श्रीशिव उवाच ॥
मम भैरवरूपस्य मन्त्राञ्च्छृण्वन्तु देवताः ॥
तामसान्राजसांश्चापि सात्त्विकान्सिद्धिदायकान् ॥ १ ॥
सार्धवर्षाष्टके ब्रह्मण्यायाते त्वथ देवताः ॥
अहङ्कारो महानासीत्तत्राविद्याप्रभावतः ॥ २ ॥
तदा तस्मिन्कलियुगे शिश्नोदरपरायणाः ॥
न वेदः श्रूयते क्वापि स्मृतिज्ञानं न विद्यते ॥ ३ ॥
भक्ष्यं पानं मैथुनं च देशेदेशे पुरेपुरे ॥
न कश्चिन्मन्यते विष्णुं गणेशं न रविं शिवम् ॥ ४ ॥
मत्वा सर्वे जगच्छाक्तं भगपूजां प्रकुर्वते ॥ ४ ॥
तदा बटुकरूपेण मया पृष्टः पितामहः ॥
ब्रह्मन्नादिश्यतां धर्मो वयं येन तरेमहि ॥ ५ ॥
तदा तु ब्रह्मणा प्रोक्तं ममोर्ध्वमुखनिर्गतः ॥
आगमः पञ्चमो वेदो भुक्तिमुक्तिप्रदायकः ॥ ६ ॥
तदाद्ये कलिसङ्ङ्घे तु मया प्रोक्तः पितामहः ॥
ब्रह्मन्निदं त्वया वाच्यं सृष्टिकर्त्ता सदाशिवः ॥ ७ ॥
तदा पितामहेनोक्तं कर्ताहं चापि रक्षकः ॥
ममोर्ध्वमुखतो जातो मन्यतां वेद आगमः ॥ ८ ॥
एतदाचारनिष्ठा ये यास्यन्ति परमां गतिम् ॥
बटुस्त्वं वेत्सि नो सौख्यं भक्ष्यपानाङ्गनाभवम् ॥ ९ ॥
इति श्रुत्वा ब्रह्मवचो धर्म्मसंस्थापनाय तु ॥
युगत्रये तदाजातः क्रोधसंरक्तलोचनः ॥ १० ॥
अवज्ञां वीक्ष्य च मया प्रखरेण नखेन तु ॥
शिरो निपातितं धातुः कराङ्गुल्या धरातले ॥ ११ ॥
तन्मुखात्पञ्चमो वेदो मम देहे लयं गतः ॥
तदा विप्रैर्धिक्कृतोहं ससुरासुरमानुषैः ॥
लग्ना च ब्रह्महत्या मे पृष्ठतश्चातिभीषणा ॥ १२ ॥
तदा तु विष्णुना प्रोक्तो भीषणत्वाच्च भैरवः ॥
भव त्वं बटुकाख्यश्च सेव्यश्चागममार्गतः ॥ १३ ॥
सात्त्विकस्त्वं काशिकायां मुक्तिमार्गप्रदो भव ॥
यज्ञादिकर्म्मरक्षाकृद्राजसस्त्वं दिवप्रदः ॥ १४ ॥
मारणोच्चाटकर्ता त्वं तामसो बटुको भव ॥
तस्मात्समर्चयेदेनं पञ्चाम्नायोक्तवर्त्मना ॥
तन्मन्त्रान्सम्प्रवक्ष्यामि साधकाभीष्टदायकान् ॥ १५ ॥
मायां च वटुकं ङेन्तमापदोद्धारणाय च ॥
कुरुद्वयं च बटुकाय ह्रीं प्रकृतिवर्णकः ॥
बृहदारण्यकमुनिश्छन्दोनुष्टुप् च देवता ॥ १६ ॥
भैरवो ह्रीम्बीजशक्तिराङ्कीलकमुदाहृतम् ॥ १७ ॥
अथ न्यासान्प्रवक्ष्यामि भैरवस्य तु यैर्विना ॥
न जायते मनोः सिद्धिस्तत्रादौ वर्णमातृकः ॥ १८ ॥
विसर्गमातृकान्यासो द्वितीयः प्रागुदाहृतः ॥
जकारादिछकारान्तान्न्यस्येद्वर्णांस्तृतीयकः ॥ १९ ॥
कलामातृकान्यासश्च चतुर्थस्तदनन्तरम् ॥
पञ्चमो न्यास उदितः श्रीबीजादिकमातृकः ॥ २० ॥
केवलो मातृकान्यासः षष्ठः स्यात्तदनन्तरम् ॥
वामहस्ताङ्गुलीमूलमारभ्यामणिबन्धकम् ॥
श्रीबीजाद्यान्न्यसेद्वर्णानादिक्षान्तांस्तु सप्तमः ॥ २१ ॥
श्रीबीजान्तान्क्षकाराद्यानकारान्तान्विलोमतः ॥
न्यसेद्वर्णान्मातृकायाः स्थानेयं त्वष्टमः स्मृतः ॥
कामबीजादिमातॄणां न्यासस्तु नवमः स्मृतः ॥ २२ ॥
मुन्यादित्रितयन्यासे गुह्ये ह्रीम्बीजमादिशेत् ॥
ह्रींशक्तिं पादयोर्नाभौ आं कीलं दशमस्त्वयम् ॥ २३ ॥
ह्रां वामीशानाय नमो न्यसेदङ्गुष्ठयोस्तथा ॥
ह्रींवीं तत्पुरुषायेति नमस्तर्जनिकाद्वये ॥ २४ ॥
ह्रूं वूमघोराय नमो विन्यसेन्मध्ययोरपि ॥ २५ ॥
ह्रैंवैं च वामदेवाय नमश्चानामयोर्न्यसेत् ॥
ह्रौंवौं च सद्योजाताय नमोन्यासः कनिष्ठयोः ॥ २६ ॥
अयमेकादशो न्यासस्त्वेवमेव प्रविन्यसेत् ॥
के मुखे हृदये गुह्ये पादयोर्द्वादशस्त्वयम् ॥ २७ ॥
एवमेव न्यसेत्पश्चादूर्ध्ववक्त्राय वै नमः ॥
इति प्रयोगाः प्रागादिवक्त्रेष्वेवं त्रयोदशः ॥ २८ ॥
षड् दीर्घस्य हृदि नाभ्यां ह्रीं वा तारप्रपूर्वकम् ॥
जातियुक्तषडङ्गं च न्यसेन्न्यासश्चतुर्दशः ॥ २९ ॥
चतुर्दशस्वरोपेतैराद्यन्ताद्यैः सबिन्दुभिः ॥
प्रेतबीजमिदं तेन न्यासस्तिथिमितस्स्मृतः ॥ ३० ॥
आद्यन्तप्रणवानाद्यांश्चतुर्थस्वरसंयुतान् ॥
सबिन्दून्विन्यसेन्मूर्ध्नि बाह्वोश्चैव तु वक्षसि ॥ ३१ ॥
नाभौ हस्ताङ्गुलीमध्ये तथा पादाङ्गुलीषु च ॥
स्थानषट्के क्रमान्न्यस्य न्यासोयं स्यात्तु षोडशः ॥ ३२ ॥
एकादशचतुर्थौ तु शक्रस्वरसबिन्दुकौ ॥
ध्यानबीजमिदं प्रोक्तं ब्रह्मरन्ध्रे मुखे दृशोः ॥ ३३ ॥
ग्रीवानासा कपोलेषु चिबुके ब्रह्मरन्ध्रके ॥
पुनर्न्यसेदयं न्यासः प्रोक्तः सप्तदशः सुराः ॥ ३४ ॥
मायाबीजं सप्तपञ्चप्रथमास्तारसंयुताः ॥
पादयोर्हस्तयोर्नेत्रश्रोत्रकुक्षीन्द्रियेषु च ॥
स्थानषट्के प्रविन्यस्य न्यासश्चाष्टादशः स्मतः ॥ ३५ ॥
श्रीबीजं चिबुके पादे गले पादद्वये पुनः ॥
हृदये पादयोर्नाभौ पादयोश्च प्रविन्यसेत् ॥
पञ्चस्थानेष्वष्टधायं न्यास एकोनविंशकः ॥ ३६ ॥
त्रिंशत्तमचतुर्थौ च षष्ठस्वरसबिन्दुकौ ॥
घृणाबीजमिदं न्यस्य हृदये नाभिमण्डले ॥ ३७ ॥
हृदये पादयोर्न्यस्य हृदये दक्षकुक्षिके ॥
हृदये वामपादे च हृदये दक्षनेत्रके ॥ ३८ ॥
हृदये वामनेत्रे च हृदये दक्षघोणके ॥
हृदये वामघोणे च हृदये दक्षकर्णके ॥
हृदये वामकर्णे च हृदये विंशकस्त्वयम् ॥ ३९ ॥
त्रयोदशचतुर्थौ तु षष्ठस्वरसबिन्दुकौ ॥
घण्टाबीजमिदं न्यस्य घण्टिकानाभिघण्टिषु ॥ ४० ॥
हृत्पादे हृत्कटौ शीर्षे मस्तके च कटौ स्तने ॥
गुल्फे स्तने तु स्यादेकविंशकोयं सुसम्मतः ॥ ४१ ॥
प्रकृत्यक्षिसमुद्रार्णाः षष्ठस्वरसबिन्दुकाः ॥
ख्यातिबीजमिदं मूर्ध्नि स्फिग्जिह्वानाभिकण्ठके ॥ ४२ ॥
हृज्जङ्घानेत्रकर्णेषु बाहु युग्मे स्तनद्वये ॥
क्रमेण विन्यसेन्न्यासो द्वाविंशोयं प्रकीर्तितः ॥ ४३ ॥
प्रणवो मूलबीजं स्याद्धृदये पादयोर्न्यसेत् ॥
हस्तयोः कर्णयोर्नासाद्वयेऽयं तु त्रिविंशकः ॥ ४४ ॥
अर्कवेदेष्वन्त्यपूर्ववर्णांस्तुर्य्यस्वरान्वितान् ॥
नादबिन्दुयुतान्बीजमासुर्य्याः परिकीर्त्तितम् ॥ ४५ ॥
मुखे नेत्रद्वये कर्णद्वये चैव कपोलयोः ॥
गण्डयोः कण्ठदेशे च स्तनयोर्हृदि पादयोः ॥ ४६ ॥
चिबुके मस्तके बाह्वोस्स्कन्धयोर्दन्तमूलयोः ॥
ब्रह्मरन्ध्रे तथाधारे भ्रूमध्येयं जिनोन्मितः ॥ ४७ ॥
मर्म्मन्यासानतो वक्ष्ये त्रिदेवस्यातिदुर्ल्लभान् ॥
दिक्सप्तपञ्चपञ्चागवेदप्रलयसागराः ॥ ४८ ॥
एकत्रिंशत्कृताद्यन्ताश्चतुर्थस्वरसंयुताः ॥
बिन्दुनादसमायुक्ताः कूटमाकूटनामकम् ॥
न्यसेच्छीर्षे गण्डयोश्च मुखेयं तत्त्वसम्मितः ॥ ४९ ॥
जिनत्रिंशाब्धिबाणाक्षिवेदशैलमितायुताः ॥
बिन्दुतुर्य्यस्वराभ्यां तु कालबीजमुदाहृतम् ॥ ५० ॥
नेत्रयोः कर्णयोर्नाभौ लिङ्गे चापि गुदे न्यसेत् ॥
षड्विंशोयं समाख्यातः सप्तविंशोथ कथ्यते ॥ ५१ ॥
संवर्तवेदवेदेन्द्राः प्रथमाभ्यां च संयुताः ॥
