३१ शिवमन्त्रकथनं

श्रीदेव्युवाच ॥

श्रुता गाणेश्वराः सौरा वैष्णवा मनवो मया ॥
इन्दानीं श्रोतुमिच्छामि तव मन्त्रान्ससिद्धिदान् ॥ १ ॥

श्रीमहादेव उवाच ॥

कथयिष्यामि ते देवि शैवान्मन्त्रान्महाद्भुतान् ॥
यान्साधयित्वा भोगांस्तु भुक्त्वा मोक्षमवाप्नुयात् ॥ २ ॥

नमः शिवायेति मन्त्रः पञ्चार्णस्तारपूर्वकः ॥
षडक्षरोयं विप्राणां भुक्तिमुक्तिप्रसाधकः ॥ ३ ॥

वामदेवो मुनिश्छन्दः पङ्क्तिर्देवः सदाशिवः ॥
षडर्णैस्तु षडङ्गानि पञ्चार्णैरङ्गपञ्चकम् ॥ ४ ॥

तर्ज्जन्योर्विन्यसेन्नं तत्पुरुषाय नमस्त्विति ॥ ५ ॥

मध्यमानामिकयोर्विन्यसेच्चक निष्ठयोः ॥
शिम्प्रोच्य सद्योजाताय नमोथानामयोर्न्यसेत् ॥
वामुक्त्वा वामदेवाय नमोथाङ्गुष्ठयोर्न्यसेत् ॥ ६ ॥

यमीशानाय हृदये चैवमेव मुखे न्यसेत् ॥
हृदये पादयोर्गुह्ये न्यासोयं स्यात्तृतीयकः ॥ ७ ॥

प्रग्याम्यवारुणोदीचीमध्ये चक्रेषु पञ्चसु ॥
एवमेव न्यसेत्प्रोक्तो न्यासोयं पञ्चमोघहृत् ॥ ८ ॥

ॐसर्वशक्तिधाम्ने हृदयाय च नमोवदेत् ॥
नमुक्त्वा नित्यतृप्तेति शक्तिधाम्ने शिरो भवेत् ॥ ९ ॥

ममित्युक्त्वानादिबोधशक्तिधाम्ने शिखा भवेत् ॥
शिमनन्तशक्तिधाम्ने कवचाय नमस्त्विति ॥ १० ॥

वामनन्तशक्तिधाम्ने नमो नेत्रत्रयाय च ॥
यमनन्तशक्तिधाम्ने वदेदस्त्राय फट् तथा ॥ ११ ॥

षोढा न्यासं ततः कुर्यान्मन्त्रार्णैर्बिन्दुसंयुतैः हृदि वक्त्रे दक्षिणांसे वामांसे दक्षिणोरुके ॥ १२ ॥

वामोरौ प्रथमश्चायं कण्ठे नाभौ च दक्षिणे ॥
पार्श्वे च वामपार्श्वे च पृष्ठे हृदि द्वितीयकः ॥ १३ ॥

मूर्ध्नि वक्त्रे दक्षनेत्रे वामनेत्रे तथैव च ॥
दक्षनासापुटे वामनसि प्रोक्तस्तृतीयकः ॥ १४ ॥

दक्षदोर्मूलके मध्ये मणिबन्धेङ्गुलीतले ॥
मध्येङ्गुलीनामग्रे च चतुर्थः परिकीर्त्तितः ॥ १५ ॥

एवमेव प्रकर्त्तव्यो वामदोर्मूलकादिषु ॥
दक्षोरुमूले मध्ये च गुल्फे चाङ्गुलिमूलके ॥ १६ ॥

अङ्गुल्यग्रे च वमोरावेवमेव न्यसेद्बुधः ॥
पञ्चमोयं भवेन्न्यासो मूर्ध्नि वक्त्रे हृदि न्यसेत् ॥ १७ ॥

उदरे वापि दक्षोरुमूलादिचरणान्तकम् ॥
वामोरुमूलपादाग्रपर्य्यन्तः षष्ठकस्त्वयम् ॥ १८ ॥

ततो हृदि मुखे कण्ठे न्यसेद्बाहुद्वये तथा ॥
पुनर्वक्त्रांसहृत्पादद्वयोरुजठरे न्यसेत् ॥ १९ ॥

पुनर्मूर्ध्नि च भाले च जठरे चांसयोर्हृदि ॥
एवं द्वादशधा न्यस्य वामेन पङ्कजं चरेत् ॥ २० ॥

नमोस्तु स्थानभूताय ज्योतिर्लिङ्गामृतात्मने ॥
चतुर्मूर्त्तिवपुस्स्थाय भसिताङ्गाय शम्भवे ॥ २१ ॥

ततो ध्यायेत्तु गोक्षीररजताद्रिसमप्रभम् ॥
चारुचन्द्रकलाराजज्जटामुकुटमण्डितम् ॥ २२ ॥

पञ्चवक्त्रधरं शम्भुं प्रतिवक्त्रं त्रिलोचनम् ॥
शार्दूलचर्म्मवसनं रत्नाभरणभूषितम् ॥ २३ ॥

दक्षोर्ध्वहस्ते टङ्कं च वरं च दधतं करैः ॥
वामोर्ध्वहस्ते हरिणन्दधानमभयम्परे ॥ २४ ॥

सुप्रसन्नमुखाम्भोजं निविष्टं कुशविष्टरे ॥
ब्रह्मविष्णुमहेशाद्यैः स्तुतं कृष्णं सुरासुरैः ॥ २५ ॥

विश्वद्यं विश्वावपुषं भवभीतिहरं भवम् ॥
ध्यात्वार्चयेत्ततः पीठे षोडशैरुपचारकैः ॥ २६ ॥

नवैताः शम्भुपीठस्य शक्तयः परिकीर्त्तिताः ॥
वामा ज्येष्ठा ततो रौद्री काली कलविकर्णिका ॥ २७ ॥

ततो बलविकर्णा च बलप्रमथनी तथा ॥
सर्वभूतदमन्याख्या ततः प्रोक्ता मनोन्मनी ॥ २८ ॥

तारो नमो भगवते सकलेति पदं वदेत् ॥
गुणात्मशक्तियुक्ताय योगपीठात्मने नमः ॥ २९ ॥

योगपीठस्य पूजायां मन्त्रो रसकरार्णवान् ॥
आवाह्य देवं सम्पूज्य पुष्पान्तैरुपचारकैः ॥ ३० ॥

ततश्चाष्टदले पूज्य दिक्पत्रेषु शिवाग्रतः ॥
तत्पुरुषो ह्यघोरश्च सघोजातस्ततः परम् ॥ ३१ ॥

वामदेवस्तथेशानो 1 मध्यकोणेषु संयजेत् ॥
निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं तु मध्यतः ॥ ३२ ॥

शान्त्यतीता तथा बाह्येष्टदले केशरेषु च ॥
अग्नीशासुरवायव्यमध्ये सर्वत्र केशरे ॥ ३३ ॥

षडङ्गान्वयपत्रेषु देवाग्रात्तु प्रदक्षिणम् ॥
अनन्तसूक्तं च शिवम्महोक्षं चैकनेत्रकम् ॥
एकरुण्डं त्रिमूर्त्तिं च श्रीकण्ठं च शिखण्डिनम् ॥ ३४ ॥

रक्तपीतासितारक्तकृष्णरक्ताञ्जनासितान् ॥
किरीटार्पितबालेन्दून्पद्मस्थांश्चारुभूषणान् ॥ ३५ ॥

त्रिनेत्रान्प्रतिवक्त्रेषु चापहस्तान्मनोरमान् ॥
उमां चण्डेश्वरं नन्दिमहाकालौ महेश्वरम् ॥ ३६ ॥

वृषभं भृङ्गिरीटिं च स्कन्दन्तद्बाह्यपङ्कजे ॥
उत्तरदलमालभ्य बीजनीलाहृतान्सितान् ॥ ३७ ॥

चित्रं निशाकराभं च पीतनीलान्यजेत्क्रमात् ॥
तद्बाह्ये चतुरस्रे च यजेदिन्द्रादिदिक्पतीन् ॥ ३८ ॥

अनन्तं च विधातारमीशं नैरृत्यपार्श्वतः ॥
तत्पार्श्वे तद्वाहनानि बाह्येस्त्राणि प्रपूजयेत् ॥ ३९ ॥

लक्षष्ट्कं जपेन्मन्त्रं नियमस्थो जितेन्द्रियः ॥
तत्सहस्रं प्रजुहुयात्तिलैः शुद्धैर्घृतप्लुतैः ॥ ४० ॥

पायसैः क्षीरवृक्षोत्थसमिद्भिर्वाथ होमयेत् ॥
तावत्सङ्ख्यातिलैः शुभ्रैस्तर्प्पयेच्च तथासितैः ॥ ४१ ॥

मार्ज्जयेत्तद्दशांशेन भोजयेच्छिवतत्परान् ॥
एवं संसाधितो मन्त्रः सर्वान्कामान्प्रयच्छति ॥ ४२ ॥

पर्वते लक्षमेकन्तु महानद्यां द्विलक्षकम् ॥
तीर्थे त्रिलक्षं सञ्जप्य हुनेद्दूर्वाङ्कुरैस्तिलैः ॥
तद्दशांशेन पूर्णायुर्नीरोगः साधको भवेत् ॥ ४३ ॥

अश्वत्थवृक्षं संस्पृश्य जपेल्लक्षद्वयं शनैः ॥
आम्रैर्हुनेत्तद्दशांशैर्दीघायुश्च युवा भवेत् ॥ ४४ ॥

आदित्यसम्मुखो भूत्वा जपेल्लक्षमनन्यधीः ॥
अर्कैरष्टशतं नित्यं हुनेद्रोगैर्विमुच्यते ॥ ४५ ॥

समस्तव्याधिनाशार्थं पालाशसमिधा हुनेत् ॥ ७२२)अयुतं रोगहीनः स्यादथ पूर्वोदितैर्यजेत् ॥ ४६ ॥

शान्त्यष्टकं च जुहुयादुपतिष्ठेत भास्करम् ॥
नित्यं तस्य महारोगा नाशं यान्ति न संशयः ॥ ४७ ॥

नवतोयेन सम्पूर्णं घटं संस्पृश्य सञ्जपेत् ॥
अयुतं तज्जलैः स्नानं रोगाणामौषधं स्मृतम् ॥ ४८ ॥

अष्टाविंशं जपित्वा तमश्नीयात्प्रत्यहं नरः ॥
हुनेच्चारुपलाशैश्च तावदारोग्यमाप्नुयात् ॥ ४९ ॥

पिबेदष्टोत्तरशतं जपित्वा योर्कसन्निधौ ॥
औदरैरामयैः सर्वैर्मासेनैकेन मुच्यते ॥ ५० ॥

एकादशेन भुञ्जीयादन्नं चैवाभिमन्त्रितम् ॥
भक्ष्यं चोष्यं तथा पेयं विषमप्यमृतं भवेत् ॥ ५१ ॥

चन्द्रसूर्य्यग्रहे पूर्वमुपोष्य विधिना शुचिः ॥
यावद्ग्रहणमोक्षस्तु तावन्नद्यां समाहितः ॥ ५२ ॥

जपेत्समुद्रगामिन्यां विमोक्षे ग्रहणस्य तु ॥
अष्टोत्तरसहस्रेण पिबेद्ब्राह्मीरसं ततः ॥ ५३ ॥

ऐहिकीं लभते मेधां सर्वश्रुतिवहां शुभाम् ॥
सारस्वती भवेद्देवी तस्य वागतिमानुषी ॥ ५४ ॥

ग्रहाणां चैव पीडासु जप्त्वायुतमथो हुनेत् ॥
तिलाज्यैरष्टसाहस्रं ग्रहपीडा विनश्यति ॥ ५५ ॥

दुःस्वप्नदर्शने स्नात्वा जपेच्चैवायुतं नरः ॥
घृतेनाष्टशतं हुत्वा दुःस्वप्नफलनाशनम् ॥ ५६ ॥

चन्द्रसूर्य्यग्रहे लिङ्गं समभ्यर्च्यायुतं जपेत् ॥
यत्किञ्चित्प्रार्थयेत्तस्य निकटेन तदाप्नुयात् ॥ ५७ ॥

गजानां तुरगाणां वा गवां वा व्याधिसम्भवे ॥
समिद्भिर्जुहुयान्मासमयुतं व्याधिशान्तये ॥ ५८ ॥

जप्त्वान्ते शस्त्रबाधायां जुहुयादयुतं शुचिः ॥
पलाशस्य समिद्भिस्तु तस्य शान्तिर्भविष्यति ॥ ५९ ॥

आत्मवादिकसन्ध्यायामेतदेव समाचरेत् ॥
प्रध्वंसयति तच्छक्तिं शत्रुस्तस्य मरिष्यति ॥ ६० ॥

विद्वेषणार्थं जुहुयाद्विभीतसमिधाष्टकम् ॥
परापकारः पापाय शृणु तत्पापनाशनम् ॥ ६१ ॥

मां ध्यात्वैकाग्रचित्तेन चाभिषिञ्चेत्समन्त्रतः ॥
अष्टोत्तरशतं जप्तैस्तोयैः पापं लयं व्रजेत् ॥
सन्ध्योपासनविच्छेदे सहस्रैकं जपेत्तथा ॥ ६२ ॥

विड्वराहैश्च चाण्डालैर्मार्ज्जारैःकुक्कुटैरपि ॥
स्पृष्टमन्नं न भुञ्जीत तत्र चाष्टशतं जपेत् ॥ ६३ ॥

ब्रह्महत्याविशुद्ध्यर्थं जपेल्लक्षायुतं नरः ॥
योनिजेषु तदर्धं स्यात्तदर्धं भूपयोनिके ॥ ६४ ॥

सहस्रपञ्चकं क्षुद्रपापेषु जप ईरितः ॥
जितेन्द्रियो जपेल्लक्षपञ्चकं शिवदृङ्मनाः ॥ ६५ ॥

