श्रीदेव्युवाच ॥
देवदेव महादेव भक्तानुग्रहकारक ॥
चतुर्विंशतिमूर्त्तिनां मन्त्रांश्च मेधुना वद ॥ १ ॥
ईश्वर उवाच ॥
शृणु देवि प्रवक्ष्यामि मूर्त्तिमन्त्रानशेषतः ॥
भुक्तिमुक्तिप्रदान् विप्रैराराध्यान्सचतुर्थकैः ॥ २ ॥
को ब्रह्मा तु समुद्दिष्ट ईशः शो वो हरिः स्मृतः ॥
वर्णत्रयात्मको मन्त्रः केशवः परिकीर्त्तितः ॥ ३ ॥
पृथक्ताभ्यां षडङ्गानि पूर्णेन व्यापकं चरेत् ॥
आनाभिपादपर्य्यन्तं मङ्गलं मधुसम्मितम् ॥ ४ ॥
शङ्खचक्रे हि शूले च त्वक्षमालां कमण्डलुम् ॥
भुजैष्षड्भिर्दधानं च रक्तवर्णं च सत्कटिम् ॥ ५ ॥
अन्तर्बाह्योत्तरीयं च नागयज्ञोपवीतिनम् ॥
मयूरमुकुटं रम्यं मकराकृतिकुण्डलम् ॥ ६ ॥
एवं ध्यात्वा यजेत्पीठे पद्मे चापि चतुर्दले ॥
सनकादीन्कर्णिकायां गणेशं नन्दिकेश्वरम् ॥ ७ ॥
कार्त्तिकेयं भृङ्गिणं च दलमध्ये समर्चयेत् ॥
दलाग्रेषु क्रमाच्चापि प्रह्रादं नारदं बलिम् ॥ ८ ॥
पार्श्वयोः पृष्ठतश्चापि रमोमे वेदमातरम् ॥
अग्रदक्षक्रमाद्गां च हंसं पक्षीश्वरं तथा ॥ ९ ॥
भूपुरे लोकपालांश्च तद्धेतीश्च समर्चयेत् ॥
जपेल्लक्षत्रयं मन्त्रं मधुरत्रितयैर्हुनेत् ॥ १० ॥
सन्तोष्य विप्रान्सिद्धिः स्यात्कर्त्ता हर्ता तथात्मवान् ॥
इह लोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ॥ ११ ॥
अथातः सम्प्रवक्ष्यामि नारायणमहामनुम् ॥
नमो नारायणायेति ताराद्यष्टाक्षरो मनुः ॥ १२ ॥
छन्दश्च देवीगायत्री साध्यनारायणो मुनिः ॥
देवता परमात्मास्य पञ्चाङ्गविधिरुच्यते ॥ १३ ॥
कुब्जोल्कश्च महोल्कश्च अविरक्तोल्क एव च ॥
सहस्रोल्कश्चतुर्थोक्तः स्वाहोल्को हेतिसंयुतः ॥
पञ्चाङ्गमन्त्राः सम्प्रोक्ता अङ्गुष्ठादावपि न्यसेत् ॥ १४ ॥
अष्टाक्षरेण व्यस्तेन कुर्य्यादष्टाङ्गकेषु च ॥
सृष्टिन्यासोयमुद्दिष्टस्संहारश्चारणादिकः ॥ १५ ॥
नाभौ च गुह्यदेशे च जानूर्वोः पादयोस्तथा ॥
मूर्ध्नि नेत्रद्वये चैव सुमुखान्ते तथा हृदि ॥ १६ ॥
स्थितिन्यासस्त्वयं प्रोक्तो विभूतेः पञ्जरं शृणु ॥
सर्वन्यासेषु तारेण पुटितार्णान्प्रविन्यसेत् ॥ १७ ॥
मूलाधारे हृदि मुखे भुजयोश्चोरुमूलयोः ॥
नभिदेशे प्रथमको न्यासोय परिकीर्त्तितः ॥ १८ ॥
गले नाभौ हृदि कुचद्वये पार्श्वद्वये तथा ॥
पृष्ठे चेति द्वितीयोयं न्यासस्तु परिकीर्त्तितः ॥ १९ ॥
शीर्षे मुखे नेत्रयुगे कर्णयोर्नासिकाद्वये ॥
क्रमेण विन्यसेद्वर्णान्न्यासोयं स्यात्तृतीयकः ॥ २० ॥
बाहुमूले बाहुमध्ये मणिबन्धेङ्गुलीषु च ॥
दशहस्ते चतुर्थः स्याद्वामबाहौ च पञ्चमः ॥ २१ ॥
दक्षोरुमूलजान्वोश्च गुल्फे चाङ्गुलिषु न्यसेत् ॥
न्यासः षष्ठोयमुदितो वामाङ्घ्रौ सप्तमः स्मृतः ॥ २२ ॥
त्वगसृङ्मांसमेदोस्थिमञ्जा शुक्रानिलेषु च ॥
हृदि ध्यात्वा न्यसेद्वर्णान्न्यासोयं चाष्टमः स्मृतः ॥ २३ ॥
शीर्षदेशे मुखे हृत्कजठरोरुषु जङ्घयोः ॥
पादयोश्च न्यसेद्वर्णान्न्यासोयं नवमः स्मृतः ॥ २४ ॥
गण्डयोरंसयोरूर्वोः पादयोश्च ततः परम् ॥
वामोर्ध्वकरगं चक्रं दक्षेधः करशङ्खकम् ॥ २५ ॥
गदां वै वामोर्ध्वकरे पङ्कजं दक्ष हस्तके ॥
विभूतिपञ्जराख्योयं न्यासो दशविधः स्मृतः ॥ २६ ॥
क्षित्त्यप्तेजोमरुद्व्योमाहम्महत्प्रकृतिस्तथा ॥
तत्त्वाष्टकमिदं बिन्दुयुग्वर्णाड्यं तथोक्तवत् ॥ २७ ॥
ङेयुतं हृदयान्तं च स्थानेष्वेतेषु विन्यसेत् ॥
पल्लिङ्गहृन्मुखे शीर्षे नेत्रहृद्व्यापकेषु च ॥ २८ ॥
संहारनामा तत्त्वानां न्यासः सृष्टिस्तथा क्रमात् ॥
बिन्दुनादशक्तिशान्तिरूपमात्मचतुष्टयम् ॥ २९ ॥
न्यसेत्पूर्वं तनौ मन्त्री देवताभावसिद्धये ॥
मूर्त्तिपञ्जरविन्यासं प्रणवाद्यं समाचरेत् ॥ ३० ॥
नारायणाय चार्यम्णे अं हृन्मध्ये च नाभिगमम् ॥
इं माधवाय मित्राय नमः प्रोच्य हृदि न्यसेत् ॥ ३१ ॥
ईं गोविन्दाय वरुणाय नमश्चैव गले न्यसेत् ॥
उं विष्णवे चांशुमते नमो दक्षिणपार्श्वके ॥ ३२ ॥
ऊं मधुसूदनाय च भगाय दक्षिणांसके ॥
एं त्रिविक्रमाय विवस्वते हृद्दक्षगण्डके ॥ ३३ ॥
ऐं वामनाय चेन्द्राय हृदन्तं वामपार्श्वके ॥
ॐ श्रीधराय पूष्णे च नमो वामांसके न्यसेत् ॥ ३४ ॥
हृषीकेशाय पर्ज्जन्यायौं हृदा वामगण्डके ॥
अं पद्मनाभाय त्वष्ट्रे नमो ह्यश्च प्रविन्यसेत् ॥
दमोदराय ककुदि सर्गान्तो विष्णवे नमः ॥ ३५ ॥
किरीटहारकेयूरमकराकृतिकुण्डलम् ॥
शङ्खचक्रगदापद्महस्तं पीताम्बरावृतम् ॥ ३६ ॥
श्रीवत्साङ्कं लसद्वक्षस्स्थलं श्रीभूमिसंयुतम् ॥
आत्मज्योतिःसम्प्रदीप्तसहस्रादित्यतेजसम् ॥ ३७ ॥
सम्बुद्ध्योक्त्वा च सर्वाणि तदन्ते च वदेन्नमः ॥
द्विसप्तत्यक्षरो मन्त्रो व्यापकत्वेन चोदितः ॥ ३८ ॥
अतः परं प्रवक्ष्यामि तत्त्वानाञ्च मनूत्तमम् ॥
तारोक्त्या खादिकान् वर्णान् सबिन्दून् हृदयान्तकान् ॥ ३९ ॥
परायेति पदस्यान्तेमुकतत्त्वात्मनेनमः ॥
उक्त्वा ह्यमुं न्यसेत्पश्चात्तत्त्वनामस्थलानि तु ॥
जीवं प्राणं सर्वतनौ न्यसेदेवं द्वयं बुधः ॥ ४० ॥
बुद्ध्यहङ्कारमनसां हृदि तत्त्वत्रयं न्यसेत् ॥
मस्तकाननहृद्गुह्यपादांसेषु च वैक्रमात् ॥ ४१ ॥
शब्दस्पर्शरूपरसगन्धतत्त्वानि विन्यसेत् ॥
श्रोत्रत्वगक्षिजिह्वाख्यघ्राणानां तत्त्वपञ्चकम् ॥ ४२ ॥
कर्णयोः सकलाङ्गाक्षिजिह्वाघ्राणेषु विन्यसेत् ॥
वाक्पाणिपायुपादाख्योपस्थानां तत्त्वपञ्चकम् ॥ ४३ ॥
मुखे पाण्योः पादयोश्च गुदे लिङ्गे न्यसेत्क्रमात् ॥
आकाशवायुतेजांसि जलक्ष्मातत्त्वपञ्चकम् ॥ ४४ ॥
मूर्ध्नि वक्त्रे च हृदये न्यसेल्लिङ्गे च पादयोः ॥
ततस्तु हृदये न्यस्येन्मण्डलत्रितयं पुनः ॥ ४५ ॥
सूर्य्यसोमकृशानूनामर्कषोडशदिक्कलम् ॥
हंसरं वर्णपूर्वं च योजयित्वा च पूर्ववत् ॥ ४६ ॥
ततः कुर्य्याद्वासुदेवादिकं न्यासं स उच्यते ॥
न्यसेद्ॐखान्नमः प्रोक्ता पराय परमेष्ठिने ॥ ४७ ॥
वासुदेवेति तत्त्वात्मने नमो मस्तके मतम् ॥
तारोयं नम इत्युक्त्वा पुरुषायपदं वदेत् ॥ ४८ ॥
