श्रीदेव्युवाच ॥
सुदर्शनाद्यायुधानां सूचिताः पुरुषोत्तम ॥
मन्त्रास्तान्विधि पूर्वान्मे ब्रूहि यत्साधनाज्जयः ॥ १ ॥
श्रीशिव उवाच ॥
सर्वेषामायुधानां च नाथः प्रोक्तो महायुधम् ॥
सुदर्शनं नाम यच्च मया प्राग्विष्णवेर्प्पितम् ॥ २ ॥
अवतारो यदंशस्य कार्तवीर्य्यार्ज्जुनाभिधः ॥
यत्सपर्यास्तु लङ्केशः सहस्राब्दं चचार ह ॥ ३ ॥
तस्यादौ प्रोच्यते मन्त्रो भुक्तिमुक्तिप्रदायकः ॥
तारः सहस्रार हुम्फट् तस्य मन्त्रो नवाक्षरः ॥ ४ ॥
अहिर्बुध्न्यो मुनिश्छन्दोनुष्टुब्देवः सुदर्शनम् ॥
चक्रायान्तैराविशुद्धिसुज्वालावकुलैः पृथक् ॥ ५ ॥
षडङ्गमनवस्तस्य जातियुक्ता द्विठान्तकाः ॥
ऐन्द्रं चक्रेण बध्नाति नमश्चक्राग्निगेहिनी ॥ ६ ॥
वह्निमुच्चार्यदिग्बन्धं चैवं कुर्य्याद्दशस्वपि ॥
दिशासु तर्जन्यङ्गुष्ठयोगेनात्र स्थलेषु च ॥ ७ ॥
तारत्रय तथा रक्षद्वयं चक्रपदंवदेत् ॥
फट्स्वाहेति द्वादशार्णो वह्निप्राकारसञ्ज्ञितः ॥ ८ ॥
अनेन मनुना ह्यस्य परितोग्निमयं बुधः ॥
प्राकारं परिकल्प्याथ न्यासानन्यान्समाचरेत् ॥ ९ ॥
सुं-उंरक्ताशनाभं च गुह्ये शिरसि विन्यसेत् ॥
ईम्मध्याननहृद्गुह्यजानुगुल्फतलेषु च ॥ १० ॥
अग्निवर्णान्न्यसेद्वर्णांस्ततो ध्यायेत्सुदर्शनम् ॥
दक्षाद्यूर्ध्वक्रमादष्टभुजैरायुधधारिणम् ॥ ११ ॥
चक्रं शङ्खं गदा पद्मं मुसलं च शरासनम् ॥
पाशमङ्कुशमादीप्तं भीमदंष्ट्रं रविप्रभम् ॥ १२ ॥
पूजयेद्वैष्णवे पीठे मूर्त्तिमूलेन कल्पयेत् ॥
कर्णिकायां षडङ्गानि चक्राद्यस्त्राणिकेशरे ॥ १३ ॥
हयग्रीवोदिता लक्ष्मीर्दिक्पत्रेषु 1 च संयजेत् ॥
भूपुरे लोकपालांश्च तदस्त्राणि तदग्रतः ॥ १४ ॥
ध्यानप्राणप्रतिष्ठान्ते पूजान्ते च प्रदर्शयेत् ॥
त्रिस्थाने चकगायत्र्याचकमुद्रां च तां शृणु ॥ १५ ॥
सुदर्शनायविद्महे महाज्वालाय धीमहि ॥
तन्नश्चक्रं प्रचोदयात् ॥ १६ ॥
जपेद्द्वादशलक्षं च तत्सहस्रं पृथग्घुनेत् ॥
तिलैस्त्रिमधुरोपेतैः सर्षपैर्मधुरान्वितैः ॥ १७ ॥
त्रियुक्तैर्बिल्वपत्रैश्च तथा दुग्धौदनेन च ॥
ततश्च केवलाज्येन तर्प्पणादि ततश्चरेत् ॥ १८ ॥
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्क्रमात् ॥
