श्रीदेव्युवाच ॥
सुदर्शनांशसम्भूतः कार्त्तवीर्य्यार्ज्जुनो नृपः ॥
एतत्त्वया पुरा प्रोक्तं तस्य मन्त्रान्प्रब्रूहि मे ॥ १ ॥
श्रीशिव उवाच ॥
शृणु देवि प्रवक्ष्यामि सर्वतन्त्रेषु गोपितान् ॥
पञ्चाम्नायगतान्मन्त्रानर्जुनस्य ब्रवीमिते ॥ २ ॥
धर्मपादाग्रभेदेन देव्याम्नायाः प्रकीर्त्तिताः ॥
धर्मादीनां पादभेदाद्देवि तुल्यं ब्रवीमि ते ॥ ३ ॥
लोकानिन्द्यस्त्वेकपादः शास्त्रानिन्द्यो द्विपाद्भवेत् ॥
त्रिपाद् द्वयोरनिन्द्यस्तु भक्तिश्रद्धासमन्वितः ॥ ४ ॥
सालोक्यमेकपात्प्रोक्तं सामीप्यन्तु द्विपात्स्मृतम् ॥
सारूप्यम्पादहीनं स्यात्सायुज्यम्पूर्णमुच्यते ॥ ५ ॥
एषां कैवल्यरूपाणां लक्षणं शृणु पार्वति ॥
यमैश्च नियमैर्युक्तः पूर्णधर्मस्तु केवलः ॥ ६ ॥
सिद्धो भवत्ययत्नेन स्वयं चेह परत्र हि ॥
अकृत्वा परसन्तापमगत्वा स्मरमन्दिरम् ॥
स्वधर्मेणार्ज्जितं द्रव्यं केवलं तत्र साधनम् ॥ ७ ॥
देहाभिमाननाशेन लिङ्गदेहविनाशनम् ॥
तेन कालस्वरूपत्वं तत्कैवल्यम्प्रकीर्त्तितम् ॥ ८ ॥
उत्तरेण च पूर्वेण पश्चिमेन यथाक्रमम् ॥
ऊर्द्ध्वेन दक्षिणेनैकदीपादिक्रमतोखिलाः ॥ ९ ॥
सिध्यन्ति केवलैश्चैवं पञ्चाम्नायैर्वृषादयः ॥
तत्र सङ्करशूद्राद्या विप्रान्ताश्चाधिकारिणः ॥ १० ॥
यथोक्ताम्नायसेवाभिर्ल्लभन्ते तत्परम्पदम् ॥
हीनसेवा तूत्तमानां रासभारोहणं यथा ॥ ११ ॥
अथेष्टपान्मनून्वक्ष्ये कार्त्तवीर्य्यार्जुनस्य च ॥
यः सुदर्शनचक्रस्यावतारः क्षितिमण्डले ॥ १२ ॥
वह्नितारयुता रौद्री लक्ष्मीरग्नीन्दुशान्तियुक् ॥
वेधा धरेन्दुशान्त्याढ्यो निद्रार्घीशाग्निबिन्दुयुक् ॥ १३ ॥
पाशो मायाङ्कुशम्पद्मा वर्मास्त्रे कार्त्तवीपदम् ॥
रेफो बिन्द्वासनोनन्तो वह्निजौ कर्णसंस्थितौ ॥ १४ ॥
मेषः सदीर्घपवनो मनुरुक्तो हृदन्तकः ॥
ऊनविंशतिवर्णोयन्तारादिर्नखवर्णकः ॥ १५ ॥
दत्तात्रेयो मुनिश्चास्य च्छन्दोनुष्टुबुदाहृतम् ॥
कार्त्तवीर्य्यार्जुनो देवो बीजं शक्तिध्रुवश्च हृत् ॥ १६ ॥
फ्राञ्ज्रामिति स्याद्धृदयं क्लीम्भ्रीमिति शिरः स्मृतम् ॥
ऊंहं शिखा समाख्याता क्र्ॐश्रीं कवचमीरितम् ॥ १७ ॥
हुम्फडस्त्रं समाख्यातं शेषेण व्यापकञ्चरेत् ॥
हृदये जठरे नाभौ जघने गुह्यदेशके ॥ १८ ॥
दक्षपादे वामपादे सक्थ्नि जानुनि जङ्घयोः ॥
विन्यसेद्बीजदशकम्प्रणवद्वयमध्यगम् ॥ १९ ॥
ताराद्यान्नव शेषार्णान्मस्तके च ललाटके ॥
भ्रुवोः श्रुत्योस्तथैवाक्ष्णोर्नसि वक्त्त्रे गलेंसयोः ॥ २० ॥
सर्वमन्त्रेण सर्वाङ्गे व्यापकँच ततश्चरेत् ॥
सर्वेष्टसिद्धये ध्यायेत्कार्त्तवीर्य्यार्ज्जुनेश्वरम् ॥ २१ ॥
प्रभाकररुचिः कण्ठे स्वर्णमालाविराजितः ॥
ध्येयो रक्तांशुकोष्णीषी नानाकल्पविराजितः ॥ २२ ॥
सहस्रार्धभुजैर्बाणान्सहस्रार्धैंर्धनूंषि च ॥
दधट्टङ्कारशब्दैश्च त्रासिताखिलदुर्जनः ॥ २३ ॥
स्यन्दने च समारूढः सप्तद्वीपधरापतिः ॥
भूपालमुकुटाघृष्टपादपद्मोब्जलोचनः ॥ २४ ॥
स्थूलकायोतिभीष्मश्च रथस्थो भक्तवत्सलः ॥
वैष्णवे तु यजेत्पीठे पद्मं दशदलं चरेत् ॥ २५ ॥
तस्याङ्गमूर्त्तिकाः पञ्च कर्णिकायाम्प्रपूजयेत् ॥
अग्नीशासुरवायव्यकोणेषु हृदयादिकाः ॥ २६ ॥
अस्त्राण्यपि चतुर्दिक्षु पञ्च ताः स्फटिकोज्ज्वलाः ॥
खड्गचर्म्मधरा ध्येयाश्चन्द्राभा अङ्गमूर्त्तयः ॥ २७ ॥
चापबाणधरा वीरास्सर्वाभरणभूषिताः ॥