तुर्य्यस्वरेण बिन्द्वाढ्या विद्याबीजमुदाहृतम् ॥ ५२ ॥
कपोलयोर्ब्रह्मरन्ध्रे दन्तपङ्क्त्योश्च विन्यसेत् ॥
अष्टाविंशमथो वक्ष्ये शृङ्खलान्यासमद्भुतम् ॥ ५३ ॥
अन्त्यान्ध्याद्यादिमेषूनत्रिंशद्बाणान्तकास्तथा ॥
तुर्य्यस्वरैस्तथैकत्रिंशन्मिताब्धित्रिसागरैः ॥ ५४ ॥
त्रिपञ्चरामषष्ठाढ्यं नादबिन्दुविभूषितम् ॥
महापरोक्षं तत्कूटमङ्गेष्वेषु प्रविन्यसेत् ॥ ५५ ॥
मस्तके नेत्रयोः श्रुत्योः कपोलद्वयगण्डयोः ॥
चिबुके च गले स्कन्धद्वये च स्तनयोर्हृदि ॥ ५६ ॥
कुक्षिद्वये तथा नाभौ जङ्घयोव्यर्ञ्जने तथा ॥
अण्डद्वये न्यसेत्पश्चान्मूलाधारे च गुल्फयोः ॥ ५७ ॥
पादयोश्च पृथङ्न्यस्य पादयोरङ्गुलीषु च ॥
ब्रह्मरन्ध्रे पुनश्चाङ्ङ्घ्र्योः पादयोरङ्गुलीषु च ॥ ५८ ॥
ब्रह्मरन्ध्रे पुनर्मूलाधारे च ब्रह्मरन्ध्रके ॥
ॐकारमादौ संयोज्य मातृकान्यासमाचरेत् ॥
न्यासश्चूडामणिश्चायमूनत्रिंशः प्रकीर्तितः ॥ ५९ ॥
ऊनत्रिंशाष्टधृत्यक्षिवेदान्त्याङ्कर साब्धयः ॥
आद्येकत्रिंशवर्णास्तु सतुर्यस्वरबिन्दवः ॥ ६० ॥
एतत्सरस्वतीकूटमेतत्पूर्वास्तु मातृकाः ॥
वाक्सिद्ध्यर्थं न्यसेद्देहे त्रिंशोयं समुदीरितः ॥ ६१ ॥
एते तु वामिनो न्यासा न्यूना हानिविधायकाः ॥
अवामिनां त्रयो नित्याः शेषाः काम्यप्रयोगके ॥ ६२ ॥
एवं न्यस्ततनुर्ध्यायेच्छुद्धस्फटिकसन्निभम् ॥
दीप्तमुद्रावराभीतिकिङ्किणीजालनूपुरैः ॥ ६३ ॥
युतं रत्नमयैः स्मेरवदनं कुटिलालकम् ॥
दक्षे शूलं च परशुं दधतं बटुरूपिणम् ॥ ६४ ॥
द्विभुजं संस्मेरेद्देवकार्य्यार्थं सात्त्विकं द्विजः ॥
वैष्णवस्तु चतुर्बाहुं जटामुकुटधारिणम् ॥ ६५ ॥
त्रिशूलं पाशदण्डौ च दधतं च कमण्डलुम् ॥
मूलाद्यसद्योजातेन स्थापयेत्तदनन्तरम् ॥ ६६ ॥
समूलवामदेवेन सन्निधापनमुद्रया ॥
मूलेन सन्निधायाथ सन्निरोधनमाचरेत् ॥ ६७ ॥
अघोरान्तेन मूलेन सन्निरोधनमुद्रया ॥
षडङ्गैः सकलीकुर्यादमृतीकृत्य मूलतः ॥ ६८ ॥
परमीकरणं मूलात्स्वस्वमुद्राभिरेव हि ॥
ध्यात्वा संस्थापनं कुर्य्यान्मुद्राः सन्दर्शयेत्ततः ॥ ६९ ॥
लिङ्गाद्या पूर्वमुद्दिष्टा योनिमुद्रा तु तत्र या ॥
तां दर्शयेत्तत्पुरुषमूलाभ्यां च ततो बलिम् ॥ ७० ॥
ईशानेन समूलेन कृत्वा देवं तथार्चयेत् ॥
ततो देवाज्ञया न्यासस्थानेष्वङ्गानि पूजयेत् ॥ ७१ ॥
सद्योजातादिकान्पञ्च चाङ्गुष्ठादिषु संयजेत् ॥
देवस्य देहे वक्त्रेषु यजेच्चैव पुनश्च तान् ॥ ७२ ॥
व्योमाङ्गं कर्णिकायां तु पूर्वदक्षहरेषु च ॥
पश्चिमायां देवदेहे सद्योजतादिकान्यजेत् ॥ ७३ ॥
असिताङ्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवम् ॥
कपालिनं भीषणं च संहारं च समर्चयेत् ॥ ७४ ॥
देवाग्रतोष्टपत्रेषु यजेत्कोणत्रये पुनः ॥
देशग्रामाधिपौ स्थानाधिपतिं संयजेत्पुनः ॥ ७५ ॥
त्रिकोणे तुर्य्यरेखासु मेघनादं प्रचण्डकम् ॥
कालदूतं च षट्कोणे षडङ्गानि समर्चयेत् ॥ ७६ ॥
षट्कोणस्य बहिश्चाष्टदिक्षु देवाग्रतो यजेत् ॥
डादिनीपुत्रकान्सर्वाञ्छाकिनापुत्रकानपि ॥ ७७ ॥
लाकिनीपुत्रकानिष्ट्वा हाकिनीपुत्रकान्यजेत् ॥
मालिनीपुत्रकानिष्ट्वा देवीपुत्रांस्ततो यजेत् ॥ ७८ ॥
देवस्य वामभागे तु यजेदेतान्क्रमेण तु ॥
इन्द्रेशानदिशोर्मध्य ऊर्ध्वमुख्या न्यजेत्सुतान् ॥ ७९ ॥
रक्षोजलेशयोर्मध्ये त्वधोमुख्या न्यजेत्सुतान् ॥
एतेषामन्तरालेर्च्याः पुत्रवर्णास्त्रयोदश ॥ ८० ॥
ततश्चाष्टदलेपद्मे देवाग्रादिप्रदक्षिणम् ॥
ब्रह्माणीतनयं माहेशीपुत्रं वैष्णवीसुतम् ॥ ८१ ॥
कौमारीन्द्राणिकापुत्रौ महालक्ष्मीसुतं तथा ॥
वाराहीतनय्ं चामुण्डापुत्रं बटुकाभिधम् ॥ ८२ ॥
पूजयित्वा ततो बाह्ये पद्मस्येशाग्रतो यजेत् ॥
भूपुरार्वागष्टदिक्षु हेतुकं त्रिपुरान्तकम् ॥ ८३ ॥
वेतालमग्निजिह्वं च कालान्ते च करालकम् ॥
एकपादं भीमरूपं प्रागीशानान्तरे यजेत् ॥ ८४ ॥
अचलं हाटकेशं च पाशिरक्षोदिगन्तरे ॥
चतुरस्रादिरेखायां देवाग्रादिप्रदक्षिणम् ॥ ८५ ॥
श्रीकण्ठममरेशञ्चानन्तसर्वगसूक्ष्मकौ ॥
भारभूतं त्रिमूर्त्तिं च तिथीशं च तदग्रिमे ॥ ८६ ॥
चतुरस्रे च देवस्य दक्षिणादिप्रदक्षिणम् ॥
स्थाण्वीश्वरं च बिल्वीशं दिगीशं भौतिकेश्वरम् ॥ ८७ ॥
सद्योजातेश्वरं चैव ग्रहेशाक्रूरकेश्वरौ ॥
महासेनेश्वरं पश्चात्तृतीये चतुरस्रके ॥ ८८ ॥
देवस्योत्तरमारभ्य यजेदेतान्प्रदक्षिणम् ॥
क्रोधेश्वरं च चण्डीशं कूर्म्मेशं लाङ्गलीश्वरम् ॥ ८९ ॥
दारुकेशं च मीनेशमरोषं भृगुमेव च ॥
वामभागे तु देवस्य नकुलीशं शिवेश्वरम् ॥ ९० ॥
संवर्तेशं समभ्यर्च्य तद्बाह्ये पूजयेदिमान् ॥
वामाग्रकोणमारभ्य प्रादक्षिण्येन कोणजान् ॥ ९१ ॥
सशक्तिकां दिव्यसिद्धां नतां दीक्षाख्ययोगिनीम् ॥
भयश्च योगिनीपश्चात्तदन्ते सर्वयोगिनीम् ॥
तदग्रे लोकपालांश्च पूजाविधिरितीरितः ॥ ९२ ॥
वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥
हुनेत्तिलैस्त्रिमध्वक्तैस्तर्प्पणादि ततश्चरेत् ॥ ९३ ॥
वाममार्गे द्रुतं सिद्धिः सपादं दशलक्षकम् ॥
पुरश्चर्या तथा होमो घृतयुक्तपलाशजैः ॥ ९४ ॥
वामकौलिकमार्गेण साध्यो दुःखप्रदो मनुः ॥
विघ्नं दुर्गां समाराध्य बलिं दत्त्वा विधानतः ॥ ९५ ॥
काम्यानि साधयेन्मन्त्री यथोक्तां सिद्धिमाप्नुयात् ॥
वश्याय जुहुयादिक्षुशकलैर्वशयेज्जगत् ॥ ९६ ॥
जुहुयात्सर्पिषा मन्त्री यथोक्तां सिद्धिमाप्नुयात् ॥
जुहुयात्पुत्रलाभाय प्रफुल्लैः कैरवैः सुधीः ॥ ९७ ॥
धनधान्यादिसम्पत्त्यै जुहुयात्तिलतण्डुलैः ॥
बिल्वप्रसूनैर्जुहुयान्महतीं विन्दते श्रियम् ॥ ९८ ॥
लवणैर्मधुसम्मिश्रैर्वशयेद्वनिताजनान् ॥
वृष्टिकामेन होतव्यं वेन्तसानां समिद्वरैः ॥ ९९ ॥
अन्नेन जुहुयान्मन्त्री धनधान्यादिसम्पदे ॥
वश्याय जुहुयान्मन्त्री मधुना दिवसत्रयम् ॥ १०० ॥
रोगोक्तौषधिहोमेन रोगा नश्यन्ति तत्क्षणात् ॥
कृत्याद्रोहे ग्रहद्रोहे भूतापस्मारसम्भवे ॥ १०१ ॥
व्याघ्राजिने समासीनो जुहुयादयुतं तिलैः ॥
भूतादयः पलायन्ते द्रुतं नो यान्ति तद्दिशम् ॥ १०२ ॥
कृष्णाष्टमीं समारभ्य यावत्कृष्णा चतुर्दशी ॥
तिलैस्तण्डुलसम्मिश्रैर्मधुरत्रयलोलितैः ॥ १०३ ॥
त्रिसहस्रं प्रतिदिनं जुहुयादयुतं तिलैः ॥
भूतादयः पलायन्ते दर्शनात्तस्य पार्वति ॥ १०४ ॥
बटुकेश्वरमभ्यर्च्य भक्ष्यभोज्यफलान्वितम् ॥
नित्यं निवेद्य नैवेद्यं मध्यरात्रे बलिं हरेत् ॥ १०५ ॥
शाल्यन्नं सर्पिषा युक्तं लाजाश्चूर्णानि शर्कराः ॥