सङ्कर्षणेति तत्त्वात्मनेनमश्चमुखेन्यसेत् ॥
ॐरं नमः परायेति निवृत्तिं ङेन्तनामनि ॥ ४९ ॥
रुद्धतत्त्वात्मने प्रोच्य नमोन्तं व्यञ्जने न्यसेत् ॥
ॐलं नमः परायेति शर्वायेति पदं वदेत् ॥ ५० ॥
नारायणाय तत्त्वात्मने नमः पादयोर्न्यसेत् ॥
ॐक्ष्रौं नमः परायेति नृसिंहाय पदं वदेत् ॥ ५१ ॥
कोपतत्त्वात्मने हृच्च सर्वाङ्गे व्यापकं चरेत् ॥
एवं विन्यस्य विधिवत्साक्षान्नारायाणो भवेत् ॥ ५२ ॥
ज्वररोगाभिचाराद्या भूताद्या यान्ति सङ्क्षयम् ॥
वैष्णवीर्दर्शयेन्मुद्राः पूर्वोक्ताश्च ततः परम् ॥ ५३ ॥
किरीटमनुना दद्यात्स्वके पुष्पाञ्जलित्रयम् ॥
ऊर्ध्वं चाधो दक्षभेदाद् घण्टां च कमलं गदाम् ॥ ५४ ॥
शङ्खं चक्रं सूर्य्यकान्तिं पार्श्वयोर्धरणीं रमाम् ॥
केयूरहारमुकुटं सपीताम्बरकुण्डलम् ॥ ५५ ॥
कौस्तुभोद्भिन्नहृदयं श्रीवत्साङ्कितवक्षसम् ॥
नवशक्तिसमायुक्ते पीठे देवं यजेत्ततः ॥ ५६ ॥
विमलोत्कर्षिणी ज्ञाना क्रियायोगा तथैव च ॥
प्रभा सत्या तथेशानानुग्रहा नव शक्तयः ॥ ५७ ॥
तारो नमो भगवते विष्णवे पदमुच्चरेत् ॥
सर्वात्मने वासुदेवाय साक्षिणे पदमुच्चरेत् ॥ ५८ ॥
सर्वात्मने योगपीठपद्मपीठात्मने नमः ॥
पीठमन्त्रः समाख्यातः सप्तत्रिंशद्भिरक्षरैः ॥ ५९ ॥
अनेन पीठं सम्पूज्य देवमावाहयेत्ततः ॥
तुभ्यं तमभिधास्यामि मन्त्रमावाहनस्य च ॥ ६० ॥
एह्येहि भगवन्देव लोकानुग्रहकारक ॥
यज्ञभागं गृहाण त्वं वासुदेव नमोस्तु ते ॥ ६१ ॥
आवाह्य तत्र विधिवदुपचारैर्यथोदितैः ॥
कर्णिकायां यथास्थानं यजेदङ्गानि पूर्ववत् ॥ ६२ ॥
केशरेषु यजेत्पश्चान्मन्त्रवर्णान्यथोदितान् ॥
दिक्पत्रेष्वर्चयेद्वासुदेवं सङ्कर्षणं तथा ॥ ६३ ॥
प्रद्युम्नमनिरुद्धं च कम्ब्वब्जारिगदाधरान् ॥
गौरहारिद्रकृष्णाख्यशुक्लनीलनिभान्क्रमात् ॥ ६४ ॥
शान्तिं क्षिप्रां भारतीं च शक्तिं कोणेषु पूजयेत् ॥
शुक्लस्वर्णपयःश्यामसङ्काशाश्चारुभूषणाः ॥ ६५ ॥
अब्जं चक्रं दरं चैव गदां पीताम्बरं तथा ॥
अर्चेन्मुसलखड्गौ च वनमालां दलाग्रतः ॥ ६६ ॥
भूपुरे प्रागिमे पूज्याः खगः कृष्णोरुणो विराट् ॥
अतः शङ्खनिधि पद्मनिधी रक्तोथ रक्तभाक् ॥ ६७ ॥
ईच्छ्यामो बाणदुर्गो विष्वक्सेनो निशानिभः ॥
आग्नेयादिदलेष्वेते पूज्याश्चाग्रे दिगीश्वराः ॥ ६८ ॥
तदग्रे हेतयश्चेति षडावरणपूजनम् ॥
नारायणस्य गायत्रीं ब्रवीम्येकमनाः श्रुणु ॥ ६९ ॥
नारायणाय विद्महे वासुदेवाय धीमहि ॥
तन्नो विष्णुः प्रचोदयात् ॥ ७० ॥
क्षत्रियादेस्तु संस्कारं प्रग्वत्कुर्य्यात्तथानया ॥
योग्यः स्याद्विष्णुदीक्षायां द्विजवत्पापवर्जितः ॥ ७१ ॥
दन्तलक्षं जपेन्मन्त्रं त्रिमध्वक्तैः सरोरुहैः ॥
जुहुयात्तर्प्पयेत्कृष्णचन्द्रं च केशराम्बुभिः ॥ ७२ ॥
मार्ज्जनान्ते सदाचारान्भोजयेद्वैष्णवान्द्विजान् ॥
एवं सिद्धमनुर्मन्त्री प्रयोगन्तु समाचरेत् ॥ ७३ ॥
सायुधाष्टभुजं सौम्यं सर्वाङ्गधवलद्युतिम् ॥
सम्मुखीकरणे ध्यायेद्विष्णुं गरुडगामिनम् ॥ ७४ ॥
एवमेव हरिं ध्यायेद्भोगः संसारकर्मभिः ॥
दधिमध्वाज्ययुक्ताश्च चतुरङ्गुलसम्मिताः ॥
गुडूचीरयुतं हुत्वा मृत्युमेवातितर्ज्जयेत् ॥ ७५ ॥
शनैश्चरदिनेश्वत्थं सम्यगालभ्य पाणिना ॥
जपेदष्टोत्तरशतं स भवेदपमृत्युजित् ॥ ७६ ॥
पञ्चविंशमितं जप्त्वा मन्त्री शुद्धाः पिबेदपः ॥
निरस्तपातको भूत्वा नीरोगो ज्ञानवान्भवेत् ॥ ७७ ॥
जप्त्वायुतं च कुम्भाद्भिः सेचनं सर्वरोगनुत् ॥
जपित्वा यस्तु भुञ्जानो धीमानारोग्यवान्भवेत् ॥ ७८ ॥
चन्द्रसूर्य्योपरागे तु त्रिदिनं दिनमेव च ॥
उपोष्याष्टसहस्रन्तु स्पृष्ट्वा शालीन्घृतं जपेत् ॥
यः पिबेल्लभते मेधां कविताबोधनं च सः ॥ ७९ ॥
बिल्वैरयुतहोमेन सद्यो धनपतिर्भवेत् ॥
पद्मतन्तुमयं सूत्रमयुतेनाभिमन्त्रितम् ॥
धारयेद्दक्षिणे हस्ते सर्वतः स्यात्सुरक्षितः ॥ ८० ॥
एवं सङ्क्षेपतः प्रोक्तमन्ते मन्त्राष्टकं शृणु ॥
एते ह्यष्टौ मन्त्रवर्णा मन्त्राष्टकमुदीर्य्यते ॥ ८१ ॥
छन्दर्षिदेवताश्चैषां ध्यानाद्यं च वदामि ते ॥
गौतमोथ भरद्वाजो विश्वामित्रः क्रमेण च ॥
जमदग्निर्वशिष्ठश्च कश्यपोत्रिर्घटोद्भवः ॥ ८२ ॥
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥
त्रिष्टुप् च जगती चैव विराट् छन्दांस्यनुक्रमात् ॥ ८३ ॥
धरा ध्रुवस्तथा सोम आपोग्निर्वायुरेव च ॥
प्रत्यूषश्च प्रभासश्च विज्ञेया देवताः क्रमात् ॥ ८४ ॥
अग्निर्भूर्वायुराकाश आदित्यो द्यौर्विधुश्च ते ॥
तत्त्वानि सप्तलोकास्तु क्षेत्राणि खचरात्मकाः ॥ ८५ ॥
शुक्ले हिरण्मयं कृष्णं रक्तं कुङ्कुमसन्निभम् ॥
पद्मकिञ्जल्कनीलाभं रक्तवर्णाष्टको मतः ॥ ८६ ॥
षडाद्ययोरुदात्तः स्यात्स्वरितस्तु द्वितीययोः ॥
प्रचयस्त्रिचतुर्वर्णैर्निहतं पञ्चमाक्षरम् ॥ ८७ ॥
उदात्तं सप्तमं चेति ज्ञात्वा वेदं जपेन्मनुम् ॥
दधच्चक्रं गदां पद्मं दरं दक्षिणवामयोः ॥
सान्तराः स्युः शङ्खचक्रगदापद्मकराः क्रमात् ॥ ८८ ॥
यां मूर्तिं पूजयेत्पूर्वमन्यास्तस्या भवन्ति हि ॥
अङ्गान्यन्तिमपत्रे तु मध्यस्थं पुनरर्चयेत् ॥ ८९ ॥
तत्र प्रणवपूजायां चाङ्गावृत्तिस्तथादिमा ॥
द्वितीयावरणं प्रोक्तमन्त्रवर्णाष्टमूर्त्तिभिः ॥ ९० ॥
वासुदेवादिकैः शान्त्यादिसंयुक्तैस्तृतीयकम् ॥
तृतीयेष्टदले प्रोक्ता रतिश्चापि धृतिस्तथा ॥ ९१ ॥
कान्तिस्तुष्टिश्च पुष्टिश्च स्मृतिदीप्त्याख्यकीर्त्तयः ॥
वज्रादिभिश्चतुर्थी स्यात्प्राग्वत्षष्ठी सपञ्चमी ॥ ९२ ॥
मोकारावृत्तिपूजायां तृष्णावृत्तिचतुष्टयम् ॥
नाकारावृत्तिपूजायामावृत्तित्रयपूजने ॥ ९३ ॥
राकारावृत्तिपूजायां तुल्यमेवावृतिद्वयम् ॥
तृतीयावरणे पूज्या श्रीर्माया च मनोन्मनी ॥ ९४ ॥
ह्रीर्मोहिनी महामाया रमाद्या आवृतित्रयम् ॥
यवर्णमूर्तिपूजायान्तुल्यमेवावृतिद्वयम् ॥ ९५ ॥
तृतीयावरणे चक्रं शङ्खश्चापि गदा हलः ॥
शार्ङ्गं च मुसलं खड्गस्त्रिशूलमिति पूजनम् ॥