रक्तांशुका रक्तमाल्या रक्तचन्दनचर्चिताः ॥
चतुर्भुजा रोचमोनाः सर्वे रक्तविलोचनाः ॥ २८ ॥
षट्कोणेषु षडङ्गानि ततो दिक्षु विदिक्षु च ॥
चौरमदविभञ्जनो मारीमदविभञ्जनः ॥ २९ ॥
अरिमदविभर्ञ्जनो दैत्यमदविभञ्जनः ॥
दुःखनाशो दुष्टनाशो दुरितामयनाशकः ॥ ३० ॥
दिक्ष्वष्टशक्तयः पूज्याः प्राच्यादिषु सितप्रभाः ॥
क्षेमङ्करा वश्यकरी श्रीकरी च यशस्करी ॥ ३१ ॥
तद्बहिर्भूपुरे पूज्या लोकपा अस्त्रसंयुताः ॥ ३२ ॥
चतुर्लक्षं जपेन्मन्त्रं होमः कार्य्यः पय्ॐन्धसा ॥
तिलाज्यतण्डुलैर्वापि पुरश्चर्य्या सरित्तटे ॥ ३३ ॥
तर्प्पणादि ततः कुर्य्यान्मन्त्रसिद्धिः प्रजायते ॥
प्रयोगानपि कुर्वीत शृणु तानधुनेश्वरि ॥ ३४ ॥
अथातो दक्षिणे मार्गे वक्ष्यते काम्यपूजनम् ॥
शुद्धभूमावष्टगन्धैर्लिखेद्यन्त्रं तदुच्यते ॥ ३५ ॥
लिखेद्दशदलम्पद्मं कर्णिकायां समालिखेत् ॥
फ्र्ॐक्लीं ॐ ऐं च पत्रेषु प्रणवाद्यानि संलिखेत् ॥ ३६ ॥
मन्त्रस्य नवबीजानि ततः पत्रान्तरेषु च ॥
ॐमादिदशवर्णाश्च केशरेषु समालिखेत् ॥ ३७ ॥
शषसहान्स्वरांश्चापि तदग्रे च लिखेत्पुनः ॥
वेष्टयेत्कादिकैर्वर्णैः शेषैः सहविवर्जितैः ॥ ३८ ॥
तद्बाह्ये चतुरस्रे तु वेष्टयेद्भूतवर्णकैः ॥
नानाकामप्रभेदेन भूवाय्वग्निनभोम्भसाम् ॥ ३९ ॥
पञ्च ह्रस्वाः पञ्च दीर्घा एकाराद्याश्च पञ्च च ॥
आयुष्करी तथा प्रज्ञाकरी विद्याकरी पुनः ॥
धनकराष्टमी पश्चाल्लोभेशा पञ्च पङ्कजम् ॥
पञ्चवर्गाः पञ्च याद्याः षसहाश्च लक्षौ क्रमात् ॥ ४० ॥
स्तम्भने पार्थिवै रौप्यैः शान्तौ वश्ये च तैजसैः ॥
उच्चाटने वायवीयैर्विद्वेषे चापि नाभसैः ॥
मारणे तैजसैः शान्तौ वातैः पुष्टौ च पार्थिवैः ॥ ४१ ॥
इदं यन्त्रं तोयपूर्णघटे क्षिप्त्वा प्रपूजयेत् ॥
कुम्भं स्पृष्ट्वा जपेन्मन्त्रं सहस्रं तेन सेचयेत् ॥ ४२ ॥
सम्यक् साध्यं तदा स स्यात्पुत्रवान्रोगवर्जितः ॥
यशस्वी दीर्घजीवी च सत्कलत्रानुरञ्जकः ॥
वाक्सिद्धश्चापि तेजस्वी प्रतापी विजितेन्द्रियः ॥ ४३ ॥
शत्रूपद्रवमापन्ने ग्रामे वा पुटभेदने ॥
संस्थापयेदिदं यन्त्रं वैरिभीतिनिवृत्तये ॥ ४४ ॥
अथ वक्ष्ये वामगानां यन्त्रभेदं शृणुष्व तम् ॥
लिखेदष्टदलं पद्मं ससाध्यं चान्द्रमप्युत ॥ ४५ ॥
योयमाद्यन्तयोस्तस्या लिखेत्पद्मेषु च क्रमात् ॥
मनुबीजाष्टकं चान्ते दले लेख्यं पुनश्च फट् ॥ ४६ ॥
त्रिशोन्तरे शेषवर्णानन्ते वर्णद्वयं लिखेत् ॥
त्रिशः स्वरानन्तरेषु त्रिधोष्मार्णसमन्वितान् ॥ ४७ ॥
घणाद्वयं च तद्बाह्ये तयोर्वीथ्यां च कादिकान् ॥
ऊष्मार्णांश्चतुरस्रे तु वज्राष्टकसमन्वितान् ॥ ४८ ॥
तद्बाह्ये सुलिखेज्जादि पूर्वकाद्भूतवर्णकान् ॥
स्नानार्थं घटपानीयमन्यत्पूर्ववदीरितम् ॥ ४९ ॥
काम्यहोमं प्रवक्ष्यामि सङ्ख्याकार्यानुसारतः ॥
सर्षपारिष्टलशुनकार्पासैर्मार्यते रिपुः ॥ ५० ॥
कार्त्तवीर्य्यस्य यत्किञ्चिद्धोमद्रव्यं तु काम्यकम् ॥
कटुतैलमहिष्याज्यैः प्लुतं कृत्वा तु होमयेत् ॥ ५१ ॥
धत्तूरैस्तभ्यते निम्बैर्द्वेष्यते वश्यतेम्बुजैः ॥ ५२ ॥
उच्चाट्यते विभीतस्य समिद्भिः खदिरस्य च ॥
यवैर्हुतैः श्रियः प्राप्तिस्तिलैराज्यैरघक्षयः ॥ ५३ ॥
तिलतण्डुलसिद्धार्थलाजैर्वश्यो नृपो भवेत् ॥
अपामार्गार्कदूर्वाणां होमो लक्ष्मीप्रदोघनुत् ॥
स्त्रीवश्यकृत्प्रियङ्गूनां गुग्गुलोर्भूतशान्तिदः ॥ ५४ ॥