खातादिशोधितं स्थानं गोमयेनोपलेपयेत् ॥ १९ ॥
हस्तद्वयान्तराले च कुर्य्याद्याम्योत्तरद्वयम् ॥
वृत्तवेष्टितषट्कोणं तद्बाह्ये भूपुरावृतम् ॥ २० ॥
कर्णिका पीतवर्णा स्याद्रक्ताभं कोणषट्ककम् ॥
तदन्तरालं श्यामेन शेषं श्वेतेन पूरयेत् ॥ २१ ॥
कर्णिकायां लिखेत्तारं मन्त्रार्णान्कोणषट्कके ॥
आदावुत्तरचक्रे च दक्षिणे च ततो न्यसेत् ॥ २२ ॥
शालिं शालिजलैःपूर्णमेकैकं कलशं न्यसेत् ॥
दीक्षाविधिप्रकारेण पीठपूजां समाचरेत् ॥ २३ ॥
सम्यगावाहयेत्तत्र तत्सुदर्शनरूपकम् ॥
सम्पूज्य साङ्गावरणमन्यचक्रे ततस्तथा ॥ २४ ॥
चक्रे संस्थापयेद्वह्निं वैष्णवं तद्विधानतः ॥
प्रतिद्रव्यं भवेद्धोमः षट्त्रिंशदधिकं शतम् ॥ २५ ॥
आज्यं चापामार्गसमिच्चाक्षता राजिकास्तिलाः ॥
हविष्पृथक्पञ्चगव्यं हुनेदाज्यं तु तत्क्रमात् ॥ २६ ॥
प्रतिद्रव्यस्य सम्पातान्कुम्भतोये विनिक्षिपेत् ॥
होमं समाप्य च ततः प्रक्षाल्यार्घ्यस्य पिण्डिकम् ॥
कुम्भोपरि निधायाथ साध्यं समुपवेशयेत् ॥ २७ ॥
स्वस्य दक्षे ततः कुम्भं साध्यस्योपरि च त्रिधा ॥
भ्रामयित्वा ततश्चोदङ्मार्ज्जनं कलशं क्षिपेत् ॥ २८ ॥
दूरदेशे ततोग्न्यादि दूरदेशे समुत्क्षिपेत् ॥
हुतशिष्टान्नेन दद्याद्बलिं च मनुनामुना ॥ २९ ॥
नमो 2 विष्णुगणेभ्यो नः सर्वशान्तिकरे वदेत् ॥
भ्यो बलिं प्रतिगृह्णन्तु शान्त्यै हृत्तत्त्ववर्णकः ॥ ३० ॥
विप्रान्सम्भोज्य गुरवे दक्षिणां च प्रकल्पयेत् ॥
ज्वरादिरोगसङ्घातान्प्रओगोयं विनाशयेत् ॥ ३१ ॥
अपस्माररुजं चैव पिशाचग्रहवैकृतम् ॥
रक्षोभूतादिपीडां च नाशयेत्स त्वयं विधिः ॥ ३२ ॥
स्तनजद्रुमसम्भूतैः फलकैः पञ्जरं शतम् ॥
कृत्वा मन्त्री पञ्चगव्यैः पूजयेत्साध्यमत्र च ॥ ३३ ॥
निवेशयेच्छुद्धमन्त्रैर्वस्त्रं शुद्धं स्पृशेज्जपेत् ॥
मन्त्रमग्निं प्रतिष्ठाप्याग्न्यादिकोणेषु मन्त्रवित् ॥
विप्रवर्य्यैः कारयेच्च होमं पूर्वोदितं क्रमात् ॥ ३४ ॥
द्रव्यैस्तांस्तोषयेद्विप्रान्यजमानो गुरुं तथा ॥
एष योगः सर्वरोगापमृत्युद्रोहनाशकः ॥ ३५ ॥
गव्यैः समस्तैः क्षीरेन्दुवल्कलोत्थकषायकैः ॥
त्रिभिः सम्पूरितैर्जप्तैः कुम्भैः सम्पातसंयुतैः ॥ ३६ ॥