शोकारमूर्त्तिपूजायां प्राग्वदावरणद्वयम् ॥ ९६ ॥
तृतीयेष्टदलेनन्तो वासुकिस्तक्षकस्तथा ॥
कर्कोटकस्तथा पद्मो महापद्मस्ततः परम् ॥
शङ्खपालश्च कुलिकः प्रोक्तमत्रावृतिद्वयम् ॥ ९७ ॥
यकारमूर्तिपूजायामङ्गैस्स्यात्प्रथमावृतिः ॥
वासुदेवादिभिः शान्त्यादियुक्तैरमया मता ॥ ९८ ॥
तृतीयार्कदले कोणे वाद्यांश्चैव प्रपूजयेत् ॥
चतुर्थ्यामष्टपत्रे तु वज्रादीनां समर्चनम् ॥ ९९ ॥
पञ्चम्यां दिग्दलेष्वर्च्या मत्स्याद्या ह्यवतारकाः ॥
षष्ठ्यामिन्द्रादिकाश्चाग्रे तदस्त्राणीति पूजनम् ॥ १०० ॥
जपेत्षोडशलक्षाणि हुनेदत्र तु पूर्ववत् ॥
इह लोके सुखं प्राप्य विष्णुसायुज्यमाप्नुयात् ॥ १०१ ॥
अथान्यं मुक्तिदं वक्ष्ये नारायणमनुं परम् ॥
नारायणस्य चरणौ शरणं च ततो वदेत् ॥ १०२ ॥
प्रपद्ये तारमुच्चार्य्य श्रीमन्नारायणाय च ॥
नमो जिनार्णको मन्त्रो मुन्याद्यं पूर्ववन्मतम् ॥ १०३ ॥
षड्दीर्घयुक्तकामेन षडङ्गविधिरस्य तु ॥
ध्यानपूजाप्रयोगादि पूर्ववत्परिकीर्त्तितम् ॥ १०४ ॥
अथातः सम्प्रवक्ष्यामि माधवस्य महामनुम् ॥
क्षिप्रसिद्धिकरः काश्यां यद्वासौ ध्रुवपूर्वकः ॥ १०५ ॥
रमां बिन्दुपदं चोक्त्वा माधवाय नमो नमः ॥
द्वादशार्णो महामन्त्रः पञ्चाङ्गानि क्रमात्पदैः ॥ १०६ ॥
शङ्खचक्र गदापद्मधरं पीताम्बरावृतम् ॥
बद्धाञ्जली रमा वामे वादयन्ती च वल्लकीम् ॥ १०७ ॥
नारदस्तुम्बुरुर्दक्षभागे तैरपि संयुतम् ॥
प्रसन्नवदनं ध्यायेद्वरदानसमुद्यतम् ॥ १०८ ॥
पूर्वोक्ते पूजयेत्पीठे मध्ये लक्ष्म्या समावृतम् ॥
पञ्चाङ्गपूर्वमभ्यर्च्य यजेदष्टदले क्रमात् ॥ १०९ ॥
किरणां धूतपापां च यमुनां च सरस्वतीम् ॥
गङ्गामसीं च वरुणां गण्डकीं च दलाष्टके ॥ ११० ॥
विदुरं नारदं भीष्मं दिवोदासार्जुनौ बलिम् ॥
विभीषणं च प्रह्रादं बाह्ये षोडशपत्रके ॥ १११ ॥
मोदं प्रमोदं सुमुखं दुर्मुखं गणनायकम् ॥
ढुण्ढिराजं विशालाक्षं ढुण्ढिभैरवमीश्वरम् ॥ ११२ ॥
साम्बादित्यं योगिनीं च दण्डपाणिं विनायकम् ॥
जैनेन्द्रं च महामायं भूपुरे दिक्पतीनपि ॥ ११३ ॥
दन्तलक्षं जपेन्मन्त्रं होमं प्राग्वत्समाचरेत् ॥
शान्त्यादिगुणसम्पन्नो धवनान्मुक्तिभाग्भवेत् ॥ ११४ ॥
अथातः सम्प्रवक्ष्यामि गोविन्दस्य परं मनुम् ॥
गोविन्दाय नमश्चेति षडर्णो मनुरीरितः ॥ ११५ ॥
शौनकोस्य मुनिश्छन्दो विराङ्गोविन्द ईश्वरः ॥
षडङ्गं मन्त्रवर्णैः स्यात्सर्वेण व्यापकं चरेत् ॥ ११६ ॥
शङ्खचक्रगदापद्मधरं ध्यायेत्किरीटिनम् ॥
गरुडोपरि संस्थं च सनकाद्यैरुपासितम् ॥ ११७ ॥
लक्ष्मीधराभ्यां सहितमुद्यदादित्यकुण्डलम् ॥
लोकरक्षाकरं दिव्यं दिव्यमाल्यानुलेपनम् ॥ ११८ ॥
पूर्वोदिते यजेत्पीठे वैष्णवेनोक्तवर्त्मना ॥
देवमावाह्य मन्त्राङ्गैः प्रथमावृतिरीरिता ॥ ११९ ॥
चक्राद्यैश्च द्वितीया स्यात्तृतीया सनकादिभिः ॥
सनकः स्यात्ततोप्यग्रे सनन्दनसनातनौ ॥ १२० ॥
सनत्कुमारश्च पराशरो व्यासश्च नारदः ॥
शौनकोष्टम एव स्याच्चतुर्थी लोकपालकैः ॥ १२१ ॥
तदायुधैः पञ्चमी स्यादेवं पूजा समीरिता ॥
लक्षमेकं जपेन्मन्त्रं तद्दशांशं हुनेद् घृतैः ॥ १२२ ॥
तर्प्पणं मार्जनं कुर्य्याद्ब्राह्मणानपि भोजयेत् ॥
एवं कृतप्रयोगस्य रोगनाशो भविष्यति ॥ १२३ ॥
कन्यार्थी लाजहोमेन लक्ष्म्यर्थी बिल्वहोमतः ॥
वस्त्रार्थी पुष्पहोमेन आरोग्यार्थी तिलैर्हुनेत् ॥ १२४ ॥
रविवारे जले स्थित्वा नाभिमात्रे जपेद्बुधः ॥
अष्टोत्तरसहस्राणि ज्वरनाशो भवेद्ध्रुवम् ॥ १२५ ॥
विवाहार्थं जपेन्मासं शशिमण्डलसन्निभम् ॥
ध्यायेल्लभेद्रमां 1 कन्यां कुलीनां च कुटुम्बिनीम् ॥ १२६ ॥
अथातः सम्प्रवक्ष्यामि विष्णुमन्त्रं महाद्भुतम् ॥
विष्णवे नम इत्येष मन्त्रः पञ्चाक्षरो मतः ॥ १२७ ॥
नारदोस्य मुनिश्छन्दो गायत्री विष्णुरीश्वरः ॥
पञ्चवर्णैः समस्तेन षडङ्गविधिरीरितः ॥ १२८ ॥
शङ्खचक्रगदापद्मधरं लक्ष्मीसमावृतम् ॥
पीताम्बरं घनश्यामं ध्यायेत्तं भूषणान्वितम् ॥ १२९ ॥
पूर्वोक्ते च यजेत्पीठे षट्कोणाष्टदलान्विते ॥
बलिं विभीषणं भीष्मं प्रह्लादं नारदार्जुनौ ॥ १३० ॥
षड्दले चाष्टपत्रे तु विदिक्षु सनकादिकान् ॥
एवं शीलं सुशीलं च जयं च विजयं दिशि ॥
भूपुरे दिक्पतीनिष्ट्वा तदस्त्राणि ततो बहिः ॥ १३१ ॥
पञ्चलक्षं जपेन्मन्त्रं त्रिमध्वक्तैस्तिलैर्हुनेत् ॥
तर्प्पणैर्मार्जनैर्विप्रभोजनैराशु सिद्ध्यति ॥ १३२ ॥
अनेन लक्षपद्मानि शान्तिकामः समर्चयेत् ॥
न कदाचिद्दरिद्रः स्याद्दूर्वाभिः स्यादरोगता ॥ १३३ ॥
रक्तैर्हयारिकुसुमै राजानं वशमानयेत् ॥
चम्पकैः स्त्रियमाप्नोति मालत्यापि सुखी भवेत् ॥ १३४ ॥
तुलसीमञ्जरीभिस्तु सर्वकामानवाप्नुयात् ॥
केतक्या जायते कामो ह्यमरो जायते नरः ॥
पारिजातैस्तु सौन्दर्य्यं नातः परतरो मनुः ॥ १३५ ॥
अथातः सम्प्रवक्ष्यामि मधुसूदनसन्मनुम् ॥
तारो नमो भगवते ङेन्तश्च मधुसूदनः ॥ १३६ ॥
त्रयोदशाक्षरो मन्त्रो मुनिर्ब्रह्मा समीरितः ॥
छन्दोनुष्टुब्देवता तु भगवान्मधुसूदनः ॥ १३७ ॥
पदैर्मन्त्रस्य सर्वेण पञ्चाङ्गविधिरीतः ॥
शेषतल्पप्रसुप्तं तु लक्ष्मीसंवाहिताङ्घ्रिकम् ॥ १३८ ॥
नाभिपद्मस्थितविधिं शङ्खचक्रगदाधरम् ॥
पीताम्बरं घनश्यामं मधुकैटभमारकम् ॥ १३९ ॥
कर्णिकायां यजेद्विष्णुं बहिरष्टदलेर्चयेत् ॥
योगनिद्रां महामायां कालरात्रिं च कालिकाम् ॥ १४० ॥
महारात्रिं मोहरात्रिं महाविद्यां च मोहिनीम् ॥
एवं सम्पूज्य देवेशं जपेल्लक्षचतुष्टयम् ॥ १४१ ॥
पद्मैर्हुनेत्त्रिमधुराप्लुतैस्तस्य दशांशतः ॥
तर्प्पणं मार्जनं कुर्यामन्त्रसिद्धिः प्रजायते ॥ १४२ ॥
आम्रपुष्पैर्गोघृताक्तैर्हुत्वा भोगमवाप्नुयात् ॥
पलाशकुसुमैर्हुत्वा शत्रूणां स्तम्भयेद्बलम् ॥ १४३ ॥
अथार्कैः शोकनाशः स्यात्सिन्दूरैर्वश्यता भवेत् ॥
मालत्या चातुला लक्ष्मीरन्यत्पूर्ववदेवतु ॥ १४४ ॥