गुडमिक्षुरसापूपैर्मध्वक्तैः परिमिश्रितः ॥ १०६ ॥
एवं बटुकमाराध्य देवं प्रागुक्तवर्त्मना ॥
रक्तचन्दनपुष्पाद्यैर्बलिरेष प्रकीर्तितः ॥ १०७ ॥
एवं जपित्वा प्रयतः सहस्राण्येकविंशतिम् ॥
समाप्तदिवसे रात्रौ पूजयित्वा हरेद्बलिम् ॥
ततः कारयिता राजा तोषयेत्साधकं धनः ॥ १०८ ॥
विधिनानेन सन्तुष्टो बटुकेशः प्रयच्छति ॥
तेजो बलं यशः पुत्रान्कान्तिं लक्ष्मीमरोगताम् ॥ १०९ ॥
नश्यन्ति शत्रवः सर्वे वर्द्धन्ते बन्धुबान्धवाः ॥
भवन्ति ग्रहरोगा नो विषये तस्य भूपतेः ॥ ११० ॥
जुहुयाल्लवणैरेवायुतं च स्तम्भनेच्छया ॥
निगडादिविमोक्षाय प्रयोगोयमुदाहृतः ॥ १११ ॥
वचाचूर्णपलञ्जप्तं गव्येनाज्येन लोडितम् ॥
विभज्य भक्षयेद्वन्ध्या मण्डलात्पुत्रकाङ्क्षिणी ॥ ११२ ॥
विनीतम्पुत्रमाप्नोति मेधारोग्यबलान्वितम् ॥
आदावन्ते प्रयोगस्य बटुकाय बलिं हरेत् ॥ ११३ ॥
बलिस्तु त्रिविधः प्रोक्तः सात्त्विको राजसस्तथा ॥
तामसश्चेति पूर्वोक्तो मांसहीनो यदा बलिः ॥ ११४ ॥
मुद्गपायससंयुक्तो मधुरत्रयलोडितः ॥
खाद्यैः फलत्रयैर्युक्तः सात्त्विकः परिकीर्त्तितः ॥ ११५ ॥
अयं विप्रैः प्रदेयस्तु तेन तुष्यति भैरवः ॥
एवं समांसोभूपादियोग्य उक्तस्तु राजसः ॥ ११६ ॥
रक्तमांससुरायुक्तस्सर्वैमत्स्यैः समन्वितः ॥
बलिस्तामस आख्यातः शूद्रादीना प्रशस्यते ॥ ११७ ॥
अथातः सम्प्रवक्ष्यामि भस्मसाधनमुत्तमम् ॥
उशीरं चन्दनं कुष्ठं घनसारं च कुङ्कुमम् ॥ ११८ ॥
श्वेतार्कमूलं वाराहीं लक्ष्मीं क्षीरमहीरुहम् ॥
त्वचं बिल्वफलं मलं शोषयित्वा तु चूर्णयेत् ॥ ११९ ॥
पूर्णव्योमगृहीतेन गोमयेन विमिश्रितम् ॥
कृत्वा पिण्डांश्च संशोष्य संस्कृते हव्यवाहने ॥ १२० ॥
मूलेन दग्ध्वा तद्भस्म शुद्धपात्रे विनिक्षिपेत् ॥
केतकीमालतीपुष्पैर्वासयेद्भस्म शोभितम् ॥ १२१ ॥
अयुतं प्रजपेन्मन्त्रं स्पृष्ट्वा भस्म सुपूजितम् ॥
एतदादाय दिवसे प्रातः पुण्ड्रं करोति यः ॥ १२२ ॥
तस्य रोगाः प्रणश्यन्ति ग्रहाः सन्ति शुभप्रदाः ॥
रिपुचौरमृगादिभ्यो भयमस्य न जायते ॥ १२३ ॥
वर्द्धन्ते सम्पदः सर्वाः पूज्यते सकलैर्जनैः ॥
राजा वश्यो भवेत्तस्य सामात्यः सपरिच्छदः ॥ १२४ ॥
अथाभिषेकं वक्ष्यामि भूतानां विजयप्रदम् ॥
पूर्व्वोक्ते मण्डले लिप्ते वितानध्वजशोभिते ॥ १२५ ॥
सर्वतोभद्रमालिख्य कर्णिकां तस्य पूरयेत् ॥
अष्टद्रोणप्रमाणेन शालिभिः प्राचितैः शुभैः ॥ १२६ ॥
तदर्धांस्तण्डुलांस्तस्मिन्न्यस्य दूर्वाक्षतान्वितान् ॥
हेमादिविहितं कुम्भं नवरत्नसमन्वितम् ॥ १२७ ॥
संस्थाप्य विमलैस्तोयैरापूर्य्यास्मिन्विनिक्षिपेत् ॥
क्षीरद्रुमप्रवालानि लक्ष्मीं दूर्वां तथैव च ॥ १२८ ॥
कर्पूरं चन्दनं बिल्वमुशीरं कुङ्कुमम्पुनः ॥
कङ्कोलमगुरुं जातीं मल्लिकां चम्पकोत्पले ॥ १२९ ॥
एवं न्यस्य त्विमं पश्चात्पट्टसूत्रेण वेष्टयेत् ॥
तस्मिन्नावाह्य बटुकं राजसं सम्प्रपूजयेत् ॥ १३० ॥
बहिरष्टसु कुम्भेषु भैरवानष्ट पूजयेत् ॥
त्रयोदशसुकुम्भेषु त्रयोदशगणान्यजेत् ॥ १३१ ॥
बाह्ये दशसु कुम्भेषु लोकेशानर्चयेत्सुधीः ॥
तद्बहिर्व्यस्तकुम्भेषु ॥
श्रीकण्ठादीन्सुरान्यजेत् ॥ १३२ ॥
पञ्चत्रिंशघटेष्वर्च्याः कादिवर्णाः स्वराः क्रमात् ॥
इतिगन्धादिभिः सम्यक्पञ्चावरणमर्चयेत् ॥
अयुतं प्रजपेत्स्पृष्ट्वा तान्घटान्देशिकोत्तमः ॥ १३३ ॥
सुदिने शोभने लग्ने वाचयित्वा द्विजातिभिः ॥
स्वस्तिमङ्गलवाक्यानि विशुद्धैर्वेदपारगैः ॥ १३४ ॥
ततस्तु मञ्चमारूढं प्रणम्य बटुकेश्वरम् ॥
जितेन्द्रियं शुद्धकायं राजानं ब्राह्मणप्रियम् ॥ १३५ ॥
आस्तिकं सत्यवचनमभिषिञ्चेत्प्रसन्नधीः ॥
तदा स्वयं च नृपतिः प्रणिपत्य गुरुं प्रियम् ॥
भूयसीं दक्षिणान्दद्यात्प्रसीदति यथा गुरुः ॥ १३६ ॥
राजाभिषिक्तो भवति साक्षाद्भूमिपुरन्दरः ॥
परान्विजयते भूपान्स्तूयते सकलैर्जनैः ॥ १३७ ॥
कृताभिषेकः षण्मासं प्रतिमासम्महीपतिः ॥
चतुरम्भोधिवलयां शास्ति सर्वां वसुन्धराम् ॥ १३८ ॥
अथातः सम्प्रवक्ष्यामि गजोष्ट्रवृषवाजिनाम् ॥
रोगादीनां यथा शान्तिस्तत्तच्छालासु कारयेत् ॥ १३९ ॥
कुण्डं कृत्वा विधानेन होमं कृत्वा यथाविधि ॥
पायसाज्यतिलैर्विद्वानयुतत्रितयावधि ॥ १४० ॥
ब्राह्मणान्भोजयेन्नित्यं भक्ष्यभोज्यफलादिभिः ॥
प्राक्प्रोक्तविधिना कुम्भान्स्थापयित्वात्र देशिकः ॥ १४१ ॥
अभ्यर्च्य गन्धपुष्पाद्यैस्तज्जलैः प्रोक्षयेद्गजान् ॥
अश्वशालामनेनैव वर्द्धन्ते ते दिनेदिने ॥
युद्धेषु महती शक्तिर्जायते पूर्वतोधिका ॥ १४२ ॥
सर्वे रोगाः प्रणश्यन्ति कृत्याद्रोहाः परैः कृताः ॥
अस्मात्परतरा रक्षा नास्ति तेषां महीतले ॥ १४३ ॥
अभिषिच्य महीपालं परेषां विजयोद्यतम् ॥
उक्तेन विधिना मन्त्री यामिन्यां बलिमाहरेत् ॥ १४४ ॥
अन्यूनाङ्गमजं हत्वा राजसं प्रागुदाहृतम् ॥
बलिप्रदानसमये रिपूणां सर्वसैन्यकम् ॥ १४५ ॥
निवेदयेद्बलिं तेन बटुकाय विशिष्टधीः ॥
विदर्भयेच्छत्रुनाम्ना बलिमन्त्रं तथा सुधीः ॥ १४६ ॥
शत्रुपक्षस्य रुधिरं पिशितं च दिनेदिने ॥
भक्षयेच्छ्वगणैः सार्द्धं सारमेयसमन्वितः ॥
बलिमन्त्रोयमाख्यातः सर्वेषां विजयप्रदः ॥ १४७ ॥
अनेन बलिना हृष्टो बटुकः परसैन्यकम् ॥
श्वगणेभ्यो विभजते सामिषं क्रुद्धमानसः ॥ १४८ ॥
एवं कृते परबलं क्षीयते नात्र संशयः ॥
विजयश्रियमेतेन राजा प्राप्नोत्ययत्नतः ॥ १४९ ॥
अथातः सम्प्रवक्ष्यामि नानाभैरवसाधनम् ॥
श्मशाने ये तु तिष्ठन्ति कालेकाले पुरेपुरे ॥ १५० ॥
नियमं कञ्चिदेकं यो न त्यजेद्धर्मगर्भितम् ॥
वाममार्गादिनिरतोप्यद्वेषतरवर्त्मना ॥ १५१ ॥
हीने गुरावपूर्णे वा साधनो लोकभीतितः ॥
स भवेद्भैरवो देवस्तस्य देशस्य शासकः ॥ १५२ ॥
तत्रत्यभूतवेताला भैरवं सेवयन्ति तम् ॥
स्वर्गमोक्षच्युतानां स शासनं कुरुते सदा ॥ १५३ ॥
क्षीणे कर्म्मणि तस्मिंश्च गतो ग्रामे विलीयते ॥
अन्यस्मिन्नेव बीजेन ग्रामे वसति निश्चितम् ॥ १५४ ॥
यदाम्नाये भैरवोसौ तस्य स्थानं तु तद्दिशि ॥
तेन मार्गेण वशयेत्कार्य्यार्थं भैरवञ्च तम् ॥ १५५ ॥
वाग्रमाकाममायाख्यास्मारो बीजं क्रमाद्भवेत् ॥
पूर्वाद्यूर्ध्वान्न्तकं त्वेतदाम्नायानां क्रमेण च ॥ १५६ ॥
आम्नायबीजं गामस्य बीजं भं भैरवाय च ॥
ग्रामनाम ततः प्रोच्य पितृगेहनिवासिने ॥ १५७ ॥
नमस्तेभ्यो मनुमिमं जपेदर्णसहस्रकम् ॥
निशि श्मशाने च बलिं तदाम्नायोक्तवर्त्मना ॥
जपादौ च जपान्ते च नित्यं दद्यादनन्यधीः ॥ १५८ ॥