प्राग्वद्धोमस्तस्य चान्ते ग्रहान्विष्णुं च साधयेत् ॥
अभिषिञ्चेद्भानुदिने चामयाद्यातुरं तथा ॥ ३७ ॥
स्वस्थो भवेद्द्रुतं भूतप्रेतराक्षसपीडितः ॥
घृतं 3 पक्वं पञ्चगव्यैर्जपिते मनुनामुना ॥ ३८ ॥
ग्रहपीडानिरुद्धानां गर्भिणीना हिताय च ॥
मन्त्रं जपेद्दशशतं पञ्चगव्यं स्पृशेत्सुधीः ॥ ३९ ॥
पद्मपत्रे ब्रह्मवृक्षपत्रे बिल्वफले तथा ॥
सन्न्यस्य तत्स्वीयगृहे निखनेच्च परस्य वा ॥
रक्षा भवति तद्गेहे सम्पद्वृद्धिः प्रजायते ॥ ४० ॥
पलाश स्तनजं रक्तचन्दनं गुग्गुलुन्तथा ॥
घुसृणं च हरिद्रां च रोचनं बिल्वराजिके ॥ ४१ ॥
अपामार्गांस्तिलान्दूर्वा विष्णुकान्तां तुलस्यपि 4 ॥
कृष्णां च तुलसीं प्रोक्तां जवमर्कद्रुमं तथा ॥ ४२ ॥
सहदेवीं तथा लक्ष्मीं कुशगोमयसद्वचाः ॥
कमलं रोचनां पञ्चगव्ये सङ्क्वाथयेन्मुहुः ॥ ४३ ॥
संस्कृतेग्नौ तस्य भस्म कुर्य्यात्तत्सर्वदायकम् ॥
जपितं मनुनानेन सम्यक्च शिरसा धृतम् ॥ ४४ ॥
सर्वभूतग्रहव्याधिकृत्यादुःखादिवारणम् ॥
द्रोहोन्मादरिपुत्राससर्वपापहरं मतम् ॥
आपन्नाशकमेतत्स्याद्वश्यदं शिवदं परम् ॥ ४५ ॥
फलत्रययुतैः कल्कं पञ्चगव्ये पचेद्घृतम् ॥
प्रस्थं च कल्कद्रव्याणि मुस्ता शुण्ठी निशा तथा ॥ ४६ ॥
चित्रकैलाशतावर्य्यो वचा वाढ्या वृषा तथा ॥
मांस्याह्वा च विडङ्गं च मञ्जिष्ठा कटुरोहिणी ॥ ४७ ॥
मनुनानेन जपितं वन्ध्यापुत्रप्रदायकम् ॥
भूतप्रेतपिशाचादिभयघ्नं नात्र संशयः ॥ ४८ ॥
पञ्चगव्याज्यमेतद्धि गर्भरक्षाकरं परम् ॥
गुटिकां गुग्गुलोः कृत्वा हुनेदष्टसहस्रकम् ॥ ४९ ॥
दिवसत्रितयं वापि चतुर्दिवसमेव च ॥
भवेत्सर्वोपद्रवाणां नाशो मन्त्रगदस्य च ॥ ५० ॥
अपामार्गसमिद्भिश्च हुनेदयुतसङ्ख्यया ॥
भूतज्वरभयव्याधिकृत्यापस्मारनाशनम् ॥ ५१ ॥
घृताक्तैः कमलैर्हुत्वा श्रीवृद्धिं लभते नरः ॥
आज्याक्ताभिश्च दूर्वाभिर्होमाद्दीर्घायुराप्नुयात् ॥ ५२ ॥
पलाशस्य समिद्भिश्च मेधावृद्धिः प्रजायते ॥
वस्त्रार्थी श्वेतकुमुदैराज्याक्तैर्जुहुयान्नरः ॥ ५३ ॥
पशूनां वृद्धिमन्विच्छन्हुनेत्सकमलैर्घृतैः ॥
औदुम्बरसमिद्धोमात्पुत्रलाभो भवेद् ध्रुवम् ॥ ५४ ॥
अष्टोत्तरसहस्रं च हुनेदश्वत्थजैस्तथा ॥