अथातः सम्प्रवक्ष्यामि मन्त्रं त्रैविक्रमं परम् ॥
तारं नमो भगवते व्याहृतित्रितयं वदेत् ॥ १४५ ॥
व्यापकाय पदं पश्चान्ङेन्तं चापि त्रिविक्रमम् ॥ १४६ ॥
विंशत्यर्णो महामन्त्रो गतराज्यप्रदायकः ॥
पदपञ्चकसर्वेण षडङ्गविधिरीरितः ॥ १४७ ॥
मुनयो वालखिल्याः स्युश्छन्दो गायत्रमीरितम् ॥
देवता विश्वरूपोस्य त्रिविक्रम उदाहृतः ॥ १४८ ॥
दक्षाङ्घ्रिव्याप्तपातालं वामाङ्घ्रिव्याप्तभूतलम् ॥
दक्षिणं पुनरुत्थाप्य स्वर्गव्याप्तकरं हरिम् ॥ १४९ ॥
बलिदत्तैः कुशतिलैस्तोयैः सम्प्रस्रवत्करम् ॥
अभयं वामहस्तेन कुर्वन्तं च सुरेश्वरम् ॥
गङ्गौघधौतपादाब्जं ध्यायेद्ब्रह्मादिकैः स्तुतम् ॥ १५० ॥
वैष्णवे च यजेत्पीठे दलेष्वष्टसु च क्रमात् ॥
बलिं विधिं च प्रह्लादं कश्यपं चादितिं शिवम् ॥
लक्ष्मीं भुवं भूपुरे तु दिगीशानायुधानि च ॥ १५१ ॥
विंशल्लक्षं जपेन्मन्त्रं तिलतण्डुलसर्षपैः ॥
त्रिमध्वक्तैर्हुनेत्पश्चात्तर्प्पणाद्यं च कारयेत् ॥ १५२ ॥
एवं सिद्धमनुर्मन्त्री लभते वाञ्छितं फलम् ॥ १५३ ॥
अथातः सम्प्रवक्ष्यामि वामनस्य मनुं परम् ॥
तारो नमो भगवते बलिसर्वस्वहारिणे ॥ १५४ ॥
अमुकं देहि ममाभीष्टमनेकं च वामन ॥
मायां रमां समुच्चार्य्य मन्त्रो द्वात्रिंशदर्णकः ॥ १५५ ॥
कामो मुनिरनुष्टुप् च छन्दो देवस्तु वामनः ॥
सप्ताष्टार्कत्रिभूचन्द्रैः षडङ्गविधिरीरितः ॥ १५६ ॥
प्रगृह्णन्तं बलिं चार्थान्हर्षेण ददतं बलिम् ॥
पूर्णकामावुभौ ध्यायेदिति प्रीतिसमन्वितौ ॥ १५७ ॥
पूर्वोक्तमर्चनन्तत्रं कोटिमात्रं जपेन्मनुम् ॥
लक्षं हुनेद्बिल्वफलैर्मधुरत्रयसंयुतैः ॥ १५८ ॥
तर्प्पणं मार्जनं कृत्वा तथा ब्राह्मणभोजनम् ॥
तद्दशांशं च मन्त्रस्य सिद्धिः स्यात्पापनाशिका ॥ १५९ ॥
एवं सिद्धमनुर्मन्त्री ध्यायन्देवं जपेन्मनुम् ॥
साध्ये ददतमिष्टार्थं ध्यात्वा वर्णमितं जपेत् ॥
भावयेद्वाञ्छितं स्वार्थं स दद्यान्नात्र संशयः ॥ १६० ॥
अहोरात्रं जपेद्वापि स देवादिर्यदा भवेत् ॥
प्रातस्तदा स्वयं मन्त्रं साधकाय प्रयच्छति ॥ १६१ ॥
दद्यादभीष्टं ललिताप्यन्य दवेस्य का कथा ॥
अथातः सम्प्रवक्ष्यामि श्रीधरस्य मनुं परम् ॥
रमां शक्तिं कामबीजं श्रीधराय ततो वदेत् ॥ १६२ ॥
त्रैलोक्यमोहनायेति नमोन्तः षोडशाक्षरः ॥
ऋषिर्ब्रह्मा भवेच्छन्दो गायत्रं श्रीधरस्सुरः ॥ १६३ ॥
श्रीबीजेन षडङ्गानि कुर्य्यात्षड्दीर्घसंयुजा ॥
दुग्धाब्धौ च सिते द्वीपे सर्वर्त्तुफलितद्रुमे ॥ १६४ ॥
तत्र कल्पद्रुमाधस्तात्पक्षीन्द्ररचितासने ॥
शङ्खचक्रगदापद्मपाणिं चामीकरद्युतिम् ॥ १६५ ॥
किरीटिनं कुण्डलिनं श्रीवत्साङ्कितवक्षसम् ॥
हृदि लक्ष्मीधरं ध्यायेच्छ्रीधरं पुरुषार्थदम् ॥ १६६ ॥
यजेच्चवैष्णवे पीठे कर्णिकायां सुरेश्वरम् ॥
षडङ्गानि यजेत्तत्र देवाङ्गेषु ततो यजेत् ॥ १६७ ॥
वक्षस्स्थले दक्षभागे श्रीवत्सायेति पूजयेत् ॥
वामे च कौस्तुभायेति ग्रीवायां पूजयेत्ततः ॥ १६८ ॥
नमोन्तं वनमालायै मुकुटायेति संयजेत् ॥
भाले च कर्णिकायां च पक्षिराजाय वै नमः ॥ १६९ ॥
नमः पङ्कजनाभाय गरुडायेति पूजयेत् ॥
पुरुषोत्तमकं लक्ष्मीनिवासं तदनन्तरम् ॥ १७० ॥
सकलञ्चजगन्नाथं जगत्क्षोभणमेव च ॥
सर्वस्त्रीहृदयोन्मादं मदोन्मादक मेवच ॥ १७१ ॥
सर्वसौभाग्यदं सर्वकामदं च प्रपूजयेत् ॥
तदुत्सङ्गगतां देवीं पूजयेच्छ्रीं श्रियै नमः ॥ १७२ ॥
लोकेश्वरांश्च वज्रादीन्भूपुरे परिपूजयेत् ॥
लक्षमेकं जपेन्मन्त्रं तद्दशांशं घृतैर्हुनेत् ॥ १७३ ॥
तर्प्पणादि ततः कुर्य्यात्पूर्ववत्साधकोत्तमः ॥
ततः सिद्धमनुर्मन्त्री काम्यकर्म समाचरेत् ॥ १७४ ॥
गन्धैश्च शतपुष्पैश्च होमो लक्ष्मीकरः परः ॥
वराहोक्तान्प्रयोगांश्च विदध्यादत्र साधकः ॥
भजते श्रीधरं यस्तु स च लोकद्वये सुखी ॥ १७३ ॥
अथातः सम्प्रवक्ष्यामि हृषीकेशस्य सन्मनुम् ॥
कामबीजं हृषीकेशो ङेहृदन्तो गजाक्षरः ॥ १७६ ॥
छन्दोनुष्टुबृषिर्ब्रह्मा हृषीकेशश्च देवता ॥
षड्दीर्घयुक्तकामेन षडङ्गविधिरीरितिः ॥ १७७ ॥
शङ्खचक्रगदापद्मधरिणं संस्मरेद्विभुम् ॥
गरुडोपरि संविष्टं शुभ्रवर्णं सुभूषणम् ॥ १७८ ॥
श्रीधरोक्ते यजेत्पीठे ह्यङ्गाद्यावरणान्वितम् ॥
अष्टलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्पुनः ॥
आज्याक्तैः कमलैः पूर्णैस्तर्प्पणादि ततश्चरेत् ॥ १७९ ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान्पूर्ववच्चरेत् ॥
विजयायाः प्रसूनैश्च तर्प्पणं सर्वकामदम् ॥ १८० ॥
अथ मन्त्रान्तरं वक्ष्ये श्लोकरूपं महाफलम् ॥
यज्जपादेव सिध्यन्ति साधकाभीष्टकोटयः ॥ १८१ ॥
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ॥
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ १८२ ॥
अर्जुनोस्य मुनिः प्रोक्तोनुष्टुप् छन्दश्च देवता ॥
हृषीकेशोखिलं सर्वं ज्ञेयं वै पूर्वमन्त्रवत् ॥ १८३ ॥
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥
प्रलयाब्धौ शेषतल्पे लक्ष्मीसंवाहिताङ्घ्रिकम् ॥ १८४ ॥
नाभिपुष्करसंस्थेन धात्रा स्तुतमरिन्दमम् ॥
पद्मं कौमोदकीं हस्तैर्दधतं दीप्ततेजसम् ॥ १८५ ॥
पीताम्बरधरं श्याममर्धोन्मीलितलोचनम् ॥
ध्यात्वार्चयेच्छ्रीधरोक्तपीठे तद्वज्जपादिकम् ॥ १८६ ॥
प्रयोगांश्च विजानीयात्पद्मनाभार्चनं त्विति ॥ १८७ ॥
अथातः सम्प्रवक्ष्यामि दामोदरमनुं परम् ॥
राधादामोदरायेति कामबीजेन सम्पुटः ॥
नवाक्षरो महामन्त्रो भोगभाजां सुसिद्धिदः ॥ १८८ ॥
कामदेवो मुनिश्छन्दो गायत्रं देवता मतः ॥
राधादामोदरः साक्षाद्भुक्तिमुक्तिफलप्रदः ॥ १८९ ॥
पीताम्बरधरं श्यामं नानालङ्कारभूषितम् ॥
वामोत्सङ्गगतां राधां चालिङ्गन्तं मुदान्वितम् ॥ १९० ॥
उद्याने संस्मरेद्देवं नानापुष्पलतायुतम् ॥
षडङ्गं कामबीजेन यजेद्देवं सशक्तिकम् ॥ १९१ ॥
कर्णिकायां केशरेषु गौर्य्याद्या मातृका यजेत् ॥
