्यम् ५.३४ः८
तदुच्यते छित्त्वा ॥ भाष्यम् ५.३४ः९
अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ॥ भाष्यम् ५.३४ः१०
विच्छेदवचनाद्गम्यते ॥ भाष्यम् ५.३४ः११
त्वा इति शून्यागारगुहावस्थितस्याध्ययनध्यानधारणयन्त्रणादिकं गम्यते ॥ भाष्यम् ५.३४ः१२
आह किं तत् ॥ भाष्यम् ५.३४ः१३
केभ्यो वा छेत्तव्यम् ॥ भाष्यम् ५.३४ः१४
तदुच्यते दोषाणां हेतुजालस्य मूलमिति ॥ भाष्यम् ५.३४ः१५
अत्र दोषाः शब्दस्पर्शरूपरसगन्धाः ॥ भाष्यम् ५.३४ः१६
कस्मात् ॥ भाष्यम् ५.३४ः१७
कामार्जनादिमूलत्वात् ॥ भाष्यम् ५.३४ः१८
यस्मादुक्तम् । कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च ॥ भाष्यम् ५.३४ः१९
तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः ॥ भाष्यम् ५.३४ः२०
अर्जनं नाम प्रतिग्रहजयक्रयविक्रयनिर्वेश्यादिषु वर्णिनां विषयार्जनोपायाः ॥ भाष्यम् ५.३४ः२१
एतेषु च विषयाणामर्जने वर्ततात्मपीडा परपीडा वा अवर्जनीये भवतः ॥ भाष्यम् ५.३४ः२२
तत्र यद्यात्मानं पीडयति तेन इहैव लोके दुःखी भवति ॥ भाष्यम् ५.३४ः२३
स्यात्परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः संचीयते ॥ भाष्यम् ५.३४ः२४
तच्च दुःखं नान्योऽनुभवति कर्तैवानुभवति ॥ भाष्यम् ५.३४ः२५
अपि च किम्पाकफलोपमा विषयाः ॥ भाष्यम् ५.३४ः२६
तद्यथा श्रूयते लवणसागरसंनिकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः ॥ भाष्यम् ५.३४ः२७
तत्फलान्यास्वादेनामृतोपमानि च केचिदज्ञानाद्गुडवद्भक्षयन्ति ॥ भाष्यम् ५.३४ः२८
भक्षितानि च तानि मूर्छां छर्दिं च जनयन्ति ॥ भाष्यम् ५.३४ः२९
तत्तीव्रदुःखाभिभूताः पञ्चत्वमापुः ॥ भाष्यम् ५.३४ः३०
श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्यवमन्यते । स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः ॥ भाष्यम् ५.३४ः३१
एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति ॥ भाष्यम् ५.३४ः३२
परिणामे संसारे जन्मनिमित्तत्वाद्दुःखानि प्रतिपद्यन्ते ॥ भाष्यम् ५.३४ः३३
इत्येवं विषयाणामर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्यम् ५.३४ः३४
तथाऽन्यः कथम् ॥ भाष्यम् ५.३४ः३५
अस्त्वेष विषयाणामर्जने दोषः ॥ भाष्यम् ५.३४ः३६
स भवतु तेषाम् ॥ भाष्यम् ५.३४ः३७
न वयं तत्प्रतिषेधयामः ॥ भाष्यम् ५.३४ः३८
अयं त्वन्यः कष्टो विषयदोषः ॥ भाष्यम् ५.३४ः३९
कश्चासाविति ॥ भाष्यम् ५.३४ः४०
उच्यते रक्षणदोषः ॥ भाष्यम् ५.३४ः४१
अर्जितानामप्येषामवश्यमेवोद्यतायुधेन रक्षा विधातव्या ॥ भाष्यम् ५.३४ः४२
कस्मात् ॥ भाष्यम् ५.३४ः४३
नृपदहनतस्करदायादसाधारणफलत्वात् ॥ भाष्यम् ५.३४ः४४
तत्रात्मपीडा ॥ भाष्यम् ५.३४ः४५
परपीडायां च यथोक्तः ॥ भाष्यम् ५.३४ः४६
उक्तं हि । स्वद्रव्यं पुरुषं चोराः स्वमांसं पिशिताशिनः । क्लेशयन्ति यथा घोरास्तथाहि विषया नरम् ॥ भाष्यम् ५.३४ः४७
क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् । तेषामेव परित्यागात्सर्वक्लेशक्षयो भवेत् ॥ भाष्यम् ५.३४ः४८
आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् । नापरित्यज्य विषयान् विषयी सुखमेधते ॥ भाष्यम् ५.३४ः४९
विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्यम् ५.३४ः५०
तथा अन्यः कथम् ॥ भाष्यम् ५.३४ः५१
अस्त्वेष विषयाणामर्जनरक्षणादौ दोषौ भवतस्तेषाम् ॥ भाष्यम् ५.३४ः५२
न वयं तौ प्रतिषेधयामः ॥ भाष्यम् ५.३४ः५३
अयं त्वन्यः कष्टतरो विषयाणां दोषः ॥ भाष्यम् ५.३४ः५४
कश्चासाविति ॥ भाष्यम् ५.३४ः५५
उच्यते क्षयो दोषः ॥ भाष्यम् ५.३४ः५६
अर्जितानां सुरक्षितानामप्येषामवश्यमेवाभ्युपगन्तव्यः ॥ भाष्यम् ५.३४ः५७
विषयक्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते ॥ भाष्यम् ५.३४ः५८
मत्स्यादिवद्यथोदकक्षये नदीनां तद्वत्तस्मादशोभनम् ॥ भाष्यम् ५.३४ः५९
उक्तं हि । त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः । स्त्रियोऽन्नपानमैश्वर्यं तेषु जाग्रथ ब्राह्मणाः ॥ भाष्यम् ५.३४ः६०
नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः । नास्ति लोभसमं दुःखं नास्ति त्यागात्परं सुखम् ॥ भाष्यम् ५.३४ः६१
इति ॥ भाष्यम् ५.३४ः६२
एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्यम् ५.३४ः६३
तथान्यः कथमिति ॥ भाष्यम् ५.३४ः६४
सन्त्वेते विषयदोषाः ॥ भाष्यम् ५.३४ः६५
अयमन्यतरः कष्टतरो दोषः कश्चासाविति ॥ भाष्यम् ५.३४ः६६
उच्यते सङ्गदोषः ॥ भाष्यम् ५.३४ः६७
यदि तावदर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं च ॥ भाष्यम् ५.३४ः६८
यदि सङ्गदोषो न स्यात् ॥ भाष्यम् ५.३४ः६९
कथम् ॥ भाष्यम् ५.३४ः७०
यावदयमिन्द्रिययुक्तो विषयानभिलषति तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ॥ भाष्यम् ५.३४ः७१
भूय एव विषयानन्वेष्टुमारभते ॥ भाष्यम् ५.३४ः७२
ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ॥ भाष्यम् ५.३४ः७३
तस्मादशोभनम् ॥ भाष्यम् ५.३४ः७४