समिद्वरैर्महारोगमुक्तयेयं विधिः स्मृतः ॥ ५५ ॥
चक्रमध्ये स्थितं स्वं च चिन्तयन्यो मनुं जपेत् ॥
एकोपि दुर्जयो युद्धे भवत्येव न संशयः ॥ ५६ ॥
कल्पान्ताग्निनिभं चक्रं वैरिणो यस्य मूर्द्धनि ॥
स्मरेत्सप्तदिनं तस्य ज्वलनप्रतिमो ज्वरः ॥
भवेत् त्रिंशद्दिनैश्चाथ प्राप्नोति मरणं ध्रुवम् ॥ ५७ ॥
सकारं स्वरसंयुक्तं याहीति पदवेष्टितम् ॥
संस्मरेद्यस्य शीर्षे तु तस्योच्चाटो दशाहतः ॥ ५८ ॥
मण्डलान्मरणं याति सान्तं काकनिभं रिपोः ॥
मूर्ध्नि स्मरेच्च सप्ताहादुच्चाटो वा मृतिर्भवेत् ॥ ५९ ॥
शरच्छशा प्रतिमं सुधाधाराभिवर्षिणम् ॥
सकारं संस्मरेन्मूर्ध्नि स जीवेच्छरदां शतम् ॥ ६० ॥
षट्कोणं सुलिखेत्कोणषट्के ठं तु समालिखेत् ॥
कर्णिकायां तथा ठं च शेषमन्त्रार्णकं तथा ॥ ६१ ॥
साध्यनाम लिखेन्मध्ये काश्मीरैर्भूर्ज्जपत्रके ॥
आपन्निवारणं यन्त्रं भूतप्रेतभयापहम् ॥ ६२ ॥
अथान्यं सम्प्रवक्ष्यामि सुदर्शनमहामनुम् ॥
तारो 5 नमो भगवते महासुदर्शनं वदेत् ॥ ६३ ॥
ङेन्तं हुम्फट् पोडशार्णो मुन्याद्यं पूर्ववन्मतम् ॥
तथा न्यासश्च पूजायां सर्व रक्षाकरो मनोः ॥ ६४ ॥
जपेद् द्वादशलक्षाणि प्रत्येकं क्रमतो हुनेत् ॥
चतुर्विंशच्छतानीति तिलांश्चापि ससर्षपान् ॥ ६५ ॥
बिल्वाज्यपालाशसमित्पायसानीति कीर्त्तितम् ॥
अनुरूपजपध्यानान्मन्त्रोयं वाञ्छितप्रदः ॥ ६६ ॥
लिखेदादौ तु षट्कोणं मध्यकोणेषु तं लिखेत् ॥
एकैकं सुलिखेद्वर्णं बहिर्भूपुरवेष्टनम् ॥ ६७ ॥
सम्पातसाधितं चैतद्गर्भिणीगर्भरक्षकम् ॥
उन्मादग्रहभूतादीनभिचारांश्च नाशयेत् ॥ ६८ ॥
अथातः सम्प्रवक्ष्यामि मालामन्त्रं सुदर्शनम् ॥
तारो नमो 6 भगवते महापूर्वपदत्रयम् ॥ ६९ ॥
ङेन्तं सुदर्शनं चक्रं ज्वालं ङेन्तं ततो वदेत् ॥
दीप्तरूपं सर्वनाथ रक्षयुग्मं च मां महा ॥ ७० ॥
बलायाग्निवधूं हुम्फट् सप्त वेदाक्षरो मनुः ॥
ध्यानपूजादिकं प्राग्वज्जपो वर्णसहस्रकम् ॥ ७१ ॥
अथातः सम्प्रवक्ष्यामि मालामन्त्रं सुदर्शनम् ॥
ॐक्लीं सुदर्शनमहाचक्रराज 7 दहद्वयम् ॥ ७२ ॥
सर्वदुष्टभयं द्विर्द्विः कुरु च्छिन्धि च भिन्धि च ॥
विदारयद्वयं प्रोच्य परमन्त्रान्ग्रसद्वयम् ॥ ७३ ॥
