३४ हनुमन्मन्त्रकथनं

श्रीदेव्युवाच ॥

ब्रूह्येकादशरुद्रस्य मन्त्रान्हनुमतो मम ॥
रक्षसा निहता येन त्वत्तो लब्धवरा अपि ॥ १ ॥

श्रीशिव उवाच ॥

वक्ष्यामि तव देवेशि मन्त्रान्हनूमतस्त्विह ॥
चातुर्युगान्तानाकल्पसंस्थितान्सिद्धिदायकान् ॥ २ ॥

तत्रादौ कथयिष्यामि मालामन्त्रं महाफलम् ॥
तारं च वाग्भवं लक्ष्मीं ह्रींह्रींहुं च समुच्चरेत् ॥ ३ ॥

आद्यन्ताकृतिवेदार्णं बिन्दुरुद्रस्वरान्वितैः ॥
हनुमतस्त्वाद्यकूटमेतत्साधक उच्चरेत् ॥
प्रकृत्याकृतिवेदार्णैर्बिन्दुरुद्रस्वरान्वितैः ॥ ४ ॥

द्वितीयकूटमेतत्स्यादाद्यन्तकृतवर्णकैः ॥ ५ ॥

विसर्गेन्द्रस्वरोपेतैस्तृतीयं कूटमुच्यते ॥
आद्यन्तसिद्धाकृत्यब्धिवर्णैरीशस्वरान्वितैः ॥ ६ ॥

सानुस्वारैस्तुर्य्यकूटं ससाध्यैः पञ्चमं मतम् ॥
तारो नमो हनुमते प्रकटेति पराक्रम ॥ ७ ॥

आक्रान्तदिङ्मण्डलयशोवितानधवेति च ॥
लीकृतजगत्त्रितय वज्रदेह ज्वलेति च ॥ ८ ॥

दग्निसूर्येति कोटीति समप्रभतनूरुह ॥
रुद्रावतार लङ्केति पुरीदहन संवदेत् ॥ ९ ॥

उदधिलङ्घन दश प्रोच्य चाथ शिरः कृतान् ॥
तक सीताश्वासनेति वदेद्वायुसुतेति च ॥ १० ॥

अञ्जनीगर्भसम्भूत श्रीरामलक्ष्मणा वदेत् ॥
नन्दकर कपिसैन्यप्राकति ततो वदेत् ॥ ११ ॥

सुग्रीवसख्यकारेति णेति वालिनिबर्हण ॥
कारणद्रोणपर्वेति तोत्पाटनपदं वदेत् ॥ १२ ॥

अशोकवनमित्युक्त्वा दारणेति पदं वदेत् ॥
अक्षकुमारकच्छेति दहनेति पदं ततः ॥ १३ ॥

रक्षोवरसमूहेति विभेदनपदं वदेत् ॥
ब्रह्मास्त्रेति ब्रह्मशक्तिग्रहमुक्त्वा च लक्ष्मण ॥ १४ ॥

शक्तिभेदविदारेति ण विशल्योषधीति च ॥
समानयन बालेति संवदेद्भानुमण्डल ॥ १५ ॥

ग्रसनोग्रमेघनादहोमविध्वंसनेति च ॥
इन्द्रजिद्वधकारेति णेति सीतेतिरञ्जक ॥ १६ ॥

राक्षसीसङ्घवीथ्यन्ते दारणेति वदेत्पदम् ॥
कुम्भकर्णादिवधकृत्परायणपदं वदेत् ॥ १७ ॥

रामभक्तितदित्युक्त्वा वदेत्परपदं ततः ॥
समुद्रव्योमपदतः समुल्लङ्घन संवदेत् ॥ १८ ॥

महासामर्थ्येति महातेजःपुञ्जविराजमा ॥
न स्वामिवचनेत्युक्त्वा सम्पादितार्जनेति च ॥ १९ ॥

संयुगेति सहायेति कुमारेति ग्रहा वदेत् ॥
दीन्भीषय पदान्ते शब्दोदयपदं वदेत् ॥ २० ॥

दक्षिणाशेति मार्त्तण्डमेरुपर्वतवीथिका ॥
चलेति सकलेत्युक्त्वा मन्त्रागपदतो वदेत् ॥ २१ ॥

माचार्य्य मम सर्वग्रहविनाशन सर्व च ॥
ज्वरोच्चाटन सर्वेति वदेच्च विघ्ननाशन ॥ २२ ॥

सर्वापत्ति पदान्ते तु निवारणपदं वदेत् ॥
सर्वदुष्टपदान्ते च निबर्हणपदं तथा ॥ २३ ॥

सर्वव्याघ्रादिपदतो वदेद्भयनिवारण ॥
सर्वशत्रुच्छेदनेति वदेन्मम परस्य च ॥ २४ ॥

त्रियुगेतिपदान्ते तु नपुंस्त्रीतिपदं वदेत् ॥
नपुंसकात्मकं सर्वान्ते वदेज्जीवम्पदं ततः ॥ २५ ॥