बटुकोक्तं हुनेद्द्रव्यं तर्प्पणादि ततश्चरेत् ॥
एवं सिद्धमनुर्मन्त्री भूतानां निग्रहक्षमः ॥ १५९ ॥
तस्मिन्देशे भवेत्तस्य प्रत्यक्षीकरणं शृणु ॥
कृतनित्यक्रियः प्रातः सोपवासो जितेन्द्रियः ॥ १६० ॥
सायं सन्ध्यादिकं कृत्वा शान्तिपाठौ विधाय च ॥
प्रगृह्य सर्वसामग्रीं सायमुत्तरसाधकः ॥ १६१ ॥
व्रजेच्छमशानसामग्रीं शृणु सुस्थिरचेतसा ॥
वटकाश्चणका भक्तं पायसापूपशष्कुलि ॥ १६२ ॥
कन्यकाकर्षितं सूत्रं कुङ्कुमेन सुरञ्जितम् ॥
अष्टौ वितस्तिदीर्घाश्च समिधः खादिरा मताः ॥ १६३ ॥
कीलालको हस्तमात्रो गन्धपुष्पादिकं तथा ॥
बलिद्रव्यं च पूर्वोक्तं पूर्वाम्नाये समत्स्यकम् ॥ १६४ ॥
समांसं पश्चिमाम्नाये समद्यं चोत्तरे भवेत् ॥
ग्राममध्ये श्मशाने तदूर्ध्वाम्नाये सरक्तकम् ॥ १६५ ॥
यथायोग्यं च नैवेद्यं दद्याच्च भयवर्ज्जितः ॥
पादप्रक्षालनं कृत्वा ततः स्मृत्वास्य देवताम् ॥ १६६ ॥
बद्धाञ्जलिरिदं वाक्यं प्रवदेत्साधकोत्तमः ॥
अत्र श्मशाने याः काश्चिद्देवता निवसन्ति हि ॥
ताः प्रयच्छन्तु मे सिद्धिं प्रसन्नाः सन्तु पान्तु माम् ॥ १६७ ॥
पूर्वे मांशङ्करः पातु तथाग्नेय्यां च शूलधृक् ॥
कपाली दक्षिणे पातु नैरृत्ये जटिलोवतु ॥ १६८ ॥
पश्चिमे पार्वतीशस्तु वायव्यां प्रमथाधिपः ॥
उत्तरे मुण्डमालाढ्य ईशाने वृषभध्वजः ॥ १६९ ॥
ऊर्ध्वं पातु तथा शम्भुरधस्ताद्धूलिधूसरः ॥
अग्रतो भैरवः पातु पृष्ठतः पातुखेचरः ॥ १७० ॥
दक्षिणे भूधरः पातु वामे च पिशिताशनः ॥
केशान्पातु विशालाक्षो मूर्द्धानञ्च मरुत्प्रियः ॥ १७१ ॥
मस्तकं पातु भृङ्गीशो नेत्रे पातु महामनाः ॥
कपोलौ पातु वीरेशो गण्डौ गण्डादिमर्दनः ॥ १७२ ॥
उत्तरोष्ठं विरूपाक्षोप्यधरं यामिनीप्रियः ॥
दन्तेषु दन्तिविध्वंसी चिबुके नृकपालयुक् ॥ १७३ ॥
कण्ठे रक्षतु मां देवो नीलकण्ठो जगद्गुरुः ॥
दक्षस्कन्धे गिरीन्द्रेशो वामस्कन्धेरिसूदनः ॥ १७४ ॥
भुजे च दक्षिणे सर्वमन्त्रनाथः सदावतु ॥
वामे भुजे सार्वभौमो हृदयम्पातु पाण्डुरः ॥ १७५ ॥
दक्षस्तनम्पशुपतिर्वामम्पातु महेश्वरः ॥
उत्तरे सर्वकल्याणकारकोवतु मां सदा ॥ १७६ ॥
मनः कामप्रविध्वंसी जङ्घे पातु दयामयः ॥
जानुनी पात्वजामित्रो गुल्फौ गौरीपतिः सदा ॥ १७७ ॥
पादपृष्ठं ज्ञाननिधिस्तथा पादाङ्गुलीर्हरः ॥
पादाधः पातु सततं व्योमकेशो जगत्प्रियः ॥ १७८ ॥
इति रक्षां समाधाय मन्त्ररक्षां समाचरेत् ॥
ॐ-ह्रां-ह्रूं-ह्रूं-हुं च पूर्वे ॐ-ह्रीं-ह्रूं-ह्रीं हुताशने ॥ १७९ ॥
ॐ-ह्रीं-श्रीं दक्षिणे न्यस्य ॐ-ग्लूं-ग्लूं-श्लूं च नैरृते ॥
ॐ-प्रुं-म्रुं-प्रूं-स-आप्यत्येराम्प्रां-य्रूं-सः समीरणे ॥ १८० ॥
ॐ-त्रां भैरव सौम्यायां म्ॐ-व्रुं-प्रुं चैव फट् शिवे ॥
ॐ-ग्लौं-ब्लुमूर्ध्वदेशेथो स्रां-स्रूं-स्रूं-स्रस्त्वधः स्मृतम् ॥ १८१ ॥
एवं रक्षां समाधायोत्कील्य कीलान्दिगष्टके ॥
मध्ये महाकीलमथो दिक्पालार्चनमाचरेत् ॥ १८२ ॥
ततो मन्त्रजपं कुर्य्यात्प्रार्थयेच्च पुनःपुनः ॥
मां भैरव द्विरुच्चार्य्य भयङ्करहरेति च ॥
मां रक्षरक्ष हुं फट् च स्वाहा द्वाविंशदर्णकः ॥ १८३ ॥
पलाशभाजने माषान्कृत्वा प्राचीं व्रजेद्दिशम् ॥
कीलस्य निकटे चन्द्रमावाह्य पूजयेत्ततः ॥ १८४ ॥
ध्यानं प्रागुक्तवत्कृत्वा तत्पुरे चतुरस्रके ॥
मन्त्रेणानेन चन्द्राय मण्डले बलिमर्पयेत् ॥ १८५ ॥
ॐ-ह्रीं-ह्रीं-ह्रीं समुच्चार्य भो इन्द्र सुरनायक ॥
प्रसन्नो भव मे शीघ्रं देहि सिद्धिं सनातनीम् ॥
इमं बलिं गृह्णगृह्ण हुं फण्नागाग्निवर्णकः ॥ १८६ ॥
जलं दत्त्वा बलिं त्यक्त्वा न यावद्वह्निकीलकम् ॥
अग्निं तत्र समावाह्य प्राग्वद्ध्यात्वा प्रपूजयेत् ॥ १८७ ॥
तदग्रे मण्डलं कृत्वा दद्यान्मन्त्रेण वै बलिम् ॥
ॐ-रं-रां-रिं-रीं-रुं-रूं तदा ग्रे ग्रे च पदं वदेत् ॥ १८८ ॥
तेजोनायक शीघ्रं मे सिद्धिं देहि इमं वदेत् ॥
मुद्गबलिं गृह्णगृह्ण हुं फड् देवार्णको मनुः ॥ १८९ ॥
ततो दक्षिणकीलस्य निकटे यममर्चयेत् ॥
दम्बीजेन समावाह्य मनुना निर्वपेद्बलिम् ॥ १९० ॥
ॐ-प्रं-प्रां-प्रिं च प्रीं-प्रुं-प्रूं भो यमेति पदं वदेत् ॥
प्रेताधिपतये शीघ्रं प्रसन्नो भव संवदेत् ॥ १९१ ॥
इमां तु मे सुरां पात्रे बलिं गृह्णयुगं वदेत् ॥
हुम्फडन्तः समाख्यातो मन्त्रो गोरामवर्णकः ॥ १९२ ॥
ततो नैरृत्यकोणस्य निकटे निरृतिं यजेत् ॥
क्षम्बीजेन समावाह्य बलिमन्त्रो थकथ्यते ॥ १९३ ॥
ॐ प्रें-प्रें-प्रें ततो हुं त्रिः श्रीं द्विर्ह्रीं च रमायुगम् ॥
रक्षोनाथपदं शीघ्रं प्रसन्नो भव संवदेत् ॥ १९४ ॥
इमं मे चणकबलिं गृह्णगृह्ण पुनर्मतः ॥
षट्त्रिंशदर्णो मन्त्रोयं ततः पश्चिमकीलके ॥ १९५ ॥
वम्बीजेन समावाह्य वरुणं तत्र पूजयेत् ॥
बलिमन्त्रो ध्रुवो व्रां-व्रीं भोभो वरुण संवदेत् ॥ १९६ ।
जलनाथपदस्यान्ते प्रसन्नो भव संवदेत् ॥
इमं मे चौदनबलिं गृह्णगृह्ण च हुं च फट् ॥ १९७ ॥
त्रिंशदर्णो मनुः प्रोक्तो वरुणस्य बलेरयम् ॥
ततो व्रजेद्वायुकोणे कलिस्य निकटेर्चयेत् ॥ १९८ ॥
यम्बीजेन समावाह्य वायुं शृणु बलेर्मनुम् ॥
ॐ वां-वीं-वूं ततः क्रां-क्रीं भोभो वायो भुवः पुनः ॥ १९९ ॥
क्षिप्रं प्रसन्नो भवेति ममेदं वायवेपि च ॥
बलिं गृह्णयुगं हुम्फट्पञ्चत्रिंशाक्षरो मनुः ॥ २०० ॥
उदक्कीलं ततो गत्वा कुम्बीजेन धनेश्वरम् ॥
आवाहयेत्पूजयित्वा मनुना निर्वपेद्बलिम् ॥ २०१ ॥
ॐ क्रीं-क्रूं-क्रीं नमः क्रां-क्रां भोभो यक्षपदं वदेत् ॥
नाथ शीघ्रं प्रसन्नो मे भवेति च पदं वदेत् ॥
ममापूपबलिं गृह्णयुगं हुं फड्वेदाग्निवर्णकः ॥ २०२ ॥
ईशानकीलनिकटे गत्वेशानं समर्चयेत् ॥
हुम्बीजेन समभ्यर्च्य बलिं यच्छेत्तथामुना ॥ २०३ ॥
ॐ श्रां-श्रीं-श्रूं-ततः श्रीं-श्रीं-श्रूंस्याद्वै शष्कुलीपदम् ॥
बलिं गृह्णयुगं हुम्फठ्चन्द्रनागमिताक्षरः ॥ २०४ ॥
पुष्पाक्षतान्समादाय मध्यस्तम्भं ततो व्रजेत् ॥
ॐ स्तां-स्तीं-ह्रीं तथा स्तम्भाय नमोयं नवाक्षरः ॥
अनेन मनुना स्तम्भं निर्भयः परिपूजयेत् ॥ २०५ ॥
महाकवचमन्त्रेण कुर्य्याद्देहस्य रक्षणम् ॥
ॐ ह्रां-ह्रीं-ह्रूं नमो हुं च क्षां-क्षीं-क्षूं-क्षश्च प्रोच्चरेत् ॥ २०६ ॥
ख्रां-ख्रीं-ख्रूं-ख्रस्तथा घ्रां-घ्रीं-घ्रूं-घ्र्ॐ-स्र्ॐ-स्रीं ततो वदेत् ॥
स्रुं-स्रां-स्रें-स्रं ततो म्रां-म्रौं त्रिर्हो मुक्त्वा त्रिधात्रिधा ॥ २०७ ॥
हुंसप्तकं समुच्चार्य्य फडन्तं सर्वतो वदेत् ॥
रक्षरक्ष पदं प्रोच्य रक्षरक्षेति भैरव ॥ २०८ ॥