ब्राह्मणो वान्यकुलजो वायुपञ्चकजिद्भवेत् ॥
निगृहीतेन्द्रियः पञ्चलक्षं जप्त्वेन्द्रियं जयेत् ॥ ६६ ॥

पञ्चविंशलक्षजपात्तत्त्वानां विजयी भवेत् ॥
मध्यरात्रेयुतं जप्त्वा निकटे ब्रह्मसिद्धिभाक् ॥ ६७ ॥

जपेद्वने शिवमना निर्वाते ध्वनिवर्ज्जिते ॥
मध्यरात्रे विवश्यश्च तद्वशो भवति ध्रुवम् ॥ ६८ ॥

शिवमभ्यर्च्य साहस्रजपो नित्यं रमाप्रदः ॥
सहस्रद्वयजापेन महारोगैः प्रमुच्यते ॥ ६९ ॥

सहस्रत्रयजापेन दीर्घमायुर्लभेत ना ॥
चतुस्सहस्रजापेन वाञ्छितानि समाप्नुयात् ॥ ७० ॥

तिलैः शुद्धैर्घृताज्याक्तैः प्रत्यहं त्रिसहस्रकम् ॥
मासं हुत्वा विनश्येत्तु रोगस्तस्य न सम्भवेत् ॥ ७१ ॥

अयं 2 षडक्षरो मन्त्रः षोढा स्यादक्षरात्मकः ॥
लक्षमेकं पुरश्चर्य्या मुनयोमी प्रकीर्त्तिताः ॥ ७२ ॥

ब्रह्मा च गौतमोत्रिश्च विश्वामित्रस्तथाङ्गिराः ॥
भरद्वाजोथ छन्दांसि पङ्क्तिगायत्र्यनुष्टुभः ॥ ७३ ॥

त्रिष्टुप् च बृहती चेति विराट् चैवात्र देवताः ॥
परब्रह्मेन्द्रविष्णू च विधात्र्यश्विगुहाः क्रमात् ॥ ७४ ॥

ज्योतिर्वर्णः कुङ्कुमाभो मेचको धूम्रवर्णकः ॥
पीतोरुणः क्रमाद्वर्णा देवतानां प्रकीर्त्तिताः ॥ ७५ ॥

क्रमान्नियोगो मोक्षार्थं गतराज्याप्तये श्रिये ॥
ऐश्वर्य्याय च विद्यायै निजपापक्षयाय च ॥ ७६ ॥

लज्जयाद्यन्तयोर्युक्तः पञ्चार्णः सप्तवर्णकः ॥
षडर्णश्चाष्टवर्णः स्यादेवं मन्त्रद्वयं भवेत् ॥ ७७ ॥

वामदेवो मुनिः पङ्क्तिश्छन्दो देव उमापतिः ॥
तारषड्दीर्घमायाद्यैः स्यान्मन्त्रार्णैः षडङ्गकम् ॥ ७८ ॥

बन्धूककुसुमारक्तं चन्द्रार्धकृतशेखरम् ॥
शूलं कपालमभयं वरं च दधतं करैः ॥ ७९ ॥

वामोरुसंस्थितां देवीं श्लिष्यन्तं वामबाहुना ॥
स्मेरवक्त्रं त्रिनयनं सर्वाभरणभूषितम् ॥ ८० ॥

एवं ध्यात्वा यजेत्पीठे पूर्वोक्ते नवशक्तिके ॥
आदौ पञ्चदले पद्मे केशरेष्वङ्गषट्ककम् ॥ ८१ ॥

मध्ये प्राग्दक्षिणे दिव्ये पश्चात्पत्रेर्हणीयकाः ॥
हृल्लेखा गगनायुक्ता चतुर्थी तु कुलालिका ॥ ८२ ॥

महोच्छुष्मा क्रमादेताः पञ्चभूतसमप्रभाः ॥
पाशाङ्कुशवराभीतिधारिण्योमितभूषणाः ॥ ८३ ॥

तद्बाह्येष्टदले चैव वृषभाद्यष्टदेवताः ॥
सम्यग्ध्यात्वा क्रमादर्च्या देवाग्रादिप्रदक्षिणम् ॥ ८४ ॥

हिमालयाभं वृषभं तीक्ष्णास्यं तं त्रिलोचनम् ॥
सर्वाभरणसन्दीप्तं साक्षाच्छन्दस्स्वरूपिणम् ॥ ८५ ॥

कपालशूलविलसत्करं कालघनप्रभम् ॥
क्षेत्रपालं त्रिनयनं दिगम्बरमथार्चयेत् ॥ ८६ ॥

शूलटङ्काक्षवलयकमण्डलुलसत्करम् ॥
रक्ताकारं त्रिनयनं चण्डीशं परिपूजयेत् ॥ ८७ ॥

शङ्खचक्रवराभीतिकरां मरकतप्रभाम् ॥
दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां रत्नभूषणाम् ॥ ८८ ॥

पाशाङ्कुशवराभीतिधारिणं कुङ्कुमप्रभम् ॥
विघ्ननाशकमभ्यर्चेच्चन्द्रार्द्धकृतशेखरम् ॥ ८९ ॥

श्यामं रक्तोत्पलाकारं वामाङ्कन्यस्तसत्करम् ॥
त्रिनेत्रं रक्तवस्त्राढ्यं सेनापतिमथार्च्चयेत् ॥ ९० ॥

तद्बाह्येष्टदले पूज्या ब्राह्म्याद्याश्चाष्टमातरः ॥
तद्बहिश्चतुरस्त्राणि त्रीणि तद्वीथिकाद्वये ॥ ९१ ॥

इन्द्रादीन्दशदिक्पालांस्तदस्त्राणि बहिर्यजेत् ॥
मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि ॥ ९२ ॥

जुहुयान्मधुरासिक्तैरारग्वधसमिद्वरैः ॥
तर्प्पणं मार्ज्जनं प्राग्वद्विप्रसन्तर्प्पणन्तथा ॥ ९३ ॥

एवं सिद्धमनुः कुर्य्यात्प्रयोगाद्यञ्च पूर्ववत् ॥
एतत्संसाधनात्सम्पत्सन्ततिः सम्प्रजायते ॥ ९४ ॥

हौमित्यैकाक्षरो मन्त्रः प्रोक्तः प्रासादसञ्ज्ञकः ॥
वामदेवो मुनिश्छन्दः पङ्क्तिर्देवः सदाशिवः ॥ ९५ ॥

हम्बीजं शक्तिरौकारः सर्वाभीष्टे नियोजनम् ॥
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ ९६ ॥

पञ्चब्रह्मविधानाख्यं न्यासं शृण्वन्तु देवताः ॥
यस्मिन्कृते तु पञ्चत्वे जाते पञ्चमुखो भवेत् ॥ ९७ ॥

आदौ तु पञ्चमन्त्रेण मस्तके स्वे मुनिं न्यसेत् ॥
मुनिश्छन्दो देवतास्तु ध्यानपूर्वं हृदिन्यसेत् ॥
अयन्तु प्रथमो न्यासो देवताप्रीतिकारकः ॥ ९८ ॥

ईश्वरः सर्वविद्यानामीश्वरोस्य मनोर्मुनिः ॥
स एव देवो भूपङ्क्त्यनुष्टप्छन्दांसि चिन्तयेत् ॥ ९९ ॥

शक्तिं डमरुकाभीतिवरान्सन्दधतं करैः ॥
ईशानं त्रीक्षणं शुद्धं नागयज्ञोपवीतिनम् ॥ १०० ॥

मनोस्तत्पुरुषायेति मुनिस्तत्पुरुषः स्मृतः ॥
आपो देव्योस्य गायत्री छन्दो ध्यानं निरूप्यते ॥ १०१ ॥

परश्वधवराभीति दधानं विद्युदुज्ज्वलम् ॥
चतुर्मुखं तत्पुरुषं त्रिनेत्रं वृषगामिनम् ॥ १०२ ॥

अघोरेभ्योथ घोरेभ्यो मनोरग्निर्मुनिर्मतः ॥
अनुष्टुप्छन्द आख्यातं देव आपः प्रकीर्त्तिताः ॥ १०३ ॥

मालां दण्डं पाससृणी डमरुं खट्वकाङ्गकम् ॥
खड्गं कपालं हस्तैश्च दधतं त्रीक्षणं भजे ॥ १०४ ॥

अञ्जनाभं चतुर्वक्त्रं वामदेवं त्रिलोचनम् ॥
वराभयाक्षवलयकुठारं दधतं करैः ॥ १०५ ॥

सद्योजातं प्रपद्यामि मन्त्रस्य तु हरो मुनिः ॥
अञ्जनाभं चतुर्वक्त्रं भीमदन्तं भयापहम् ॥
नानाभीमगणैर्युक्तमघोरं चिन्तयेद्धृदि ॥ १०६ ॥

वामदेवायेति मनोर्वामदेवो मुनिः स्मृतः ॥
विकृतिश्छन्द उद्दिष्टं भर्गो देवः प्रकीर्त्तितः ॥ १०७ ॥

अथ द्वितीयं वक्ष्यामि न्यासं सर्वार्थसिद्धिदम् ॥
त्रैं श्रीं ह्रीं च तथाहं क्षैं हुं हौं च श्रीत्रयं वदेत् ॥ १०८ ॥

पराबीजद्वयं प्रोच्य सर्वज्ञाय हृदीरितम् ॥
अमृततेजोज्वालेति मालिने च पदं ततः ॥ १०९ ॥

तृप्ताय ब्रह्मशिरसे शिरोमन्त्र उदीरितः ॥
ज्वलितशिखिशिखायानादिबोधाय तच्छ्रिये ॥ ११० ॥

वज्राय वज्रहस्ताय स्वतन्त्राय तनुच्छिदे ॥
सौञ्चौंसौमिति सम्भाष्य मुनयेऽलुप्तशक्तये ॥ १११ ॥

नेत्रत्रयायेति मन्त्रो नेत्रस्यैव प्रकीर्त्तितः ॥
श्रीं परशुं च ङेन्तं हुं फट् तथानन्तशक्तये ॥ ११२ ॥

अस्त्रमुक्तं षडङ्गानि कुर्य्यादेवं समाहितः ॥
पूर्वदक्षिणपश्चाशासौम्यमध्येषु पञ्चसु ॥
मुखेषु विन्यसेदीशानादीन्पञ्च हि च क्रमात् ॥ ११३ ॥

तृतीयोथ तथेशानादिकानङ्गुष्ठकादिके ॥
न्यसेत्तिर्य्यक्छिरोवक्त्रहृदयाङ्घ्रिषु पञ्चमः ॥ ११४ ॥

पञ्चब्रह्ममनोर्न्यासानेवं कृत्वा ततः परम् ॥
अष्टत्रिंशत्कलान्यासं कुर्य्यात्तेजोभिवृद्धये ॥ ११५ ॥

ईशानादिकलाः पञ्च ह्यङ्गुष्ठादिषु विन्यसेत् ॥
प्रणवाद्यं मन्त्रपदं कला ङेन्ता नमोन्तकाः ॥ ११६ ॥

ईशानः सर्वविद्यानां शशिनी प्रथमा कला ॥
ईश्वरः सर्वभूतानामङ्गदाख्या ततः परम् ॥ ११७ ॥

ब्रह्माधिपत्याद्यर्णानां त्रिदशानां तथेष्टदा ॥
शिवो मेत्रास्तु मारीची चतुर्थी कथिता कला ॥ ११८ ॥

सदाशिव्ॐ तथैतस्य पञ्चमी चांशुमालिनी ॥
तत्पुरुषाय विद्महे शान्तिं पूर्वमुखे न्यसेत् ॥ ११९ ॥

महादेवाय धीमहि विद्याख्यां पश्चिमे मुखे ॥
तन्नो रुद्रः प्रतिष्ठाख्यां याम्यास्ये त्वष्टमीं न्यसेत् ॥ १२० ॥

प्रचोदयान्नित्यविद्यां नवमीमुदगानने ॥
अघोरेभ्यस्तामसीं तु दशमीं हृदि विन्यसेत् ॥ १२१ ॥

ग्रीवायामथ घोरेभ्यो मोहामेकादशीं न्यसेत् ॥
दक्षिणांसे घोररूपां विन्यसेद्द्वादशीं कलाम् ॥ १२२ ॥

घोरतरेभ्यो वामांसे निद्राख्यां तु त्रयोदशीम् ॥
सर्वेभ्यो नाभिमध्ये तु व्याचिताख्यां चतुर्दशीम् ॥ १२३ ॥

कुक्षौ तु सर्वसर्वेभ्यो भूतिः पञ्चदशी भवेत् ॥
नमस्ते अस्तु पृष्ठे तु सुधाख्या षोडशी कला ॥ १२४ ॥

वक्षःस्थले रुद्ररूपेभ्यः कला सप्तदशी मता ॥
वामदेवाय विरजां गुह्ये त्वष्टादशीं न्यसेत् ॥ १२५ ॥

वामदेवाय निरजां दक्षां दक्षांसके न्यसेत् ॥
श्रेष्ठाय नम इत्युक्त्वा वामांसे तु रतिं न्यसेत् ॥ १२६ ॥

रुद्राय नम इत्युक्त्वा दक्षोरौ पालिनीं न्यसेत् ॥
कालाय नमो द्वाविंशसञ्ज्ञां वामोरुके न्यसेत् ॥ १२७ ॥

त्रयोविंशी कलेत्युक्त्वा कलाख्यां दक्षजानुनि ॥
न्यसेच्छ्रियं विकर्णाय नमो वामे च जानुनि ॥ १२८ ॥

बलेत्युक्त्वा बुद्धिनाम्नीं दक्षजङ्घागतां स्मरेत् ॥
न्यसेज्ज्ञानां विकर्णाय नमो वामे च जङ्घके ॥ १२९ ॥

हृदि रात्रिं सप्तविंशीं बलाय नम इत्यपि ॥
कट्यां बलप्रमथनाय नमो गुह्यके न्यसेत् ॥ १३० ॥

सर्वभूतदमनाय मोहिनीं दक्षपार्श्वके ॥
वामपार्श्वे मनोन्मनाय नमश्चोभयं न्यसेत् ॥ १३१ ॥