वशयद्वयमानय ममाज्ञाकारकं वदेत् ॥
सम्पादयद्वयम् नानामुनिध्येय ततो वदेत् ॥ २६ ॥

सर्वेति मम सम्प्रोच्य परिवारान्ममेति च ॥
सेवकान्कुरुयुग्मं च सर्वशस्त्रास्त्र संवदेत् ॥ २७ ॥

विषान्विध्वंसयेति द्विरुक्त्वा ह्रां त्रितयं वदेत् ॥
हाहाहा पाहि पाहीति प्रागुक्तं कूटपञ्चकम् ॥ २८ ॥

विलोमेन वदेत्सर्वं सर्वशत्रुहरं परम् ॥
वृत्तानि परसैन्यानि क्षोभयद्वितयं मम ॥ २९ ॥

सर्वकार्य्यजातमिति साधयद्वितयं ततः ॥
सर्वदुष्टदुर्जनेति मुख्यानि कीलयद्वयम् ॥ ३० ॥

यत्रयं ह्रान्त्रयं त्रीन्ह्रीं हुम्फट्त्रयं चाग्निगेहिनी ॥
मालामन्त्रो हनुमतो नागनागशराक्षरः ॥ ३१ ॥

मुनिरस्येश्वरश्छन्दोनुष्टुब्देवोञ्जनीसुतः ॥
तारो नमो भगवते चाञ्जनेयाय हृन्मनुः ॥ ३२ ॥

तारो नमो भगवते शिरः स्याद्भद्रमूर्त्तये ॥
तारो नमो भगवते शिखा वायुसुताय च ॥ ३३ ॥

अग्निगर्भाय भद्राय कवचस्य मनुः स्मृतः ॥
तारो नमो भगवते रामदूताय नेत्रके ॥
ब्रह्मास्त्रनिवारणाय नरवक्त्त्रास्त्रमन्त्रकः ॥ ३४ ॥

स्फटिकाभं स्वर्णकान्तिन्द्विभुजञ्च कृताञ्जलिम् ॥
कुण्डलद्वयसंशोभि मुखाम्भोजं स्मरेन्मुहुः ॥ ३५ ॥

पूजा तु वैष्णवे पीठे शैवे वा चावृतिं विना ॥
अयुतञ्च पुरश्चर्य्या रामस्याग्रे शिवस्य च ॥ ३६ ॥

घृतहोमः सहस्रं स्यात्तर्प्पणादि ततश्चरेत् ॥
जितेन्द्रियश्चणकाशी हनुमद्ध्यानतत्परः ॥ ३७ ॥

क्षुद्ररोगनिवृत्त्यर्थमष्टोत्तरशतं जपेत् ॥
एकान्ते त्रिदिनैर्जापान्नाशो भूतादिकस्य च ॥
महारोगादिशान्त्यर्थमष्टोत्तरसहस्रकम् ॥ ३८ ॥

सप्ताहं नियताहारो जपेन्निशि च राक्षसाः ॥
ग्रहादयश्च नश्यन्ति तथा सर्वेभिचारकाः ॥ ३९ ॥

जयादिकाङ्क्षी त्वयुतं जपेन्निशि यतासनः ॥
ध्यायंस्तथाक्षहन्तारं सङ्ग्रामे विजयेत च ॥ ४० ॥

सम्यक् च रामसुग्रीवसन्धिकारं जपेत्स्मरन् ॥
अयुतेनाप्यविच्छिन्नसन्धिमाप्नोत्यसंशयम् ॥ ४१ ॥

लङ्कया दाहकं ध्यायन्द्वादशार्णं महामनुम् ॥
हौम्बीजं सम्यगुच्चार्य्य पूर्वोक्तं कूटपञ्चकम् ॥ ४२ ॥

हनूमते नमो मन्त्रो रामचन्द्रो मुनिः स्मृतः ॥
जगतीछन्द उद्दिष्टं हनुमान्देवता मतः ॥ ४३ ॥

बीजं तु पञ्चमं कूटं शक्तिराद्यं तु कूटकम् ॥
षड्बीजैः प्रथमैर्न्यासः षडङ्गोस्य प्रकीर्तितः ॥ ४४ ॥

मूर्ध्निभाले दृशोरास्ये कण्ठे बाहौ तथा हृदि ॥
कुक्षौ नाभौ ध्वजे जान्वोः पादयोर्मनुवर्णकान् ॥ ४५ ॥

मूर्ध्नि भाले मुखे हृत्के नाभावूर्वोश्च जङ्घयोः ॥
पादयोर्विन्यसेन्मन्त्रं षड्बीजानि पदद्वयम् ॥ ४६ ॥

बालार्काभं त्रिभुवनक्षोभकं सर्वराक्षसान् ॥
नादेनैव त्रासयन्तं सुग्रीवादिकसेवितम् ॥ ४७ ॥

सुन्दरं रामचरणध्यानं ध्यायेत्समीरजम् ॥
यजेदष्टदले पद्मे केशरेष्वङ्गपूजनम् ॥ ४८ ॥

रामभक्तो महातेजाः कपिराजो महाबलः ॥
द्रोणाद्रिहारको मेरुपीठकार्चनकारकः ॥ ४९ ॥

दक्षिणाशाभास्करश्च सर्वविघ्ननिवारकः ॥
एवं पत्रेषु नामानि पूजयेच्च दलाग्रतः ॥ ५० ॥

