३३ दैवतयन्त्रकथनं

श्रीदेव्युवाच ॥

राज्ञां भाग्यवतां देव यैश्च रक्षाभिजायते ॥
दुर्ग्रहाश्च यथा दुःखं दातुं शक्तानविद्विषः ॥ १ ॥

कथंस्यात्स्थिरसम्पत्तिः सन्ततिश्च कथं क्रिया ॥
साधकैस्तु प्रकर्तव्या कथं सिद्धिः प्रजायते ॥ २ ॥

ईश्वर उवाच ॥

अथ यन्त्रविधिं वक्ष्ये सर्वतन्त्रेषु गोपितम् ॥
सिद्धस्य लेखनादेव यन्त्रसिद्धिः प्रजायते ॥ ३ ॥

न भावि यत्र कार्य्यं तु सिद्धं चापि तदा भवेत् ॥
दुःस्वप्नदर्शनं पूर्वं तदा यन्त्रन्न कारयेत् ॥ ४ ॥

साधकस्य शुभे घस्रे समाराध्येष्टदेवताम् ॥
स्वप्यात्त्रिदिवसं भूमौ हविष्याशी जपेत्ततः ॥ ५ ॥

एतद्यन्त्रं करिष्यामि मम तत्कीदृशं प्रभो ॥
स्वप्ने वदेत्तु देवेशस्तदङ्गत्वेन पूजनम् ॥
कृत्वा प्रदोषसमये लिखेत्त्रिदिवसं भुवि ॥ ६ ॥

तृतीयदिवसे रात्रौ यथा स्वप्नः प्रजायते ॥
तथैवाज्ञां गृहीत्वा तु सत्स्वप्नो वा लिखेद्बुधः ॥ ७ ॥

अस्वप्नेवाथ सुस्वप्ने नैव कुर्य्याल्लिखेन्न तत् ॥
जीवसंस्थापनं यन्त्रे कुर्य्याद्येन फलं लभेत् ॥ ८ ॥

षष्ठ्यन्तं साधकपदं मध्ये बीजार्णयोर्लिखेत् ॥
द्वितीयान्तं साध्यमध्ये कुरुद्वन्द्वं च पार्श्वयोः ॥ ९ ॥

हंसो यन्त्रस्य बीजं स्यान्मध्यभागादधो लिखेत् ॥
हंसः सोहं मनोरस्य लिखेदेकैकमक्षरम् ॥ १० ॥

ईशानादिषु कोणेषु दक्षपार्श्वे च ईन्द्वयम् ॥
ठद्वयं वामपार्श्वे च लिखेत्पूर्वादितः क्रमात् ॥ ११ ॥

लं-नं-मं-क्षं तथा वं-यं-सं-हं पूर्वादिके लिखेत् ॥
ईशानसोमयोर्मध्ये आं-ह्रीं वायव्यसोमयोः ॥
एवं दिक्पालबीजानि विन्यसेद्दिक्षु च क्रमात् ॥ १२ ॥

यन्त्रराजाय विद्महे वरप्रदाय धीमहि ॥
तन्नो यन्त्रम्प्रचोदयात् ॥ १३ ॥

एतस्याः प्रतिकाष्ठायां लिखेद्वर्णत्रयन्त्रयम् ॥
बहिः प्राणप्रतिष्ठाया मन्त्रं सर्वत्र वेषयेत् ॥

एवन्तु लिखितं यन्त्रं सर्वसिद्धिप्रदायकम् ॥ १४ ॥

स्थूलानुक्तौ भूर्जपत्रे क्षौमे वाम्भोजपत्रके ॥
यन्त्रं सुलिख्य गुटिकां बद्ध्वा सूत्रेण वेष्टयेत् ॥ १५ ॥

लाक्षयाच्छादितं स्वर्णे रौप्ये ताम्रेथ वा क्षिपेत् ॥
यद्देवताकं यन्त्रं स्यात्तद्बीजेन च पूजयेत् ॥ १६ ॥

तदभावे मातृकार्णैर्यन्त्रपूजां समाचरेत् ॥
अष्टोत्तरसहस्रं तु मूलं जप्त्वा हुनेद्घृतम् ॥ १७ ॥

तत्र पात्रे न संसिक्तं कृत्वा मन्त्रं नियोजयेत् ॥
मूर्ध्नि बाहौ गले वापि तत्तदिष्टार्थसिद्धये ॥ १८ ॥

उपास्या वा भूतलिपिर्यन्त्रसिद्धिविधायिनी ॥
अक्लेशेनैव सर्वेषां मन्त्राणां सिद्धिमाप्नुयात् ॥ १९ ॥

मन्त्रोद्धारं प्रवक्ष्यामि यन्त्रोद्धारं सबिन्दुकम् ॥
अक्प्रत्याहारमुच्चार्य्य र्ॐ-रौं-डौं-डौं ततो वदेत् ॥ २० ॥

हं-यं-रं-वं ततो लं-टं-कं-खं-गं-घमिति क्रमात् ॥
वर्गान्त्यमाद्यद्वित्र्यब्धिवर्णान्वर्गचतुष्टये ॥ २१ ॥

वर्गेषु प्राक्पारं शङ्खं समेवं द्व्यब्धिवर्णकः ॥
ऋषिः स्याद्दक्षिणामूर्त्तिर्गायत्री छन्द ईरितम् ॥ २२ ॥

वर्णेश्वरी देवतास्य षडङ्गानि समाचरेत् ॥
स्वरहीनैर्हयाब्ध्यश्वैर्मन्त्रार्णैः पञ्चपञ्चभिः ॥ २३ ॥

गुदे लिङ्ग उरोनाभिकण्ठेषु मध्यकेशयोः ॥
शिरसि ब्रह्मरन्ध्रे च क्रमान्न्यस्या नव स्वराः ॥ २४ ॥

ऊर्ध्वप्राग्दक्षिणेशानपश्चिमेषु मुखेषु च ॥
हं-यं-टं-रं-वं-लमिति न्यसेद्बीजानि वै क्रमात् ॥ २५ ॥

ततः कराग्रे मूले च कूर्प्परेङ्गुलिसन्धिषु ॥
दक्षवामक्रमेणैव टादिवर्गं तथादिमम् ॥ २६ ॥

वर्गं न्यसेत्तथा पादाग्रके मूले च जानुनोः ॥
तथा सन्धावङ्गुलीनां गुल्फे सर्गादिनादिकान् ॥ २७ ॥

ठद्वयं पार्श्वयुग्मे च नाभौ पृष्टे च मादिकान् ॥
गुह्ये हृत्ककुदोर्मध्ये शषसान्विन्यसेत्क्रमात् ॥ २८ ॥

ततो भूतलिपिं ध्यायेत्त्रिनेत्रां चन्द्रशेखराम् ॥
वराक्षमालापद्मानि कपालं बिभ्रतीं करैः ॥ २९ ॥

लक्षं प्रजप्यादयुतं घृतं हुत्वा च तर्प्पयेत् ॥
एवं भूतलिपिः सेव्या यन्त्रसिद्धिः प्रजायते ॥
श्रीविद्याराधने चापि समर्थो जायते नरः ॥ ३० ॥

अथाहं सम्प्रवक्ष्यामि हैरम्बं यन्त्रमुत्तमम् ॥
भूर्जपत्रे लिखेद्यन्त्रं कुङ्कुमेन मदेन च ॥ ३१ ॥

लिखेद्भूमिगतं मध्ये मुकस्येति तदुत्तरम् ॥
अमुकं चेत्यधः स्थाने वशं कुर्विति पार्श्वयोः ॥ ३२ ॥

इत्यादिकं स्वेष्टकर्म्मपदं ज्ञात्वा लिखेद्बुधः ॥
षट्षड्भागे केशराणां गां-गीं-गूं-गैं च गौमिति ॥ ३३ ॥

गश्चेति विलिखेद्यन्त्रे पूर्वाशादिप्रदक्षिणम् ॥
हेरम्बमालामन्त्रं च गं नमो वह्निगेहिनीम् ॥ ३४ ॥

अṁ आं ह्रीं क्रीं नमो ङेन्तं सर्वविद्याधिपं वदेत् ॥
सर्वार्थसिद्धिदायेति सर्वदुःखपदं वदेत् ॥ ३५ ॥

प्रशमनायेह्येहि भगवान्सर्वानुवादय ॥
सङ्क्षोभयद्वयं ह्रीं-गां नमो ज्वलनगेहिनी ॥ ३६ ॥

अमां ह्रीमिति मन्त्रोयं प्रोक्तः षट्पञ्चवर्णकः ॥
पद्माद्वहिः प्रकर्त्तव्यं वर्त्तुलद्वितयन्ततः ॥ ३७ ॥

ततः प्रथमवीथ्यां तु लिखेत्स्वाग्रात्प्रदक्षिणम् ॥
लक्ष्मीबीजानि परत ऐं-बीजेन प्रवेष्टयेत् ॥ ३८ ॥

ततश्च गुटिकां कृत्वा श्वेतसूत्रेण वेष्टयेत् ॥
अकृत्वा चाग्निसम्बन्धन्तान्त्रिलोहे निधापयेत् ॥ ३९ ॥

जपादिमालामन्त्रस्य कुर्य्याद्धेरम्बयन्त्रवत् ॥
अमितं छन्द इत्युक्तं यन्त्रं दयादभीप्सितम् ॥ ४० ॥

षट्कोणमध्ये श्रीबीजपुटितं प्रणवं लिखेत् ॥
साध्यनाम च तन्मध्ये तद्बाह्येष्टदलं लिखेत् ॥ ४१ ॥

कामबीजं प्रतिदलं बाह्ये खाङ्कुशपत्रकम् ॥
ग्लौम्बीजं तद्दले लेख्यं तद्बाह्ये च लिखेत्पुनः ॥ ४२ ॥

चतुर्विंशद्दलं पद्मं तत्र चार्णांल्लिखेत्सुधीः ॥
चतुर्विंशत्यक्षरं च गणेशस्य मनुं शृणु ॥ ४३ ॥

लक्ष्मीर्गं गणपतये वरं वरद सर्वज ॥
नं मे वशमेत्युक्त्वा नय स्वाहा मनुर्मतः ॥ ४४ ॥

द्वात्रिंशद्दलपद्मं तु तद्बाह्ये तत्र संलिखेत् ॥
कादिकांस्तान्मातृवर्णान्सबिन्दूंस्तस्य बाह्यतः ॥ ४५ ॥

चन्द्राष्टकयुतं कुर्य्याच्चतुरस्रं मनोहरम् ॥
तस्य कोणेषु लं बीजं लिखेत्तस्य बहिष्पुनः ॥ ४६ ॥

वारुणं मण्डलं लेख्यमर्द्धचन्द्रसमप्रभम् ॥
तद्वेष्टयेद्बम्बीजेन तद्बहिर्वृत्तयुग्मकम् ॥ ४७ ॥

ह्रीम्बीजेनादिवीथ्यां तु वेष्टयेत्परमङ्कुशैः ॥
बीजं चाद्यन्तयोर्लेख्यं महागणपतेरिदम् ॥ ४८ ॥

यन्त्रं भूर्ज्जे धरायां वा वसने वा समालिखेत् ॥
गोरोचना गोमयन्तु कस्तूरी केशरं तथा ॥ ४९ ॥

एतैश्च विलिखेद्यन्त्रं लेखनीस्वर्णरौप्यजा ॥
एतद्यन्त्रं धृतं येन सत्वजेयो नरो भवेत् ॥ ५० ॥

न दह्यते वह्निनासौ न भयं तस्करान्नृपात् ॥
रणे राजकुले द्यूते सङ्ग्रामे शत्रुसङ्कटे ॥
गृहे वने जलादौ वा सर्वदा स जयी भवेत् ॥ ५१ ॥

अनामिकारक्तयुक्तै रक्तद्रव्यैर्लिखेच्च तत् ॥
रक्तपुष्पादिमिश्चैव नैवेद्यैः परिपूजयेत् ॥ ५२ ॥

मनोज्ञां च ततो मूर्त्तिं कृत्वा तदुदरे क्षिपेत् ॥
प्रतापयेच्च दीपाग्नौ सप्ताहात्स्त्रियमाप्नुयात् ॥ ५३ ॥

जप्त्वा मनुं चाष्टशतं होमयेच्च घृतं तदा ॥
अवश्यं वशयेन्नारीं विद्वेषणमथोच्यते ॥ ५४ ॥

विद्वेषिरक्तसङ्घृष्टश्मशानाङ्गारकेण च ॥
लिखेद्यन्त्रं तु मृतकवस्त्रपुङ्खे बहिष्कृते ॥ ५५ ॥

सम्यक्सम्पूजयेद्द्वन्द्वं द्वेषयेत्तद्ध्वजाग्रके ॥
स्थापयेद्वैरिसङ्घस्य विद्वेषो जायते महान् ॥ ५६ ॥

स्तम्भनं वक्ष्यते चाथ लिखेद्यन्त्रं शिलातले ॥
पीतद्रव्यैः पीतपुष्पैरर्कपुष्पैः प्रपूजयेत् ॥ ५७ ॥

पीतसूत्रैर्वेष्टयित्वा साध्यस्य स्थापयेदसून् ॥
तद्देहल्यास्त्वधस्ताच्च निखनेत्स्तम्भकारकम् ॥
वाक्स्तम्भं वा गतिस्तम्भं सेनास्तम्भं करोति तत् ॥ ५८ ॥

श्मशानाङ्गारमष्या तु मृतवस्त्रे समालिखेत् ॥
नरास्थ्नि क्रोधसंयुक्तः पूजयेच्चन्दनादिभिः ॥ ५९ ॥

निखातं शवभूमौ तदवश्यं मारयेद्रिपून् ॥
उत्खातमेतत्पयसा धौतं यन्त्रं च शान्तिकृत् ॥
महागणपतेर्यन्त्रं प्रोक्तं षट्कर्मसिद्धिदम् ॥ ६० ॥

द्वितीयमथ वक्ष्यामि साधकाभीष्टदायकम् ॥
कृत्वा षट्कोणमादौ तु तस्य मध्ये त्रिकोणकम् ॥ ६१ ॥

ॐकारं तस्य मध्यस्थं मध्यगं बीजमालिखेत् ॥
त्रिकोणोर्ध्वं चतुर्दिक्षु श्रीं-ह्रीं-क्लीं-ग्लौं समालिखेत् ॥ ६२ ॥

षट्कोणस्य च कोणेषु पूर्वाशादिक्रमेण च ॥
ॐ-श्रीं-ह्रीं-क्लीं-ग्लौं च गं च लिखित्वा षड्दले क्रमात् ॥ ६३ ॥

तस्योपरि लिखेत्तत्र मनोर्वर्णांस्त्रिकांस्त्रिकान् ॥
गणपतय इत्यादि वर्णैकं चाष्टमे दले ॥ ६४ ॥

कार्य्यं तस्य बहिर्वृत्तपञ्चकं प्रथमे लिखेत् ॥
वीथ्यग्रे तु ह्यकारादीन्क्षकारान्तान्द्वितीयके ॥ ६५ ॥

अकारादिक्षकारान्तान्व्यत्यस्तांस्तु तृतीयके ॥
ऐम्बीजैर्वेष्टयेत्तुर्य्यं ह्रीम्बीजेन ततो बहिः ॥ ६६ ॥

चतुरस्रद्वयं कुर्य्यात्स्त्रीणामर्थे यदा भवेत् ॥
पुरुषार्थकृतं यन्त्रं त्वष्टास्रेणैव वेष्टयेत् ॥ ६७ ॥

महागणपतेर्यन्त्रं लेख्यं हेमशलाकया ॥
अलक्तं चैव काश्मीरकस्तूरीरोचनान्वितम् ॥ ६८ ॥

मेलयित्वा विभागेन पिष्ट्वा चन्दनवारिणा ॥
स्वर्णपट्टेथ वा सूत्रे धृतं प्राणप्रतिष्ठया ॥
आयुरारोग्यसम्पत्तिकीर्त्तिकृत्प्रीतिवर्धनम् ॥ ६९ ॥