सद्योजातं प्रपद्यामि सिद्धिं पादतलेत्ववाक् ॥
ऋद्धिं चोदक्पादतले सद्योजाताय वै नमः ॥ १३२ ॥

भवे श्रुतिं 3 त्रयस्त्रिंशीं दक्षहस्ततले न्यसेत् ॥
वामहस्ततले लक्ष्मीं चतुस्त्रिंशत्कलां न्यसेत् ॥ १३३ ॥

पञ्चत्रिंशीं नासिकायां मेधां नाभिभवे न्यसेत् ॥
षट्त्रिंशीं मूर्द्धनि क्षान्तिं विन्यसेच्च भुजे रमाम् ॥ १३४ ॥

सप्तत्रिंशीं भवेत्युक्त्वा शुद्धां न्यस्येदवाग्भुजे ॥
उद्भवाय नमः प्रोच्य तिर्य्यग्वामभुजे न्यसेत् ॥ १३५ ॥

ततश्च मूलमनुना पुटान्सव्ये च मन्त्रकान् ॥
सद्योजातादिकान्न्यस्य व्यापकन्यासमाचरेत् ॥ १३६ ॥

सदाशिवात्मकं ध्यात्वा स्वात्मानं सर्वदैवतैः ॥
अवस्थितं शिवोहं च ध्यात्वान्तः पूजनं चरेत् ॥ १३७ ॥

ततश्चावाह्य पूजायामीशानाद्यैश्च पञ्चभिः ॥
प्रथमावरणं ज्ञेयं द्वितीयं स्यात्षडङ्गकैः ॥ १३८ ॥

अनन्ताद्यैस्तृतीयं स्याच्चतुर्थं स्यादुमादिभिः ॥
इन्द्राद्यैः पञ्चमं चापि वज्राद्यैः षष्ठकं मतम् ॥ १३९ ॥

लक्षद्वयं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥
पञ्चविंशतिसाहस्रसम्मितैः करवीरजैः ॥ १४० ॥

जपापुष्पैस्तु पद्मैर्वा जुहुयात्तर्प्पणादिकम् ॥
कृत्वा संसिद्धमन्त्रस्तु कुर्य्यात्काम्यानि पूर्ववत् ॥ १४१ ॥

तारमायाधराबीजपूर्वं पञ्चाक्षरो मनुः ॥
अष्टवर्णो भवेदस्य वामदेवो मुनिर्मतः ॥
देवः सदाशिवः प्रोक्तः पङ्क्तिश्छन्द उदाहृतम् ॥ १४२ ॥

मायाप्रमादबीजाभ्यां भेदिताभ्यां च षट्स्वरैः ॥
षड्भिस्तथा मन्त्रवर्णैः षडङ्गानि सजातिभिः ॥ १४३ ॥

ध्यायेत्ततश्च सिन्दूरारुणं शम्भुं त्रिलोचनम् ॥
टङ्कं मृगं तथा देवीं चालिङ्गन्तं वरप्रदम् ॥ १४४ ॥

हस्तैश्चतुर्मिरारक्तपद्मं च दधतीं करैः ॥
पीतवृत्तघनोत्तुङ्गस्तनीं वामाङ्कसंस्थिताम् ॥ १४५ ॥

रक्तपद्मसमासीनं रक्तस्रग्गन्धलेपनम् ॥
एवन्ध्यात्वा च पञ्चार्णपीठे तद्वद्यजेद्धरम् ॥ १४६ ॥

अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं तथा हुनेत् ॥
घृताप्लुतैः पायसान्नैस्तर्प्पणादि ततश्चरेत् ॥ १४७ ॥

एवं सिद्धमनुः कुर्य्यात्प्रयोगान्हि षडर्णवत् ॥ १४८ ॥

ॐ जूं स इति मन्त्रस्य प्रोक्तो मृत्युञ्जयाभिधः ॥
ऋषिः कहोडो देव्यादिगायत्री छन्द ईरितम् ॥ १४९ ॥

मृत्युञ्जयो महादेवो देवता परिकीर्त्तितः ॥
षड्दीर्घयुक्तभृगुणा षडङ्गानि समाचरेत् ॥ १५० ॥

स्मरेत्पद्मद्वयस्थं च चन्द्रार्काग्नित्रिलोचनम् ॥
हस्तेषु ज्ञानमुद्रां च पाशरुद्रा क्षमालिके ॥ १५१ ॥

कर्पूराभं शीर्षचन्द्रं करोद्गामृतधारया ॥
अर्धाङ्गं बहुभूषाढ्यं कान्ताभिश्च विमोहितम् ॥ १५२ ॥

एवं सम्पूजयेत्पीठे मूर्तिं मूलेन कल्पयेत् ॥
अङ्गेन्द्राद्यैस्तदस्त्रैश्च त्रिरावरणपूजनम् ॥ १५३ ॥

जपेत्त्रिलक्षं जुहुयादमृतां खण्डकैः प्लुताम् ॥
शुद्धदुग्धेन च ततस्तर्प्पणादि समाचरेत् ॥
एवं संसिद्धमन्त्रस्तु प्रयोगान्वैचरेदथ ॥ १५४ ॥

सुधाफलैः सुधाखण्डैर्मन्त्री मासं सहस्रकम् ॥
आराधिताग्नौ जुहुयाद्विधिवद्विजितेन्द्रियः ॥ १५५ ॥

सन्तुष्टः शङ्करस्तस्य सुधाप्लावितविग्रहः ॥
आयुरारोग्यसम्पत्तियशःपुत्रान्विवधयेत् ॥ १५६ ॥

सुधावटौ बिल्वदूर्वाः पयः सर्प्पिः पयो हविः ॥
इत्युक्तैः सप्तभिर्द्रव्यैर्जुहुयात्सप्त वासरान् ॥ १५७ ॥

अष्टोत्तरसहस्रं तु नित्यं सप्ताधिकान्द्विजान् ॥
भोजयेन्मधुराक्तैश्च सर्वरोगैः प्रमुच्यते ॥ १५८ ॥

होमाद्यं पूर्ववद्दद्याद्विप्रेभ्योधिकदक्षिणाम् ॥
आरण्यैः पशुभिर्गोभिर्हस्तिभिर्वाजिभिस्तथा ॥
गुरुं सम्प्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया ॥ १५९ ॥

अनेन विधिना सद्यः कृत्याद्रोहज्वरादिभिः ॥
विमुक्तः सुचिरं जीवेत्साधिकं शरदां शतम् ॥ १६० ॥

अभिचारज्वरे तीव्रे घोरोन्मादे शिरोगदे ॥
असाध्यरोगे सञ्जाते तथा चैवमहाभये ॥
होमोयं शान्तिदः प्रोक्तः सर्वसम्पत्प्रदायकः ॥ १६१ ॥

द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मा च यथाविधि ॥
भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान्वेदपारगान् ॥ १६२ ॥

दीर्घमायुरवाप्नोति काश्मरीबकुलोद्भवैः ॥
समिद्वरैः कृतो होमः सर्वमृत्युगदापहः ॥ १६३ ॥

सिद्धान्नैर्विहितो होमो महाज्वरविनाशनः ॥
अपामार्गसमिद्धोमः सर्वामयविनाशनः ॥ १६४ ॥

अथातो दक्षिणामूर्तिमन्त्रं वक्ष्याम्यभीष्टदम् ॥
ॐङ्कारमायाबीजाभ्यां 4 पुटं षट्त्रिंशदक्षरम् ॥ १६५ ॥

दक्षिनामूर्त्तये तुभ्यं वटमूलनिवासिने ॥
ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ॥ १६६ ॥

मुनिः शुक्लः समुद्दिष्टोनुष्टुप् छन्दः प्रकीर्त्तितम् ॥
देवता जगतामादिर्दक्षिणामूर्त्तिरव्ययः ॥ १६७ ॥

प्रणवो बीजमित्युक्तं हृल्लेखा शक्तिरीरिता ॥
विनियोगः समुद्दिष्टः पुरुषार्थचतुष्टये ॥ १६८ ॥

आदौ तु मूलमन्त्रेण करशुद्धिं समाचरेत् ॥
रसनेत्राष्टकवसु बाणवह्निमितैः क्रमात् ॥ १६९ ॥

तत्रैव तु च मन्त्रार्णैस्तारमायादिकैः पुनः ॥
षड्दीर्घैस्तारमायान्तैः षडङ्गानि समाचरेत् ॥ १७० ॥

मूर्ध्नि भाले दक्षनेत्रे वामे चैव तु कर्णयोः ॥ १७१ ॥

दक्षगण्डे वामगण्डे नासिकायां कटौ तथा ॥
लिङ्गे दक्षोरुमूले च जानुमूले च गुल्फके ॥ १७२ ॥

पादाङ्गुलीनां मूले च जानुमध्ये च गुह्यके ॥
पाण्यङ्गुलीनां मूले च न्यसेत्स्थान चतुष्टये ॥
एवं वामोरुमध्यादौ कुर्य्यान्न्यासोयमीरितः ॥ १७३ ॥

हिमाचलतले रम्ये सिद्धकिन्नरगुह्यकैः ॥
नानाद्रुमैः पुष्पफलपत्रोपेतैर्विराजिते ॥ १७४ ॥

शिलाविवरनिर्गच्छन्निर्झरैः शीतलानिले ॥
नानाभृङ्गैः पक्षिगणैर्विधुरीकृतसम्मुखे ॥
शुकादिमुनिभिर्युक्ते वटं तत्र विचिन्तयेत् ॥ १७५ ॥

गारुत्मतमयैः पत्रैः पद्मरागमयैः फलैः ॥
नवरत्नमयाकल्पैस्तोरणाद्यैरलङ्कृतम् ॥ १७६ ॥

तस्य मूले स्वर्णभूमौ रत्नसिंहासने शुभे ॥
आसीनममिताकल्पं शरच्चन्द्रनिभाननम् ॥ १७७ ॥

रजताद्रिप्रतीकाशं मुनिदेवगणैः स्तुतम् ॥
जटामुकुटिनं वीरासनं नासावलोकनम् ॥ १७८ ॥

त्रिनेत्रं सुप्रसन्नास्यं निविष्टं शुभपङ्कजे ॥
दक्षिणोर्ध्वकरे टङ्कं व्याख्यामुद्रामधः करे ॥ १७९ ॥

वामोर्ध्वहस्ते हरिणं वामजानुन्यधःकरम् ॥
प्राक्प्रोक्ते पूजयेत्पीठे प्रथमे तु दले यजेत् ॥ १८० ॥

केशरेषु षडङ्गानि देवाग्रादिप्रदक्षिणम् ॥
पूजयेदष्टपत्रेषु पूजयेद्वृषभादिकान् ॥ १८१ ॥

वीथीद्वये च लोकेशांस्तदस्त्राणि च पूजयेत् ॥
पुरश्चरणसिद्ध्यर्थं प्रजपेदयुताष्टकम् ॥ १८२ ॥

जुहुयात्तद्दशांशेन तिलैः क्षीरपरिप्लुतैः ॥
पायसेनाथ वा देवाः केवलेन घृतेन वा ॥
तर्प्पणादि ततः कुर्य्यात्प्रयोगार्हो भवेन्मनुः ॥ १८३ ॥

मासमेकञ्च भिक्षाशी सहस्रं चाष्टकं जपेत् ॥
मन्त्रं प्रतिदिनं मन्त्री विद्वत्त्वं लभते ध्रुवम् ॥ १८४ ॥

मूलमन्त्रेण पुटितां मातृकां मनुवित्तमः ॥
जलं स्पृष्ट्वा त्रिधा जप्त्वा पिबेदब्दाद्भवेद्ध्रुवम् ॥
अखिलानां च शास्त्राणां व्याख्याता च महाकविः ॥ १८५ ॥

रोमपिप्पलिकाब्राह्मीवचासर्ज्जरसैर्घृतैः ॥
सुगन्धद्रव्यसंयुक्तैर्नन्दिकेश्वरकल्पितैः ॥ १८६ ॥

तत्कल्कसहितैर्ब्राह्मीरसे पक्वं च गोघृतम् ॥
अनेन मन्त्रवर्य्येण जीवितन्त्वयुतावधि ॥ १८७ ॥

तत्र संसेवितं कीर्त्तिकविताश्रीधृतिप्रदम् ॥
कान्तिरक्षायुष्यदं च गदितं सर्वसिद्धिकृत् ॥ १८८ ॥

अथो विभेदाद्द्वाविंशद्वर्णो मन्त्रो निगद्यते ॥
तारो नमो भगवते दक्षिणामूर्त्तये वदेत् ॥ १८९ ॥

मह्यं मेधां प्रयच्छेति स्वाहान्तोथ द्वितीयकः ॥
मेधास्थाने पठेत्प्रज्ञां फलं नामानुसारतः ॥ १९० ॥

मेधाकण्ठेन सामर्थ्यं प्रज्ञा प्रोक्ता तु स्मृतिः ॥
बीजद्वयाल्पितो मन्त्रः सिद्ध्यते वाममार्गिणाम् ॥ १९१ ॥

ऋषिर्ब्रह्मा समुद्दिष्टो गायत्रं छन्द ईरितम् ॥
देवता श्रीमहादेवो दक्षिणामूर्त्तिसञ्ज्ञकः ॥ १९२ ॥

प्रणवः प्रोच्यते बीजं स्वाहा शक्तिरिति स्मृता ॥
मेधापदं कीलकं स्यात्पुरुषार्थे नियोजनम् ॥ १९३ ॥

ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् ॥
शिरोरुमध्यवक्त्रेषु हृदि नाभौ च गुह्यके ॥ १९४ ॥

जान्वोश्चरणयोर्न्यस्येत्पदान्यष्टौ मनोः क्रमात् ॥
वर्णन्यासमथो मूर्ध्नि भालेक्ष्णोः श्रोत्रयोर्नसोः ॥
ओष्ठे दन्ते च जिह्वायां चुबुकाग्रेंसयोर्गले ॥ १९५ ॥

बाहूरोनाभिगुह्येषु गुदोर्वोर्जानुजङ्घयोः ॥
पादपाण्योश्च सर्वाङ्गे ततो देवं विचिन्तयेत् ॥ १९६ ॥