नाथनाथ फडन्तोयमेकपञ्चाशदक्षरः ॥
जप्त्वात्मरक्षां कृत्वाथ स्तम्भस्य च समीपतः ॥ २०९ ॥
आसनं सम्यगास्तीर्य्य तत्र प्राङ्मुख आस्थितः ॥
स्वाग्रे समे तु भूम्यग्रे गोमयाद्युपलेपिते ॥ २१० ॥
पद्ममष्टदलं कृत्वा तद्बहिः षोडशच्छदम् ॥
तद्बाह्येष्टदलं चापि ह्यसिताङ्गादिभैरवान् ॥ २११ ॥
पत्राष्टके पूजयित्वा पूजयेत्षोडशच्छदे ॥
कुलीशं सुकुलीशं च जामित्रं डामरं रिभम् ॥ २१२ ॥
प्रचण्डं चण्डकेशं च चण्डात्मानं च चामरम् ॥
चारित्रं च चमत्कारं चञ्चलं चारु भूषणम् ॥ २१३ ॥
चामीकरं चारुवहं चकितं चेति षोडश ॥
एते स्वनामभिः पूज्याः षोडशानन्दपूरिताः ॥ २१४ ॥
ब्राह्म्याद्याश्चाष्टपत्रेषु बहिर्वीथ्यां दिगीश्वरान् ॥
तद्बाह्ये च तदस्त्राणि तद्बाह्येपि त्विमान्यजेत् ॥ २१५ ॥
चण्डप्रचण्डोर्ध्वकेशभीषणोद्भीषणाभिधान् ॥
व्योमकेशं व्योमबाहुं व्योमव्यापकमेव च ॥ २१६ ॥
एतान्वीरान्समाहूय चायाहीति समुच्चरन् ॥
अभ्यर्चयेन्निर्भयः संस्ततो न्यासान्समाचरेत् ॥ २१७ ॥
पश्चिमाभिमुखो भूत्वा मालां सम्पूज्य सञ्जपेत् ॥
उच्चैः स्वरांस्तदायाति प्रत्यहं भैरवः स्वयम् ॥ २१८ ॥
वामहस्तेन दद्याच्च यथाम्नायोचितं बलिम् ॥
सम्भोजयेज्जपं कुर्यान्निर्भयः प्रीतमानसः ॥ २१९ ॥
तृप्तो देवो यदा ब्रूयाद्वरंवरय वाञ्छितम् ॥
दक्षिणे पयसा चैव तस्य तृप्तिः प्रजायते ॥ २२० ॥
वामादीनां मांसमद्यरक्ताद्यैः स्थिरतापि वा ॥
प्रणम्य दण्डवद्भूमौ वाञ्छितं वरमुच्चरेत् ॥ २२१ ॥
आगत्य च गृहं पश्चात्त्र्यहं कर्यान्महोत्सवम् ॥
एवं कलियुगे सिद्धिः श्मशानस्य प्रकीर्तिता ॥ २२२ ॥
जपेदेवं समारूढो देवः प्रत्यक्षगो भवेत् ॥
समस्तभैरवाणां तु मन्त्राद्येवं मयोदितम् ॥ २२३ ॥
अथातः सम्प्रवक्ष्यामि क्षेत्रपालमनुं परम् ॥
ङेन्तस्तु क्षेत्रपालः स्यात्क्षौम्बीजाद्यो गजाक्षरः ॥ २२४ ॥
स एव प्रणवाद्यस्तु दक्षे वामे नवाक्षरः ॥
मुनिर्ब्रह्मा च गायत्रं छन्दः स्यात्क्षेत्रपालकः ॥ २२५ ॥
देवो बीजमिह क्षौं च नमः शक्तिः प्रकीर्त्यते ॥
षड्दीर्घभाजा बीजेन षडङ्गविधिरीरितः ॥ २२६ ॥
ततः सञ्चिन्तयेद्देवमञ्जनाद्रिसमप्रभम् ॥
वर्तुलास्यं त्रिनयनमूर्ध्वपिङ्गजटाधरम् ॥ २२७ ॥
दंष्ट्राकरालवदनं भीमरूपं दिगीश्वरम् ॥
दक्षे गदां कपालं च वामे सर्प्पविभूषणम् ॥ २२८ ॥
शैवपीठे यजेदष्टदिक्पदिक्सुरभूषिते ॥
मध्ये देवं षडङ्गानि कर्णिकायां दलेषु च ॥ २२९ ॥
अनलं चाग्निकेशं च करालं कान्तिकारकम् ॥
महाकोपं पिशितास्यं पिङ्गाक्षं चोर्ध्वकेशकम् ॥ २३० ॥
यजेद्भूपुरवीथ्यां च लोकेशानस्रसंयुतान् ॥
धूपदीपादिकं दत्वा नैवेद्यं मनुनामुना ॥ २३१ ॥
एह्येहीति समुच्चार्य्य विद्विषोन्तः पुरद्वयम् ॥
भञ्जय द्विर्नर्तय द्विर्विप्रविप्र महा वदेत् ॥ २३२ ॥
भैरव क्षेत्रपालेति बलिं देव ततो वदेत् ॥
गृह्णद्वयं वह्निजाया पञ्चत्रिंशाक्षारो मनुः ॥ २३३ ॥
एकलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥
चरुणा घृतसिक्तेन तर्प्पणादि ततश्चरेत् ॥ २३४ ॥
अथ प्रयोगं वक्ष्यामि सर्वोपद्रवनाशनम् ॥
रात्रौ गृहाङ्गणे रम्यं कृत्वा स्थण्डिलमुत्तमम् ॥ २३५ ॥
आवाह्य तत्र सम्पूज्य क्षेत्रेशं प्रोक्तवर्त्मना ॥
दक्षमार्गी च दुग्धाद्यैः कृत्वा वै सिक्तकं महत् ॥ २३६ ॥
वामाचारी कुलद्रव्यैः स्वाम्नायोक्तैस्तथा परे ॥
पक्ष्यमाणेन मनुना तस्य हस्ते बलिं हरेत् ॥ २३७ ॥
एह्येहि तुरुयुग्मं च मुरुद्वन्द्वं तथा वदेत् ॥
भुङ्घिं द्विर्हन विघ्नं च विनाशयविनाशय ॥ २३८ ॥
महाबल क्षेत्रपाल बलिं गृह्णद्वयं ततः ॥
अग्निजाया बलेर्मन्त्रो भवेत्पञ्चाब्धिवर्णकः ॥ २३९ ॥
दद्याच्च परिवारेभ्यस्तेषां तेषां तु नामभिः ॥
बलिनानेन सन्तुष्टःक्षेत्रपालो मुदान्वितः ॥ २४० ॥
ऐश्वर्य्यविजयारोग्यसौभाग्यादिकसम्पदः ॥
ददाति रौद्रभूतादि कृत्याद्याशु निवारयेत् ॥ २४१ ॥
अथ वक्ष्ये गरहरं वह्निमन्त्रं चमत्कृतम् ॥
खःखं स्याद्व्यक्षरो मन्त्रो मुनिरग्निः प्रकीर्त्तितः ॥ २४२ ॥
पङ्क्तिश्छन्दो देवताग्निः खो बीजं शक्तिका तु खम् ॥
षड्दीर्घस्वरयुक्तेन खकारेणाङ्गकल्पनम् ॥ २४३ ॥
ध्यानार्चनादिकं सर्वं वैश्वानरसुमन्त्रवत् ॥
जपो द्वादशसाहस्रं तद्दशांशं घृतैर्हुनेत् ॥
तर्प्पणादि ततः कृत्वा प्रयोगं तु समाचरेत् ॥ २४४ ॥
स्वस्य वामे करे ध्यायेत्पद्मं पञ्चदलं स्थितम् ॥
तस्यापि कर्णिकायां तु सविसर्गं खकारकम् ॥ २४५ ॥
सानुस्वारं खकारं च ध्यायेत्पञ्चदले स्थितम् ॥
सुधामयं च तज्ज्वालां पश्चादस्त्रं विभावयेत् ॥ २४६ ॥
सम्पूर्णं चामृतमयं विषयुक्तं स्पृशेद्वपेत् ॥
जपेदष्टोत्तरशतं मन्त्रं यस्य तनुं स्पृशेत् ॥ २४७ ॥
सर्वान्विषग्रहान्भूतान्सर्प्पवृश्चिकवेदनाः ॥
ज्वराजीर्णविसर्प्पादि शूलं दन्तादिसम्भवम् ॥
नेत्ररोगादिकं पीडां सर्वाङ्गस्थां हरेदथ ॥ २४८ ॥
अथ वक्ष्ये चण्डमन्त्रम्ॐ हुम्फट् त्र्यक्षरो मनुः ॥
ऋषिस्त्रिकोनुष्टुबुक्तं छन्दश्चण्डोस्य देवता ॥ २४९ ॥
आद्यं बीजं शक्तिरन्त्यमिष्टार्थं विनियोजनम् ॥
दीप्तफट्-हृदयं प्रोक्तं ज्वालाफट् शिर ईरितम् ॥ २५० ॥
शिखा ज्वालामालि फट् च तत्फट् कवचमीरितम् ॥
हन फण्णेत्रमुद्दिष्टं सर्वज्वालिनि फट् परम् ॥ २५१ ॥
एभिर्मन्त्रैः षडङ्गानि जातियुक्तानि कल्पयेत् ॥
ध्यायेच्चण्डेश्वरं रक्तं त्रिनेत्रं रक्तवाससम् ॥ २५२ ॥
चन्द्रमौलिं च बिभ्राणं शूल टङ्कं कमण्डलुम् ॥
स्फटिकस्रजमाबद्धजटाजूटं सनागकम् ॥ २५३ ॥
शैवे पीठे यजेद्देवं गायत्र्यावाहनं मतम् ॥
षष्ठस्वरो बिन्दुयुक्तो ङेन्तश्चण्डेश्वरः सुहृत् ॥ २५४ ॥
पूजामन्त्रोस्याष्टवर्णो यजेदङ्गानि पूर्ववत् ॥
दलेषु मातरः पूज्या वीथ्यां लोकेशहेतयः ॥
यन्त्रपूजाविधिस्तस्य चैवमेव समीरितः ॥ २५५ ॥
चण्डेश्वराय विद्महे चण्डचण्डाय धीमहि ॥
तन्नश्चण्डः प्रचोदयात् ॥ २५६ ॥
इत्येवं चण्डगायत्रीमन्त्रं लक्षत्रयं जपेत् ॥
सतिलैस्तण्डुलैर्होमस्त्रिमध्वक्तैर्दशांशतः ॥ २५७ ॥
राजवृक्षसमिद्भिर्वा तर्प्पणादि ततश्चरेत् ॥
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्तदा ॥ २५८ ॥
शालिपिष्टमयीं कृत्वा पुत्तलीं प्राणसंयुताम् ॥
देवकाष्ठैरेधितेग्नौ सम्यक्त्रिमधुरप्लुताम् ॥ २५९ ॥
दक्षिणाङ्गुष्ठमारभ्य पुंसश्छित्वा पृथक् पृथक् ॥
जुहुयाद्वामपादादि योषितश्चापि संहुनेत् ॥ २६० ॥
एवं होमो द्विजादीनां वशकृन्नात्र संशयः ॥