उक्तं हि । न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ भाष्यम् ५.३४ः७५
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्तृप्त्यै तस्माद्विद्वान् शमं व्रजेत् ॥ भाष्यम् ५.३४ः७६
इति ॥ भाष्यम् ५.३४ः७७
एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्यम् ५.३४ः७८
तथान्यः कथमिति ॥ भाष्यम् ५.३४ः७९
सन्त्वेते विषयाणामर्जनादयो दोषाः ॥ भाष्यम् ५.३४ः८०
ते भवन्तु तेषाम् ॥ भाष्यम् ५.३४ः८१
न वयं तान् प्रतिषेधयामः ॥ भाष्यम् ५.३४ः८२
अयं त्वन्यः कष्टतमो विषयाणां दोषः ॥ भाष्यम् ५.३४ः८३
कश्चासाविति ॥ भाष्यम् ५.३४ः८४
उच्यते हिंसादोषः ॥ भाष्यम् ५.३४ः८५
शक्यमेतेषां विषयाणामर्जनादि कर्तुमिन्द्रियलौल्यदोषोऽपि भवतु ॥ भाष्यम् ५.३४ः८६
यदि हिंसादोषो न स्यात् ॥ भाष्यम् ५.३४ः८७
कथम् ॥ भाष्यम् ५.३४ः८८
एतेषामेव विषयाणामुपभोगे वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः ॥ भाष्यम् ५.३४ः८९
कस्मात् ॥ भाष्यम् ५.३४ः९०
नानुपहत्य भूतानि विषयोपभोगः शक्यते कर्तुम् ॥ भाष्यम् ५.३४ः९१
तत्र शब्दनिमित्तं तावदयं क्रियते ॥ भाष्यम् ५.३४ः९२
तद्यथा वीणानिमित्तं खदिरादीन् छिद्यमानान् दृष्ट्वा तन्त्रीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः क्रियते कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्यम् ५.३४ः९३
यदा भिक्षाप्रदगृहेषु रम्यान् शब्दान् श्रोष्यसि तत्र परः परितोषो भविष्यति ॥ भाष्यम् ५.३४ः९४
तथा सूत्रादिनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्यम् ५.३४ः९५
तद्यथा कोशकारादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ भाष्यम् ५.३४ः९६
स वक्तव्योऽत्र ते न शोभनोऽयं यदा भिक्षदगृहेषु मृदुतरस्पर्शानि वासांसि प्राप्स्यसि तत्र ते परः परितोषो भविष्यति ॥ भाष्यम् ५.३४ः९७
तथा रूपनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्यम् ५.३४ः९८
तद्यथा अशोकादीन् वृक्षान् छिद्यमानान्दृष्ट्वा हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्यम् ५.३४ः९९
यदा भिक्षदगृहमलंकृतकवाटगोपुरं द्रक्ष्यसि तत्र ते परः परितोषो भविष्यति ॥ भाष्यम् ५.३४ः१००
तथा रसनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्यम् ५.३४ः१०१
तद्यथा तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः क्रियते ॥ भाष्यम् ५.३४ः१०२
स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्यम् ५.३४ः१०३
यदा भिक्षदगृहेषु षड्रसमांसप्रकारैर्भोक्ष्यसे तत्र ते परः परितोषो भविष्यति ॥ भाष्यम् ५.३४ः१०४
तथा गन्धनिमित्तं तावद्भूतवधः क्रियते । तद्यथा पञ्चनखादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ भाष्यम् ५.३४ः१०५
स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्यम् ५.३४ः१०६
यदा भिक्षदगृहेषु सुगन्धान् गन्धान् प्राप्स्यसि तत्र ते परितोषो भविष्यति ॥ भाष्यम् ५.३४ः१०७
एवम् । कामः क्रोधश्च लोभश्च भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च । इति ॥ भाष्यम् ५.३४ः१०८
अर्जनरक्षणक्षयसङ्गहिंसादिमूलत्वादतोऽत्र शब्दादयो विषया दोषाः ॥ भाष्यम् ५.३४ः१०९
दोषाश्च कथम् ॥ भाष्यम् ५.३४ः११०
चित्तवैचित्ये ॥ भाष्यम् ५.३४ः१११
दूषयन्तीति दोषाः ॥ भाष्यम् ५.३४ः११२
दूषयन्ति यस्मादध्ययनध्यानादिनिष्ठं साधकं विचित्तं कुर्वन्तीति दोषाः ॥ भाष्यम् ५.३४ः११३
दोषाणामिति षष्ठीबहुवचनम् ॥ भाष्यम् ५.३४ः११४
आह किं दोषाणामेव दोषेभ्य एव वा छेत्तव्यमुक्तम् ॥ भाष्यम् ५.३४ः११५
न ॥ भाष्यम् ५.३४ः११६
यस्मादाह हेतुः ॥ भाष्यम् ५.३४ः११७
अत्र हेतुरधर्मः ॥ भाष्यम् ५.३४ः११८
कस्मात् ॥ भाष्यम् ५.३४ः११९
चित्तच्युतिहेतुत्वात्यस्मात्तेनाविष्टः साधकोऽध्ययनस्मरणादिभ्यश्च्यवतीत्यतोऽत्राधर्मो हेतुः धर्मस्तु स्थित्यादिहेतुः ॥ भाष्यम् ५.३४ः१२०
आह कस्यायं हेतुः ॥ भाष्यम् ५.३४ः१२१
उच्यते जालस्य ॥ भाष्यम् ५.३४ः१२२
अत्र यदा अधर्मः कूटस्थोऽनारब्धकार्यस्तदा हेतुरित्युच्यते ॥ भाष्यम् ५.३४ः१२३
यदा त्वज्ञानवासनावशाद्धृत्या स्थित्यादिभावमापन्नस्तदा जालाख्यां लभते ॥ भाष्यम् ५.३४ः१२४
कस्मात् ॥ भाष्यम् ५.३४ः१२५
जालादिवत्समूहस्येत्यर्थः ॥ भाष्यम् ५.३४ः१२६
अन्यस्य तन्मयकारणस्याभावात् ॥ भाष्यम् ५.३४ः१२७
जालस्येति षष्ठी छेदनशेषत्वे वर्तते ॥ भाष्यम् ५.३४ः१२८
अतश्छिन्नमेव भवति ॥ भाष्यम् ५.३४ः१२९
कस्मात् ॥ भाष्यम् ५.३४ः१३०
दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः ॥ भाष्यम् ५.३४ः१३१
आह किं प्रतिसम्बन्धि दोषहेतुजालसंश्लिष्टं भवति ॥ भाष्यम् ५.३४ः१३२
तदा कथमभिलप्यते ॥ भाष्यम् ५.३४ः१३३
तदुच्यते मूलम् ॥ भाष्यम् ५.३४ः१३४
अत्र मूलमित्युक्ते कस्येति भवति ॥ भाष्यम् ५.३४ः१३५
दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः प्रवृत्तेरित्यतोऽवगम्यते संयोगमूलमेवात्र मूलमिति ॥ भाष्यम् ५.३४ः१३६
आह केनायं छेत्ता मूलच्छेदं करोति ॥ भाष्यम् ५.३४ः१३७
तदुच्यते ॥ भाष्यम् ५.३४ः१३८