शङ्करन्तु शरच्चन्द्रनिभमम्भोजमध्यगम् ॥
गङ्गाधरं शरच्चन्द्रकरोल्लसितशेखरम् ॥ १९७ ॥

प्रसन्नवदनाम्भोजं त्रिनेत्रं सुस्मिताननम् ॥
दिव्याम्बरधरं देवं गन्धमाल्यैरलङ्कृतम् ॥ १९८ ॥

नानारत्नमयाकल्पमनुकल्पविभूषितम् ॥
मुक्ताक्षमालां दक्षोर्ध्वे ज्ञानमुद्रामधः करे ॥ १९९ ॥

वामोर्ध्वे च सुधाकुम्भं पुस्तकं तदधःकरे ॥
दधानं चिन्तयेद्देवं मुनिवृन्दनिषेवितम् ॥ २०० ॥

एवन्ध्यात्वा यजेत्पीठे पूर्वोक्ते नवशक्तिके ॥
पद्मत्रयसमोपेते भूगेहत्रितयान्विते ॥ २०१ ॥

चतुर्द्वारयुतेङ्गानि केशरेषु यजेत्ततः ॥
स्वरान्षोडश तत्रैव द्वन्द्वशः केशरस्थितान् ॥ २०२ ॥

यजेद्वर्गाष्टकं पश्चादष्टपत्रेषु चापरे ॥
सरस्वतीं चतुर्वक्रं सनकं च सनन्दनम् ॥ २०३ ॥

सनातनं चैव सनत्कुमारं च शुकं तथा ॥
व्यासं च परतोष्टौ तु पार्वतीं शुभगां तथा ॥ २०४ ॥

भद्रां क्रिया शान्तिरौद्र्यौ कालीं कलभिकामपि ॥
चतुरस्रे चतुष्कोणमाग्नेये शान्तमर्च्चयेत् ॥ २०५ ॥

सिद्धगन्धर्वयोगीन्द्रान्विद्याधरगणानपि ॥
इन्द्रादींश्च तदस्त्राणि प्राग्वद्वीथीद्वये यजेत् ॥ २०६ ॥

एकलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ॥
क्षीराज्याक्तैस्तिलैः पद्मैः पायसैर्वां घृतप्लुतैः ॥
तर्प्पणादि ततः कृत्वा काम्यकर्म्माणिसाधयेत् ॥ २०७ ॥

कण्ठमात्रोदके स्थित्वा जपेन्मन्त्रं सहस्रकम् ॥
प्रत्यहं मण्डलादर्वाक्कवीनामग्रणीर्भवेत् ॥ २०८ ॥

पञ्चविंशतिधा जप्तमन्नपायसमेव च भक्षितं क्षीरसंसिक्तं परं वा काव्यकारकम् ॥
सर्वापन्नाशकं चैव सर्वरोगविनाशनम् ॥ २०९ ॥

त्रयोदश्यां प्रदोषे च सोपवासः शिवालयम् ॥
मौनी गत्वार्चयेद्देवं विद्यायुः परिवृद्धये ॥ २१० ॥

आज्येन पायसान्नेन वाक्कामो जुहुयात्सदा ॥
श्रीकामो जलजैर्बिल्वैर्नन्द्यावर्त्तैः सदा हुनेत् ॥ २११ ॥

आज्यक्षीराक्तदूर्वाभिर्हुत्वा दद्याच्च दक्षिणाम् ॥
गुरवे गां च महिषीं तस्य मृत्युभयं कुतः ॥ २१२ ॥

आदित्याभिमुखो भूत्वा दद्याद्दशजलाञ्जलीन् ॥
मूलमन्त्रेण मन्त्रज्ञः सर्वदोषैर्न बाध्यते ॥ २१३ ॥

प्रातः सायं च सप्तैवं मध्याह्ने चैकविंशतिम् ॥
दुग्धबुद्ध्या जलैर्देवं तर्प्पयित्वा ततो हुनेत् ॥
पलाशपुष्पैरचिरात्कविर्होमादिभिर्भवेत् ॥ २१४ ॥

गौर्य्या पार्श्वस्थया सार्धं श्रीकामश्चिन्तयेत्प्रभुम् ॥
अयुतं प्रजपेन्मन्त्रं भूयसीं श्रीयमाप्नुयात् ॥ २१५ ॥

भुञ्जानः प्रयतो मन्त्री गोमूत्रे पक्वमोदनम् ॥
भिक्षान्नमथ वा मन्त्रमयुतद्वितयं जपेत् ॥ २१६ ॥

अश्रुतान्वेदशास्त्रादीन्व्याचष्टे नात्र संशयः ॥
एवमाराधितो मन्त्रो भुक्तिमुक्तिप्रदायकः ॥ २१७ ॥

अथातो दक्षिणामूर्त्तेर्द्व्यक्षरो मनुरुच्यते ॥
हम्स इत्यस्य गायत्री छन्दो ब्रह्मा मुनिर्मतः ॥ २१८ ॥

देवता दक्षिणामूर्त्तिर्हम्बीजं शक्तिरन्तिमः ॥
हसव्यञ्जनयोर्योगे षड्दीर्घान्द्यङ्गकल्पनम् ॥ २१९ ॥

ध्यानपूजादिकं सर्वं तथाकाम्यनियोजनम् ॥
द्वात्रिंशदक्षरप्रोक्तदक्षिणामूर्त्तिमन्त्रवत् ॥ २२० ॥

विशेषतः स्वयं रोगहरः सारस्वतप्रदः ॥
ज्ञानप्रदश्च भवति तथा मोक्षप्रदोपि च ॥ २२१ ॥

अथातः सम्प्रवक्ष्यामि वामिनां सिद्धिदस्य तु ॥
दक्षिणामूर्त्तिभेदस्य तस्य मन्त्रचतुष्टयम् ॥ २२२ ॥

ऊर्ध्वपश्चिमयोः सौम्यप्रागाम्नायोक्तसिद्धिकृत् ॥ २२३ ॥

क्रमादेतेत्र प्रोच्यन्ते महादेवाय हुं त्विति ॥
वामो मुनिर्विराट् छन्दो देवता वामनायकः ॥ २२४ ॥

कालिकाबीजपूर्वैश्च षड्वर्णैस्स्यात्षडङ्गकम् ॥
लिङ्गन्यस्तमहाकालिं मदिरासक्तमानसम् ॥ २२५ ॥

लोहदण्डं मांसपिण्डं पानपात्रं त्रिशूलकम् ॥
दधतं भर्ज्जितम्मत्स्यं चषकं रुधिरस्य च ॥ २२६ ॥

स्पृशन्तमेकेन भगमपरेण कुचद्वयम् ॥
इत्थं सञ्चिन्त्य देवेशं कालपीठे समर्चयेत् ॥ २२७ ॥

भगमालां भगलतां भगां कोणत्रये यजेत् ॥
लिङ्गस्थितं लिङ्गभगमात्मानं चात्ममेखलम् ॥ २२८ ॥

मत्स्यप्रियं च तद्बाह्ये पञ्चकोणे समर्च्चयेत् ॥
मदोन्मत्तं रतिकरं चलन्मध्यं स्खलत्पदम् ॥ २२९ ॥

वेदपृष्ठं धर्मशस्त्रं शान्त्यतीतं निरञ्जनम् ॥
तत्र स्थितं च तद्बाह्ये पूजयेन्नवयोनिके ॥ २३० ॥

लक्षाष्टकञ्जपेन्मन्त्रं प्रथमं तु सुरान्वितैः ॥
होमाद्धि मांसशकलैर्मन्त्रसिद्धिः प्रजायते ॥ २३१ ॥

सम्भोगी यो जपेल्लक्षं जुहुयाच्चायुतं परम् ॥
तर्प्पयेच्चन्दनेनैव तत्परम्मन्त्रसिद्धये ॥ २३२ ॥

जपादिकं प्रकर्तव्यं यथाकार्यानुसारतः ॥
अवश्यञ्जायते कार्य्यं तस्माच्चेद्विकलेन्द्रियः ॥
तदा न कार्य्यं भवति वाममार्गेण साधितम् ॥ २३३ ॥

अथातो दक्षिणामूर्त्तेरपरो मन्त्र उच्यते ॥
तारो नमो भगवते दक्षिणामूर्त्तये वदेत् ॥
मह्यं मेधां वदेत्प्रज्ञां प्रयच्छानलवल्लभाम् ॥ २३४ ॥

चतुर्विंशतिवर्णोयं मुनिर्ब्रह्मा समीरितः ॥
देवता दक्षिणा मेधा गायत्री छन्द उच्यते ॥ २३५ ॥

मेधाबीजं तथ शक्तिः स्वाहा मेधासमृद्धये ॥
नियोगोथ षडङ्गानि आम् ईम् ऊम् ऐं च औं च अः ॥ २३६ ॥

एतैर्वर्णैस्तु दिग्बन्धम्भूर्भुवःसुवरोमिति ॥
व्याख्यापीठेतिशुभ्रं च भस्मोद्धलितविग्रहम् ॥ २३७ ॥

ज्ञानमुद्राक्षमालाढ्यं वीणापुस्तकधारिणम् ॥
प्राग्वत्पूजादिक सर्वं पुरश्चरणमुच्यते ॥ २३८ ॥

कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशी ॥
चत्वारिंशत्सहस्राणां जपात्स्याच्च पुरस्क्रिया ॥ २३९ ॥

आज्यं दशांशं होतव्यं मन्त्रसिद्धिः प्रजायते ॥
पापाधिक्यान्न चेत्सिद्धिस्तदैवन्तु समाचरेत् ॥ २४० ॥

बिल्वाधस्स्थो जपेल्लक्षं ततः सिद्धिर्भवेदिति ॥
दूरे दृष्टा च चेत्सिद्धिः पश्चाद्द्वारे शिवालये ॥
लक्षमेकं मनुञ्जप्त्वा हुत्वाज्यं सिद्धिभाग्भवेत् ॥ २४१ ॥

ततः प्रयोगं कुर्वीत हुनेत्पालाशपुष्पकैः ॥
यमुद्दिश्यायुतं सोपि मूर्खो विद्यानिधिर्भवेत् ॥ २४२ ॥

कण्ठमात्रे जले स्थित्वा जपेन्मन्त्रसहस्रकम् ॥
प्रत्यहं मण्डलादर्वाक्कवीनामग्रणीर्भवेत् ॥ २४३ ॥

भुञ्जानः प्रयतो मन्त्री गोमूत्रे पक्वभोजनम् ॥
भिक्षान्नमथ वा मन्त्रमयुतद्वितयं जपेत् ॥
अश्रुतं वेदशास्त्रादि व्याचष्टे नात्र संशयः ॥ २४४ ॥

स्वहस्ते जलमादाय प्रातस्तदभिमन्त्रयेत् ॥
पञ्चविंशतिवारान्हि पाययेद्बालकाय तत् ॥
मासषट्कं तस्य विद्या भवेद्गङ्गाप्रवाहवत् ॥ २४५ ॥

अथातः सम्प्रवक्ष्यामि नृसिंहाद्बलिनो मम ॥
मन्त्रं शरभसञ्ज्ञस्य द्रुतसिद्धिप्रदायकम् ॥ २४६ ॥

ॐखङ्खाङ्खं 5 फडुच्चार्य्य द्विः शत्रून्ग्रससीति च ॥
तथा हुं फट् सर्वास्त्रसंहरणाय शरभेति च ॥
शान्ताय पक्षिराजाय हुं फट् स्वाहा नमो मनुः ॥ २४७ ॥

एकचत्वारिंशदर्णो वासुदेवो मुनिर्मतः ॥
कालाग्निरुद्रः शरभो देवता परिकीर्तितः ॥ २४८ ॥

छन्दस्तु जगती स्वाहा शक्तिर्बीजं खमुच्यते ॥
वेदाङ्कदशसप्तागसागरैरङ्गकल्पनम् ॥ २४९ ॥

पुनः समस्तमन्त्रेण दिग्बन्धं तु समाचरेत् ॥
चन्द्रार्काग्नित्रिनयनं कालीदुर्गाद्विपक्षकम् ॥ २५० ॥

विद्युज्जिह्वं वज्रनखं वडवाग्न्युदरन्तथा ॥
व्याधिमृत्युरिपुघ्नं च चण्डवातातिवेगिनम् ॥ २५१ ॥

हृद्भैरवस्वरूपं च वैरिवृन्दनिषूदनम् ॥
मृगेन्द्रत्वक्छरीरेस्य पक्षाभ्यां चञ्चुना रवः ॥ २५२ ॥

अधोवक्त्रश्चतुष्पाद ऊर्ध्वदृष्टिश्चतुर्भुजः ॥
कालान्तदहनप्रख्यो नीलजीमूतनिःस्वनः ॥ २५३ ॥

अरिर्यद्दर्शनादेव विनष्टबलविक्रमः ॥
सटाक्षिप्तग्रहर्क्षाय पक्षविक्षिप्तभूभृते ॥
अष्टपादाय रुद्राय नमः शरभमूर्त्तये ॥ २५४ ॥

एवं ध्यायेत्सहस्रं तु प्रजपेत्पायसं हुनेत् ॥
प्रत्यहं मासषट्केन मन्त्रसिद्धिः प्रजायते ॥ २५५ ॥

तदाजेयस्तु सङ्ग्रामे भूतप्रेतपिशाचकाः ॥
नश्यन्ति दर्शनादेव चाधयो व्याधयस्तथा ॥ २५६ ॥

अथातः सम्प्रवक्ष्यामि मालामन्त्रं सुसिद्धिदम् ॥
तारो नमो भगवते ङेन्तं शरभ शाल्व च ॥ २५७ ॥

सर्वभूतोच्चाटनाय ग्रहराक्षस चोच्चरेत् ॥
निवारणाय ज्वालेति ङेन्तं मालास्वरूपकम् ॥ २५८ ॥

दक्षनिष्काशनायेति साक्षादिति पदं वदेत् ॥
कालरुद्रस्वरूपाष्टमूर्त्तये च तथा वदेत् ॥ २५९ ॥