अथ यन्त्रं प्रवक्ष्यामि हरिद्रागणपस्य च ॥
लिखेदष्टदलं पद्मं कर्णिकायां तु वर्तुलम् ॥ ७० ॥

तस्य मध्ये साध्यनामवेष्टितं प्रणवं लिखेत् ॥
प्रणवस्योत्तरे ग्लौं चाग्रे तस्य जठरे तु गम् ॥ ७१ ॥

गकारमध्ये ह्रीङ्कारं ततःपद्मस्य दिग्दले ॥
भूबीजोदरगं हं च पूर्वाशादिषु विन्यसेत् ॥ ७२ ॥

आग्नेयादिकपत्रेषु केवलं गं समालिखेत् ॥
कमलं वा ततो लेख्यं चतुरस्रद्वयाकृति ॥ ७३ ॥

अष्टकोणं तस्य कोष्ठाष्टके भूपुरमालिखेत् ॥
तस्य गर्भे वकारं च सबिन्दुं कोणमस्तके ॥ ७४ ॥

कुर्य्याच्च हस्तिमुण्डानि तेषां मध्ये च हं लिखेत् ॥
तद्बहिश्चतुरस्रं च ग्लौं तत्कोणेषु संलिखेत् ॥ ७५ ॥

गङ्कारं दिक्षु विलिखेदास्ये कर्णे विलोचने ॥
आदित्यबुधशुक्राणां मध्ये कस्यापि वासरे ॥ ७६ ॥

निशीथे निर्जने देशे प्रलिप्ते गोमयाम्भसा ॥
प्रदीपदीपिते तत्र तथैवार्द्रकसंयुताम् ॥ ७७ ॥

संस्थापयेद्धरिद्रां च सम्यक्प्रक्षालितां जलैः ॥
स्थानाष्टके गणेशस्य वरिष्ठां पादसम्मिताम् ॥ ७८ ॥

मृदमानीय सम्मील्य कन्यया पेषयेच्च ताम् ॥
पश्चात्संशोधयित्वा तां पञ्चविंशतिसङ्ख्यया ॥ ७९ ॥

तां हरिद्रागणेशस्य मूलमन्त्रेण मन्त्रयेत् ॥
पश्चात्तां लेपयेन्मन्त्री शुभे सूक्ष्मे सितेम्बरे ॥ ८० ॥

अस्मिन्पटे लिखेद्यन्त्रमेतत्पूर्वोक्तमेवहि ॥
अत्र प्राणान्प्रतिष्ठाप्य पूजितं गुटिकीकृतम् ॥ ८१ ॥

गणेशस्यापि प्रतिमां चाङ्गप्रत्यङ्गसंयुताम् ॥
विनिर्माय त्रिभिर्भागैर्निशायां तद्धृदि क्षिपेत् ॥ ८२ ॥

प्राणसंस्थापनं भूयः कुर्य्यान्मूर्त्तेर्विचक्षणः ॥
गन्धपुष्पादिनैवेद्यैरभ्यर्च्य गणनायकम् ॥ ८३ ॥

सदा तन्निलये न्यस्य सहस्रं साष्टकं मनुम् ॥
सञ्जप्य पूजयेद्भक्त्या पीतवर्णैश्च पुष्पकैः ॥ ८४ ॥

सिद्धौदनेन नैवेद्यं निवेद्याथ बलिं हरेत् ॥
तण्डुलाञ्च्छालिसम्भूतान्प्रस्थमानमिताञ्च्छुभान् ॥ ८५ ॥

विदलीकृतमूर्द्धांश्च तदर्धं तत्र मेलयेत् ॥
गुडं चैव तथा भूयो नारिकेलं च तत्समम् ॥ ८६ ॥

मरिचं मुष्टिमानं च सैन्धवं च तदर्धकम् ॥
तदर्धं जीरकं चाज्यं कुडवार्धसमं भवेत् ॥ ८७ ॥

एतत्सर्वं चतुष्प्रस्थगोदुग्धे मन्दवह्निना ॥
पचेत्सिद्धौदनश्चायं गणेशस्य महाप्रियः ॥ ८८ ॥

अमुना पायसेनाथ लड्डुकापूपकादिभिः ॥
कर्पूरवासितैः पूगैस्ताम्बूलैश्चन्दनादिभिः ॥ ८९ ॥

तोषयित्वा विधानेन हरिद्रागणपं विभुम् ॥
प्रणमेद्दण्डवद्भूमौ स्तुत्वा स्तुतिभिरादरात् ॥ ९० ॥

एवं यः कुरुते नित्यं पञ्चभिः सप्तभिर्दिनैः ॥
विघ्नेश्वरप्रसादेन त्रैलोक्यं सचराचरम् ॥
स्तम्भयेत्साधकः सत्यं युद्धभूमौ महानिशि ॥ ९१ ॥

स्थापयेद्वैरिणः सेना व्याकुला स्तम्भिता भवेत् ॥
देशे ग्रामे पुरे गेहे सभायां स्थापयेद्भुवि ॥
तत्तत्स्थानगतान्सर्वाञ्जनान्सस्तम्म्भयेन्नरः ॥ ९२ ॥

शाखिशाखागतं सम्यक्स्तम्भयेद्वर्षणं महत् ॥
अश्ववारणशालासु क्षणात्सर्वानुपद्रवान् ॥ ९३ ॥

सम्यग्निवेश्य चैतेषु स्थानेषु बलिमाहरेत् ॥
स्तम्भयेदखिलं विश्वं किम्पुनर्वाञ्छितं जनम् ॥ ९४ ॥

अथाकृष्टिकरं वक्ष्ये हरिद्रागणपस्य च ॥
हरिद्रां शोधयेद्वेश्ममृदा प्रोक्तेन वर्त्मना ॥ ९५ ॥

लिखेदष्टदलं पद्मं कर्णिकायां तु वर्त्तुलम् ॥
तस्य मध्ये साध्यनाम प्रणवावेष्टितं लिखेत् ॥ ९६ ॥

प्रणवस्योदरे ह्रीं च तस्याश्च जठरे तु गम् ॥
तद्वेष्टयेत्साध्यनाम ह्रङ्गम्भ्यां हरिदक्षरैः ॥ ९७ ॥

हरिद्राविघ्नमन्त्रार्णैर्वृत्तं कुर्य्यात्तदूर्ध्वतः ॥
ह्रीङ्कारैर्वेष्टनं कृत्वा लिखेदष्टदले पुनः ॥ ९८ ॥

ॐ-ह्रीम्बीजं दलाग्रेषु वम्बीजं दिक्षुचालिखेत् ॥
विदिक्पात्रं वेष्टयेच्च पूर्ववच्चाष्टकोष्ठकम् ॥ ९९ ॥

तस्य पूर्वादिकोष्ठेषु द्रां-द्रीं-क्लीं-ग्लूं क्रमाल्लिखेत् ॥
विदिक्पत्रेषु संलिख्य शूलान्कोष्ठाग्रतो लिखेत् ॥ १०० ॥

शूलाग्रेष्वपि ह्रङ्कारं तत्सन्धावर्धचन्द्रयोः ॥
सम्पुटीकृत्य संलिख्य मायया कोणयुग्मके ॥ १०१ ॥

पञ्चमावरणं ह्येतल्लिखितं पूर्ववर्त्मना ॥
कृतप्राणप्रतिष्ठं तद्धरिद्राविघ्नकुक्षिगम् ॥ १०२ ॥

ॐह्रं सम्पूज्य यत्नेन समीरं स्थापयेद्बुधः ॥
चक्रिहस्तमृदापोह्य गणेशागारमृत्तिकाम् ॥ १०३ ॥

शरावयुगलं रम्यं निर्मायान्यत्र चोभयोः ॥
विन्यस्य तं गणेशानं कुसुमैररुणैर्यजेत् ॥ १०४ ॥

बलिं दत्त्वाथ सम्पूज्य विघ्नेशं चन्दनादिकैः ॥
द्वितीयेन शरावेण विदधीत सुसाधकः ॥ १०५ ॥

प्रत्यहं कुर्वतस्त्वेवं सप्तभिर्दिवसैर्भुवि ॥
साधकस्य समायाति सन्निधौ वाञ्छितो जनः ॥ १०६ ॥

भूपालस्तत्सुतो वापि महिषी वा वराङ्गना ॥
अमात्यस्तस्य योषा वा तस्य कन्यापि वाद्भुता ॥
आगच्छन्ति न सन्देहो मन्त्रिणः क्लिन्नचेतसः ॥ १०७ ॥

यन्त्रमेतल्लिखित्वा तु तारपत्रे गुडाम्भसा ॥
पूजितं स्थापितप्राणं दुग्धेनैवाभिषेचयेत् ॥ १०८ ॥

साध्यस्याभिमुखे भूत्वा कथयेत्प्रजपेन्मनुम् ॥
तदानीमानयेन्नूनं कामयानां तु सुन्दरीम् ॥ १०९ ॥

सामुद्रं रामठं न्यस्य तस्यागारे हरिद्रया ॥
स्विन्नेन मर्दयित्वा तु कृत्वा साध्याकृतिं शुभाम् ॥ ११० ॥

श्वेतार्कच्छदयुग्मान्तः सप्राणां सन्निवेशयेत् ॥
दीपाग्नौ तापयेन्मन्त्रं जपेदष्टसहस्रकम् ॥
क्षणादायाति कामार्त्ता वाञ्छिता वरवर्णिनी ॥ १११ ॥

नागवल्लीदले क्षौद्रलिप्ते यन्त्रमिदं लिखेत् ॥
साध्यं संस्मृत्य सम्पूज्य स्वैरं जप्तं प्रभक्षयेत् ॥
सीमन्तिनी समायाति शीघ्रं यौवनगर्विता ॥ ११२ ॥

पत्रे पुष्पे तु वस्त्रादौ क्षौमे वापि लिखेत्क्रमात् ॥
यमुद्दिश्यात्र तस्यापि क्षणादाकृष्टिकारकम् ॥ ११३ ॥

प्रवाहाभिमूखो वापि सरित्सङ्गमनीरगः ॥
तर्प्पयेत्तज्जलैः शुद्धैरष्टोत्तरसहस्रकम् ॥
शतयोजनदूरात्तु साध्यमाकर्षयेद्ध्रुवम् ॥ ११४ ॥

बहुनोक्तेन किं चात्र स्मृत्वा यं प्राणिनं जपेत् ॥
मनुमेनं विधानेन स तदाकर्षयेद्धि तम् ॥ ११५ ॥

अथ वक्ष्यामि वश्यार्थं यन्त्रसाधनमुत्तमम् ॥
यन्त्रं सुलिख्य पूर्वोक्तं मायाबीजमुदस्य च ॥
तत्स्थाने कामबीजं च काममध्ये तु गं लिखेत् ॥ ११६ ॥

बहिः श्लिष्टैर्मन्त्रवर्णैर्वेष्टयेद्यन्त्रबाह्यतः ॥
वेष्टयेत्कामबीजेन शेषं पूर्ववदेव हि ॥ ११७ ॥

पूर्ववत्कृतविघ्नेशकुक्षिमध्ये निवेशयेत् ॥
विधिना स्थापितप्राणं शरे विन्यस्य तं जपेत् ॥ ११८ ॥

रक्तमाल्यानुलेपाद्यैर्नैवेद्यैः पूर्ववत्कृतैः ॥
मनौ साध्याभिधां दत्त्वा स्थानेपूर्वसमीरिते ॥ ११९ ॥

वशमानययुग्मं च जपेदष्टसहस्रकम् ॥
साध्यदिक्सम्मुखो भूत्त्वा मन्त्रं मन्त्री समाहितः ॥ १२० ॥

विघ्नेशाय बलिं दत्त्वा छादयेत्तं च पूर्ववत् ॥
एवं दिनत्रयं कुर्वन्सप्तभिर्दिवसैर्बुधः ॥ १२१ ॥

रक्षोभूतपिशाचाद्यान्देवदानवपन्नगान् ॥
राजानं मन्त्रिणं राज्ञां स्त्रियं जप्त्वा तथेप्सिताम् ॥
वशयेत्साधकः शीघ्रं यावज्जीवं न संशयः ॥ १२२ ॥

निशांशेनावशिष्टेन निजदेहे सुलेपयेत् ॥
अचलां कमलां लब्ध्वा वशयेद्विश्वमञ्जसा ॥ १२३ ॥

हरिद्रया समं चूर्णं शालितण्डुलसम्भवम् ॥
तत्समेन गुडेनापि मधुना सैन्धवेन च ॥ १२४ ॥

सम्यग्विमर्दयित्वा च पिण्डाकारं पचेद्धृते ॥
निर्माय गणपं तेन यन्त्रं तद्धृदिनिःक्षिपेत् ॥ १२५ ॥

समीरं च प्रतिष्ठाष्य गन्धाद्यैः पूर्ववद्यजेत् ॥
त्रिदिनं पूजयित्ववं यन्त्रमध्यात्पृथक्पृथक् ॥
प्रतिमां भक्षयेत्पश्चात्साध्या वश्या भवेद्ध्रुवम् ॥ १२६ ॥

शालिपिष्टादिपिण्डेन कृत्वा साध्याकृतिं शुभाम् ॥
अष्टाधिकशतं जप्त्वा पूजितां स्थापितानिलाम् ॥ १२७ ॥

निवेद्य विघ्नराजाय साध्यं संस्मृत्य भक्षयेत् ॥
वशयेद्वाञ्छितं साध्यं सदा सर्वस्वदायिनम् ॥ १२८ ॥

वश्यमन्त्रं लिखेन्मन्त्री खाद्यपानादिवस्तुषु ॥
एवं कृत्वा जपेन्ना त्रिसहस्रं साष्टकं बुधः ॥
लक्षेण वशयेत्साध्यं वसुमात्रस्य साधकम् ॥ १२९ ॥

चन्दनागुरुकर्पूरनिशाकुङ्कुमरोचनाः ॥
मृगेभमदसंयुक्ता ह्यष्टाङ्गं विघ्ननाशने ॥ १३० ॥

सम्पिष्य तद्वशीकारयन्त्रमालिख्य पूर्ववत् ॥
अर्च्चनादि तथा कृत्वा जपित्वाष्टोत्तरं शतम् ॥ १३१ ॥

लिम्पेदनेन गात्रं स्वं कुर्वन्वश्यविशेषकम् ॥
ईक्षणात्स्पर्शनात्सद्यस्त्रिलोकीं वशमानयेत् ॥ १३२ ॥

एवं कृत्वा विधिं सद्यो वशयेद्योषितः पुमान् ॥
चन्दनेनैव वा कुर्य्याद्विधिमेनं फलप्रदम् ॥ १३३ ॥

द्विरेफश्च सदाभद्रा मुसली चन्द्रिका जटी ॥
बन्धूकवालकोशीरविष्णुक्रान्ताबलास्तथा ॥ १३४ ॥

वाराही शतवीर्य्या च मायूरी चण्डलोचना ॥
सर्वौषधिरसेनैव निशा भागार्धसम्मिता ॥ १३५ ॥

पिष्ट्वा वश्याभिधं यन्त्रं निर्माय प्रतिमामपि ॥
प्राणसंस्थापनं कृत्वा जपेदष्टसहस्रकम् ॥ १३६ ॥

शिष्टद्रव्येण तिलकं कुर्य्यात्प्रातस्तु यो नरः ॥
त्रैलोक्यसम्पदा सोपि तिरस्कुर्य्याद्धनाधिपम् ॥ १३७ ॥

कपिलागोमयं व्योम्नि नलिनीदलसम्पुटे ॥
आदाय ब्रह्मचर्य्येण भेषजैरुदितं समम् ॥ १३८ ॥

पञ्चगव्येन सम्मर्द्य पिण्डाकारं प्रकल्पयेत् ॥
घृतप्लुतं दहेन्मन्त्री शोषयित्वैधितेनले ॥ १३९ ॥

