श्रीदेव्युवाच ॥
शक्तिं विना न देवोस्ति शक्तिश्चापि पतिं विना ॥
नचास्तीति पुरा प्रोक्तमत्र शक्तीर्वदाधुना ॥ १ ॥
श्रीशिव उवाच ॥
लक्ष्मीरुक्ता विष्णुशक्तिरन्या अपि वदामि ते ॥
यतिभिः केवलो देवः सेव्यो नान्यैस्तथा त्रिभिः ॥ २ ॥
शक्तिश्च केवला सेव्या वाममार्गरतैर्द्विजैः ॥
यतस्तु धर्म्मपतितो वाममार्गी पुमान्मतः ॥ ३ ॥
ये हरिं वाममार्गेण पूजयन्त्यद्विजातयः ॥
तेषां भुक्तिश्च मुक्तिश्च तदन्ते त्वं मनुं शृणु ॥ ४ ॥
आद्याक्षरं च सकलं कूटं मायान्वितं वदेत् ॥
वदयुग्मं च चित्रेशे वाग्बीजं दहनाङ्गना ॥ ५ ॥
द्वादशार्णो मनुः प्रोक्तो मुनिर्ब्रह्मा समीरितः ॥
चित्रेश्वरी देवता स्याच्छन्दो गायत्रमुच्यते ॥ ६ ॥
षड्दीर्घयुक्तकूटेन षडङ्गविधिरीरितः ॥
नीलोत्पलदलश्यामां मदाघूर्णितलोचनाम् ॥ ७ ॥
नानालङ्करणोपेतां रक्तवस्त्रोपशोभिताम् ॥
क्रीडन्तीं हरिणा सार्धं स्थगितां च वनेवने ॥ ८ ॥
एवं ध्यात्वा ततो मन्त्री कुर्य्यात्पूजां यथाविधि ॥
नोपास्या जातु चिद्विप्रैर्वाममार्गप्रभावतः ॥ ९ ॥
अथ विष्णोः प्रवक्ष्यामि कुलजां शक्तिमुत्तमाम् ॥
सेव्या कौलिकमार्गेण तदधीनस्तदा हरिः ॥ १० ॥
वाग्बीजं कुलजे वह्नौ सरस्वत्यनलाङ्गना ॥
एकादशाक्षरो मन्त्रो मुनिः स्याद्वामकेश्वरः ॥ ११ ॥
त्रिष्टुप्छन्दस्तु कुलजा देवता परीकीर्त्तिता ॥
पञ्चाङ्गं स्यात्पञ्चपदैरङ्गुष्ठादिषु विन्यसेत् ॥ १२ ॥
गौराङ्गी नीलवसना नानालङ्कारभूषिता ॥
क्रीडन्ती हरिणा सार्धं महावटसमाश्रिता ॥ १३ ॥
पूजादिकं चरेदस्या उग्रातारासमो जपः ॥
अत्रैकादशलक्षाणि सुरा मांसं च होमयेत् ॥
भगपूजां विशेषेण कुर्य्याद्वीरांश्च भोजयेत् ॥ १४ ॥
एकान्ते यो वटाधस्ताल्लिङ्गं योनौ प्रवेश्य च ॥
लक्षमात्रं जपेद्यस्तु त्रिकालज्ञः स जायते ॥ १५ ॥
पञ्चमासं पूजयित्वा वटाधस्ताच्च तां निशि ॥
षण्मासं नियतं देवीं वाग्बुद्धिस्तस्य जायते ॥ १६ ॥
सन्ध्याद्वये चार्धरात्रे यो वर्षैकं प्रपूजयेत् ॥
कुलजां पञ्चमैः स स्याद्धनधान्यसमन्वितः ॥
राजमान्यो महातेजाः पूज्यते सकलैर्जनैः ॥ १७ ॥
अथ मार्गद्वयोपास्यां वक्ष्ये गोपालसुन्दरीम् ॥
मायाश्रीकामबीजानि कृष्णायेति पदं वदेत् ॥ १८ ॥
एकोनविंशकं वर्णं रुद्रदेवस्वरौ तथा ॥
पञ्चमं च ततो बीजमेभिः सप्तमकूटकम् ॥ १९ ॥