कृशानुरेतसे चेति महेतिपदमुच्चरेत् ॥
क्रूरभूतोच्चाटनायेत्यप्रतिशयनाय च ॥ २६० ॥

शत्रूंश्च नाशयद्वन्द्वं वदेच्छत्रुपशूंस्ततः ॥
गृह्णयुग्मं खादयुग्मं तारं हुं फड्वसुप्रियाम् ॥ २६१ ॥

अष्टोत्तरशतार्णोयमष्टोत्तरशतं जपेत् ॥
प्रत्यहं मासषट्केन सिद्धः स्यात्तत्फलं शृणु ॥ २६२ ॥

पात्रे पूतं जलं स्थाप्य सप्तवाराभिमन्त्रितम् ॥
पानार्थं तत्प्रसादेन दातव्यं लापयेत्तथा ॥ २६३ ॥

प्रयान्ति सर्वभूतानि ज्वराश्चातुर्थिकादयः ॥
सप्ताहात्तत्प्रयोगेण नात्र कार्य्या विचारणा ॥ २६४ ॥

अथातः सम्प्रवक्ष्यामि ह्यघोरास्त्राह्वयं मनुम् ॥
मायां स्फुरद्वयं चैव प्रस्फुरद्वितयं वदेत् ॥ २६५ ॥

पश्चाद्वदेत्तरद्वन्द्वं तरप्रान्तं च प्रद्वयम् ॥
प्रचटद्वितयं पश्चात्कहद्वन्द्वं महद्वयम् ॥ २६६ ॥

बन्धद्वयं घातय द्विर्हुंहुं भूशरवर्णकः ॥
मनुः प्रोक्तोघोरमुनिरुष्णिक् छन्दोस्य देवता ॥ २६७ ॥

अघोररुद्रो वं बीजं ह्रीं शक्तिश्च प्रकीर्तिता ॥
शरर्त्तुदशदिग्दन्तिदिवाकरमितैर्मनोः ॥
वर्णैः कुर्य्यात्षडङ्गानि पदन्यासोथ वक्ष्यते ॥ २६८ ॥

भाले वक्त्रे गले हृद्यथो नाभिकरजानुषु ॥
सजङ्घपादयोश्चैव पदान्येकादश न्यसेत् ॥ २६९ ॥

शरर्त्तुनेत्रवस्वब्धिशरवेदाब्धिवेदकैः ॥
रसनेत्रमितैर्वर्णैस्तत्पदैश्च भवत्यसौ 6 ॥ २७० ॥

मेघाकारं ततो ध्यायेद्भीमदंष्ट्रं त्रिलोचनम् ॥
भुजङ्गभूषणं रक्तवसनालेपशोभितम् ॥ २७१ ॥

परशुं करवालं च बाणं त्रिशिखमेव च ॥
दधानं दक्षिणैर्हस्तैरूर्ध्वादिक्रमतः परैः ॥
“दमरुं खेटकं चापं नृकपालं च बिभ्रतम् ॥ २७२ ॥

काम्यकर्मसु रक्ताभं कृष्णाभमभिचारके ॥
निग्रहे ग्रहभूतादिमुक्तौ मुक्तानिभं स्मरेत् ॥ २७३ ॥

एवं सञ्चिन्त्य देवेशं शिवपीठे पुरोदिते ॥
षट्कोणान्तस्थिते पद्मद्वितये भूपुरैर्वृते ॥ २७४ ॥

केशरेष्वङ्गपूजा स्याद्देवाग्रादिप्रदक्षिणैः ॥
डमरुं परशुं खड्गं खेटं बाणं तथा धनुः ॥ २७५ ॥

शूलं कपालं ब्राह्म्याद्या द्वितीयेष्टदलेर्च्चयेत् ॥
वीथीद्वये लोकपालांस्तदस्त्राणि च पूजयेत् ॥ २७६ ॥

लक्षमेकं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥
जुहुयात्तद्दशांशेन तिलैः शुद्धघृतप्लुतैः ॥ २७७ ॥

तर्प्पणं मार्ज्जनं कृत्वा भोजयेन्मधुरैर्द्विजान् ॥
एवं सिद्धे मन्त्रवरे काम्यकर्म्माणि साधयेत् ॥ २७८ ॥

क्रमात्सर्पिरपामार्गतिलसर्षपपायसैः ॥
साज्यैः सहस्रं प्रत्येकं यामिन्यां जुहुयात्सुधीः ॥
होमोयं नाशयेत्सद्यो भूतकृत्यादिनायकान् ॥ २७९ ॥

श्वेतकिंशुकनिर्गुण्डी हेमापामार्गसम्भवैः ॥
समिद्वरैः कृतो होमः पूर्ववद्द्रुतशान्तिदः ॥ २८० ॥

अपामार्गाश्वत्थयोश्च पञ्चगव्ये समुक्षिताः ॥
समिधो जुहुयात्कृष्णपञ्चम्यां निशि संयतः ॥
पृथक्सहस्रहोमेन भूतानां निग्रहो भवेत् ॥ २८१ ॥

क्रमात्सर्प्पिरपामार्गपञ्चगव्यहविर्घृतैः ॥
हुत्वा सहस्रं प्रत्यकं पात्रे सम्पातयेद्द्रुते ॥ २८२ ॥

सम्पातसर्पिषा साध्यं भोजयेद्द्रुतशान्तये ॥
अघोरास्त्राह्वयो मन्त्रः सर्वकाम्यानि साधयेत् ॥ २८३ ॥

अथातः सम्प्रवक्ष्यामि मन्त्रं पाशुपतास्त्रकम् ॥
तारः श्रीं पशुशब्दान्ते हुम्फड्मन्त्रः षडक्षरः ॥ २८४ ॥

वामदेवो मुनिः पङ्क्तिश्छन्दः पशुपतिः सुरः ॥
मन्त्रार्णैः षड्भिरङ्गानि हुम्फडन्तैः सबिन्दुकैः ॥ २८५ ॥

जातियुक्तानि चाङ्गेषु तथाङ्गुष्ठादिषु क्रमात् ॥
ध्यायेत्पशुपतिं सम्यङ्मन्त्री चैकाग्रमानसः ॥ २८६ ॥

पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् ॥
अग्निज्वालानिभश्मश्रुमूर्द्धजं भीमदंष्ट्रकम् ॥ २८७ ॥

खङ्गं बाणानक्षसूत्रं शक्तिं परशुमवे च ॥
दधानं दक्षिणैर्हस्तैरूर्ध्वादिक्रमतः परैः ॥ २८८ ॥

खेटचापौ कुण्डिकां च त्रिशूलं ब्रह्मदण्डकम् ॥
नानाभरणसन्दीप्तं बालचन्द्रैरलङ्कृतम् ॥ २८९ ॥

मध्याह्नार्कसमं ध्यात्वा शिवपीठे तथार्च्चयेत् ॥
पद्ममष्टदलं कृत्वा कर्णिकाकेशरान्वितम् ॥ २९० ॥

चतुर्द्वारसमायुक्तं चतुरस्रत्रयावृतम् ॥
एवं पात्रे समालिख्य स्वर्णरौप्यादिके शुभे ॥ २९१ ॥

पटे वा फलजे वापि श्रीकण्ठादिसमुद्भवे ॥
सर्वोपचारैराराध्य यजेदङ्गानि पूर्ववत् ॥ २९२ ॥

दलेषु मातृकाः पूज्या लोकेशास्त्राणि तद्बहिः ॥
पूजयेद्विधिनानेन सर्वान्कामानवाप्नुयात् ॥ २९३ ॥

लक्षषट्कं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ॥
दशांशैर्जुहुयाद्द्रव्यैर्घृताक्तैः संस्कृतेनले ॥
तर्प्पणादि ततः कृत्वा प्रयोगार्हो भवेन्मनुः ॥ २९४ ॥

अनेन मन्त्रितं तोयं ग्रहभूतास्पदे क्षिपेत् ॥
सद्यस्तन्मुञ्चति क्रन्दत्यहो मन्त्रप्रभावतः ॥ २९५ ॥

अनेन मन्त्रितान्बाणान्विसृजेद्युधि भूपतिः ॥
जयेत्क्षणेन सकलानरीन्नास्त्यत्र संशयः ॥
एवं मन्त्रस्तु संसिद्धो भुक्तिमुक्तिप्रदो भवेत् ॥ २९६ ॥

अथास्य भेदं वक्ष्यामि पश्वन्ते 7 पतिशब्दयुक् ॥
भवेदष्टाक्षरो मन्त्रो मुन्याद्यं पूर्ववन्मतम् ॥ २९७ ॥

हुं शक्तिः श्रीं च बीजं स्यात्तद्भिनैश्च 8 षड"क्षरैः ॥
प्रणवाद्यैः षडङ्गानि प्राग्वद्ध्यात्वा च पूजयेत् ॥ २९८ ॥

सद्योजातादिभिः पञ्चब्रह्मभिः प्रथमावृतिः ॥
षडङ्गैश्च द्वितीयास्यात्तदस्त्राद्यैस्तृतीयिका ॥ २९९ ॥

उमादिभिश्चतुर्थी स्यात्स्वायुधैश्चापि पञ्चमी ॥
षष्ठी चेन्द्रादिभिः प्रोक्ता सप्तमी च तदायुधैः ॥ ३०० ॥

अष्टलक्षं पुरश्चर्य्या पायसेन हुनेत्ततः ॥
अन्यत्सर्वं प्रयोगादि पूर्ववत्परिकीर्त्तितम् ॥ ३०१ ॥

नीलकण्ठमनुं वक्ष्ये समस्तविषनार्शनम् ॥
शन्नीण्ठ इति मन्त्रोयं त्रिवर्णः सर्वकामदः ॥ ३०२ ॥

अरुणो मुनिरुद्दिष्टोनुष्टुप्छन्दस्तु देवता ॥
नीलकण्ठः शं च बीजं ठः शक्तिः परिकीर्त्तिता ॥ ३०३ ॥

हरायेति हृदयं च शिरः प्रोक्तं कपर्द्दिने ॥
नीलकण्ठायेति शिखा कवचं कालकूटवि ॥ ३०४ ॥

षभक्षणाय हुम्फट् स्याच्छ्रीकण्ठाय त्रिनेत्रकम् ॥
अस्त्रं च शितिकण्ठाय स्वाहान्ता इति सम्मताः ॥ ३०५ ॥

न्यस्याः षडङ्गमनवश्चाङ्गुष्ठादिषु विन्यसेत् ॥
मूर्ध्नि कण्ठे च हृदये न्यसेद्बीजत्रयं पुनः ॥ ३०६ ॥

ध्यायेद्देवं नीलकण्ठं बालार्कायुतवर्चसम् ॥
जटाभूतलसच्चन्द्राकारकैः फणिसत्तमैः ॥ ३०७ ॥

क्टकल्पकराम्भोजैर्दधानं जपमालिकाम् ॥
शूलं कपालं खट्वाङ्गमक्षमालां च बिभ्रतम् ॥ ३०८ ॥

प्रतिवक्त्त्रं त्रिनयनं व्याघ्रचर्म्माम्बरावृतम् ॥
पद्ममध्ये समासीनमतिसुन्दरविग्रहम् ॥ ३०९ ॥

एवं ध्यात्वार्चयेत्पीठे शैवे सर्वोपचारकैः ॥
पद्मे वसुदले रम्ये चतुरस्रत्रयावृते ॥ ३१० ॥

चतुर्द्वारे पूर्व मङ्गलोकेशानायुधानि च ॥
एवं प्रपूजयेमन्त्री सर्वकामस्य सिद्धये ॥ ३११ ॥

लक्षत्रयं जपेन्मन्त्रं हविष्यैराज्यसंयुतैः ॥
तद्दशांशं तर्प्पणादि भोजयेन्मधुरैर्द्विजान् ॥ ३१२ ॥

एवं सिद्धमनुर्मन्त्री त्वष्टोत्तरसहस्रकम् ॥
स्पृष्ट्वा जपेद्विषग्रस्तं तत्क्षणान्निर्विषो भवेत् ॥ ३१३ ॥

बीजाभ्यां प्रथमान्त्याभ्यां पार्श्वयोर्विषमाहरेत् ॥ ३१४ ॥

एवं मन्त्राभिजपितकलशोदकसेचनात् ॥
तक्षकेणापि सन्दष्टस्तत्क्षणान्निर्विषो भवेत् ॥ ३१५ ॥

विलोक्य विषिणं मन्त्रं प्रजपेत्सुसमाहितः ॥
विषद्वयान्मुच्यतेसावचिरान्नात्र संशयः ॥ ३१६ ॥

दृष्ट्वा च डुण्डुभग्रस्तं स्वशिरःकण्ठहृत्सु च ॥
मनुवर्णत्रयं न्यस्य देवतारूपकं गुरुम् ॥ ३१७ ॥

स्मरेत्स्वदक्षिणानामामध्यमातर्जनीषु च ॥
मन्त्राक्षरत्रयं न्यस्य तदङ्गुलिभिरुत्तमम् ॥ ३१८ ॥

त्रिशूलमुद्रामासाद्य ग्रस्तस्याभिमुखं नयेत् ॥
प्रदर्श्य मन्त्रं प्रजपेत्पञ्चाशद्वारमत्र तु ॥ ३१९ ॥

स्थावरं जङ्गमं चैव कृत्रिमं च तथा विषम् ॥
रोगग्रहाद्यपस्मारानपमृत्युं च नाशयेत् ॥ ३२० ॥

पञ्चाशन्मनुना जप्तमन्नमौषधमेव च ॥
भक्षितं चेत्तु रोगादिनाशनं परमं मतम् ॥
ॐ नमो नीलकण्ठाय मनुरष्टाक्षरः परः ॥
मुनिर्ब्रह्मा च गायत्री छन्दो देवः प्रकिर्त्तितः ॥ ३२१ ॥

नीलकण्ठो ध्यानपूजाजपाद्यं पूर्ववन्मतम् ॥
प्रयोगाश्च विशेषेण महाविषहराः स्मृताः ॥ ३२२ ॥

