२८ विष्णुप्रियमन्त्रकथनं

श्रीदेव्युवाच ॥

श्रीविष्णोरवतारा ये स्थिता युगचतुष्टये ॥
तन्मन्त्राञ्छ्रोतुमिच्छामि भुक्तिमुक्तिप्रदायकान् ॥ १ ॥

शिव उवाच ॥

सम्यक्पृष्टं त्वया देवि शृण्वादौ मन्त्रमद्भुतम् ॥
मम विष्णोः प्रियतमं मन्त्रं हरिहरात्मकम् ॥ २ ॥

प्रणवं 1 चापि हृल्लेखा ह्ॐबीजं शङ्करेति च ॥
नारायणाय च नमो ह्ॐह्रीं ॐ षोडशाक्षरः ॥ ३ ॥

ऋषिर्नारायणश्छन्दोनुष्टुब्भरिहरः सुरः ॥
षड्दीर्घयुङ्ग्मायया च षडङ्गानि प्रकल्पयेत् ॥ ४ ॥

शूलं चक्रं पाञ्चजन्यमभयं दधतं करैः ॥
स्वस्वरूपार्धनीलार्धदेहं हरिहरं भजे ॥ ५ ॥

नवशक्त्यभिधे पीठे पूर्वमङ्गानि संयजेत् ॥
लक्ष्मीनारायणं भूमिं धराख्यामम्बिकां तथा ॥ ६ ॥

गौराङ्गीं गोमतीं गौरीं गान्धारीं भूपुरे पुनः ॥
लोकेशानपि चेन्द्रादीन्वर्णलक्षं जपेन्मनुम् ॥ ७ ॥

तिलैश्च तण्डुलैर्होमं तर्प्पणादि ततश्चरेत् ॥
एवं सिद्धमनुर्मन्त्री हृदि कृत्वा तु वाञ्छितम् ॥ ८ ॥

जपेदष्टाक्षरं शान्तो दिनानामेकविंशतिम् ॥
लभते वाञ्छितानर्थान्सद्यः प्रीतिकरो मनुः ॥ ९ ॥

अथोच्यते हयग्रीवमन्त्रः सर्वार्थसिद्धिदः ॥
सहावुकारसंयुक्तौ बिन्दूना परिशोभितौ ॥ १० ॥

विप्रसेव्यो बीजमन्त्रो हयग्रीवस्य चादिमः ॥
हसावौकारसंयुक्तौ सबिन्दू क्षत्रियस्य च ॥ ११ ॥

हसावेकारसंयुक्तौ सबिन्दू वैश्यजन्मनः ॥
त्रिष्टुप्छन्दो मुनिर्ब्रह्मा हयग्रीवोस्य देवता ॥ १२ ॥

षड्दीर्घयुक्तबीजने षडङ्गविधिरीरितः ॥
कमलं जपमालां चाभयं कमेव च ॥ १३ ॥

श्वेतपद्मस्थितं गौरं श्वेतपद्मानुलेपनम् ॥
भक्तप्रियं हयग्रीवं वन्देहं दानवान्तकम् ॥ १४ ॥

गायत्रीमस्य वक्ष्येहं स रुद्रः संस्कृतो यया ॥
मन्त्राधिकारी भवति देवमावाहयेत्तया ॥ १५ ॥

वागीश्वराय विद्महे हयग्रीवाय धीमहि ॥
तन्नो हंसः प्रचोदयात् ॥ १६ ॥

यजेद्वाजिहरेः पीठे चाङ्गैः स्यात्प्रथमावृतिः ॥
प्रज्ञा मेधा स्मृतिर्विद्या श्रीर्वागीशा हयाननः ॥ १७ ॥

विद्याविलासाख्यहयग्रीवो वै मानमर्दनः ॥
लक्ष्म्यादिभिस्तृतीया स्यात्ताश्च लक्ष्मीः सरस्वती ॥ १८ ॥

रतिः प्रीतिः कीर्तिकान्त्यौ तुष्टिः पुष्टिश्चतुर्थिका ॥
त्र्यावृत्तिः कुमुदाद्यैः स्यात्प्रोक्तास्ते दधिवामने ॥ १९ ॥