गोविन्दाय पदं पश्चाच्चित्रैश्वर्य्यादिकूटकम् ॥
गोपीजनवल्लभाय ततश्च कमलत्रयम् ॥ २० ॥
कूटरूपं समुच्चार्य्य वदेद्वै हंसवाहिनीम् ॥
त्रयोविंशाक्षरो मन्त्रो भुक्तिमुक्तिफलप्रदः ॥ २१ ॥
मुनिर्विधाता दक्षे तु वामे चानन्दभैरवः ॥
छन्दस्तु देवी गायत्री देवो गोपालसुन्दरी ॥ २२ ॥
त्रित्रिवेदाब्धिवेदाब्धिवर्णैः कुटविहीनकैः ॥
षडङ्गविधिरुद्दिष्टो मन्त्रवर्णान्न्यसेत्तनौ ॥ २३ ॥
कूटत्रयविहीनांश्च विंशत्यङ्गेषु विन्यसेत् ॥
मूर्ध्नि भाले भ्रुवोरक्ष्णोः कर्णयोर्नासयोर्मुखे ॥ २४ ॥
चुबुके च गले बाह्वोर्हृदये जठरे तथा ॥
नाभौ लिङ्गे गुदे सक्थ्नोर्जानुनोर्जङ्घयोरपि ॥ २५ ॥
गुल्फयोः पादयोः सृष्टिन्यासोयं परिकीर्त्तित ॥
हृदयाद्यो भुजान्तश्च न्यासोयं स्थितिसञ्ज्ञकः ॥ २६ ॥
पादादिमस्तकान्तश्च संहारः परिकीर्त्तितः ॥
एवं न्यासत्रयं कृत्वा पुनः सृष्टिस्थितिं चरेत् ॥ २७ ॥
ततश्च करशुद्ध्याख्यं न्यासं कुर्वीत तं शृणु ॥
ह्रीं श्रीम्पूर्वम् अं च आं च स्वरौ न्यस्येत्क्रमेण तु ॥ २८ ॥
मध्यानामाकनिष्ठासु पुनस्तानेव विन्यसेत् ॥
मायां रमां तथा ह्रीं च कामबीजं हकारयुक् ॥ २९ ॥
ह्रौं च चक्रासनायेति हृदुक्त्वा जङ्घयोर्न्यसेत् ॥
मायां लक्ष्मीं समुच्चार्य्य हसयुक्तानि चोच्चरेत् ॥ ३० ॥
वाक्कामौ सौं च बीजानि सर्वमन्त्रासनाय च ॥
नमोन्तः शक्रवर्णोयं विन्यसेज्जानुनोस्तथा ॥ ३१ ॥
लज्जा लक्ष्मीं समुचार्य्य साध्यसिद्धासनाय च ॥
नमः प्रोच्य न्यसेल्लिङ्गे रुद्रवर्णोयमीरितः ॥ ३२ ॥
ततो वाग्देवतान्यासं कुर्य्यात्तस्य मनुं शृणु ॥
मेघवण वदेन्ङेन्तं सबिन्दुं षण्मितस्वरम् ॥ ३३ ॥
आद्यं बीजं षोडशार्णं बीजयुक्तं ततो वदेत् ॥
तदेव बीजं वशिनी देवतायै नमस्तथा ॥ ३४ ॥
सप्तविंशतिवर्णोयं मन्त्रः शिरसि विन्यसेत् ॥
कवर्गं बिन्दुसंयुक्तं कामं कामेश्वरीं तथा ॥ ३५ ॥
वाग्देवतायै हृदयं न्यसेद्भाले घनार्णकम् ॥
चवर्गं बिन्दुसंयुक्तं दशरामेषुवर्णकान् ॥
बिन्दुतुर्य्यान्स्वरोपेतान्षष्ठं बीजमुदाहृतम् ॥ ३६ ॥
नोदिनीवाग्देवतायै नमः षोडशवर्णकम् ॥
भ्रूमध्ये विन्यसेन्मन्त्रं टवर्गं बिन्दुसंयुतम् ॥ ३७ ॥
द्वितीयपञ्चमौ षष्ठस्वरबिन्दु समन्वितौ ॥
विमलावाग्देवतायै नमश्चेति गले न्यसेत् ॥ ३८ ॥
तवर्गं बिन्दुसंयुक्तं त्रिसप्तमनुवर्णकान् ॥