स एव वह्निजायान्तो दशवर्णः प्रकीर्त्तितः ॥
अरुणोस्य मुनिश्छन्दो गायत्रं देवतामहान् ॥ ३२३ ॥

नीलकण्ठोस्य बीजं तु तारः शक्तिर्दहप्रिया ॥
हुं नमो नीलकण्ठाय शिरः स्वाहा नमस्त्विति ॥ ३२४ ॥

शिख्ॐनमो नीलकण्ठाय नमः कवचं मतम् ॥
स्वाहा नमो नेत्रमिति ॐ नमोस्त्रं समीरितम् ॥ ३२५ ॥

दक्षिणं पादमारभ्य वामपादावधि क्रमात् ॥
वर्गाष्टकं न्यसेन्मन्त्री पादोरुगुल्फसन्धिषु ॥ ३२६ ॥

हृत्कण्ठमुखशीर्षेषु न्यसेद्वर्गाष्टकं पुनः ॥
पूर्वाद्यैराननैर्य्युक्तः पीतश्वेतारुणासितैः ॥ ३२७ ॥

अभयं परशुं चापं वासुकिं च दधद्भुजैः ॥
ध्येयो देवोस्य पार्श्वस्था गौरी चाप्यतिसुन्दरी ॥ ३२८ ॥

संहारनिर्विषस्तम्भावेशात्कुर्य्यात्क्रमान्मुखैः ॥
दशलक्षं पुरश्चर्य्या सर्वत्राक्षरवन्मता ॥ ३२९ ॥

मन्त्राक्षराणि हृत्पृष्ठे के कण्ठे कुक्षियुग्मके ॥
हृदि बाह्वोर्नेत्रयोश्च मस्तके च क्रमाद्यजेत् ॥ ३३० ॥

विषाक्रान्तस्य पूर्वोक्तमीशं ध्यायञ्च्छताष्टकम् ॥
जपेन्मन्त्रं दृशा सर्वविषाणां वारणम्भवेत् ॥ ३३१ ॥

आथान्यो वक्ष्यते मन्त्रो नानाकार्य्यकरः परः ॥
तारो नमो भगवते सर्वज्ञेतिपदं वदेत् ॥ ३३२ ॥

कण्ठं निं नीलकण्ठाय अमलेति पदं वदेत् ॥
डेन्तं द्विः क्षिप ॐ स्वाहा चोनत्रिंशाक्षरो मनुः ॥ ३३३ ॥

विमलोस्य मुनिः प्रोक्तः कृतिश्छन्द उदाहृतम् ॥
अमलाख्यो नीलकण्ठो रुद्रो देवः प्रकीर्त्तितः ॥ ३३४ ॥

स्वाहा शक्तिस्तु वौं बीजं मन्त्रार्णैरङ्गपञ्चकम् ॥
सप्तभिः पञ्चभिः षड्भिश्चतुर्भिश्चापि सप्तभिः ॥ ३३५ ॥

ध्यानार्च्चनादिकं सर्वं पूर्ववत्समुदाहृतम् ॥
लक्षमेकं पुरश्चर्य्या हुनेदाज्यं दशांशतः ॥ ३३६ ॥

एवं सिद्धमनुर्मन्त्री दशवाराञ्जपेद्यदि ॥
दुष्टं विषं द्रव्यसंस्थं हरेदत्र न संशयः ॥ ३३७ ॥

जप्त्वा पञ्चदशोन्मानं हरेद्वृश्चिकजं विषम् ॥
विषमूषीविषं हन्ति जपः सप्तदशोन्मितः ॥ ३३८ ॥

अष्टादशजपाद्धन्याद्विसर्पं नात्र संशयः ॥
एकविंशतिजापेन त्वभिचारक्षयो भवेत् ॥ ३३९ ॥

परन्तस्य जपाद्धन्ति षड्विंशात्सूतिकागदम् ॥
दन्तमूलगदं त्रिंशच्चतुस्त्रिंशच्च शीतलाम् ॥
षट्त्रिंशच्च शिरोरोगं गर्भदुःखं खवेदतः ॥
नेत्ररोगं वेदवेदैः खबाणैः सकलं विषम् ॥ ३४० ॥

शतसङ्ख्याकजापेन सर्वरोगविनाशनम् ॥
अग्निना निहतानान्तु जपेदष्टोत्तरं शतम् ॥ ३४१ ॥

अथ चिन्तामणेः कटं प्रवक्ष्याम्यतिसिद्धिदम् ॥
यद्यत्प्रोक्तं वैदिकानान्तत्तत्सिद्धिविधायकम् ॥ ३४२ ॥

प्रथमः प्रणवः सप्त वेदनेत्रैश्चतुर्दशम् ॥
षष्टिबिन्दुयुतं कूटं प्रोक्तं दक्षिणमार्गिणाम् ॥ ३४३ ॥

चत्वारश्चापि चत्वार एकवेदद्विवर्णकाः ॥
द्वितीयः स्वरबिन्दुभ्यां युक्तः कूटमुदाहृतम् ॥ ३४४ ॥

शैवादीनां वामिनां तु तुर्य्यवर्णं समुच्चरन् ॥
एकोनत्रिंशकञ्चैतत्सप्तवेदाक्षिसम्मितम् ॥ ३४५ ॥

ततः स्वराः समुच्चार्य्याः शक्रास्तु तिथिसम्मिताः ॥
एतत्कूटं समुद्दिष्टं मुन्याद्यमथ कथ्यते ॥ ३४६ ॥

कश्यपोस्य मुनिश्छन्दोनुष्टुब्देव उमापतिः ॥
बीजं क्षकारो रः शक्तिर्मकारः कीलकम्मतम् ॥ ३४७ ॥

रेफादिव्यञ्जनैः षड्भिः कुर्य्यादङ्गानि षट् क्रमात् ॥
विद्रुमारक्तवामार्धदेहं नीलाम्बराङ्गकम् ॥ ३४८ ॥

अधिगङ्गाशशाङ्कार्धं विलसत्तुङ्गमौलिकम् ॥
हावभावविलासार्धनारीरूपं महेश्वरम् ॥ ३४९ ॥

त्रिशूलपाणिं पद्मानि नृकपालं करेषु च ॥
भीषणं परदेहार्धमालालेपविराजितम् ॥ ३५० ॥

एवं ध्यात्वा यजेत्पीठे शैवे सर्वोपचारकैः ॥
अङ्गानि पूजयेदादौ वामेष्टदलकेशरे ॥ ३५१ ॥

अर्चयेदष्टपत्रेषु कार्त्तवीर्य्यवृषादिकान् ॥
ब्राह्म्याद्या मातरः पूज्या द्वितीयेष्टदले पुनः ॥ ३५२ ॥

लोकेशांश्च तदस्त्राणि प्राग्वद्वीथीद्वये यजेत् ॥
पूजाद्रव्यादिकं ग्राह्यं स्वस्वाम्नायविभेदतः ॥ ३५३ ॥

शैवादिभिर्वामिभिश्च ध्यायेदष्टभुजं शिवम् ॥
परशुं पन्नगं शूलं कपालं च शरासनम् ॥ ३५४ ॥

शरान्वह्निं च खड्गं च दधतं स्त्रीविलासिनम् ॥
गङ्गातरङ्गविलसच्चन्द्रखण्डाभिशेखरम् ॥ ३५५ ॥

त्रिनेत्रं त्रिदशैः पूज्यां चिन्तयेत्पार्श्वगां शिवाम् ॥
अरुणामरुणाकल्पामरुणांशुकधारिणीम् ॥ ३५६ ॥

अरुणाम्बुजमालाढ्यां त्रिनेत्रां सद्विभूषणाम् ॥
शूलैः षोडशभिर्व्यग्रभुजषोडशमण्डिताम् ॥ ३५७ ॥

लक्षमेकं जपेन्मन्त्रं त्रिमध्वक्तैः सतण्डुलैः ॥
तिलैर्दशांशं जुहुयात्तर्प्पणादि ततश्चरेत् ॥
एवं संसिद्धमन्त्रस्य प्रयोगो वक्ष्यतेधुना ॥ ३५८ ॥

रेफस्थाने हम्स इति पदं दत्त्वा जपेन्मनुम् ॥
शीघ्रन्तेन भवेत्सिद्धिर्ज्ञानं च विषनाशनम् ॥
प्रसाद्य यो जपेन्मन्त्रमयुतम्भाग्यदायकम् ॥ ३५९ ॥

ततो नाशो भवेत्सद्योभूतादीनां रुजामपि ॥
द्विधा ग्रहार्तौ जपति बीजमेतन्न संशयः ॥
त्रिकोणं चिन्तयेन्मूर्ध्नि ग्रस्तस्याग्न्यर्कसन्निभम् ॥ ३६० ॥

तन्मध्ये चिन्तयेद्बीजं ग्रहानावेशयेत्तदा ॥
एतन्मन्त्राभिजपितं बन्धुजीवप्रसूनकम् ॥
ग्रस्तस्य मूर्ध्नि क्षिप्तं च क्षणादावेशकारकम् ॥ ३६१ ॥

पौष्टिके शान्तिके मन्त्रं शुक्लवर्णं विचिन्त्य च ॥
सकारमादौ संयोज्य जपेत्सिद्धिः प्रजायते ॥ ३६२ ॥

आपुष्टौ च वशीकारे रक्तं रेफादिकन्तथा ॥
हकाराद्यं च हेमाभं स्तम्भने चैव चिन्तयेत् ॥ ३६३ ॥

धूम्रवर्णं यकाराढ्यं विद्वेषोच्चाटयोरपि ॥
शुद्धस्फटिकसङ्काशो ध्येय उग्रो मुमुक्षुभिः ॥ ३६४ ॥

अकारादिः प्रजप्तव्यः स मन्त्रो देशिकैः सदा ॥
वायुमण्डलमध्यस्थं मन्त्रं कृष्णं विचिन्तयेत् ॥ ३६५ ॥

नेत्रयोर्विषमं त्वान्ध्यं बाधिर्य्यं कर्णयोरपि ॥
कुक्षौ शूलं मुखे छर्दिं कुर्य्याद्वायुं च मर्म्मसु ॥ ३६६ ॥

चिन्तयेत् कण्ठमालायां चतुरस्रस्य मध्यगम् ॥
चन्द्रमण्डलमध्यस्थं स्वरैः षोडशभिर्युतम् ॥ ३६७ ॥

नेत्रोत्पातं नेत्ररोगं हरत्याशु न संशयः ॥
रक्तस्रावं कृशाङ्गीनां योनौ ध्यानं हरेत्क्षणात् ॥ ३६८ ॥

कक्षौ ध्यानं च शूले स्याद्विस्फोटविषमज्वरे ॥
तथा रक्तामये चैवमामे दाहे शिरोगदे ॥
स्मरेद्यन्त्रं बाहुगतं तत्र तद्दोषशान्तये ॥ ३६९ ॥

अत्यारक्तं त्रिकोणान्तःस्थितं यन्मूर्ध्नि चिन्तयेत् ॥
निधाय पाणिं सा वश्या योषाकर्षणमुच्यते ॥
दुष्टाङ्गनाहृदम्भोजे स्थितं मन्त्रं विचिन्त्य च ॥ ३७० ॥

मन्त्रवर्णैरथो बद्ध्वा तेजोरूपां च तां स्मरेत् ॥
तच्छीर्षकेशपाशेनाकर्षयेद्योषितं ध्रुवम् ॥
वशयेत्तत्क्षणाद्योषां स्रावयेच्छुक्रमेव च ॥ ३७१ ॥

निजलिङ्गशिरस्स्थं च बीजं सञ्चिन्तयेत्तदा ॥
प्रवेशयेद्योनिमध्ये तत्संसर्गाच्च सा वशा ॥ ३७२ ॥

कुलालमृदमानीय तत्र बीजं समालिखेत् ॥
तन्मकारस्य रेफे तु साध्याख्यां कर्म्मसंयुताम् ॥ ३७३ ॥

विलिख्य तत्त्रिकोणेन वेष्टयेत्तद्बहिस्तथा ॥
षट्कोणैकं समावेष्ट्य षट्कोणे तु समाचरेत् ॥ ३७४ ॥

रेफं सबिन्दुकं तच्च विलोमैर्वेष्टयेत्स्वरैः ॥
प्राणप्रतिष्ठा कृत्वास्य चुल्ल्यधो निखनेत्ततः ॥ ३७५ ॥

स वश्यो जायते क्षिप्रं तत्सिद्धान्नस्य भक्षणात् ॥
पतिः प्रियायाः कुरुते तदाज्ञां दासवत्सदा ॥ ३७६ ॥

मधुरत्रययुक्तेन शालिपिष्टेन पुत्तलीम् ॥
प्रपदाभ्यां च जङ्घाभ्यां जानुभ्यामूरुयुग्मतः ॥ ३७७ ॥

नाभेरधस्तद्धृदयात्कण्ठादाशीर्षकं ततः ॥
एवं द्वादशधा छित्त्वा तीक्ष्णशस्त्रेण संहुनेत् ॥ ३७८ ॥

मूलमन्त्रेण स क्षिप्रं वश्यः स्याज्जीवितान्तकम् ॥
चतुरस्रे नागवल्लीदले कृत्वास्य मध्यतः ॥
वकारमध्यसाध्याख्यां लिखित्वा मनुमध्यतः ॥ ३७९ ॥

कामराधः स्थितो रेफस्तदधश्चतुरस्रकम् ॥
लिखेत्तस्य चतुष्कोणे ठकारं बिन्दुभूषितम् ॥ ३८० ॥

विलिख्य स्थापितप्राणं मूलमन्त्राभिमन्त्रितम् ॥
अष्टोत्तरसहस्रेण शिरोरोगी प्रभक्षयेत् ॥ ३८१ ॥

शिरोरोगविनिर्मुक्तो यावज्जन्म भवेत्सुखी ॥
सरेफेण ककारेण कण्ठे साध्यस्य बन्धयेत् ॥ ३८२ ॥