ब्रह्मादिकान्पद्ममध्ये पत्राग्रे तु ह्रियं रतिम् ॥ १९२ ॥
पञ्चकामान्वसन्तं च तद्बाह्ये भूपुरेर्चयेत् ॥
दिगीशांश्चापि वज्रादीनेवं पूजा समीरिता ॥ १९३ ॥
नवलक्षं जपेन्मन्त्रं तण्डुलं सघृतं हुनेत् ॥
तर्प्पणं मार्जनं कृत्वा दम्पत्योर्भोजनं चरेत् ॥ १९४ ॥
एकलक्षादिपञ्चान्तं कार्य्यलाघवगौरवात् ॥
पुरश्चरणवत्कुर्याज्जपाद्यं कार्य्यसिद्धये ॥ १९५ ॥
चतुर्ष्वपि युगेष्वेतत्समोद्भुतफलो न हि ॥
अथातः सम्प्रवक्ष्यामि सङ्कर्षणमनुं परम् ॥ १९६ ॥
कामबीजं समुचार्य्य ङेन्तन्त्रैलोक्यमोहनम् ॥
ततश्चाप्रतिरूपाय पराय च वदेत्पदम् ॥ १९७ ॥
सङ्कर्षणात्मने हृच्च पञ्चविंशाक्षरो मनुः ॥
त्रैमुनिस्तु मुनिश्छन्दो मितं सङ्कर्षणः सुरः ॥ १९८ ॥
षड्भिः पदैः षडङ्गानि तथाङ्गुष्ठादिषु न्यसेत् ॥
अङ्कुशं दक्षिणे हस्ते वामेनाभयमेव च ॥ १९९ ॥
मेघश्यामं पीतवासो नानाभरणसंयुतम् ॥
नारदादियुतं ध्यायेद्वाणीलक्ष्म्यौ च पार्श्वयोः ॥ २०० ॥
सुवर्णमग्र्ये विपिने स्थितं कल्पदुमावृतेः ॥
यजेच्च वैष्णवे पीठे नवलक्षं जपेन्मनुम् ॥ २०१ ॥
हुनेत्तिलैस्त्रिमधुराप्लुतैः स्यात्तर्प्पणादिकम् ॥ २०२ ॥
एवं सिद्धमनुर्मन्त्री दूर्वाखण्डायुतं हुनेत् ॥
समस्तरोगनाशस्तु लक्ष्मीः पद्माक्षहोमतः ॥ २०३ ॥
आकर्षणं बिल्वफलैस्ताम्बूलैः स्याद्वशीकृतिः ॥
दीर्घायुष्यं गोघृतेन महिषेणापि मन्मथः ॥ २०४ ॥
पुत्रजीवकबीजानां घताक्तानां च होमतः ॥
वन्घ्यापि लभते पुत्रं होमसङ्ख्यायुतादिकम् ॥ २०५ ॥
अथातः सम्प्रवक्ष्यामि वासुदेवमनुं परम् ॥
तारो नमो भगवते वासुदेवायसंस्मृतः ॥ २०६ ॥
द्वादशार्णस्तु गायत्री छन्दश्चास्य प्रजापतिः ॥
मुनिर्देवो वासुदेवः पञ्चाङ्गविधिरीरितः ॥ २०७ ॥
पदैः समस्तैस्तु तथा द्वादशाङ्गं ततो न्यसेत् ॥
स्तनयोर्हृदये पृष्ठे बाह्वोरूर्वोश्च जानुनोः ॥
पादयोस्तु मनोर्वर्णान्न्यसेद्बिन्दून्नमोन्तकान् ॥ २०८ ॥
मन्त्रं सम्पूर्णमेवं तु यथास्थाने न्यसेद्बुधः ॥
त्रिशस्तारत्रिपुटितमूलेन व्यापकं चरेत् ॥ २०९ ॥
मन्त्रार्णेस्त्रिविधं न्यासं न्यसेन्मन्त्री ततः परम् ॥
कयोलकर्णदृक्कण्ठदोर्हृज्जठरनाभिषु ॥ २१० ॥
लिङ्गजान्वङ्घ्रिषु प्रोक्तः सृष्टिन्यासस्तु मन्त्रिभिः ॥
हृदादिकोयं शीर्षान्तः स्थितिन्यास उदाहृतः ॥ २११ ॥
पादावारभ्य शीर्षान्तो न्यासः संहारसञ्ज्ञकः ॥
एष क्रमो यतीनां तु व्यस्ततो ब्रह्मचारिणाम् ॥ २१२ ॥
संहारसृष्टिस्थितथो ग्रहस्थानां प्रकीर्तिताः ॥
संहृतां दोषसंहारः सृष्टौ च शुभ सृष्टयः ॥
स्थितौ च शान्तिविन्यासः स स्यात्कार्यस्त्रिधा बुधैः ॥ २१३ ॥
जीवतत्त्वात्मने प्रोच्य पुरुषाय नमश्च के ॥
प्राणतत्त्वात्मने भाले सर्वगाय नमो न्यसेत् ॥
बुद्धितत्त्वात्मनेच्युताय नमो नेत्रयोर्न्यसेत् ॥ २१४ ॥
चित्ततत्त्वात्मने वासुदेवाय च नमो मुखे ॥
कर्णे ह्रत्पद्मतत्त्वाय वदेत्सङ्कर्षणाय च ॥ २१५ ॥
नमोन्यसेदथो दक्षभुजे सूर्यकलात्मने ॥
सूर्यमण्डलतत्त्वाय प्रद्युम्नाय ततो न्यसेत् ॥
ततो न्यसेद्वामबाहौ तत्षोडशकलात्मने ॥ २१६ ॥
चन्द्रमण्डलतत्तत्त्वानिरुद्धाय हृदि न्यसेत् ॥
न्यसेत्ततश्च हृदये मध्यदेशे कलात्मने ॥
अग्निमण्डलतत्त्वाय ङेन्तो नारायणो मतः ॥ २१७ ॥
कुक्षौ न्यस्येद्वासुदेवं तत्त्वञ्च ब्रह्मणे नमः ॥
सङ्कर्षणाख्यतत्त्वाय लिङ्गे स्याद्विष्णवे नमः ॥ २१८ ॥
ततः प्रद्युम्नतत्त्वाय नृसिंहाय नमो न्यसेत् ॥
दक्षपादे च वामेनिरुद्धतत्त्वात्मने न्यसेत् ॥ २१९ ॥
वाराहाय नमश्चेति तत्त्वन्यास उदाहृतः ॥
मूर्त्तिपञ्जरनामानं केशवादिकमाचरेत् ॥ २२० ॥
न्यासं ततो वासुदेवं ध्यायेत्तद्ध्यानमुच्यते ॥
दुग्धाम्भोधौ सितद्वीपे दिव्ययोषाविराजिते ॥ २२१ ॥
तत्रास्तेसौ महारम्ये सर्वर्त्तुद्रुमसङ्कुले ॥
तत्र कल्पद्रुमाधस्ताद्रत्नमञ्चे तु पङ्कजम् ॥ २२२ ॥
स्वर्णाभं चिन्तयेत्तत्र वासुदेवं स्मिताननम् ॥
चन्द्रकान्तिं शङ्खचक्रगदापद्मलसत्करम् ॥ २२३ ॥
श्रीवत्साङ्गदकेयूरमुकुटं चारुकुण्डलम् ॥
सकौस्तुभं पीतवस्त्रं धृतग्रैवेयकं कणम् ॥ २२४ ॥
सनकाद्यैः सिद्धविद्याधरगन्धर्वसेवितम् ॥
यजेन्नारायणे पीठे मूर्त्तिं मूलेन कल्पयेत् ॥ २२५ ॥
पूर्वेमङ्गानि सम्पूज्य वासुदेवादिहेतयः ॥
दिग्विदिक्षु च सम्पूज्यास्ततो द्वादशमूर्तयः ॥
केशवाद्याः समभ्यर्च्य लोकेशा आयुधैः सह ॥
एवं सम्पूज्य विधिवज्जपेद्द्वादशलक्षकम् ॥
तत्सहस्रं च कमलैर्जुहुयान्मधुरप्लुतैः ॥ २२६ ॥
तदभावे तिलैः शुद्धैर्जुहुयादाज्यसम्प्लुतैः ॥
तर्प्पणादि ततः कृत्वा प्रयोगानाचरेत्तथा ॥
क्षीरवृक्षसमिद्भिश्च होमः स्यात्पापमुक्तये ॥ २२७ ॥
दुग्धकाष्ठैः शमीमिश्रैः सहस्राण्ययुतानिच ॥
आज्येन हविषो होमाच्चित्तशुद्धिः प्रजायते ॥
पायसेन तिलैः शुद्धैः समिदाज्यैः सशालिभिः ॥
पृथगष्टसहस्राणि हुत्वाभीष्टमवाप्नुयात् ॥
नारायणोक्तान्निखिलान्प्रयोगानाचरेत्ततः ॥ २२८ ॥
अथातः सम्प्रवक्ष्यामि वासुदेवमनुं परम् ॥
तारं मायाद्वयं लक्ष्मीद्वयं लक्ष्मीपदं वदेत् ॥ २२९ ॥
वासुदेवाय हृदयं शक्रवर्णः स्मृतो मनुः ॥
ऋषिः प्रजापतिश्छन्दो गायत्री बीजकं ध्रुवः ॥ २३० ॥
देवो लक्ष्मीर्वासुदेवः शक्तिर्देवी प्रकीर्त्तिता ॥
द्विद्विद्वीषुद्विभिर्वर्णेस्ताराद्यैरङ्गकल्पनम् ॥ २३१ ॥
उद्यत्सौदामिनीकान्तिं नानाभूषणभूषितम् ॥
लक्ष्म्यालिङ्गनतश्चैकीभूतं चाङ्कगतां 2 हि ताम् ॥ २३२ ॥
पुस्तकं दर्प्पणं पद्मं रत्नकुम्भं रमां करैः ॥
दधतीं शङ्खचक्राब्जगदाहस्तं गदाधरम् ॥ २३३ ॥
द्वादशाक्षरवत्पूजा शक्रलक्षं जपो मतः ॥
दशांशं पङ्कजैर्होमो मधुरत्रयसंयुतैः ॥ २३४ ॥
पायसेन कृतो होमो लक्ष्मी वश्यप्रदो भवेत् ॥
मधुराक्तैस्तिलैर्हुत्वा सर्वकार्याणि साधयेत् ॥ २३५ ॥
अथातः सम्प्रवक्ष्यामि प्रद्युम्नमनुमद्भुतम् ॥
क्लीं प्रद्युम्नाय हृदयं मनुः सप्ताक्षरो मतः ॥ २३६ ॥