बुद्ध्या ॥ ५.३५ ॥

अन्तःकरणाख्या बुद्धिरित्युक्ता ॥ भाष्यम् ५.३५ः१
तया धर्मस्मृतिचोदनादिसहितया विद्यागृहीतया बुद्ध्या छेद्यं स्थाप्यं चेत्यर्थः ॥ भाष्यम् ५.३५ः२
आह किं दोषादिसहगतवधादिविश्लिष्टमपि तत्परतन्त्रमुच्यते ॥ भाष्यम् ५.३५ः३
न ॥ भाष्यम् ५.३५ः४
यस्मादाह मूलाख्यायां निवृत्तायाम् ॥ भाष्यम् ५.३५ः५

संचित्तम् ॥ ५.३६ ॥

अत्र समिति दोषादिविश्लिष्टं स्वयमेव स्वगुणत्वेन परिगृह्यते अग्न्युष्णत्ववदित्यानुबन्धित्वाच्चेत्यर्थः ॥ भाष्यम् ५.३६ः१
आह किं तदिति ॥ भाष्यम् ५.३६ः२
उच्यते चित्तम् ॥ भाष्यम् ५.३६ः३
अत्र चिती संज्ञाने चेतयति चिनोति वा अनेनेति चित्तम् ॥ भाष्यम् ५.३६ः४
चेतयति सुखं दुःखं पदार्थान् चिनोति धर्माधर्मौ अर्जयतीत्यतः चेतयति चिनोति वा अनेनेति चित्तम् ॥ भाष्यम् ५.३६ः५
चित्तं मनोऽन्तःकरणमित्यर्थः ॥ भाष्यम् ५.३६ः६
अत्र त्वेतेभ्यो दोषहेतुत्वादिभ्यो युगपच्छेत्तव्यं विद्यमानेभ्यस्तु क्रमशः क्षपणमिति ॥ भाष्यम् ५.३६ः७
आह छित्त्वा तच्चित्तं किं कर्तव्यम् ॥ भाष्यम् ५.३६ः८
उच्यते रुद्रस्थम् ॥ भाष्यम् ५.३६ः९
यस्मादाह ॥ भाष्यम् ५.३६ः१०

स्थापयित्वा च रुद्रे ॥ ५.३७ ॥

अत्र ष्ठा गतिनिवृत्तौ ॥ भाष्यम् ५.३७ः१
चित्तस्य रुद्रादव्यवधानं स्थितिरित्युच्यते ॥ भाष्यम् ५.३७ः२
वा इति श्मशानाद्यवस्थस्य स्मृतिकर्मणो निष्ठा ॥ भाष्यम् ५.३७ः३
चशब्दः समुच्चये ॥ भाष्यम् ५.३७ः४
न केवलं छित्त्वा स्थेयं किंतु स्थापयितव्यं चेत्यर्थः ॥ भाष्यम् ५.३७ः५
रुद्रे इति कारणापदेशे ॥ भाष्यम् ५.३७ः६
रुद्रस्य रुद्रत्वं पूर्वोक्तं रुद्र इत्यौपश्लेषिकं संनिधानम् ॥ भाष्यम् ५.३७ः७
रुद्रे चित्तमुपश्लेषयितव्यं नान्यत्रेत्यर्थः ॥ भाष्यम् ५.३७ः८
एवं विषयेभ्य इन्द्रियाणां जयः कर्तव्यः ॥ भाष्यम् ५.३७ः९
अत्र यो जेता आत्मा ॥ भाष्यम् ५.३७ः१०
यया जेतव्यानि बुद्ध्या ॥ भाष्यम् ५.३७ः११
यथा जेतव्यानि क्रमशश्च ॥ भाष्यम् ५.३७ः१२
यत्प्रयोजनं जेतव्यानि चित्तस्थित्यर्थम् ॥ भाष्यम् ५.३७ः१३
यस्मिंश्च जिते जितानि भवन्ति चित्तमित्येतदपि व्याख्यातम् ॥ भाष्यम् ५.३७ः१४
एवं जपयन्त्रणधारणात्मकच्छेदादिष्वपि योज्यम् ॥ भाष्यम् ५.३७ः१५
तथान्तःकरणवृत्तिमास्थाय कालविशेषनिमित्तरश्मिमणिदीपवत्तथात्मवृत्तिरध्ययनध्यानस्मरणादीनि चित्तस्थितिश्च व्याख्याता ॥ भाष्यम् ५.३७ः१६
श्लोको निर्वचनः ॥ भाष्यम् ५.३७ः१७
आह कार्यकरणं च तच्चित्तस्थितिसमकालमेव रुद्रे स्थितानि तानि युक्तानि ॥ भाष्यम् ५.३७ः१८
अथ किं तान्येव युक्तस्य लक्षणानि इति ॥ भाष्यम् ५.३७ः१९
उच्यते न ॥ भाष्यम् ५.३७ः२०
यस्मादाह ॥ भाष्यम् ५.३७ः२१