समुद्धृत्य च तद्भस्म तन्मध्ये यन्त्रमालिखेत् ॥
समीरणं प्रतिष्ठाप्य गणपं तत्र पूजयेत् ॥ १४० ॥

अष्टाधिकशतं मन्त्री जपित्वा मन्त्रमुत्तमम् ॥
काष्ठजे रूप्यरचितपात्रे कांस्यमये तथा ॥
निधाय लेपयेद्भस्म ललाटादिषु साधकः ॥ १४१ ॥

कान्तिपुष्टिधनारोग्यपुत्रपौत्रयशःपशून् ॥
लब्ध्वा लोकप्रियो भूत्वा दीर्घजीवी भवेद्ध्रुवम् ॥ १४२ ॥

पुरोधा नृपते रक्षां भस्मना सायमन्वहम् ॥
कुर्य्यादायुष्यवृद्ध्यर्थं यो वै विजयसम्पदे ॥ १४३ ॥

तस्मै निष्कत्रयं नित्यं मन्त्री दद्यात्पुरोधसे ॥
रक्ताम्बरसुवर्णैस्तु प्रोक्तभेषजपूर्वकम् ॥ १४४ ॥

निधाय कपिलाज्येन तद्वर्त्या नृकपालके ॥
दीपं प्रज्वाल्य तेनैव जपेन्मन्त्रं पुनः पुनः ॥ १४५ ॥

अष्टोत्तरशतं जप्त्वा गृहीत्वा कज्जलं च तत् ॥
नेत्रे दत्त्वा च वशयेन्निखिलं विश्वमोजसा ॥ १४६ ॥

उमारसेन गुटिकां पिष्ट्वा चन्दनवारिणा ॥
अभिमन्त्र्य नरं यं वा तिलकं प्रकरोति या ॥ १४७ ॥

सर्वलोकप्रिया भूयादङ्गस्पर्शान्निजं पतिम् ॥
अङ्गानुवर्त्तिनं कुर्य्याद्यावञ्जीवं न संशयः ॥ १४८ ॥

शुद्धया निशया कृत्वा विघ्नेशं प्रोक्तलक्षणम् ॥
प्रोक्तं गणपतेर्मन्त्रं नरो जप्त्वा सहस्रकम् ॥ १४९ ॥

अष्टाधिकं समभ्यर्च्य चन्दनादिभिरादरात् ॥
शिखायां बन्धयेन्नित्यं सर्वतो जयमाप्नुयात् ॥ १५० ॥

सङ्ग्रामे विपिने दुष्टश्वापदोत्थभये परे ॥
आपणव्यवहारेषु द्यूते वादे महार्णवे ॥ १५१ ॥

राज्ञश्चरसमुहेषु सभायां शत्रुसङ्कटे ॥
विजयी जायते वीरो रोगकृत्याविवर्जितः ॥
पराङ्गनासमूहेषु शोभते मन्मथो यथा ॥ १५२ ॥

नागवल्लीदले यन्त्रं लिखित्वा नागवारिणा ॥
सप्राणमर्चितं सप्तमष्टोत्तरसहस्रतः ॥
अखिलं वाञ्छितं साध्यं वश्यं नयति तत्क्षणात् ॥ १५३ ॥

गोदुग्धे सलिले मन्त्री क्वथिते सुदृढीकृते ॥
यन्त्रं विलिख्य तेनैव निर्माय गणनायकम् ॥
अभिमन्त्र्य शतं साग्रं लक्षयेद्वशयेज्जगत् ॥ १५४ ॥

नारिकेलं गुडोपेतं सघृतं त्रिशतं हुनेत् ॥
अन्वहं कृतसम्पातमष्टाधिकशतं बुधः ॥
सम्पातं लक्षयेद्यन्त्रं वशमायाति सोचिरात् ॥ १५५ ॥

अन्यात्किमु बहूक्तेन साध्यं सञ्चिन्तयन्मनुम् ॥
जपेत्स वशतां याति यावदायुर्न संशयः ॥
वशीकरणमन्त्रस्य प्रयोगोयमुदाहृतः ॥ १५६ ॥

अथातः सम्प्रवक्ष्यामि यन्त्रमुच्चाटनम्परम् ॥
उक्तरीत्या लिखेद्यन्त्रं हुङ्कारं तस्य मध्यतः ॥ १५७ ॥

ह्राङ्कारमथ संलिख्य तस्य मध्ये यथा तथा ॥
तस्य मध्ये साध्यनाम यं लिखेत्पत्रमध्यतः ॥ १५८ ॥

गम्बीजं च दलाग्रेषु तदग्रे चाष्टकोणकम् ॥
कोणेकोणे त्रिशूलञ्च शूलाग्रेषु निवेशितम् ॥ १५९ ॥

षड्बिन्दुलाञ्छितं कार्य्यं बहिर्वृत्तं सुशोभनम् ॥
षड्बीजस्थान आलिख्यं यम्बीजेन च वेष्टितम् ॥ १६० ॥

प्रणवं च तदा लेख्यं निशालेपनपूर्वकम् ॥
श्मशानाङ्गारसारेण ध्वाङ्क्षपक्षशलाकया ॥
यन्त्रमेतत्समालिख्य स्थापयेदीरणं ततः ॥ १६१ ॥

पिकमध्य स्थितध्वाङ्क्षगृहकाष्ठं प्रयत्नतः ॥
श्मशानवह्नौ सन्दह्य भस्मादाय तदुद्भवम् ॥ १६२ ॥

विघ्नाधीशगृहद्वाःस्थशर्करारजसान्वितम् ॥
यन्त्रमध्ये प्रविन्यस्य पुनस्तद्गुटिकीकृतम् ॥ १६३ ॥

शवालिप्तनिशालेपचिताभस्मास्थिनी तथा ॥
पेषयेच्च चिताङ्गारं कपिकच्छुं च वानरीम् ॥ १६४ ॥

साधको मन्त्रसारेण निर्माय गणपाकृतिम् ॥
तत्तस्या मध्यगं कृत्वा पुनः प्राणान्प्रवेशयेत् ॥ १६५ ॥

चक्रिहस्तमृदा चैव साध्यपादोत्थपांशुना ॥
शरावयुगलं मन्त्री निर्मायान्यत्र चोभयोः ॥ १६६ ॥

अन्यत्र तत्प्रविन्यस्य कृष्णपुष्पैः प्रपूजयेत् ॥
मनावुच्चाटयद्वन्द्वं योजयित्वा जपेन्मनुम् ॥ १६७ ॥

अष्टोत्तरसहस्रं तु च्छादयित्वा परेण तम् ॥
निखनेद्यस्य च द्वारि मासेनोच्चाटयेच्च तम् ॥ १६८ ॥

अथातः सम्प्रवक्ष्यामि यन्त्रं विद्वेषणाह्वयम् ॥
यन्त्रं पूर्वदिने लेख्यं मध्ये यं च सबीजकम् ॥ १६९ ॥

पद्ममष्टदलं पश्चात्त्रिशूलानि दलोर्ध्वतः ॥
त्रिशूलाग्रे तु हङ्कारं हङ्कारेण तु वेष्टयेत् ॥ १७० ॥

निशातुर्य्यांशमानेन मरिचं निम्बमेव च ॥
द्वित्रित्रिद्विगुणं पिष्ट्वा हेमपत्राम्बुना ततः ॥ १७१ ॥

मृतकर्पटकं पिष्ट्वा शेषमन्त्रमिमं लिखेत् ॥
पञ्चाङ्गं पारिभद्रस्य काकिणीञ्च तथा पुनः ॥ १७२ ॥

चिताग्नौ सन्दहेद्भस्म यन्त्रमध्ये निवेशयेत् ॥
संवृत्य विघ्नराजस्य कुक्षौ पूर्ववदर्चयेत् ॥ १७३ ॥

पिचुमन्दभवैः पत्रैः कृष्णपुष्पैर्विशेषतः ॥
विद्वेषयद्वयं मन्त्रे जपेत्संयोज्य साष्टकम् ॥ १७४ ॥

सहस्रं तु शरावं च निखनेच्छादितं ततः ॥
प्रीतयोर्विधिनानेन विद्वेषो भवति ध्रुवम् ॥ १७५ ॥

आदाय गणपं मन्त्री प्रीतयोरन्तराक्षिपेत् ॥
वैरम्प्रजायते शीघ्रं देशनाशो भवेद्द्वयोः ॥ १७६ ॥

स तद्यन्त्रगतं भस्म गृहीत्वा पथि विन्यसेत् ॥
गच्छतां पादसंस्पर्शाद्विवादस्तु महान्भवेत् ॥ १७७ ॥

देशे ग्रामे पुरे यत्र स्थापितो गणपो भवेत् ॥
वैरं च प्राणिवत्तत्र स्वैरं भवति सर्वदा ॥ १७८ ॥

पारिभद्रस्य पञ्चाङ्गमेकभागमितं भवेत् ॥
भागैकं मरिचस्यापि निशायाश्च तथैव च ॥ १७९ ॥

सन्दह्य भसितं पूर्ववर्त्मना संस्कृतं पुनः ॥
विकीर्णं वैरिणो मूर्ध्नि कुर्यादुन्मादमूकताम् ॥
इति विद्वेषणं प्रोक्तं मारणं कथ्यतेधुना ॥ १८० ॥

पूर्वोक्तमन्त्रमालिख्य ह्राङ्कारं तस्य मध्यतः ॥
मायाविघ्नेशबीजे द्वे ह्राङ्कारे तु समालिखेत् ॥
लेख्यं दलेष्वग्निबीजं तद्बाह्येष्टास्रकं भवेत् ॥ १८१ ॥

चतुरस्रद्वये चाथ रन्तत्कोणाष्टके लिखेत् ॥
त्रिकोणं तद्बहिः कार्यं त्रिकोणे च वरे लिखेत् ॥ १८२ ॥

मन्त्रप्रोक्तानि बीजानि वह्निकोणे लिखेदथ ॥
तद्वहिर्वह्निकोणेषु वह्निबीजं समालिखेत् ॥ १८३ ॥

निशां शुद्धां समालिख्य मृतकर्पटके शुभे ॥
चिताङ्गारोत्थय मष्या काकपक्षशलाकया ॥ १८४ ॥

यथोक्तं सुलिखेद्यन्त्रमेतन्मारणनामकम् ॥
कणारामठचव्याख्यनिशामरिचसद्वचाः ॥ १८५ ॥

स्नुहीक्षीरेण संलिप्य पिष्ट्वा शवपटेथ वा ॥
कारस्करस्य पञ्चाङ्गैरण्डबीजान्वितामृताम् ॥ १८६ ॥

पिष्ट्वा कर्पटकेशौ च लिम्पेच्छेषं पुरोक्तवत् ॥
समीरं च प्रतिष्ठाप्य कृत्वा गणपतिं ततः ॥ १८७ ॥

यन्त्रस्य त्रिदले न्यस्य पुनः प्राणप्रतिष्ठितम् ॥
मातृसद्मसमुद्भूतां गणेशागारमृत्तिकाम् ॥ १८८ ॥

निम्बान्मृदं च कर्कन्धूवृक्षमूलसमुद्भवाम् ॥
श्मशानमृत्तिकां तद्वत्करवीरद्रुमूलजाम् 1 ॥ १८९ ॥

कुम्भकारकरस्पृष्टामूषरस्थानजां मृदम् ॥
पिष्ट्वा शरावयुगलं कृत्वा चान्यत्र चोभयोः ॥ १९० ॥

यन्त्रं निवेशयेच्चापि कृष्णपुष्पैः प्रपूजयेत् ॥
कारस्करभवैः पत्रैर्नैवेद्यैश्च यथा पुरा ॥ १९१ ॥

उक्तमन्त्रपदस्थाने साध्यनाम निवेश्य हि ॥
मानयेत्पूजयेच्चैव सहस्रं साष्टकं जपेत् ॥ १९२ ॥

दक्षिणाशामुखो भूत्वा रजन्यां भूतवासरे ॥
चत्वरे प्रेतभूमौ च मातृविघ्नगृहेथ वा ॥ १९३ ॥

वल्मीके कोटरे वापि कारस्करतरूद्भवे ॥
विधायान्यशरावे च निखन्य बलिमाहरेत् ॥
साध्यो यमपुरं याति सप्ताहाज्ज्वरपीडितः ॥ १९४ ॥

अमोघवीर्य्यमेतद्धि विधानं भुवि दुर्लभम् ॥
भूदेवव्यतिरिक्तेषु राजवैरिषु योजयेत् ॥ १९५ ॥

नृपोपि कारयेद्यस्तु कर्तारं तोषयेद्धनैः ॥
कर्त्तापि तद्दशांशेन प्रायश्चित्तं समाचरेत् ॥ १९६ ॥

एतान्युक्तानि यन्त्राणि हरिद्रागणपस्य च ॥
षट्षट्कर्मकराण्याशु गोपनीयानि यत्नतः ॥ १९७ ॥

अथ वक्ष्ये मातृकाया यन्त्रं साधकसिद्धिदम् ॥
अष्टपत्रं लिखेत्पूर्वं मातकूटं तु मध्यतः ॥ १९८ ॥

ह्र्सौमिति च पत्रेषु केशरेषु त्रिशः स्वरान् ॥
तस्योर्ध्वं भूपुरं कुर्यान्द्रचनेयं प्रदर्शिता ॥ १९९ ॥

एतद्यन्त्रस्य मध्यस्थं नाम कृत्वा प्रयोजयेत् ॥
प्रातर्मूर्ध्नि शिरोबिन्दुमध्यस्थं सर्वसम्पदे ॥ २०० ॥

अभिषेकाच्च धनकृत्पूजनाल्लोकवश्यकृत् ॥ २०१ ॥

स्थापनाद्गृहदेशादौ यन्त्रं सर्वार्थसिद्धिदम् ॥
सौवर्णे राजते ताम्रे पट्टे वा यन्त्रमुद्धरेत् ॥ २०२ ॥

यस्य प्रतिष्ठा देवस्य लिखेत्तन्नामपूर्वकम् ॥
यन्त्रमध्ये महादेवं सम्यग्ध्यात्वा तु तत्र च ॥ २०३ ॥

प्राणप्रतिष्ठां कुर्वीत देवीं तत्रार्चयेत्पुनः ॥
स्पृष्ट्वा यन्त्रं जपेन्मन्त्रमष्टोत्तरसहस्रकम् ॥ २०४ ॥

मातृकानामतो यन्त्रं निखनेच्च धरातले ॥
तत्र सम्यक्पूजयित्वा मृदा भूमिं च पूजयेत् ॥ २०५ ॥

मातरश्चोपरि स्थाप्याः स्वाभीष्टा देवता ततः ॥
सान्निध्यं देवतायाः स्यात्साधकः सुखमाप्नुयात् ॥ २०६ ॥

अथो लिपीश्वरस्यान्यं वक्ष्ये यन्त्रं सुसिद्धिदम् ॥
लिखेदष्टदलं पद्मं तन्मध्ये ज्ञानिनो मनुम् ॥ २०७ ॥

हह ज्ञानिन इत्येष नमोन्तः सप्तवर्णकः ॥
ज्ञानिमन्त्रं वसुदले पूर्वादिषु लिखेत्क्रमात् ॥ २०८ ॥

ह्रङ्कारपुटितं यं च ह्येकारं हं ततः पुनः ॥
इं-ईं-उं-ऊं च ऐं लेख्यं चाष्टपत्रेषु मन्त्रिणा ॥ २०९ ॥

सिद्धादिचक्रे साध्यस्य नामाद्यर्णस्थितो भवेत् ॥
यन्त्रकोष्ठे तत्र संस्थैर्वर्णैः साध्यस्य नामकम् ॥ २१० ॥

पुटयित्वाष्टमं पत्रं लिखेदथ च वेष्टयेत् ॥
वृत्तेन यन्त्रमुक्तं तन्मातृकायास्तथैव च ॥ २११ ॥