पञ्चमी लोकपालैः स्यात्षष्ठी स्याच्च तदायुधैः ॥
वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ॥ २० ॥

सुगन्धाद्यैस्तर्प्पणं स्यान्मार्ज्जनं विप्रभोजनम् ॥
सिद्धो मन्त्रः प्रयोगार्हो जायते भुक्तिमुक्तिदः ॥ २१ ॥

शशिमण्डलमध्यस्थं हेमकुण्डलिनं मनुम् ॥
करं ध्यात्वा न्यसेद्वक्त्रे सभापूज्यः सजायते ॥ २२ ॥

अथवा तं करं कम्भे न्यस्य तज्जलसेचनात् ॥
प्रातर्हरति लूतादिदौर्भाग्यं पञ्चधा विषम् ॥ २३ ॥

योम्भस्त्रिसप्तजपितं प्रभाते प्रत्यहं पिबेत् ॥
सप्ताहाज्जायते तस्य दिव्या वाणी मनोरमा ॥ २४ ॥

चन्द्रमण्डलमध्यस्थलकारे न्यस्य मन्त्रकम् ॥
पीतं चापि मुखं ध्यात्वा स्तम्भयेत्परभारतीम् ॥ २५ ॥

प्रभावद्द्वयमध्यस्थं प्रभाबीजेन संयुतम् ॥
संलिखेद्दर्भमूलेन भर्जपत्रे हरिद्रया ॥ २६ ॥

यन्तं प्रतिष्ठितप्राणं शरावद्वयसम्पुटम् ॥
वेष्टितं पीतसूत्रेण मूकत्वं कुरुतेचिरात् ॥ २७ ॥

शृङ्गाटपुरमध्यस्थं रेखाक्रान्तं तु बीजकम् ॥
ज्वालामालाकुलं ध्यायेत्स्तम्भनं परमं मतम् ॥ २८ ॥

वायुमण्डलमध्यस्थं वायुबीजसमन्वितम् ॥
संहारकमिदं ध्यानं विषादीनां न संशयः ॥ २९ ॥

जलमण्डलमध्यस्थं ध्यात्वा चन्द्रांशुनिर्मलम् ॥
आप्यायते करे ह्येतत्सर्वरोगविनाशनम् ॥ ३० ॥

शून्य गर्भगतं यन्त्रं हेमगोक्षीरसन्निभम् ॥
ध्यायेद्धृत्पद्ममध्यस्थं निर्विषीकरणम्परम् ॥ ३१ ॥

लिखेद्रोचनया भर्ज्जे मन्त्रं बाहौ विधारयेत् ॥
महारक्षा भवेदेषा सर्वदोषविनाशकृत् ॥ ३२ ॥

बीजं रेफसमायुक्तं मध्यस्थं सहकारयोः ॥
हकारद्वयमध्यस्थं जप्तं मासन्तु वैरकृत् ॥ ३३ ॥

अथान्यं शृणु देवेशि मन्त्रं वाग्बुद्धिकारकम् ॥
उद्गिरत्प्रणवोद्गीथ सर्ववागीश्वरेश्वर ॥ ३४ ॥

सर्ववेदमयाचिन्त्य सर्वं बोधयबोधय ॥
स्वबीजप्रणवाभ्यां च श्लोकमेनं पुटेदथ ॥ ३५ ॥

षड्त्रिंशदक्षरो मन्त्रः स्वाहान्तोष्टत्रिवर्णकः ॥
छन्दोनुष्टुम्मुनिर्ब्रह्मा हयग्रीवस्तु देवता ॥ ३६ ॥

पञ्चाङ्गानि मनोस्तारमनुपादैर्भवन्ति हि ॥
हयग्रीवं चतुर्बाहुम्पारदाम्भोधरद्युतिम् ॥
शङ्खारिपाणिमश्वास्यं जानुन्यस्तकरं भजेत् ॥ ३७ ॥

पूर्वपीठे यजेन्मूर्तिं बीजमन्त्रेण कल्पयेत् ॥
यजेदष्टदले पद्मे देवाग्रादिप्रदक्षिणम् ॥ ३८ ॥