एकः क्षेमी सन् वीतशोकः ॥ ५.३८ ॥

अत्र धर्माधर्मयोर्वृत्त्योरुपरमे अवसितप्रयोजनत्वात्पक्वफलवत्सर्पकञ्चुकवद्गतप्रायेषु कार्यकरणेषु रुद्रे स्थितचित्तो निष्कल एक इत्यभिधीयते ॥ भाष्यम् ५.३८ः१
तथा योगव्यासङ्गकरेऽधर्मे निवृत्ते दोषादिविश्लिष्टो निस्तीर्णकान्तारवदवस्थितो रुद्रे स्थितचित्तः क्षेमी इत्यभिधीयते ॥ भाष्यम् ५.३८ः२
तथा सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणासु क्रियासु विनिवृत्तासु रुद्रे स्थितचित्तो निष्क्रियः सनित्यभिधीयते ॥ भाष्यम् ५.३८ः३
आह अथ निष्क्रियोऽयमिति कथमवगम्यते ॥ भाष्यम् ५.३८ः४
किं चात्र युक्तस्य लक्षणत्रयमेव ॥ भाष्यम् ५.३८ः५
उच्यते न ॥ भाष्यम् ५.३८ः६
यस्मादाह वीतशोकः ॥ भाष्यम् ५.३८ः७
अत्र शोकश्चिन्तेत्यनर्थान्तरम् ॥ भाष्यम् ५.३८ः८
सा च चिन्ता द्विविधा भवति ॥ भाष्यम् ५.३८ः९
कुशला चाकुशला च ॥ भाष्यम् ५.३८ः१०
तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या ॥ भाष्यम् ५.३८ः११
अकुशला नाम अनध्ययनाध्यानास्मरणाद्या ॥ भाष्यम् ५.३८ः१२
एवं जपयन्त्रणधारणादींश्च करिष्यामि न करिष्यामीत्येवमनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगतशोको वीतशोक इत्यभिधीयते ॥ भाष्यम् ५.३८ः१३
एवमत्र योगपदार्थः समाप्तः ॥ भाष्यम् ५.३८ः१४
कस्मात् ॥ भाष्यम् ५.३८ः१५
अर्थानां निर्वचनत्वात् ॥ भाष्यम् ५.३८ः१६
यस्मादस्याध्यायस्यादावुद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु व्याख्याताः ॥ भाष्यम् ५.३८ः१७
एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति ॥ भाष्यम् ५.३८ः१८
तदसङ्गादिवचनात् ॥ भाष्यम् ५.३८ः१९
आह अथ सांख्ययोगमुक्ताः किं न विशेषिताः ॥ भाष्यम् ५.३८ः२०
उच्यते विशेषिताः ॥ भाष्यम् ५.३८ः२१
कथम् ॥ भाष्यम् ५.३८ः२२
तज्ज्ञानातिशयात् ॥ भाष्यम् ५.३८ः२३
कथम् ॥ भाष्यम् ५.३८ः२४
सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्छितवत्स्थिताः ॥ भाष्यम् ५.३८ः२५
अस्य तु ज्ञानमस्ति ॥ भाष्यम् ५.३८ः२६
यस्मादाह ॥ भाष्यम् ५.३८ः२७