भक्षयद्वितयं प्रोच्य भूतानि त्रासयद्वयम् ॥
हुम्फट् स्वाहेति चक्राय नमो वेदनुगाक्षरः ॥ ७४ ॥
सुदर्शनमहामन्त्रः सङ्ग्रामे विजयप्रदः ॥
ध्यानपूजादिकं सर्वं ज्ञेयमस्य षडर्णवत् ॥ ७५ ॥
जपेद्वर्णसहस्राणि ततः सिद्धो भवेन्मनुः ॥
जप्त्वादौ चाष्टसाहस्रं रणे गच्छेद्द्रुतं जयी ॥ ७६ ॥
अथातः सम्प्रवक्ष्यामि शङ्खमन्त्रं जयप्रदम् ॥
ॐक्लीं जलचरायेति स्वाहान्तोयं नवार्णकः ॥ ७७ ॥
विष्णुहस्तगतं ध्यात्वा यः शङ्खं नित्यमर्चयेत् ॥
पूजान्ते प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम् ॥ ७८ ॥
पाञ्चजन्येन चैकत्वं ध्यायेज्जपसमापनम् ॥
कुर्यादेवं मासषट्कं ततः सिद्धो भवेन्मनुः ॥ ७९ ॥
पाञ्चजन्यसमं शङ्खमात्मानं विष्णुमेव च ॥
ध्यात्वाभिवादयेच्छङ्खं रणे विजयकारकम् ॥ ८० ॥
तारो 8 मारः खड्ग तीक्ष्ण भिन्धिभिन्धीति हुं च फट् ॥
द्वादशार्णः खड्गमन्त्रो यो जपेद्द्वादशाक्षरम् ॥ ८१ ॥
प्रत्यहं पूजयेत्खड्गं कलयेन्मरणं विना ॥
खड्गसिद्धिस्तस्य भवेन्न कदाचित्पराजयः ॥ ८२ ॥
दैवान्निष्कासिते तस्मिन्फलाद्यं छेदयेत्तदा ॥
पूजयित्वा ततः कोणे स्थापयेत्प्रणमेदपि ॥ ८३ ॥
अथातः सम्प्रवक्ष्यामि धनुर्मन्त्रं नवाक्षरम् ॥
शार्ङ्गाय 9 सशरायेति हुम्फट् जप्यो नवायुतम् ॥ ८४ ॥
तिलाज्यहोमात्संसिद्धो मन्त्रः स्यान्नित्यपूजनात् ॥
ततो धनुषि बाणाढ्ये शार्ङ्गध्यानं समाचरेत् ॥
अजेयो जायते धन्वी शार्ङ्गमन्त्रं समुच्चरेत् ॥ ८५ ॥
अथ वक्ष्ये गदामन्त्रं तारं 10 कामं समुच्चरेत् ॥
कौमोदकि महासर्वबले सर्वासुरान्तिके ॥ ८६ ॥
प्रसीद हुम्फट्स्वाहेति पञ्चविंशार्णको मनुः ॥
जपेल्लक्षमिमं मन्त्रं पूजयेन्नित्यशो गदाम् ॥ ८७ ॥
कौमोदकीं स्मरेत्तत्र द्वन्द्वयुद्धे जयी भवेत् ॥
साधको वा गजारूढो गदाहस्तो विशेद्रणम् ॥ ८८ ॥
स्वयं विष्णुरिति ध्यायंस्तत्काले सर्वशत्रवः ॥
भयभीताः पलायन्ते चतुरङ्गबला अपि ॥ ८९ ॥
अथातः सम्प्रवक्ष्यामि मुसलस्य मनुं ध्रुवम् ॥
कामसंवर्त्तकपदं 11 मुसलं पोथयद्वयम् ॥
हुम्फट् स्वाहान्तको मन्त्र ऊनविंशतिवर्णकः ॥ ९० ॥
प्रजपेदयुतं मन्त्रं खादिरीः समिधो हुनेत् ॥