सुग्रीवमङ्गदं नीलं जाम्बवन्तं तथा नलम् ॥
सुषेणं द्विविदं चैव भुपूरे दिक्पतीनपि ॥ ५१ ॥

तद्बाह्ये च तदस्त्राणि जपेदर्कसहस्रकम् ॥
दशांशं जुहुयाद्व्रीहीन्पयोदध्याज्यसंयुतान् ॥
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्तथा ॥ ५२ ॥

कदलीबीजपूराभ्रफलैर्हुत्वा सहस्रकम् ॥
द्वाविंशतिं ब्रह्मचारी विप्रान्सम्भोजयेत्ततः ॥ ५३ ॥

एवं कृते महाभूतविषचौराद्युपद्रवाः ॥
नश्यन्ति क्षणमात्रेण विद्विष्टग्रहदानवाः ॥
अष्टोत्तरशतेनाभिमन्त्रितं विषनाशनम् ॥ ५४ ॥

रात्रौ नवशतं मन्त्रं जपेद्दशदिनावधि ॥
यो नरस्तस्य नश्यन्ति राजशत्रुप्रभीतयः ॥ ५५ ॥

अभिचारे तु भूतोत्थज्वरे तन्मन्त्रमन्त्रितैः ॥
भस्मभिः सलिलैर्वापि ताडयेज्ज्वरिणं क्रुधा ॥ ५६ ॥

दिनत्रयाज्ज्वरान्मुक्तः सुखं संलभते नरः ।
तन्मन्त्रितौषधं जग्ध्वा नीरोगो जायते ध्रुवम् ॥ ५७ ॥

तन्मन्त्रितं पयः पीत्वा योद्धुं गच्छन्मनुं जपेत् ॥
तज्जप्तभस्मलिप्ताङ्गः शत्रुसङ्घैर्न बाध्यते ॥ ५८ ॥

शत्रुक्षतव्रणोद्भूतलूतास्फोटं च भस्मना ॥
त्रिर्मन्त्रितेन संस्पृष्टस्त्रिदिनाद्याति शुष्कताम् ॥ ५९ ॥

सूर्य्यास्तमयमारभ्य जपेत्सूर्य्योदयावधि ॥
कीलकं भस्म चादाय सप्ताहावधि संयुतम् ॥ ६० ॥

निखनेद्भस्मकीलौ तु विद्वीषां द्वार्य्यलक्षितः ॥
विद्वेषाद्भयमापन्नाः पलायन्तेऽरयोचिरात् ॥ ६१ ॥

अभिमन्त्रितभस्माम्बु देवचन्दनसंयुतम् ॥
दीयते तु यदा यस्मै स तदा तस्य दासवत् ॥
क्रूराः स्वयं तु चौराद्या भवन्ति विविधा वशाः ॥ ६२ ॥

ईशानदिशि मूलेन भूताङ्कुशतरोः शुभाम् ॥
अङ्गुष्ठमात्रां प्रतिमां सम्विधाय हनूमतः ॥ ६३ ॥

प्राणसंस्थापनं कृत्वा सिन्दूरैः परिपूज्य च ॥
गृहस्याभिमुखीं द्वारे निखनेन्मन्त्रमन्त्रिताम् ॥ ६४ ॥

सञ्जायन्ते कदाचिन्न गेहे तस्मिन्नुपद्रवाः ॥
प्रत्यहं धनपुत्राद्यैरेधते तद्गृहं चिरम् ॥ ६५ ॥

निशि श्मशानभूमिस्थमृत्स्नया वापि भस्मना ॥
शत्रोः प्रतिकृतिं कृत्वा हृदि नाम समालिखेत् ॥ ६६ ॥

कृतप्राणप्रतिष्ठान्तां भिन्द्याच्छस्त्रैर्मनुं जपेत् ॥
मन्त्रान्ते प्रोच्चरेच्छत्रोर्नाम च्छिन्धि च भिन्धि च ॥ ६७ ॥

मारयेति च तस्यान्ते दन्तैरोष्ठं निपीड्य च ॥
एवं सप्तदिनं कुर्वन्हन्याच्छत्रून्न संशयः ॥ ६८ ॥

अर्द्धचन्द्राकृतौ 1 कुण्डे स्थण्डिले वा हुतं चरेत् ॥
मुक्तकेशः श्मशानस्थो बलासौराष्ट्रिकायुतैः ॥ ६९ ॥

उन्मत्तफलपुष्पैश्च नखरोमविषैरपि ॥
काककौशिकगृध्राणां पक्षैः श्लेष्मान्तकाक्षजैः ॥ ७० ॥

समिद्वरैश्च त्रिशतैर्दक्षिणाशामुखो निशि ॥
होमं कुर्य्यात्स्मरन्मन्त्रं मारयेद्रिपुमुद्धतम् ॥ ७१ ॥

शतषट्कं जपेद्रात्रौ श्मशाने दिवसत्रयम् ॥
ततो वेताल उत्थाय वदेद्भावि शुभाशुभम् ॥
उदितं कुरुते सर्वं किङ्करीभूय मन्त्रिणः ॥ ७२ ॥