कामो मुनिर्विराट् छन्दः प्रद्युम्नश्चास्य देवता ॥
नियोगः समरे जेतुं कामयुद्धे तथा स्त्रियाः ॥ २३७ ॥
ध्यायेन्मधुवने देवं सर्वर्तुकुसुमावृते ॥
आलिङ्गितं प्रभावत्या नानारूपं सुभूषितम् ॥ २३८ ॥
शरचापधरं कान्तं कान्ताभिरपि वीक्षितम् ॥
गन्धर्वैरभितो गीतं प्रसन्नमुखपङ्कजम् ॥२३९॥
यजेत् पूर्वोदिते कामपीठे मन्त्रायुतं जपेत् ॥
शरत्काले वसन्ते वा दिनानामेकविंशतिम् ॥ २४० ॥
आद्यन्तयोः पूजनं स्याद् भोजयेद् दम्पतीयुगम् ॥
एवं सिध्यति मन्त्रोयं सर्वाभीष्टप्रदायकः ॥ २४१ ॥
सहस्रादिक कोट्यन्तं होमः कार्य्यो वशो भवेत् ॥
यक्षिण्यो वशगाश्चैव वश्यः स्याद् योगिनीगणः ॥ २४२ ॥
राजिकाभिः स्त्रियो वश्याः सर्प्पाः स्युर्गारुडीदलैः ॥
विप्राः पलाशकुसुमैः सेवन्तीभिर्नृपास्तथा ॥ २४३ ॥
वैश्याश्च चम्पकैः शूद्राः पुष्पैः सहचरोद्भवैः ॥
तुरुष्का यान्ति दासत्वं जयन्त्याः कुसुमैर्हुनेत् ॥ २४४ ॥
अथातः सम्प्रवक्ष्यामि चानिरुद्धमनुं तथा ॥
बाणरुद्धानिरुद्धाय मनोन्यस्मिन्मनोरथे ॥
उषाहृदयरुद्धाय कामरूपाय ते नमः ॥ २४५ ॥
वात्स्या यनो मुनिश्छन्दोनुष्टुब् देवो निरुद्धकः ॥
स्मरेदुषागृहे तं च चित्रलेखादिसंयुते ॥ २४६ ॥
पर्यङ्के सुखमासीनं नानालङ्कारभूषितम् ॥
आलिङ्गितप्रियोषं च स्त्रीकौतुकरमान्वितम् ॥ २४७ ॥
नमोन्तैः षट्पदैः कामबीजाद्यैः स्यात्षडङ्गकम् ॥
कामपीठे यजेद् देवं वर्णलक्षं जपेन्मनुम् ॥ २४८ ॥
घृताक्तः कामकुसुमैरभावे चूतसम्भवैः ॥
जुहुयान्मन्त्रराजस्य सिद्धितोस्य जगद्वशम् ॥ २४९ ॥
अयं लौकिकमार्गेण साधको निशि होमयेत् ॥
अष्टोत्तरसहस्रं तु तदा कुलवतो नृपाः ॥
दासीभूताः साधकस्य जपेदृतुमतीं यभेत् ॥ २५० ॥
अष्टोत्तरसहस्रं त भूतप्रेतपिशाचकाः ॥
प्रत्यक्षीभूय कार्याणि कुर्वते दासवच्चिरम् ॥ २५१ ॥
किञ्चिद्भक्ष्यन्तु तेभ्यश्च दद्यात्ते सर्वकारकाः ॥
अथ वक्ष्ये महामन्त्रं सौख्यदं पौरुषोत्तमम् ॥
मायारमातारकामबीजं हृत्पुरुषोत्तम ॥ २५२ ॥
आद्यानिरुद्धलक्ष्मीति निवाससकलेति च ॥
जगत्क्षोभण सर्व स्त्रीहृदयेति विदारण 3 ॥ २५३ ॥
ङेन्तं मनोन्मादकरं सुरासुरपदं वदेत् ॥
मनुजसुन्दरीत्युक्त्वा मनोन्मथमनांसि च ॥ २५४ ॥
तापयद्वितयं प्रोच्यद्विर्द्विर्दापय शोषय ॥
द्विर्मारय स्तम्भय द्विर्द्विर्नाशयपदं वदेत् 3 ॥ २५५ ॥
आकर्षयद्वयं प्रोच्य द्विरावेशय संवदेत् ॥
परमोक्त्वा च सुरभे सौभाग्यकर सर्व च ॥ २५६ ॥
कामप्रदेति चोच्चार्य चालक्ष्मीं हनयुग्मकम् ॥
चक्रेण गदया चेति खड्गेनेति समुच्चरेत् ॥ २५७ ॥
सर्वबाणैर्भिन्धिभिन्धि पाशेन त्रासयद्वयम् ॥
बन्धबन्धेत्यङ्कुशेन द्विस्त्रासय कुरुद्वयम् ॥ २५८ ॥
किन्तिष्ठसीति चोच्चार्य्य तावद्यावत्समीप्सितम् ॥
मे सिद्धं भवति क्लीं हुं फट् नमो ह्रीं रमां वदेत् ॥ २५९ ॥
कामङ्कामं कुशुभ्रांशुद्विवर्णोयं मनुर्मतः ॥
भेदानस्य प्रवक्ष्यामि कामनावर्णभेदतः ॥ २६० ॥
आदौ मायां तथान्ते च सप्तबीजानि वर्जयेत् ॥
ज्ञानदीक्षी च सन्न्यासी यस्तु केवलवैष्णवः ॥ २६१ ॥
मोहनार्थन्तु देवानां त्यजेदावरणद्वयम् ॥
स्तम्भयद्वितयं ब्रूयात्तथा सम्मोहयद्वयम् ॥ २६२ ॥
निष्कामो ह्रीं रमादौ तु न ब्रूयात्परमस्य च ॥
पूर्वं समस्तशब्दं च योजयेद्द्विधरेति च ॥ २६३ ॥
अनिष्टकरणार्थन्तु शत्रोर्नाम प्रयोजयेत् ॥
स्थाने लक्ष्म्या इति प्रोच्य भेदाश्चत्वार एव हि ॥ २६४ ॥
जैमिनिर्मुनिरेतेषां छन्दश्चामितमीरितम् ॥
त्रैलोख्यमोहनो नाम देवता पुरुषोत्तमः ॥ २६५ ॥
ॐक्लीम्पूर्वाणि हुम्फट् च नमोन्तानि प्रविन्यसेत् ॥
षडङ्गेषु पदान्यत्र वदेच्च पुरुषोत्तम ॥ २६६ ॥
त्रिभुवनोन्मादकर हृदये परिकीर्तितम् ॥
सकलजगत्क्षोभणेति लक्ष्मीदयित शीर्षके ॥ २६७ ॥
शिखायां स्यान्मन्मथोत्तमाङ्गज कामदीपन ॥
कवचं स्यात्परमसुभगसर्वपदं वदेत् ॥ २६८ ॥
सौभाग्यकराप्रतिमरूप केशव संस्मरेत् ॥
अत्रैव कवचान्ते तु न्यसेदस्त्रं सुरासुर ॥ २६९ ॥
सुन्दरीं मनुजेत्युक्त्वा हृदयेति विदारण ॥
सर्वप्रहरणेत्युक्त्वा धर सर्वमनांसि वा ॥ २७० ॥
हनद्वयं च हृदयं धनान्याकर्षयद्वयम् ॥
महानन्तेति चास्यान्ते नेत्रे मं फट् च कीर्त्यते ॥ २७१ ॥
भुवनेश्वर सर्वज्ञ वदेज्जनमनांसि च ॥
हनयुग्मं दारयद्विर्मे विद्यां वशमानय ॥ २७२ ॥
नेत्रमन्त्रः समाख्यातस्तथाङ्गुष्ठादिषु न्यसेत् ॥
कनिष्ठयोर्नेत्रमनुमस्त्रं तु करपृष्ठयोः ॥ २७३ ॥
तत्त्वन्यासं ततः कुर्य्याद्वासुदेवस्य भूतिदम् ॥
न्यसेत्कराङ्गुलिषु च कामबीजानि शक्तिकाः ॥ २७४ ॥
द्रां द्राविणीं तथा कामं क्षोभिणीं द्रीं च मन्मथाम् ॥
वशीकरां क्लीं कन्दर्प्पं क्लीं बीजम्मकरध्वजम् ॥ २७५ ॥
आकर्षिणीं चाथ मीन केतुं सम्मोहिनीं च सः ॥
कामबीजप्रपुटितं मातृकान्यासमाचरेत् ॥ २७६ ॥
पूर्वोक्तकाममन्त्रार्णैः स्थितिन्यासं समाचरेत् ॥
विन्यसेन्मातृकान्यासं पूर्वोक्तं च ततश्चरेत् ॥ २७७ ॥
ततः श्रीकरविष्णूक्ततत्त्वन्यासं समाचरेत् ॥
संहाराख्यं च सृष्ट्याख्यं स्थानेष्वेतेषु च क्रमात् ॥ २७८ ॥
पार्श्वद्वये नाभिलिङ्गगुदेषूरुद्वये तथा ॥
जानुनोर्गुल्फयोः सर्वाङ्गुलिष्विति ततः क्रमात् ॥ २७९ ॥
ततश्च वासुदेवोक्तमन्त्रन्यासान्समाचरेत् ॥
संहारसृष्टिस्थित्याख्यांस्तथा नारायणोदितम् ॥ २८० ॥
मूर्त्तिपञ्जरविन्यासङ्गायत्रीन्यासमाचरेत् ॥
प्रतिवर्णं प्रकुर्वति तां गायत्रीमथो शृणु ॥
सिद्ध्यन्ति सर्वकार्य्याणि जपाद्विष्णुप्रसादतः ॥ २८१ ॥
त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि ॥
तन्नो विष्णुः प्रचोदयात् ॥ २८२ ॥
शीर्षे भाले नेत्रयोश्च दक्षदोर्मूलमध्ययोः ॥
मणिबन्धाङ्गुलीमूले चाङ्गुल्यग्रे प्रविन्यसेत् ॥ २८३ ॥
एवं दक्षोरुमूले च जानुगुल्फाङ्गुलीतले ॥
अङ्गुल्यग्रे तथा वामे भुजमूलादिके न्यसेत् ॥ २८४ ॥
ततः पुनश्च पूर्वोक्तषडङ्गद्वादशाङ्गकान् ॥