अश्वत्थोदुम्बरप्लक्षवटबिल्वसमुद्भवाः ॥
समिधो लभते हुत्वा पुत्रानायुर्धनं सुखम् ॥ ५५ ॥
सर्प्पकञ्चुकसिद्धार्थन्धत्तूरस्य फलानि च ॥
हुत्वा लवणमिश्राणि चोरनाशः प्रजायते ॥
रोचनागोमयैः स्तम्भो भूप्राप्तिः शालिभिर्हुतैः ॥ ५६ ॥
अथातः सम्प्रवक्ष्यामि कार्त्तवीर्य्यमनोर्भिदः ॥
एकोनविंशत्यर्णोयं तारादिर्नखवर्णकः ॥ ५७ ॥
कार्तवीर्य्यार्जुनं ङेन्तमन्ते च नमसान्वितम् ॥
स्वबीजाद्यो दशार्णोसावन्ये नवशिवाक्षराः ॥ ५८ ॥
आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः ॥
स्वकामाभ्यां तृतीयोसौ स्वभ्रूभ्यां तु चतुर्थकः ॥ ५९ ॥
स्वपाशाभ्यां पञ्चमोसौ षष्ठः स्वेन च मायया ॥
स्वाङ्कुशाभ्यां सप्तमः स्यात्स्वरमाभ्यामथाष्टमः ॥ ६० ॥
स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यां तथान्तिमः ॥
एतेषु मन्त्रवर्य्येषु स्वानुकूलं मनुं भजेत् ॥ ६१ ॥
एषामाद्ये विराट् छन्दोन्येषु त्रिष्टुबुदाहृतम् ॥
दशमन्त्रा इमे प्रोक्ता यदा स्युः प्रणवादिकाः ॥ ६२ ॥
तदादिमः शिवार्णः स्यादन्ये तु द्वादशाक्षराः ॥
एवं विंशतिमन्त्राणां यजनं पूर्ववन्मनोः ॥ ६३ ॥
त्रिष्टुप्छन्दस्तदाद्ये स्यादन्येषु जगती मता ॥
दीर्घाढ्यमूलबीजेन कुर्य्यादेषां षडङ्गकम् ॥ ६४ ॥
तारो हृत्कार्त्तवीर्य्यार्जुनाय वर्मास्त्रठद्वयम् ॥
चतुर्दशार्णो मन्त्रोयमस्येज्या पूर्ववन्मता ॥ ६५ ॥
भूनेत्रसप्तनेत्राक्षिवर्णैरस्याङ्गपञ्चकम् ॥
तारो हृद्भगवान्ङेन्तः कार्त्तवीर्य्यार्जुनस्तथा ॥ ६६ ॥
वर्मास्त्राग्निप्रिया मन्त्रः प्रोक्तोष्टादशवर्णवान् ॥
त्रिवेदसप्तयुग्माक्षिवर्णैः पञ्चाङ्गकं मनोः ॥ ६७ ॥
नमो भगवते श्रीति कार्तवीर्य्यार्जुनाय च ॥
सर्वदुष्टान्तकायेति तपोबलपराक्रमैः ॥ ६८ ॥
परिपालितसप्तान्ते द्वीपाय सर्वरापदम् ॥
जन्यचूडामणिर्ङेन्तः सर्वशक्तिमते ततः ॥ ६९ ॥
सहस्रबाहवे प्रान्ते वर्मास्त्रान्तो महामनुः ॥
त्रिषष्टिवर्णवान्प्रोक्तः स्मरणात्सर्वसिद्धिकृत् ॥ ७० ॥
राजन्यचक्रवर्त्ती च वीरः शूरस्तृतीयकः ॥
माहिष्मतीपतिः पश्चाच्चतुर्थः समुदीरितः ॥ ७१ ॥
रेवाम्बुपरितृप्तश्च कारागेहप्रबाधित ॥
दशास्यश्चेति षड्भिः स्यात्पदैरेतैः षडङ्गकम् ॥ ७२ ॥
सिच्यमानं युवतिभिः क्रीडन्तं नर्मदाजले ॥
हस्तैर्जलौघं रुन्धन्तं ध्यात्वा मत्तं नृपोत्तमम् ॥ ७३ ॥
एवं ध्यात्वाथ तं मन्त्रं जपेदन्यत्तु पूर्ववत् ॥
पूर्ववत्सर्वमेतस्य समाराधनमीरितम् ॥ ७४ ॥
अथास्य वक्ष्यते ध्यानं सर्वैश्वर्य्यविधायकम् ॥
माहिष्मत्यां मन्त्रिमध्ये समासीनमलङ्कृतम् ॥ ७५ ॥
नानासुरस्त्रीप्रवृतं सिंहासनगतं सदा ॥
बाहुभिः शरचापासिगदामुद्गरशूलकान् ॥ ७६ ॥
भुशुण्डीपाशखेटादीन्दधतं सुप्रसन्नकम् ॥
परचक्रस्तेनराजभयं ध्यानमुदीरितम् ॥ ७७ ॥
अथान्यद्वक्ष्यते ध्यानं सर्वरक्षाकरं परम् ॥
त्रैलोक्यभीषणं ध्यायेदयुताश्वरथस्थितम् ॥ ७८ ॥
गर्जन्तं प्रति शत्रूंश्च सहस्रार्कसमद्युतिम् ॥
दोर्दण्डमण्डलैर्बाणान्क्षिपन्तं तीव्रधारकान् ॥ ७९ ॥
नानायुधधरैर्युक्तं रथिभिश्च पदातिभिः ॥
गजयूथैरश्ववाहैः कुण्डलद्योतितास्यकम् ॥ ८० ॥
ध्यात्वैवं प्राङ्मुखो भूत्वा सहस्रं नाशयेद्भयम् ॥
आहवे शत्रुसङ्घातं जित्वा स सुखमेधते ॥ ८१ ॥
अयमेव तु सर्वादिश्चतुष्षष्ठार्णको मनुः ॥
एकादशाविख्यातं ध्यानपूजादिकं मनोः ॥ ८२ ॥