चतुर्वेदास्तु सम्पूज्यास्तत्कोणेषु यजेत् क्रमात् ॥
वेदाङ्गानि स्मृतिं न्यायं सर्वशास्त्राणि चार्च्चयेत् ॥ ३९ ॥

तस्य बाह्ये तु षट्कोणे षडङ्गानि समर्च्चयेत् ॥
भूपुरे लोकपालांश्च तदस्त्राणि ततो यजेत् ॥ ४० ॥

षट्त्रिंशल्लक्षकञ्जप्त्वा कुन्दैस्त्रिस्वादुसंयुतैः ॥
होमयेत्तर्प्पणाद्यन्तं कृत्वा सिद्धो भवेन्मनुः ॥ ४१ ॥

लक्ष्मीकामः प्रजुहुयाद्बिल्वपत्रैस्तथायुतम् ॥
श्रीकामो जुहुयान्नित्यं कुन्दैस्त्रिमधुरप्लुतैः ॥ ४२ ॥

आज्यं ब्राह्मीरसे पक्वं मन्त्रेणानेन साधितम् ॥
सेवितं विधिना प्रातरतिबुद्धिकरं त्विदम् ॥ ४३ ॥

साधितां मन्त्रवर्य्येण वचामनुदिनं सुधीः ॥
भक्षयेत्सर्वशास्त्राणां व्याख्याता भवति ध्रुवम् ॥ ४४ ॥

अथ मन्त्रान्तरं वक्ष्ये त्वरितं धारणाप्रदम् ॥
ऋग्यजुस्सामरूपाय वेदाभरणकर्म्मणे ॥ ४५ ॥

प्रणवो ह्रीं नृवपुषे महाश्वशिरसे नमः ॥
हंसादिः सोहमन्तश्च मन्त्रः षट्त्रिंशदक्षरः ॥
ऋष्याद्यङ्गविधिध्यानपूजाकाम्यानि पूर्ववत् ॥
अथ मन्त्रान्तरं वक्ष्ये तीक्ष्णबुद्धिकरं परम् ॥ ४६ ॥

बिल्वोत्तीर्णस्वात्मरूपचिन्मयानन्दरूपिणे ॥ ४७ ॥

तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे ॥
स्वाहा सोहं च हंसादिरष्टत्रिंशाक्षरो मनुः ॥ ४८ ॥

तारमन्त्रपदैश्चात्र पञ्चाङ्गविधिरीरितः ॥
पुरश्चर्य्या तु षट्त्रिंशल्लक्षमन्यच्च पूर्ववत् ॥ ४९ ॥

अथातः सम्प्रवक्ष्यामि परं ज्ञानप्रदम्मनुम् ॥
स्वबीजं हयशिरसे नमश्चाष्टाक्षरो मनुः ॥ ५० ॥

एकाक्षरोक्तमृष्यादि च्छन्दोनुष्टुबुदाहृतम् ॥
हस्तैर्दधानं मालां च पुस्तकं वरपङ्कजम् ॥ ५१ ॥

कर्पूराभं सौम्यरूपं नानाभूषणभूषितम् ॥
एवं ध्यात्वाखिलं कर्य्यादेककर्णोक्तवर्त्मना ॥ ५२ ॥

अथ विष्णोः प्रवक्ष्यामि मन्त्रं रोगापहारकम् ॥
अच्युतानन्तगोविन्दपदं ङेन्तं हृदन्तकम् ॥
भवाक्षरो मनुः प्रोक्तो भवरोगैकभेषजम् ॥ ५३ ॥

शौनकर्षिर्विराट् छन्दः परमात्मा तु देवता ॥
षडङ्गविधिरुक्तोस्य द्विरुक्तैर्मनु नामभिः ॥ ५४ ॥

शङ्खचक्रधरं देवञ्चतुर्बाहुं किरीटिनम् ॥
सर्वायुधैरुपेतं च गरुडो परिसंस्थितम् ॥ ५५ ॥

सनकादिमुनीन्द्रैस्तु सर्वदेवैरुपासितम् ॥
श्रीभूमि सहितं देवमुद्यदादित्यसन्निभम् ॥ ५६ ॥