घृताक्ताश्चायुतं मन्त्रसिद्धिस्तस्य प्रजायते ॥ ९१ ॥
गृहीत्वा मुसलं हस्ते जपेन्मन्त्रं रणे विशेत् ॥
पलायन्तेस्य रिपवो दक्षो रुद्राद्यथा तथा ॥ ९२ ॥
शत्रोः प्रतिकृतिं चैव कुर्य्यान्नाम क्रियान्वितम् ॥
लिखित्वा हृदये तस्य क्रोधान्मुसलधारणम् ॥
कुर्यादरेर्वा गदादेः स्तम्भः स्यान्नात्र संशयः ॥ ९३ ॥
अथाङ्कुशमनुं वक्ष्ये तारं मदनमङ्कुशम् ॥
कञ्चुद्वयं च वर्म्मास्त्रं स्वाहान्तो विश्ववर्णकः ॥ ९४ ॥
अङ्कुशस्य मनोश्छन्दो मतिर्गणपतिर्मुनिः ॥
देवश्चात्राङ्कुशो विष्णुरूपी गजविमर्दकः ॥ ९५ ॥
भूभूत्रिवेदयुग्माक्षिवर्णैः कुर्य्यात्षडङ्गकम् ॥
केवलाङ्कुशपूजात्र जपो लक्षं त्रयोदश ॥ ९६ ॥
साध्ये सद्द्रव्यहोमः स्यत्सिद्धमन्त्रो नृपान्रिपून् ॥
त्रासयेन्नात्र सन्देहो भवन्ति वचनाद्वशे ॥ ९७ ॥
अथ प्रवक्ष्ये पाशस्य मन्त्रं तारं मनोभवम् ॥
पाशं वधयुगं चैवाकर्षयद्वितयं च हुम् ॥
फट्स्वाहेत्यूनविंशार्णो वरुणो मुनिरुच्यते ॥ ९८ ॥
समुद्रश्चामितं छन्दो भूभूषट्सप्तनेत्रकैः ॥
नेत्रैरङ्गानि तं चैव ध्यायेद्वरुणहस्तगम् ॥ ९९ ॥
लक्षत्रयं भवेद्धोमः कैरवाख्यप्रसूनकैः ॥
सिद्धमन्त्रो हुनेदाज्यं वश्यार्थमयुतं तथा ॥
मारणाय मधुसिते द्वेषे तैलं ततो गुडम् ॥ १०० ॥
अथ च्छत्रमनुं वक्ष्ये छं छत्राय नमस्त्विति ॥
मुनिर्मन्त्रश्च छन्दोस्य गायत्री देवता हरः ॥ १०१ ॥
छत्ररूपं ध्यानमस्य स्वर्णदण्डं सितप्रभम् ॥
आरक्तकलशं ध्यायेन्मस्तके स्वे च पूजयेत् ॥ १०२ ॥
वर्णलक्षं जपेन्मन्त्रं होमः स्याद्घृतपायसैः ॥
तर्प्पणाद्यं ततः कुर्य्याच्छत्रमन्त्रस्य सिद्धये ॥ १०३ ॥
साधयित्वा मनुं चैनं गतराज्यो विशेद्रणम् ॥
एकोपि स रिपूञ्जित्वा राज्यं तु लभते द्रुतम् ॥ १०४ ॥
अथातः सम्प्रवक्ष्यामि लोकरूपमनुं परम् ॥
चामरस्य ग्रहावेशदृष्ट्यादिकनिवारणम् ॥ १०५ ॥
शशाङ्ककरसङ्काश क्षीरडिण्डिमपाण्डुर ॥
प्रोत्सारयाशु दुरितं चामर श्रीं नमोस्तु ते ॥ १०६ ॥
द्वात्रिंशच्च सहस्राणि जपित्वा सुरभेर्घृतम् ॥
हुत्वा सिद्धो भवेन्मन्त्रो नित्यं चामरमर्चयेत् ॥ १०७ ॥
तेन ग्रहाभिभूता वादुस्साध्या दीर्घरोगिणः ॥
सप्ताहमर्ज्जिताः सायं प्रातः स्युर्दोषवर्ज्जिताः ॥ १०८ ॥