बिन्दुतुर्य्यस्वरोपेतान्बीजं प्रोक्तं तथारुणा ॥ ३९ ॥
वाग्देवतायै च नमो न्यसेद्धृदि नृपार्णकम् ॥
पवर्गबिन्दुसंयुक्त माद्यमन्त्यं च पञ्चमम् ॥ ४० ॥
तृतीयं च द्वितीयं च षष्ठबिन्दुसमन्वितम् ॥
जयन्तीवाग्देवतायै नमोयं नृपवर्णकः ॥ ४१ ॥
यवर्गं बिन्दुसंयुक्तमीशागत्र्यक्षिवर्णकम् ॥
बिन्दुषष्ठस्वरोपेतं कूटकान्तमुदाहृतम् ॥ ४२ ॥
सर्वैश्वर्य्यै च वाग्देवतायै हृत्षोडशाक्षरः ॥
मूलाधारे न्यसेदेनं सवर्गं बिन्दुसंयुतम् ॥ ४३ ॥
क्षीबीजं कौलिनीवाग्देवतायै च हृदन्तकम् ॥
न्यसेदूर्वादिपादान्तं न्यासं वाग्देवताभिधम् ॥ ४४ ॥
ततो मन्त्रस्थितं कूटत्रयं काम्यं हृदि न्यसेत् ॥
कूटत्रयद्विरावृत्त्या षडङ्गं पुनराचरेत् ॥ ४५ ॥
कमलावसुधायुक्तं ध्यायेच्छ्रीचक्रगं हरिम् ॥
क्षीराम्भोधौ सितद्वीपे वने कल्पद्रुमादिभिः ॥ ४६ ॥
व्याप्ते तस्मिन्स्वर्णमयं चिन्तयेद्रत्नमण्डपम् ॥
मण्डपे तत्र श्रीपीठे स्थितं कृष्णं विभावयेत् ॥ ४७ ॥
पद्ममष्टदलं शङ्खं बाणान्वंशीं च दक्षिणैः ॥
भुजैर्दधानं वामैस्तु चापं पाशं तथाङ्कुशम् ॥ ४८ ॥
विपञ्चीं च महारत्ननानाभरणभूषितम् ॥
पीताम्बरधरं गोपीसमूहैः परितो वृतम् ॥ ४९ ॥
आदावष्टदले पद्मे कर्णिकायां षडङ्गकम् ॥
पूर्वादिकदले वासुदेवं शान्तिं क्रमाद्यजेत् ॥ ५० ॥
सङ्कर्षणं श्रियं प्रद्युम्नाख्यं चापि सरस्वतीम् ॥
अनिरुद्धं रतिं पत्राग्रेष्वर्च्या अष्टनायिकाः ॥ ५१ ॥
रुक्मिणी सत्यभामा च कालिन्दी जाम्बवन्तिका ॥
मित्रविन्दा लक्ष्मणा च सत्या नाग्नजिती तथा ॥ ५२ ॥
तद्बाह्येष्टदले पूज्यास्तदग्रे निधयो नव ॥
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ॥ ५३ ॥
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥
योगिन्यस्तु रहस्याख्यास्तदग्रेष्टदलेर्चयेत् ॥ ५४ ॥
यक्षिणी चापि कामेशी कामिनी मादिनी बलात् ॥
जयिनी चैव सर्वेशी कौलिनीत्यष्ट शक्तयः ॥ ५५ ॥
ततो दशदले पूज्या निर्गभाख्यास्तु योगिनीः ॥
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्य्यफलप्रदा ॥ ५६ ॥
सर्वज्ञानमयी पश्चात्सर्वज्ञानविनाशिनी ॥
सर्वाधारस्वरूपा च सर्वपापहरापरा ॥ ५७ ॥
सर्वानन्दमयी पश्चात्सर्वरक्षास्वरूपिणी ॥
सर्वेप्सितार्थफलदा पश्चिमादिविलोमगाः ॥ ५८ ॥