यन्त्रमस्य प्रवक्ष्यामि सर्वकार्य्यार्थसिद्धये ॥
आदौ चतुर्दलं पद्मं चाष्टारं रदपत्रकम् ॥ ८३ ॥
तद्बाह्ये वेददलककर्णिकायां समालिखेत् ॥
ह्राṁबीजमथ पत्रेषु प्रणवं साध्यनाम च ॥ ८४ ॥
कार्य्ययुक्तं नमश्चान्ते तद्बाह्येष्टदलं लिखेत् ॥
एकोनविंशत्यर्णस्य द्वौ नमो हरितार्णकान् ॥ ८५ ॥
लिखेत्प्रतिदलं द्वौद्वौ वर्णौ बिन्दुसमन्वितौ ॥
तद्बहिः षोडशदले कामबीजं समालिखेत् ॥ ८६ ॥
वक्ष्यमाणमनोरस्य ततोऽनुष्टुभमालिखेत् ॥
बहिस्तस्य प्रकुर्व्वीत ततो वृतचतुष्टयम् ॥ ८७ ॥
तदाद्यवीथ्यां हि लिखेच्चतुष्षष्ठार्णकं मनुम् ॥
द्वितीयायां क्षकारादिककारान्तान्विलोमतः ॥ ८८ ॥
तृतीयायां ककारादिक्षकारान्तान्क्रमेण च ॥
ततो बीजानि च लिखेत्तत्परे च चतुर्दले ॥ ८९ ॥
कुं खुं श्रुं ध्रुं क्रमेणैव तद्बाह्येऽष्टदले पुनः ॥
चुं छुं जुं झुं तथाटुण्ठुण्डुण्ढुं षोडशदले पुनः ॥ ९० ॥
एवं तुपुयशान्तानि चर्चाबीजानि षोडश ॥
पुनरुक्तदले कादिहान्तबीजानि संलिखेत् ॥ ९१ ॥
अष्टाविशतिसङ्ख्यानि पुनः कादिचतुष्टयम् ॥
कार्य्यानुरूपं सुलिखेत्तद्बाह्ये भूतलं शुभम् ॥ ९२ ॥
द्विरावृत्त्या लिखेत्तस्य वीथ्या भूर्जेर्णकांस्तथा ॥
कार्त्तवीर्य्यार्जुनस्यैतद्यन्त्रं कोपि न वेत्त्यलम् ॥
अहं जानामि विष्णुश्च तत्रेपद्वेत्ति तद्गुहः ॥ ९३ ॥
स्वर्णपत्रे स्थितं यन्त्रं ह्येतत्सर्वार्थसिद्धिदम् ॥
राजते राज्यलाभाय ताम्रे रक्षाकरं भवेत् ॥ ९४ ॥
अट्टालके च लिखितं गृहरक्षाकरं भवेत् ॥
कण्ठे निबद्धमेतत्तु भृशं रक्षति बालकान् ॥ ९५ ॥
भित्तौ तु रामरक्षाकृत्सर्वरक्षाय भूर्जके ॥
कारस्करस्य फलके रोगनाशाय संलिखेत् ॥ ९६ ॥
चतुष्कोट्यघनाशाय लिखेद्वैकङ्कतोद्भवे ॥
विशाले कलिनाशाय समक्षित्यां शिलातले ॥ ९७ ॥
शरावे लिखिते यन्त्रे लोकपूज्यो भवेद्ध्रुवम् ॥
पताकायां ध्वजे वापि जयदं नात्र संशयः ॥ ९८ ॥
चन्दनागरुकर्पूररोचनासृगुशीरकैः ॥
लाक्षामृगमदाद्यैश्च लिखेद्वश्यादिकर्मकृत् ॥ ९९ ॥
लिखेदष्टविषैश्चापि मारणादिकर्मसु ॥
तद्यन्त्रकलशासेकाद्वन्ध्या पुत्रं प्रसूयते ॥ १०० ॥
राजाभिषिक्तो भवति धैर्यशौर्यादिसंयुतः ॥
कात्तवीर्य्यार्ज्जुनो नाम राजा बाहुसहस्रवान् ॥
तस्य संस्मरणादेव हृतं नष्टं च लभ्यते ॥ १०१ ॥
द्वात्रिंशदर्णो मन्त्रोयं छन्दोनुष्टुप्च पूर्ववत् ॥
मुन्यादिकं च पञ्चाङ्गन्यासः सर्वेण कीर्तित ॥ १०२ ॥
गर्जस्यन्दनसप्तिगैश्चपत्तिसङ्घैस्समावृतम् ॥
महागजसमारूढं मदाघूर्णितलोचनम् ॥ १०३ ॥
पाशाङ्कुशधनुश्चापान्दधतं भीषणाकृतिम् ॥
धावमानमरातीनां वधार्थं संस्मरेन्नृपम् ॥ १०४ ॥
वने महाचौरभये गजयुद्धे द्विषां गृहे ॥
एवं ध्यात्वायुतं जप्त्वा भयान्यन्यानि सन्तरेत् ॥ १०५ ॥
सहस्रहस्तैर्नियमान्दधतं नियमस्थितम् ॥
सुप्रसन्नं मणिगणालङ्कृतं दीप्ततेजसम् ॥ १०६ ॥
योगनिष्ठं भजेद्भूपं स्वर्णाप्त्यै गोप्रवृद्धये ॥
आयुर्वृद्धये रोगशान्त्यै द्वादशार्णः प्रकीर्त्तितः ॥ १०७ ॥
पादैः सर्वेण पञ्चाङ्गं ध्यानयोगादि पूर्ववत् ॥
द्वात्रिंशदर्णमन्त्रस्य विधिरेवमुदाहृतः ॥ १०८ ॥
कार्त्तवीर्य्याय विद्महे महावीर्य्याय धीमहि ॥
तन्नोर्जुनः प्रचोदयात् ॥ १०९ ॥
गायत्र्येषार्जुनस्योक्ता प्रयोगादौ जपेत्तु ताम् ॥
आनुष्टुभं मनुं रात्रौ जपतां चौरसञ्चयाः ॥