न्यासान्कुर्य्यात्तथा कामबाणन्यासमतः परम् ॥ २८५ ॥
श्रीं स्वं श्रिये नमश्चोक्त्वा वामोरौ तु प्रविन्यसेत् ॥
स्वां लक्ष्म्यै च नमः के स्वीं सरस्वत्यै नमो मुखे ॥ २८६ ॥
स्वूं रत्यै च नमः कण्ठे स्वें प्रीत्यै लिङ्गके नमः ॥
ककुदि स्वैं नमः कीर्त्त्यै स्वौं कान्त्यै च नमो हृदि ॥ २८७ ॥
स्वं तुष्ट्यै च नमो नाभौ स्वः पुष्ट्यै च नमोङ्गके ॥
ततश्च मूलमन्त्रेण प्राग्वद्व्यापकमाचरेत् ॥ २८८ ॥
आयुधानि यथास्थानं तत्त्वमुद्रादिकं न्यसेत् ॥
कामबीजैर्न्यसेत्पश्चाच्छ्रीवत्सं कौस्तुभं तथा ॥ २८९ ॥
वनमालां ततः पश्चादृष्यादिन्यासमाचरेत् ॥
ऊर्ध्वाङ्गुष्ठौ त्वथाश्लिष्टौ मूर्त्तिमूर्द्धनि योजयेत् ॥ २९० ॥
त्रैलोक्यमोहनाख्योयं मन्त्रस्तं मूर्ध्नि धारयेत् ॥
एवं न्यस्य शरीरादौ ध्यायेच्छ्रीपुरुषोत्तमम् ॥ २९१ ॥
उदयार्कसहस्राभं गरुडो परिसंस्थितम् ॥
सर्वाङ्गसुन्दरं सौम्यं सर्वाभरणभूषितम् ॥ २९२ ॥
सुरासुरनुतं शश्वत्स्त्रीभिश्चैव समावृतम् ॥
चक्रं शङ्खं धनुः खड्गङ्गदां मुसलमङ्कुशम् ॥ २९३ ॥
पाशं च बिभ्रतं दोर्भिर्वामाङ्गस्थितया श्रिया ॥
सर्वभूषाढ्यया पद्मकरयालिङ्गितं स्मरेत् ॥ २९४ ॥
पीठमध्ये तु देवस्य गरुडं परिपूजयेत् ॥
पक्षिराजायस्वाहेति तस्य पूजामनुर्मतः ॥ २९५ ॥
ततो देवं समावाह्य दद्यात्पुष्पाञ्जलिं ततः ॥
तद्वामोरौ पूजनीया मन्त्रिणा श्रीः श्रिये नमः ॥ २९६ ॥
देवाग्रादिचतुर्दिक्षु कोणेषु पुरतस्तथा ॥
क्रमादभ्यर्च्चयेदङ्गषट्कं स्यात्प्रथमावृतिः ॥ २९७ ॥
अष्टभिश्चापि चक्राद्यैरायुधैरपरावृतिः ॥
तृतीयावरणे लक्ष्मीवाग्रतिप्रीतिकीर्त्तयः ॥ २९८ ॥
कान्तिस्तुष्टिश्च पुष्टिश्च पूज्या अथ चतुर्थके ॥
इन्द्राद्यांश्चापि वज्रादीन्पञ्चमे चेति पूजनम् ॥ २९९ ॥
ततः पुष्पाञ्जलिं दद्यात्तत्तन्यासोक्तनामभिः ॥
आदौ क्लीमत्र त्रैलोक्यमोहनाय ततो वदेत् ॥ ३०० ॥
ततो लज्जारमाकामबीजाद्यैः पञ्चनामभिः ॥
नमोन्तैः पञ्च पुष्पाणामञ्जलींश्च समर्प्पयेत् ॥ ३०१ ॥
पुरुषोत्तहृषीकेशौ विष्णुश्रीधर रामकाः ॥
पञ्च नामानीति चात्र पुरुषोत्तपूजने ॥ ३०२ ॥
चतुर्लक्षं जपेन्मन्त्रं हुनेदर्कसहस्रकम् ॥
बिल्वैर्वा कमलैः पश्चात्तर्प्पणाद्यैर्भवेन्मनुः 4 ॥ ३०३ ॥
सिद्धः प्रयोगान्कुर्वीतायुतं प्रातर्जपेन्मनुम् ॥
समस्ताधौ प्रजुहुयादष्टोत्तरसहस्रकम् ॥ ३०४ ॥
सम्यग्ज्योतिष्मतीतैलेनारोगो बुद्धिमान्भवेत् ॥
समूलकाण्डां शिरसि दद्यादञ्जलिनीं तु यः ॥
अष्टाधिकशतं जप्त्वा सर्वलोकप्रियो भवेत् ॥ ३०५ ॥
अश्वमारप्रसूनैश्च सम्पूज्य पुरुषोत्तमम् ॥
अष्टाधिकसहस्रं तु कुमुदैर्जुहुयात्ततः ॥
राजानो वशगाः सर्वे मासमात्रान्न संशयः ॥ ३०६ ॥
मालतीपुष्पहोमेन तद्वद्वैश्यान्नयेद्वशम् ॥
पलाशपुष्पहोमेन प्राग्वद्विप्राश्च वश्यकाः ॥ ३०७ ॥
अभिवाञ्छति यां योषां तस्या नामायुतं मनुम् ॥
जपेत्पक्षं प्रतिदिनं चाष्टाधिकसहस्रकम् ॥
दिनादौ सा वशीभूयाद्दास्यस्मीत्यादिवादिनी ॥ ३०८ ॥
चौरापहृतवित्तस्तु साष्टाधिकसहस्रकम् ॥
अश्वत्थोत्थसमिद्भिस्तु हुनेत्पक्षत्रयं यमी ॥ ३०९ ॥
अथवा कटुतैलेन त्रिपक्षान्तं क्रमाद्धुनेत् ॥
अथ वार्णसहस्रं तु प्रजपेन्मनुमन्वहम् ॥
चौरो याति धनं दत्त्वा प्रणम्य स्वगृहं प्रति ॥ ३१० ॥
सहस्रजप्तं मनुना त्वमुना मनुजास्थि च ॥
निखातं शत्रुसदने शत्रुमुच्चाटयेद्ध्रुवम् ॥ ३११ ॥
राजिकाष्टशतं जप्ता निखाता शत्रुमन्दिरे ॥
क्रूर वारे च लग्नेपि शत्रुमुच्चाटयेद्ध्रुवम् ॥ ३१२ ॥
हयारिकुसुमं चापि पक्षयोरुभयोरयि ॥
शुक्लं रक्तं केशयुक्तं रिपुमुच्चाटयेद्ध्रुवम् ॥ ३१३ ॥
षण्मासं जुहुयाद्रात्रौ कलिद्रुमसमिद्वरैः ॥
रिपुर्निधनमायाति साष्टाधिकसहस्रतः ॥ ३१४ ॥
मासषट्कं हुनेदर्कसमिद्भिश्च सहस्रकम् ॥
यद्वा ज्योतिष्मतीतैलं हुनेदष्टसहस्रकम् ॥ ३१५ ॥
शत्रुर्मरणमाप्नोति सर्वो मासचतुष्टयात् ॥
मन्त्री विविक्ते भूदेशे जपहोमार्चने रतः ॥ ३१६ ॥
अङ्कोलाज्यं सहस्रं तु हुनेन्मासत्रयावधि ॥
ततः पूर्वाच्च मध्याह्ने पावकाच्चन्द्रसन्निभा ॥ ३१७ ॥
प्रादुर्भवेच्च गुटिका यस्तामभ्यर्च्य धारयेत् ॥
अनेनैवाथ शिरसि स भवेत्खेचरः सदा ॥ ३१८ ॥
अदृश्यः सिद्धसङ्घैश्च तथा स्वर्णादिधातुकृत् ॥
आज्याक्ताभिश्च दूर्वाभिर्होमो भयविनाशकः ॥ ३१९ ॥
यस्य नामयुतं मन्त्रं जपेदयुतसङ्ख्यया ॥
शमयेदापदस्तस्य नात्र कार्य्या विचारणा ॥ ३२० ॥
इमं मन्त्रं जपेद्भूयः समस्तैश्वर्य्यवान्भवेत् ॥
अयं मनुवरो गोप्यो न देयः पापिने क्वचित् ॥ ३२१ ॥
अथातः सम्प्रवक्ष्यामि मन्त्रं श्रीपुरुषोत्तमम् ॥
तारं मारं रमां ङेन्तं वदेच्च पुरुषोत्तमम् ॥ ३२२ ॥
हुं फट् स्वाहेति मन्त्रोयं विश्ववर्णः प्रकीर्त्तितः ॥
ब्रह्मा मुनिश्च गायत्री छन्दोसौ पुरुषोत्तमः ॥ ३२३ ॥
देवता कीर्त्तितश्चास्य नियोगोभीष्टसिद्धये ॥
भूभूभूषड्द्विद्विवर्णैः षडङ्गविधिरीरितः ॥ ३२४ ॥
संस्मरेत्सरमं विष्णुं रक्तवर्णं चतुर्भुजम् ॥
शङ्खचक्रोत्पलगदाधारिणं पुरुषोत्तमम् ॥ ३२५ ॥
पूर्वोदिते यजेत्पीठे प्राग्वदङ्गानि चार्चयेत् ॥
वासुदेवादीनि दिक्षु शक्तीर्वै कोणगा यजेत् ॥ ३२६ ॥
नारायणोक्तशङ्खादीन्पार्षदान्कुमुदादिकान् ॥
दिगीशांश्च तदस्त्राणि प्राग्वत्षड्वर्णपूजनम् ॥ ३२७ ॥
वर्णलक्षं जपेन्मन्त्रं सहस्रं पङ्कजैर्हुनेत् ॥
तर्प्पणादि ततः कृत्वा मन्त्रसिद्धिः प्रजायते ॥ ३२८ ॥
ततः प्रयोगानखिलान्पूर्वमन्त्रोदितांश्चरेत् ॥
अथातः सम्प्रवक्ष्यामि मन्त्रमाधोक्षजं वरम् ॥
रमा तारं ह्रियं कामं हृद् ङेन्तस्स्यादधोक्षजः ॥ ३२९ ॥
दशार्णोयं मुनिब्रह्मा पङ्क्तिश्छन्दः समीरितम् ॥
साधकानां कामदायी देवता स्यादधोक्षजः ॥ ३३० ॥
षड्भिः पदैः षडङ्गानि ध्यायेद्देवमनन्यधीः ॥
शङ्खचक्रगदापद्मपाणिं पीताम्बरावृतम् ॥ ३३१ ॥
मेघश्यामं सुरुचिरं गरुडासनसंस्थितम् ॥