वक्षःस्थलं ककारेण वामं चापि मकारतः ॥
दक्षांसं रेफतो वामं तथैव च वकारतः ॥ ३८३ ॥

ठौकारेण मुखं नाभिं डकारेण प्रबन्धयेत् ॥
वक्षो बिन्द्वर्धचन्द्राभ्यां बद्ध्वा कर्षन्स्मरेद्धिया ॥
मरणान्तं स वश्यस्स्यादचिरान्नात्र संशयः ॥ ३८४ ॥

बन्धुजीवस्य पुष्पेण त्रिकोणं रचयेल्लिखेत् ॥
तत्पुष्पेण च तद्बीजं चन्दनागुरुकुङ्कुमैः ॥ ३८५ ॥

अस्मिन्संस्थाप्य तत्रैव पूजयित्वा हुनेच्च तैः ॥
अष्टोत्तरशतं तस्य सम्पातं पातयेत्ततः ॥ ३८६ ॥

त्रिलोहं मुष्टिकायां तु पुनस्तनभिमन्त्रयेत् ॥
अष्टोत्तरसहस्रेण तं करे धारयेन्नृपः ॥ ३८७ ॥

जयेत्स युधि भूपालान्दुर्जयान्प्रधनेपि च ॥
विषवेतालभूतादिदुरितैर्बाध्यते न च ॥ ३८८ ॥

पञ्चविंशत्सुवर्णस्य रजतस्य तु षोडश ॥
भागा दशैव ताम्रस्य त्रिलोहेत्र प्रकीर्त्तिताः ॥ ३८९ ॥

अथान्यत्सम्प्रवक्ष्यामि मुनिभिर्युदुपासितम् ॥
अन्त्यसप्तमवेदाक्षिवर्णषष्ठस्वरान्वितम् ॥ ३९० ॥

बिन्दुयुक्तं भवेत्कूटं मुन्याद्याः पूर्ववन्मताः ॥
षड्दीर्घभाजा बीजेन षडङ्गविधिरीरितः ॥ ३९१ ॥

अङ्गुल्यादिकरान्तं च करन्यासं ततश्चरेत् ॥
मूलाद्यन्तं तु भूकूटं कनिष्ठायां पुनर्न्यसेत् ॥ ३९२ ॥

ततश्चत्वारि बीजानि तथैवानामिकादिषु ॥
क्षकारं मूलबीजं तु भसहाभिसमन्वितम् ॥ ३९३ ॥

चत्वार्य्येतानि बीजानि क्रमात्तेषां तु देवताः ॥
जयाख्या विजयाख्या च ह्यजिता च पराजिता ॥ ३९४ ॥

पादान्मूर्द्धावधि न्यस्येन्मुष्टिकामूलमन्त्रकम् ॥
मूर्द्धादिपादपर्य्यन्तं तलाभ्यां व्यापकं न्यसेत् ॥ ३९५ ॥

षडङ्गानि पुनर्न्यस्य देवं देवीं च पूजयेत् ॥
शिरोवदनहृन्नाभिगुदेष्वेवं क्रमान्न्यसेत् ॥ ३९६ ॥

ध्यायेत्सूर्य्यप्रतीकाशं प्रतिवक्त्रं त्रिलोचनम् ॥
चन्द्रार्धालङ्कृतं हस्तैश्चतुर्भिर्दधतं क्रमात् ॥
सृणिं पाशं कपालं च खट्वाङ्गं रत्नभूषितम् ॥ ३९७ ॥

रक्ताङ्गं रक्ताभरणांशुकं चिपिटनासिकम् ॥
शैवपीठे यजेद्देवं वक्ष्यमाणेन चात्मना ॥ ३९८ ॥

नपुंसकस्वरैर्विद्वाननुलोमविलोमगैः ॥
धर्मादिकैरधर्म्माद्यैः पादगात्राणि कल्पयेत् ॥ ३९९ ॥

इकारेण यजेद्देवीतत्त्वरूपगुणानपि ॥
चतुर्थपञ्चमाभ्यान्तु मायाविद्यामयो भवेत् ॥ ४०० ॥

अत ऊर्ध्वं च पीठस्य जकारेण ततोम्बुजम् ॥
सन्ध्यक्षरैश्चतुर्दिषु स्थिता वामादिका यजेत् ॥ ४०१ ॥

वामा ज्येष्ठा च रौद्रीच्छा ज्वालामालाविराजिता ॥
इत्थं सङ्कल्पिते पीठे तुम्बुरुं तत्र पूजयेत् ॥ ४०२ ॥

चतुर्द्वारसमायुक्तचतुरस्रत्रयावृते ॥
अष्टपत्राम्बुजेङ्गानि केशरेषु समर्चयेत् ॥ ४०३ ॥

दिक्पत्रेषु स्वबीजानि रक्ता वामादिका यजेत् ॥
अरुणांशुकपुष्याढ्यास्ताम्बूलाकुलिताननाः ॥ ४०४ ॥

वल्लकीवादनरता मदविभ्रममन्थराः ॥
अष्टपत्रेषु चाभ्यर्च्या देव्यो दुर्गादिकाः क्रमात् ॥ ४०५ ॥

दुर्गगा सुभगा चैव कराली मोहिनी तथा 9
बद्धाञ्जलिपुटाः किञ्चिदानम्रवदनाम्बुजाः ॥ ४०६ ॥

देवीसदृशभूषाढ्यास्तद्बीजानि सबिन्दवः ॥
शषसहास्तु तद्बाह्ये यजेद्वीथीद्वये मनुम् ॥ ४०७ ॥

लोकेश्वरांस्तदस्त्राणि चेत्थं पूजाक्रमः स्मृतः ॥
लक्षमेकं जपेन्मन्त्रं दशांशं तु हुनेद्घृतैः ॥ ४०८ ॥

तर्प्पणादि ततः कृत्वा प्रयोगानाचरेत्ततः ॥
युगवह्निपुटान्तस्थं बीजं स्मृत्वा सहस्रकम् ॥
अष्टोत्तरं जपेद्वाराज्ज्वरो नश्येन्न संशयः ॥
कुपितस्य हृदम्भोजे स्मृत्वा बीजमिदं जपेत् ॥ ४०९ ॥

अष्टोत्तरसहस्रं तु तत्कोपो नश्यति ध्रुवम् ॥
एतम्मन्त्रं जपित्वा तु प्रातः काले पिबेज्जलम् ॥

हृद्रोगास्तस्य नश्यन्ति सर्वे विष्टम्भकादयः ॥ ४१० ॥

मण्डलं नवनाभाख्यं कृत्वा संस्थापयेद्घटम् ॥
पुत्रिणी कन्यकामाता भवेदत्र तु का कथा ॥ ४११ ॥

राजाभिषेके विजयी विप्रो वेदविदांवरः ॥
भूतप्रेतादिकाः कृत्या रोगा नश्यन्ति तत्क्षणात् ॥
श्रीतुम्बुरुशिवस्यायं मन्त्रः सर्वार्थसिद्धिदः ॥ ४१२ ॥

अथातो दक्षिणामूर्त्तेर्नवार्णो मन्त्र उच्यते ॥
प्रणवाद्यरमाभ्यां 10 तु सम्पुटो नववर्णकः ॥ ४१३ ॥

भोत्पञ्चाक्षरो मन्त्रो विराट् छन्दो मुनिः शुकः ॥
दक्षिणामूर्तिरुद्रोस्य देवता समुदीरितः ॥ ४१४ ॥

श्रीम्पूर्वपञ्चवर्णैश्च 11 बिन्दुयुक्तैर्ध्रुवादिकैः ॥
दीर्घस्वरैः षडङ्गानि ततोर्णन्यासमाचरेत् ॥
दृक्कर्णनासिकाद्वन्द्वे मुखे लिङ्गे गुदे पुनः ॥ ४१५ ॥

पुनर्वर्णान्न्यसेच्छीर्षे ललाटे दृशि घोणके ॥
मुखे हृद्युदरे जानौ पादे चायं द्वितीयकः ॥
सृष्टिन्यासं ततः कुर्यात्तृतीयं भुजयोः क्रमात् ॥ ४१६ ॥

पादमूले च तन्मध्ये पादान्ते दक्षवामयोः ॥
सर्वाङ्गुलीषु विन्यस्य मूलेन व्यापकं चरेत् ॥ ४१७ ॥

स्थितिन्यासं ततः कुर्य्याच्चतुर्धा स निगद्यते ॥
दक्षपार्श्वे वामपार्श्वे पृष्ठे च जठरे हृदि ॥
कण्ठे दक्षे बाहुमूले न्यसेत्ककुदि चान्तरे ॥ ४१८ ॥

बाहुमूले प्रथमके न्यासं वक्ष्ये द्वितीयकम् ॥
शीर्षे ललाटे नेत्रे च वामे दक्षे च कर्णयोः ॥
नासामुखे तृतीयं तु कण्ठहृन्नाभिषु न्यसेत् ॥ ४१९ ॥

दक्षिणे च तथा वामे बाहुमूले च पार्श्वयोः ॥
कटेश्च भागद्वितये चतुर्थं कथयाम्यथ ॥ ४२० ॥

बाहुमूले च तन्मध्ये वामाङ्गुल्यग्रदक्षिणे ॥
विन्यसेत्प्रथमं वर्णं द्वितीयार्णं ततो न्यसेत् ॥ ४२१ ॥

आबाहूदक्पादमूलतत्सन्ध्यङ्गुलिकाग्रके ॥
तृतीयं विन्यसेद्वर्णं चाङ्गुलीनां च सन्धिषु ॥ ४२२ ॥

चतुर्थाद्यास्तथा वर्णा वामदक्षिणहस्तयोः ॥
कनिष्ठाद्यङ्गुलीनां च न्यसेत्सन्धित्रिके त्रिके ॥ ४२३ ॥

ततश्च व्यापकं कृत्वा संहारन्यासमाचरेत् ॥
वामपादतले पृष्ठे वामदक्षिणपार्श्वयोः ॥ ४२४ ॥

तेषां च समुदायेपि जङ्घायामूरुक द्वये ॥
तथा दक्षिणपादे च क्रमादर्णानिमान्न्यसेत् ॥ ४२५ ॥

एवं च दक्षिणे पादे द्वितीयो न्यास उच्यते ॥
वामे करतले पृष्ठे तथा जानुनि दक्षिणे ॥ ४२६ ॥

तत्समूहे तथा नाभौ हृदयेथ पुनर्न्यसेत् ॥
वामदक्षिणकट्यां च तृतीयो वै प्रकीर्तितः ॥
एवं दक्षिणहस्ते च चतुर्थः परिकीर्तितः ॥ ४२७ ॥

वामदक्षिणकट्यां तु स्तनान्तं वर्णयुग्मकम् ॥
स्तनाभ्यां हृदयाभ्यां च न्यसेद्वर्णं तृतीयकम् ॥ ४२८ ॥

हृदयान्मस्तकान्तं च चतुर्थं वर्णमादिशेत् ॥
मस्तकस्य चतुर्दिक्षु चत्वारोर्णाः समीरिताः ॥
नवमं ब्रह्मरन्ध्रे च न्यासोयं पञ्चमः स्मृतः ॥ ४२९ ॥

ततश्च व्यापकं कृत्वा सृष्टिन्यासं समाचरेत् ॥
व्यापकं च पुनः कृत्वा स्थितिन्यासं समाचरेत् ॥ ४३० ॥

पुनश्च व्यापकं कृत्वा पञ्च शान्त्यादिकान्न्यसेत् ॥
मूर्द्धास्यहृद्गुह्यपादे पुनस्तानेव विन्यसेत् ॥ ४३१ ॥

ऊर्ध्वप्रागादिकास्येषु पुनर्व्यापकमाचरेत् ॥
पुनर्मुन्यादिकं न्यस्य षडङ्गानि ततश्चरेत् ॥ ४३२ ॥

ततो ध्यायेद्योनिलिङ्गं दक्षिणामूर्तिविग्रहम् ॥
शतयोजनकोच्छ्रायं पञ्चसप्तति विस्तृतम् ॥ ४३३ ॥

वटवृक्षमनुस्मृत्य तदधस्ताद्विचिन्तयेत् ॥
मण्डपं रुचिरं तद्वत्सहस्रस्तम्भसंयुतम् ॥ ४३४ ॥

चतुस्तम्भयुतं तस्य मध्ये सिंहासनं शुभम् ॥
तत्रासीनं महादेवं दक्षिणामूर्त्तिविग्रहम् ॥ ४३५ ॥

शुद्धस्फटिकसङ्काशं शशिखण्डविभूषितम् ॥
व्याघ्रचर्म्मधरं शान्तं जटामुकुटमण्डितम् ॥ ४३६ ॥

मुखपङ्करुहोल्लासं सोमसूर्य्याग्निलोचनम् ॥
मुद्रापरश्वधमृगान्बिभ्राणं बाहुभिस्त्रिभिः ॥ ४३७ ॥

अङ्गाष्टके दधानं तु रामबीजं शुशोभनम् ॥
व्याकुर्वन्तं समस्तानि ब्रह्मतन्त्राणि सादरम् ॥ ४३८ ॥

धृतपङ्कजहस्तं च सर्वमोहप्रणाशनम् ॥
शुकादिमुनिमुख्यैस्तु पुस्तकोज्ज्वलपाणिभिः ॥ ४३९ ॥

उमयेन्दिरया वाचा वाग्देव्या चापि वामतः ॥
ब्रह्माण्या पद्मनाभेन चानन्देन च संवृतम् ॥ ४४० ॥

वेदैश्चाङ्गैश्च वेदान्तैर्विदिशासु च वेष्टितम् ॥
मीमांसाधर्म्म शास्त्राभ्यां दिशि प्राच्यामुपासितम् ॥ ४४१ ॥

इतिहासपुराणाभ्यां यमाशायां तु पश्चिमे ॥
साङ्ख्यपातञ्जलाभ्यां तु सौम्याशायामुपासितम् ॥ ४४२ ॥