चन्दनेन पटे लेख्यं चिरं जयति दुःखदम् ॥
सर्वशान्तिकरं राहोरोहिण्यामुदिते सति ॥ २१२ ॥

साधकस्य करे बद्धं पूर्वोक्तं फलमादिशेत् ॥
एतस्या एव देव्यास्तु वक्ष्य उच्चाटमारणम् ॥ २१३ ॥

यन्त्रं प्राग्वच्चाष्टदले कर्णिकायां मनुं श्रियम् ॥
हङ्कापेश्वराय नमः प्रोक्तश्चाष्टाक्षरस्त्विह ॥ २१४ ॥

ततो मध्यादष्टदिक्षु वर्णान्सम्पुटिताṁल्लिखेत् ॥
ईं मध्ये पूर्वतो यै च कं चं दं तंयमेव च ॥
यं शं वं हं च प्राच्यां हि प्राग्वद्वा सं समालिखेत् ॥ २१५ ॥

सिद्धादिचक्रकोष्ठस्था वर्णाः सम्पुटितास्तु ये ॥
बहिस्तु ते वेष्टनीया वायुमण्डलचक्रतः ॥ २१६ ॥

षड्बिन्दुलाञ्छितं वृत्तवेष्टितं रसकोणकम् ॥
वायुमण्डलमेतत्स्यात्स्नात्वा मन्दोदये सति ॥ २१७ ॥

तालपत्रे लिखित्वारेर्गृहमध्ये निधापयेत् ॥
अवश्यन्तस्य मृत्युस्स्याद्देहल्यधः प्रपूजितम् ॥
यदा तदा भवेच्छत्रोरुच्चाटो नात्र संशयः ॥ २१८ ॥

अष्टपत्रं लिखेत्पद्मं कर्णिकायां लिखेन्मनुम् ॥
करौ स्वठौ नैफड् नमो मनुरष्टाक्षरः स्मृतः ॥ २१९ ॥

अष्टपत्रेषु लेख्यानि रङ्कारपुटितानि तु ॥
उम् ईं खं छं ठं च यं च हंसं चेति प्रवेष्टयेत् ॥ २२० ॥

त्रिकोणेनाष्टमे पत्रे शत्रोर्नाम लिखेदथ ॥
सिद्धादिचक्रे कथिता ये वर्णास्तैश्च संयुतम् ॥ २२१ ॥

भौमोदये कृत्तिकायां शववस्त्रे समालिखेत् ॥
श्मशानाङ्गारकेणापि स साध्यः स्याद्यमातिथिः ॥ २२२ ॥

एवमष्टदले च स्यान्नाममित्रार्णवेष्टितम् ॥
काश्मीरीयावकाभ्यान्तु भूर्ज्जपत्रे लिखेत्पुनः ॥ २२३ ॥

अर्चयित्वा करे चैव बध्नीयाद्वामके तु यम्ः ॥
सर्वत्र कुरुते रक्षां यन्त्रमेतत्सुदुर्लभम् ॥ २२४ ॥

अथ यन्त्रान्तरं वक्ष्ये प्राग्वदष्टदलं कुरु ॥
तत्कर्णिकायां तु लिखेद्ॐ-व्ॐ-विं-विं विधुन्तुदा ॥ २२५ ॥

य नमश्चेति रुद्रार्णान्दलेषु विलिखेत्क्रमात् ॥
प्रादक्षिण्येन पूर्वादौ वर्णान्बीजेन संयुतान् ॥ २२६ ॥

अं ॐ वं-धं-कं च टं च धं-भं चैवाष्टपत्रके ॥
प्राग्वत्साध्यं च मित्रार्णयुक्तं सम्यक् क्रमाल्लिखेत् ॥ २२७ ॥

ततस्तु वेष्टयेत्सर्वमधचन्द्रैः सुशोभनैः ॥ २२८ ॥

पूर्वाषाढाख्यनक्षत्रे लिखेच्छुक्रोदये सति ॥
कुचन्दनोदकेनैतद्भुक्तम्भक्ष्येण भाग्यदम् ॥ २२९ ॥

अष्टपत्रं लिखेत्पद्मं कर्णिकायां लिखेन्मनुम् ॥
अण्ठं जगौच ठं प्रोच्य मूलमन्त्रो नवाक्षरः ॥
लिखेदष्टदले प्राग्वत्प्रादक्षिण्येन सम्पुटान् ॥ २३० ॥

ठं-लं-गं जं च टं दं लं प्राग्वच्चाष्टदले तथा ॥
साध्यनामार्णकान्मित्रवर्णाद्यानपि चाग्रतः ॥ २३१ ॥

भूपुरं चाष्टवज्राख्यं लिखेद्भूर्जे च गैरिकैः ॥
धृत्वा हस्ते प्रोक्ष्य करं श्मशानमृत्तिकास्थले ॥
लिखितं गैरिकैरेतत्सर्वोपद्रवनाशनम् ॥ २३२ ॥

वक्ष्ये त्रिपुरभैरव्या यन्त्रं सर्वार्थसाधकम् ॥
नवयोन्यात्मकं सम्यक्त्रिकोणन्तस्य मध्यतः ॥ २३३ ॥

या योनिस्ता समारभ्य प्राच्यां भागात्प्रदक्षिणम् ॥
ससार्वकूटमेकैकं लिखेत्तानि वदाम्यहम् ॥ २३४ ॥

हकारञ्च सकारं च तथौकारसमन्वितम् ॥
नादविन्दुसमायुक्तं मध्ययोनाविदं लिखेत् ॥ २३५ ॥

हकारञ्च सकारं च ककारञ्च तथा लरौ ॥
नादबिन्दुयुतौ चैव तद्दले च समालिखेत् ॥ २३६ ॥

हकारञ्च सकारं च रेफमौकारसंयुतम् ॥
विसर्गाद्यमिदं कूटं तृतीये सुलिखेत्ततः ॥ २३७ ॥

पुनरेतानि कूटानि चतुस्सप्तादियोनिषु ॥
वृत्तद्वयन्तु तद्बाह्ये वीथिकायाम्प्रवेष्टयेत् ॥ २३८ ॥

सबिन्दुकैर्मातृकार्णैस्तद्बहिश्चाष्टकोणकम् ॥
चतुरस्रद्वयेनैव कर्त्तव्यन्तत्र संलिखेत् ॥ २३९ ॥

कामबीजन्तु कोणेषु यन्त्रमेतत्प्रवेष्टयेत् ॥
लाक्षया च त्रिलोहेन होमसम्पातसाधितम् ॥ २४० ॥

बाहुमूले धृतं यन्त्रम्पुत्रायुस्सुखदम्भवेत् ॥
नानाभोगाञ्जयं दद्यात्सङ्ग्रामे नात्र संशयः ॥
अथान्यत्त्रैपुरं वक्ष्ये भूर्ज्जे षट्कोणमालिखेत् ॥ २४१ ॥

ससाध्यं तस्य मध्ये तु कामबीजं समालिखेत् ॥
कोणेष्वपि लिखेत्कामं बहिः षोडशपत्त्रकम् ॥
कुर्य्यात्पत्रेषु सुलिखेत्कामबीजानि तद्वहिः ॥ २४२ ॥

कृत्वा वृत्तद्वयं वीथ्यां हम्बीजेन प्रवेष्टयेत् ॥
तद्वहिश्चतुरस्रन्तु कुर्य्याद्यन्त्रं सुलेखतः ॥ २४३ ॥

गोरोचनाकुङ्कुमाभ्यां सम्पत्सौभाग्यकारकम् ॥
करोति कविताकीर्त्तिं साधकस्य न संशयः ॥ २४४ ॥

अथान्यत्सम्प्रवक्ष्यामि त्रैपुरं स्त्रीवशङ्करम् ॥
आदौ लिखित्वा षट्कोणन्तन्मध्ये कामबीजकम् ॥ २४५ ॥

काममध्ये तु ह्रीङ्कारं दलेषु विलिखेच्च तत् ॥
षट्कोणसन्धौ हुङ्कारं सर्वं स्त्रीङ्कारवेष्टितम् ॥ २४६ ॥

त्रिपुरदेविविद्महे कामेश्वरि धीमहि ॥
तन्नः क्लीं प्रचोदयात् ॥ २४७ ॥

त्रिपुरायास्तु गायत्रीं जप्त्वा यन्त्रे च संलिखेत् ॥
तेन यन्त्रं भवेत्सिद्धमीरितं नात्र संशयः ॥ २४८ ॥

अथातः सम्प्रवक्ष्यामि पञ्चबाणेश्वरीमनुम् ॥
यन्त्रं पञ्चदलं चादौ कृत्वा तत्र तु संलिखेत् ॥ २४९ ॥

ससाध्यं कामबीजं च दलेषु तु लिखेत्क्रमात् ॥
अग्न्यादिप्रादक्षिण्येन द्रां-द्रीं-क्लीं-क्लूं-स-इत्यपि ॥ २५० ॥

वृत्तद्वयञ्च तद्बाह्ये कृत्वा वीथीद्वयम्भजेत् ॥
वेष्टयेत्प्रथमां वीथीं द्रां-द्रीं-क्लीं-ब्लूं-स इत्यपि ॥ २५१ ॥

द्वितीयां मातृकावर्णैस्तद्बहिश्चतुरस्रकम् ॥
चतुरस्रेशकोणात्तु कामबीजं समालिखेत् ॥ २५२ ॥

सुवर्णनिर्मिते पट्टे कस्तूर्या यत्रमालिखेत् ॥
कण्ठे वा दक्षिणे बाहौ धृतं तत्स्त्रीवशङ्करम् ॥
दद्याद्यथेप्सितान्कामान्साधकाय रणे द्रुतम् ॥ २५३ ॥

अथातो राजमातङ्ग्या यन्त्रं वक्ष्ये सुसिद्धिदम् ॥
सुवर्णरचिते पट्टे लेखन्या स्वर्णरूप्यया ॥ २५४ ॥

राजते ताम्रके वापि भूर्ज्जे वापि मनोहरे ॥
काश्मीरीरोचनैणेययुतचन्दनवारिमिः ॥ २५५ ॥

लिखेद्यन्त्रं 2 तु तत्रादौ त्रिकोणं तु समालिखेत् ॥
साध्यनामान्वितं तत्र ह्रीं क्लीम्बीजद्वयं लिखेत् ॥ २५६ ॥

ह्रीं श्रीं तस्माद्बहिः कुर्य्यात्पञ्चपत्रसरोरुहे ॥
अं नमः प्रथमे पत्रेऽन्यस्मिन्भगवतीति च ॥ २५७ ॥

मातङ्गेश्वरी तृतीये सर्वजनमनोहरी ॥
चतुर्थे पञ्चमे पत्रे स्यात्सर्वमुखरञ्जिनी ॥ २५८ ॥

बहिश्चाष्टदलं कृत्वा क्लीं ह्रीं-श्रीं प्रथमे लिखेत् ॥
एतामपि लिखेत्तत्र सर्वराज वशङ्कराम् ॥ २५९ ॥

द्वितीये तु दले सर्वस्त्रीपूरुषवशङ्कराम् ॥
तृतीये सर्वदुष्टेति लिखेन्मृगवशङ्कराम् ॥ २६० ॥

चतुर्थे सर्वसर्वेति लिखेच्चापि वशङ्कराम् ॥
पञ्चमे सर्वलोकेति लिखेन्मन्त्रंवशङ्कराम् ॥ २६१ ॥

लिखेत्षष्ठे तथा यन्त्रेमुकं मे वशमानय ॥
स्वाहा सप्तमपत्रेस्य श्रीं ह्रीं-ऐं-सौं च क्लीं च ऐम् ॥ २६२ ॥

वृत्तद्वयन्तु तद्बाह्ये वीथ्यान्तत्र प्रवेष्टयेत् ॥
बीजषट्कोणके प्रोक्तमष्टपत्रं द्वितीयके ॥ २६३ ॥

उक्त्वा श्रीं च तृतीयादिपत्रसंस्थैश्च वर्णकैः ॥
ततोष्टपत्रजैर्वर्णैर्लिखेच्चैवाग्रतस्तदा ॥ २६४ ॥

वृत्तद्वये तु तद्बाह्ये तत्र वीथ्यां तु संलिखेत् ॥
साध्यनामाक्षरयुतान्मातृकार्णान्क्रमात्क्रमात् ॥ २६५ ॥

तद्बहिश्च तुरस्रं च तत्कोणेषु समालिखेत् ॥
साध्यनामयुतं कामबीजमत्यन्तशुद्धिमत् ॥ २६६ ॥

तेन लेख्यमिदं यन्त्रं साधु सर्वेषु जन्तुषु ॥
एतद्यन्त्रं लिखेच्चैव जप्त्वा मन्त्रमनन्यधीः ॥ २६७ ॥

हुत्वा घृतादिकं चैव गुटिकीकृत्य साधकः ॥
साभिषेकः स्वयं बाहौ दक्षिणे तद्विधारयेत् ॥
पूज्यते त्रिदशाद्यैश्च किं पुनर्मानवोत्तमैः ॥ २६८ ॥

आयुरारोग्यमैश्वर्य्यमिच्छेद्यद्यत्स वाञ्छितम् ॥
अवश्यमेव लभते पुरुषो नात्र संशयः ॥ २६९ ॥

अथातः सम्प्रवक्ष्यामि भुवनेश्यास्तु यन्त्रकम् ॥
कुर्य्याच्च षड्दलं पद्मं कर्णिकायां च हृल्लिखेत् ॥ २७० ॥

साध्ययुक्तं षड्दलेषु केवलं शक्तिबीजकम् ॥
बहिर्वृत्तद्वयं कृत्वा वीथिकाया प्रवेष्टयेत् ॥ २७१ ॥

स्वरैः षोडशभिर्बिन्दुयुक्तैस्तद्बाह्यम्ॐ लिखेत् ॥
भूपुरं यन्त्रमेतत्तु वन्ध्यानामपि पुत्रदम् ॥ २७२ ॥

अथातो भुवनेश्वर्य्या वश्यकृद्यन्त्रमुच्यते ॥
आदौ सुलिख्य षट्कोणं मायां साध्यसमन्विताम् ॥ २७३ ॥

कर्णिकायां षड्दलेषु तद्बहिर्भूपुरं लिखेत् ॥
एतद्यन्त्रं वश्यकरं पूजितं बाहुमध्यगम् ॥ २७४ ॥

अथान्यद्भुवनेश्वर्य्याः प्रोच्यते यन्त्रमुत्तमम् ॥
आदौ कुर्य्याच्च षट्कोणं कोणा वज्रसमन्विताः ॥ २७५ ॥

मध्ये ससाध्यां मायां च लिखेत्कोणेषु तां पुनः ॥
वृत्तत्रयं बहिष्कुर्य्यात्तत्र वीथीद्वयं भवेत् ॥ २७६ ॥

वेष्टयेन्मायया वीथीद्वयमेतच्चतुर्थकम् ॥
श्रीखण्डरोचनाभ्यां तु लेख्यं सर्वजयप्रदम् ॥ २७७ ॥

दद्याच्च मनसोद्दिष्टं बाहौ वा हृदये धृतम् ॥
मायास्थाने तु मन्त्रं वा भुवनेश्याः समालिखेत् ॥ २७८ ॥

अथातः सम्प्रवक्ष्यामि भुवनेश्यास्तु यन्त्रकम् ॥
अष्टपत्रं लिखेत्पद्मं कर्णिकायां समालिखेत् ॥ २७९ ॥

आं-ह्रीं-क्रीमिति बीजानि त्रिस्त्रिधा केसरेषु च ॥
लिखेत्स्वरान्पत्रमध्ये कादिवर्गाष्टकं लिखेत् ॥ २८० ॥

भूपुरं च बहिष्कुर्य्याल्लिखेत्प्राग्वच्च धारयेत् ॥
सर्ववाञ्छाप्रदं यन्त्रं सम्पत्सन्ततिदं परम् ॥ २८१ ॥