यो मर्त्योनुदिनं पुष्पैर्हुनेदष्टोत्तरं शतम् ॥ २६१ ॥
सप्ताहं तदवश्यं हि प्राप्नुयाद्यश्च तर्प्पयेत् ॥
मनुनानेन च शिवं चतुर्मासाल्लभेच्छ्रियम् ॥ २६२ ॥
साध्यनक्षत्रवृक्षाद्यैः *?उत्तलीं प्राणसंयुताम् ॥
स्पृशेत्तां च जपेत्पश्चात्पूजयित्वा हुनेन्निशि ॥ २६३ ॥
नारीं नरं वा वशयेद्यावज्जीवं न संशयः ॥
पञ्चाक्षरप्रयोगांश्च मनुनानेन साधयेत् ॥ २६४ ॥
अथ वक्ष्ये भैरवस्य शक्तेर्बन्द्याः परं मनुम् ॥
या बन्धयति पापिष्ठान्स्वभक्तान्मोचयेदघात् ॥
यस्याः प्रभावतः काश्यां भैरवोस्त्यधिकारवान् ॥ २६५ ॥
तारो हिलियुगं देवी बन्दी ङेतो नमोन्तकः ॥
एकादशाक्षरो मन्त्रो भैरवोस्य मुनिर्मतः ॥ २६६ ॥
त्रिष्टुप्छन्दोस्य देवी स्याद्भूद्विद्विद्विद्विनेत्रकैः ॥
षडङ्गानि ततो ध्यायेद्रत्नसिंहासने स्थिताम् ॥ २६७ ॥
मेघश्यामां सुधाकुम्भमभयं दधतीं स्मरेत् ॥
एकवीरोदिते पीठे यजेद्बन्धनमुक्तये ॥ २६८ ॥
अङ्गपूजां केशरेषु यजेत्पत्रेषु सत्तमः ॥
कालीं तारां भगवतीं ततः कुब्जां च शीतलाम् ॥ २६९ ॥
त्रिपुरां मातृकां लक्ष्मीं भूपुरे तु दिगीश्वरान् ॥
अग्रवीथ्यामायुधानि बन्दीमेवं समर्चयेत् ॥ २७० ॥
लक्षद्वयं जपेन्मन्त्रं पायसान्नैर्हुनेत्तथा ॥
विधाय तर्प्पणाद्यं च प्रयोगानाचरेत्ततः ॥ २७१ ॥
एकविंशतिघस्रान्तमयुतं प्रत्यहं जपेत् ॥
ब्रह्मचर्य्यरतो मन्त्री गणेशाचर्नपूर्वकम् ॥ २७२ ॥
कारागृहनिबद्धस्य मोक्ष एवं कृते भवेत् ॥
अपूपोपरि संलेख्यं घृतेन चतुरस्रकम् ॥ २७३ ॥
तस्य मध्ये ठकारं तु लिखेत्तदुदरे तथा ॥
अमुकं मोचयेत्येवं दिक्षु ह्रीङ्कारमालिखेत् ॥ २७४ ॥
चतुरस्रं पुनस्तच्च मन्त्रेणानेन वेष्टयेत् ॥
वाङ्माया श्रीबन्दि अमुकेति बन्धपदं वदेत् ॥
मोक्षं कुरुयुगं स्वाहा धृतिवर्णो मनुः स्मृतः ॥ २७५ ॥
तस्मिन्नपूपे सम्पूज्य बन्दीमावरणान्विताम् ॥
कारानिकेतनस्थाय प्रदद्यात्सुहृदे च तम् ॥ २७६ ॥
स शुद्धो वाग्यतो भत्वा भक्षयेत्तमपूपकम् ॥
तस्मिन्सम्भक्षिते बद्धो मच्यते बन्धनाद्द्रुतम् ॥ २७७ ॥
अथातः सम्प्रवक्ष्यामि कार्तिकेयमनुं परम् ॥
वं वह्नये नमश्चेति तारादिः सप्तवर्णवान् ॥ २७८ ॥
ब्रह्मा मुनिश्च गायत्री छन्दो देवो गुहः स्मृतः ॥
हृच्छक्तिस्तारको बीजं सतारार्णैः षडङ्गकम् ॥ २७९ ॥
ध्येयो देवो गुहः शक्तिं कुक्कुटाक्षवरान्दधत् ॥
रक्तो रक्तांशुको रक्तप्रवराकल्पभषितः ॥ २८० ॥
प्रथमावृत्तिरङ्गैः स्यात्षड्दलेष्टदले पुनः ॥
जयन्तश्चाग्निकेशश्च कृत्तिकापुत्र एव च ॥ २८१ ॥
भूतः पतिश्च सेनाना गुहो हरण्यशूलकः ॥
चित्राक्षो भूपुरे शक्रादिकपूजा प्रकीर्त्तिता ॥ २८२ ॥
पुरश्चर्य्यायुतं प्रोक्ता घृतहोमो दशांशतः ॥
तर्प्पणाद्यैर्मनुः सिद्धः श्रीरक्षाजयपुत्रदः ॥ २८३ ॥
अथ वक्ष्ये महेशस्य वस्त्रप्रक्षालिका तु या ॥
शीतलेति च विख्याता तस्या मन्त्रं सुसिद्धिदम् ॥ २८४ ॥
तारो माया रमा शीतलायै हृच्च नवाक्षरः ॥
उपमन्युर्मुनिश्छन्दो बृहती शीतला सुरी ॥ २८५ ॥
षड्दीर्घयुग्भिर्लक्ष्म्याश्च बीजाभ्यां स्यात्षडङ्गकम् ॥
ध्यायेच्च शीतलां देवीं रासभस्थां दिगम्बराम् ॥ २८६ ॥
मार्जनीशूर्प्पहस्तां च रक्तपुष्पहिमार्चिताम् ॥
तैलादिमलसंयुक्तवस्त्रपोटलिशीर्षिकाम् ॥ २८७ ॥
त्रिकोणान्तर्यजेद्देवीं कोद्रवां च मसूरिकाम् ॥
शराविकां च कोणेषु भूपुरे त्वष्टभैरवान् ॥ २८८ ॥
अयुतं प्रजपेन्मन्त्रं पायसेन दशांशतः ॥
हुत्वा कृत्वा तर्प्पणादि मन्त्री सिद्धः प्रजायते ॥ २८९ ॥
नाभिमात्रे जले स्थित्वा यः सहस्रं जपेन्मनुम् ॥
तेन सम्मार्जिताश्चैव स्फोटा नश्यन्ति तत्क्षणात् ॥ २९० ॥
साधितो येन मन्त्रोयं तस्य वंशे न शीतला ॥
तेनाभिमन्त्रितं भस्म यद्गृहे तत्र सा न हि ॥ २९१ ॥
अथातः सम्प्रवक्ष्यामि भर्त्तुरस्याः परं मनुम् ॥
तारः प्रासादबीजं यं वं व्योमव्यापिने द्विठः 1 ॥ २९२ ॥
एकादशार्णो मन्त्रोयं न्यासध्यानजपादिकम् ॥
प्रासादमन्त्रवज्ज्ञेयमर्धलक्षं पुरस्कृतिः ॥
दशांशं जुहुयादाज्यैस्तर्प्पणादि ततश्चरेत् ॥ २९३ ॥
सिद्धमन्त्रेणौषधं तु दशवाराभिमन्त्रितम् ॥
यथोक्तगुणतामेति निर्वीर्य्यमपि नान्यथा ॥ २९४ ॥
अथ वानेन जपितं यदेकादश वारकान् ॥
रोगिभ्यो भेषजं दत्तं तत्तत्पूर्णगुणं भवेत् ॥ २९५ ॥
प्रातःकाले समुत्थायोदकमेकादशावधि ॥
मन्त्रयित्वा पिबेन्मन्त्रैः प्रत्यहं द्वादशाब्दकम् ॥
वलीपलितनिर्मुक्तो जीवेद्वर्षशतं युवा ॥ २९६ ॥
त्रिवर्षाच्च महारोगाः कुष्ठाद्या यान्ति सङ्क्षयम् ॥
जले चैकादशाहेन रोगहृज्जायते मनुः ॥ २९७ ॥
अथ वक्ष्ये लघुश्यामामन्त्रं तं भैरवप्रियम् ॥
नम 2 उच्छिष्टचाण्डालि मातङ्गि प्रवदेत्ततः ॥
सर्ववशङ्करे स्वाहा वाग्बीजाद्यो नखार्णकः ॥ २९८ ॥
मदनोस्य मुनिश्छन्दो गायत्री निवृतादिका ॥
देवता तु लघुश्यामा वाग्बीजं बीजमुच्यते ॥ २९९ ॥
स्वाहा शक्तिर्नियोगस्तु निखिलाभीष्टसाधने ॥
वाक्पूर्विकां रतिं मूर्ध्नि प्रीतिं मायादिकां हृदि ॥ ३०० ॥
पादयोर्विन्यसेन्मन्त्री कामपूर्वां मनोभवाम् ॥
इच्छाशक्तिं ज्ञानशक्तिं क्रियाशक्तिं क्रमान्न्यसेत् ॥ ३०१ ॥
वाङ्मायाकामबीजाद्यां मुखे कण्ठां सदेशके ॥
द्रां द्रावणं न्यसेच्छीर्षे द्रां च शोषणमास्यके ॥ ३०२ ॥
क्लीं तापनं हृदि न्यस्य ब्लूं सम्मोहनमिन्द्रिये ॥
स उत्पादनकं पादे ततः कुर्य्यात्षडङ्गकम् ॥ ३०३ ॥
रामाग्निगुणरामाङ्गनेत्रवर्णैर्मनुस्थितैः ॥
आङ्क्षाब्राह्मीकन्यकायै नमोमूर्ध्नि प्रविन्यसेत् ॥ ३०४ ॥
इं-लां महेश्वरीकन्यकायै वामांसके नमः ॥
कूं-हां कौमारीकन्यकायै नमो दक्षांसके न्यसेत् ॥ ३०५ ॥
ॐ वाराहीकन्यकायै वामे पार्श्वे च विन्यसेत् ॥
ॐ सां चेन्द्राणीकन्यायै नमो दक्षिणपार्श्वके ॥ ३०६ ॥
ॐ चां चामुण्डाकन्यायै नमश्च ककुदि न्यसेत् ॥
अः लामुक्त्वा महालक्ष्मीकन्यायै च नमो हृदि ॥ ३०७ ॥
तारवागादिका अष्टौ सिद्धीश्च कन्यकान्तिमाः ॥
चतुर्थस्वरसंयुक्ता न्यसेच्छीर्षललाटयोः ॥
भ्रूमध्ये कण्ठहृन्नाभिमूलाधारान्तरेषु च ॥ ३०८ ॥
अणिमा महिमा चैव गरिमा लघिमा तथा ॥
वशिता चाथ प्राकाम्यं प्राप्तिरित्यष्टसिद्धयः ॥ ३०९ ॥
कामाद्या कन्यकाः प्रोक्ता अष्टावप्सरसो न्यसेत् ॥
के भाले नेत्रयोर्वक्त्रे कर्णयोः ककुदि ध्रुवम् ॥ ३१० ॥
उर्वशीं मेनकां रम्भां घृताचीं पुञ्जिकस्थलाम् ॥
सुकेशीं मञ्जुघोषां च महारङ्गवतीं तथा ॥ ३११ ॥
यक्षगन्धर्वसिद्धानां कन्यका नरनागयोः ॥