त्रयस्त्रिंशद्भिरिन्द्राद्यैर्देवैः संवेष्टितं प्रभुम् ॥ ४४३ ॥

यावन्तो वैश्वदेवस्य नीवीसम्बन्धिनः सुराः ॥ ४४४ ॥

त्रीणि चैव सहस्राणि षष्ट्यग्राणि शतानि च ॥
तावद्भिर्विविधैः साक्षाद्गन्धर्वाद्यैश्च संयुतम् ॥ ४४५ ॥

परभूतं महादेवं दक्षिणामूर्त्तिमादरात् ॥
भावयेद्योपि सद्भावं सर्वज्ञश्च भवेद्ध्रुवम् ॥ ४४६ ॥

अस्य पूजाप्रयोगादि द्वात्रिंशार्णसमं मतम् ॥
पञ्चलक्षं पुरश्चर्य्या होमो द्वात्रिंशदर्णवत् ॥
अष्टोत्तरशतं नित्यं जपेत्पुष्पाञ्जलिस्तथा ॥ ४४७ ॥

अथान्यं सम्प्रवक्ष्यामि मन्त्रं द्वात्रिंशदक्षरम् ॥
सर्वं पूर्ववदेवं स्याद्विशेषो ज्ञानदस्त्वयः ॥ ४४८ ॥

अज्ञानेन्धनदीप्ताय ज्ञानाग्निज्वालरूपिणे ॥
आनन्दाघहर प्रीत सम्यज्ज्ञानं प्रयच्छ मे ॥ ४४९ ॥

खड्गरावणमन्त्रोथ कथ्यते तन्त्रगोपितम् ॥
तारो 12 नमो भगवते ङेन्तः पशुपतिर्ध्रुवः ॥ ४५० ॥

हृद्भूताधिपतिर्ङेन्त ॐ हृद्रुद्राय चोच्चरेत् ॥
खड्गरावण लंलं च विहरद्वितयं सर ॥ ४५१ ॥

सर नृत्यद्वयं पश्चाद्व्यसनं पदमुच्चरेत् ॥
भस्मार्चितशरीराय ततो घण्टापदं वदेत् ॥ ४५२ ॥

कपालमालाधराय व्याघ्रचर्मपदं ततः ॥
परिधानायाथ ङेन्तः शशाङ्ककृतशेखरः ॥ ४५३ ॥

कृष्णसर्प्पपदं प्रोच्य वदेद्यज्ञोपवीतिने ॥
चलद्वयं बल द्वेधा अतिवर्तिकपालिने ॥ ४५४ ॥

जहिद्वयं वदेद्भूतान्नाशयद्वितयं ततः ॥ ४५५ ॥

मण्डलेति पदान्ते तु मध्ये फड्द्वितयन्ततः ॥ ४५६ ॥

रुद्रां कुशेन शमय प्रवेशययुगं वदेत् ॥
द्विरावेणय रक्षांसि धाराधिपति संवदेत् ॥ ४५७ ॥

रुद्रो ज्ञापयति स्वाहा मन्त्रोयं खड्गरावणः ॥
रावणोस्यामितं छन्दो देवता खड्गरावणः ॥ ४५८ ॥

षड्दीर्घबिन्दुयुक्तेन खकारेण षडङ्गकम् ॥
सद्योजातादिकान्देहे चेशानादीन्मुखेषु च ॥ ४५९ ॥

रक्ताम्बरं रक्तवर्णं चन्द्रमौलिं त्रिलोचनम् ॥
पञ्चाननं करैर्घण्टां कपालाङ्कुशमस्तकम् ॥ ४६० ॥

कृपाणं खेटखट्वाङ्गौ त्रिशूलं डमरुं करैः ॥
दधानमभयं चापि ध्यायेत्पञ्चाननं शिवम् ॥ ४६१ ॥

भताधिपतये स्वाहा पूजामन्त्रोयमीरितः ॥
पञ्चाक्षरोदिते पीठे पूजयेत्खड्गरावणम् ॥ ४६२ ॥

मूलेन मूर्त्तिं सङ्कल्प्य तच्छान्तं मन्त्रबिन्दुमत् ॥
अङ्गानि दलमूलेषु द्वितीयेष्टदले यजेत् ॥ ४६३ ॥

श्यामां द्वितीयां बलिनीं तृतीयां कृष्णपिङ्गलाम् ॥
फाल्गुनीं झिण्टिरिल्लीं च पञ्चमीं मन्त्रमालिकाम् ॥ ४६४ ॥

सप्तमा खड्गिनीं पश्चाच्चन्द्राङ्कितजटामिमाः ॥
पूर्वपत्रादिसव्येन खड्गरावणवल्लभाः ॥ ४६५ ॥

ऐन्द्रीं कौमारिकां ब्राह्मीं वाराहीं वैष्णवीं तथा ॥
वैनायकीं च चामुण्डां माहेशीं दिक्षु पूजयेत् ॥ ४६६ ॥

द्वारपालान्यजेद्दिक्षु द्वाद्वा प्रागादिदेशतः ॥
रौद्रपिङ्गलनामानौ श्मशानानलभीषणौ ॥ ४६७ ॥

दृढकर्णं भृङ्गरीटिमुदगामर्दकं यजेत् ॥
महाकालं च केशेषु कुम्भकर्णमशेषकम् ॥ ४६८ ॥

भल्लाटं जानुहारं च भूपुरद्वयवीथिषु ॥
इन्द्रादिकांस्तदस्त्राणि बाह्ये भूतबलिं हरेत् ॥ ४६९ ॥

अयुतद्वितयं मन्त्रं जपित्वा तद्दशांशतः ॥
पायसेन घृताक्तेन जुहुयात्तस्य सिद्धये ॥ ४७० ॥

इत्थं सिद्धमनुर्मन्त्री कृत्याग्रहमपोहयेत् ॥
आदेशं तस्य कुर्वन्ति भूता भीता महात्मनः ॥
मन्त्रेणानेन सदृशो नान्यो भूतप्रमर्दकः ॥ ४७१ ॥

अथ प्रवक्ष्ये रुद्रस्य मृतसञ्जीविनीमनुम् ॥
प्रणवं 13 व्याहृतीस्तिस्रः प्रासादं मृत्युजिन्मनुम् ॥
त्रियम्बकं मृत्युजितं प्रासादं व्याहृतित्रयम् ॥ ४७२ ॥

प्रणवं चोच्चरेदेष मृतसञ्जीविनीमनुः ॥
वशिष्ठोस्य मुनिश्छन्दोनुष्टुबुद्रोस्य देवता मृत्युञ्जयाख्यः प्रणवो बीजं शक्तिस्तु हौं मतः ॥
तारव्याहृतिमन्त्राङ्घ्रिचतुष्कोणाङ्गुलीमुखे ॥ ४७३ ॥

न्यासं कृत्वा षडङ्गानि तत्र कृत्ये समाचरेत् ॥
त्रियम्बकमनोर्न्यासान्पूर्वोक्तानपि सञ्चरेत् ॥ ४७४ ॥

अवैदिकानां वक्ष्येहं न्यासं मन्त्रविनिर्णयम् ॥
तारो 14 नमो भगवते त्र्यम्बकाय ततो वदेत् ॥ ४७५ ॥

शूलपाणिश्च रुद्रश्च ङेन्तश्चामृतमूर्त्तये ॥
मा जीवय पदस्यान्ते स्याच्चन्द्रजटिलं पदम् ॥ ४७६ ॥

त्रिपुरान्तकाय हंह्रीं ङेन्तं रुद्रपदं वदेत् ॥
ऋग्यजुस्सामरूपाय रुद्रायाग्नित्रयाय च ॥ ४७७ ॥

ज्वलद्वन्द्वं प्रज्वलद्विर्मां रक्षयुगलं वदेत् ॥
आघोरास्त्राय हुम्फट् च स्वाहान्तोब्ध्यष्टवर्णकः ॥ ४७८ ॥

तारो नमो भगवते ततो मन्त्राक्षराणि तु ॥
स्वाहान्तमङ्गत्रितये कवचानि च फट् त्रिषु ॥ ४७९ ॥

मन्त्राक्षराणि विन्यस्य तत्सङ्ङ्ख्येयं क्रमात्स्मृता ॥
नृपार्केषु गजस्थाणुदन्तसङ्ख्याक्रमेण च ॥ ४८० ॥

व्याहृतित्रयमुच्चार्य्य चास्त्राय फडिदं वदेत् ॥
अयं दिग्बन्धमन्त्रः स्याद्ध्यानमस्य निरूप्यते ॥ ४८१ ॥

ऊर्ध्वं विधोर्मण्डलस्य बद्धपद्मासनं विभुम् ॥
स्रवत्पीयूषबिन्दोश्च कलाध्रं चन्द्रसुप्रभम् ॥ ४८२ ॥

योगमुद्राधरं द्वाभ्यां घटं चामृतपूरितम् ॥
सोमसूर्य्याग्निनेत्रं च बद्धपिङ्गजटाधरम् ॥ ४८३ ॥

व्याघ्रचर्माम्बरधरं नानाभरणभूषितम् ॥
भस्मानुलेपनं भक्तकृपाकरमनुस्मरेत् ॥ ४८४ ॥

त्रियम्बकस्य वेदोक्तपीठे सम्पूजयेच्छिवम् ॥
चत्वारिंशत्सहस्राणि पौरश्चरणिको जपः ॥ ४८५ ॥

प्रोक्तद्रव्यैस्तद्दशांशो होमःशेषं तु पूर्ववत् ॥
विशेषेण तर्प्पणं तु शीघ्राभीष्टफलप्रदम् ॥ ४८६ ॥

रूपत्रयं यथेत्युक्तं जले ध्यात्वा महेश्वरम् ॥
सम्पूज्य जुहुयात्तत्र मृत्युरोगापनुत्तये ॥
प्रयोगाश्चापि सिद्ध्यन्ति पुरामृत्युञ्जयोदिताः ॥ ४८७ ॥

अथातः सम्प्रवक्ष्यामि रुद्रमन्त्रं दशाक्षरम् ॥
तारो नमो भगवते रुद्रायेति प्रकीर्त्तितः ॥ ४८८ ॥

बौद्धायनो मुनिः पङ्क्तिश्छन्दो रुद्रोस्य देवता ॥
पृथक्पदैः समस्तेन पञ्चाङ्गविधिरीरितः ॥ ४८९ ॥

मस्तके चापि नासायां ललाटे च मुखे गले ॥
हृदये दक्षिणे हस्ते वामे नाभ्यां च पादयोः ॥ ४९० ॥

मन्त्रवर्णान्प्रविन्यस्य ध्यानपूजाजपादिकाः ॥
प्रयोगाश्चात्र विज्ञेयाः पञ्चार्णोक्ता यथा पुरा ॥ ४९१ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते शिवमन्त्रकथनं नामैकत्रिंशः प्रकाशः ॥ ३१ ॥


  1. व्मेपदे पूर्वत्र सम्बध्येते ॥ ↩︎

  2. एतत्पूर्वं मन्त्राकथनात्पाठविच्छेदो ज्ञायते ॥ ↩︎

  3. भवेभवे नातिभवेत्यादि ॥ ↩︎

  4. ॐ ह्रीं दक्षिणामूर्त्तये तुभ्यं वटमूलनिवासिने ॥
    ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ॐ ह्रीम् ॥ ↩︎

  5. ॐ खं खां खं फट् शत्रून् ग्रससिग्रससि हुं फट् सर्वास्त्रसहरणाय शरभाय शान्ताय पक्षिराजाय हुं फट् स्वाहा नमः ॥ ↩︎

  6. पदन्यास इति शेषः ॥ ↩︎

  7. ॐ श्रीं पशुपतिः हुं फट् ॥ ↩︎

  8. ॐ ॐ हृदयायनमः ॐ पं शिरसे स्वाहा ॐ शुं शिखायै वषट् ॐ पं कवचाय हुम् ॐ तिः नेत्रत्रयाय वौषट् ॐ हुं फट् अस्त्राय फट् ॥ ↩︎

  9. उपलब्धपुस्तकद्वयेपि दुर्गादिचतुर्देव्यर्चनमेवास्ति चतुर्देवीपूजनोनत्वेन पाठविच्छेदोनुमीयते ॥
    पूर्वत्राष्टदलेषु तत्पूजनवर्णनात् ॥ ↩︎

  10. ॐ श्रीन्नमः शिवाय ॐश्रीम् इति नवाक्षरमन्त्रः । ↩︎

  11. ॐ श्रीं-आं हृद्रयाय नमः, ॐ श्रीम् ईं शिरसे स्वाहा, ॐ श्रीम् ऊं शिखायै वषट्, ॐ श्रीं-ऐं कवचाय हुम्, ॐश्रीं-औं नेत्रत्रयाय वौषट्, ॐ श्रीम् अः अस्त्रायफट् ॥
    एवमङ्गुष्ठादिन्यासोपि । ↩︎

  12. ॐ नमो भगवते पशुपतये ॐ नमो भूताधिपतये ॐ नमो रुद्रायखङ्गरावण ललं विहर विहर सर सर नृत्य नृत्य व्यसनं भस्मार्चितशरीराय घण्टाकपालमालाधराय व्याघ्रचर्मपरिधानाय शशाङ्ककृतशेखराय कृष्णसर्प्पयज्ञोपवीतिने चलचल बलबल अतिर्वीतकपालिने हनहन भूतान्नाशय नाशय मण्डलाय फट्फट् रुद्राङ्कुशेन शमयशमय प्रवेशय प्रवेशय आवेणय आवेणय रक्षासि धराधिपतिः रुद्रो ज्ञापयति स्वाहा । ↩︎

  13. ॐ भूर्भुवः स्वः हौं ॐ जूंसः त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥
    उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॐजूंसः हौं भूर्भुवः स्वरोम् । ↩︎

  14. ॐ नमो भगवते त्र्यम्बकाय शूलपाणये रुद्रायामृतमूर्तये माञ्जीवय चन्द्रजटिल त्रिपुरान्तकाय हंह्रीं रुद्राय ऋग्यजुःसामरूपाय रुद्रायाग्नित्रितयाय ज्वलज्वल प्रज्वलप्रज्वल मां रक्षरक्ष अघोरास्त्राय हुम्फट्स्वाहा । ↩︎