अथातः सम्प्रवक्ष्यामि लक्ष्मीयन्त्रं रमाप्रदम् ॥
भूर्ज्जपत्रे लिखेत्पद्मं कर्णिकायां ध्रुवं न्यसेत् ॥ २८२ ॥

तत्पत्रेषु लिखेत्क्रीं ह्रीं क्लीं-तथा साध्यनाम च ॥
तत्केसरेषु संलेख्यं श्रीं-ह्रीं-क्लीं च दिगष्टके ॥ २८३ ॥

लिखेद्द्वादशपत्रेषु क्रमादेकैकमक्षरम् ॥
वाचं मायां रमां कामं हसनौ इति कूटकम् ॥ २८४ ॥

जगत्प्रभूत्यै हृदयं द्वादशार्णो मनुस्त्वयम् ॥
तद्बाह्ये षोडशदले केसरेषु द्वयन्द्वयम् ॥ २८५ ॥

ककारादिसकारान्तान्द्वात्रिंशर्द्वणकाṁल्लिखेत् ॥
तारो ह्रीं कवचं कें-कें-क्षें-क्षें-श्रीं-ह्रीं ततः परम् ॥ २८६ ॥

क्षं-ह्रीं-फडिति सूर्यार्णो लक्ष्मीमन्त्रः समीरितः ॥
यन्त्रमेतन्महालक्ष्म्याः प्रोक्तं सम्पत्करं परम् ॥
सर्वसौभाग्यदं चापि सर्वदुःखविमोचनम् ॥ २८७ ॥

अश्वारूढायन्त्रमथो प्रोच्यते साधकेष्टदम् ॥
षट्कोणमध्ये साध्याख्यां भुवेनेशीं समालिखेत् ॥ २८८ ॥

आं ह्रीं क्रीमैं क्लीं च सौं च षड्दलेषु लिखेत्क्रमात् ॥
बहिर्द्वादशपत्रे च वर्णानेतान्समालिखेत् ॥ २८९ ॥

अं-आं-क्रां-हहि परमेशवरि स्वाहा ततःपरम् ॥
बहिश्चत्वारि कार्य्याणि वृत्तान्येवं तु वीथिकाः ॥
द्रां-द्रीं-क्लीं-ब्लूं-स इत्येतैर्बाणबीजैः प्रवेष्टयेत् ॥ २९० ॥

द्वितीयवीथ्यां हृल्लेखा नित्यक्लिन्ने मदद्रवे ॥
स्वाहेत्येकादशार्णेन वेष्टयेन्मातृकार्णकैः तृतीया तद्बहिः कुर्य्याद्भूपुरे चैव शङ्करम् ॥ २९१ ॥

अथान्यत्त्वरितायास्तु मनोज्ञं यन्त्रमुच्यते ॥
एकाशीतिपदं चक्रं लिखित्वा तस्य मध्यमे ॥
कोष्ठे लिखेच्चकारन्तु साध्यनामास्य चोदरे ॥ २९२ ॥

तत्कोष्ठकाच्चतुर्दिक्षु लिखेत्कोष्ठचतुष्टये ॥
ज्ञां सं चं वं तथैकैकमक्षरं चेशकोणतः ॥ २९३ ॥

आग्नेयान्तं लिखेच्छ्लोकं पूर्वोक्तं मध्यमां विना ॥
एवमेव च नैरृत्याद्वायव्यान्तं पुनर्लिखेत् ॥ २९४ ॥

तद्बाह्ये तु चतुर्दिक्षु मनुमेनं समालिखेत् ॥
ॐ-ह्रीं-ह्रं-खें च क्षें क्षः स्त्रीं-ह्रं-क्षं-ह्रीं च वषण्मनुः ॥ २९५ ॥

वृत्तद्वयं तु तद्बाह्ये कृत्वा वीथ्यां समालिखेत् ॥
चं मालिकां तु तद्बाह्ये कुम्भं कुर्य्यात्सुशोभनम् ॥ २९६ ॥

तस्य मूलमुखे चापि लिखेत्पद्मं समाहितः ॥
कुङ्कुमैर्लाक्षया चापि लिखितं स्वर्णपट्टके ॥ २९७ ॥

धवले वसने वापि लेखन्या स्वर्णजातया ॥
सम्पूज्य जपसंसिद्धिं प्राप्नुयाद्यत्र तत्र वै ॥ २९८ ॥

भवेल्लक्ष्मीरतिप्रीता नीरोगाश्च प्रजास्तथा ॥
गजाश्वपशवस्त्वन्ये सुखिनः प्राणिनो भृशम् ॥ २९९ ॥

भूतप्रेतपिशाचादिपीडासु बिभृयादिदम् ॥
अलक्ष्मी शान्तये चाशु सिद्धये सर्वसम्पदाम् ॥ ३०० ॥

कृत्यामृत्युग्रहे दुष्टे सर्वरोगविमुक्तये ॥
पुत्रपौत्रैश्वर्य्यदीर्घायुष्यसंसिद्धयेपि च ॥
एतद्यन्त्रोत्तमं प्रोक्तं त्वरिताया घटार्गलम् ॥ ३०१ ॥

अथान्यत्सम्प्रवक्ष्यामि त्वरितायन्त्रमुत्तमम् ॥
कृत्वा तु दिग्दलं पद्मं कर्णिकायां समालिखेत् ॥
ह्रीङ्कारं तस्य मध्ये तु साध्यनाम समालिखेत् ॥ ३०२ ॥

क्रमाद्दलेषु सुलिखेद्धीङ्कारसहितं मनुम् ॥
त्वरिताया बहिः कुर्यात्षट्कोणं च बहिश्चरेत् ॥ ३०३ ॥

भूपुरं यन्त्रमेतत्तु कृत्याद्रोहग्रहान्हरेत् ॥
चौरव्याघ्रादिकभयं जप्त्वा तद्वारयेद् ध्रुवम् ॥
रक्षोजयः स्यात्सङ्ग्रामे विवादे विजयस्तथा ॥ ३०४ ॥

अथातः सम्प्रवक्ष्यामि त्वरितायाश्च मत्कृतम् ॥
नवव्यूहाभिधं यन्त्रं नववर्गादिनामके ॥ ३०५ ॥

साधकप्रोक्तफलदं तत्प्रकारो निरूप्यते ॥
कृत्वा चाष्टदलं पद्मं कर्णिकायान्तु ह्रीं लिखेत् ॥ ३०६ ॥

तस्य मध्ये लिखेत्तारं तन्मध्ये साध्यनामकम् ॥
ततश्चाष्टदले लेख्यमौं ह्रीं फट्कारवर्जितम् ॥ ३०७ ॥

शेषमन्त्राक्षरं कोष्ठे तत्पद्मं वेष्टयेत्पुनः ॥
ह्रीङ्कारैस्तस्य बाह्ये तु लेख्या चौङ्कारशृङ्खला ॥ ३०८ ॥

कुम्भं कुर्य्याच्च तद्बाह्ये प्रथमं यन्त्रमीरितम् ॥
एवमस्यैव मन्त्रस्य कर्णिकायां समालिखेत् ॥ ३०९ ॥

ह्रीङ्कारस्योदरे विद्यात्तृतीयार्णं ससाध्यकम् ॥
तथा तारादिवर्णांश्च प्राग्वत्पत्रेषु संलिखेत् ॥ ३१० ॥

ह्रीङ्कारमध्ये फठ्-कारं यदा स्याच्च तदा लिखेत् ॥
ह्रीङ्कारपुटितान्वर्णान्ॐकारान्तान्दलेषु च ॥ ३११ ॥

नवभेदमिदं यन्त्रं नामवर्गादिभेदतः ॥
सर्वरक्षाकरं प्रोक्तं दुःखदारिद्र्यनाशनम् ॥
शुभलक्ष्मीयशोधान्यवाससां पुरुदायकम् ॥ ३१२ ॥

अथान्यत्सम्प्रवक्ष्यामि त्वरितायन्त्रमद्भुतम् ॥
तिर्य्यगूर्ध्वा द्वादशैव रेखास्तत्र तु कोष्ठगाः ॥
एकादशानां वर्गेण तुल्या लेख्यास्तथाग्रके ॥ ३१३ ॥

त्रिशूलानि लिखेन्मध्यकोष्ठके प्रणवं लिखेत् ॥
तस्य मध्ये साध्यनाम चतुर्दिक्कोष्ठकेषु च ॥ ३१४ ॥

प्रवेशगत्या च लिखेत्पञ्चपञ्चाक्षराणि च ॥
क्षंस्त्रींह्रङ्क्षं तथा फट् च बाह्ये प्राकारके ततः ॥ ३१५ ॥

ईशानकोणात्सुलिखेत्क्रमात्कोष्ठेषु पञ्चसु ॥
आमध्यान्तं ध्रुवं वर्म कं खं चं छेति वर्णकान् ॥ ३१६ ॥

एवं चतुर्षु कोणेषु रान्तं दत्त्वा लिखेत्पुनः ॥
सव्यासव्ये तथा हं-खं-वं-क्षें वर्णचतुष्टयम् ॥ ३१७ ॥

एवं द्वितीयप्राकारे तारकोणचतुष्टये ॥
ह्रं-क्षं चेति त्रयो वर्णालेख्या वामे च दक्षिणे ॥ ३१८ ॥

एवं तृतीयप्राकारकोणेषु प्रणवं लिखेत् ॥
ह्रस्वैर्वर्णैः सव्यमपसव्यं चैव तथा लिखेत् ॥ ३१९ ॥

पुनश्चतुर्थे प्राकारे लिखेत्तारं च साधकः ॥
ह्रङ्कारं पञ्चमे ध्यात्वा प्राकारे केवलं ध्रुवम् ॥ ३२० ॥

पूजनीयाः प्रयत्नेन केवलं भाग्य काम्यया ॥
मायाहीनांश्च द्विद्व्यर्णांस्त्वरिताया मनोः क्रमात् ॥ ३२१ ॥

ईशानकोणात्प्राकारप्रदक्षिणक्रमेण च ॥
प्रवेशमार्गतस्तुर्य्यतुल्यसङ्ख्यावृतिर्भवेत् ॥ ३२२ ॥

मूलमन्त्रेण तद्यन्त्रं सम्पाताज्यपरिप्लुतम् ॥
ग्रहभीतिहरं नित्यं जयलक्ष्मीयशःप्रदम् ॥ ३२३ ॥

अथातः सम्प्रवक्ष्यामि त्वरिताया विनिग्रहे ॥
शत्रूणां यत्क्षमं यन्त्रं यन्न क्वापि च कुण्ठितम् ॥ ३२४ ॥

एकाशीतिपदं चक्रं लिखेत्तन्मध्यकोष्ठके ॥
महोदरे साध्यनाम निर्गमे च दिशासु च ॥
चतसृषु लिखेद्बीजचतुष्कन्तन्निगद्यते ॥ ३२५ ॥

अं-आं-ब्रूं-ह्रूं ततश्चेशकोणतः कालिकामनुम् ॥
समालिखेच्छलोकरूपं तथा नैऋत्यकोणतः ॥ ३२६ ॥

एवं पुरोक्तवद्यन्त्रं लिखेत्तद्बाह्यतः पुरे ॥
वेष्टयेद्यममन्त्रेणाभिचार्य्यश्चेत्पुमान्भवेत् ॥ ३२७ ॥

अभिचार्य्या यदा स्त्री स्यात्तदा तुर्य्यममन्त्रकम् ॥
कालिकायाश्च मन्त्रेण बाह्यतो वेष्टयेत्ततः ॥
यं-रं-भ्यां वेष्टयेद्दुःखं कालीयममनू यथा ॥ ३२८ ॥

कालीमाललमालीकालीनमोक्षक्षमोनली ॥
मोदोदेननदेदोमोरक्षमत्वत्वमक्षर ॥ ३२९ ॥

यमाधाररधामायमाटमोटटमोटमा ॥
वामोमूरिरिमूमोवाटीटलीलललीटटी ॥ ३३० ॥

सीसपट्टेथ वा श्याववस्त्रे वा प्रस्तरेपि वा ॥
विषमष्या समालेख्यं लेखिन्या काकपक्षया ॥ ३३१ ॥

काल्यादिशक्तिदेहल्या वामभागे प्रपूरयेत् ॥
शत्रुर्दुःखमवाप्नोति सद्यो यन्त्रप्रभावतः ॥ ३३२ ॥

निखातं चत्वरे तच्चेच्छत्रोर्व्याधिकरं भवेत् ॥
पूरितं करिवृक्षाधः पुत्रस्त्रीणां वियोगकृत् ॥ ३३३ ॥

अथान्यत्सम्प्रवक्ष्यामि देशादीनां विनाशनम् ॥
त्वरितायन्त्रमपरं तूर्द्ध्वाधोष्टाष्टकोष्ठकम् ॥ ३३४ ॥

पुंसामर्थे लिखेत्पूर्वं साधकः कालिकामनुम् ॥
पश्चाच्च यममन्त्रार्णैर्वेष्टयेच्चैव तद्ध्रुवम् ॥ ३३५ ॥

स्त्रीणामर्थे यदा यन्त्रं यमस्याभ्यन्तरार्णकम् ॥
कालीमन्त्रेणावगुण्ठ्य यन्त्रमावेष्टयेद्बहिः ॥ ३३६ ॥

लेपनीयं विषैस्तच्च हेममक्षिकया पुनः ॥
कपिकच्छ्वा पुनर्लिप्त्वा जपितव्यमधोमुखम् ॥ ३३७ ॥

लवणं त्र्यूषणं चव्यस्तथा वैकन्तपत्रकम् ॥
श्मशानाङ्गारनिम्बाद्यनिर्यासो गेहधूमकः ॥ ३३८ ॥

विश्वाख्यं सप्तमं चैतदनुक्तमपि योजयेत् ॥
कोष्ठमध्ये तु नामानि बहूनां यत्प्रयोजनम् ॥ ३३९ ॥

एतद्यन्त्रं स्थितं यत्र तत्रालक्ष्मीर्गदैः सह ॥
उपद्रवा महामारी त्वसाध्या तत्र जायते ॥ ३४० ॥

अथातः सम्प्रवक्ष्यामि बगलायन्त्रमुत्तमम् ॥
भूर्ज्जपत्रे समालेख्यं हरितालनिशारसैः ॥ ३४१ ॥

षट्कोणन्तस्य मध्ये तु वलयाकारतो लिखेत् ॥
षट्त्रिंशदक्षरो मन्त्रो बगलायाः स उच्यते ॥ ३४२ ॥

तारं लज्जां च बगलामुखि सर्वपदं वदेत् ॥
दुष्टानामिति चोच्चार्य्य वाचम्मुखमथो पदम् ॥ ३४३ ॥

स्तम्भयेति समुच्चार्य्य जिह्वां कीलय चेत्यपि ॥
बुद्धिं विनाशयान्ते तु तारबीजाग्निसुन्दरीः ॥ ३४४ ॥

अयम्मन्त्रः समुद्दिष्टः साध्यनाम्ना तु वेष्टितः ॥
वेष्टयेत्पीतसूत्रेण कुलालस्य गृहं व्रजेत् ॥ ३४५ ॥

चक्रे मृदं समारोप्य भ्रामयेद्वृषभन्तया ॥
कारयेच्च मृदा तत्र हरितालेन लेपयेत् ॥ ३४६ ॥

तन्मध्ये निक्षिपेद्यन्त्रं नासायामथ वा ततः ॥
अर्चयेत्तच्चतुष्कालं साध्यनाम्नात्र साधकः ॥
दुष्टानां स्तम्भयेद्वाचं साक्षाद्वाचस्पतेरपि ॥ ३४७ ॥

अथान्यद्बगलायास्तु वक्ष्यते यन्त्रमुत्तमम् ॥
पट्टे वाप्यथ पाषाणे ह्रीङ्कारपुटितं लिखेत् ॥ ३४८ ॥