विद्याधरकिम्पुरुषपिशाचानां क्रमेण च ॥ ३१२ ॥
अंसयोर्हृदये न्यस्य स्तनयोर्जठरे तथा ॥
गुह्ये चाधारदेशे च क्लीमाद्याश्च नमोन्तकाः ॥ ३१३ ॥
ताराद्यान्नमसा युक्तान्मूलवर्णान्सबिन्दुकान् ॥
न्यसेत्सन्धिषु साग्रेषु करयोः पादयोरपि ॥ ३१४ ॥
अंसश्च कूर्प्परश्चैव मणिबन्ध्ॐगुलीतलम् ॥
करस्य सन्धयश्चैते स्फिग्जानु च ततो भवेत् ॥ ३१५ ॥
गुल्फमङ्गुलिमूलं च चत्वारः पादसन्धयः ॥
न्यासानेवं विधान्कृत्वा लघुश्यामां ततः स्मरेत् ॥ ३१६ ॥
सुधार्णवान्तर्द्वीपस्थरत्नमन्दिरमध्यगाम् ॥
माणिक्याभरणां स्मेरां नीलोत्पलनिभाम्बराम् ॥ ३१७ ॥
अलक्तैर्लिप्तपादाब्जां वीणावादनतत्पराम् ॥
त्र्यक्षां ताम्बूलपूर्णास्यां स्मरेच्च शशिशेखराम् ॥ ३१८ ॥
मातङ्गीं प्रोदिते पीठे लघुश्यामां प्रपूजयेत् ॥
त्रिकोणे पञ्चकोणेषु दले षोडशपत्रके ॥ ३१९ ॥
वेदद्वारधरागेहावृतेग्न्यादिककोणके ॥
इच्छाज्ञानक्रियाशक्तीस्तदग्रे बाणपञ्चकम् ॥ ३२० ॥
केशरेष्वङ्गदेवांश्च ब्राह्म्याद्याश्चाष्टपत्रके ॥
अणिमाद्याश्च यन्त्राग्रे यजेत्षोडशपत्रके ॥ ३२१ ॥
उर्वश्याद्याश्च कन्याश्च चतुर्दिक्षु च भूगृहे ॥
गजाननां सिंहमुखीं गृध्रास्यां काकतुण्डिकाम् ॥ ३२२ ॥
उष्ट्रग्रीवां हयग्रीवां वाराहीं शरभाननाम् ॥
उलकीं च शिवारावां मयूरीं विकटाननाम् ॥ ३२३ ॥
अष्टवक्त्रीं कोटराक्षीं वक्रां विकटलोचनाम् ॥
समर्चयेद्दिशि प्राच्यामेताः षोडश योगिनीः ॥ ३२४ ॥
शुष्कोदरी ललज्जिह्वा ह्यदंष्ट्रा वानरानना ॥
त्र्यक्षा च केकराक्षी च बृहत्तुण्डा सुराप्रिया ॥ ३२५ ॥
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ॥
पाशहस्ता दण्डहस्ता प्रचण्डेति च दक्षिणे ॥ २६ ॥
पूज्याश्चाथ प्रवीथ्यां तु दश चण्डविधिक्रमैः ॥
शिशुघ्नी पापहन्त्री च काली रुधिरपायिनी ॥ ३२७ ॥
वसान्धया गर्भभक्षा शवहस्तान्त्रमालिनी ॥
शूलकेशी बृहत्कुक्षी सर्प्पास्या प्रेतवाहिनी ॥ ३२८ ॥
दन्दशूककरा क्रौञ्ची भूतरम्या वृषानना ॥
व्याघ्रास्या भीमनिःश्वासा व्योमैकचरणार्धदृक् ॥ ३२९ ॥
लापिनी शेषिणी दृष्टिः कातरा स्थूलनासिका ॥
विद्युत्प्रभा बलाकास्या मार्ज्जारी कटिलानना ॥ ३३० ॥
अट्टाट्टहासा कामाक्षी श्वसमानश्रुतिस्तथा ॥
क्रमाड्डाकिन्य एताश्च पूज्या वह्न्यादिकोणके ॥ ३३१ ॥
स्वस्वमन्त्रेण बटुकं गणेशं क्षेत्रपालकम् ॥
दुर्गां तद्बहिरिन्द्रादीन्वज्रादीन्यपि पूजयेत् ॥ ३३२ ॥
चतुर्द्वारेषु वाद्यानि तन्वानानि धनिन्धनम् ॥
सुचिरं चेति पूजोक्ता द्वादशावरणैरियम् ॥ ३३३ ॥
सर्वासांसम्पदां पाता चैतदाराधको भवेत् ॥
मातङ्गीमन्त्रसम्प्रोक्ताः प्रयोगाश्चात्र कीर्तिताः ॥ ३३४ ॥
अथ वक्ष्यामि गायत्रीं प्रोक्षयेदनयाखिलम् ॥
यागद्रव्यं च भूपालस्तद्वशे राजपुत्रकाः ॥ ३३५ ॥
भवन्ति वशगास्तस्य येन गायत्र्युपासिता ॥
देवीवन्माननीयाश्च स्त्रियो निन्द्या न जातुचित् ॥ ३३६ ॥
अथातः सम्प्रवक्ष्यामि पञ्चकामेश्वरीमनुम् ॥
कामस्य बाणबीजानां मन्त्रोयं परिकीर्तितः ॥ ३३७ ॥
ऋषिः सम्मोहनश्छन्दो गायत्री देवता भवेत् ॥
बाणेशी सर्वव्यस्तेन मनुनोक्तं षडङ्गकम् ॥ ३३८ ॥
मूर्ध्नि पादे मुखे गुह्ये हृदये पञ्च देवताः ॥
न्यस्तव्याः पञ्चबज्राद्या द्रावणी क्षोभणी तथा ॥ ३३९ ॥
वशकारिण्याकार्षिण्यौ सम्मोहिन्यपि पँचमी ॥
अरुणा रक्तवसना नानारत्नैरलङ्कृता ॥
बाणान्धनुः सृणिं पाशं हस्तैस्सन्दधतीर्भजे ॥ ३४० ॥
मोहिनी क्षोभिणी श्यामा स्तम्भिन्याकर्षिणी तथा ॥
द्राविणी ह्लादिनी क्लिन्ना क्लेदिनी पीठशक्तयः ॥
बाणेशीयोगपीठाय नमो मूलादिको मनुः ॥ ३४१ ॥
दत्त्वानेनासनं मन्त्री तस्मिन्देवीं प्रपूजयेत् ॥
आदौ षडङ्गान्याराध्य दिक्ष्वग्रे द्राविणीमुखाः ॥ ३४२ ॥
दलेष्वनङ्गरूपा स्यादनङ्गमदना तथा ॥
अनङ्गमन्मथानङ्गकुसुमा मदनातुरा ॥ ३४३ ॥
अनङ्गाद्या तथानङ्गनिशितानङ्गमेखला ॥
अनङ्गभूमिका भूमिपुरे दिक्पाश्च सायुधाः ॥ ३४४ ॥
पञ्चलक्षं जपेन्मन्त्रं हुनेदाज्यं दशांशतः ॥
तर्प्पणादि ततः कृत्वा प्रयोगार्हो मनुर्भवेत् ॥ ३४५ ॥
दधियुक्तैरशोकस्य पुष्पैर्वा दिवसत्रयम् ॥
सहस्रं जुहुयात्तस्य वश्याः स्युः प्राणिनोखिलाः ॥ ३४६ ॥
लाजैर्दधियुतैर्मन्त्री होमात्कन्यामवाप्नुयात् ॥
कन्यापि वशमायाति मासद्वितयमध्यतः ॥ ३४७ ॥
गव्याज्येन ससम्पातं हुत्वा चाष्टशतं ततः ॥
आज्यं सम्पातितं दद्यात्स्त्रियै सम्पाद्य तत्त्विदम् ॥ ३४८ ॥
सा तदाज्यं कान्तभावं भावयित्वा वशं नयेत् ॥
सुगन्धकुसुमैर्हुत्वा धनमाप्नोति वाञ्छितम् ॥ ३४९ ॥
अथ वक्ष्ये रुद्रशीर्षनिवासिन्याः परं मनुम् ॥
तारो नमः शिवाये च नारायण्यै पदं वदेत् ॥ ३५० ॥
दशहरायै गङ्गायै स्वाहान्तो विंशदर्णकः ॥
व्यासो मुनिः कृतिश्छन्दो देवी गङ्गा प्रकीर्त्तिता ॥ ३५१ ॥
त्रिवह्निवेदबाणाग्निनेत्रवर्णैः षडङ्गकम् ॥
चतुर्भुजां त्रिनेत्रां च सर्वाभरण भूषिताम् ॥ ३५२ ॥
रत्नकुम्भसिताम्भोजवराभयलसत्कराम् ॥
चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम् ॥ ३५३ ॥
लक्षं जपेद्दशांशेन जुहुयात्सघतैस्तिलैः ॥
जयादिशक्तिभिर्युक्ते पीठे भागीरथीं यजेत् ॥ ३५४ ॥
पूजयेत्केशरेष्वङ्गं दले रुद्रं हरिं विधिम् ॥
सूर्य्यं हिमाचलं मेना भगीरथमपां पतिम् ॥ ३५५ ॥
दलाग्रतो मीनकूर्ममण्डूकमकरानपि ॥
हंसान्कारण्डवांश्चक्रवाकान्सारसकान्यजेत् ॥ ३५६ ॥
चतुरस्रे शक्रमुख्यानायुधैः संयुतान्यजेत् ॥
एवं संसाधितो मन्त्रोभीष्टं यच्छति मन्त्रिणे ॥ ३५७ ॥
ज्येष्ठशुक्लदशम्यां तु विशेषेण भजेद्बुधः ॥
दद्याद्दशभ्यो विप्रेभ्यो दशप्रस्थमितांस्तिलान् ॥ ३५८ ॥
जप्त्वा सहस्रं हुत्वा च तथोपोष्य विकल्मषः ॥
सर्वभोगसमायुक्तो जायते मानवो भुवि ॥ ३५९ ॥
गङ्गातीरे वर्णलक्षं जपित्वाब्जानि होमयेत् ॥
श्रीबीजपूर्वमनुना तस्य श्रीः सर्वतोमुखी ॥ ३६० ॥
जपित्वैवं पक्वबिल्वैर्हुत्वा वश्यं जगद्भवेत् ॥
तिलैर्हुत्वा दहेत्पापं दूर्वाभिश्च महागदान् ॥ ३६१ ॥
ताम्बूलहोमादाप्नोति भोगान्नृपतिदुर्ल्लभान् ॥
अर्चयित्वा तु यो गङ्गां तुलसीमञ्जरीं क्षिपेत् ॥ ३६२ ॥
मन्त्रं पठित्वा लक्षैकमेकान्ते स्थिरमानसः ॥
गङ्गाप्रवाहवत्तस्य स्याद्वाग्भूतिविजृम्भिता ॥ ३६३ ॥
अथान्यं सम्प्रवक्ष्यामिवामाचाराघनाशनम् ॥
बहिर्यजनकर्त्तारः सिद्धाः स्युर्यत्प्रभावतः ॥ ३६४ ॥
तारो नमो भगवति वाग्भवं च लिहिद्वयम् ॥
हिलिद्वयं च गङ्गे मां पावयद्वितयं वदेत् ॥ ३६५ ॥