तदग्रिमे दशदले पूजयेत्कुलयोगिनीः ॥
सर्वसिद्धिप्रदा त्वाद्या सर्वसम्पत्प्रदापरा ॥ ५९ ॥
सर्वप्रियङ्करी चव सर्वमङ्गलकारिणी ॥
सर्वकामप्रदा पश्चात्सर्वदुःखविमोचिनी ॥ ६० ॥
सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ॥
सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी ॥ ६१ ॥
अग्रे चतुर्दशारे तु योगिनीः साम्प्रदायिकाः ॥
पश्चिमादिविलोमेन पूजयेत्क्रमतस्तु ताः ॥ ६२ ॥
सर्वसङ्क्षोभिणीं चैव सर्वविद्राविणीं तथा ॥
सर्वाकर्षिणिकां प्रोक्तां सर्वाह्लादकरां तथा ॥ ६३ ॥
सर्वसम्मोहिनीं चैव सर्वस्तम्भनकारिणीम् ॥
सर्वजृम्भणिकां प्रोक्तां ततः सर्ववशङ्करीम् ॥ ६४ ॥
सर्वरञ्जनिकां चैव सर्वोन्मादनिकां तथा ॥
सर्वार्थसाधिनीं चैव सर्वसम्पत्तिरूपिणीम् ॥ ६५ ॥
सर्वमन्त्रमयीं चापि सर्वद्वन्द्वक्षयङ्करीम् ॥
ततोष्टारे पु(?)रा प्रोक्ता योगनीः परिपूजयेत् ॥ ६६ ॥
पूर्वादिष्वनुलोमेन बन्धूककुसुमप्रभाः ॥
अनङ्गकुसुमा त्वाद्या द्वितीयानङ्गमेखला ॥ ६७ ॥
अनङ्गमदना तद्वदनङ्गमदनातुरा ॥
अनङ्गलेखा चानङ्गवेगानङ्गाङ्कुशा तथा ॥ ६८ ॥
अनङ्गमालिनी त्वष्टौ पाशाङ्कुशलसत्कराः 1 ॥
तदग्रे षोडशारे तु पश्चिमादिविलोमतः ॥ ६९ ॥
कामाकर्षिणिका पूर्वम्बुद्ध्याकर्षिणिकापरा ॥
अहङ्काराकर्षिणी च शब्दाकर्षिणिका तथा ॥ ७० ॥
स्पर्शाकर्षिणिका तद्वद्रूपाकर्षिणिका भवेत् ॥
रसाकर्षिणिका प्रोक्ता गन्धाकर्षिणिका मता ॥ ७१ ॥
चित्ताकर्षिणिका चापि धैर्य्याकर्षिणिका मता ॥
नामाकर्षिणिका चैव बीजाकर्षिणिका तथा ॥ ७२ ॥
अमृताकर्षिणी चापि स्मृत्याकर्षिणिका मता ॥
शरीराकर्षिणी पश्चादात्माकर्षिणिका तथा ॥ ७३ ॥
तदग्रेष्टदले पूज्या योगिन्यः प्रकटा इह ॥
क्षोभणद्रावणाकर्षमनोन्मादमहाङ्कुशाः ॥ ७४ ॥
खेचरीं बीजसञ्ज्ञां च योन्याख्यामूर्ध्वतो यजेत् ॥
तद्वच्चाधः समभ्यर्च्य तद्बहिर्भूपुरे यजेत् ॥ ७५ ॥
ब्राह्म्याद्यष्टौ तद्बहिश्च प्राग्वच्चागारभूपुरे ॥
द्वारे द्वयं प्रागणिमा महिमा लघिमेशिता ॥ ७६ ॥
वशिता गुरुता भुक्तिः प्राकाम्यं प्राप्तिरेव च ॥
रससिद्धिश्च दशमी सपर्य्यैवं समीरिता ॥ ७७ ॥
लक्षमेकं जपेन्मन्त्रं जुहुयात्पायसेन वै ॥
तर्प्पणादि ततः कुर्य्यान्मन्त्रसिद्धः प्रजायते ॥ ७८ ॥
नवलक्षं जपेत्तां तु रुद्ररूपो नरो भवेत् ॥