पलायन्ते गृहाद्दूरं हवनात्तर्प्पणादपि ॥ ११० ॥
कार्त्तवीर्य्यस्य गायत्री प्रोक्ता चैषा त्रयोदशी ॥
प्राग्वन्मुन्यादिकं छन्दो गायत्त्रं पूर्ववद्धतिः ॥ १११ ॥
सर्वमन्त्रप्रयोगेषु जपितव्या हितैषिणा ॥
गायत्रीजपमात्रेण मन्त्रवीर्यप्रवर्द्धनम् ॥ ११२ ॥
मन्त्रस्यास्य जपाद्देवि नष्टं द्रव्यं च लभ्यते ॥
हताश्चौरा भविष्यन्ति हृतं द्रव्यं च सिध्यति ॥ १३ ॥
तारो नमो भगवते कार्त्तवीर्य्यार्ज्जुनाय च ॥
महाबलाय धीमहि तन्नोर्ज्जुनः प्रचोदयात् ॥ ११४ ॥
यसवेतिषन्ता (?) दुष्ट-इवाशनः ॥
हुं फट् स्वाहा रदार्णोयं प्रोक्तो मन्त्रश्चतुर्द्दशः ॥ ११५ ॥
मुन्यादिकं प्राग्वदेव च्छन्दोनुष्टुबुदाहृतम् ॥
सप्तसप्तेषुनवभिश्चतुर्भिश्चाङ्गपञ्चकम् ॥ ११६ ॥
अनुष्टभं जपेद्रात्रौ जपस्वाध्यायतत्परः ॥
तिष्ठन्नुदङ्मुखो नित्यं शतमष्टोत्तरं सुराः ॥
मण्डलान्म्रियते शत्रुर्विकलाङ्गोथ वा भवेत् ॥ ११७ ॥
यस्या दिशो भयं तस्याः सम्मुखो निशि सञ्जपेत् ॥
अखर्वभयनाशः स्यादेकविंशतिभिर्द्दिनैः ॥ ११८ ॥
होमार्द्धं तर्प्पणं कुर्य्यादनेन सतिलाम्बुभिः ॥
हृतं च पूर्वसम्प्रोक्तं द्रव्यं लभ्येत् सत्त्वरम् ॥ ११९ ॥
तारो नमो भगवते नमः श्रीपदमुच्चरेत् ॥
कार्त्तवीर्य्यार्ज्जुनायेति हैहयेति पदं वदेत् ॥ १२० ॥
नाथाय कार्त्तवीर्य्यायार्ज्जुनायेति सहस्रतः ॥
करेति सर्वदुष्टान्तकायेति च पदं पठेत् ॥ १२१ ॥
सर्वेष्टदायेति सर्वान्दण्डयद्वितयं तथा ॥
आगन्तुकांश्च प्रवदेद्दस्यून्वसुविलुम्पकान् ॥ १२२ ॥
वीरसमूहान्स्वखड्गसहस्रैश्छिन्धियुग्मकम् ॥
स्वहस्तोद्भूतमुसलसहस्रैर्मर्द्दयद्वयम् ॥ १२३ ॥
स्वशङ्खोद्भूतनादानां सहस्रैर्भीषयद्वयम् ॥
स्वहस्तोद्भूतचक्राणां सहस्रैर्विनिकर्तय ॥ १२४ ॥
परकृत्यां शमयेति भूपांश्चाकर्षयद्वयम् ॥
त्रासय द्विर्मोहय द्विरुद्वासययुगं वदेत् ॥ १२५ ॥
उन्मादयद्वयं त्रेधा तापय द्विर्विनाशय ॥
द्विर्भेदय स्तम्भय द्विर्जृम्भयद्वयमावदेत् ॥ १२६ ॥
मारयद्वितयं प्रोच्य वशङ्कुरुवश कुरु ॥
उच्चाटयोच्चाटयेति विनाशयविनाशय ॥ १२७ ॥
दत्तात्रेयश्रीपदान्ते पादप्रिय तमेति च ॥
श्रीकार्तवीर्य्यार्जुनेति सर्वग स्वालये वदेत् ॥ १२८ ॥
आगन्तुकामान्प्रवदेदस्मद्द्रव्यविलुम्पकान् ॥
चोरसमूहान्सम्यग्वदेदुन्मूलयद्वयम् ॥ १२९ ॥
हुम्फट् स्वाहेति मन्त्रोयं युगाष्टनगवर्णवान् ॥
दत्तात्रेयो मुनिश्छन्दो गायत्र्यन्यच्च पूर्ववत् ॥ १३० ॥
दत्तात्रेयप्रियतमं फडन्तं हृदि विन्यसेत् ॥
माहिष्मतीनिवासोयं शिरोमन्त्रो नगाक्षरः ॥ १३१ ॥
नमः श्रीकार्त्तवीर्याय कीर्त्तितोयं शिखामनुः ॥
हहैयाधिपतिर्ङेन्तः कवचस्य मनुर्मतः ॥ १३२ ॥
सहस्रबाहवे तु स्यादेवं पञ्चाङ्गमीरितम् ॥
उदग्रबाणांश्चापानि दधतं सूर्यसन्निभम् ॥ १३३ ॥
प्रपूरयन्तं वसुधां धनुर्ज्यानिःस्वनैस्तथा ॥
कार्त्तवीर्यनृपं ध्यायेद्गण्डशोभितकुण्डलम् ॥ १३४ ॥
एवं ध्यात्वा समभ्यर्च्य सर्वकर्माणि साधयेत् ॥
त्रिसहस्रो जपः प्रोक्तः शेषं पूर्ववदाचरेत् ॥ १३५ ॥
दधतं दक्षिणैर्वामैर्हस्तैरस्त्राणि भूपतिम् ॥
चक्रेषून्मुसलं शूलकुठारौ पाशमेव च ॥ १३६ ॥
प्रासचर्मधनुःशङ्खान्मध्यभास्करसन्निभम् ॥
बलाढ्यमरुणं घोरं तत्त्वमातङ्गसंस्थितम् ॥ १३७ ॥
रक्ताम्बरं रक्तनेत्रं ध्यात्वैवं प्रजपेन्मनुम् ॥
निशीथेष्टोत्तरशतं नष्टद्रव्यादिसिद्धये ॥ १३८ ॥