अप्रमादी गच्छेद्दुःखानामन्तमीशप्रसादात् ॥ ५.३९ ॥

इति ॥ भाष्यम् ५.३९ः१
एवं कुर्वन् सर्वज्ञोऽस्यासंमोहं ज्ञापयति ॥ भाष्यम् ५.३९ः२
उक्तम् । कार्यकरणाञ्जनेभ्यो निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः । अप्राप्तान्तं पुरुषं योऽभ्यधिकं वर्णयेत्स बुधः ॥ भाष्यम् ५.३९ः३
आह गतं यद्गन्तव्यम् ॥ भाष्यम् ५.३९ः४
अथ किमयमुपचारः ॥ भाष्यम् ५.३९ः५
उच्यते न ॥ भाष्यम् ५.३९ः६
अपरिज्ञानान्नास्माकं योगनिष्ठं तन्त्रम् ॥ भाष्यम् ५.३९ः७
अपितु तत्कैवल्यव्यतिरिक्तोऽपि सर्वज्ञेनोच्यते ॥ भाष्यम् ५.३९ः८
अप्रमादाद्गच्छेद्दुःखानामन्तमीशप्रसादात् ॥ भाष्यम् ५.३९ः९
अत्र प्रमादशब्दोऽनागतानवधानगतत्वं पारतन्त्र्यं च ख्यापयतीत्यर्थः ॥ भाष्यम् ५.३९ः१०
तदङ्कुरपरिरक्षणवदनागतकालप्रतीकारकरणेन चैवायमप्रमादीशब्दो द्रष्टव्यः ॥ भाष्यम् ५.३९ः११
तस्माद्युक्तेनैवाप्रमादिना स्थेयम् ॥ भाष्यम् ५.३९ः१२
तथा वर्तमानेन माहेश्वरमैश्वर्यं प्राप्तमेवेत्युक्तम् ॥ भाष्यम् ५.३९ः१३
गच्छेदिति गतिः प्राप्तिर्भवति ॥ भाष्यम् ५.३९ः१४
गमॢ सृपॢ गतौ ॥ भाष्यम् ५.३९ः१५
प्राप्नोतीत्यात्मेति पत्त्रपाण्डुताफलपाकवत् ॥ भाष्यम् ५.३९ः१६
कथम् ॥ भाष्यम् ५.३९ः१७
तस्मिन्नेव प्रवर्ततो योऽयं दुःखापोहो गुणस्तत्रेयं गतिरिति संज्ञा क्रियत इत्यर्थः ॥ भाष्यम् ५.३९ः१८
दुःखानामित्यत्र प्रसिद्धानि दुःखान्याध्यात्मिकाधिभौतिकाधिदैविकानि ॥ भाष्यम् ५.३९ः१९
तत्राध्यात्मिकं द्विविधं दुःखं शारीरं मानसं च ॥ भाष्यम् ५.३९ः२०
तत्र मनसि भवं मानसं क्रोधलोभमोहभयविषादेर्ष्यासूयाद्वेषमदमानमात्सर्यारत्याद्यविशेषदर्शनादिनिमित्तं तद्दुःखम् ॥ भाष्यम् ५.३९ः२१
तथा शारीरमपि शिरोरोगदन्तरोगाक्षिरोगज्वरप्रतिमत्स्यातिसारकासश्वासोदरामयादिनिमित्तोत्पन्नं दुःखम् ॥ भाष्यम् ५.३९ः२२
तथान्यदपि पञ्चविधं दुःखं भवति ॥ भाष्यम् ५.३९ः२३
तद्यथा गर्भजन्माज्ञानजरामरणमिति ॥ भाष्यम् ५.३९ः२४
तत्र गर्भे तावद्यदायं पुरुषो मातुरुदरे न्यस्तगात्रः खण्डशकटस्थ इव पुमान्नियमश्रममनुभवमानोऽवकाशरहितः आकुञ्चनप्रसारणादिष्वपर्याप्तावकाशः सर्वक्रियासु निरुद्ध इत्येवमद्वारके अन्धतमसि मूढो बन्धनस्थ इव पुमानवश्यं समनुभवति ॥ भाष्यम् ५.३९ः२५
कस्मात् ॥ भाष्यम् ५.३९ः२६
चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च न तु कार्यकरणानि ॥ भाष्यम् ५.३९ः२७
कस्मात् ॥ भाष्यम् ५.३९ः२८
अचेतनावादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्यम् ५.३९ः२९
तथा जन्मदुःखमपि ॥ भाष्यम् ५.३९ः३०
यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो मूत्रधाराभिरभिषिच्यमानो देहे संवृतद्वारके योनिनिःसरणसंकटेऽत्यर्थं पीड्यमानोऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन्निनदंश्च जायते ॥ भाष्यम् ५.३९ः३१
पश्चात्पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं दुःखमभिव्यज्यते ॥ भाष्यम् ५.३९ः३२
राजपुष्टकादिवत् ॥ भाष्यम् ५.३९ः३३
तेन चास्य जात्यन्तरादिस्मृतिहेतुसंस्कारलोपो भवति ॥ भाष्यम् ५.३९ः३४
एव जन्मदुःखं पुरुष एवानुभवति ॥ भाष्यम् ५.३९ः३५
कस्मात् ॥ भाष्यम् ५.३९ः३६
चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्यम् ५.३९ः३७
न तु कार्यकरणानि ॥ भाष्यम् ५.३९ः३८
कस्मात् ॥ भाष्यम् ५.३९ः३९
अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्यम् ५.३९ः४०
तथा अज्ञानदुःखमपि अहंकारसत्कृतगात्रो न जानन् कोऽहं कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति किं कारणं किमकारणं किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किं ज्ञानं किमज्ञानमित्यज्ञानदुःखं पुरुष एवानुभवति ॥ भाष्यम् ५.३९ः४१
कस्मात् ॥ भाष्यम् ५.३९ः४२
चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्यम् ५.३९ः४३
न तु कार्यकरणानि ॥ भाष्यम् ५.३९ः४४
कस्मात् ॥ भाष्यम् ५.३९ः४५
अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्यम् ५.३९ः४६
तथा जरादुःखमपि ॥ भाष्यम् ५.३९ः४७
यदायं पुरुषो जराजर्जरितः कृशशरीरः शिथिलीकृतनयनकपोलनासिकाभ्रूदशनावरणः क्रौञ्चजानुरिव निर्विण्णोऽक्षिदूषिकादिष्वपकर्षणादिष्वसमर्थो विहंग इव लूनपक्षो लङ्घनप्लवनधावनादिष्वसमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्माण्यनुस्मरमाणः स्मृतिवैकल्यमापन्नोऽवश्यं क्लेशमनुभवति ॥ भाष्यम् ५.३९ः४८
कस्मात् ॥ भाष्यम् ५.३९ः४९
चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्यम् ५.३९ः५०
न तु कार्यकरणाणि ॥ भाष्यम् ५.३९ः५१
कस्मात् ॥ भाष्यम् ५.३९ः५२
अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्यम् ५.३९ः५३
तथा मृत्युदुःखमपि ॥ भाष्यम् ५.३९ः५४
यदायं पुरुषो मरणसमये श्लथकरणः शिरोधरमवलम्बमानः श्वासनोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसंघातः कस्य भविष्यतीत्यनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो विरक्तवदनो मर्मभिश्छिद्यमानैरवश्यं क्लेशमनुभवति ॥ भाष्यम् ५.३९ः५५
कस्मात् ॥ भाष्यम् ५.३९ः५६
चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्यम् ५.३९ः५७
न तु कार्यकरणानि ॥ भाष्यम् ५.३९ः५८
कस्मात् ॥ भाष्यम् ५.३९ः५९
अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्यम् ५.३९ः६०
उक्तं हि । गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् । जातश्च दुःखमृच्छति तस्मादपुनर्भवः श्रेयान् ॥ भाष्यम् ५.३९ः६१
इति ॥ भाष्यम् ५.३९ः६२
तथान्यदपि पञ्चविधं दुःखं भवति ॥ भाष्यम् ५.३९ः६३
तद्यथा इहलोकभयं परलोकभयमहितसंप्रयोगः हितविप्रयोगः इच्छाव्याघातश्चेति ॥ भाष्यम् ५.३९ः६४
तथान्यदपि त्रिविधं दुःखं भवति ॥ भाष्यम् ५.३९ः६५
आध्यात्मिकमज्ञानं पुरुषे आधिभौतिकं विषयित्वमाधिदैविकं च पशुत्वं त्रिविधमपरं प्राहुः ॥ भाष्यम् ५.३९ः६६
इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद्दुःखानीत्युपचर्यन्ते ॥ भाष्यम् ५.३९ः६७
आह चरणाधिकारेऽनतिप्रसादादशिवत्वसंज्ञके सर्वाण्यनतिप्रसादबीजत्वात्कुतो नात्यन्तनिवृत्तानि भवन्ति ॥ भाष्यम् ५.३९ः६८
कस्मात् ॥ भाष्यम् ५.३९ः६९
संहारं प्राप्तस्य निगडमुक्ताधिकारवन्मुक्तावतिशयितगुणप्राप्त्यर्थमुच्यते गच्छेद्दुःखानामन्तम् ॥ भाष्यम् ५.३९ः७०
दुःखानामत्यन्तं परमापोहो गुणावाप्तिश्च परं भवतीति ॥ भाष्यम् ५.३९ः७१
तदुभयमपि इत एव भवतीति ॥ भाष्यम् ५.३९ः७२
तदाह ईशप्रसादात् ॥ भाष्यम् ५.३९ः७३
अत्रेश इत्येतद्भगवतो नामधेयम् ॥ भाष्यम् ५.३९ः७४
ईशः कस्मात् ॥ भाष्यम् ५.३९ः७५
विद्यादिकार्यस्येशनादीशः ॥ भाष्यम् ५.३९ः७६
प्रसादो नाम सम्प्रदानेच्छा ॥ भाष्यम् ५.३९ः७७
तस्मात्प्रसादात्सर्वदुःखापोहो गुणावाप्तिश्चदिमुपाध्यन्तरात्परपरिवादादिवचनात्शुद्धिरिव युगपदित्यर्थः ॥ भाष्यम् ५.३९ः७८
एवमयमथशब्दः ॥ भाष्यम् ५.३९ः७९
पशुपतेरित्युद्दिष्टयोर्दुःखान्तप्रसादयोर्गच्छेद्दुःखानामन्तमीशप्रसादादिति दुःखान्तं परिसमाप्तमिति ॥ भाष्यम् ५.३९ः८०
एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्यम् ५.३९ः८१