प्रातरुद्यत्सहस्रांशुमण्डलोपमकुण्डलम् ॥
सर्वलोकस्य रक्षार्थमनन्तं नित्यमेव हि ॥ ५७ ॥

अभयं वरदन्देवं धारयन्तं युगान्वितम् ॥
गोविन्दमनुवलोक्तम्पञ्चावरणसंयुतम् ॥ ५८ ॥

लक्षमेकञ्जपेन्मन्त्रं तद्दशांशं हुनेद् घतैः ॥
तर्प्पणादि ततः कुर्याद्रोगनाशः 2 प्रजायते ॥ ५९ ॥

लाजहोमन्तु कन्यार्थी धनार्थी बिल्वहोमकम् ॥
वस्त्रार्थी पुष्पहोमं च नैरुज्यार्थी तिलैर्हुनेत् ॥ ६० ॥

रविवारे जले स्थित्वा नाभिमात्रे जपेद् बुधः ॥
अष्टोत्तरसहस्रन्तु ज्वरनाशो भविष्यति ॥ ६१ ॥

विवाहार्थी जपेन्मासं शशिमण्डलसन्निभम् ॥
ध्यायेल्लभेच्छुभां कन्यां कुलीनां च कुटुम्बिनीम् ॥ ६२ ॥

अथातः सम्प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् ॥
अनन्ताय नमश्चेति षड्वर्णोयमुदाहृतः ॥ ६३ ॥

न्यासो मुनिश्च गायत्री छन्दोनन्तश्च देवता ॥
नियोगो रोगनाशार्थमन्यद्गोविन्दवद्भवेत् ॥ ६४ ॥

अथान्यं सम्प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् ॥
वेदव्यासस्य विद्यादिप्रदं पदमिहोच्चरेत् ॥ ६५ ॥

वेदव्यासाय हृदयमष्टार्णो मुनिरीरितः ॥
मुनिर्ब्रह्मा तथानुष्टुप्छन्दः सत्यवतीसुतः ॥ ६६ ॥

देवो बीजं भवेदाद्यं नमः शक्तिः प्रकीर्तिता ॥
षड्दीर्घाद्येन बीजेन षडङ्गविधिरीरितः ॥ ६७ ॥

व्याख्यामुद्रादक्षहस्तं वामजानुतले स्थितम् ॥
योगपट्टासनारूढं प्रफुल्लकुसुमद्यतिम् ॥ ६८ ॥

दीर्घकण्ठं विशालाक्षन्तुन्दिलं मुनिवन्दितम् ॥
नानाशिष्यैः परिवृतं कृष्णद्वैपायनम्भजे ॥ ६९ ॥

जपेदष्टसहस्राणि पायसैर्होममाचरेत् ॥
पूर्वोक्ते तु यजेत्पीठे पूर्वमङ्गानि पूजयेत् ॥ ७० ॥

प्राच्यादिषु यजेत्पैलं वैशम्पायनजैमिनी ॥
सुमन्तुं कोणभागेषु श्रीशुकं लोमहर्षणम् ॥ ७१ ॥

उग्रश्रवसमन्यांश्च मुनीन्बाह्ये तु भूपुरे ॥
इन्द्रादींश्च तदस्त्राणि पूजा चैवं समीरिता ॥ ७२ ॥

एवं सिद्धमनुर्मन्त्री वर्षमात्रं यदा जपत् ॥
त्रिकालेष्टोत्तरशतं कवित्वं शोभनाः प्रजाः ॥ ७३ ॥

स्वयमेव पुराणानामर्थः स्फुटति गोपितः ॥
व्याख्यानशक्तिं कीर्तिं च लभते सम्पदोन्वयम् ॥ ७४ ॥

अथ मन्त्रान्तरं वक्ष्ये चिरञ्जीवित्वकारकम् ॥
तारं नमः समाभाष्य मन्त्रमेतन्ततो वदेत् ॥ ७५ ॥

सोहं तारं पुनश्चोक्त्वा मन्त्रश्चेन्द्राक्षरो मतः ॥
कहोडोस्य मुनिर्देवी गायत्री छन्द ईरितम् ॥ ७६ ॥