वासुकिप्रमुखैर्नागैः सेवितं रमया युतम् ॥ ३३२ ॥
यजेच्च वैष्णवे पीठे षडङ्गानि प्रपूजयेत् ॥
सनकादीन्नारदं च जयं च विजयं तथा ॥ ३३३ ॥
अग्रतश्चापि पक्षीन्द्रं तद्बाह्येष्टदले यजेत् ॥
नागाष्टकं दिगीशांश्च भूपुरे हेतिसंयुतान् ॥ ३३४ ॥
पञ्चलक्षं जपेन्मन्त्रं तिलाज्यैरयुतं हुनेत् ॥
तर्प्पणादि ततः कृत्वा सहस्रं भोजयेद्द्विजान् ॥ ३३५ ॥
एवं सिद्धमनुर्मन्त्री दशधा मन्त्रितं जलम् ॥
विषार्त्ताय च सर्प्पादिदष्टकाय प्रदापयेत् ॥ ३३६ ॥
तत्कालं निर्विषोसौ स्यात्सेवते तज्ज्लं यदि ॥
कुष्ठादिकगदैर्युक्तो मुच्यते नात्र संशयः ॥ ३३७ ॥
अथातः सम्प्रवक्ष्यामि नृसिंहमनुमद्भुतम् ॥
तारं 5 लक्ष्मीं च हृल्लेखां जयलक्ष्मीप्रियाय च ॥
नित्यप्रमुदितेत्युक्त्वा चेतसे प्रवदेत्ततः ॥ ३३८ ॥
लक्ष्मीश्रितार्धदेहाय रमां लज्जां नमोनमः ॥
त्रिरामवर्णौ मन्त्रोयं मुनिर्ब्रह्मा समीरितः ॥
छन्दोतिजगती देवो नृहरिः शक्तिरद्रिजा ॥ ३३९ ॥
रमाबीजं षडङ्गानि श्रीबीजेन प्रकल्पयेत् ॥ ३४० ॥
क्षीराब्धौ संस्मरेद्देवमग्रे च वसुवेष्टितम् ॥
रुद्रैश्च दक्षिणे भागे शङ्खचक्रगदाम्बुजान् ॥
हस्तैर्दधानं सर्प्पस्य फणाचित्रविराजितम् ॥ ३४१ ॥
पीताम्बरधरं त्र्यक्षं नीलकण्ठं रमान्वितम् ॥
वर्षाहतुल्यसाहस्रं जपोऽस्य परिकीर्त्तितः ॥ ३४२ ॥
मध्वक्तैर्मल्लिकापुष्पैर्होमयेत्तद्दशांशतः ॥
तर्प्पणादि ततः कुर्य्यादङ्गैः स्यात्प्रथमावृतिः ॥ ३४३ ॥
भास्वती भास्करी चिन्ता द्युतिरुन्मीलिनी रमा ॥
कान्ती रुचिश्चाष्टपत्रे भूपुरे दिव्यहेतयः ॥ ३४४ ॥
एवं सिद्धमनुर्मन्त्री प्रयोगानाचरेत्ततः ॥
मल्लिकाकुसुमैर्होमश्चायुतं त्विष्टदायकः ॥ ३४५ ॥
अन्यानपि प्रयोगांश्च कुर्य्यादष्टार्णकोदितान् ॥ ३४६ ॥
अथातः सम्प्रवक्ष्यामि नृसिंहमभयप्रदम् ॥
तारो 6 नमो भगवते नरसिंहाय हृद्वदे ॥ ३४७ ॥
तेजस्तेजस आभाष्याथाविराविर्भवेति च ॥
वज्रनख वज्रदंष्ट्र ततः कर्म्माशयान्वदेत् ॥ ३४८ ॥
रोधय द्वितयं पश्चात्तमो ग्रसयुगं वदेत् ॥
स्वाहां तथाभयं चात्मनि भूयिष्ठा ध्रुवं वदेत् ॥ ३४९ ॥
नृसिंहबीजमथ च द्विषष्ट्यर्णो मनुर्मतः ॥
शुकदेवो मुनिः प्रोक्तोऽमितं छन्दश्च देवता ॥ ३५० ॥
अभयाख्यो नारसिंहो ध्यानपूजादिकं भवेत् ॥
दशावतार नृहरेस्तुल्यं लक्षमितो जपः ॥ ३५१ ॥
अथातः सम्प्रवक्ष्यामि जनार्द्दनमनुं परम् ॥
जं जनार्द्दनाय नमो मन्त्रश्चाष्टाक्षरो मतः ॥
ब्रह्मा ऋषिरनुष्टुप् चच्छन्दो देवो जनार्द्दनः ॥ ३५२ ॥
जम्पूर्वकैर्नमोन्तैश्च पञ्चार्णैरङ्गपञ्चकम् ॥
वराभये चक्रगदे दधतं पीतवाससम् ॥ ३५३ ॥
आलिङ्गितञ्च रमया नारदाद्यैरभिष्टुतम् ॥
अस्य पूजाप्रयोगादि जपहोमादिकं भवेत् ॥ ३५४ ॥
नारायणाष्टार्णवच्च विशेषात्पितृतोषकृत् ॥
तत्पुत्रस्य च लोकोस्ति पौरुषोयं मनूत्तमः ॥
तथा संसेविते मुक्तिराजन्मब्रह्मचारिभिः ॥ ३५५ ॥
अथातः सम्प्रवक्ष्यामि गतराज्यप्रदायकम् ॥
उपेन्द्रमन्त्रं प्रणवमुमुपेन्द्राय हृन्नमः ॥ ३५६ ॥
दशाक्षरो मनुश्चास्य मुनिः कश्यप उच्यते ॥
पङ्क्तिश्छन्द उपेन्द्रस्तु देवो बीजं तथा स्मृतम् ॥ ३५७ ॥
पृथक्पदैः समस्तेन षडङ्गविधिरीरितः ॥
ध्यानपुजाप्रयोगाद्यं बलिवामनवद्भवेत् ॥ ३५८ ॥
अथातः सम्प्रवक्ष्यामि हरिमन्त्रमभीष्टदम् ॥
हरये नम इत्येष मन्त्रः पञ्चाक्षरोमतः ॥ ३५९ ॥
समस्तपापौघवनदहने वडवानलः ॥
श्रीबीजाद्यस्तु दारिद्र्ये सर्वनाशाय पक्षिराट् ॥ ३६० ॥
लज्जाबीजादिकश्चायं भुक्तिमुक्तिप्रदायकः ॥
ऐंसमन्वितमन्त्रोयं द्रुतं विद्याप्रदायकः ॥ ३६१ ॥
स एव प्रणवाद्यस्स्यादज्ञानेन्धनपावकः ॥
जपन्कामादिकं तत्र मोहयेद्धनिनां गणान् ॥ ३६२ ॥
वाग्बीजपूर्वकं जप्त्वा वाक्सिद्धिं समवाप्नुयात् ॥
हूङ्कारपूर्वकं जप्त्वा समरे विजयी भवेत् ॥ ३६३ ॥
तारपूर्वं जपित्वा तं द्रुतं प्राप्नोति वाञ्छितम् ॥
कामपूर्वं च जपतो वंशः कश्यपवद्भवेत् ॥ ३६४ ॥
सर्वेषामेव छन्दस्तु गायत्री नारदो मुनिः ॥
हरिर्देवस्त्वाद्यपदं बीजशक्ती मनोर्मते ॥ ३६५ ॥
हकाराद्यैः पञ्चवर्णैरखिलेन षडङ्गकम् ॥
मेघश्यामं सुनयनं काकपक्षविराजितम् ॥ ३६६ ॥
राधिकादिप्रियायुक्तं पय्यटन्तं वनेवने ॥
विचित्रपरिधिं वंशीं दधतं वामदक्षयोः ॥ ३६७ ॥
अथ कृष्णोक्तवत्पूजा जपो लक्षाष्टको मतः ॥
होमः पञ्चामृतेनाथ प्रयोगोस्य निगद्यते ॥ ३६८ ॥
यस्मिन्कार्य्ये तु यो मन्त्रो गदितः कार्य्यगौरवात् ॥
एकायुतादिपञ्चान्तं पुरश्चरणवज्जपेत् ॥ ३६९ ॥
अथ वक्ष्येऽयोनिजस्य कृष्णस्य मनुमद्भुतम् ॥
कामो गोवल्लभो ङेन्तो मोहिताखिलयोषितम् ॥ ३७० ॥
भूषितं नूपुराद्यैश्च श्यामलं पञ्चवार्षिकम् ॥
काकपक्षधरं नानाकेलिकौतुककारकम् ॥ ३७१ ॥
कर्णिकायां यजेद्देवं दलमध्ये यजेदिमान् ॥
वासुदेवं रुक्मिणीं च तथा सङ्कर्षणाभिधम् ॥ ३७२ ॥
सत्यभामां च प्रद्युम्नं लक्ष्मणामनिरुद्धकम् ॥
जाम्बवतीं च तद्बाह्ये भूपुरे दिक्पतीनथ ॥ ३७३ ॥
तदायुधानि च ततो जपेल्लक्षाष्टकं मनुम् ॥
ब्रह्मवृक्षसमिद्भिश्च हुनेदष्टसहस्रकम् ॥ ३७४ ॥
तप्प्णादि ततः कृत्वा मन्त्रसिद्धिः प्रजायते ॥
विदधीत प्रयोगांश्च पूर्वान्कृष्णमनूदितान् ॥ ३७५ ॥
मूर्तीनां मनवश्चैते मया प्रोक्ताः सुसिद्धिदाः ॥
उक्ताः केचिच्च तन्त्रेषु वक्तव्यं किमतः परम् ॥ ३७६ ॥
इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते चतुर्विंशतिमूर्तिमनुकथनं नाम सप्तविंशः प्रकाशः ॥ २७ ॥
-
रमयतीति रमा ताम् सुन्दरीमिति यावत् ॥ ↩︎
-
पश्यन्तमिति शेषः ॥ ↩︎
-
इदमुत्तरान्वयि ॥ ↩︎
-
ॐ श्रीं ह्रीं जयलक्ष्मीप्रियाय नित्यप्रमुदितचेतसे लक्ष्मीश्रितार्धदेहाय श्रीं श्रीं नमोनमः । ↩︎
-
नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ठ्र कर्माशयान् रोधयरोधय तमो ग्रसग्रस स्वाहा अभयमात्मनि भूयिष्ठाः ॐ क्ष्रौम् ॥ ↩︎