करवीरजपुष्पैश्च होमान्मोहयते जगत् ॥ ७९ ॥
चन्द्रकुङ्कुमकस्तूरीहोमात्कामाधिको भवेत् ॥
चम्पकैः पाटलैर्बिल्वैर्वशमानयते चिरात् ॥ ८० ॥
करञ्जफलहोमेन भूतप्रेतादयो वशाः ॥
बिल्वैः स्यादतुला लक्ष्मीरिक्षुखण्डैस्तथा वशाः ॥ ८१ ॥
लाजहोमो राज्यदायी मधुनोपद्रवक्षयः ॥
निशि 2 स्वर्णफलैर्होमो रिपुसेनाविनाशकृत् ॥ ८२ ॥
दध्याज्यदुग्धमधुभिः कृताद्धोमादवाप्नुयात् ॥
आरोग्यं सम्पदं कामं धनं शर्क्करया सुखम् ॥ ८३ ॥
कमलैर्धनसम्पत्तिर्दाडिमै राजवश्यता ॥
क्षत्रियो मातुलुङ्गैश्च वैश्यो नारिङ्गजैः फलैः ॥ ८४ ॥
शूद्रः कूष्माण्डसम्भूतैर्वश्याः स्युरचिराद्ध्रुवम् ॥
पनसानां लक्षहोमाद्वश्याः स्युश्चक्रवर्तिनः ॥ ८५ ॥
द्राक्षाफलैरिष्टसिद्धी रम्भाभिर्मन्त्रिणो वशाः ॥
नारिकेरैस्तु पाण्डित्यं तिलैः सर्वेष्टसिद्धयः ॥ ८६ ॥
गुग्गुलैर्दुःखनाशः स्यात्सर्वेष्टं शर्करागुडैः ॥
पायसैर्धनधान्यादि बन्धूकैः प्राणिनो वशाः ॥ ८७ ॥
पक्वचूतफलैर्होमाद्रक्तमात्राद्धरा वशा ॥
लवणै राजिकायुक्तैर्होमाद्दुष्टविनाशनम् ॥ ८८ ॥
कर्पूरहोमाल्लभते वाक्पतित्वं नरोऽचिरात् ॥
घृतहे मादीप्सिताप्तिः शक्तिः स्यात्तिलतण्डुलैः ॥ ८९ ॥
अथान्यां सम्प्रवक्ष्यामि वाममार्गफलप्रदाम् ॥
कृष्णस्य शक्तिं सुमुखीं द्विजानां नाधिकारिता 3 ॥ ९० ॥
उच्छिष्टचाण्डालिनि सुमुखि देवि महापिशा ॥
चिनि ह्रीं ठश्चठःठश्च द्वाविंशत्यक्षरो मनुः ॥ ९१ ॥
भैरवोस्य मुनिश्छन्दो गायत्री सुमुखी सुरी ॥
मुनिरामद्विषट्चन्द्रबन्ध्वर्णैरङ्गकल्पनम् ॥ ९२ ॥
ततश्च सुमुखीं ध्यायेत्पुष्पहारविभूषिताम् ॥
रक्ताम्बरां रक्तवर्णां रक्तपुष्पानुलेपनाम् ॥ ९३ ॥
नृकपालं च खड्गं च कराभ्यां दधतीं नवाम् ॥
शवासनां पीनकुचां देवीं श्रीसुमुखीं भजे ॥ ९४ ॥
कालीपीठे यजेद्देवीं पञ्चकोणाढ्यकर्णिके ॥
अष्टपत्रे षोडशारे वृत्तभूपुरशोभिते ॥ ९५ ॥
मूलेन मूर्त्तिं सङ्कल्प्य पाद्यादीनि प्रकल्पयेत् ॥
चन्द्रां चन्द्राननां चारुमुखीं चामीकरप्रभाम् ॥ ९६ ॥
चतुरां पञ्चकोणेषु केशरेष्वङ्गदेवताः ॥
ब्राह्म्याद्या अष्टपत्रेषु षोडशारे कलादिकाः ॥ ९७ ॥
कला कलानिधिः काली कमला च क्रिया कृपा ॥
कुला कुलीना कल्याणी कुमारी कलभाषिणी ॥ ९८ ॥
कराली च करालास्या कान्ता कामप्रदा कुजा ॥