हनुमत्प्रतिमां भूमौ संलिखेत्तत्पुरो मनुम् ॥
साध्यनामद्वितीयान्तं विमोचयविमोचय ॥ ७३ ॥

तत्सर्वं मार्जयेद्वामहस्तेनाथ पुनर्लिखेत् ॥
एवमष्टोत्तरशतं लिखित्वा मार्जयेत्पुनः ॥ ७४ ॥

एवं कृते पराधीनो निगडैर्मुच्यते क्षणात् ॥
एवं विद्वेषणादीनि कुर्य्यात्तत्पल्लवं लिखेत् ॥ ७५ ॥

वश्यार्थं सर्षपैर्होमो विद्वेषे करवीरजैः ॥
कुसुमैस्तस्य काष्ठैर्वा जीरकैर्मरिचैरपि ॥ ७६ ॥

ज्वरे दूर्वागुडूचीभिर्दध्ना क्षीरेण वा घृतैः ॥
तैलाक्ताभिश्च निर्गुण्डीसमिद्भिर्वा समाचरेत् ॥ ७७ ॥

सौभाग्यैश्चन्दनैः श्वेतै रोचनैलालवङ्गकैः ॥
सुगन्धिपुष्पैर्वश्यार्थं सप्तधान्यैस्तदाप्तये ॥ ७८ ॥

किं बहूक्तैर्विषव्याधौ शान्तौ मोहे च मारणे ॥
विवादे स्तम्भने चैव भूतभूतौ च सङ्कटे ॥ ७९ ॥

वश्ये युद्धे क्षते दिव्ये बन्धमोक्षे महाबले ॥
मन्त्रोयं साधितो दद्यादिष्टसिद्धिं नृणां ध्रुवम् ॥ ८० ॥

अथातः सम्प्रवक्ष्यामि मालामन्त्रानुपासितान् ॥
नवग्रहैर्हनुमतो जपात्सिद्धिविधायकान् ॥ ८१ ॥

तेषां मुन्यादिकं न्यासः षडङ्गं पूजनन्तथा ॥
प्रयोगाश्च परिज्ञेयाः साधकैर्द्वादशार्णवत् ॥ ८२ ॥

तत्रादौ सम्प्रवक्ष्यामि भास्करोपासितम्मनुम् ॥
पूर्वोक्तमालामन्त्रस्य बीजमेकादशन्तु तत् ॥ ८३ ॥

नवानामपि मन्त्राणामादौ जानन्तु देवताः ॥
वदेन्नमो हनुमते वदेन्नमः परस्य च ॥ ८४ ॥

क्षयदुष्टगणान्प्रोच्य तथा चारिक्षतज्वर ॥
एकाहिकद्व्याहिकेति त्र्याहिकेति चतुर्थकः ॥ ८५ ॥

सन्ततज्वरसन्नीति पातिकज्वरभूवदेत् ॥
तज्वरेति च मन्त्रेति ज्वरशूलभगन्दर ॥ ८६ ॥

मूत्रकृच्छ्रकपोलेति वृन्दस्थलपदन्ततः ॥
कर्णशूलेत्यक्षिशूलवदेच्चरदशूलक ॥ ८७ ॥

हस्तशूलेति पादेति शूलादीन्सर्वमुच्चरेत् 2
व्याधीन्क्षणात्त्रासयेति भिन्धि छिन्धि विनाशय ॥ ८८ ॥

द्विधा निकर्त्तय त्रेधा छेदयद्विश्च भेदय ॥
महावीरपदन्तारं हनुमन् ह्रान्द्वयं वदेत् ॥ ८९ ॥

ह्रंह्रं द्वे च वदेद्ध्रीं द्वे ह्रंह्रं फट् वह्निगेहिनी ॥
मालामन्त्रोयमुद्दिष्टः सर्वरोगविनाशकः ॥ ९० ॥

अथातः सम्प्रवक्ष्यामि चन्द्रेणोपासितम्मनुम् ॥
वदेन्नमो भगवते राक्षसेति कुलेति च ॥ ९१ ॥

दानवानलद्वादशार्ककोट्युज्ज्वलप्रभेति च ॥
रं तु रूंहं भीमनादं वदेन्मम परस्य च ॥ ९२ ॥

दुष्टदुर्जनमोहाय वदेत्कारक वादिवि ॥
वादिद्वेषकारकेति कार्य्यभञ्जक संवदेत् ॥ ९३ ॥

कुरु प्रकृतिकेत्युक्त्वा प्रवृत्तपेदमुच्चरेत् ॥
कोपावेशेन हत्वेति चामुकान्वै समुच्चरेत् ॥ ९४ ॥

दूरस्थेति समीपस्थांस्ततो भूतभवीति च ॥
ष्यद्वर्त्तमानान्पुंस्त्रीनपुंसकान्पदमुच्चरेत् ॥
चतुर्वर्णान्क्षणेनेति सत्वरं जहियुग्मकम् ॥
दह संहारय द्विर्द्विर्द्विर्मोहयपदं वदेत् ॥ ९५ ॥

शमय द्विर्द्वेषय द्विर्वदेत्सर्पालिमूषक ॥
वत्सद्यः पदमुच्चार्य्य प्राणिनः पदमुच्चरेत् ॥ ९६ ॥