अथातः सम्प्रवक्ष्यामि ध्वजमन्त्रद्वयं प्रिये ॥
शक्रकेतवे च महावीर्य्याय श्याम वर्णकम् ॥ १०९ ॥
ङेन्तं च च्छत्रराजाय नमो नारायणध्वज ॥
गरुडासन रक्षद्विरायुधानि रिपून्दह ॥ ११० ॥
द्वयं वर्म्मास्त्राग्निजाया द्विपञ्चाशार्णको मनुः ॥
ध्वजमन्त्रं जपेत्पञ्चसहस्रं सिद्धये हुनेत् ॥ १११ ॥
आज्यैः पश्चाल्लिखेद्यन्त्रं स्वसैन्याङ्कैश्च सम्मितम् ॥
ध्वजं तु पूजयेन्नित्यं शत्रुभीतिनिवारणम् ॥ ११२ ॥
अथ वक्ष्ये पताकाया मन्त्रं तारं रमात्रयम् ॥
हिरण्यकशिपोर्युद्धे पूतने दैवतासुरे ॥ ११३ ॥
रणारपतिकालेति नेति मृत्यु पदं वदेत् ॥
कालहं त्रिर्दहद्वन्द्वं रिपून्सर्वान्पताकिके ॥ ११४ ॥
हुं फट् स्वाहेति मन्त्रोत्र चैनं पञ्चायुतं जपेत् ॥
ततस्त्रिमधुरैर्होमादिकैः सिद्धो भवेन्मनुः ॥ ११५ ॥
बीजवर्णं पताकायां लिखेदङ्गक्रमेण तु ॥
स्थितप्राणां च ता दृष्ट्वा रिपुर्याति दिशो दश ॥ ११६ ॥
अथातः सम्प्रवक्ष्यामि शूलमन्त्रं ध्रुवं वदेत् ॥
त्रिशूलाय नमश्चेति मन्त्रः सप्ताक्षरो मतः ॥ ११७ ॥
उष्णिक् छन्दो वामदेवो मुनिर्देवः पिनाकधृक् ॥
शिवहस्तगतं ध्यायेच्छूलं लक्षत्रयं जपेत् ॥
होमस्तु बिल्वपत्रैः स्यात्सिद्धो मन्त्रस्त्वयं भवेत् ॥ ११८ ॥
ॐ क्लीं सर्वायुधायैच पिनाकिनिर्मिते वदेत् ॥
शूलाकृष्टे चण्डि 12 वृते सर्वदुष्टनिबर्हिणि ॥ ११९ ॥
सर्वसत्त्वाङ्गभूते च देवताप्रतिपादिते ॥
क्षुरिके रक्ष मां नित्यं सर्वाशुभविनाशिनि ॥ १२० ॥
शान्तिपक्षे द्वयं द्वेधा हृत्सप्तत्यक्षरो मनुः ॥
जप्त्वा वर्णसहस्रं च सिद्धः शत्रुनिवारणः ॥ १२१ ॥
अथ वक्ष्ये कटारस्य मनुं श्लोकस्वरूपकम् ॥
शस्त्रिणामेव सर्वेषां योस्ति रक्षाकरः परः ॥ १२२ ॥
रक्षाङ्गानि गजान्रक्ष रक्ष वाजिधनानि च ॥
मम देहं सदा रक्ष कटारक नमोस्तु ते ॥ १२३ ॥
जपेद्वर्णसहस्राणि तिलाज्यैर्होममाचरेत् ॥
स्थापयेत्सिद्धमन्त्रस्तु ततः स्थाने कटारकम् ॥
तत्र सम्पूजयेत्तच्च नाग्निचौरादिजं भयम् ॥ १२४ ॥
अथ वक्ष्ये श्लोकरूपं कन्तमन्त्रं जयप्रदम् ॥
प्रापयानय शत्रूंस्त्वमनया देवमायया ॥
गृहाण जीवनं तेषां मम सैन्यं च रक्ष माम् ॥ १२५ ॥