भक्तोच्छिष्टोऽयुतं जप्त्वा जायते सम्पदां पदम् ॥ ९९ ॥
उच्छिष्टेनैव भक्तेन बलिम् दद्यान्निरन्तम् ॥
गव्याज्याक्तैः प्रजुहुयाल्लक्षं सिद्धार्थतण्डुलैः ॥ १०० ॥
भवन्ति वशगास्तस्य राजानो राजमन्त्रिणः ॥
शास्त्राणि वशगानि स्युर्होमं मार्ज्जारमांसतः ॥ १०१ ॥
धनर्द्धिश्छागमांसेन विद्याप्राप्तिस्तु पायसैः ॥
मधुपायससंयुक्तस्त्रीरजोयुक्तवाससा ॥ १०२ ॥
होममाचरतः पुंसो जनता वशवर्त्तिनी ॥
मधुसर्पिर्युतैर्नागवल्लीपत्रैर्महाश्रियः ॥ १०३ ॥
सद्योनिहतमार्जारमांसेन मधुसर्पिषा ॥
युक्तेनान्त्यजकोणाद्यैर्हुतैराकर्षति स्त्रियः ॥ १०४ ॥
मध्वाक्तशशमांसेन तत्फलं विद्यया सह ॥
उम्मत्ततरुजैर्दीप्तचिताग्नौ जुहुयाच्छदैः ॥ १०५ ॥
कोकिलाकाकमांसेन मारयेदचिरादरीन् ॥
वायसोलूकयोः पत्रैर्होमाद्विद्वेषयेदरीन् ॥
गर्भपातः सगर्भाया उलूकच्छदहोमतः ॥ १०६ ॥
आज्याक्तैर्बिल्वपत्रैर्वा मासमेकं सहस्रकम् ॥
प्रत्यहं जुहुयात्तेन वन्ध्यापि लभते सुतम् ॥
सौभाग्यार्थं दुर्भगाया बन्धूककुसुमैर्हुनेत् ॥ १०७ ॥
चतुष्पथे बलिं दत्वा जपतश्चाष्टकायुतम् ॥
उच्छिष्टस्य च सा देवी प्रत्यक्षा जायतेचिरात् ॥ १०८ ॥
यत्र नोक्ता होमसङ्ख्या मन्त्रोक्तान्तत्र निर्दिशेत् ॥
वाममार्गेण सुमुखी क्षिप्रं कामविधायिनी ॥ १०९ ॥
भोजनान्ते तदोछिष्टैर्जाप्या सा स्वेष्टसिद्धये ॥
न क्षिप्रफलदा देवी सुमुखी सुदृढापरा ॥ ११० ॥
अथातः सम्प्रवक्ष्यामि वाममार्गेण सिद्धिदाम् ॥
कृष्णप्रियामेकजटां ह्रीन्त्रींहुम्फट् च हृन्मनुः ॥ १११ ॥
अस्य न्यासादि मुन्यादि तारापञ्चाक्षरीसमम् ॥
पूजावात्र पुरश्चर्य्या प्रोक्ता लक्षचतुष्टयम् ॥
तद्वत्प्रयोगकरणं कृष्णशक्तिरियम्परा ॥ ११२ ॥
अथ वक्ष्ये चैकजटामन्त्रं सव्यवशीकरम् ॥
तारो लज्जा नमो भेति गवत्येकजटे मम ॥
पुष्पं प्रतीक्षस्व स्वाहा द्वाविंशत्यक्षरो मनुः ॥ ११३ ॥
ऋषिः पतञ्जलिश्छन्दो गायत्र्येकजटा सुरी ॥
षडङ्गविधिरुद्दिष्टो दीर्घषड्युक्तमायया ॥
ध्यानपूजाप्रयोगादि सर्वं पूर्वोक्तवद्भवेत् ॥ ११४ ॥
अथ तत्रैकवीरायाः कृष्णशक्तेर्मनुं शृणु ॥
या तु भार्गवरामेण कार्त्तवीर्य्यवधाय च ॥
कृत्वा स्वं शाबरं रूपं वाममार्गेण सेविता ॥ ११५ ॥
तेन तन्त्रान्तरे प्रोक्ता सेवारीतिर्मया सुराः ॥
जरासन्धभयात्कृष्णो यदा सिन्धुं समाश्रितः ॥ ११६ ॥