द्विर्विध्वंसय हिलिद्विर्द्विर्द्विर्मूकम्पराजय ॥
बन्धय द्विःपातय द्विर्ममेति च परस्य च ॥ ९७ ॥

दासीभूतं वदेद्द्वेधा सम्पादयत्रिधात्रिधा ॥
ह्रांह्रुं त्रिधा च फट्स्वाहा मन्त्रोयं समुदीरितः ॥ ९८ ॥

अहातः सम्प्रवक्ष्यामि मङ्गलोपासितं मनुम् ॥
वदेन्नमो हनुमते महाबलपराक्रम ॥ ९९ ॥

मम परस्य च भूत वदेत्प्रेतपिशाचशा ॥
किनी डापदमुच्चार्य्य किनी यक्षिणिका च पू ॥ १०० ॥

तना मारी महामारी कृत्या यक्षेति राक्षस ॥
वदेद्भैरववेतालग्रहेति ब्रह्मराक्षसा ॥ १०१ ॥

दिकजातक्रूरबन्धान्क्षणेन जहियुग्मकम् ॥
भञ्जयद्वितयं प्रोच्य वदेद्द्वेधा निरासय ॥ १०२ ॥

द्वेधा वारय बन्ध द्विस्तुद सूद द्वयन्द्वयम् ॥
बन्धन्द्वेधा मोचय द्विर्मामेनं च पदं वदेत् ॥ १०३ ॥

रक्तरक्तमहामोहेश्वररुद्रावतार हा ॥
हाहाह्रंह्रं त्रिधा हुम्फट्स्वाहायमुदितो मनुः ॥ १०४ ॥

अथातः सम्प्रवक्ष्यामि बुधेनोपासितं मनुम् ॥
नमो हनुमते प्रोच्य त्रैलोक्यक्रमणेति च ॥ १०५ ॥

सर्वशत्रूंश्चतुर्वर्णसम्भवानिति चोच्चरेत् ॥
पुंस्त्रीनपुंसकान्भूतभविष्यद्वर्त्तमोच्चरेत् ॥ १०६ ॥

नान्दूरस्थसमीपस्थान्नानानामपदं लिखेत् ॥
तथा सङ्करजातिजातान्पदं चैव समुच्चरेत् ॥ १०७ ॥

कलत्रपुत्रमित्रेति भृत्यबन्धुसुहृत्पदम् ॥
समतापुरुशक्तीति समेतान्धनुरा वदेत् ॥ १०८ ॥

ज्यादिसम्पत्तियुतान्नाराजराजेति पुत्रसे ॥
वकान्मन्त्रिसचिवसखीनुक्त्वात्यन्तिकान्क्षणात् ॥ १०९ ॥

वदेदधिपतिं मां च कुरुद्वयप्दं ततः ॥
नानोपायैर्मारयद्विः शत्रूंश्छेदयच्छेदय ॥ ११० ॥

भूतसङ्घैः सहेत्युक्त्वा वदेद्भक्षयभक्षय ॥
भिन्धिभिन्धि च सम्प्रोच्य त्वग्निना ज्वालयद्वयम् ॥ १११ ॥

दाहयद्वितयं प्रोच्य वदेदक्षकुमारवत् ॥
पादतलाक्रमणेन तनुं चैव शिलातले ॥ ११२ ॥

व्यात्रोटय घातय द्विद्विर्बन्धयपदं वदेत् ॥
क्रुधा चेति पदं प्रोच्य नखैर्द्वेधा विदारय ॥ ११३ ॥

देशादस्मादिति प्रोच्य वदेदुच्चाटयद्वयम् ॥
द्विर्ध्वंसय त्रासय द्विर्वदेत्पश्चाद्भयातुरान् ॥ ११४ ॥

विसञ्ज्ञान्सद्य उच्चार्य्य द्वेधा कुरुपदं वदेत् ॥
भस्मीभूतांस्ततो द्वेधा वदेदुत्पाटयेति च ॥ ११५ ॥

भक्तजनवत्सलेति सीताशोकापहारक ॥
सर्वत्र मां वदेदेनं रक्षरक्ष च हा पुनः ॥ ११६ ॥

हाहाहुंहुं त्रिधा द्विः फट्स्वाहान्तो मनुरीरितः ॥
वेदपञ्चत्रिवर्णोयं सर्वाभीष्टप्रदायकः ॥ ११७ ॥

अथातः सम्प्रवक्ष्यामि गुरुणोपासितं मनुम् ॥
नमो हनुमते प्रोच्य वदेन्मम परस्य च ॥ ११८ ॥

महाभयानि सर्वेति व्याघ्रतस्कर संवदेत् ॥ ११९ ॥

ज्वालाग्निविषजङ्गेति मस्थावरमहेति च ॥
कृत्रिमोपविषमहासङ्ग्रामे च पदं वदेत् ॥ १२० ॥

दुष्टवादे विवादे च शत्रोः कामान्हरद्वयम् ॥
द्विर्ग्रासय त्रोटय द्विर्भञ्जय स्तम्भय त्रिधा ॥ १२१ ॥