अपमृत्युहरो व्यासश्चिरञ्जीवी च देवता ॥
हं बीजं सश्च शक्तिः स्याद्दीर्घषट्कसमन्वितः ॥
हकारस्तु षडङ्गार्थं ध्यानपूजादि पूर्ववत् ॥ ७७ ॥

षट्च पञ्चसहस्राणि जपोस्य परिकीर्तितः ॥
कष्ठादिकमहारोगनाशार्थं लक्षमेककम् ॥ ७८ ॥

जपेन्मन्त्रं प्रत्यहन्तु चाष्टोत्तरशतं जलैः ॥
मन्त्रितैः स्नापयेद्दुग्धैर्नीरुक्स्यान्नात्र संशयः ॥
स्वल्पमृत्युविनाशश्च पूर्णमायुः प्रजायते ॥ ७९ ॥

अथ विष्णु प्रियान्वक्ष्ये गरुडस्य मनून् परान् ॥
तत्र व्रात्या द्विजा ये च सपुत्रा ये च व?(वै)ष्णवाः ॥ ८० ॥

तेषां सस्कृतये मन्त्रसिद्ध्यै विषविनाशिनीम् ॥
सर्पभीतिहैरी वक्ष्ये गायत्रीं सर्वकामदाम् ॥
पक्षिराजस्य सर्वेषां नृणामिष्टसुसिद्धये ॥ ८१ ॥

सुपर्णाय विद्महे पक्षिराजाय धीमहि ॥
तन्नो गरुडः प्रचोदयात् ॥ ८२ ॥

चतुर्विंशतिलक्षेण जपेनेयं च सिद्ध्यति ॥
ध्यानपूजादिरहिता जपमात्रफलप्रदा ॥ ८३ ॥

अथातः सम्प्रवक्ष्यामि गरुडस्य परम्मनुम् ॥
तारो नमो भगवते महागरुडङेन्तकम् ॥ ८४ ॥

श्रीविष्णुवरवाहेतिनाय त्रैलोक्यमेव च ॥
पूजिताय वज्रनखवज्रतुण्डपदं वदेत् ॥ ८५ ॥

वज्रपक्षाय पिङ्गेति शरीराय वदेत्ततः ॥
एह्येहि महागरुड दुष्टनागान्पदं वदेत् ॥ ८६ ॥

छिन्धिद्वयं दुष्टविषान्द्विश्छिन्धिदुष्टराक्षसान् ॥
द्विर्भिन्ध्यावेशययुगं बद्धो हुम्फड् वसुप्रिया ॥ ८७ ॥

षण्णवत्यक्षरो मन्त्रो मुनिर्ब्रह्मा प्रकीर्त्तितः ॥
गायत्री छन्द उद्दिष्टं देवता गरुडो मतः ॥ ८८ ॥

हलो बीजानि चोक्तानि स्वरा मन्त्रस्य शक्तयः ॥
मन्त्रोक्तविषनाशार्थं विनियोगः प्रकीर्त्तितः ॥ ८९ ॥

गरुडात्मा वैनतेयस्तार्क्ष्यश्छन्दोमयस्तथा ॥
कपिलाक्षस्तथा नागगरलान्तकरो मतः ॥ ९० ॥

प्रणवादिचतुर्थ्यन्तैर्नमसापि समन्वितैः ॥
एतैः षण्नामभिर्न्यासश्चाङ्गुल्यादिर्हृदादिकः ॥ ९१ ॥

हिमाद्रिशिखराकारं पूर्णचन्द्रनिभाननम् ॥
दीर्घबाहुं वृषस्कन्धं नागाभरणभूषितम् ॥ ९२ ॥

अनन्तो वामकटकं यज्ञसूत्रं तु वासुकिः ॥
तक्षकः कटिसूत्रं च हारः कर्कोट उच्यते ॥ ९३ ॥

पद्मश्च दक्षिणेपार्श्वे महापद्मश्चवामतः ॥
शङ्खपालः शिरोदेशे कुलिकस्तु भुजान्तरे ॥ ९४ ॥