साध्यनामोन्मत्तरसहरिद्रातालकैस्ततः ॥
पूर्वमन्त्रेण संवेष्ट्य चोर्ध्वं त्रिवलयं लिखेत् ॥ ३४९ ॥

गर्भस्तम्भं गतिस्तम्भं कुर्य्यादेतन्न संशयः ॥
व्याघ्राद्युपद्रवं ग्रामे गतिं तस्यापि वारयेत् ॥
अथान्यद्वक्ष्यते यन्त्रं श्मशानस्थमधोमुखम् ॥ ३५० ॥

घटखर्परमानीय गृहीत्वा वामहस्तके ॥
लिखेद्दक्षिणहस्तेन श्मशानाङ्गारकेण च मन्त्रितं निहितम्भूमौ रिपूणां स्तम्भयेद्गतिम् ॥ ३५१ ॥

प्रेतवस्त्रे लिखेद्यन्त्रमङ्गारेण च तत्पुनः ॥
मण्डूकवदने न्यस्येत्पीतवस्त्रेण वेष्टितम् ॥
पूजितम्पीतपुष्पैस्तद्वाचं संस्तम्भयेद्द्विषाम् ॥ ३५२ ॥

अथातः सम्प्रवक्ष्यामि वाराहीयन्त्रमुत्तमम् ॥
विलिख्य तारं साध्याख्यां ग्लौम्बीजेन प्रवेष्टयेत् ॥ ३५३ ॥

ठकारेण च संवेष्ट्य भूपुरे च ततो लिखेत् ॥
वज्रादिकन्तथा तस्य प्रान्ते प्रणवमालिखेत् ॥ ३५४ ॥

वज्रमध्ये साध्यनाम लिखेत्कर्मसमन्वितम् ॥
धराबीजेन संवेष्ट्य भूपुरं मूलविद्यया ॥ ३५५ ॥

ओमैं ग्लौमैं नमः प्रोच्य ततो भगवतीति च ॥
वार्त्तालि वाराहियुगं वाराहमुखि वाग्भवम् ॥ ३५६ ॥

ग्लौमैमन्धे अन्धिनीति नमो रुन्धे च रुन्धिनि ॥
नमो जृम्भे जृम्भिणीति नमो मोहे च मोहिनि ॥ ३५७ ॥

नमः स्तम्भे स्तम्भिनीति नम ऐं-ग्लौं च वाग्भवम् ॥
सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाग्वदेत् ॥ ३५८ ॥

चित्तचक्षुर्मुखगतिजिह्वास्तम्भं कुरुद्वयम् ॥
शीघ्रं वश्यं कुरुकुरु ऐङ्ग्लौमैं ठचतुष्ठयम् ॥
हुम्फट् स्वाहेति मूलाख्या विद्या वेदेशवर्णिका ॥ ३५९ ॥

बहिर्वृत्रत्रयं कृत्वा क्लीम्बीजेनाद्यवीथिकाम् ॥
हुङ्कारेण द्वितीयान्तु वीथिकाम्परिवेष्टयेत् ॥ ३६० ॥

एतद्यन्त्रं समालेख्यं बाह्यभूपुरसंयुतम् ॥
कृष्णपुष्पैः समभ्यर्च्य निक्षिपेत्पथि विद्विषः ॥
रिपुमुच्चाटयेच्छीघ्रं स्थितं वर्षशतादपि ॥ ३६१ ॥

वादित्रे मन्त्रमालिख्य वादयेत्समरान्तरे ॥
सन्त्रस्तास्तद्रवं श्रुत्वा पलायन्ते विरोधिनः ॥ ३६२ ॥

अथ चैतत्पताकास्थं युध्यमानस्य वैरिभिः ॥
दृष्ट्वा च शत्रवः सर्वे पलायन्ते न संशयः ॥ ३६३ ॥

अथातः स्वप्नवाराह्या यन्त्रं वक्ष्ये चमत्कृतम् ॥
कृत्वा त्रिकोणं षट्कोणं षोडशारं वसुच्छदम् ॥
दशारद्वितयम्पञ्चदशास्रभूगृहद्वयम् ॥ ३६४ ॥

त्रिकोणे कामबीजस्थं वाग्भवं सम्यगालिखेत् ॥
षट्कोणे पूर्वतो वाचं च ह्रीङ्क्रींश्रीं च हुं तथा ॥ ३६५ ॥

लिखेत्षोडशपत्रेषु शक्तीरुच्चाटनीं तथा ॥
उच्चाटनीश्वरीं चापि शोषिणीं शोषिणीश्वरीम् ॥ ३६६ ॥

मारणीं मारणीशीं च भीषणीं भीषणीश्वरीम् ॥
त्रासिनीं त्रासिनीशीं च कम्पिनीं कम्पिनीश्वरीम् ॥ ३६७ ॥

आज्ञाविवर्तिनीं पश्चादाज्ञाविवर्तिनीश्वरीम् ॥
वस्तुजातेशव्रीं पश्चात्सर्वसम्पादिनीश्वरीम् ॥ ३६८ ॥

यजेदष्टदले पद्मे मातॄर्भैरवसंयुताः ॥
दशारे विन्यसेत्स्वस्य बीजपूर्वान्दिगीश्वरान् ॥ ३६९ ॥

रंलम्मङ्क्षं ततो वंयंसंहंश्रींह्रीमिति क्रमात् ॥
द्वितीये दशपत्रे तु वज्रादीन्यायुधानि च ॥ ३७० ॥

तिथिपत्रे तु वाराह्या मूलमन्त्रं समालिखेत् ॥
ॐह्रीं नमश्च वाराहि घोरे स्वप्नं विसर्गयुक् ॥ ३७१ ॥

ठद्वयं वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः ॥
एतद्यन्त्रं पुनः सम्यङ्मातृकार्णैः प्रवेष्टयेत् ॥ ३७२ ॥

भूपुरस्य च कोणेषु चतुर्ष्वपि वरं लिखेत् ॥
भूर्ज्जादौ यन्त्रमालिख्य जपसम्पातसाधितम् ॥ ३७३ ॥

बाह्वादौ वितं दद्यान्नृभ्यः कीर्तिं धनं सुखम् ॥
बहुना किमिहोक्तेन वाराहीष्टं प्रयच्छति ॥ ३७४ ॥

अथ वक्ष्ये मातृकाया यन्त्रं रक्षाकरं परम् ॥
हकारमध्ये विलिखेत्सकारं साध्यसंयुतम् ॥ ३७५ ॥

तद्बाह्येष्टदलं पद्मं केशरेषु स्वरांल्लिखेत् ॥
षड्दीर्घयुक्क्षकारेण बहिस्तद्वेष्टयेत्पुरे ॥ ३७६ ॥

रोचनाकुङ्कुमाभ्यां च भूर्जापत्रे लिखेदिदम् ॥
रक्षा भवति यत्रैतद्धनं स्वर्णादिवेष्टितम् ॥ ३७७ ॥

अथातः सम्प्रवक्ष्यामि तारायन्त्रन्तु सिद्धिदम् ॥
भूर्ज्जपत्रे लिखेद्यन्त्रमलक्तकरसेन तु ॥ ३७८ ॥

षट्कोणमध्ये ॐह्रींरन्त्रींहुम्फट् च ससाध्यकम् ॥
तद्बहिश्चाष्टपत्रस्य केशरेषु द्विषट्ः स्वरान् ॥ ३७९ ॥

पत्रेषु काद्यष्टवर्गान्बहिर्भूपुरमालिखेत् ॥
पीताम्बरेण संवेष्ट्य बध्नीयात्पट्टसूत्रतः ॥ ३८० ॥

शिशूनां कण्ठतो बद्धं रक्षाकृद्भूतभीतितः ॥
वामबाहौ तु नारीणां बद्धं पुत्रप्रदं मतम् ॥ ३८१ ॥

दक्षबाहौ नृणां बद्धं निर्धनानां धनप्रदम् ॥
ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् ॥ ३८२ ॥

अथातो भुवनेश्वर्य्या वश्यकृद्यन्त्रमुच्यते ॥
चतुरस्रदलेनैव कुर्य्यादष्टदलं बुधः ॥ ३८३ ॥

साध्यनामयुतां मायां लिखेद्यन्त्रं पुनस्तु तत् ॥
वेष्टयेच्चतुरस्रेण चतुष्कोणेषु वं लिखेत् ॥ ३८४ ॥

चतुरस्रस्य भुर्जादौ रोचनाकेशरेण च ॥
जातीकाष्ठस्य लेखन्या वश्यकृत्परमं मतम् ॥ ३८५ ॥

अथातः सम्प्रवक्ष्यामि सौरं यन्त्रोत्तमं पुनः ॥
चतुष्पत्रस्य पद्मस्य कर्णिकायां समालिखेत् ॥ ३८६ ॥

ससाध्यं प्रणवं चांहिंहंसः पत्रेषु संलिखेत् ॥
एकैकमक्षरं तस्य बाह्येऽष्टदलमालिखेत् ॥ ३८७ ॥

ॐ घृणिः सूर्य्य आदित्यः क्रमादष्टदले लिखेत् ॥
वृत्तद्वयं तु तद्बह्ये मध्यवीथ्यां समालिखेत् ॥ ३८८ ॥

भूपुरस्य चतुष्कोणे अंआंह्रींह्रीं समालिखेत् ॥
सौरं यन्त्रमिदन्नृणां सर्वामयविनाशनम् ॥ ३८९ ॥

तेजःप्रतापसौभाग्यपुत्रायुष्कीर्त्तिवर्धनम् ॥
धनधान्यप्रदं वश्यं सर्वरक्षाकरं परम् ॥ ३९० ॥

अथातः करुकुल्याया यन्त्रं सर्प्पनिवारणम् ॥
षट्कोणं विलिखेत्तस्य मध्ये पूर्वादित क्रमात् ॥ ३९१ ॥

तारश्च कुरुकुल्यायै स्वाहा सप्ताक्षरो मनुः ॥
मध्यपूर्वक्रमेणैव लेख्यमेकैकमक्षरम् ॥ ३९२ ॥

प्रस्तरे लिखितं गेहे पूजितं यन्त्रकं गृहे ॥
अर्चितं वा धृतं देहे नाशयेद्विविधं विषम् ॥ ३९३ ॥

अथातः सम्प्रवक्ष्यामि यन्त्रं शत्रुभयावहम् ॥
ॐह्रीं च मेखले स्वाहा सप्तार्णोयं मनुर्मतः ॥ ३९४ ॥

लिखेत्प्राग्वच्च षट्कोणे सर्वशत्रुनिवारणः ॥
सम्यक्सुनिष्ठितो गेहे कलहादि न जायते ॥ ३९५ ॥

अथातः सम्प्रवक्ष्यामि गर्भस्तम्भकरं परम् ॥
समन्त्रं त्रिपुरायन्त्रं पञ्चपञ्चालयं लिखेत् ॥ ३९६ ॥

तिर्य्यगूर्ध्वं कोष्ठकास्तु जायन्ते तत्र षोडश ॥
कुर्य्याद्दलानि चत्वारि कोष्ठार्धं च तथा तले ॥ ३९७ ॥

ऊर्ध्वकोष्ठचतुष्के तु ह्रंह्रंह्रंह्रं समालिखेत् ॥
अधः कोष्ठचतुष्के तु हङ्कारं तु समालिखेत् ॥ ३९८ ॥

अन्योन्यसम्मुखे लेख्यो ह्रीङ्कारो याम्यसौम्ययोः ॥
अष्टसप्तमयोर्लेख्यं साध्यनाम्नो द्वयं द्वयम् ॥ ३९९ ॥

रक्षेति दशमे लेख्यं पुनरेकादशे तथा ॥
कस्तूरीरोचनाचन्द्रकेशरैर्भूर्ज्जपत्रके ॥
लिखेद्धूपं ततो दत्त्वा कण्ठे यन्त्रं तु धारयेत् ॥ ४०० ॥

ऐंह्रींश्रीं च समुच्चार्य्य त्रिपुरायै नमो वदेत् ॥
गर्भंस्तम्भययुग्मं च डाकिनीदोषमित्यपि द्विर्मुञ्चयाग्निगृहिणीकुत्रिवर्णो मनुर्मतः ॥ ४०१ ॥

एकविंशतितन्तूनां रक्तानां दोरकं चरेत् ॥
चतुर्दशासितांस्तन्तूंस्तन्तुना तेन बन्धयेत् ॥ ४०२ ॥

मन्त्रयेत्सप्त वारांश्च धूपो दीपो गुरोस्तथा ॥
त्रिः कट्यां वेष्टयेद्भार्य्यागर्भरक्षाकरं परम् ॥ ४०३ ॥

अथातः सम्प्रवक्ष्यामि वाराहं यन्त्रमुत्तमम् ॥
आदौ षट्कोणमालिख्य तन्मध्ये प्रणवं लिखेत् ॥ ४०४ ॥

प्रणवाभ्यन्तरे ह्रं च ह्रं मध्ये साध्यनामकम् ॥
सहस्रारे हुम्फडिति कोणेष्वेकैकमक्षरम् ॥ ४०५ ॥

तत्राविस्वपिसञ्ज्वालापदानामुत्तरं वदेत् ॥
चक्राय स्वाहेति पदं तदा षण्मन्त्रसम्भवः ॥ ४०६ ॥

षट्कोणसन्धिषु च ते लेख्यास्तद्बहिरालिखेत् ॥
चतुर्दलन्तु क्रमतो द्विद्विवर्णान्दलेदले ॥ ४०७ ॥

नमो नारायणायेति ताराद्योष्टाक्षरो मनुः ॥
केशरेषु लिखित्वाथ पत्रमध्ये ततो लिखेत् ॥ ४०८ ॥

तारो नमो भगवते वेति बाह्यदले लिखेत् ॥
राहरूपाय भूर्भुवः संलिखेच्च द्वितीयके ॥ ४०९ ॥

स्वःपतये भूपतित्वं तृतीये विलिखेद्दले ॥
मे देहि दापय स्वाहा लिखेत्पत्रे चतुर्थके ॥ ४१० ॥

तद्बाह्येष्टदलं कृत्वा केशरे द्वन्द्वशः स्वरान् ॥
दलमध्येधुना प्रोक्तवारहार्णः कृताक्षरः ॥ ४११ ॥

प्रत्येकं विलिखेद्यन्त्रं लिखेच्चैव द्वितीयके ॥
तद्बहिः षोडशदले कादिसान्तान्द्विशो लिखेत् ॥ ४१२ ॥

केशरेषु दलस्यान्ते वाराहार्णद्वयं तथा ॥
अधुना चाष्टपत्रन्तु पद्मं तस्य बहिश्चरेत् ॥ ४१३ ॥

वृत्तानां पञ्चकं तत्र चतस्रो वीथयो मताः ॥
साध्याक्षरेण पुटितं ह्रीम्बीजेन तृतीयकम् ॥ ४१४ ॥

अत्रोक्तकोलमन्त्रेण साध्यस्याख्या विदर्भिता ॥
तया संवेष्टयेत्पङ्क्तिं तदग्रे भूपुरं लिखेत् ॥ ४१५ ॥

लिखेत्तस्य चतुष्कोणे ग्लौं साध्याख्याविदर्भितम् ॥
चतुरस्राद्बहिष्कुर्य्याद्दशदिक्षु त्रिशूलकान् ॥
ह्रीङ्ग्लौं तेषु लिखेदेतद्यन्त्रं वाराहमद्भुतम् ॥ ४१६ ॥

लाक्षा कृष्णागुरुश्चन्द्रो रोचना कुङ्कुमं हिमम् ॥
गोमयस्याम्भसा पिष्टं लेखनद्रव्यमीरितम् ॥ ४१७ ॥

लेखनी करकोद्भूता यन्त्रस्यास्य तथोच्यते ॥
स्वर्णपत्रेखिलावाप्ती राजते चायुराप्यते ॥ ४१८ ॥