कण्डय त्रोटय द्विर्द्विर्वानर क्षम संवदेत् ॥
महावीरेति मामेनं रक्षरक्ष त्रिधात्रिधा ॥ १२२ ॥

हाहुं द्वे त्रिश्च फट्स्वाहा प्रोक्तोयं मनुसत्तमः ॥
सर्वपीडाहरो रामवशकृद्भाग्यदायकः ॥ १२३ ॥

अथातः सम्प्रवक्ष्यामि शुक्रेणाराधितं मनुम् ॥
तारो नमो हनुमते वदेत्सर्वग्रहानिति ॥ १२४ ॥

भूतेति च भविष्यच्च वर्त्तमानान्पदं वदेत् ॥ १२५ ॥

दूरस्थांश्च समीपस्थान्सर्वकालं वदेत्पदम् ॥
उच्चाटयद्वयं प्रोच्य परेति च बलानि च ॥ १२६ ॥

क्षोभयद्वितयं सर्वकार्य्याणि साधय द्विधा ॥
ह्रांह्रींह्रून्द्विस्त्रयं फट् च स्वाहान्तोयं मनुर्मतः ॥ १२७ ॥

महाबलकरश्चायमपमृत्युविनाशकः ॥
अथातः सम्प्रवक्ष्यामि शनिनाराधितं मनुम् ॥
परकृतयन्त्रमन्त्रपराहङ्कारसंवदेत् ॥ १२८ ॥

भूतप्रेतपिशाचेति सर्वज्वरपरेति च ॥
दृष्टिरोगादिकान्प्रोच्य द्विस्त्रासय निवारय ॥ १२९ ॥

बन्ध बन्धय च द्वेधा इलवुचिलवु वदेत् ॥
कुयन्त्राणि सर्वदुष्टवाचं हुम्फड् दहाङ्गना ॥
इत्येवायं मनुः प्रोक्तस्सर्वापत्तिनिवारकः ॥ १३० ॥

अथातः सम्प्रवक्ष्यामि राहुणोपासितं मनुम् ॥
नमो भगवते प्रोच्य वदेद्धनुमते पदम् ॥ १३१ ॥

पवनात्मजायेति राघवप्राणसमाय तु ॥
लक्ष्मणप्राणदात्रे च सीताशोकविनाशकः ॥ १३२ ॥

ङेन्तो रावणदर्प्पघ्नो ङेन्तः सर्वपदं वदेत् ॥
दुष्टविनाशनायेति रिपुचौरपदं वदेत् ॥ १३३ ॥

व्याघ्रवराहकृत्येति चान्तकाय पदं वदेत् ॥
दुष्टसत्त्वविनाशेति नाय हुम्फड् हुताङ्गना ॥ १३४ ॥

उक्तोयं मनुराजस्तु लक्ष्मीविद्याजयप्रदः ॥
विशेषतोपमृत्योश्च नाशको रामवल्लभः ॥ १३५ ॥

अथातः सम्प्रवक्ष्यामि केतुनोपासितं मनुम् ॥
नमो भगवते प्रोच्य वदेद्धनुमतेपदम् ॥ १३६ ॥

चोररिपुकृमिखगपतङ्गादीन्समुच्चरेत् ॥
उच्चाटय हुम्फट् च स्वाहान्तो मनुरीरितः ॥ १३७ ॥

रामचन्द्रो मुनिश्चैषां गाथा छन्दः प्रकीर्तितम् ॥
महावीरोत्र हनुमान्देवता सम्प्रकीर्तितः ॥ १३८ ॥

नवमं कूटमुद्दिष्टं बीजं शक्तिस्तथाष्टमम् ॥
एकादशकूटपूर्वं नामन्यासं समाचरेत् ॥ १३९ ॥

ङेन्तं नाम तथाङ्गुष्ठादिके चापि षडङ्गकम् ॥
हनुमान्रामदूतश्च लक्ष्मणप्राणदायकः ॥ १४० ॥

अञ्जनीसूनुरित्येवं सीताशोकविनाशनः ॥
नेत्रान्तमेवं कृत्वा तु लङ्काप्रासादभञ्जकः ॥ १४१ ॥

अर्कास्तमयमारभ्य यावत्सूर्य्योदयो भवेत् ॥
तावन्मन्त्रं जपेद्रात्रौ कार्य्यमुद्दिश्य मन्त्रवित् ॥
सप्ताहाज्जायते सिद्धिर्वायुपुत्रप्रसादतः ॥ १४२ ॥

रात्रौ रात्रौ जपेन्मन्त्रं षष्ठ्यां चाष्टोत्तरंशतम् ॥
दश वासरपर्य्यन्तं राजशत्रुभयं हरेत् ॥ १४३ ॥

औषधावसरे मन्त्रं दशवारं जपेद्बुधः ॥
तेनाभिमन्त्रितं दत्तं सर्वं सफलतां व्रजेत् ॥ १४४ ॥

भस्माभिमन्त्रितं यस्य देह चन्दनमिश्रितम् ॥
चर्चितं परबाधादि तस्य नश्यत्यसंशयम् ॥ १४५ ॥