तदा रामेण निर्दिष्टा श्रीकृष्णस्य जयैषिणः ॥
तामावाह्य स कृष्णोपि भोगेन पर्य्यतोषयत् ॥ ११७ ॥
आरे सुदर्शिता नार्या तस्मात्सा रेणुकाभवत् ॥
सम्भोगे तु जपेन्मन्त्री यथा सन्तोषयेत्स्त्रियम् ॥ ११८ ॥
सन्तुष्यते तदा देवी रेणुका वरदा भवेत् ॥
प्रणवः कमला माया क्रौमैं पञ्चाक्षरो मनुः ॥ ११९ ॥
भैरवोस्य मुनिः पङ्क्तिश्छन्दो देवी च रेणुका ॥
पञ्चवर्णैः समस्तेन षडङ्गविधिरीरितः ॥ १२० ॥
हेमाद्रिसानावुद्याने नानाद्रुममनोहरे ॥
रत्नमण्डपमध्यस्थवेदिकायां स्थितां स्मरेत् ॥ १२१ ॥
गुञ्जाहारां कर्णयुग्मे मयूरच्छदभूषिताम् ॥
कोदण्डबाणौ करयोर्नववल्कलधारिणीम् ॥ १२२ ॥
शोणपुष्पीनूपुरा च मल्लिकाकलिकाभराम् ॥
यजेदष्टदले पद्मे कर्णिकायां षडङ्गकम् ॥ १२३ ॥
हुङ्कारी खेचरी चण्डा छेदनी क्षेपणी तथा ॥
स्त्री तुङ्कारी क्षेमकारी तदग्रे भूपुरे यजेत् ॥ १२४ ॥
दिक्पतींश्च तदस्त्राणि पञ्चलक्षं जपेन्मनुम् ॥
बिल्वकाष्ठैधिते वह्नौ हुनेद्बिल्वफलैस्तथा ॥ १२५ ॥
तर्प्पणाद्यैः सिद्धमन्त्रः प्रयोगानाचरेत्ततः ॥
मल्लीपुष्पैर्हुतो वश्यमिक्षुदण्डैर्धनाप्तये ॥ १२६ ॥
पञ्चगव्यैर्धनानि स्युरशोककुसुमैः सुताः ॥
इन्दीवरैः कृतो होमो नृपपत्नीवशङ्करः ॥
अन्नादिरत्नैः सकलं मधूकैर्वाञ्छितं भवेत् ॥ १२७ ॥
अथातः सम्प्रवक्ष्यामि कृष्णस्यातीव वल्लभाम् ॥
षोडशस्त्रीसहस्राणा यत्प्रभावात्प्रभुर्भवेत् ॥ १२८ ॥
तारो 4 ह्रीं योगिनी द्वेधा योगेश्वरियुगं वदेत् ॥ १२९ ॥
योगे भयङ्करीत्युक्त्वा सकलस्थावरेति च ॥
जङ्गमस्य मुखं प्रोच्य हृदयम्मम चोच्चरेत् ॥ १३० ॥
वशमाकर्षयद्वन्द्वं स्वाहान्तः खशरार्णकः ॥
पितामहो मुनिः प्रोक्तश्छन्दोतिजगती मता ॥ १३१ ॥
हरेः प्राणसमा शैलपुत्री देवी स्वयंवरा ॥
ॐ ह्रां जगत्त्रयवश्यमोहिन्यै हृदयाय हृत् ॥ १३२ ॥
त्रैलोक्यवश्यमोहिन्यै तारमायादिकं शिरः ॥
उरङ्गवश्यमोहिन्यै ॐ ह्रैमाद्यं शिखा भवेत् ॥ १३३ ॥
ॐ ह्रैं सर्वराजवश्यमोहिन्यै कवचम्मतम् ॥
ॐ ह्रौं सर्वस्त्रीपुरुषमोहिन्यै चेति नेत्रकम् ॥ १३४ ॥
प्रणवो ह्रः सर्ववश्यमोहिन्यै चास्त्रमीरितम् ॥
ततश्च मूलमन्त्रेण सर्वाङ्गे व्यापकं चरेत् ॥ १३५ ॥
संसारसागरे कृष्णं क्रीडन्तं वीक्ष्य शङ्करः ॥
तत्तत्सुखेच्छया कृष्णरूपं जग्राह मोहनम् ॥ १३६ ॥