ग्रामप्राप्तिर्भवेत्ताम्रे पिचुमन्ददले सुखम् ॥
भूफले क्षौमवस्त्रे स्याद्भूर्ज्जे संसारमान्यता ॥ ४१९ ॥

साधु जप्तमिदं यन्त्रं सम्पातेनाभिषेचितम् ॥
जन्मचन्द्रं विना धार्य्यं तद्भवेदखिलेष्टदम् ॥ ४२० ॥

स्वस्य ध्यात्वा कोलरूपं साध्यदेशे प्रपूरयेत् ॥
यन्त्रं वराहमावाह्य तत्राङ्गानि प्रपूरयेत् ॥
दिक्षु मुक्ताशुद्धरागैर्भाजयेन्नात्र संशयः ॥ ४२१ ॥

अथातः सम्प्रवक्ष्यामि पृथिवीयन्त्रमद्भुतम् ॥
अष्टकोणं चाष्टदलं कर्णिकायां समालिखेत् ॥
ससाध्यं प्रणवं तस्य मध्यकोणाष्टके च ह्रम् ॥ ४२२ ॥

अंह्रीङ्ग्लौं पूर्वपत्रे च नमो भेति हुताशने ॥
गवत्यै दक्षिणदले धारिण्यै दक्षपश्चिमे ॥ ४२३ ॥

धरणीं पश्चिमे चैव धरे देहि समीरणे ॥
स्वाहा वायुदले लेख्या ग्लौंह्रीमोमीशपत्रके ॥ ४२४ ॥

वृत्तत्रयन्तु तद्बाह्ये तत्र वीथीद्वयं भवेत् ॥
तत्राद्यवीथ्यां प्रणवं नमो भगवते वरा ॥ ४२५ ॥

हरूपाय भूर्भुवःसुवःपतये च भूपति ॥
त्वं मे देहि दापय स्वाहेति देवमितार्णवान् ॥
परवीथ्यां मातृकार्णांस्ततो भूपुरमालिखेत् ॥ ४२६ ॥

गृहान्तः स्थापितं हेमधान्यादेर्वृद्धिकारकम् ॥
बाहौ धृते जगद्वश्यं पूर्णायुः सुखमेधते ॥ ४२७ ॥

अथ यन्त्रं नारसिंहं प्रवक्ष्ये सर्वकामदम् ॥
आदौ षट्कोणमालिख्य तन्मध्ये प्रणवं चरेत् ॥ ४२८ ॥

ससाध्यं क्षौं समालिख्य कोणषट्केक्षरैककम् ॥
बाह्ये ध्रुवं जभधृती वहिर्वृत्तद्वयं चरेत् ॥ ४२९ ॥

तदन्तरालवीथीं तु माया बीजेन वेष्टयेत् ॥
तद्बहिर्द्वादशदलं तत्रैकैकाक्षरं न्यसेत् ॥ ४३० ॥

तारो नमो भगवते वासुदेवाय तद्बहिः ॥
वृत्तद्वयान्तरालं च मायाबीजैः प्रवेष्टयेत् ॥ ४३१ ॥

तद्वहिष्षोडशदले संलिख्य षोडश स्वरान् ॥
मायां सबिन्दुं च प्राग्वेष्टयेदथ तद्बहिः ॥
द्वात्रिंशत्पत्रके लेख्यं शलामेकैकमक्षरम् ॥ ४३२ ॥

उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ॥
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ ४३३ ॥

बहिर्वृत्तत्रयं कृत्वा वेष्टयेद्दलमादिमम् ॥
एवमग्रे तु प्राग्भागे ककारादीन्सबिन्दुकान् ॥ ४३४ ॥

रकारादीन्दक्षभागे लिखेद्बिन्दुमितांस्ततः ॥
शकारादीन्वामभागे न्यस्य ह्यौं च तथा लिखेत् ॥ ४३५ ॥

कर्णयुग्मं च तद्बाह्ये तयोर्लक्षं समालिखेत् ॥
एतत्संसाधितं यन्त्रं पूजाहोमजपादिभिः ॥
रोगाधिहृद्वस्त्रवर्णचतुर्वर्गफल प्रदम् ॥ ४३६ ॥

अथातः सम्प्रवक्ष्यामि सर्वबाधाविनाशनम् ॥
प्रागष्ट पत्रं रेखाश्च पञ्च स्युर्दक्षिणेतराः ॥ ४३७ ॥

द्वात्रिंशत्प्रमितान्येवं जायन्ते कोष्ठकानि तु ॥
तस्याग्रिमगता रेखाः फणाकारा विवर्धयेत् ॥ ४३८ ॥

पश्चाकारास्तथा रेखाः कुर्यान्नव तु पञ्च च ॥
फणासु लेख्यं क्रौं बीजं कोष्ठे श्लोकमनुष्टुभम् ॥ ४३९ ॥

साध्यनाम लिखेत्पुच्छे सिद्धं स्याद्यवहोमतः ॥
समस्तरोगभूतादिकृत्यापीडापहारकम् ॥ ४४० ॥

अथान्यत्सम्प्रवक्ष्यामि क्षुद्ररोगविनाशनम् ॥
अष्टपत्रकर्णिकायां साध्याख्यां कर्मसंयुताम् ॥ ४४१ ॥

क्षौम्बीजं च लिखेदष्टपत्रेषु विधिवत्पुनः ॥
चतुरश्चतुरो वर्णाननुपत्रं ततो लिखेत् ॥ ४४२ ॥

भूर्जपत्रेषु मन्त्रेण दीर्घान्तादिसुसाधितम् ॥
यन्त्रं क्षुद्रामयहरं सर्वरक्षाकरं परम् ॥ ४४३ ॥

अथातः सम्प्रवक्ष्यामि महारोगहरं त्विदम् ॥
वेश्मभूपुरयुग्मेन कोणेषु क्षौं समालिखेत् ॥ ४४४ ॥

एतद्यन्त्रमुमे सम्यङ्मण्डलैर्लक्षणान्वितम् ॥
रम्यं नवपदं कृत्वा कलशं स्थापयेदिह ॥ ४४५ ॥

एतन्मन्त्रेण बध्नीयात्कायेन परिपूरयेत् ॥
वस्त्रयुग्मसमायुक्तमावाह्य नृहरिं विभुम् ॥ ४४६ ॥

सम्पूजयेच्चन्दनाद्यैः शान्तिकार्य्ये मनोहरे ॥
पूर्वादिदिक्षु चेन्द्रादीन्यजेन्मन्त्री समाहितः ॥
अष्टाधिकं ततो मन्त्रं सहस्रं प्रजपेत्सुधीः ॥ ४४७ ॥

एवं जलैः शोधितं तु यन्त्रं मन्त्रविदुद्धरेत् ॥
अमिषिञ्चन्मृत्युमुखादवश्यं स निवर्त्तते ॥ ४४८ ॥

ग्रहामिचारभूतादिभयं नश्यति तत्क्षणात् ॥
भोजयेद्देवताबुद्ध्या भूदेवांस्तोषयेत्तथा ॥ ४४९ ॥

प्राणान्प्रदद्याद्गुरवे वित्तशाठ्यविवर्जितः ॥
स्वकार्य्यस्यानुसारेण प्रदद्याद्दक्षिणां नरः ॥
लभेतैहिकसिद्धिं स परत्रापि च मोदते ॥ ४५० ॥

अथातः सम्प्रवक्ष्यामि नृहरेर्यन्त्रमद्भुतम् ॥
षट्कोणकर्णिकामध्ये हृल्लेखां साध्यसंयुताम् ॥ ४५१ ॥

आंह्रीङ्क्षौङ्क्र्ॐहुम्फडिति षट्कोणेषु षड्लिखेत् ॥
बहिरष्टदलं कृत्वा स्वरद्वन्द्वं लिखेत्ततः ॥ ४५२ ॥

केशरेश्वथ पत्रेषु चतुरर्णान्समालिखेत् ॥
नृसिंहानुष्ट्म्मनोर्बहिर्वृत्तद्वयं लिखेत् ॥ ४५३ ॥

उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ॥
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ ४५४ ॥

वीथ्यां तु मातृकावर्णान्बहिर्भूपुरमालिखेत् ॥
लिखेच्चिन्तामणेः कूटं कोणेषु प्रागुदीरितम् ॥ ४५५ ॥

भूर्ज्जपत्रे लिखित्वेदं धृतं च शिरसा हरेत् ॥
विषरोगरिपुक्लेशभूतग्रहभयादिकम् ॥ ४५६ ॥

सुदर्शननृसिंहस्य यन्त्रं सम्प्रोच्यतेधुना ॥
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥ ४५७ ॥

त्रिकोणान्तेतु षट्कोणं तस्य मध्ये च दिग्दलम् ॥
तत्कर्णिकायां प्रणवं तन्मध्ये चामुकं जहि ॥ ४५८ ॥

ततो नवदले लेख्या मन्त्रवर्णा द्विकाद्विकाः ॥
एवं वर्णांस्तु दशमे सहस्रारे च संलिखेत् ॥
लिखेज्ज्वालावर्त्तिने च क्रौं बीजं च जहिद्वयम् ॥ ४५९ ॥

हुम्फट्स्वाहेति षट्कोणे क्रौम्बीजेन समं लिखेत् ॥
हुम्फ स्वाहा त्रिकोणेषु तथैव च पदद्वयम् ॥
जपसम्पातसंसिद्धं रक्षोहृद्रोगशत्रुहृत् ॥ ४६० ॥

अथान्यत्सम्प्रवक्ष्यामि यन्त्रं स्त्रीपुत्रमित्रदम् ॥
दधिवामनदेवस्य वैदिकानां विशेषतः ॥ ४६१ ॥

कुर्य्यात्सम्यक्सप्तदशदलं पद्मं मनोहरम् ॥
ससाध्यं प्रणवं मध्ये षोडशस्वरवेष्टितम् ॥ ४६२ ॥

द्विद्विवर्णान्केशरेषु कालकालीविहीनकान् ॥
दलेष्वेकेकशो वर्णान्क्रमेण च लिखेन्नमः ॥ ४६३ ॥

विष्णवे सुरपतये महाबलाय संलिखेत् ॥
स्वाहेति च नमोयुक्तं प्रणवाभ्यां च सम्पुटम् ॥ ४६४ ॥

श्रीबीजाभ्यां पुरस्कारकृताभ्यां मध्यगं तु तत् ॥
भूर्जे गन्धाष्टकाद्येन लिखितं श्रीधराप्रदम् ॥ ४६५ ॥

अथातो वक्ष्यते यन्त्रं वामनस्येष्टदायकम् ॥
कृत्वा चाष्टदलं पद्मं तन्मध्ये साध्यसंयुतम् ॥ ४६६ ॥

सुलिख्य प्रणवं तस्य केशरेषु क्रमाद् ध्रुवम् 3
नमो नारायणायेति लिखेदेकैकमक्षरम् ॥ ४६७ ॥

द्वये दलद्वयं लेख्यं चतुर्वर्णांस्तथाष्टमे ॥
ॐ नमो विष्णवे ब्रूयात्सुरान्ते पतये महा ॥ ४६८ ॥

बलाय वह्निगृहिणी धृतिवर्णो मतो मनुः ॥
वृत्तत्रयं ततः कुर्य्यादन्तर्वीथ्यां सुवेष्टयेत् ॥ ४६९ ॥

तारो नमो भगवते वासुदेवाय वर्णकैः ॥
बाह्यवीथ्यां मातृकाभिरिति यन्त्रं प्रकीर्त्तितम् ॥ ४७० ॥

अथातः सम्प्रवक्ष्यामि रामयन्त्रं महाद्भुतम् ॥
आदौ सुलिख्य षट्कोणं तन्मध्ये वृत्तमालिखेत् ॥ ४७१ ॥

रामेतदस्य जठरे साध्यनाम तले लिखेत् ॥
साधकाख्यां कर्मनाम मध्ये चैव समालिखेत् ॥ ४७२ ॥

पार्श्वयोश्च क्रिया लेख्या रेफं वर्णान्तरे लिखेत् ॥
श्रीबीजं तच्च सकलं प्रणवाभ्यां च सम्पुटेत् ॥ ४७३ ॥

ऊर्ध्वाधःसम्मुखाभ्यन्तःष कोणेङ्गमनूṁल्लिखेत् ॥
षट्कोणपार्श्वयोर्मायाबीजं चाग्रे च मन्मथम् ॥ ४७४ ॥

षट्सन्धिषु च ह्राम्बीजं तत्सर्वं वेष्टयेत्पुनः ॥
वाग्भवेन बहिष्पद्ममष्टपत्रं सकेशरम् ॥ ४७५ ॥

केशरेषु स्वरान्वर्णान्पत्रेषु विलिखेत्क्रमात् ॥
पत्राग्रेषु लिखेन्मालामन्त्रवर्णांस्तथैव च ॥ ४७६ ॥

तारो नमो भगवते ङेन्तः स्याद्रघुनन्दनः ॥
रक्षोघ्नविशदायेति मधुरेति पदं ततः ॥ ४७७ ॥

प्रसन्नवदनायेति ततश्चामिततेजसे ॥
बलायेति च रामाय विष्णवे नम इत्ययम् ॥ ४७८ ॥

सप्तचत्वारिंशदर्णो मालामन्त्र उदीरितः ॥
तद्बाह्येष्टदलं पद्मं श्रीबीजं केशराष्टके ॥ ४७९ ॥

पत्रमध्ये लिखेदष्टवर्णानादौ ध्रुवं लिखेत् ॥
नमो नारायणायेति तद्बाह्येर्कदलं लिखेत् ॥ ४८० ॥

तत्केशरेषु मन्त्रार्णांश्चतुरश्चतुरो लिखेत् ॥
अकारादिक्षकारान्तानन्त्यपत्रे च सप्तकम् ॥ ४८१ ॥

पत्रमध्ये वासुदेवद्वादशाक्षरवर्णकान् ॥
तारो नमो भगवते वासुदेवाय स स्मृतः ॥ ४८२ ॥

तद्बहिः षोडशदलं मायां च नृपकेशरै ॥
तारो नमो भगवते रामचन्द्राय हुं च फट् ॥
नमः प्रत्येकवर्णं तु दलमध्ये समालिखेत् ॥ ४८३ ॥

हंसम्भंविन्नि अशज धृञ्जंविंसुधरां तथा ॥
अङ्घं क्रमाच्च बीजानि बाह्ये षोडशपत्रके ॥ ४८४ ॥

प्रत्येकं पत्रमूले तु ह्रीं श्रीं क्लीं विलिखेद्बुधः ॥
दलस्य पुर्वभागेषु रामस्यानुष्टुबर्णकान् ॥ ४८५ ॥

रामभद्रमहेष्वास रघुवर नृपोत्तम ॥
दशास्यान्तक मां रक्ष देहि दापय मे श्रियम् ॥ ४८६ ॥

दलोत्तरार्धे संलेख्यो नृसिंहानुष्टुभो मनुः ॥
पुरा नृसिंहयन्त्रे च कथितोत्र निगद्यते ॥ ४८७ ॥

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ॥
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ ४८८ ॥

बहिर्भूपुरमालिख्य वज्राष्टकविवर्जितम् ॥
क्ष्रौम्बीजं च चतुर्दिक्षु हम्बीजं च विदिक्षु च ॥ ४८९ ॥

एवं लिखेद्रामयन्त्रं सर्वयन्त्रोत्तमोत्तमम् ॥
साधितं जपपूजाभ्यां होमसम्पातकेन च ॥ ४९० ॥

धृतं शिरसि बाहौ वायुरारोग्यप्रदं नृणाम् ॥
रक्षाकरं महेशानि महदैश्वर्यवर्धनम् ॥ ४९१ ॥

वन्ध्यानामपि नारीणां पुत्रदं सुखदं परम् ॥
भुक्तिमुक्तिप्रदं चैव गोपनीयं प्रयत्नतः ॥ ४९२ ॥