स वश्यो जायते नूनं प्राणैरपि धनैरपि ॥
दासतां याति देवोपि मनुष्येषु च का कथा ॥ १४६ ॥

कूरसत्त्वानि सर्वाणि वशयेदमुना खलु ॥
प्रकारेण महाबीरज्वरितः शान्तितामियात् ॥ १४७ ॥

बन्धमुक्तौ जपेन्मन्त्रं रात्रौरात्रौ न संशयः ॥
द्वादशार्णप्रयोगांश्च निखिलांस्तत्र कारयेत् ॥ १४८ ॥

स्तम्भने तु यवो माषा न्यग्रोधस्य फलानि च ॥
शाल्मलीकुसुमं तालं हरिद्रामलकीफलम् ॥ १४९ ॥

मधुरत्रयसंयुक्तं यथालाभं तु होमयेत् ॥
उच्चाटार्थं निशि हुनेच्छ्लेष्मान्तकविभीतकान् ॥ १५० ॥

अष्टोत्तरशतं रात्रौ कार्य्यमिष्टं च सिद्ध्यति ॥
वश्यार्थं होमयेद्द्राक्षामपूपानथ गुग्गुलम् ॥ १५१ ॥

विद्वेषे कटुतैलेन संयुक्तं हिङ्गु होमयेत् ॥
पञ्चखाद्यैर्नालिकेरैरिक्षुभिः कदलीफलैः ॥ १५२ ॥

सर्वसन्तोषकृद्धोमो मधुरत्रितयान्वितैः ॥
सौभाग्यार्थं तु काश्मीरकस्तूरीत्वक्समीरणैः ॥ १५३ ॥

पत्रागुरुनखैर्मांसीजातीपत्रफलैस्तथा ॥
धत्तूरफलपुष्पाणि समिधो मोहने स्मृताः ॥ १५४ ॥

अथातः सम्प्रवक्ष्यामि पँचकूटात्मकं मनुम् ॥

हनुमान्रामदूतश्च लक्षमणप्राणदायकः ॥
ततोञ्जनासुतः प्रोक्तः सीताशोकविनाशकः ॥ १५६ ॥

ततः षष्ठः परिज्ञेयो लङ्काप्रासादभञ्जनः ॥
कपेरेतानि नामानि कूटपूर्वाणि सन्ति च ॥ १५७ ॥

पञ्चकूटानि चैकेन षडङ्गमनवः स्मृताः ॥
ध्यानपूजादिकं सर्वं विज्ञेयं द्वादशार्णवत् ॥ १५८ ॥

अथातः सम्प्रवक्ष्यामि मन्त्रं रुद्रैरुपासितम् ॥
नवग्रहादिमन्त्राणां बीजान्येकादशैव तु ॥ १५९ ॥

स एव मन्त्रो रुद्रेण सहायार्थमुपासितः ॥
तद्ध्यानपूजान्यासाद ज्ञय च द्वादशार्णवत् ॥ १६० ॥

अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टादशाक्षरम् ॥
नमो भगवते प्रोच्य आञ्जनेयाय संवदेत् ॥ १६१ ॥

महाबलाय स्वाहेति मुनिरस्येश्वरः स्मृतः ॥
छन्दोनुष्टुब्देवता तु हनुमान्हं च बीजकम् ॥
स्वाहा शक्तिश्चाञ्जनेयो रुद्रमूर्त्तिः सुरो मतः ॥ १६२ ॥

अग्निगर्भो रामदूतो ब्रह्मास्त्रविनिवारकः ॥
द्विरावृत्त्या षडङ्गानि तथाङ्गुष्ठादिषु न्यसेत् ॥ १६३ ॥

तप्तकाञ्चनसङ्काशं हृदये विहिताञ्जलिम् ॥
किरीटिनं कुण्डलिनं ध्यायेद्वानरनायकम् ॥ १६४ ॥

वैष्णवे पूजयेत्पीठे द्वादशार्णोक्तवर्त्मना ॥
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयात्तिलैः ॥ १६५ ॥

विप्रसन्तर्प्पणाद्यं तु प्राग्वत्सिद्धो भवेन्मनुः ॥
जितेन्द्रियो नक्तभोजी प्रत्यहं साष्टकं शतम् ॥
जपित्वा क्षुद्ररोगेभ्यो मुच्यते दिवसत्रयात् ॥ १६६ ॥

भूतप्रेतपिशाचादिनाशायैवं समाचरेत् ॥
महारोगनिवृत्त्यै तु सहस्रं त्रिदिनं जपेत् ॥ १६७ ॥

यताशनोयुतं नित्यं जपेद्ध्यायन्कपीश्वरम् ॥
राक्षसौघं विनिघ्नन्तमचिराज्जयति द्विषः ॥ १६८ ॥

सुग्रीवेण समं रामं मेलयन्तं स्मरन्कपिम् ॥
प्रजप्यायुतमात्रं तु सन्धिं कुर्य्याद्विरुद्धयोः ॥ १६९ ॥

लङ्कां दहन्तं तं ध्यायेदयुतं प्रजपेन्मनुम् ॥
शत्रूणां प्रदहेद्ग्रामानचिरादेव साधकः ॥ १७० ॥