जपेच्चेदेकपादेन षाण्मासान्नष्टवित्तकः ॥
सम्प्रार्थ्य मन्त्रिणे चोराःप्रयच्छन्त्यखिलं धनम् ॥ १३९ ॥
चौरैर्हृतपशुर्मन्त्री यदानेतुं समिच्छति ॥
जपेदष्टोत्तरशतं ध्यात्वा भूपं समाहितः ॥ १४० ॥
पश्येत्सम्यक्सर्वपशून्गृहाभिमुखमागतान् ॥
ध्यात्वैवं सर्वपशवो ध्रुवमायान्ति मोचिताः ॥ १४१ ॥
चौरैर्हृतस्वो ब्रह्माणीच्छदैर्होमं चरेन्निशि ॥
हृतं प्रकाशमायाति स्वं स्वस्थाने नचान्यथा ॥ १४२ ॥
बाणान्क्षिपन्तं तं रात्रौ धनुषो ध्यानतत्परम् ॥
दशदिक्षु जपेन्मन्त्रं राष्ट्रादे रक्षणं भवेत् ॥ १४३ ॥
मन्त्रेण जपितानीत्थं पार्थिवानि रजांसि च ॥
क्षिप्तानि मन्त्रिणा यत्र तत्र रक्षा भवेन्निशि ॥ १४४ ॥
दौभित्येकाक्षरो मन्त्रः कार्त्तवीर्यस्य षोडशः ॥
मुनिपूजादिकं प्राग्वल्लक्षमेकं पुरस्क्रिया ॥ १४५ ॥
षड्दीर्घयुक्तेनानेन षडङ्गविधिनिर्णयः ॥
प्राग्वत्प्रयोग इत्येवमूर्द्ध्वाम्नायः प्रकीर्त्तितः ॥ १४६ ॥
पश्चिमाम्नायमन्त्रास्तु प्रोक्ताश्चारब्बभाषया ॥
अष्टौ शतान्यशीतिश्च येषां संसाधना कलौ ॥ १४७ ॥
पञ्च खानाः सप्त मीनाः नव शाहा महाबलाः ॥
हिन्दुधर्मप्रलोप्तारो जायन्ते चक्रवर्त्तिनः ॥ १४८ ॥
पूर्वाम्नाये नवशतषडशीतिप्रवर्त्तिनः ॥
फिरङ्गभाषया मन्त्रास्तेषां संसाधनाद्भुवि ॥ १४९ ॥
अधिपा मन्दराणां च सङ्ग्रामेष्वपराजिताः ॥
इङ्ग्रेजा नव गद्याश्च लण्डनेष्वपि भाविनः ॥ १५० ॥
बहुविद्यानिदृश्वानः प्रवक्तारो मनोरथ ॥
तद्बीजपूर्व्वाः सर्वेपि मनवो वामसिद्धिदाः ॥ १५१ ॥
दक्षिणाचारफलदः कार्त्तवीर्य्यार्ज्जुनो मतः ॥
वामाचारेण शूद्राणामिह लोके फलप्रदः ॥ १५२ ॥
न वामिनां हितार्थं तु मन्त्रवीर्य्यं प्रयोजयेत् ॥
सप्तजन्मसुदारिद्र्यं पैशाच्यं प्राप्नुयाद्द्विजः अथो दीपविधिं वक्ष्ये कार्त्तवीर्य्यप्रियङ्करम् ॥ १५३ ॥
वैशाखे श्रावणे मार्गे कार्त्तिकाश्विनपौषतः ॥
माघे च फाल्गुने मासे दीपारम्भः प्रशस्यते ॥ १५४ ॥
तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना ॥
हस्तोत्तराश्विरौद्रेषु पुष्यवैष्णववायुभे ॥
द्विदैवते च रोहिण्यां दीपारम्भः प्रशस्यते ॥ १५५ ॥
चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि ॥
प्रीतौ हर्षे च सौभाग्ये शोभनायुष्मतोरपि ॥ १५६ ॥
करणे विष्टिरहिते ग्रहणेर्द्धोदयादिषु ॥
एषु योगेषु पूर्वाह्णे दीपारम्भः कृतः शुभः ॥ १५७ ॥
कार्त्तिके शुक्लसप्तम्यां निशीथेतीव शोभनः ॥
यदि तत्र रवेर्वारः श्रवणं भं तु दुर्लभम् ॥ १५८ ॥
श्रुत्वा वश्यककार्य्येषु मासादीनां न शोधनम् ॥
आद्ये ह्युपोष्य नियतो ब्रह्मचारी शयीत कौ ॥ १५९ ॥
प्रातः स्नातः शुद्धभूमौ लिप्तायां गोमयोदकैः ॥
प्राणानायम्य सङ्कल्पं न्यासान्पूर्वोदितांश्चरेत् ॥ १६० ॥
षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः ॥
मध्ये कामं समालिख्य षट्कोणेषु समालिखेत् ॥ १६१ ॥
मन्त्रराजस्य षड्वर्णान्कामबीजविवर्जितान् ॥
क्र्ॐ श्रीं हुम्फट् च पूर्वादिदिशासु विलिखेत्क्रमात् ॥ १६२ ॥
नवार्णैर्वेष्टयेत्तच्च त्रिकोणं तद्बहिः पुनः ॥
एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम् ॥ १६३ ॥
स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः ॥
कांस्यपात्रं मृन्मयं च कनिष्ठं लोहजं मृतौ ॥ १६४ ॥