अत्रेदं ब्रह्म जपेत् ॥ ५.४० ॥

इति ॥ भाष्यम् ५.४०ः१
अस्य पूर्वोक्तोऽर्थः ॥ भाष्यम् ५.४०ः२
विधिनैव पूर्वोक्तेन विधिना जप्तव्यम् ॥ भाष्यम् ५.४०ः३
न तु दुःखान्तगतेन गणपतिवदित्यर्थः ॥ भाष्यम् ५.४०ः४
आह कामित्वात्कृपया भगवता दुःखान्तो दत्तः स्वेच्छयैव न पुनरदुःखान्तं करिष्यति ॥ भाष्यम् ५.४०ः५
अथाशक्तस्तथाप्यस्य शक्तिव्याघातः पाचकवदकर्मापेक्षत्वं चोच्यते ॥ भाष्यम् ५.४०ः६
अत्र यथा नित्यो दुःखान्तस्तथा वक्ष्यामः ॥ भाष्यम् ५.४०ः७
यथा च काङ्क्षतो लिप्सतश्च साधकाधिकारनिवृत्तिस्तथा वक्ष्यामः ॥ भाष्यम् ५.४०ः८
पदार्थनिगमनार्थे चोच्यते ॥ भाष्यम् ५.४०ः९

ईशानः सर्वविद्यानाम् ॥ ५.४१ ॥

अत्र ईशनादीशानः ॥ भाष्यम् ५.४१ः१
अत्रेशनादीशान इत्युक्तं कारणम् ॥ भाष्यम् ५.४१ः२
ईशानः प्रभुः धातेत्यर्थः ॥ भाष्यम् ५.४१ः३
आह कस्यायमीशानः ॥ भाष्यम् ५.४१ः४
तदुच्यते सर्वस्येशानः । सर्वशब्दो विद्याप्रकृतेर्निरवशेषवाची द्रष्टव्यः ॥ भाष्यम् ५.४१ः५
विद्यानां धर्मार्थकामकैवल्यतत्साधनपराणामीशानः विद्यानामिति षष्ठीबहुवचनम् ॥ भाष्यम् ५.४१ः६
आह किं विद्यानामेवेशानः न तु विद्याभिर्ये विदन्ति ॥ भाष्यम् ५.४१ः७
उच्यते ॥ भाष्यम् ५.४१ः८