प्राग्वज्जपादिना सिद्धः प्रयोगार्होमनुर्भवेत् ॥
कुर्य्यादष्टाङ्गुलन्यासान्धातुजान्नखजानपि ॥
दिगष्टके रणे यात्वा रिपूणां कदनं भवेत् ॥ १२६ ॥
अथातः सम्प्रवक्ष्यामि वर्मार्णं वमसम्पुटम् ॥
वर्म्मञ्छर्मप्रद त्वं मां रक्षरक्ष समन्ततः ॥ १२७ ॥
अष्टादशाक्षरो मन्त्रो जप्यस्तावत्सहस्रकम् ॥
आज्यैस्तावद्धुनेत्सिद्धस्तत्सम्पातेन संस्कृतम् ॥ १२८ ॥
सङ्ग्रामे कवचं धृत्वा रिपून्हत्वा प्रयात्यसौ ॥
तत्रैव स्वीयवर्षाणामङ्कयन्त्रं क्षितिप्रदम् ॥ १२९ ॥
अथातो दण्डगायत्रीं वक्ष्येहं हितकाम्यया ॥
नानादण्डविनिर्मुक्तो जपाद्यस्याः प्रजायते ॥
जपमात्रेण संसिद्धिर्हुनेच्च घृतपायसैः ॥ १३० ॥
ब्रह्मोद्भवाय विद्महे स्वर्णरूपाय धीमहि ॥
तन्नो दण्डः प्रचोदयात् ॥ १३१ ॥
सहस्रायुतमारभ्य कार्य्यलाघवगौरवात् ॥
कोट्यन्तं प्रजपेन्मन्त्री सर्वदण्डैर्विमुच्यते ॥ १३२ ॥
ॐ क्लीं रामा युधायेति श्रीं पं परशवे नमः ॥
तिथ्यक्षरोयं परशोर्मन्त्रः सङ्ग्रामसिद्धिदः ॥ १३३ ॥
इत्यायुधानां मनवः समाख्याताः सुरेश्वरि ॥
गोपिता बहुतन्त्रेषु किमन्यच्छ्रोतुमिच्छसि ॥ १३४ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते आयुधमन्त्रकथनं नामैकोनत्रिंशः प्रकाशः ॥ २९ ॥
-
लक्ष्म्याद्या इति तात्पर्यम् ॥ ↩︎
-
नमो विष्णुगणेभ्यो नः सर्वशान्तिकरेभ्यो बलिं प्रतिगृह्णन्तु शान्त्यै नमः ॥ ↩︎
-
भक्षयेदिति शेषः ॥ ↩︎
-
अमभाव आर्षः ॥ ↩︎
-
ॐ नमो भगवते महासुदर्शनाय हुं फट् ॥ ↩︎
-
नमो भगवते महासुदर्शनाय महाचक्राय महाज्वालाय दीप्तरूपाय सर्वनाथ रक्षरक्ष मामहाबलाय स्वाहा हुं फट् ॥ ↩︎
-
ॐ क्लीं सुदर्शन महाचक्रराज दहदह सर्वदुष्टभयं कुरुकुरु छिन्धिछिन्धि भिन्दिभिन्दि विदारयविदारय परमन्त्रान् ग्रसग्रस भक्षयभक्षय भूतानि त्रासयत्रासय हुम्फट् स्वाहा चक्राय नमः ॥
इति मन्त्रः ॥ ↩︎ -
ॐ क्लीं खड्ग तीक्ष्ण भिन्धिभिन्धि हुं फट् ॥ ↩︎
-
शार्ङ्गाय सशराय हुं फट् ॥ ↩︎
-
ॐ क्ली कौमोदकि महासर्वबले महासुरान्तके प्रसीद प्रसीद हुं फट् स्वाहा ॥ ↩︎
-
कामसंवर्त्तक मुसल पोथय पोथय हुं फट् स्वाहा ॥ ↩︎
-
ङ्यापोरिति ह्रस्वः ॥ ↩︎