शान्तये मुद्गचूर्णोत्थं सन्धौ गोधूमचूर्णजम् ॥ १६५ ॥
ब्रध्नेषूर्ध्वसमानन्तु पात्रं कुर्य्यात्प्रयत्नतः ॥
अर्कदिग्वसुषट्पञ्चचतूरामाङ्गुलैर्मितम् ॥ १६६ ॥
आज्ये पलसहस्रं तु पात्रं शतपलैः कृतम् ॥
आज्येयुतपले पात्रं पलपञ्चशतीकृतम् ॥ १६७ ॥
पञ्चसप्ततिसङ्ख्ये तु पात्रं षष्टिपलं मतम् ॥
त्रिसहस्रे घृतपले शरार्कपलभाजनम् ॥ १६८ ॥
द्विसहस्रे शरशिवं शतार्द्धे त्रिंशता मतम् ॥
शतेक्षिशरसङ्ख्यातमेवमन्यत्र कल्पयेत् ॥ १६९ ॥
नित्यमेवं तु यो दद्यात्कार्त्तवीर्य्याय दीपकम् ॥
शत्रवस्तस्य नश्यन्ति नात्र कार्य्या विचारणा ॥ १७० ॥
व्याधयश्चाधयश्चैव विलीयन्तेचिरादपि ॥
जीवेद्वर्षशतं मन्त्री पापानि क्षयमाप्नुयुः ॥ १७१ ॥
एका तिस्रोथ वा पञ्च सप्ताद्यविषमा अपि ॥
तिथिमानाद्यासहस्रं तन्तुसङ्ख्या विनिर्मिता ॥ १७२ ॥
गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम् ॥
सहस्रपलसङ्ख्यादिदशान्तं कार्य्यगौरवात् ॥ १७३ ॥
सुवर्णादिकृतां रम्यां शलाकां षोडशाङ्गुलाम् ॥
तदर्धां वा तदर्धां वा सूक्ष्माग्रां स्थूलमुलिकाम् ॥ १७४ ॥
विमुञ्चेद्दक्षिणे भागे पात्रमध्ये कृताग्रिकाम् ॥
पात्राद्दक्षिणदिग्देशे मुक्त्वागुलचतुष्टयम् ॥ १७५ ॥
अथोग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम् ॥
दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम् ॥ १७६ ॥
दीपात्पूर्वत्र दिग्भागे सर्वतो भद्रमण्डले ॥
तण्डुलाष्टदले वापि विधिवत्स्थापयेद् घटम् ॥ १७७ ॥
तत्रावाह्य नृपाधीशं पूर्ववत्पूजयेन्निशि ॥
एतत्प्रोक्तं द्विजातीनां वामिभिर्वामभागके ॥ १७८ ॥
क्षेप्या शलाकाच्छुरिका पश्चात्पश्चिमभागके ॥
जलाक्षततिलान्हस्ते गृहीत्वा मन्त्रमुच्चरेत् ॥ १७९ ॥
अथ मन्त्रं प्रवक्ष्यामि तारं पाशं च ह्रीं वषट् ॥
कार्त्तवीर्य्यार्जुनायेति वदेन्माहिष्मतीपदम् ॥ १८० ॥
नाथायेति सहस्रेति बाहवे पदमुच्यते ॥
सहस्रक्रतुशब्दान्ते दीक्षिताय प्दं वदेत् ॥ १८१ ॥
दत्तात्रेयप्रियायेति आत्रेयाय वदेत्ततः ॥
अनुसूयागर्भरत्नाय हुम्फट् च प्रवदेत्ततः ॥ १८२ ॥
इमं दीपं गृहाणेति अमुकं रक्षरक्ष च ॥
दुष्टान्नाशययुग्मं स्यात्तथा पातय घातय ॥ १८३ ॥
शत्रूञ्जहिद्वयं मायां तारं फ्र्ॐक्लीं हुताङ्गनाम् ॥
अनेन दीपवर्य्येण पश्चिमाभिमुखेन च ॥ १८४ ॥
अमुकं रक्ष चेत्युक्त्वा अमुकेति वरप्रदा ॥
नाय हींहीं च ह्रीं तारं क्लीं च्रीं स्वाहा सबिन्दुकान् ॥
वदेद्वर्णांस्तकारादीन्दश तारं हुताङ्गनाम् ॥ १८५ ॥
दीपदानस्य मन्त्रोयं नेत्रबाणधराक्षरः ॥
दत्तात्रेयो मुनिश्छन्दोभितं देवोर्जुनः स्मृतः ॥ १८६ ॥
चीम्बीजेन षडङ्गानि दीर्घषट्कयुजा चरेत् ॥
ध्यात्वा देवं मन्त्रमेतमष्टोत्तरसहस्रकम् ॥ १८७ ॥
जपेत्तारं तथा पाशं रमां फ्रीञ्च्रीं दहाङ्गनाम् ॥
अङ्कुशं च पुनस्तारं मनुः प्रोक्तो नवाक्षरः ॥ १८८ ॥
प्राग्वच्चर्षिर्देवताङ्गे छन्दोनुष्टुप्समीरितम् ॥
एवं दीपप्रदानस्य कर्त्ताप्नोत्यखिलेप्सितम् ॥ १८९ ॥
दीपप्रबोधकाले तु वर्जयेदशुभाङ्गिरम् ॥
विप्रादीनां तु पञ्चाशत्पदार्थानां निरीक्षणम् ॥
तस्मिन्नवसरे कार्य्यं सिद्धम्भवति नान्यथा ॥ १९० ॥
शूद्रादीनां तु पञ्चाशत्पदार्थानां निरीक्षणम् ॥
अतियत्नात्कार्य्यसिद्धिं कुर्य्याच्चैव विलम्बतः ॥ १९१ ॥
भारद्वाजादिपञ्चाशत्पदार्थानां तु दर्शने ॥