अथान्यत्सम्प्रवक्ष्यामि रामभद्रस्य मन्त्रकम् ॥
आदौ सुलिख्य षट्कोणं तन्मध्ये बीजमालिखेत् ॥ ४९३ ॥

रामित्येतस्य जठरे तले साध्यं समालिखेत् ॥
साधकाख्यां तदूर्ध्वं तु कर्म मध्ये समालिखेत् ॥ ४९४ ॥

पार्श्वयोश्च क्रिया लेख्या मनुं पर्णान्तरे लिखेत् ॥
श्रीबीजेन च रामाय नमो वर्णैः प्रवेष्टयेत् ॥ ४९५ ॥

तद्बाह्ये हुं जानकीति वल्लभायाग्निगेहिनी ॥
एतैवर्णैश्च दशभिर्वेष्टयेत्कोणषट्ककम् ॥ ४९६ ॥

षड्दीर्घानुस्वारयुतं राम्बीजं तु समालिखेत् ॥
ह्रीं श्रीमिति च कोणाग्रे कोणपार्श्वेषु हं लिखेत् ॥ ४९७ ॥

बहिरष्टदलं कृत्वा केशरे द्वन्द्वशः स्वरान् ॥
दलेषु पूर्वयन्त्रोक्तमालामन्त्रार्णकाṁल्लिखेत् ॥ ४९८ ॥

बहिर्वृत्तद्वयान्तःस्थवीथ्यां काद्यैः प्रवेष्टयेत् ॥
सबिन्दुकैश्च तद्बाह्ये भूपुरे क्ष्रौं दिशासु च ॥ ४९९ ॥

हुं कोणेषु जपाद्धोमसाधितं यन्त्रमुत्तमम् ॥
सर्वेष्टफलदं मोक्षदायकं श्रीकरं परम् ॥ ५०० ॥

षट्कोणमध्ये प्रणवं प्राग्वत्साध्यादिकं लिखेत् ॥
मूलार्णान्वसुकोणेषु षड्दीर्घंरी च सन्धिषु ॥ ५०१ ॥

स्ववामपार्श्वे कोणस्य शक्तिबीजं समालिखेत् ॥
दक्षिणे कामबीजं च बहिरष्टदलं लिखेत् ॥ ५०२ ॥

द्विशः स्वरान्केशरेषु मालामन्त्रं च पूर्ववत् ॥
दलमध्ये लिखेत्तस्य बहिर्वृत्तत्रयं चरेत् ॥ ५०३ ॥

प्राग्यन्त्रोक्तदशार्णेन चान्तर्वीथ्यां प्रवेष्टयेत् ॥
कादिक्षान्तैर्बहिर्वीथ्यां तद्बहिर्भूपुरं चरेत् ॥ ५०४ ॥

दिशासु क्ष्रौं हुं विदिक्षु ह्येतत्स्याद्विभवप्रदम् ॥
कीर्त्तिलक्ष्मीविजयदं रामयन्त्रं न संशयः ॥ ५०५ ॥

अथातः सम्प्रवक्ष्यामि यन्त्रं गोपालदैवतम् ॥
षट्कोणान्तर्लिखेत्कामं साध्याख्यां कर्मसंयुताम् ॥ ५०६ ॥

तारो नमश्च कृष्णाय लिखेद्वर्णांश्च षड्दले ॥
बाह्ये दशदलं पद्मं तत्किञ्जल्केषु संलिखेत् ॥ ५०७ ॥

द्विशो वर्णान् ङेन्तेदामोदरोस्यब्जगदाभृते ॥
वासुदेवाय कवचं फट्स्वाहान्तो नखाक्षरः ॥ ५०८ ॥

गोपीजनवल्लभाय स्वाहैकैकं तु पत्रके ॥
कोणेषु मदनाक्रान्तं भूगृहं रचयेत्ततः ॥ ५०९ ॥

रोचनालिखितं यन्त्रं सम्यग्वर्णशलाकया ॥
हेमपट्टे विधानेन गुटिकीकृत्य पूजितम् ॥ ५१० ॥

सम्यक्सम्पातसंसिक्तं दशार्णेनाभिमन्त्रितम् ॥
गोपालयन्त्रमेतद्धि पुण्यवद्भिः करे धृतम् ॥ ५११ ॥

शान्त्यादिवश्यकर्मादौ समर्थं चापि गोपितम् ॥
कीर्त्यादिवर्धनं चैव पुत्रपौत्रविवर्धनम् ॥ ५१२ ॥

कान्तिरक्षाकरं नॄणां सर्वसौभाग्यसौख्यदम् ॥
अपस्मारादिकरक्षोभूतक्रान्तादिमस्तके ॥
एतद्यन्त्रं स्मरेत्तत्र जपेन्नश्यति तत्क्षणात् ॥ ५१३ ॥

अथातः सम्प्रवक्ष्यामि कृष्णयन्त्रं महाद्भुतम् ॥
आदौवृत्तं समालिख्य तन्मध्ये ग्लौं समालिखेत् ॥ ५१४ ॥

बीजमध्ये साध्यनाम बहिः षट्कोणमालिखेत् ॥
तारो नमश्च कृष्णाय दलेष्वेकैकमक्षरम् ॥ ५१५ ॥

दलसन्धौ लिखेन्मन्त्रानाग्नेयीतः क्रमादिमान् ॥
आचक्राय ततः स्वाहा प्रथमोयं षडक्षरः ॥ ५१६ ॥

विचक्राय ततः स्वाहा द्वितीयोपि षडक्षरः ॥
सुचक्राय ततः स्वाहा तृतीयोपि षडक्षरः ॥ ५१७ ॥

शैलरक्षणचक्राय स्वाहान्तोयं दशाक्षरः ॥
असुरान्तकचक्राय स्वाहान्तोयं नवाक्षरः ॥ ५१८ ॥

कामबीजेन षष्ठं तु सन्धिमेवं प्रपूरयेत् ॥
तद्बाह्येष्टादशदलं तत्र वर्णानिमाṁल्लिखेत् ॥ ५१९ ॥

क्लीं कृष्णायपदं चोक्त्वा गोविन्दाय पदं लिखेत् ॥
गोपीजनवल्लभेति य स्वाहा धृतिवर्णकः ॥
तद्बाह्येजिनपत्रेषु कृष्णगायत्रिवर्णकान् ॥ ५२० ॥

दामोदराय विद्महे वासुदेवाय धीमहि ॥
तन्नः कृष्णः प्रचोदयात् ॥ ५२१ ॥

तद्बाह्ये वृत्तयुग्मान्तर्वीथ्यां कामेन वेष्टयेत् ॥
तद्बाह्ये दन्तपत्रेषु गोपालानुष्ठुभं लिखेत् ॥ ५२२ ॥

ग्लौङ्क्लीं नमो भगवते नन्दपुत्राय बालक ॥
वपुषे श्यामलायेति गोपीजनपदं वदेत् ॥
वल्लभायाग्निजायान्तो मन्त्रोयं रदवर्णकः ॥ ५२३ ॥

वेदवृत्तानि तद्बाह्ये तत्र वीथीत्रयं भवेत् ॥
यत्तु गोपालमन्त्रे तु ग्लौं तेनाद्यां प्रवेष्टयेत् ॥
द्वितीयां मातृकावर्णैराङ्क्रीम्भ्यां च तृतीयिकाम् ॥ ५२४ ॥

यन्त्रराजमिदं ख्यातं सर्वविश्वविमोहनम् ॥
धर्मकामार्थफलदं शत्रून्दस्यून्निवारयेत् ॥ ५२५ ॥

कीर्त्तिकान्तिधरारोग्यरक्षाश्रीविजयप्रदम् ॥
पुत्रपौत्रप्रदं लोके भूतवेतालनाशनम् ॥ ५२६ ॥

लिखितं भूर्जपत्रादौ पूजितं चाभिमन्त्रितम् ॥
धारितं सर्वकामानां सिद्धिदं नात्र संशयः ॥
अभक्ताय न दातव्यं न देवब्राह्मणद्विषे ॥ ५२७ ॥

अथान्यत्कृष्णयन्त्रं तु सर्वोपद्रवनाशनम् ॥
लिखेत्ससाध्यं ग्लौम्बीजं तच्च सम्यक्प्रवेष्टयेत् ॥ ५२८ ॥

अष्टादशार्णमन्त्रेण षट्कोणं च तदूर्ध्वतः ॥
कोणेषु संलिखेद्वर्णान्पत्राक्षरमनोस्तथा ॥ ५२९ ॥

तद्बाह्ये दिग्दलं कृत्वा दशवर्णान्क्रमाल्लिखेत् ॥
गोपीजनवल्लभाय स्वाहा मन्त्रो दशाक्षरः ॥ ५३० ॥

वृत्तद्वयान्तर्वीथ्यां तु कामबीजेन वेष्टयेत् ॥
तद्बहिष्षोडशदलं केशरेषु स्वराṁल्लिखेत् ॥ ५३१ ॥

दलेषु षोडशार्णेषु वर्णान्प्राग्वत्तथा लिखेत् ॥
द्वात्रिंशत्कदलं बाह्ये कादिसान्तांश्च वर्णकान् ॥
तत्केशरेषु चालिख्यदलमध्ये च पूर्ववत् ॥ ५३२ ॥

द्वात्रिंशदर्णमन्त्रस्य लिखेदर्णांस्ततो बहिः ॥
वृत्तद्वयान्तर्वीथ्यामाङ्क्राम्बीजाभ्यां प्रवेष्टयेत् ॥ ५३३ ॥

चतुरस्रद्वयेनाथ तद्बाह्येष्टास्रमालिखेत् ॥
अष्टार्णकैकवर्णन्तु मनुमेतं सुदुर्लभम् ॥ ५३४ ॥

चौरमारीभयहरं चतुर्वर्गफलप्रदम् ॥
अथातः सम्प्रवस्क्।
यामि हनुमद्यन्त्रमद्भुतम् ॥
पद्ममष्टदलं कृत्वा कर्णिकायां समालिखेत् ॥ ५३५ ॥

ससाध्यं प्रणवं तत्र केशरेषु द्विशः स्वरान् ॥
दलेषु संलिखेद्वर्णांश्चतुरश्चतुरोमनोः ॥ ५३६ ॥

नमो भगवते तुभ्यमाञ्जनेय हनूमते ॥
खगपतङ्गाद्युपद्रवान्नाशयपदं वदेत् ॥ ३५७ ॥

हुं फट् स्वाहा रदार्णोयं बहिर्वृत्तद्वयं चरेत् ॥
तदन्तरालवीथ्यां तु कादिक्षान्ताṁल्लिखेत्क्रमात् ॥ ५३८ ॥

वृत्तत्रयं बहिःकृत्वा तत्रमालामनुं लिखेत् ॥
नमो भगवते प्रोच्य वदेद्धनुमते ततः ॥ ५३९ ॥

पवनात्मजाय वदेद्राघवप्राण संवदेत् ॥
प्रदाय लक्ष्मणेत्युक्त्वा दात्रे सीतापदं वदेत् ॥ ५४० ॥

दुःखविनाशनायेति रावणेति पदं ततः ॥
दर्प्पहायेति सर्वेति ङेन्तो दुष्टविनाशनः ॥ ५४१ ॥

रिपुचौरव्याघ्रवराहकृमि चोच्चरेत्तथा ॥
पतङ्गादिदुष्टसत्त्वविनाशनपदं वदेत् ॥ ५४२ ॥

ङेन्तं हुम्फट् ततः स्वाहा द्व्यशीत्यर्णो मनुर्मतः ॥
तद्बहिश्चतुरस्रं च यन्त्रमेतत्सुलेखयेत् ॥ ५४३ ॥

भूर्ज्जे ताम्रेथ वा वस्त्रे भित्तौ पट्टे शिलातले ॥
गोगले वाथ संलेख्यं रोचनानाभिकेशरैः ॥ ५४४ ॥

रक्षःकृत्याग्रहादीनां पीडारोगादिभीतिहृत् ॥
बालग्रहामयव्याघ्रभयाद्यं क्रमशो हरेत् ॥ ५४५ ॥

अथातो दक्षिणामूर्त्तेर्यन्त्रं वक्ष्ये चमत्कृतम् ॥
कुर्य्यादष्टदलं पद्मं कर्णिकायां समालिखेत् ॥ ५४६ ॥

साध्यनामस्वरा लेख्या द्वन्द्वशः केशरेषु च ॥
ततश्चाद्यदले लेख्या अ-उमास्तारवर्णकाः ॥ ५४७ ॥

पत्रे द्वितीये नमो भ तृतीये गवते लिखेत् ॥
चतुर्थे दक्षिणा चेति मूर्त्तये पञ्चमे लिखेत् ॥ ५४८ ॥

मह्यं मे विलिखेत्षष्ठे सप्तमे धां प्रयेति च ॥
च्छ स्वाहेत्यष्टमे पत्रे वृत्तयोरन्तरे ततः ॥ ५४९ ॥

वीथ्यां कादिकवर्णांश्च तद्बाह्ये भूपुरं लिखेत् ॥
चतुष्कोणे चतुर्थस्य वर्गस्य प्रथमाक्षरम् ॥ ४५० ॥

चतुर्थे च द्वितीयं च तृतीयं वह्निकोणतः ॥
लिखेच्छैवाष्टगन्धेन भूर्ज्जे धार्य्यं सदागले ॥ ५५१ ॥

पुत्रपौत्रप्रदं नॄणामायुः श्रीविजयप्रदम् ॥
कृत्यापस्मारभूतादिनाशनं सर्वकामदम् ॥ ५५२ ॥

अथातः सम्प्रवक्ष्यामि यन्त्रं मृत्युञ्जयाभिधम् ॥
लिखेदष्टदलं पद्मं कर्णिकायां लिखेद्ध्रुवम् ॥ ५५३ ॥

तस्य मध्ये साध्यनाम दिग्दलेषु च क्षं लिखेत् ॥
विदिक्पत्रेषु सो लेख्यो बहिर्भूपुरमालिखेत् ॥ ५५४ ॥

वकारं तच्चतुर्दिक्षु उकारं विदिशासु च ॥
यन्त्रं मृत्युञ्जयस्येदं जपहोमादिसाधितम् ॥ ५५५ ॥

धृतं भूर्ज्जेथ वा कण्ठे बाहौ कोष्ठे प्रकोष्ठके ॥
ग्रहरोगविषादीनां नाशनं मृत्युभञ्जनम् ॥ ५५६ ॥

कीर्त्तिध्यादीन्दिराकान्तिपुत्रदं नात्र संशयः ॥
एतद्यः पूजयेन्नित्यमपमृत्युर्विनश्यति ॥ ५५७ ॥

अथातः सम्प्रवक्ष्यामि यन्त्रं बाटुकभैरवम् ॥
आलिख्याष्टदलं पद्मं कर्णिकायां समालिखेत् ॥ ५५८ ॥

श्रीं ह्रीं क्लीङ्क्षौं चाष्टदले द्विरावृत्त्या समालिखेत् ॥
बटुकायेत्यक्षराणि बहिः षोडशपत्रके ॥ ५५९ ॥

आपदुद्धारणायेति द्विर्वदेद्बटुकाय ह्रीम् ॥
लेख्य एकैकवर्णोयं बहिःषोडशपत्रके ॥ ५६० ॥

लिखेत्स्वरांश्च तद्बाह्ये द्वात्रिंशद्दलकं लिखेत् ॥
ककारादिसकारान्तान्बहिर्भुपूरमालिखेत् ॥ ५६१ ॥

जयदं सुखदं वश्यं मृत्युदारिद्र्यनाशनम् ॥
श्रीपदं दुरितव्याधिदुष्टग्रहनिकर्त्तनम् ॥ ५६२ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते दैवतयन्त्रकथनं नाम त्रयस्त्रिंशः प्रकाशः ॥ ३३ ॥


  1. द्रुशब्दो वृक्षपर्यायः ॥ ↩︎

  2. लिखेद्यन्त्रमिति च पूर्वान्वयि ॥ ↩︎

  3. ॐकारम् ॥ ↩︎