प्रयाणसमये ध्यायन्हनुमन्तं मनुं जपेत् ॥
यो याति सोचिरात्स्वेष्टं साधयित्वा गृहं व्रजेत् ॥ १७१ ॥

यः कपीशं सदा गेहे पूजयेज्जपतत्परः ॥
आयुर्ल्लक्ष्म्यः प्रवर्घन्ते तस्य नश्यन्त्युपद्रवाः ॥ १७२ ॥

अथान्यं सम्प्रवक्ष्यामि मन्त्रमष्टाक्षरं परम् ॥
षड्दीर्घयुक्ता हृल्लेखा प्रणवेनैव सम्पुटा ॥ १७३ ॥

अष्टार्णोयं हनुमतो मन्त्रराजः प्रकीर्तितः ॥
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ १७४ ॥

ध्यानपूजाजपाद्यत्र सर्वं स्याद्द्वादशार्णवत् ॥
एतत्प्रभावाज्झटिति चाधिव्याधिविवर्जितः ॥ १७५ ॥

शादूलतस्करादिभ्यो न भयं जपतो मनुम् ॥
प्रस्थानकाले जपतां नश्येयुस्तस्करादयः ॥ १७६ ॥

कोकिलच्छदलेखन्या त्वलक्तकरसेन च ॥
अष्टगन्धैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥ १७७ ॥

तन्मध्ये चाष्टकोणेषु शत्रुनाम पुनर्लिखेत् ॥
तन्मन्त्रजपितं यन्त्रं दध्याच्छिरसि भूमिपः ॥
जयत्यरिगणान्सर्वान्दर्शनादेव निश्चितम् ॥ १७८ ॥

यद्वा जिगीषुर्नृपतिः पूर्वोक्तं लेखयेद्ध्वजे ॥
ध्वजमादायोपरागे संस्पर्शान्मोक्षणावधि ॥ १७९ ॥

मातृकाः प्रजपेत्पश्चाद्दशांशेन हुतं चरेत् ॥
सर्षपैस्तिलसम्मिश्रैस्संस्कृते हव्यवाहने ॥
गच्छेद्रणे ध्वजं दृष्ट्वा पलायन्तेरयोचिरात् ॥ १८० ॥

अथातः सम्प्रवक्ष्यामि मन्त्रं प्लीहादिवारणम् ॥
हांहुं हनुमते हृच्च ङेन्तं कपिपतिं ततः ॥ १८१ ॥

वगवगि अं-आम्प्रोच्य प्लीहं हुं चापि दं वदेत् ॥
हान्तं जिनमितार्णोयं मुन्यादि द्वादशार्णवत् ॥ १८२ ॥

प्लीहयुक्तोदरे स्थाप्यं नागवल्लीदलं शुभम् ॥
गदं दुष्टं नूतनेन पटेनाच्छादयेत्ततः ॥ १८३ ॥

वंशजं शकलं तस्य जठरे स्थापयेद्बुधः ॥
तदादाय ज्वलद्वह्नौ यश्चैवं त्रिः प्रतापयेत् ॥ १८४ ॥

बदरीतरुसम्भूतसमिधा मनुनामुना ॥
सप्तशो जपितेनैवं ताडयेज्जठरस्थितम् ॥
सप्तकृत्वस्ततो मन्त्री शकलद्वितयं खलु ॥ १८५ ॥

एवं कृते प्लीहरोगो नश्यत्येव न संशयः ॥
यकृद्वृद्धौ चैवमेव दक्षपार्श्वे समाचरेत् ॥ १८६ ॥

अथान्यं सम्प्रवक्ष्यामि मालामन्त्रं वदेद्ध्रुवम् ॥
वज्रकाय वज्रतुण्ड वदेत्कपिलपिङ्गल ॥ १८७ ॥

ऊर्ध्वकेश महावीर सुरक्तमुख कीर्त्तयेत् ॥
तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कहद्वयम् ॥ १८८ ॥

करालिने महादृढप्रहारिन्निति कीर्त्तयेत् ॥
लङ्केश्वरवधायान्ते महासेतुपदन्ततः ॥ १८९ ॥

बन्धान्ते च महाशैलप्रवाह गगनेचर ॥
एह्येहि भगवन्प्रोच्य महाबलपराक्रम ॥ १९० ॥

भैरवाज्ञापय प्रोच्य एह्येहीतिपदं वदेत् ॥
महारौद्रपदम्प्रोच्य दीर्घपुच्छेन वेष्टय ॥ १९१ ॥

वैरिणम्भञ्जयद्वन्द्वं हुम्फट् चायं ध्रुवादिकः ॥
बाणनेत्रेन्दुवर्णोत्र मालामन्त्रोऽखिलेष्टदः ॥ १९२ ॥

एवमाराधयन्प्रोक्तं रुद्रस्यैकादशस्य तु ॥
अतः परम्प्रवक्ष्यामि कार्तवीर्य्यार्जुनस्य च ॥ १९३ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते हनुमन्मन्त्रकथनं नाम चतुस्त्रिंशः प्रकाशः ॥ ३४ ॥


  1. वेद्यामिति शेषः ॥ ↩︎

  2. शसन्तं सर्वशब्दपदमित्यर्थः ॥ ↩︎