व्यत्यये सति कार्य्यस्य नैव सिद्धिः प्रजायते ॥ १९२ ॥
कार्य्यनाशो बन्धवधौ म्लेच्छादीनां तु दर्शने ॥
आख्वोत्वोर्दर्शनं दुष्टं गवयस्य सुखावहम् ॥ १९३ ॥
दीपज्वाला समा सिद्ध्यै वक्रा नाशविधायिनी ॥
सशब्दा भयदा कर्तुरुज्ज्वला सुखदा गता ॥ १९४ ॥
कृष्णा शत्रुभयोत्पत्त्यैवमन्ती पशुनाशिनी ॥
कृते दीपे यदा पात्रं भग्नं दृश्येत दैवतः ॥
पक्षादर्वाक् तदा गच्छेद्यजमानोयमालयम् ॥ १९५ ॥
वर्त्यन्तरं यदा कुर्य्यात्कार्य्यं सिध्येद्विलम्बतः ॥ १९६ ॥
नेत्रहीनो भवेत्कर्त्ता तस्मिन्दीपान्तरे कृते ॥
अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः ॥ १९७ ॥
श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितो भयम् ॥
पात्रारम्भे वसुपलैः कृतो दीपोखिलेष्टदः ॥ १९८ ॥
पलानां पञ्चविंशत्या दीपो देयोर्थसिद्धये ॥
पञ्चाशता कृतो दीपः शत्रुवश्याय चेष्यते ॥ १९९ ॥
पराजयश्च शत्रूणां पञ्चसप्ततिभिर्भवेत् ॥
शतेन शत्रुनाशः स्यात्सहस्रेणाखिलाः क्रियाः ॥ २०० ॥
तस्माद्दीपो रक्षणीयः प्रयत्नेनान्तरायतः ॥
आसमाप्तेः प्रकुर्वीत ब्रह्मचर्य्यञ्च भूशयम् ॥ २०१ ॥
स्त्रीशूद्रपतितादीनां सम्भाषामपि वर्जयेत् ॥
जपेत्सहस्रं प्रत्येकं मन्त्रराजं नवाक्षरम् ॥ २०२ ॥
स्तोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः ॥
एकपादेन दीपाग्रे स्थित्वाथो मन्त्रनायकम् ॥
सहस्रं प्रजपेद्रात्रौ सोभीष्टं क्षिप्रमाप्नुयात् ॥ २०३ ॥
समाप्य शोभने घस्रे सम्पूज्य द्विजनायकान् ॥
कुम्भोदकेन कर्त्तारमभिषिञ्चेन्मनुं स्मरन् ॥ २०४ ॥
कर्त्ता च दक्षिणां दद्यात्पुष्कलां तोषहेतवे ॥
पलानां तु दशांशेन मुख्यं प्राङ्मुख्यभाजने ॥ २०५ ॥
विंशत्यंशेन मध्यं स्याच्छतांशेनापरं स्मृतम् ॥
गुरौ तुष्टे ददातीष्टं कृतवीर्य्यसुतो नृतः ॥ २०६ ॥
गुर्वाज्ञया स्वयं कुर्य्याद्यदि वा कारयेद्गुरुम् ॥
गुर्वाज्ञामन्तरा कुर्य्याद्यो दीपं स्वेष्टसिद्धये ॥
प्रत्युतानुभवत्येव हानिमेव पदेपदे ॥ २०७ ॥
दीपदानविधिं ब्रूयात्कृतघ्नादिषु नो गुरुः ॥
दुष्टेभ्यः कथितो मन्त्रो वक्तुर्दुःखावहो भवेत् ॥ २०८ ॥
उत्तमं गोघृतं प्रोक्तं मध्यमं महिषीभवम् ॥
तिलतैलं तु तादृक् स्यात्कनीयोजादिजं घृतम् ॥ २०९ ॥
आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम् ॥
सिद्धार्थसम्भवेनाथ द्विषतां नाशहेतवे ॥ २१० ॥
सहस्रेण पलैर्दीपे विहिते चेन्न दृश्यते ॥
कार्य्यसिद्धिस्तदा कुर्य्यात्त्रिवारं दीपजं विधिम् ॥ २११ ॥
तदा तु दुर्लभं कार्यं सिध्यत्येव न संशयः ॥
यथाकथञ्चिद्यः कुर्य्याद्दीपदानं स्ववेश्मनि ॥ २१२ ॥
विघ्नाः सर्वेरिभिः साकं तस्य नश्यन्त्यदूरतः ॥
सर्वदा जयमाप्नोति पुत्रान्पौत्रान्धनं यशः ॥ २१३ ॥
दीपप्रियः कार्तवीर्य्यो मार्त्तण्डो नतिवल्लभः ॥
स्तुतिप्रियो महाविष्णुर्गणेशस्तर्प्पणप्रियः ॥ २१४ ॥
दुर्गार्च्चनप्रिया नूनमभिषेकप्रियः शिवः ॥
तस्मात्तेषां प्रतोषाय कुर्य्यात्तत्तु च तादृशम् ॥ २१५ ॥
इति भोः कथितं देवा दीपदानं महीक्षितुः ॥
अतः परं किं वक्तव्यं तत्पृच्छत सुरोत्तमाः ॥ २१६ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते कार्त्तवीर्य्यार्जुनमन्त्रकथनं नाम पञ्चत्रिंशत्तमः प्रकाशः ॥ ३५ ॥
समाप्तश्चायं ग्रन्थः ॥
शुभमस्तु ॥