ईश्वरः सर्वभूतानाम् ॥ ५.४२ ॥

अत्र निरतिशय ऐश्वर्येण ईश्वरः ॥ भाष्यम् ५.४२ः१
पुरुषः चैतन्यवदित्यर्थः ॥ भाष्यम् ५.४२ः२
आह कस्यायमीश्वरः ॥ भाष्यम् ५.४२ः३
तदुच्यते सर्वभूतानाम् । अत्र चेतनाचेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु किंतु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः ॥ भाष्यम् ५.४२ः४
कस्माद्भूतानि ॥ भाष्यम् ५.४२ः५
भावनत्वाद्भूतानीत्युक्तं भूतानामिति षष्ठीबहुवचनम् ॥ भाष्यम् ५.४२ः६
आह अत्र केचिद्विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति ॥ भाष्यम् ५.४२ः७
तस्यायं किं प्रभुर्भवति नेति ॥ भाष्यम् ५.४२ः८
उच्यते प्रभुः ॥ भाष्यम् ५.४२ः९
यस्मादाह ॥ भाष्यम् ५.४२ः१०

ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ५.४३ ॥

अत्र योऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा ॥ भाष्यम् ५.४३ः१
न तु प्रधानादिषु ॥ भाष्यम् ५.४३ः२
कस्मात् ॥ भाष्यम् ५.४३ः३
अधिपतिवचनविरोधात् ॥ भाष्यम् ५.४३ः४
ब्रह्म च कस्मात् ॥ भाष्यम् ५.४३ः५
बृंहणत्वाद्बृहत्त्वाद्ब्रह्मा ॥ भाष्यम् ५.४३ः६
बृंहयते यस्माद्विद्याकलाभूतानि बृहच्च तेभ्य इत्यतोऽधिपतिर्ब्रह्मा ॥ भाष्यम् ५.४३ः७
ब्रह्मण इति षष्ठी ॥ भाष्यम् ५.४३ः८
अधिरधिष्ठातृत्वे ॥ भाष्यम् ५.४३ः९
तत्स्वाभाव्यात्संहृते चासंहृते च कार्य इत्यर्थः ॥ भाष्यम् ५.४३ः१०
पत्युः पतिः अधिपतिः ॥ भाष्यम् ५.४३ः११
राजराजवत् ॥ भाष्यम् ५.४३ः१२
पतिः पालने पतिर्दर्शने भोगे च ॥ भाष्यम् ५.४३ः१३
पालयते यस्माद्ब्रह्मादीनीश्वरः ॥ भाष्यम् ५.४३ः१४
पाति ब्रह्मादिकार्यम् । अधिपतिः ब्रह्मा ॥ भाष्यम् ५.४३ः१५
अधिपतिरीश्वरः ॥ भाष्यम् ५.४३ः१६
एवं बृंहयते यस्माद्विद्यादिकार्यं बृहच्च तेभ्य इत्यतोऽधिपतिर्ब्रह्मा भगवानिति ॥ भाष्यम् ५.४३ः१७
आह अत्र कार्यकरणमहाभाग्यमेवात्र ब्रह्मणि चिन्त्यते न तु साधकस्य लिप्सा लाभो वेति ॥ भाष्यम् ५.४३ः१८
उच्यते न ॥ भाष्यम् ५.४३ः१९
यस्मादाह ॥ भाष्यम् ५.४३ः२०

शिवो मे अस्तु ॥ ५.४४ ॥

अत्र येषां साधिकारत्वादनतिप्रसन्नस्तेषामशिवत्वं दृष्ट्वा दुःखान्तं गतेषु च शिवत्वं दृष्ट्वा आह शिवो मे अस्तु इति ॥ भाष्यम् ५.४४ः१
मे इत्यात्मापदेशे ममेत्यर्थः ॥ भाष्यम् ५.४४ः२
अस्त्विति काङ्क्षायाम् ॥ भाष्यम् ५.४४ः३
काङ्क्षति लिप्सति मृगयतीत्यर्थः ॥ भाष्यम् ५.४४ः४
आह कियन्तं कालं भगवानस्य शिवो भवति ॥ भाष्यम् ५.४४ः५
तदुच्यते नित्यम् ॥ भाष्यम् ५.४४ः६
यस्मादाह ॥ भाष्यम् ५.४४ः७

सदा ॥ ५.४५ ॥

अत्र सदा नित्यं संततमव्युच्छिन्नमित्यर्थः ॥ भाष्यम् ५.४५ः१
आह कमेवमाह ॥ भाष्यम् ५.४५ः२
को वास्य शिवो भवतीति ॥ भाष्यम् ५.४५ः३
उच्यते ॥ भाष्यम् ५.४५ः४