स्वाहान्तः सप्तविंशार्णो मनुः पापप्रणाशनः ॥
ईश्वरोस्य मूनिश्छन्दोमितं गङ्गा च देवता ॥
रामवेदेषुसप्ताङ्गनेत्रार्णैरङ्गकल्पनम् ॥ ३६६ ॥
रक्ताम्बरां रक्तवर्णां शूलकुम्भवराभयान् ॥
करैः सन्दधतीं स्मेरां कच्छपस्थां सुरादिभिः ॥
सदैव सर्वपापस्य नाशाय सुनिषेविताम् ॥ ३६७ ॥
कर्णिकायां यजेद्देवीं षडस्रेष्वङ्गपूजनम् ॥
ततोब्ध्यस्रे तु कावेरीं यमुनां गण्डकीमपि ॥ ३६८ ॥
कौशिकीं च समभ्यर्च्य तद्वद्बाह्यदलेषु च ॥
सुरासिन्धुमासवाब्धिं दुग्धसिन्धुं मधूद्भवम् ॥ ३६९ ॥
दधिसिन्धुं चाज्यसिन्धुं मद्यसिन्धुमिराभवम् ॥
धातुसिन्धुं रत्नसिन्धुं सिन्धुमिक्षुरसोद्भवम् ॥
माध्वीसिन्धुं क्षारसिन्धुं सुधायाः सिन्धुमुद्भवम् ॥ ३७० ॥
दिगीश्वरान्भूपुरे च पूजितैवं सरिद्वरा ॥
अलोभाद्वाममार्गेपि कृतं पापं विनाशयेत् ॥ ३७१ ॥
वर्णलक्षं जपेद्धोमः पद्मैः प्रोक्तो दशांशतः ॥
एवंसिद्धमनुर्मन्त्री मर्वादिनिर्जलस्थले ॥ ३७२ ॥
देशे गत्वा जलार्थं तु पुरश्चर्य्यां समाचरेत् ॥
होमादि सर्वम् इर्वर्त्य गङ्गामावाहयेत्ततः ॥ ३७३ ॥
तत्र कूपादिकं कृत्वा भवेत्तदमृतोपमम् ॥
कल्पस्थापिततोयौघं समस्तगदनाशनम् ॥ ३७४ ॥
इयमादिमसप्तार्णहीना स्याच्च नखाक्षरी ॥
प्राग्वन्मुन्यादिकं बाणवेदत्रित्रित्रिबाहुभिः ॥ ३७५ ॥
मन्त्रार्णैः स्युः षडङ्गानि पुरश्चर्य्या तु लक्षकम् ॥
होमद्रव्यादिकं प्राग्वत्सिद्धमन्त्रः समाचरेत् ॥ ३७६ ॥
प्रयोगाञ्जलमध्ये तु स्थित्वा जप्त्वायुतम्मनुम् ॥
त्र्यहादवर्षाकालेपि वृष्टिर्भवति भूयसी ॥ ३७७ ॥
अयुतं च मनुं जप्त्वा सहस्रैर्जलजैर्हुनेत् ॥
सम्पाताज्यं पिबेद्या स्त्री गौर्वा क्षीरनिधिर्भवेत् ॥ ३७८ ॥
अनेन मन्त्रितं तोयं वर्षमेकं पिबेत्तु या ॥
तस्याः पुत्राः प्रजायन्ते भीष्मतुल्यपराक्रमाः ॥ ३७९ ॥
एतन्मन्त्रजपासक्तः पादतीर्थं क्षिपेद्धृदि ॥
भूताविष्टस्य तत्कालं मुक्तो भवति नान्यथा ॥ ३८० ॥
तारो हिलिमिलिद्वन्द्वं गङ्गे देवि नमो मनुः ॥
तिथिवर्णोस्य मुन्यादिपूजा पूर्ववदीरिता ॥ ३८१ ॥
त्रिद्विद्व्यक्षिकृतद्व्यर्णैः षडङ्गविधिरीरितः ॥
एतस्य भजनाज्जन्तोर्नातीर्थे मरणम्भवेत् ॥ ३८२ ॥
तारो लज्जा रमा हार्दं ततो भगवतीपदम् ॥
सम्बुद्धौ गङ्गदयिते नमो वर्म तथास्त्रकम् ॥ ३८३ ॥
अष्टादशार्णो मन्त्रोयम्मुन्याद्यम्पूर्ववन्मतम् ॥
जपादिना सिद्धमन्त्रः प्रयोगानाचरेदथ ॥ ३८४ ॥
पुत्र जीवफलैर्होमात्पुत्रः शीलयुतो भवेत् ॥
गुडूच्या रोगनाशः स्याद्रमा पद्मादिहोमतः ॥ ३८५ ॥
लक्ष्मीप्राप्तिः श्रीफलैश्च सर्षपैरभिचारकः ॥
जातीप्रसूनैर्वश्यं स्याज्जपापुष्पैर्जयो भवेत् ॥ ३८६ ॥
अथातः सम्प्रवक्ष्यामि वाङ्मत्याश्च मनुद्वयम् ॥
वाग्बीजं प्रथमं हृच्च नारदोस्य मनोर्मुनिः ॥ ३८७ ॥
छन्दोनुष्टुब्देवतात्र वाङ्मयी परिकीर्तिता ॥
बीजपूर्वैश्च षड्दीर्घैः षडङ्गविधिरीरितः ॥ ३८८ ॥
श्वेताम्बरां श्वेतवर्णां श्वेतगन्धानुलेपनाम् ॥
सुधाकुम्भं च पद्मं च वीणां पुस्तकमेव च ॥
करैर्दधानां मीनस्थां मुक्ताभरणभूषिताम् ॥ ३८९ ॥
एवं ध्यात्वा कर्णिकायां यजेद्देवीं षडस्रके ॥
रुद्रधारां मतिमतीं फल्गुं विष्णुमतीं तथा ॥
प्रभावतीं भानुमतीं भूपुरे तु दिगीश्वरान् ॥ ३९० ॥
लक्षत्रयं जपेन्मन्त्रं पञ्चखाद्यैस्तथा हुनेत् ॥
तर्प्पणादि ततः कृत्वा सिद्धमन्त्रः प्रजायते ॥ ३९१ ॥
सद्योजातस्यबालस्य जिह्वायां बीजमालिखेत् ॥
मधुना स्वर्णलेखन्या सोष्टवर्षः कविर्भवेत् ॥ ३९२ ॥
वाङ्मत्यां वाथ गङ्गायां पुरश्चर्य्यां करोति यः ॥
द्वितीयादप्रतिग्राही भिक्षाशी वाथ मौनवान् ॥ ३९३ ॥
ब्रह्मचारी भूमिशायी श्वेताम्बरधरः शुचिः ॥
वाक्सिद्धिं लभतेवश्यं दाता भोक्ता त्वयाचकः ॥ ३९४ ॥
रमात्रपावाग्बीजानि वदेन्ङेन्तां च वाङ्मतीम् ॥
नमो ममेति च पदं धारणां च धियन्तथा ॥ ३९५ ॥
वाचं गुणान्प्रदेहीति स्वाहान्तस्तत्त्ववर्णकः ॥
मुन्यादिकन्तथा पूजा पुरश्चर्य्या च पूर्ववत् ॥ ३९६ ॥
स्खलज्जिह्वमनुष्यस्य जिह्वायां तुलसीदलैः ॥
वचाकल्केन मन्त्रं तु लिखित्वा भानुवासरे ॥ ३९७ ॥
हविष्यमन्नम्भुञ्जीत मौनी लवणवर्ज्जितम् ॥
सप्तभिर्भानुवारैश्च साक्षात्स्याद्धिषणोपमः ॥ ३९८ ॥
अश्रुतग्रन्थबोधाय ब्रह्मचारी जितेन्द्रियः ॥
रवौ तु पायसे मन्त्रं लिखेत्स्वर्णशलाकया ॥ ३९९ ॥
तदेव पायसं भुक्त्वा ध्यात्वा देवीं स्वपेन्निशि ॥
स्वप्ने तमर्थं शृणुयात्प्रातर्बीजं स्वयं स्मरेत् ॥ ४०० ॥
अथातः सम्प्रवक्ष्यामिमणिकर्णीमनुद्वयम् ॥
तारो वाघ्रीं रमाकामस्तारो मं मणिकर्णिके ॥ ४०१ ॥
नमोन्तश्शक्रवर्णोयं मनुः परमदुर्लभः ॥
मुनिर्व्यासोतिशक्वरी छन्दः स्यान्मणिकर्णिका ॥ ४०२ ॥
देवता चन्द्रनेत्राक्षिद्वीषुद्व्यर्णैः षडङ्गकम् ॥
बीजपूरं दक्षहस्ते वामे चेन्दीवरस्रजम् ॥ ४०३ ॥
बद्धाञ्जलिः श्वेतवस्त्रा त्र्यक्षा चन्द्रनिभानना ॥
पश्चिमाभिमुखी स्मेरापद्मस्था पद्ममालिका ॥ ४०४ ॥
नानाभरणभूषाढ्या ध्येया श्रीमणिकर्णिका ॥
लक्षत्रयं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ॥ ४०५ ॥
पुण्डरीकैरुक्तयन्त्रे यजेत्तां गङ्गया समम् ॥
आवाह्य कलशे देवीं पूजयेदयुतं जपेत् ॥ ४०६ ॥
जपन्कारागृहस्थो वा स्यात्प्रसूतिविरोधिनी ॥
पायसं भक्षयेन्मुक्ती रोगपीडा च नश्यति ॥ ४०७ ॥
भूतप्रेतपिशाचानां मोक्षदं परमोमतः ॥
भुक्तिमुक्तिप्रदो मन्त्रो धनधान्यसमृद्धिदः ॥
वंशवृद्धिकरः प्रोक्तः काशीवासप्रदायकः ॥ ४०८ ॥
तारो मं मणिशब्दान्ते कर्णिके प्रणवात्मिके ॥
नमश्चतुर्दशार्णोयं मुन्याद्यं पूर्ववन्मतम् ॥ ४०९ ॥
पदैः सम्पूर्णमन्त्रेण षडङ्गविधिरीरितः ॥
ऐं-श्रीं मेकलकन्यायै नर्मदायै हृदादिकम् ॥ ४१० ॥
सोमोद्भवायै देवापगायै हृदयपूर्वकम् ॥
हृदादिषु प्रकल्पायै हृदयं देववर्णकः ॥ ४११ ॥
भृग्वृर्षिरमितं छन्दो देवता नर्मदा मता ॥
डेन्तैः पृथक् पञ्चपदैः समस्तैरङ्गकल्पनम् ॥ ४१२ ॥
कनकाभां कच्छपस्थां त्रिनेत्रां बहुभूषणाम् ॥
पद्माभयसुधाकुम्भवराद्यान्बिभ्रतीङ्करैः ॥ ४१३ ॥
मध्ये देवीं षड्दलेषु षडङ्गानि प्रपूजयेत् ॥
घोणां ज्योतिष्मतीं चापि वामदक्षिणतो यजेत् ॥ ४१४ ॥
इन्द्रादयो दिगीशाश्च पूज्याभूपुरवीथिषु ॥
लक्षं जपेद्धुनेद्यो वै भुक्तिम्मुक्तिं ततो भजेत् ॥ ४१५ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते भैरवादिमनुकथनं नाम द्वाविंशः प्रकाशः ॥ २२ ॥