आजानु काञ्चनाभासं ह्यानाभं तुहिनप्रभम् ॥
आकण्ठाद्रक्तवर्णं च विष्णध्वजगतं भजे ॥ ९५ ॥

अङ्गदिक्पायुधैश्चैव गरुडस्य तु पूजनम् ॥
मन्त्रार्णसङ्ख्याशततो जपः सप्तगुणो मतः ॥ ९६ ॥

आज्ञया दर्शनात्तस्य स्थावरं जङ्गमं विषम् ॥
नाशमायान्ति रोगाश्च विसर्प्पाद्या न संशयः ॥ ९७ ॥

वक्ष्येथ गारुडं मन्त्रं क्षिप तारोग्निगेहिनी ॥
पञ्चाक्षरो मनुः पङ्क्तिश्छन्दोनन्तो मतो मुनिः ॥ ९८ ॥

देवता गरुडस्तारो बीजं शक्तिर्वसुप्रिया ॥
स्वाहान्तो हृदये न्यस्य ज्वलज्वल महामते ॥ ९९ ॥

रुद्रचूडानन स्वाहा नत्यन्तं मस्तके न्यसेत् ॥
गरुडान्ते शिखे स्वाहा शिखाया मनुरीरितः ॥ १०० ॥

सर्वमन्त्रस्तु गरुड प्रभुं जययुगं वदेत् ॥
द्विः प्रभेदय वित्रासयद्वयं द्विर्विमर्दय ॥ १०१ ॥

स्वाहा सप्त त्रिंशदर्णान्तेत्र मन्त्रोथ कथ्यते ॥
उग्ररूपधरेत्युक्त्वा सर्वविषहरेति च ॥ १०२ ॥

भीषयद्वितयं सर्वं दहयुग्मं ततो वदेत् ॥
भस्मीकुरुकुरु स्वाहादन्तवर्णो मनुर्मतः ॥ १०३ ॥

अस्तु मन्त्रोप्रतिहतबलाप्रतिहतेति च ॥
त्रासनान्ते वदेद्धुम्फट् स्वाहान्तोष्टादशाक्षरः ॥ १०४ ॥

पादे कण्ठे हृदि मुखे मूर्ध्नि वर्णान्क्रमान्न्यसेत् ॥
तप्तस्वर्णनिभं नागप्रज्ञप्ताङ्गविभूषणम् ॥ १०५ ॥

चञ्च्वग्रप्रचलद्भोगिभोगं मुकुटमण्डितम्॥
पक्षोच्चारितसत्साम गानं विषहरं भजे ॥ १०६ ॥

पक्षिराजाय स्वाहेति पीठे सप्ताक्षरो मनुः ॥
पूजयेन्मातृका पद्मे गरुडं वेदविग्रहम् ॥ १०७ ॥

अङ्गान्यादौ कर्णिकायां तत्तन्मन्त्रैश्च पूजयेत् ॥
अनन्तो वासुकिस्तक्षकाख्यः कर्कोटपद्मकौ ॥ १०८ ॥

महापद्मः शङ्खपालः कुलिकोथ दिगीश्वराः ॥
तदायुधानि भूगेहे पञ्चलक्षं जपेन्मनुम् ॥ १०९ ॥

तिलैर्हुनेत्तर्प्पणादि कृत्वा सिद्धमनुर्भवेत् ॥
दर्शनाद्दूरगस्तस्य सर्प्पो नश्येद्विषद्वयम् 3 ॥ ११० ॥

विष्णुभक्तिपरो भूयो भवेदरिविनाशनः ॥
इह लोके सुखी दीर्घजीवी भूपतिपूजितः ॥ १११ ॥

परत्र याति वैकुण्ठमिति विष्णुप्रिया मया ॥
गदिता मनवो देवि किमन्यच्छ्रोतुमिच्छसि ॥ ११२ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते विष्णुप्रियमन्त्रकथनं नामाष्टाविंशः प्रकाशः ॥ २८ ॥


  1. ॐ ह्रीं ह्ॐ शङ्करनारायणाय नमो ह्ॐ ह्रीं ॐ ॥ ↩︎

  2. तस्येति शेषः ॥ ↩︎

  3. चेत्यध्याहार्य्यम् ॥ ↩︎