शिवः ॥ ५.४६ ॥

अत्र शिव इत्येतदपि भगवतो नाम ॥ भाष्यम् ५.४६ः१
शिवः कस्मात् ॥ भाष्यम् ५.४६ः२
परिपूर्णपरितृप्तत्वाच्छिवः ॥ भाष्यम् ५.४६ः३
तस्मात्सदाशिवोपदेशान्नित्यो दुःखान्तः ॥ भाष्यम् ५.४६ः४
कारणाधिकारनिवृत्तिः ॥ भाष्यम् ५.४६ः५
तदर्थं नित्यो दुःखान्त इति सिद्धम् ॥ भाष्यम् ५.४६ः६
एवमेते पञ्च पदार्थाः कार्यकारणयोगविधिदुःखान्ताः समासविस्तरविभागविशेषोपसंहारनिगमनतश्च व्याख्याताः ॥ भाष्यम् ५.४६ः७
उक्तं हि ॥ भाष्यम् ५.४६ः८
आदौ यद्भवति समासोक्तं मध्ये तस्य विस्तरतश्च विभागतश्चोपनयनिगमनेन सतामप्येष निश्चयः ॥ भाष्यम् ५.४६ः९
इति ॥ भाष्यम् ५.४६ः१०
अत्र तावत्पतिरिति कारणपदार्थस्योपदेशः समासेन ॥ भाष्यम् ५.४६ः११
विस्तरस्तु वामो देवो ज्येष्ठो रुद्रः कामः शंकरः कालः कलविकरणो बलविकरणोऽघोरो घोरतरः सर्वः शर्व तत्पुरुषो महादेव ओंकार ऋषिर्विप्रो महानीश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इत्येवमाद्यो विस्तरः ॥ भाष्यम् ५.४६ः१२
विभागोऽपि अन्यत्पतित्वमन्यदजातत्वमन्यद्भवोद्भवत्वमित्याद्यो विभागः ॥ भाष्यम् ५.४६ः१३
विशेषः अन्येषां प्रधानादीनि अस्माकं तद्व्यतिरिक्तो भगवानीश्वरः ॥ भाष्यम् ५.४६ः१४
कारणाधिकारे यस्मादाह ईश्वरः सर्वभूतानामिति ॥ भाष्यम् ५.४६ः१५
एष उपसंहारः सार्वकामिक इत्याचक्षते ॥ भाष्यम् ५.४६ः१६
निगमनमीश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इति ॥ भाष्यम् ५.४६ः१७
तथा पशुरिति कार्यपदार्थस्योद्देशः ॥ भाष्यम् ५.४६ः१८
तस्य विस्तरो विद्या कला पशवः ॥ भाष्यम् ५.४६ः१९
उत्पाद्या अनुग्राह्यास्तिरोभाव्यकाल्प्यविकार्यमस्पदस्य बोध्यधिष्ठेयत्वे चेत्येवमाद्यः सूत्रविद्याधर्मार्थकामैर्भेदैर्दुःखान्तः विद्या ॥ भाष्यम् ५.४६ः२०
कला द्विविधाः ॥ भाष्यम् ५.४६ः२१
कार्याख्याः करणाख्याश्च ॥ भाष्यम् ५.४६ः२२
तत्र कार्याख्याः पृथिव्याद्याः ॥ भाष्यम् ५.४६ः२३
करणाख्या बुद्ध्याद्याः ॥ भाष्यम् ५.४६ः२४
पशवश्च त्रिविधाः ॥ भाष्यम् ५.४६ः२५
देवा मनुष्यास्तिर्यञ्चः ॥ भाष्यम् ५.४६ः२६
तत्र देवा अष्टविधा ब्रह्माद्याः ॥ भाष्यम् ५.४६ः२७
मानुष्यं चानेकविधं ब्राह्मणाद्यम् ॥ भाष्यम् ५.४६ः२८
तिर्यग्योनि च पञ्चविधं पशुमृगाद्यम् ॥ भाष्यम् ५.४६ः२९
पशवः साञ्जना निरञ्जनाश्च ॥ भाष्यम् ५.४६ः३०
एवमाद्यो विस्तरः ॥ भाष्यम् ५.४६ः३१
विभागोऽपि अन्या विद्या अन्याः कलाः अन्ये च पशव इत्येवमाद्यो विभागः ॥ भाष्यम् ५.४६ः३२
विशेषः अन्येषां प्रधानादीनि कारणानि तानीह शास्त्रे कार्यत्वेन व्याख्यातानि ॥ भाष्यम् ५.४६ः३३
तत्र प्रधानं कारणमन्येषां तदिह शास्त्रे पश्यनात्पाशकत्वात्कार्यत्वेन व्याख्यातम् ॥ भाष्यम् ५.४६ः३४
तथा पुरुषः कारणमन्यत्र इह शास्त्रे पशुत्वात्कार्यत्वेन व्याख्यातः ॥ भाष्यम् ५.४६ः३५
तथा कर्ममध्यत्वात्कालः स्वभावः उपसंहारवत् ॥ भाष्यम् ५.४६ः३६
भूतानि विकार्यत्वात्कार्यत्वेन व्याख्यातानि ॥ भाष्यम् ५.४६ः३७
इत्येष विशेषः ॥ भाष्यम् ५.४६ः३८
उपसंहारः सार्वकामिक इत्यर्थः ॥ भाष्यम् ५.४६ः३९
निगमनं विद्याकलाभूतानि ब्रह्मेति ॥ भाष्यम् ५.४६ः४०
तथा योगमिति योगपदार्थस्योद्देशः ॥ भाष्यम् ५.४६ः४१
तस्यैवं चरतः योगः प्रवर्तते उभयथा यष्टव्यः अत्यागतिं गमयते नान्यभक्तिस्तु शंकरे एवं देवनित्यतानित्ययुक्तता अध्ययनं ध्यानं स्मरणं नित्यसायुज्यमिति विस्तरः विभागः क्रियालक्षणं क्रियोपरमलक्षणं दूरदर्शनश्रवणमननविज्ञानानि गणपतिः भूयिष्ठं सम्प्रवर्तते सिद्धः गच्छेद्दुःखानामन्तमित्येवमाद्यो विभागः ॥ भाष्यम् ५.४६ः४२
ज्ञानशक्तिः क्रियाशक्तिश्च ॥ भाष्यम् ५.४६ः४३
तत्र ज्ञानशक्तिः श्रवणाद्या ॥ भाष्यम् ५.४६ः४४
क्रियाशक्तिः मनोजवित्वाद्या ॥ भाष्यम् ५.४६ः४५
इत्येवमाद्यो विभागः ॥ भाष्यम् ५.४६ः४६
विशेषः अन्येषां कैवल्यमिह तु विशेषो विकरणमिति ॥ भाष्यम् ५.४६ः४७
प्रतिकरण इति कैवल्यधर्मातिशक्तिर्निष्कलमैश्वर्यमित्येष विशेषः ॥ भाष्यम् ५.४६ः४८
उपसंहारः इत्येभिर्गुणैर्युक्त इति ॥ भाष्यम् ५.४६ः४९
अतो यावन्ति वाक्यविशेषाणि संनिकृष्टविप्रकृष्टानि निर्वचनानि तानि च सर्वनिर्वचनानीति कृत्वा युक्तमुक्तम् ॥ भाष्यम् ५.४६ः५०
एवमत्र श्रीभगवत्कौण्डिन्यविरचिते श्रीमद्योगपाशुपतशास्त्रसूत्रव्याख्याने पञ्चार्थभाष्ये पञ्चमोऽध्यायः सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥ भाष्यम् ५.४६ः५१
शुभम् ॥ भाष्यम् ५.४६ः५२


]