आनन्दकाननं ध्यायंस्तद्दृष्ट्वा गिरिजा भवत् ॥
मोहिता स्वस्वरूपञ्च कृत्वाष्टगुणसुन्दरम् ॥ १३७ ॥
तस्मिन्नवसरे विष्णुमयः पीताम्बरं दधत् ॥
जगौ मङ्गलगीतानि यावत्स्यान्मैथुनालयः ॥ १३८ ॥
मृतः कामो मङ्गलैस्तैः पूर्णश्चित्ते तयोरभूत् ॥
देव्यै मधूकजाम्माला नागहारं हरोर्प्पयत् ॥ १३९ ॥
विष्णुर्योगकरस्तत्र तयोर्जातः पुरोहितः ॥
तस्मै देवी वरं प्रादात्तेन जाता हरिप्रिया ॥ १४० ॥
एवं ध्यात्वा त्रिवेदाङ्गकोणं यन्त्रं समुद्धरेत् ॥
अष्टदशदिग्भूपालदन्ताष्टकृतिसम्मितैः ॥ १४१ ॥
दलैः पद्मानि कुर्वीत बाह्यवृत्तत्रयं पुनः ॥
भूपुरं वर्त्तुलं कार्यं पूजायन्त्रमितीरितम् ॥
शेषा स्वयंवरा पूज्या त्रिकोणाभ्यन्तरे ततः ॥
तद्बाह्ये चतुरस्रस्य दिक्षु मेधां यजेत्ततः ॥ १४२ ॥
विद्यां लक्ष्मीं महालक्ष्मीं षट्कोणेङ्गानि संयजेत् ॥
द्विद्विस्वरानष्टदले शक्रादीन्दिग्दले पुनः ॥ १४३ ॥
तदायुधानि तद्बाह्ये दिग्दले षोडशारके ॥
ताराद्येन नमोन्तेन श्रीबीजेन यजेच्छ्रियम् ॥ १४४ ॥
पाशं मायामङ्कुशं च शिवायै नम इत्यपि ॥
अष्टाक्षरेण मनुना रदपत्रे शिवां यजेत् ॥ १४५ ॥
रमां मायां च मदनं त्रिपुरायै नमस्तथा ॥
नवाक्षरेण त्रिपुरां चतष्षष्टिदलेर्चयेत् ॥ १४६ ॥
वृत्तत्रये महालक्ष्मीं भवानीं पुष्पसायकम् ॥
चतुरस्रे चतुर्द्वारि विघ्नक्षेत्रेशभैरवान् ॥
योगिनीं पूजयेदित्थं नवावरणपूजनम् ॥ १४७ ॥
जपेल्लक्षचतुष्कं च पायसाज्जुहुयात्तथा ॥
एवं यो भजते देवीं वश्यास्तस्यामिता जनाः ॥ १४८ ॥
लाजैस्त्रिमधुरोपेतैर्जुहुयादयुतं तु यः ॥
लभते वाञ्छितां कन्यां धनमानसमन्विताम् ॥ १४९ ॥
सर्वोपास्या त्वियं देवी सिद्धा मार्गद्वयेपिच ॥
लक्ष्मीभेदास्तु ये पूर्वं प्रोक्तास्तु विष्णुसाधने ॥
दक्षमार्गेण संसिद्धा वामेनैते प्रकीर्त्तिताः ॥ १५० ॥
त्यज्यते दक्षिणो मार्गो यतः पापक्षयो भवेत् ॥
सिद्धिर्मध्ये यदा मृत्युस्तदा जन्मान्तरे भवेत् ॥ १५१ ॥
न भजेद्वाममार्गन्तु यतोनिष्टो दुरत्ययः ॥
तन्मार्गिणां महापापं पापात्मानोत्र ये स्थिताः ॥ १५२ ॥
एवं ते वैष्णवो मन्त्रो मया सम्यगुदीरितः ॥
यस्मिन्भुक्तिश्च मुक्तिश्च किं वक्तव्यमतः परम् ॥ १५३ ॥
इति श्रीमहामायामाहाकालानुमते मेरुतन्त्रे शिवप्रणीते विष्णुशक्तिमनुकथनं नाम त्रिंशः प्रकाशः ॥ ३० ॥